Sadacharasmriti/Moola

Revision as of 20:54, 16 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
सदाचारस्मृतिः — मूलम्
यस्मिन् सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि ।
उद्धृतेति मृदाऽऽलिप्य द्विषडष्टषडक्षरैः ।
स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् ।
वसित्वा वास आचभ्य प्रोक्ष्याचम्य च मन्त्रतः ।
मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान् ।
अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत् ।
आसूर्यदर्शनात्तिष्ठेत् ततस्तूपविशेत वा ।
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् ।
ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् ।
वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम् ।
भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः ।
वेदशास्त्रविनोदेन प्रीणयन् पुरुषोत्तमम् ।
यामात्परत एवाथ स्वपेद्ध्यायन् जनार्दनम् ।
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्स्वभावम् ।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
एष नित्यः सदाचारो गृहिणो वनिनस्तथा ।
एवमेव यतेः स्वीयवित्तेन तु विना सदा ।
विशेषो निष्क्रिययतेरजलाञ्जलिना तथा ।
सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा ।
कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः ।
वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे ।
धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
आनन्दतीर्थमुनिना व्यासवाक्यसमुद्धृतिः ।
अशेषकल्याणगुणनित्यानुभवसत्तनुः ।