Jump to content

JSON:Taittiriya

From Anandamakaranda
schema1
doc
slug"Taittiriya"
title"तैत्तिरीयोपनिषद्भाष्यम्"
type"bhashya"
docId"TTB"
parentnull
related
Empty array
nextId107
blocks
id"Taittiriya-1"
oldKey"TTB_C01_S01"
type"section"
parentnull
chapter"TTB_C01"
verseType"paada"
text"शिक्षावल्ली"
id"Taittiriya-2"
oldKey"TTB_C01_S01_V01"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥"
id"Taittiriya-3"
oldKey"TTB_C01_S01_V01_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम् । सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥"
id"Taittiriya-4"
oldKey"TTB_C01_S01_V02"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"ॐ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ २ ॥"
id"Taittiriya-5"
oldKey"TTB_C01_S01_V02_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"वरणीयो वर्णः । स्वरतेस्तु स्वरः । मानात् त्राता मात्रा । बलरूपः । समश्च सर्वरूपेषु । सन्ततश्च ।"
id"Taittiriya-6"
oldKey"TTB_C01_S01_V03"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहितायाः उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते ॥ ३ ॥"
id"Taittiriya-7"
oldKey"TTB_C01_S01_V03_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"नारायणादिरूपाणि लोकादिषु च पञ्चसु ।"
id"Taittiriya-8"
oldKey"TTB_C01_S01_V04"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः । वायुः सन्धानम् । इत्यधिलोकम् ॥ ४ ॥"
id"Taittiriya-9"
oldKey"TTB_C01_S01_V05"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् ॥ ५ ॥"
id"Taittiriya-10"
oldKey"TTB_C01_S01_V06"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ ६ ॥"
id"Taittiriya-11"
oldKey"TTB_C01_S01_V07"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ७ ॥"
id"Taittiriya-12"
oldKey"TTB_C01_S01_V08"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अथाध्यात्मम् । अधराहनुः पूर्वरूपम् । उत्तराहनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ८ ॥"
id"Taittiriya-13"
oldKey"TTB_C01_S01_V09"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय ॥ ९ ॥"
id"Taittiriya-14"
oldKey"TTB_C01_S01_V10"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा ॥ १० ॥"
id"Taittiriya-15"
oldKey"TTB_C01_S01_V11"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि मा यन्तु ब्रह्मचारिणः स्वाहा । प्र मा यन्तु ब्रह्मचारिणः स्वाहा । दमा यन्तु ब्रह्मचारिणः स्वाहा । शमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा ॥ ११ ॥"
id"Taittiriya-16"
oldKey"TTB_C01_S01_V12"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरा यन्तु ब्रह्मचारिणः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ १२ ॥"
id"Taittiriya-17"
oldKey"TTB_C01_S01_V12_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"यो विश्वरूपो भगवांश्च्छन्दसामधिपो हरिः । छन्दोभ्योऽमृतरूपेभ्यस्सुव्यक्तस्तदुपासनात् ॥ मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते ॥ इति च ।"
id"Taittiriya-18"
oldKey"TTB_C01_S01_V13"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ॥ १३ ॥"
id"Taittiriya-19"
oldKey"TTB_C01_S01_V13_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"भूरादिव्याहृतीभिस्तु वाच्यं मूर्तिचतुष्टयम् । अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः ॥ वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः । भूर्नामाथ भुवोनामा बाहू प्रद्युम्न ईरितः ॥ सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः । अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते ॥ निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः ॥ १३ ॥"
id"Taittiriya-20"
oldKey"TTB_C01_S01_V14"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"भूरिति वा अयं लोकः । भुवः इत्यन्तरिक्षम् । सुवरित्यसौ लोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे लोका महीयन्ते ।"
id"Taittiriya-21"
oldKey"TTB_C01_S01_V15"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते ।"
id"Taittiriya-22"
oldKey"TTB_C01_S01_V16"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।"
id"Taittiriya-23"
oldKey"TTB_C01_S01_V17"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ १४ ॥"
id"Taittiriya-24"
oldKey"TTB_C01_S01_V17_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"लोकज्योतिःप्राणवेदेष्वेकस्स पुरुषोत्तमः । प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ महीयते महति च स्वयं स भगवान् हरिः । पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते ॥ नामप्रवृत्तिहेतुत्वान्नाम लोकादिकं हरेः । अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः ॥ ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेस्सुतः । अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत् ॥ चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः । यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः ॥ बृहत्वात् ब्रह्म वेदानां समुदायेऽखिले स्थितः । तत्सम्बन्धाद्वेदराशिर्ब्रह्मशब्देन कीर्तितः ॥ प्रकृष्टनयनात् प्राणोऽपानोऽवाङ्नयनाद्धरिः । विविधं नयनाद् व्यानस्सोऽन्नं सर्वोपजीव्यतः ॥ एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः । महाचमसनामासौ यस्मादतिचमत्कृतिः ॥ माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः । एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः ॥ स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन् । सर्वदेवैरतितरां यस्सम्यक् षोडशात्मवित् ॥ इति व्याहृतितत्त्वे ।"
id"Taittiriya-25"
oldKey"TTB_C01_S01_V18"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो वि वर्तते । व्यपोह्य शीर्षकपाले ॥ १५ ॥"
id"Taittiriya-26"
oldKey"TTB_C01_S01_V18_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः । प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः ॥ व्याख्यस्सुपर्णरूपत्वात् केशान्ते वर्तते तु यः । सङ्कर्षणस्सुपर्णात्मा वासुदेवो व्यपस्स्मृतः ॥ यस्माद्व्यपगतस्थाता जगति प्रलये विभुः । अशीर्षककपालोसौ कपालादुपरि स्थितः ॥ १५ ॥"
id"Taittiriya-27"
oldKey"TTB_C01_S01_V19"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् ततो भवति ॥ १६ ॥"
id"Taittiriya-28"
oldKey"TTB_C01_S01_V20"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् । इति प्राचीनयोग्योपास्व ॥ १७ ॥"
id"Taittiriya-29"
oldKey"TTB_C01_S01_V20_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः । प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः ॥ सङ्कर्षणस्सुवर्नामा सूर्ये तिष्ठति केशवः । महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे ॥ स वासुदेवस्स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ । अनिरुद्धे च संव्याप्तः ततो वागादिनां पतिः ॥ वागादिषु स्थितो नित्यं भवत्येष जनार्दनः । स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः ॥ आकाशवद्व्याप्तदेहस्सत्यात्मा गुणपूर्तितः । वायोर्विशेषरमको बलानन्दस्वरूपवान् ॥ ज्ञानानन्दस्वरूपोऽसौ शान्तिनामा सुखोन्नतेः । अन्तगत्वात् स्वतः पूर्तेस्समृद्धं तत् प्रकीर्तितम् ॥ इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने । प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम् ॥ इति ब्रह्मसारे ॥"
id"Taittiriya-30"
oldKey"TTB_C01_S01_V21"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसं स्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १८ ॥"
id"Taittiriya-31"
oldKey"TTB_C01_S01_V21_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"पृथिव्याद्यं पाङ्क्तषट्कं पाङ्क्तेनैव स्वयं हरिः । नारायणादिरूपेण बलयत्यञ्जसा प्रभुः ॥ इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः ॥ इति तत्त्वसंहितायाम् ॥"
id"Taittiriya-32"
oldKey"TTB_C01_S01_V22"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"ॐ इति ब्रह्म । ॐ इतीदं सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्या श्रावयन्ति । ओमिति सामानि गायन्ति । ओग्ंशोमिति शस्त्राणि शग्ंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १९ ॥"
id"Taittiriya-33"
oldKey"TTB_C01_S01_V22_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"ॐनामा भगवान् विष्णुरधिकोच्चगुणत्वतः । यद्यद्रूपं भगवतस्तदिदं सर्वमेव च ॥ ओमेवाधिकपूर्णत्वात् तस्माद्यज्ञेषु चर्त्विजः । ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम् ॥ अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि । अधिकोच्च महाधाम सूच्च देवेति चादरात् ॥ प्रति प्रति गृणात्येनं शंरूपात्युच्चशावन । इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः ॥ एवं स्वऽध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा । एवं जानन्त एते तु प्राप्नुवन्त्येव तत्परम् ॥ इति च ॥ १९ ॥"
id"Taittiriya-34"
oldKey"TTB_C01_S01_V23"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च च स्वाध्यायप्रवचने च । दमश्च च स्वाध्यायप्रवचने च । शमश्च च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ॥ २० ॥"
id"Taittiriya-35"
oldKey"TTB_C01_S01_V23_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"ऋतं च स्वाध्यायप्रवचने च कर्तव्यानि । प्रवचनं व्याख्यानम् । यथार्थज्ञानं ऋतम् । तत्पूर्वकं यथार्थवचनं करणं च सत्यम् ।"
id"Taittiriya-36"
oldKey"TTB_C01_S01_V24"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ २१ ॥"
id"Taittiriya-37"
oldKey"TTB_C01_S01_V24_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत् । स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः ॥ इति च ॥"
id"Taittiriya-38"
oldKey"TTB_C01_S01_V25"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणग्ं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ २२ ॥"
id"Taittiriya-39"
oldKey"TTB_C01_S01_V25_B01"
type"bhashya"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseTypenull
text"संसारवृक्षच्छेत्ताऽहं मत्कीर्तिः पर्वतोपमा । अत्युत्कृष्टेन हरिणा पावितोऽस्मि यतः स्फुटम् ॥ वाजिरूपश्च नेता च वाजिनी सूर्य उच्यते । तत्रस्थो भगवान् विष्णुस्सम्प्रोक्तो वाजिनीवसुः ॥ तेनामृतोऽस्मि द्रविणं नित्यानन्दस्वरूपतः । तेनामृतेन सिक्तोहं तेन व्याप्तो यतस्सदा ॥ इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः ॥ इति यजुर्विवेके ॥"
id"Taittiriya-40"
oldKey"TTB_C01_S01_V26"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकग्ं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि । ये के चास्मच्छ्रेयाग्ंसो ब्राह्मणाः । तेषां त्वयासने न प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥ २३ ॥"
id"Taittiriya-41"
oldKey"TTB_C01_S01_V27"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ताः अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ २४ ॥"
id"Taittiriya-42"
oldKey"TTB_C01_S01_V28"
type"verse"
parent"TTB_C01_S01"
chapter"TTB_C01"
verseType"mantra"
text"शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामवीत् । तद्वक्तारमवीत् । अवीन्माम् । अवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥"
id"Taittiriya-43"
oldKey"TTB_C01_S02"
type"section"
parentnull
chapter"TTB_C01"
verseType"paada"
text"ब्रह्मवल्ली"
id"Taittiriya-44"
oldKey"TTB_C01_S02_V01_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"संहितायाः पञ्चाधिकरणाभिमानित्वं प्राणादिरूपस्य वायोरपि भवति । पृथिव्यन्तरिक्षमित्युक्तपाङ्क्तत्वं च । अत उपक्रमोपसंहारयोः त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् इति युज्यते ॥"
id"Taittiriya-45"
oldKey"TTB_C01_S02_V02"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥"
id"Taittiriya-46"
oldKey"TTB_C01_S02_V03"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्त्सह । ब्रह्मणा विपश्चितेति ॥ २ ॥"
id"Taittiriya-47"
oldKey"TTB_C01_S02_V03_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"स्वयोग्यं ब्रह्मवित् भुङ्क्ते विरिञ्चेन परेण च । ब्रह्मणा सह तद्वश्यः सुखमेव न दुष्कृतम् ॥ इति च ॥ २ ॥"
id"Taittiriya-48"
oldKey"TTB_C01_S02_V04"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥ ३ ॥"
id"Taittiriya-49"
oldKey"TTB_C01_S02_V05"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा ॥ ४ ॥"
id"Taittiriya-50"
oldKey"TTB_C01_S02_V06"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तदप्येष श्लोको भवति । अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीग्ग् श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ॥ ५ ॥"
id"Taittiriya-51"
oldKey"TTB_C01_S02_V06_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"स एष भगवान् विष्णुर्भूतस्रष्टा गुणाधिकः । स एवान्नात् पुनर्जातो ह्यजातोऽपि यतो विभुः ॥ अन्नात्मनि शरीरेऽसौ व्यज्यते सुविवेकिभिः । अन्नस्य सारभूतोऽयं शरीरस्य च केशवः ॥ अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः । अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः ॥ उपजीव्यश्च भूतानामिति चान्नं जनार्दनः । स ज्यायान् सर्वभूतेभ्यस्तस्मात् सर्वौषधं स्मृतः ॥ संसारे दह्यमानानामाश्रयत्वात् स औषधम् । प्रचुरं मय इत्युक्तं प्रचुरात्ता यतो हरिः॥ प्रचुरैस्सेव्यते नित्यमतोऽन्नमय ईरितः । देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम् ॥ बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनौ तथा ॥ पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः ॥ ५ ॥"
id"Taittiriya-52"
oldKey"TTB_C01_S02_V07"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा ॥ ६ ॥"
id"Taittiriya-53"
oldKey"TTB_C01_S02_V08"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग् दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ॥ ८ ॥"
id"Taittiriya-54"
oldKey"TTB_C01_S02_V09"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ९ ॥"
id"Taittiriya-55"
oldKey"TTB_C01_S02_V09_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text".... तस्मिन् सङ्कर्षणः स्थितः ॥ शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम् । यजुःसंस्थं च बाहू तु ऋक्सामान्तःस्थितौ सदा ॥ ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः । पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः ॥ अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः । मनोवाचामगम्यं तं ज्ञात्वाऽऽनन्दस्वरूपिणम् ॥ कुतश्चिन्न बिभेत्येव .."
id"Taittiriya-56"
oldKey"TTB_C01_S02_V10"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तस्माद्वा एतस्मात् मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ॥ १० ॥"
id"Taittiriya-57"
oldKey"TTB_C01_S02_V11"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तदप्येष श्लोको भवति । विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ११ ॥"
id"Taittiriya-58"
oldKey"TTB_C01_S02_V11_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"....वासुदेवोऽन्तरस्ततः ॥ ९ ॥ श्रद्धाख्यं श्रुतिधर्तृत्वाच्छ्रद्धायां तच्छिरः स्मृतम् । ऋतं ज्ञानततेर्दाता चर्तस्थो दक्षिणः करः ॥ वामः सत्यस्थितः सत्यं सतां यस्मान्नियामकः । योगाख्यं सर्वलोकस्य योगादत्रैव योगगम् ॥ मध्यं पुच्छं महोनाम महनीयत्वतस्सदा ॥ ११ ॥"
id"Taittiriya-59"
oldKey"TTB_C01_S02_V12"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योऽन्तर आत्माऽऽ नन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥"
id"Taittiriya-60"
oldKey"TTB_C01_S02_V13"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ १२ ॥"
id"Taittiriya-61"
oldKey"TTB_C01_S02_V13_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"तस्मिन्नानन्दरूपोऽसौ स्थितो नारायणस्सदा । शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम् । मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात् ॥ मोदप्रमोदनामानावानन्दस्त्वाततत्वतः । मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥ पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा । अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः ॥ देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः । बहिःस्थो देहवद्विष्णुरन्तस्थो देहिवत् स्मृतः ॥ अन्तर्व्याप्तिविशेषेण न त्वशक्तत्वतो बहिः । सर्वेऽपि पुरुषाकाराः उत्तरात् पूर्वसम्भवाः ॥ उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः । अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता ॥ आनन्दश्च यतः पूर्णस्ततोऽन्नादिमयास्स्मृताः । अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि ॥ नामभेदस्ततस्तूक्तः सर्वनामवतामपि । पञ्चरूपं च तद् ब्रह्म जीवादन्यन्न विद्यते ॥ इति ये तु विजानन्ति तेऽसन्तस्तमआलयाः । जीवादन्यत् परं ब्रह्म पञ्चरूपं च ये विदुः ॥ सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम् ॥ १२ ॥"
id"Taittiriya-62"
oldKey"TTB_C01_S02_V14"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित् समश्नुता३ उ ॥ १३ ॥"
id"Taittiriya-63"
oldKey"TTB_C01_S02_V14_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"इत्युक्ते ब्रह्मणा पूर्वं पप्रच्छवरुणो विभुम् । अविद्वानपि यः कश्चिद् ब्रह्माप्नोति कथञ्चन ॥ विद्वानेवोत तत्रापि सर्वे वाऽथैव केचन । यदि सर्वेऽथ तत्रापि सर्वे सम्यक् समाप्नुयुः ॥ केचिदेवोत सम्यक् तदसम्यगपरे जनाः । ज्ञानिनोऽपीति पृष्टः सन् ब्रह्मा प्राह चतुर्मुखः ॥ अज्ञा न प्राप्नुयुर्ब्रह्म प्राप्नुयुर्ज्ञानिनोऽखिलाः । तत्रापि सम्यक् प्राप्तिस्तु विरिञ्चस्यैव सर्वदा ॥ अन्येषां तारतम्येन प्राप्तिः सुखविशेषतः । इत्यभिप्रायवान् ब्रह्मा ह्युकारेण समासतः ॥ उक्त्वा प्रश्नोत्तरं पश्चाद्विस्तरेण जगाद ह । कश्चिदेवोत सम्यक् तदाप्नुयादिति वाक्यतः ॥ अनन्तरं तथैवेति ब्रह्मोङ्कारमुवाच ह ॥ १३ ॥"
id"Taittiriya-64"
oldKey"TTB_C01_S02_V15"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदग्ं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानु प्राविशत् । तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत् सत्यमित्याचक्षते ॥ १४ ॥"
id"Taittiriya-65"
oldKey"TTB_C01_S02_V15_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"अज्ञो नैव तदाप्नोति ज्ञान्येवैतदवाप्नुते । इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु ॥ आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः । प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः ॥ अग्न्यादयोऽपि किमुत तदन्ये मुक्तिदस्ततः । स एवैकस्स विज्ञेयः पूर्णैश्वर्यादिरूपवान् ॥ इति तस्य महैश्वर्यमुच्यते स त्वकामयत् । सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु ॥ बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत् । स्यादित्यालोचनान्नान्यत् तपो विष्णोः कदाचन ॥ अवतारेष्वनुकृतिर्बाह्यवृत्या तपस्विनाम् । सृष्टिर्नाम स्वरूपात्तु बहिर्निष्क्रमणं स्मृतम् ॥ यद्यपीदं जगत्सर्वं स्वोदरस्थं महात्मनः । तथाऽप्येष द्वितीयेन रूपेण बहिराक्षिपेत् ॥ रूपान्तरेणाविशच्च जगत्सर्वं जनार्दनः । त्यच्चानिरुक्तं विज्ञानं तथा निलयनं महान् ॥ सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथाऽनृतम् । अविज्ञानं चानिलयनं प्रकृतिप्राणयोः परम् ॥ तद्गविष्णोस्तु सम्बन्धात् स्वतस्तन्नामको हरिः । ततो नियामकश्चेति त्यदानन्त्यादवाच्यतः ॥ अनिरुक्तं निलयनं सर्वाधारत्वतो हरिः । विज्ञानं सर्वविज्ञानात् सत्यं साधुस्वरूपतः ॥ अवसादसुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः । प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः ॥ अतः साधुस्वरूपः सन् सत्यनामाऽनृतादिकम् । नामानेन गतत्वादेर्यदिदं किञ्च भाषितम् ॥ सन्निरुक्तादिशब्देन तत् सर्वं साधुतैव हि । अवसादनादिहेतुत्वं साधुतैव हि सर्वशः ॥ असाधुताऽवसादादिस्तत्कर्तृत्वं हि भाषितम् ॥ १४ ॥"
id"Taittiriya-66"
oldKey"TTB_C01_S02_V16"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तदप्येष श्लोको भवति । असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानग्ग् स्वयमकुरुत । तस्मात् तत् सुकृतमुच्यत इति ॥ यद्वै तत् सुकृतम् । रसो वै सः । रसग्ग् ह्येवायं लब्ध्वाऽऽनन्दीभवति । को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति ॥ १५ ॥"
id"Taittiriya-67"
oldKey"TTB_C01_S02_V16_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः । स आसाद्यश्च सन्नामा वासुदेवोऽभवत् प्रभुः ॥ स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम् । तस्मात् तत् सुकृतं नाम स आनन्दो रसस्ततः ॥ आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्न चान्यथा । आदीप्तस्त्वेष भगवान् यद्यानन्दो भवेन्न च ॥ सामान्यचेष्टा धर्म्याश्च कस्य स्युस्तमृते प्रभुम् । सुखं लब्ध्वा हि कुरुते लोकचेष्टां जनार्दनः ॥ अल्पात् सुखादल्पकर्मा पूर्णानन्दाद्धि सर्वकृत् । न ह्यार्ताः कर्म कुर्वन्ति मुग्धाश्चैव विशेषतः ॥ तस्माद् यादृक् सुखं तादृक् कर्म पूर्णसुखत्वतः । सर्वकृत्त्वात् परो विष्णुराह तस्मात् सनातनी ॥ सुखं लब्ध्वा करोतीति च्छन्दोगानां श्रुतिः परा । अलब्ध्वा तु सुखं नैव करोतीत्यपि सादरम् ॥ तत् पूर्णानन्ददेवेन कारितः प्राणिति स्फुटम् । सर्वलोकः स एवैक आनन्दयति चाखिलम् ॥ १५ ॥"
id"Taittiriya-68"
oldKey"TTB_C01_S02_V17"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"यदा ह्येवैष एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति । भीषास्माद् वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ॥ १६ ॥"
id"Taittiriya-69"
oldKey"TTB_C01_S02_V17_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"तस्माददृश्ये जैवानां गुणानामप्यसङ्गतेः । अनात्म्येऽथ गुणानन्त्यादनिरुक्ते निराश्रयात् ॥ अनिलयनेऽभयत्वेन यदा ज्ञानेन तिष्ठति । तदाऽभयं हरिं गच्छेन्नैवाज्ञानी कथञ्चन ॥ यदैतस्मिन् परे विष्णावुदरं जीवगत्वतः । भेदं करोति तेनैव भयमस्य महद् भवेत् ॥ अ इत्युक्तः परो विष्णुरेभ्य उच्च स एव तु । त उदा जीवसङ्घाः स्युरुदरं तद्गतान्तरम् ॥ तदेव ब्रह्म भयकृद् विदुषोऽविदुषस्तथा । विदुषोऽल्पभयं कुर्याद् यावन्मुक्तिं व्रजत्यसौ ॥ अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा । तस्माद् वाय्वादयो देवा विद्वांसोऽपि विशेषतः ॥ भीताः स्वकर्म कुर्वन्ति विष्णोः प्रीत्यर्थमञ्जसा । अमन्वानस्य नुर्विष्णुः कुर्यान्नित्यं महद्भयम् ॥ तमआख्यमनुत्थानम् .... .... ॥ १६ ॥"
id"Taittiriya-70"
oldKey"TTB_C01_S02_V18"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"सैषानन्दस्य मीमाग्ं सा भवति । युवा स्यात् साधु युवाऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १७ ॥"
id"Taittiriya-71"
oldKey"TTB_C01_S02_V18_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"..... विदुषां नियमेन तु । स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता ॥ यस्तु साधुगुणैर्युक्तस्तस्यैवाप्यखिला मही । त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः ॥ अधीतिफलपूर्णत्वादाध्यायक इतीरितः । स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः ॥ एकानन्दस्वरूपोऽसौ मानुषो मुक्त इष्यते । तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः ॥ मुक्ताः श्रुतिफलं प्राप्तास्ततः कामाहतास्तथा ॥ १७ ॥"
id"Taittiriya-72"
oldKey"TTB_C01_S02_V19"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १८ ॥"
id"Taittiriya-73"
oldKey"TTB_C01_S02_V20"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १९ ॥"
id"Taittiriya-74"
oldKey"TTB_C01_S02_V21"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २० ॥"
id"Taittiriya-75"
oldKey"TTB_C01_S02_V22"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानामानन्दः ॥ ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ॥२१॥"
id"Taittiriya-76"
oldKey"TTB_C01_S02_V23"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २२ ॥"
id"Taittiriya-77"
oldKey"TTB_C01_S02_V24"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २३ ॥"
id"Taittiriya-78"
oldKey"TTB_C01_S02_V25"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २४ ॥"
id"Taittiriya-79"
oldKey"TTB_C01_S02_V26"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं बृहस्पतेरानन्दाः ॥ स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २५ ॥"
id"Taittiriya-80"
oldKey"TTB_C01_S02_V27"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २६ ॥"
id"Taittiriya-81"
oldKey"TTB_C01_S02_V27_B01"
type"bhashya"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseTypenull
text"तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः । ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च ॥ शताधिका हि पितरस्तेभ्य आजानदेवताः । अनाख्याता देवतास्तु जाता देवकुले च याः ॥ आजानदेवतास्ता हि ताभ्योऽग्र्याः कर्मदेवताः । बल्याद्या अन्तराप्राप्तदेवताः कर्मदेवताः ॥ ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः । तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रारयत् पुरा ॥ तस्मात् बृहस्पतिर्नाम महेन्द्रत्वात् पुरन्दरः । तस्मात् प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता ॥ तस्माद् ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः । यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलाधिके ॥ सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिलाः । अथवा सहस्रगुणिता अनन्तगुणितास्तथा ॥ परिमाणे शतगुणेऽप्यानन्दस्फुटतावशात् । यथा दीपाच्छतगुणाऽप्यग्निज्वाला न दीपवत् ॥ स्फुटीभवेद् यथैवाग्निर्बहुलोऽपि न सूर्यवत् । यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ॥ उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः । प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः ॥ अतोऽस्पष्टस्वरूपास्ते स्फुटरूपास्तथोत्तराः ॥ १८-२६ ॥"
id"Taittiriya-82"
oldKey"TTB_C01_S02_V28"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति ॥ २७ ॥"
id"Taittiriya-83"
oldKey"TTB_C01_S02_V29"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति ॥ एतग्ं ह वाव न तपति । किमहग्ं साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानग्ग् स्पृणुते । उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ २८ ॥"
id"Taittiriya-84"
oldKey"TTB_C01_S02_V30"
type"verse"
parent"TTB_C01_S02"
chapter"TTB_C01"
verseType"mantra"
text"ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ इति ब्रह्मवल्ली ॥ २ ॥"
id"Taittiriya-85"
oldKey"TTB_C01_S03"
type"section"
parentnull
chapter"TTB_C01"
verseType"paada"
text"भुगुवल्ली"
id"Taittiriya-86"
oldKey"TTB_C01_S03_V01_B01"
type"bhashya"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseTypenull
text"यत्प्रसादात् स्वरूपाप्तिर्ब्रह्मादीनां समन्ततः । स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः । एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः ॥ सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान् । जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम् ॥ विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन । प्रियाप्रियेषु तज्ज्ञानी ह्यास्तृणोति यतो नृषु ॥ अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम् । ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति ॥ इत्यादि यजुःसंहितायाम् ।"
id"Taittiriya-87"
oldKey"TTB_C01_S03_V02"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तग्ं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ॥ १ ॥"
id"Taittiriya-88"
oldKey"TTB_C01_S03_V03"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"स तपोऽतप्यत । स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ २ ॥"
id"Taittiriya-89"
oldKey"TTB_C01_S03_V04"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"स तपोऽतप्यत । स तपस्तप्त्वा । प्राणं ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ ३ ॥"
id"Taittiriya-90"
oldKey"TTB_C01_S03_V05"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"स तपोऽतप्यत । स तपस्तप्त्वा । मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ ४ ॥"
id"Taittiriya-91"
oldKey"TTB_C01_S03_V06"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"स तपोऽतप्यत । स तपस्तप्त्वा । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ ५ ॥"
id"Taittiriya-92"
oldKey"TTB_C01_S03_V07"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"स तपोऽतप्यत । स तपस्तप्त्वा । आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ॥ ६ ॥"
id"Taittiriya-93"
oldKey"TTB_C01_S03_V08"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ७ ॥"
id"Taittiriya-94"
oldKey"TTB_C01_S03_V09"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"अन्नं न निन्द्यात् । तद् व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ८ ॥"
id"Taittiriya-95"
oldKey"TTB_C01_S03_V09_B01"
type"bhashya"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseTypenull
text"चक्षुः स चष्टे यद् विष्णुः श्रोत्रं श्रोतृत्वतो विभुः । वाक् च वक्तृत्वतो नित्यं मनो मन्तृत्वतस्तथा ॥ तपो ज्ञानस्वरूपत्वाद् विज्ञानं तु विवेचनात् । ज्ञानानुसन्धानरूपतपसा तं जनार्दनम् ॥ क्रमाद् भृगुर्व्यजानात् तमन्नादिबहुरूपिणम् । एवं विजानंस्तं विष्णुं तस्मिंस्तु प्रतितिष्ठति ॥ मुक्तो भूत्वाऽन्नवांश्च स्यादन्नादश्च सदैव तु । अन्ननामा तु भगवान् विद्वांस्तमुपजीवति ॥ तद्वांश्च तेन गुप्तत्वात् .... ॥ १८ ॥"
id"Taittiriya-96"
oldKey"TTB_C01_S03_V10"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"अन्नं न परिचक्षीत । तद् व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ९ ॥"
id"Taittiriya-97"
oldKey"TTB_C01_S03_V11"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"अन्नं बहु कुर्वीत । तद् व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १० ॥"
id"Taittiriya-98"
oldKey"TTB_C01_S03_V12"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"न कं चन वसतौ प्रत्याचक्षीत । तद् व्रतम् । तस्माद् यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोन्नग्ं राद्धम् । मुखतोऽस्मा अन्नग्ं राध्यते । एतद्वै मध्यतोऽन्नग्ं राद्धम् । मध्यतोऽस्मा अन्नग्ं राध्यते । एतद्वा अन्ततोन्नग्ं राद्धम् । अन्ततोऽस्मा अन्नग्ं राध्यते । य एवं वेद ॥ ११ ॥"
id"Taittiriya-99"
oldKey"TTB_C01_S03_V12_B01"
type"bhashya"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseTypenull
text"..... विद्यार्थे वसतीच्छया । आगतं नेति न ब्रूयात् तदेतद् विदुषो व्रतम् ॥ स विष्णुः पृथिवीनामा पृथुत्वात् प्राणनामकः । प्रकृष्टानन्दबलत आकाशः सर्ववेत्तृतः ॥ शराख्यदेहिनश्चैव शरीरं प्रेरणात् स्मृतः । एतैश्चतुभिर्भगवान् रूपैश्च चतुरात्मभिः ॥ भोग्यभोक्तृस्वरूपेण तिष्ठति क्रीडया स्वयम् । न च भोग्यत्वमात्रेण हीनत्वं तस्य कुत्रचित् ॥ न हि भार्योपभोग्यस्तु भर्ता हीनत्वमाप्नुयात् । एवं स भगवान् विष्णुरविशेषोऽखिलेष्वपि ॥ रूपेषु क्रीडते नित्यं भोक्ता भोग्य इतीच्छया । अन्नाख्यं तं नैव निन्द्यात् बहु मन्येत तं सदा ॥ इति व्रतद्वयं ह्येतद् भाव्यं यदि सुखे स्पृहा । येन केनापि विधिना बह्वित्येव जनार्दनम् ॥ मत्वैव प्राप्नुयान्नित्यं मनोवाक्कायवृत्तिभिः । य एवं समुपासीत तस्यान्नाख्यो हरिः स्वयम् ॥ सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः । यस्य तद् ब्रह्म संसिद्धं पूर्वं तेनाप्यतेऽग्रतः ॥ मध्ये वयसि चेत् सिद्धं मुक्तो मध्यं प्रपश्यति । वार्धके चेद् विजानाति मुक्तः पादौ प्रपश्यति ॥ तेजोमण्डलमेवान्यत् अङ्गं विष्णोः प्रपश्यति । पूर्वे वयसि बोद्धव्यमामुखात् सर्वदृष्टये ॥ ११ ॥"
id"Taittiriya-100"
oldKey"TTB_C01_S03_V13"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ॥ १२ ॥"
id"Taittiriya-101"
oldKey"TTB_C01_S03_V13_B01"
type"bhashya"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseTypenull
text"क्षेमकृत्वात् क्षेमनामा वाचिस्थः स परो हरिः । योगनामा तथा प्राणे सर्वकामनियोजनात् ॥ क्षेमनामा क्षेमकृत्त्वादपानेऽपि हरिः स्वयम् । कर्मनामा हस्तगतः कर्मकृत्त्वाज्जनार्दनः ॥ गतिदत्वात् गतिर्नाम पादस्थः पुरुषोत्तमः । विसर्गकृद् विमुक्त्याख्यः पायुस्थः परमो विभुः ॥ अध्यात्मस्थ इति प्रोक्तोऽथाधिदैवगतं शृणु । पर्जन्ये तृप्तिनामासौ तृप्तिदत्वाज्जनार्दनः ॥ वायौ तु बलनामा च बलदत्वात् सदैव हि । यशःप्रदत्वात् दक्षे तु यशः पश्वभिमानिनि ॥ नक्षत्रेषु ज्योतिराख्यो ज्योतिर्दातृत्वतो हरिः । उपस्थमानिनि शिवे प्रजात्यानन्दसन्ततेः ॥ दातृत्वात् तत्तदाख्योऽसौ सन्ततिस्त्वमृतं स्मृतम् । सर्वः सर्वप्रदत्वात् तु प्रकृतौ पुरुषोत्तमः ॥ १२ ॥"
id"Taittiriya-102"
oldKey"TTB_C01_S03_V14"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति । तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः ॥ १३ ॥"
id"Taittiriya-103"
oldKey"TTB_C01_S03_V14_B01"
type"bhashya"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseTypenull
text"स प्रतिष्ठा स्थापकत्वात् मनो मान्यत्वतो हरिः । नमो नम्यत्वतो नित्यं महश्चापि महत्त्वतः ॥ विरिञ्चमारकश्चासौ ब्रह्म पूर्णगुणत्वतः ॥ १३ ॥"
id"Taittiriya-104"
oldKey"TTB_C01_S03_V15"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमाल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत् साम गायन्नास्ते । हा३वु हा३वु हा३वु । अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः । अहग्ग् श्लोककृदहग्ग्लोककृदहग्ग्श्लोककृत् ॥ १४ ॥"
id"Taittiriya-105"
oldKey"TTB_C01_S03_V16"
type"verse"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseType"mantra"
text"अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३भाइ । यो मा ददाति स इदेव मा३वाः । अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवाम् । सुवर्णज्योतीः । य एवं वेद । इत्युपनिषत् ॥ १५ ॥"
id"Taittiriya-106"
oldKey"TTB_C01_S03_V16_B01"
type"bhashya"
parent"TTB_C01_S03"
chapter"TTB_C01"
verseTypenull
text"वेदैनं तत्त्वतो ब्रह्मा स एनं पञ्चरूपिणम् ॥ प्राप्य गायति मुक्तः सन्नन्ननामाऽस्मि भोग्यतः । यथेष्टमन्नभोक्ता च कीर्तिकर्ता हरेस्तथा ॥ ऋतरूपस्य विष्णोस्तु पुत्रः प्रथमजो ह्यहम् । देवेभ्यः पूर्वजश्चाहं मुक्तानामाश्रयः सदा ॥ यो ददाति च मां सम्यग् विष्णुतत्त्वप्रकाशकः । स इत्थमेव मां याति विष्णोरन्नमहं सदा ॥ ममान्नं सर्वजीवास्तु भोग्या मम यतः सदा । सर्वमभ्यभवं चाहं गुणैः सर्वैश्च नित्यकैः ॥ सुवर्णो भगवान् विष्णुर्ज्योतिः स मम (रे)रोचकः । योऽहमेवंविदभवं तस्य मे माधवः पतिः ॥ इति ब्रह्मा गायमानो मुक्तश्चरति सर्वदा ॥ इति यजुःसंहितायाम् ॥"