Jump to content
Main menu
Main menu
move to sidebar
hide
Navigation
Main page
Recent changes
Random page
Help about MediaWiki
Special pages
Anandamakaranda
Search
Search
Appearance
Appearance
move to sidebar
hide
Create account
Log in
Personal tools
Create account
Log in
JSON
:
Nakha/Vyakhya/BalabodhiniNakha
JSON
Discussion
English
Read
View source
View history
Tools
Tools
move to sidebar
hide
Actions
Read
View source
View history
General
What links here
Related changes
Printable version
Permanent link
Page information
Cargo data
From Anandamakaranda
<
JSON:Nakha
Revision as of 12:38, 1 July 2026 by
Chandrashekars
(
talk
|
contribs
)
(Imported from pramati-sarvamoola XML (grantha.io importer v3))
(
diff
)
← Older revision
| Latest revision (diff) | Newer revision → (diff)
schema
1
doc
slug
"BalabodhiniNakha"
title
"नखस्तुति-टीका — बालबोधिनी"
type
"teeka"
docId
"BalabodhiniNakha"
parentDoc
"Nakha"
parentDocId
"NNS"
pageTitle
"Nakha/Vyakhya/BalabodhiniNakha"
related
Empty array
nextId
3
blocks
id
"BalabodhiniNakha-1"
oldKey
null
type
"teeka"
parent
"NNS_C01_V01"
chapter
"NNS_C01"
text
"परमकारुणिकः श्रीमदानन्दतीर्थमुनिः सर्वारिष्टाटवीदावानलं भक्तेष्टचिन्ता-मणिं नखरस्तवं भक्तानुजिघृक्षया विधित्सुः श्रीनृसिंहनखराणां संसार-कारणीभूतदुर्ज्ञान दुष्कर्माभिमानिसर्वदैत्यहन्तृत्वेन तन्मूलकसकलानिष्ट-निवर्तकत्वमत एव ब्रह्मेशाद्यखिललेखाद्युत्तमाधिकार्युपास्यत्वं च प्रतिपादयन् स्वोपलक्षितसकलसत्पुरुषसंरक्षणं प्रार्थयते - पन्त्विति ।। पुरुहूतवैरिबलवन् मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येकवज्रायिताः । पुरु भूयिष्ठं हूयते यज्ञेष्विति पुरुहूतः पुरन्दरस्तस्य । वैरमेषामस्तीति वैरिणो दैत्याः ‘‘अत इनिठना’’विति मत्वर्थे इनिः । बलमेषामस्तीति बलवन्तः ‘तदस्या-स्त्यस्मिन्नीती’ति मतुप् । ‘‘मादुपधायाश्च मतो र्वोऽयवादिभ्य’’ इति मतुपो मकारस्य वकारः । बलवन्तश्च ते मातङ्गाश्च बलवन्मातङ्गा महागजा इत्यर्थः । पुरुहूतवैरिणो बलवन्मातङ्गा इव पुरुहूतवैरिबलवन्मातङ्गाः । ‘‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’’ इत्युपमानोत्तरपदसमासः । तेषां माद्यन्ती मदं प्राप्ता घटा । यद्यपि घटाशब्दो गजसमुदायवाचकः तथापि मातङ्ग शब्दसमभिव्याहारबलात् ‘‘स कीचकैर्मारुतपूर्णरन्ध्रै’’रित्यादाविव ‘‘विशिष्ट-वाचकानां शब्दानां सति विशेषणे विशेष्यमात्रपरत्वं’’मित्यतः प्रकृते समुदायमात्रपरः । तस्या ये कुम्भाः कुम्भस्थलानि ते उच्चाद्रय इव उन्नतपर्वता इव तेषां विपाटनं विदारणं तस्मिन्नधिकमत्यन्तं पटवोऽधिकपटवः अतिसमर्था इत्यर्थः । एकमेकं प्रत्येकं वीप्सायामव्ययीभावः । वज्रवदाचरन्तीति वज्रायिताः । ततः पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रि विपाटनाधिकटपटवश्च ते प्रत्येकवज्रायिताश्चेति कर्मधारयः ।। भूरि बहु भागो भाग्यं येषां ते भूरिभागा ब्रह्मादयस्तैः । ‘‘भागो भाग्यांशतुर्यांशा’’ इति यादवः । दारिशान्ततारातिदूरप्रध्वस्तध्वान्तप्रविततमनसा दारिता विदारिता अरातयः कामादिषड्वर्गा येन तद्दारिताराति दूरात्प्रध्वस्तं निरस्तं दूरप्रध्वस्तम् अनादितऽविद्यामानमित्यर्थः । ब्रह्मादियोगिनां भगवद्विषयकान्तःकरुणवृत्तिरूपज्ञानप्रवाहस्यापीदं प्रथमताभावेनानादित्वाद्भगवद्विषयकज्ञानाभावलक्षणज्ञानस्य दूरप्रध्वस्तत्वमिति भावः । तादृशं ध्वान्तं अज्ञानलक्षणान्धकारो यस्य तद्दूरप्रध्वस्तध्वान्तमत एव शान्तं रागादिदोषाकलुषितं भगवन्निष्ठं वा प्रविततं प्रकर्षेण विततं विस्तृतं स्वस्वयोग्यतानुसारेण भगवत्स्वरूपगुणकर्मादि बह्वर्थविषयकमित्यर्थः । तादृशं यन्मनस्तेन ।। भाविता ध्याताः । दारिता अरातयो यथा भवति तथा दारितारातीति क्रियाविशेषणं वा भाविता इत्यनेनान्वयः । श्रीमत्कण्ठीरवास्यप्रततसुनखराः श्रिया महालक्ष्म्या नित्ययुक्तः श्रीमान् नित्ययोगे मतुप् । ‘‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः’’ इत्युक्तेः । तादृशो यः कण्ठीरवास्यः कण्ठीरवस्य सिंहस्यास्यमिव मुखामिवास्यं मुखं यस्य स तथोक्तस्तस्य प्रतता व्याप्ताः प्रख्याता इति वा ये सुनखराः शोभननखराः । अस्मान् पान्तु रक्षन्तु । ‘‘पा रक्षण’’ इत्यस्माल्लोट् ।। १ ।।"
id
"BalabodhiniNakha-2"
oldKey
null
type
"teeka"
parent
"NNS_C01_V02"
chapter
"NNS_C01"
text
"‘‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैवचान्यत्र सत्यम्’’ इति श्रुतेः सकलसच्छास्त्रमुख्यतात्पर्यार्थभूतं श्रीनृहरेः समाभ्यधिकराहित्यलक्षणं सर्वोहमत्वं मुमुक्षुणा सर्वावस्थास्ववश्यं प्रतिपत्तव्यमित्यतः सप्रमाणं तत्प्रतिपादयंस्तौति लक्ष्मीकान्तेति ।। हे लक्ष्मीकान्त लक्ष्म्या वल्लभ श्रीनृसिंह । ईशितुः सर्वस्वामिनः ते तव सदृशं वस्तु समन्ततोऽपि सर्वत्र जगतीत्यर्थः । कलयन् मनसा प्रमाणैर्वा विचारयन्नहं न पश्याम्येव । ‘‘द्यशिर् प्रेक्षण’’ इत्यस्माल्लट् । अनेन च नृहरिसदृश्वस्त्वभावे योगिश्रेष्ठात्मप्रत्यक्षलक्षणं दर्शितम् । तर्ह्युत्तमं वस्तु किञ्चिदस्ति किमित्यत आह - उत्तमवस्त्विति । योऽत्यन्तासत्वेन प्रसिद्धः । अष्टानां पूरणोऽष्टमः । ‘‘तस्य पूरणे डट्’’ इति डटो ‘नान्तादसङ्ख्यादेर्मडि’ति माडागमः । रसः स इव । उत्तमं च तत् वस्तु च उत्तमवस्तु श्रीनृसिंहादुत्तमपदार्थ इत्यर्थः । अतिशयेन दूरं दूरतरं तस्मादिति दूरतरतः । अतिदूरादेवेत्यर्थः । अपास्तं निरस्तम् । मधुर लवणक्तिाम्लकटुकषायभेदेन षड्रसा एव प्रसिद्धा लोकवेदयोः । न तु सप्तम एव रसः । षड्रसातिरिक्तस्य रसस्य शशविषाणायितत्वात् । अष्टमस्तु रसः सुतरामेवाप्रसिद्धो यथा, तथा श्रीनृसिंहसदृश एव देवो नास्ति । तदुत्तमो देवस्तु सुतरां नास्तीति भावः । ननु ब्रह्मादय समा वा उत्तमा वा किं न स्युरित्यत आह यद्रोषोत्करेत्यादि । ब्रह्मेशशक्रोत्कराः ब्रह्मणश्च ब्रह्माणश्च ईशाश्च रुद्रास्ते च शक्राश्च तेषामुत्कराः समूहा अतीताद्यनन्तब्रह्मादे समस्तदेवासुरादिजगत्समुदाया इत्यर्थः । रोषणां क्रोधानामुत्करः समूहो यस्मिन् दक्षनेत्रे तद्रोषोत्करं तच्च तद्दक्षनेत्रं च दक्षिणनेत्रं च । यस्य नृसिंहस्य रोषोत्करदक्षनेत्रं यद्रोषोत्करदक्षनेत्रं तस्यः यः कुटिलो वक्रः प्रान्तः पर्यन्तभागोऽपाङ्गप्रदेश इत्यर्थः । तस्मादुत्थितः संहारकाले उत्पन्नो योऽग्निस्तस्य स्फुरन्तो ज्वलन्तः खद्योतानुपमा येषां ते खद्योतानामुपमाः तादृशा ये विष्फुलिङ्गा वह्निकणस्तैर्भसिता भस्मीकृताः ।। अनेन च श्रीनृसिंहादुत्तमवस्त्वभावे श्रुत्यनुसारिणी युक्तिः प्रमाणत्वेन दर्शिता भवति । तथा च ब्रह्मादिदेवानामुत्पत्तिस्थितिसंहृत्यादेः श्रीनृसिंहकटाक्षावलोकन मात्राधीनत्वेन तदधीनत्वात्तेषां न तद्दास्यं तदसमत्वं वेति सर्वोत्तमत्वात्स एव सर्वदा श्रेयोऽर्थिभिर्ध्येय इत्यशेषमतिमङ्गलम् ।। ननु ‘‘सृष्टृत्वेन हि स्रज्यानां प्रवेशो ब्रह्मणो लय’’ इत्यनुव्याख्याने देवानां स्वोत्तमेषु लयः श्रूयते । ततः कथं नृसिंहसंहार्यत्वमि’’ति चेत्सत्यं, देवानां लयस्तावद्द्विधः । अणद्बहिरन्तश्चेति । तत्र ‘स्रष्टुष्वेवही’त्युक्तस्य लयस्य ब्रह्माण्नाशानन्तर भावित्वेन बाह्यतत्वविषयत्वात् । अस्य च लयस्याण्डान्तरविषयत्वेनाविरोधात् ।। ननु तथापि ‘‘सङ्कर्षणश्च स बभूव पुनः सुनित्यसंहारकारणवपु’’रिति तात्पर्यनिर्णयविरोधः ।। तथा दुर्गारुद्रादिस्वोत्तमसंहार्यत्व प्रतिपादक ‘‘विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृत्तिबन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि’’ शक्रोग्रदीधितिहिमाकरसुर्यसुनुपूर्वं निहत्य निखिलं यदपाङ्गलेषम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिरित्यादि वाक्यविरोधश्च स्यादिति चेन्न । अणन्तर्ब्रह्मादिदेवानामनेकरूपाणां सत्वात् । तेषु च केषाञ्ञ्चिद् रूपाणां सङ्कर्षणनाश्यत्वस्य केषाञ्चिन्नृसिंहनाश्यत्वस्य दुर्गारुद्रादिस्वोत्तम नाश्यत्वस्य विवक्षितत्वेनाविरोधात् । अत एव भागवते - ‘‘अग्नावन्ये धारणया दग्ध्वा देहं परं पदम् । यान्ति देवाः समस्ताश्च तेषामन्या तनुर्हरिः । नृसिंहरूपी सर्वेषां हत्वा ताभिरलङ्कृतः । नृत्यते प्रलयो देवः’’ इति देवरूपविशेषणं नृसिंहसंहार्यत्वमुक्तमिति न कोऽपि विरोधः इति सर्वमनवद्यम् ।। इति श्रीनखस्तुतिव्याख्या श्रीविश्वपतितीर्थविरचिता बालबोधिनी सम्पूर्णा ।।"
Search
Search
JSON
:
Nakha/Vyakhya/BalabodhiniNakha
Add topic