Jump to content

Mandu/JSON

From Anandamakaranda
Revision as of 09:06, 30 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


{
  "schema": 1,
  "doc": {
    "slug": "Mandu",
    "title": "माण्डूकोपनिषद्भाष्यम्",
    "type": "bhashya",
    "docId": "MAN",
    "parent": null,
    "related": [],
    "nextId": 71
  },
  "blocks": [
    {
      "id": "Mandu-1",
      "oldKey": "MAN_C01_I01",
      "type": "introduction",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् ।\nचतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ॥"
    },
    {
      "id": "Mandu-2",
      "oldKey": "MAN_C01_V01",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥ १ ॥"
    },
    {
      "id": "Mandu-3",
      "oldKey": "MAN_C01_V01_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते(नारायणोऽत्र स्तूयते) ।\n‘ध्यायन् नारायणं देवं प्रणवेन समाहितः ।\nमण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे ।\n‘ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् ।\nओतमत्र जगद्यस्मादों तस्माद् भगवान् हरिः ॥\nतदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् ।\nभाविभूतभवत्कालेष्वेकरूपतया हरिः ।\nसर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥’ इति बृहत्संहितायाम् ।\n‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः ।\nसर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये ।\nसर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥"
    },
    {
      "id": "Mandu-4",
      "oldKey": "MAN_C01_V02",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ॥ २ ॥ सोयमात्मा चतुष्पात् ॥"
    },
    {
      "id": "Mandu-5",
      "oldKey": "MAN_C01_V02_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "‘परमं यो महद्ब्रह्म’, ‘तदेव ब्रह्म परमं कवीनाम्’, ‘पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः (परिपूर्णत्वमित्याह)पूर्णत्वमित्याह– सर्वं ह्येतद् ब्रह्मेति । श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति ।\n‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन ।\nविना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥\nकालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः ।\nअभिमानात्तु जीवानां न कालातीतता भवेत् ॥\nमुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः ।\nपूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥\nसोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा ।\nआदानादनकर्तृत्वादात्मा तेषामगोचरः ॥\nइति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥"
    },
    {
      "id": "Mandu-6",
      "oldKey": "MAN_C01_V03",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥"
    },
    {
      "id": "Mandu-7",
      "oldKey": "MAN_C01_V03_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "चतुर्धाऽवस्थितो देहे परमात्मा सनातनः ।\nवैश्वानरो जागरितस्थानगो गजवक्‍त्रकः ॥\nनिर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः ।\nअष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥\nमध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् ।\nपादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥\nस्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् ।\nविश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥\nतत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः ।\nविनायकस्तु विश्वस्य ध्यानादैद् गजवक्‍त्रताम् ॥\nतथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् ।\nचतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥\nएवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥"
    },
    {
      "id": "Mandu-8",
      "oldKey": "MAN_C01_V04",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "स्वप्नस्थानोऽन्तप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥"
    },
    {
      "id": "Mandu-9",
      "oldKey": "MAN_C01_V04_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "‘जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् ।\nप्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥’ इति वाराहे ॥४॥"
    },
    {
      "id": "Mandu-10",
      "oldKey": "MAN_C01_V05",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥"
    },
    {
      "id": "Mandu-11",
      "oldKey": "MAN_C01_V05_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "‘सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः ।\nन कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥\nकालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् ।\nचित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥\nन बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः ।\nएकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥\nएकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः ।\nतन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् ।\nआनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥"
    },
    {
      "id": "Mandu-12",
      "oldKey": "MAN_C01_V06",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "एष सर्वेश्वर एष सर्वज्ञः एषोऽन्तर्यामी ।\nएष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥"
    },
    {
      "id": "Mandu-13",
      "oldKey": "MAN_C01_V06_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥\n‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः ।\nविश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥\nतानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु ।\nचेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥\nमुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः ।\nतथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥\nज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥\nपूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा ।\nयथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥"
    },
    {
      "id": "Mandu-14",
      "oldKey": "MAN_C01_V07",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "अत्रैते श्लोका भवन्ति ।\nबहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।\nघनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥"
    },
    {
      "id": "Mandu-15",
      "oldKey": "MAN_C01_V07_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "‘प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने ।\nब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥\nअत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे ।\nखण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥"
    },
    {
      "id": "Mandu-16",
      "oldKey": "MAN_C01_V08",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।\nआकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥"
    },
    {
      "id": "Mandu-17",
      "oldKey": "MAN_C01_V09",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।\nआनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥"
    },
    {
      "id": "Mandu-18",
      "oldKey": "MAN_C01_V10",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।\nआनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥"
    },
    {
      "id": "Mandu-19",
      "oldKey": "MAN_C01_V11",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।\nवेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥"
    },
    {
      "id": "Mandu-20",
      "oldKey": "MAN_C01_V12",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "प्रभवः सर्वभावानां सतामिति विनिश्चयः ।\nसर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक् ॥ १२ ॥"
    },
    {
      "id": "Mandu-21",
      "oldKey": "MAN_C01_V12_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "‘प्रभवः सर्वभावानां विष्णुरेव न संशयः ।\nइत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥\nसर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥"
    },
    {
      "id": "Mandu-22",
      "oldKey": "MAN_C01_V13",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।\nस्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥"
    },
    {
      "id": "Mandu-23",
      "oldKey": "MAN_C01_V14",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।\nकालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥"
    },
    {
      "id": "Mandu-24",
      "oldKey": "MAN_C01_V14_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "‘तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा ।\nविष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥\nतत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः ।\nस्वप्नमायास्वरूपां(स्वप्नमायासरूपां) च केचिदज्ञा जना विदुः ॥\nअविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् ।\nउत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥\nपूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः ।\nसर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥\nतस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् ।\nयथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥\nकेचित् कालत एवैतां सृष्टिमाहुरकोविदाः ।\nकेचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥\nविमूढाः सर्व एवैते यतो नारायणः परः ।\nसर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥\nप्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।"
    },
    {
      "id": "Mandu-25",
      "oldKey": "MAN_C01_V15",
      "type": "verse",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": "mantra",
      "text": "भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।\nदेवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥"
    },
    {
      "id": "Mandu-26",
      "oldKey": "MAN_C01_V15_B01",
      "type": "bhashya",
      "parent": "MAN_C01",
      "chapter": "MAN_C01",
      "verseType": null,
      "text": "तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥\nअतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः ।\nसा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥"
    },
    {
      "id": "Mandu-27",
      "oldKey": "MAN_C02_V01",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १ ॥"
    },
    {
      "id": "Mandu-28",
      "oldKey": "MAN_C02_V01_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः ।\nमुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥\nसम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् ।\nअपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥\nअन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च ।\nबहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥\nयदा भवति साऽवस्था ह्युभयज्ञानशब्दिता ।\nएतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥\nसर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥’ इति ब्रह्माण्डे ।\n‘अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते ।\nतुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥\nविना मुक्तिं यतस्तेना(ततस्तेना)व्यवहार्य इतीरितः ।\nजाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ॥\nअलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च ।\nतत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ॥\nमुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः ।\nएकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥\nतदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः ।\nप्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥\nप्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः ।\nउत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥\nप्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः ।\nप्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥\nनिर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः ।\nअन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥\nअद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥’ इति माहात्म्ये ॥\n‘अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता ।\nइण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥’ इति सङ्कल्पे ।\n‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् ।\n‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः ।\nनिर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये ।"
    },
    {
      "id": "Mandu-29",
      "oldKey": "MAN_C02_V02",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "अत्रैते श्लोकाः भवन्ति ।\nनिवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।\nअद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ २ ॥"
    },
    {
      "id": "Mandu-30",
      "oldKey": "MAN_C02_V02_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "सर्वदुःखानां निवृत्तेः कारणभूतस्तुरीयो देवः ।\nहरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः ।\n‘देवः स सर्वजीवानां गम्यत्वात् समुदीरितः ।\nभावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥\nईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रतः ॥’ इति प्रत्याहारे ।"
    },
    {
      "id": "Mandu-31",
      "oldKey": "MAN_C02_V03",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।\nप्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥"
    },
    {
      "id": "Mandu-32",
      "oldKey": "MAN_C02_V03_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः ।\nविश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ ।\nकुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥’ इति च ।\n‘स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति’ इति कौषारवश्रुतिः ।\n‘विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः ।\nतदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥\nतन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा ।\nसरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥’ इति महोपनिषदि ॥"
    },
    {
      "id": "Mandu-33",
      "oldKey": "MAN_C02_V04",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "नाऽऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् ।\nप्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥ ४ ॥"
    },
    {
      "id": "Mandu-34",
      "oldKey": "MAN_C02_V04_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम्(त सात्यं चापि नानत्वम्) ।\nप्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ॥\nसुप्त्यवस्थां सुखं चापि(वाऽपि) विना नान्यत् प्रदर्शयेत् ।\nसर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥’ इति प्रत्यये ।\n‘स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा ।\nसर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के ।"
    },
    {
      "id": "Mandu-35",
      "oldKey": "MAN_C02_V05",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।\nबीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ ५ ॥"
    },
    {
      "id": "Mandu-36",
      "oldKey": "MAN_C02_V05_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "‘निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा ।\nयथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥’ इति च ।\n‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः ।\nकरोति न करोतीति व्यवहार्यं स्वशक्तितः ॥’ इति च ।\nन संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः ।\n‘द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन ।\nद्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥’ इति प्रकटश्रुतिः ।"
    },
    {
      "id": "Mandu-37",
      "oldKey": "MAN_C02_V06",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।\nन निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ६ ॥"
    },
    {
      "id": "Mandu-38",
      "oldKey": "MAN_C02_V07",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "अन्यथागृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।\nविपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ७ ॥"
    },
    {
      "id": "Mandu-39",
      "oldKey": "MAN_C02_V07_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायते ।"
    },
    {
      "id": "Mandu-40",
      "oldKey": "MAN_C02_V08",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते ।\nअजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ॥ ८ ॥"
    },
    {
      "id": "Mandu-41",
      "oldKey": "MAN_C02_V08_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "‘अनादिमायया विष्णोरिच्छया स्वापितो यदा ।\nतया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥’ इति प्रकाशिकायाम् ॥"
    },
    {
      "id": "Mandu-42",
      "oldKey": "MAN_C02_V09",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।\nमायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ९ ॥"
    },
    {
      "id": "Mandu-43",
      "oldKey": "MAN_C02_V09_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "‘तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः ।\nवस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥\nतन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते ।\nअतः स विद्यत इति ह्यङ्गीकारो(त्वङ्गीकारो) भवेद्यदि ॥\nतथाऽपि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥’ इति ब्रह्मतर्के ।\nअद्वैतमनन्यथा ज्ञातं परब्रह्मादि वस्तु (वस्तु तत्) । द्वैतं द्विधा ज्ञातमन्यथाज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते ।\n‘परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा ।\nतदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥\nजीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च ।\nपरमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥\nमायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् ।\nउत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः(विष्णुरच्युतः) ॥’ इति च ।"
    },
    {
      "id": "Mandu-44",
      "oldKey": "MAN_C02_V10",
      "type": "verse",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": "mantra",
      "text": "विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।\nउपदेशादयं वादो ज्ञाते द्वैतं न विद्यत इति ॥ १० ॥"
    },
    {
      "id": "Mandu-45",
      "oldKey": "MAN_C02_V10_B01",
      "type": "bhashya",
      "parent": "MAN_C02",
      "chapter": "MAN_C02",
      "verseType": null,
      "text": "अनन्यथा इतमवगतमद्वैतम् । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः(वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथाज्ञानमित्यर्थः) । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः- ज्ञाते सति ब्रह्मणि(परब्रह्मणि) द्वैतमन्यथाज्ञानं निवर्तते इति ।\nविकल्पो देहबन्धादिः केनचित् कारणेन तु ।\nकल्पितो(कल्पितोऽपि) विनिवर्तेत(निवर्तेत) गुरुवाक्यादसंशयः(संशयम्) ॥\nएष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः ।\nनिवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ॥ १० ॥"
    },
    {
      "id": "Mandu-46",
      "oldKey": "MAN_C03_V01",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ॥ १ ॥\nजागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद् वा ।\nआप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ॥ २ ॥"
    },
    {
      "id": "Mandu-47",
      "oldKey": "MAN_C04_V01_B01",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "अधिकं सर्वतोऽविनाशि(सर्वत अविनाशि) चेत्यध्यक्षरम् । अधिका एव मात्रा अंशा यस्य तदधिमात्रम् । अ इत्यनेनाभिधानेनाक्रियत इत्यकारः । तत्र पूर्वोक्तो वैश्वानरः प्रथमा मात्रेत्याद्यनुवादः(तत्र पूर्वोक्तो वैश्वानरोऽकारः । प्रथमा.....) । अकार इत्यादिकं विधेयम् । प्राज्ञस्तैजसश्चादिरस्येत्यादिमान् । सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसात् । आदिश्चास्योपासकस्य भवति ॥ १ ॥"
    },
    {
      "id": "Mandu-48",
      "oldKey": "MAN_C03_V02",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा । उत्कर्षादुभयत्वाद् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति । य एवं वेद ॥ ३ ॥"
    },
    {
      "id": "Mandu-49",
      "oldKey": "MAN_C04_V02_B01",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "शरीराभिमानादुत्थाप्य कर्षतीत्युत्कर्षः । निद्रा विषयानुभवश्चानेन क्रियत इत्युभयत्वम् । समानः सर्वेषां मध्यस्थो भवति ॥"
    },
    {
      "id": "Mandu-50",
      "oldKey": "MAN_C03_V03",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति । य एवं वेद ॥ ४ ॥"
    },
    {
      "id": "Mandu-51",
      "oldKey": "MAN_C04_V03_B01",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "मितेरन्तर्गमनात् ।"
    },
    {
      "id": "Mandu-52",
      "oldKey": "MAN_C03_V04",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "अत्रैते श्लोकाः भवन्ति-\nविश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।\nमात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ ५ ॥"
    },
    {
      "id": "Mandu-53",
      "oldKey": "MAN_C04_V04_B01",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "मात्रासम्प्रतिपत्तौ अंशध्याने । आदिमत्वं विश्वस्य विद्यते । तदुपासकस्यापि भवतीत्यादि सामान्यम् ।"
    },
    {
      "id": "Mandu-54",
      "oldKey": "MAN_C03_V05",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।\nमात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ ६ ॥"
    },
    {
      "id": "Mandu-55",
      "oldKey": "MAN_C03_V06",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।\nमात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ ७ ॥"
    },
    {
      "id": "Mandu-56",
      "oldKey": "MAN_C03_V07",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् ।\nस पूज्यस्सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ ८ ॥"
    },
    {
      "id": "Mandu-57",
      "oldKey": "MAN_C03_V08",
      "type": "verse",
      "parent": "MAN_C03",
      "chapter": "MAN_C03",
      "verseType": "mantra",
      "text": "अकारो नयते विश्वमुकारश्चापि तैजसम् ।\nमकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिरिति ॥ ९ ॥"
    },
    {
      "id": "Mandu-58",
      "oldKey": "MAN_C04_V08_B01",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "अमात्रेऽप्यगतिर्न विद्यते । प्रतिदिवसं विभाग एकीभावश्च विद्यते विश्वादीनाम् । तुरीयस्य तन्न विद्यत इत्यमात्रः । विश्वादीनां व्यवहारकारणत्वं विद्यते । तुरीयस्य तन्न विद्यत इत्यतो गम्यत्वमपि नास्तीत्याशङ्कां निवर्तयति– ‘अगतिर्न विद्यते’ इति । ‘आत्मानं संविशति’ इति गतिवचनात् ।"
    },
    {
      "id": "Mandu-59",
      "oldKey": "MAN_C04_V08_B02",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "‘आदिमत्त्वेन सामान्यमुपास्येन भवेदिति ।\nउपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥\nसामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः ।\nअमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥\nजाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥’ इति च ।"
    },
    {
      "id": "Mandu-60",
      "oldKey": "MAN_C04_V08_B03",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "‘आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः ।\nअमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥’ इत्यात्मसंहितायाम् ॥"
    },
    {
      "id": "Mandu-61",
      "oldKey": "MAN_C04_V01",
      "type": "verse",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": "mantra",
      "text": "अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १ ॥"
    },
    {
      "id": "Mandu-62",
      "oldKey": "MAN_C04_V02_I01",
      "type": "leading-bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "अत्रैते श्लोका भवन्ति ।\nओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः ।\nओङ्कार पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २ ॥"
    },
    {
      "id": "Mandu-63",
      "oldKey": "MAN_C04_V03",
      "type": "verse",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": "mantra",
      "text": "युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।\nप्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ ३ ॥"
    },
    {
      "id": "Mandu-64",
      "oldKey": "MAN_C04_V04",
      "type": "verse",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": "mantra",
      "text": "प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतः ।\nअपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ ४ ॥"
    },
    {
      "id": "Mandu-65",
      "oldKey": "MAN_C04_V05",
      "type": "verse",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": "mantra",
      "text": "सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।\nएवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ ५ ॥"
    },
    {
      "id": "Mandu-66",
      "oldKey": "MAN_C04_V06",
      "type": "verse",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": "mantra",
      "text": "प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।\nसर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ ६ ॥"
    },
    {
      "id": "Mandu-67",
      "oldKey": "MAN_C04_V07",
      "type": "verse",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": "mantra",
      "text": "अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।\nओङ्कारो विदितो येन स मुनिर्नेतरो जनः ।\nस मुनिर्नेतरो जन इति ॥ ७ ॥"
    },
    {
      "id": "Mandu-68",
      "oldKey": "MAN_C04_V07_B01",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् ।\nतमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥\nज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित् ।\nविमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ॥\nचतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि ।\nजाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥\nओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः ।\nआदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥\nअपूर्वः कारणाभावान्नाशाभावादनन्तरः ।\nपराधीनस्थित्यभावादनपर उदाहृतः ॥\nसर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ॥ इति च ॥\n‘परत्वमपरत्वं च विष्णोरेकस्य वै यदा ।\nश्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥\nअवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥’ इति ब्रह्मतर्के ।"
    },
    {
      "id": "Mandu-69",
      "oldKey": "MAN_C04_V07_B03",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः ।"
    },
    {
      "id": "Mandu-70",
      "oldKey": "MAN_C04_V07_B04",
      "type": "bhashya",
      "parent": "MAN_C04",
      "chapter": "MAN_C04",
      "verseType": null,
      "text": "एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् ।\nयस्तं वन्दे चिदानन्दं(चिदात्मानम्; सदानन्दम्) विष्णुं विश्वादिरूपिणम् ॥"
    }
  ]
}