Jayantinirnaya/Moola
जयन्तीनिर्णयः — मूलम्
रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत् ।
यस्यां जातो हरिः साक्षान्निशीथे भगवानजः ।
तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा ।
यो भुङ्क्ते तद्दिने मोहात्पूयशोणितमत्ति सः ।
कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः ।
नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् ।
मध्याह्नकाले च पुमान् सायङ्काले त्वतन्द्रितः ।
ततः पूजां प्रकुर्वीत विधिवत्सुसमाहितः ।
कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ।
जातः कंसवधार्थाय भूभारोत्तारणाय च ।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ।
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ।
दत्वार्घ्यं मनुनानेन ह्युपस्थाय विधुं बुधः ।
मृगिणे सितबिम्बाय लोकदीपाय दीपिने ।
उपसंहृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः ।
ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम् ।