Katha/Moola

Revision as of 20:53, 16 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
काठकोपनिषद्भाष्यम् — मूलम्
Katha

प्रथमोध्यायः

उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश ॥ १ ॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् ।
बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
आशाप्रतीक्षे सङ्गतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान् ।
तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
शान्तसङ्कल्पः सुमना यथा स्यात् वीतमन्युर्गौतमो माऽभि मृत्यो ।
यथा पुरस्तात् भविता प्रतीतः औद्दालकिरारुणिर्मत्प्रसृष्टः ।
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् ।
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददानि भूयः ।
त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू ।
त्रिनाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।
एष तेऽग्निर्नाचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।
देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयोऽणुरेष धर्मः ।
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।
एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व ।
श्वोऽभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ।
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वाम् ।
अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वाधस्थः प्रजानन् ।
यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत् ।
अन्यच्छ्रेयोऽन्यदुतेव प्रेयः ते उभे नानार्थे पुरुषं सिनीतः ।
श्रेयश्च प्रेयश्च मनुष्यमेत स्तौ सम्परीत्य विविनक्ति धीरः ।
स त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः ।
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेनमाप्य ।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परम् ।
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
न जायते म्रियते वा विपश्चि न्नायं कुतश्चिन्न बभूव कश्चित् ।
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।
नायमात्मा प्रवचेन लभ्यो न मेधया न बहुना श्रुतेन ।
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः ।
यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः ।
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे ।
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
यस्तवविज्ञानवान् भवत्यमनस्कः सदाशुचिः ।
यस्तु विज्ञानवान् भवति समनस्कः सदाशुचिः ।
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः ।
इन्द्रियेभ्यः परा ह्यर्था अथेभ्यश्च परं मनः ।
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि ।
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।

द्वितीयाध्यायः

पराञ्चि खानि व्यतृणात् स्वयम्भूस्तस्मात् पराक् पश्यति नान्तरात्मन् ।
पराचः कामाननुयन्ति बालाः ते मृत्योर्यन्ति विततस्य पाशान् ।
येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् ।
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
य इदं मध्वदं वेदात्मानं जीवमन्तिकात् ।
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
या प्राणेन सम्भवत्यदितिर्देवतामयी ।
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
यतश्चोदेति सूर्योस्तं यत्र च गच्छति ।
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
पुरमेकादशद्वारमजस्यावक्रचेतसः ।
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् ।
भयादस्याग्निस्तपति भयात् तपति सूर्यः ।
इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः ।
यथादर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव दृश्यते तथा गन्धर्वलोके । छायातपयोरिव ब्रह्मलोके ॥ ५ ॥
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
अव्यक्तात् तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
शतं चैका च हृदयस्य नाड्य स्तासां मूर्धानमभिनिःसृतैका ।
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।
मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।