Vishnutattvavinirnaya/Ullekha
उल्लेखसूची — विष्णुतत्त्वविनिर्णयः
इस ग्रन्थे उद्धृतानि प्रमाणस्थानानि — 36 स्रोताः
Aitareyabrahmana
2 उद्धरणानि
- ‘तद्योहं सोसौ योसौ सोहम्’(ऐ.ब्रा.आ-२,अ-२,ख-४.१२)
- ‘अः इति ब्रह्म तत्रागतमहमिति’(ऐ.ब्रा.२.३.८)
Bhagavadgeeta
11 उद्धरणानि
- ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ - ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ - ‘यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ - ‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ - ‘इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥’(भा.गी.१५.१६-२०) - ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात् पार्थ मय्यावेशितचेतसाम् ॥’(भ.गी.१२.७) - यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ॥(भ.गी.१५.१९) - ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥(भ.गी.१६.८) - एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥’(भ.गी.१६.९) - ‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥’(भ.गी.१८.२०) - इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’(भ.गी.१४.२)
Brahmandapurana
9 उद्धरणानि
- ‘वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया ।
अवान्तराभिमानानां देवानां वा व्यपेक्षया ॥
नानित्यत्वात् कुतस्तेषामनित्यत्वं स्थिरात्मनाम् ॥’ - ‘नित्यपूर्णाखलिगुणो विदोषः सर्वदैव यः ।
स्वतन्त्रः स परो (परमो) विष्णुर्जन्ममृत्यादिवर्जितः ॥’ - ‘निर्दोषश्चेत् कथं विष्णुर्मानुषेषूदपद्यत ।
चिन्ताश्रमव्रणाज्ञानदुःखयुग् दृश्यते कथम् ॥ - एष मे संशयो ब्रह्मन् हृदि शल्य इवार्पितः ।
अनुद्धार्योऽपरैर्मत्यैः सूक्तिशक्त्या तमुद्धर ॥ - स्त्रीपुंमलाभियोगात्मदेहो विष्णोर्न जायते ।
किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् ॥ - प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा ।
तथाऽप्यसुरमोहाय परेषां च क्वचित् क्वचित् ॥ - दुःखाज्ञानभ्रमादीन् स दर्शयेच्छुद्धसद्गुणः ।
क्व व्रणादि क्व चाज्ञानं स्वतन्त्राचिन्त्यसद्गुणे ॥ - दोर्लभ्यायैव मौक्षस्य दर्शयेत् तान्यजो हरिः ।
मिथ्यादर्शनदोषेण तेन मुक्तिं न यान्ति च ॥ - तमो यान्ति च तेनैव तस्माद्दोषविवर्जितम् ।
प्रादुर्भावगतं चैव जानीयाद्विष्णुमञ्जसा ॥’
Brahmasutra
6 उद्धरणानि
- ‘स्वात्मना चोत्तरयोः’(ब्र.सू.२.३.२१)
- ‘द्युभ्वाद्यायतनं स्वशब्दात्’(ब्र.सू.१.३.१)
- ‘नानुमानमतच्छब्दात्’(ब्र.सू.१.३.३)
- ‘प्राणभृच्च’(ब्र.सू.१.३.४)
- ‘ओं जगद्य्वापारवर्जम् ओं’(ब्र.सू.४.४.१७)
- ‘ओं प्रकरणादसन्निहितत्वाच्च ओं’(ब्र.सू.४.४.१८)
Brahmatarka
4 उद्धरणानि
- अभिन्नत्वमभेदश्च यथा भेदविवर्जितम् ।
व्यवहार्यं पृथक् च स्यादेवं सर्वे गुणाः हरेः ॥ - अभेदाभिन्नयोर्भेदा यदि वा भेदभिन्नयोः ।
अनवस्थितिरेव स्यान्न विशेषणतामतिः ॥ - मूलसम्बन्धमज्ञात्वा तस्मादेकमनन्तधा ।
व्यवहार्यं विशेषेण दुस्तर्कबलतो हरेः ॥
विशेषोऽपि स्वरूपं स स्वनिर्वाहकताऽस्य च ॥’ - ‘देशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यता ।
इत्यादिषु स्वसम्बन्धो यथैव गुणरूपिणः ॥
गुणित्वं गुणभोक्तृत्वं स्याद् विष्णोस्तच्च स स्वयम् ॥’
Brihadaranyakopanishat
8 उद्धरणानि
- ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेत् तत् केन कं विजानीयात् येनेदं सर्वं विजानाति तं च केन विजानीयात् विज्ञातारमरे केन विजानीयात्’(बृ.उ.४(२).४.१४)
- ‘अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा’(बृ.उ.६.५.१३(४.५.१४))
- ‘अत्रैव मा भगवान् मोहान्तमापिबन्’(बृ.उ.६.५.१३(४.५.१४))
- ‘न प्रेत्य सञ्ज्ञाऽस्ति’(बृ.उ.६.५.१२(४.५.१३))
- ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्’(बृ.उ.४(२).४.१४)
- ‘विज्ञातारमरे केन विजानीयाद्’(बृ.उ.४(२).४.१४)
- ‘न तु तद् द्वितीयमस्ति’(बृ.उ.६(४).३.२३)
- ‘ततोऽन्यद्विभक्तं यत्पश्येत् (यत्ततोऽन्यत् विभक्तत्वेनैव पश्येत्)’(बृ.उ.६(४).३.२३)
Bruhadaranyakabrahmana
1 उद्धरणानि
- ‘तस्योपनिषदहमिति’(बृ.ब्रा.५)
Bruhadaranyakopanishat
2 उद्धरणानि
- ‘तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यं तेषामेष सत्यम् ।’(बृ.उ.४.१.२० )
- ‘अहं ब्रह्मास्मि’(बृ.उ.३.५.४ )
Chandogyopanishat
40 उद्धरणानि
- ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’(छां.उ.७.१.४)
- ‘स यथा शकुनिः सूत्रेण प्रबद्धः दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयते ।’(छां.उ.६.८.२)
- ‘सन्मूलाः सोम्येमाः सर्वा प्रजा सदायतनाः सत्प्रतिष्ठाः’ (छां.उ.६.८.४)
- ‘यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति । ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वा प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् भवन्ति तत्तदा भवन्ति।’(छां.उ.६.९.१-३)
- ‘इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति । स समुद्र एव भवति । ता यथा तत्र (न विवेकं लभन्ते) न विदुरियमहमस्मीयमहमस्मीति । एवमेव खलु सोम्येमाः सर्वाः प्रजा सत आगम्य न विदुः सत आगच्छामहे इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति।’ (छां.उ.६.१०.१-२)
- ‘...स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति । अस्य यदैकां शाखां जीवो जहाति अथ सा शुष्यति...’ (छां.उ.६.११.१-२)
- ‘न्यग्रोधफलमत आहरेति इदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीति अण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति । तं होवाच यं वै सोम्यैतमणिमानं न निभालयसे एतस्य वै सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति..’ (छां.उ.६.१२.१-२)
- लवणमेतदुदकेऽवधाय मा प्रातरुपसीदथा इति । तद्ध तथा चकार । तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति । तद्धावमृश्य न विवेद ।
यथा विलीनमेवाङ्ग अस्यान्तादाचामेति । कथमिति । लवणमिति । मध्यादाचामेति । कथमिति । लवणमिति । अन्त्यादाचामेति । कथमिति । लवणमिति । अभिप्रास्यैतदथ मोपसीदथा इति । तद्ध तथा चकार । तच्छश्वत् संवर्तते । तं होवाच अत्र वाव किल (त)सत्सोम्य न निभालयसेऽत्रैव किलेति’ (छां.उ.६.१३.१-२) - ‘यथा सोम्य पुरुषं गन्धारेभ्योभिनद्धाक्षमानीय तं ततोतिजने विसृजेत्....’ (छां.उ.६.१४.१)
- ‘अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावन्न विजानाति’ (छां.उ.६.१५.२)
- ‘पुरुषं सोम्योतं हस्तगृहीतमानयन्ति अपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोनृताभिसन्धोनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यते अथ हन्यते अथ स यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते । स सत्यभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यते अथ मुच्यते’ (छां.उ.६.१६.१-२)
- ‘सति सम्पद्य न विदुः सति सम्पत्स्यामह इति । त इह व्याघ्रो वा सिंहो वा’(छां.उ.६.९.२)
- ‘सत आगम्य न विदुः सत आगच्छाम इहे इति । त इह व्याघ्रो वा सिंहो वा’(छां.उ.६.१०.२)
- ‘ताः समुद्रात् समुद्रमेवापियन्ति स समुद्र एव भवति’(छां.उ.६.१०.१)
- ‘स्वं ह्यपीतो भवति’(छां.उ.६.८.१)
- ‘ सन्मूलाः सोम्येमाः सर्वा प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छां.उ.६.८.४)
- ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’(छां.उ.६.३.२)
- ‘स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति’(छां.उ.६.११.१)
- ‘तत्तेज ऐक्षत’(छां.उ.६.२.३)
- ‘ता आप ऐक्षन्त’ (छां.उ.६.२.४)
- ‘इमास्तिस्रो देवता’ (छां.उ.६.३.२)
- ‘अनेन जीवेनात्मना’ (छां.उ.६.३.२)
- ‘जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति’(छां.उ.६.११.१)
- ‘जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते’(छां.उ.६.११.३)
- ‘ब्रह्मणा त्यक्तदेहस्तु मृत इत्युच्यते नरः’
- ‘यं वै सोम्य एतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न (अस्य सोम्यैषोणिम्न) एवं महान् न्यग्रोधस्तिष्ठति’(छां.उ.६.१२.२)
- ‘स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो’(छां.उ.६.१२.३)
- ‘अण्व्य इवेमा धाना’(छां.उ.६.१२.१)
- ‘सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय’(छां.६.१.२)
- ‘तद्धैक आहुरसदेवेदमग्र आसीत्’(छां.उ.६.२.१)
- ‘सदेव सोम्येदमग्र आसीत्’(छां.उ.६.२.१)
- ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्’ (छां.उ.६.१.४)
- ‘यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्’(छां.उ.६.१.५)
- ‘यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’(छां.उ.६.१.६)
- ‘वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छां.उ.६.१.४)
- ‘कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः’(ई.उ.८),
- ‘योसावादित्ये(य एव आदित्ये) पुरुषः(पुरुषो दृष्यते) सोऽहमस्मि स एवाहमस्मि’(छां.४.११.१)
- ‘परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ।’(छां.उ.८.३.४)
- ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाज्ञातिभिर्वा’(छां.उ.८.१२.३)
- ‘एकमेवाद्वितीयं तत् ’(छां.उ.६.१)
Kathakopanishat
1 उद्धरणानि
- ‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’(कठ.१.२.९)
Kathopanishat
5 उद्धरणानि
- ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥’(कठ.१.२.२३) - ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’(कठ.उ.२.१.१५)
- ‘नेह नानास्ति किञ्चन’(कठ.२.१.११)
- ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति।’ (कठ.२.१.१०)
- ‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यन् तानेवानु विधावति ॥(कठ.२.१.१४)’
Krishnayajurvedataittiriyaaranyaka
1 उद्धरणानि
- ‘कामेन मे काम आगात् । हृदयात् हृदयं मृत्योः । यदमीषामदः प्रियः तदैतूप मामभि ॥’(कृ.य.तै.आ.३.१५)
Mahabaharata
1 उद्धरणानि
- ‘अनित्यत्वात् सदुःखत्वान्न धर्माद्याः परं सुखम् ।
मोक्ष एव परानन्दः संसारे परिवर्तताम् ॥’
Mahabharata
4 उद्धरणानि
- (शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥म.भा.१२.१९४.१८)‘सुखस्य चाप्यायतनं शरीरं दुःखस्य चाप्यायतनं शरीरम् ।
अचेतनं प्राकृतमेतदाहुर्भोक्ता तयोश्चेतनकः शरीरी ॥’ - ‘ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।
शास्त्रतत्त्वमविज्ञाय तथा वादबलाज्जनाः ॥
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
ब्रह्मस्तेना निरानन्दा अपक्वमनसोशिवाः ।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
तेषां तमःशरीराणां तम एव परायणम् ।
यतः स्वरूपतश्चान्यो जातितः श्रुतितोर्थतः ॥
कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः ॥’ - ‘मग्नस्य हि परेज्ञाने किं न दुःखतरं भवेत् ।’(म.भा.१२.३०७.८३)
- उद्यतायुधदोर्दण्डाः पतितास्वशिरोक्षिभिः ।
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ॥’
Mahanarayanopanishat
1 उद्धरणानि
- ‘यमन्तः समुद्रे कवयो वयन्ति तदक्षरे परमे प्रजाः ॥
यतः प्रसूताः जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् ।
यदोषधीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि ॥
अतः परं नान्यदणीयसं हि परात् परं यन्महतो महान्तम् । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥
तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ।’(म.ना.उ.१.३-६)
Mahavaraha
1 उद्धरणानि
- ‘मुख्यं च सर्ववेदानां तात्पर्यं श्रीपतेः परम् ।
उत्कर्षे तु तदन्यत्र तात्पर्यं स्यादवान्तरम् ॥’
Mahavarahapurana
2 उद्धरणानि
- ‘वेदास्ते नित्यविन्नत्वात् श्रुतयश्चाखिलैः श्रुतेः ।
आम्नायोऽनन्यथापाठादीशबुद्धिस्थिताः सदा ॥’ - ‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।
सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ॥
सर्वेषामपि वेदानाम् इतिहासपुराणयोः ।
प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते ॥’
Mahopanishat
4 उद्धरणानि
- ‘सर्वोत्तमं सर्वदोषव्यपेतं गुणैरशेषैः पूर्णमन्यं समस्तात् ।
वैलक्षण्याज्ज्ञापयितुं प्रवृत्ताः सर्वे वेदा मुख्यतो नैव चान्यत् ॥’ - ‘एको(ह वै) नारायण आसीन्न ब्रह्मा नेशानो (नापो) नाग्नीषोमौ नेमे द्यावापृथिवी।’(महोपनिषत्१.२)
- गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यते ।
अतो मिथोऽपि भेदो न तेषां क्वचित् कदाचन ॥ - स्वरूपेऽपि विशेषोऽस्ति स्वरूपत्ववदेव तु ।
भेदाभावेऽपि तेनैव व्यवहारश्च सर्वतः ॥’
Maitrayanyupanishat
1 उद्धरणानि
- ‘नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः ।
भ्राम्यन् लोको न जानाति वेदविद्यान्तरं तु यत् ॥’(मैत्रायण्युपनिषत्.७.८)
Mandukyopanishat
6 उद्धरणानि
- ‘प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥’(माण्डूक्य.उ.२.९) - ‘अद्वैतः सर्वभावानाम्’(माण्डूक्य.उ.२.२)
- ‘अद्वैतं परमार्थतः’(माण्डूक्य.उ.२.९)
- ‘विकल्पो विनिवर्तेत कल्पितो यदि केनचित्’ (माण्डूक्य.उ.२.१०)
- ‘उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते’(माण्डूक्य.उ.२.१०)
Mundakopanishat/Atharvanopanishat
1 उद्धरणानि
- ‘अमृतस्यैष सेतुः’(मुण्डक.४.६(२.२.५))
Mundakopanishat
9 उद्धरणानि
- ‘तमेवैकं जानथ आत्मानम्’(मु.उ.२.२.५)
- ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः’(मु.उ.१.२.१०)
- ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मुण्डक.उ.४.६(२.२.५))
- ‘अमृतस्यैष सेतुः’(मुण्डक.उ.५.३(३.१.३))
- ‘कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति’(मुण्डक.उ.६.७(३.२.७))
- ‘येनाऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्’(मुण्डक.उ.५.६(३.१.६))
- ‘गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु’(मुण्डक.उ.६.७(३.२.७))
- ‘परेव्यये’(मुण्डक.उ.६.७(३.२.७)
- ‘ब्रह्म वेद ब्रह्मैव भवति’(मुण्डक.उ.६.९(३.२.९)
Paramashruti
7 उद्धरणानि
- ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः ।
लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ॥ - स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः ।
निस्सीमत्वेन ते सर्वे तद्वशाः सर्वदैव च ॥ - सर्गस्थितिक्षययतिप्रकाशावृतिबन्धनम् ।
सर्वक्षराणामेकः स कुर्यात् सात्विकमोक्षणम् ॥ - सर्गस्थितियतिज्योतिर्नित्यानन्दप्रदोक्षरे ।
चेष्टाप्रदश्च सर्वेषामेक एव परो हरिः ॥
तस्य नान्योस्ति सर्गादिकर्ता निर्दोषकश्च सः ॥’ - ‘उत्पत्तिर्वासुदेवस्य प्रादुर्भावो न चापरः ।
देहोत्पत्तिस्तदन्येषां ब्रह्मादीनां तदीरणात् ॥ - देहोऽनादिर्हरेर्नित्यो ब्रह्मादीनामनित्यकाः ।
मुख्योत्पत्तिस्तदन्येषां प्रादुर्भावो हरेर्जनिः ॥’ - विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा संसारवर्जितः ।
निर्दुःखानन्दभुङ् नित्यं तत्समीपे स मोदते ।
मुक्तानां चाश्रयो विष्णुरधिकोधिपतिस्तथा ।
तद्वशा एव ते सर्वे सर्वेदैव स ईश्वरः ॥’
Paramopanishat
1 उद्धरणानि
- ‘वर्जितः सर्वदोषैर्यो गुणसर्वस्वमूर्तिमान् ।
स्वतन्त्रो यद्वशाः सर्वे स विष्णुः परमो मतः ॥’
Pramana
42 उद्धरणानि
- ‘नित्ययानित्यया स्तौमि ब्रह्म तत्परमं पदम्’
- ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्चान्याः वाचः’
- ‘विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः ।
अनादिनित्या सा तच्च विना तां न स गम्यते ॥’ - ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः ।
सर्गे सर्गेऽमुनेवैत उद्गीर्यन्ते तथैव च ॥
तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा ॥’ - ‘अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः ।
जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ॥
मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः ।
यतस्ता हरिणा दृष्टाः श्रुता एवापरैः जनैः ।
श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः ॥’ - ‘तदुत्पत्तिवचश्चैव भवेत् व्यक्तिमपेक्ष्य तु ।
चेतनस्य जनिर्यद्वदुच्यते सर्वलौकिकैः ॥
पुराणानि तदर्थानि सर्गे सर्गेन्यथैव तु ।
क्रियन्तेतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् ॥’ - ‘अज्ञानां ज्ञानदो विष्णुः ज्ञानिनां मोक्षदश्च सः ।
आनन्दश्च मुक्तानां स एवैको जनार्दनः ॥’ - ‘बन्धको भवपाशेन भवपाशाच्च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ॥’ - ‘ एवमेव खलु सोम्य आचार्यवान् पुरुषो वेद’
- ‘स्वातन्त्र्यात् स्व इति प्रोक्तः आत्मायं चाततत्वतः ।
ब्रह्मायं गुणपूर्णत्वात् भगवान् विष्णुरव्ययः ॥’ - स्वं कुलायं यथापीतः पक्षी स्यादेवमीश्वरम् ।
अप्येति जीवः प्रस्वापे मुक्तो चान्योपि सन् सदा ॥’ - ‘यत्रायं पुरुषः स्वपिति नाम’
- ‘मननात् मन उद्दिष्टः पुद्गलो निरयं गिरन् ।
कर्मानुशयनाच्चैव संसार्यनुशयी स्मृतः ॥’ - ‘प्राणः प्रणयनादेषः साधुत्वात् सन् हरिः स्मृतः ।’
- ‘स्रष्टृत्वादाश्रयात्वाच्च मुक्तानां च प्रति प्रति ।
स्थापनाच्च विभुर्विष्णुरन्यः संसारिणो मतः ॥’ - ‘विष्णुर्जीव इति प्रोक्तः सततं प्राणधारणात् ।
स प्रविश्य शरीरं च स्थावरं जङ्गमं तथा ॥
महाभूतानि च विभुस्त्रिवृत्करणपूर्वकम् ।
संसारिणं भ्रामयति सदैवान्यत्वलक्षणम् ॥
तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपि सन् ॥’ - ‘आततत्वाच्च मातृत्वादात्मेति परमो हरिः ।
आत्माभासास्तदन्ये ये न ह्येतेषां तता गुणाः ॥’ - ‘यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।
यथा नद्यः समुद्रश्च शुद्धोदलवणे यथा ॥
यथा चोरापहार्यौ च यथा पुंविषयावपि ।
तथा जीवेश्वरौ भिन्नौ सर्वदैव वलिक्षणौ ॥
तथापि सूक्ष्मरूपत्वान्न जीवात् परमो हरिः ।
भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोपि सन् ॥
वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्ध्यतेन्यथा ॥’ - ‘प्रेरकः सर्व(भूतानां)जीवानां प्राणधीचोदिता च सः ।
विष्णुः संसारिणोऽन्यो यस्तमविज्ञाय मूढधीः ॥
देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यतेत्मनः ।
अतः संसारपदवीं याति जीवेशयोः सदा ॥
वैलक्षण्यं परं ज्ञात्वा मुच्यते बद्ध्यतेऽन्यथा ॥’ - ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति ।
न चान्यथा क्वापि च कस्य चेदमभूत् पुरा नापि तथाभविष्यत् ॥’, - ‘असत्यमाहुर्जगदेतदज्ञः शक्तिं हरेर्ये न विदुः परां हि ।
यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा ॥’, - ‘अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः ।
स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता ॥
सर्वज्ञस्य यतो विष्णोः सर्वदैतत् प्रतीयते ।
बोधासहं ततो नैतत् किन्त्वाज्ञावशमस्य हि ॥’ - ‘प्रज्ञाविनिर्मितं यस्मादतो मायामयं जगत् ।
अनेनानुगतं यस्मादनृतं तेन कथ्यते ॥
बोधानिवर्त्यमपि तु नित्यमेव प्रवाहतः ।
‘अ’ इत्युक्तः परो देवस्तेन सत्यमिदं जगत् ॥
तदधीनस्वरूपत्वादसत्यं तेन कथ्यते ।
सत्यस्य सत्यं स विभुरिन्द्रचापस्य सूर्यवत् ॥’ - ‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ॥
प्रकृतिः प्रकृष्टकरणात् वासना वासयेत् यतः ।
‘अ’ इत्युक्तो हरिस्तस्य विद्याऽविद्येति सञ्ज्ञिता ॥
मायेत्युक्त्वा प्रकृष्टत्वात् प्रकृष्टं हि मयाभिधम् ।
विष्णोः प्रज्ञप्तिरेवेका शब्दैरेतैरुदीर्यते ॥
प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा ॥’ इति च । - ‘सर्वे वेदा हरेर्भेदं सर्वस्माज्ज्ञापयन्ति हि ।
भेदः स्वातन्त्र्यसार्वज्ञ्यसर्वैश्वर्यादिकश्च सः ॥
स्वरूपमेव भेदोऽयं व्यावृत्तिश्च स्वरूपता ।
सर्वव्यावृत्तये यस्मात् स्वशब्दोऽयं प्रयुज्यते ॥
सर्वव्यावृत्ततामेव नेति नेत्यादिका श्रुतिः ।
विष्णोरतो वदेदन्या अपि सर्वा न संशयः ॥’ - ‘ईशमाश्रित्य तिष्ठन्ति मुक्ताः संसारसागरात् ।
यथेष्टभोगभोक्तारो ब्रह्मान्ता उत्तरोत्तरम् ॥’ - ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।
स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥’ - ‘ब्रह्ममत्यनुकूला मे मतिर्मुक्तौ भविष्यति ।
अतः प्रायोऽनुकूलत्वमिदानीमपि मे स्थितम् ॥’ - ‘जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव तु ।
एकस्थाननिवसो वा व्यक्तिस्थानमपेक्ष्य सः ॥
न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः ।
स्वातन्त्र्यपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपता ॥’ - ‘सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत्’
- ‘ब्रह्माणि जीवा सर्वेऽपि परब्रह्माणि मुक्तिगाः ।
प्रकृतिः परमं ब्रह्म परमं महदच्युतः ॥
तस्मान्न मुक्ता न च सा न क्वचिद् विष्णुवैभवम् ।
आप्नुवन्ति स एवैकः स्वतन्त्रः पूर्णसद्गुणः ॥’ - ‘यथाऽपियन्ति तेजांसि महातेजसि भास्करे ।
पृथक् पृथक् स्थितान्यह्नि स्वरूपैरपि सर्वशः ॥
परे ब्रह्मणि जीवाख्यब्रह्माण्यप्यपियन्ति हि ।
मुक्तौ पृथक् स्थितान्येव तदन्येषामदर्शनम् ।
अप्ययोऽयं समुद्दिष्टो न स्वरूपैकता क्वचित् ॥’ इति नारायणश्रुतौ । - ‘जीवेश्वरभिदाचैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥ - मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥ - न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ।
कल्पिताश्चेन्निवर्तेत न चासौ विनिवर्तते ॥ - द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।
मतं हि ज्ञानिनामेतन्मितं त्रारातं च विष्णुना ॥
तस्मात् सत्यमिति प्रोक्तं परमो हरिरेव तु ॥’ - ‘अधिष्टानं च सदृशं तथ्य(सत्य)वस्तुद्वयं विना ।
न भ्रान्तिर्भवति क्वपि स्वप्नमायादिकेष्वपि ॥ - ‘मानस्यां वासनया तु बहिर्वस्तुत्वकल्पनम् ।
स्वाप्नो भ्रमश्च मायायां कर्तृदेहादिवस्तुषु ॥ - ‘चतुरङ्गबलत्वादिकल्पनं भ्रम इष्यते ।
न भ्रान्तिकल्पितं विश्वमतो विष्णुबलाश्रितम् ॥’ - न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥’ - अपरोक्षदृशो मिथ्यादर्शनं न क्वचित् भवेत् ।
सर्वापरोक्षविद्विष्णुः विश्वदृक् तन्न तन्मृषा ॥’ - अनागता अतीताश्च यावन्तः सहिताः क्षणाः ।
अतीतानागताश्चैव यावन्तः परमाणवः ॥
ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक् ॥’
Rigveda
15 उद्धरणानि
- ‘वाचा विरूप नित्यया’(ऋ.सं.८.७५.६)
- ‘सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्टितं तावती वाक् ॥
कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रतिवाचं पपाद।’(ऋ.सं.१०.११४.९-१०) - ‘यच्चिकेत सत्यमित् तन्न मोघं वसुस्पार्हमुत जेतोत दाता ।’(ऋ.सं.१०.५५.६),
- ‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।’(ऋ.सं.०२.२४.१२),
- ‘प्र घान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’,(ऋ.सं.२.१५.१)
- ‘सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’(ऋ.सं.४.१७.५)
- ‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये’(ऋ.सं.८.३.४)
- ‘ऋचां त्वः पोषमास्ते पुपुष्मान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उत्वः ॥’(ऋ.सं.१०.७१.११)
- ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नासः उपकक्षास उ त्वे हृदा इव स्नात्वा उ त्वे ददृश्रे ॥(ऋ.सं.१०.७१.७)’
- ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१)
- ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥(ऋ.सं.१०.१२५.५)
- अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥(ऋ.सं.१०.१२५.६) - अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तस्समुद्रे ॥’(ऋ.सं.१०.१२५.७)
- ‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥’(ऋ.सं.७.४०.५) - ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्राश्चाग्निश्च प्राणाद्वायुरजायत ।’(ऋ.सं.१०.९०.१३)
Shwetashvataropanishat
2 उद्धरणानि
- ‘यस्मात् परं नापरमस्ति किञ्चित्’(३.९)
- ‘तेनेदं पूर्णं..(पुरुषेण सर्वम्॥) ततो यदुत्तरतरं तदरूपमनामयम्।’(३.९-१०)
Skandapurana
3 उद्धरणानि
- परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः ।
सूक्ष्मत्वादीशशक्त्यैव स्थूला अपि हि संस्थिताः ॥ - सहस्रयोजनसभां प्रभावाद्विश्वकर्मणः ।
अनन्ता राशयोऽनन्ताः प्रजानामधिसंस्थिताः ॥’ - ‘ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः ।
सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः ॥’
Taitattiriyaopanishat
1 उद्धरणानि
- ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’(ब्रह्मवल्लि.२७)
Taittariyabrahmana
1 उद्धरणानि
- ‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’(तै.ब्रा.३.१२.९.७)
Taittiriyaranyaka
1 उद्धरणानि
- ‘यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता ।’(तै.आ.८.१)
Taittiriyopanishat
3 उद्धरणानि
- ‘एतमानन्दमयामात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत् सामगायन्नास्ते ।’(भृगुवल्ली.१४)
- ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’(ब्रह्मवल्लि.२७(८.१))
- ‘सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’(ब्रह्मवल्लि.२(तै.उ.२.२))
पद्मपुराणम्
1 उद्धरणानि
- ‘नृपाद्या शतधृत्यन्ताः मुक्तिगा उत्तरोत्तरम् ।
गुणैः सर्वै शतगुणा मोदन्त इति हि श्रुतिः ॥’
ब्रह्माण्डपुराणम्
2 उद्धरणानि
- ‘ऋगाद्या भारतं चैव पञ्चरात्रमथाखलिम् ।
मूलरामायणं चैव पुराणं चैतदात्मकम् ॥
ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः ।
दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥
ज्ञेय एतैः सदायुक्तैः भक्तिमद्भिः सुनिष्ठितैः ।
न च केवलतर्केण नाक्षजेन न केनचित् ॥
केवलागमविज्ञेयो भक्तैरेव न चान्यथा ॥’ - ‘विंशल्लक्षणतोनूनः तपस्वी बहुवेदवित् ।
वेद इत्येव यं पश्येत् स वेदो ज्ञानदर्शनात् ’
श्रुतिः
16 उद्धरणानि
- ‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदाः’
- ‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः ॥’ - ‘धर्मार्थकामाः सर्वेऽपि न नित्या मोक्ष एव हि ।
नित्यस्तस्मात् तदर्थाय यतेत मतिमान् नरः ॥’ - ‘यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण ।
नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात् ॥’ - ‘न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् ।
तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्पराः सर्व एव ॥’ - ‘जीव इति भगवतोऽनिरुद्धस्याख्या’
- ‘तेजः परस्यां देवतायां तावन्न जानाति’
- ‘यदास्य प्राणादीन् परो ग्रसति तदा न जानाति, यदा ददाति तदा जानाति’
- ‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा । मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’।
- ‘आत्मा हि परमस्वतन्त्रः सर्ववित् सर्वशक्तिः परमसुखः परमो जीवस्तु तद्वशोल्पज्ञोल्पशक्तिः आर्तो अल्पकः’
- ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।’
- ‘ स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त ।’
- ‘विश्वो हिरण्यगर्भोग्निर्यमो वरुणरुद्रेन्द्रा ’
- ‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः ।
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः॥’ - ‘‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ।’
- ‘‘तस्यैव सर्वनामानि व्यतिरिक्तस्य सर्वतः(शः) ।
यः स्वतन्त्रः सदैवैकः स विष्णुः परमो मतः ॥’
स्कान्दपुराणम्
2 उद्धरणानि
- ‘उत्पत्तिस्थितिसंहारा नियतिज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट् ॥’ - ‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत् स्वभावः कैवल्यं स भवान् केवलो हरे ॥’