Pramanapaddati/JSON


{
  "schema": 1,
  "doc": {
    "slug": "Pramanapaddati",
    "title": "॥ प्रमाणपद्धतिः ॥",
    "type": "bhashya",
    "docId": "pp",
    "parent": null,
    "related": [],
    "nextId": 188
  },
  "blocks": [
    {
      "id": "Pramanapaddati-1",
      "oldKey": "PP_C01_B01",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकं अभिहितम्‌।  तथाऽपि गम्भीरया वाचा विक्षिप्य वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति  तदर्थमिदं प्रकरणं आरभ्यते ।‌"
    },
    {
      "id": "Pramanapaddati-2",
      "oldKey": "PP_C01_B02",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "यो धर्मो लक्ष्ये व्याप्त्या वर्तते, न वर्तते च अन्यत्र, स धर्मो लक्षणमित्युच्यते । यथा गोः सास्नादिमत्वम्‌। तद्धि गोषु सर्वत्र अस्ति, नास्ति च अगोषु ।‌"
    },
    {
      "id": "Pramanapaddati-3",
      "oldKey": "PP_C01_B03",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "अन्यथाभूतं तु अलक्षणम्‌। तत्‌ त्रिविधम्‌। असम्भवि, यल्लक्ष्ये सर्वथा न वर्तते । यथा गोरेकशफत्वम्‌। अव्यापकं, यल्लक्ष्यैकदेशे वर्तमानमपि तदेकदेशान्तरे न वर्तते । यथा गोः शबलत्वम्‌। अतिव्यापकं, यल्लक्ष्यादन्यत्रापि वर्तते । यथा विषाणित्वम्‌।‌"
    },
    {
      "id": "Pramanapaddati-4",
      "oldKey": "PP_C01_B04",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य प्रयोजनम्‌। 'अस्मिन्‌ग्रामे देवदत्तगृह'मिति वार्तां श्रुतवतो हि तद्ग्रामस्थेषु सर्वेष्वपि गृशेषु देवदत्तगृहबुद्धिः प्रसक्ता ।  ततो 'यत्र पताका तत्‌देवदत्तगृहमि'ति तल्लक्षणज्ञाने सति, इदमेव, नान्यदित्यवधारणं जायते । शब्दव्यवहारो वा लक्षणज्ञानस्य प्रयोजनम्‌।‌"
    },
    {
      "id": "Pramanapaddati-5",
      "oldKey": "PP_C01_B05",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "'सास्नादिमान्‌ गौरि'ति लक्षणज्ञाने सति, यं यं सास्नादिमन्तं पिण्डं पश्यति, तं तं गोशब्दवाच्यं प्रत्येति । यावदन्यतो व्यावर्तनीयं, यावति चैकः शब्दो व्युत्पादनीयः, तदुच्यते लक्ष्यमिति ।"
    },
    {
      "id": "Pramanapaddati-6",
      "oldKey": "PP_C01_B06",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तत्र आदौ तावत्‌प्रमाणसामान्यलक्षणमुच्यते । यथार्थं प्रमाणम्‌। प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवं उत्तरत्रापि ज्ञातव्यम्‌। अत्र यथाशब्दोऽनतिक्रमे वर्तते । अर्थशब्दश्चार्थ्यते इति व्युत्पत्तया ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं, यथावस्थितमेव ज्ञेयं यद्विषयीकरोति, नान्यथा, तत्‌प्रमाणमित्यर्थः ।‌"
    },
    {
      "id": "Pramanapaddati-7",
      "oldKey": "PP_C01_B07",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "ज्ञेयविषयीकारित्वं च साक्षाद्वा, साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा विवक्षितमिति न अनुप्रमाणेष्वव्याप्तिः । ज्ञेयविषयीकारित्वेनैव प्रमातृप्रमेययोर्व्यवच्छेदः । तयोः साक्षाज्ज्ञेयविषयीकारित्वाभावात्‌। साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपि तत्साधनत्वाभावाच्च ।‌"
    },
    {
      "id": "Pramanapaddati-8",
      "oldKey": "PP_C01_B08",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "प्रमावान्‌प्रमाता । प्रमाविषयः प्रमेयम्‌। यथार्थज्ञानं प्रमा ।‌‌"
    },
    {
      "id": "Pramanapaddati-9",
      "oldKey": "PP_C01_B09",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "यथार्थग्रहणेन संशयविपर्ययतत्साधनानां निरासः ।‌‌"
    },
    {
      "id": "Pramanapaddati-10",
      "oldKey": "PP_C01_B10",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "अनवधारणज्ञानं संशयः । अनवधारणग्रहणं सम्यज्जञानविपर्ययव्युदासार्थम्‌। घटादिनिवृत्त्यर्थं ज्ञानमिति । तस्य निर्णायकाभावसहकृताः साधारणधर्माऽसाधारणधर्मविप्रतिपत्तयुपलब्ध्यनुपलब्धयः पञ्च कारणानीति केचिदाहुः । तद्यथा स्थाणुपुरुषयोः साधारणमूर्ध्वतालक्षणं धर्मं पुरोवर्तिन्युपलभ्य स्थाणुपुरुषो स्मृत्वा, विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं वक्रकोटरादिकं, पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य डोलायमानं संशयज्ञानमुत्पद्यते, 'किमयं स्थाणुर्वा, पुरुशो वा' इति । शब्दे चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य निर्णायकमजानतः संशयो भवति, 'किं शब्दो नित्योऽनित्यो वे'ति ।‌"
    },
    {
      "id": "Pramanapaddati-11",
      "oldKey": "PP_C01_B11",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "इन्द्रियेषु वैशेषिकसाङ्ख्ययोर्भौतिकत्वाभौतिकत्वविप्रतिपत्तिं पश्यतो निश्चायकमजानतः सन्देहो भवति, 'किमिन्द्रियाणि भौतिकान्युताऽभौतिकानी'ति । कूपखननानन्तरं जलोपलब्धौ सत्यां, निश्चायकाभावे संशयो जायते, 'किं प्राक्‌सदेवोदकं कूपखननेनाभिव्यक्तमुपलभ्यते, उतासत्तेनोत्पन्नमि'ति । 'अस्मिन्‌वटे पिशाचः अस्ती'ति वार्थां श्रुतवतो वटसमीपं गतस्य, तत्र पिशाचानुपलब्धौ सत्यां निर्णायकाभावे संशयो भवति, 'किं विद्यमान एव पिशाचोऽन्तर्धानशक्त्यानोपलभ्यते, किंवाऽविद्यमान एवे'ति । उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावात्‌त्रीण्येव कारणानीत्यपरे । उपलब्धिर्हि सतामेव घटादीनां प्रदीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारानन्तरमिति । तथाऽनुपलब्धिः सतामीश्वरादीनामसतां च शशविषणादीनां दृष्टेति ।‌"
    },
    {
      "id": "Pramanapaddati-12",
      "oldKey": "PP_C01_B12",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "वयं तु ब्रूमः । असाधारणधर्मविप्रतिपत्त्योरपि साधारणधर्म एवान्तर्भावः । असाधारणो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात्‌। किन्तु व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वमनित्यस्य, अनित्यव्यावृत्तत्वं च नित्यस्य धर्म इति साधारण एव ।‌"
    },
    {
      "id": "Pramanapaddati-13",
      "oldKey": "PP_C01_B13",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "न चैकेनैव साधारणधर्मेण भाव्यमिति नियमोऽस्ति । तथा तथा प्रतिपन्नत्वं तस्य तस्य धर्म इति विप्रतिपत्तिरपि साधारणीति । विपरीतनिश्चयो विपर्ययः । विपरीतेति सम्यङ्निश्चयव्युदासः । निश्चयः इति संशयज्ञानस्य । स च प्रत्यक्षानुमानागमाभासेभ्यो जायते । यथा$-$'शुक्तिकायामिदं रजतमि'त्यादि ।‌"
    },
    {
      "id": "Pramanapaddati-14",
      "oldKey": "PP_C01_B14",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "अयथार्थज्ञानमेव नास्तीति प्राभाकरादयः । तन्न । अनुभवसिद्धत्वात्‌। 'एतावन्तं कालमहं शुक्तिकामेव रजतत्वेन प्रतिपन्नोऽस्मी'त्युत्तरकाले परामर्शाच्च । प्रतीतं च रजतं देशान्तरे सदेवेति वैशेषिकादयः । ज्ञानस्वरूपमेवेति विज्ञानवादिनः । तत्रैव तात्कालिकमुत्पन्नं सदिति भास्करः । न सन्नासन्न सदसत्‌। किन्त्वनिर्वचनीयमेवेति मायावादिनः । 'असदेव रजतं प्रत्यभादि'त्युत्तरकालीनानुभवाच्छुतिरेव अत्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः । अनध्यवसायः स्वप्नश्चायथार्थज्ञानान्तरमस्तीति वैशेषिकाः ।‌"
    },
    {
      "id": "Pramanapaddati-15",
      "oldKey": "PP_C01_B15",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "'किं सङ्ज्ञकोऽयं वृक्ष' इत्यनध्यवसायः । स तु कोटीनामतिबाहुल्यादनिर्दिष्टकोटिकः संशय एव । वटादिव्यावृत्तिं पश्यतोऽपि पनसे यत्‌'किं सङ्ज्ञकोऽयं वृक्ष' इत्युत्पद्यते, तज्जञानमेव न भवति । किन्तु सङ्ज्ञाविषयं जिज्ञासामात्रम्‌। स्वप्नेऽपि गजादिदर्शनं चेद्यथार्थमेव । मानसवासनाजन्यत्वाद्रजादीनाम्‌। तेषु यद्‌बाह्यत्वज्ञानं स विपर्यय एव । बाह्यालीप्रदेशे, 'पुरुषेणानेन भवितव्यमि'त्यूहापरनामकं सम्भावनाज्ञानमप्यन्यतरकोटिप्रापकप्राचुर्यनिमित्तोऽन्यतरकोटिप्रधानः संशय एव ।‌"
    },
    {
      "id": "Pramanapaddati-16",
      "oldKey": "PP_C01_B16",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तर्कोऽनुमानमेवेति वक्ष्यामः । स्मृतावतिव्यापकं प्रमाणलक्षणमिति चेन्न । तस्या अपि प्रमाणत्वेन लोकवेदयोः संव्यवहारात्‌।‌"
    },
    {
      "id": "Pramanapaddati-17",
      "oldKey": "PP_C01_B17",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "अनुभूतिः प्रमाणम्‌। स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति प्राभाकराणां लक्षणम्‌। संशयविपर्ययव्यापकत्वात्‌ स्मृतौ वेदादिषु च यथार्थज्ञानसाधनेष्वव्यापकत्वाच्चायुक्तम्‌।"
    },
    {
      "id": "Pramanapaddati-18",
      "oldKey": "PP_C01_B18",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "ज्ञातताप्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनं क्रियाज्ञानं प्रमाणमिति भाट्टानां लक्षणमप्ययुक्तम्‌। ज्ञानव्यतिरिक्तायां ज्ञाततायां प्रमाणाभावेनासम्भावितत्वात्‌। अतीतादिविषयज्ञानानामाश्रयाभावेन तज्जनकत्वायोजाच्च वेदादिष्वव्याप्तेश्च । अनधिगततथाभूतार्थज्ञानं प्रमाणमिति तेशामेव लक्षणान्तरमप्ययुक्तं स्मृतौ वेदादिषु चाव्याप्तेः ।‌"
    },
    {
      "id": "Pramanapaddati-19",
      "oldKey": "PP_C01_B19",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "सम्यगनुभवसाधनं प्रमाणमिति नैयायिकादयः । तदप्यसत्‌। यथार्थज्ञानेऽव्याप्तेः । प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तम्‌।‌"
    },
    {
      "id": "Pramanapaddati-20",
      "oldKey": "PP_C01_B20",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं विवक्षितमिति चेन्न । आश्रयग्रहणवैयर्थ्यात्‌। ईश्वरस्यापि प्रामाण्यसिध्यर्थं तदिति चेन्न । कर्तरि प्रमाणशब्दस्याननुशासनात्‌। यथार्थज्ञानेष्वव्याप्तेश्च । तस्माद्याथार्थ्यमेव प्रमाणलक्षणं युक्तम्‌।‌"
    },
    {
      "id": "Pramanapaddati-21",
      "oldKey": "PP_C01_B21",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "द्विविधं प्रमाणं, केवलमनुप्रमाणं चेति । तत्र यथार्थज्ञानं केवलप्रमाणम्‌। यथार्थमिति संशयादिव्युदासः । ज्ञानमिति प्रत्यक्षस्य । लिङ्गज्ञानं वाक्यज्ञानं च लिङ्गिनि वाक्यार्थे चानुप्रमाणमपि लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिः । इदं च साक्षाज्ज्ञेयविषयीकारित्वात्‌केवलमित्युच्यते ।‌"
    },
    {
      "id": "Pramanapaddati-22",
      "oldKey": "PP_C01_B22",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तच्च चतुर्विधम्‌। ईश्वरज्ञानं, लक्ष्मीज्ञानं, योगिज्ञानं, अयोगिज्ञानं चेति । तत्र सर्वार्थविषयकमीश्वरज्ञनम्‌। नियमेन यथार्थम्‌। तत्स्वरूपमनादिनित्यम्‌। स्वतन्त्रम्‌। निरतिशयस्पष्टं च । ईश्वरे त्वसार्वत्रिकमन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम्‌। तदपि नियमेन यथार्थम्‌। तत्स्वरूपमनादि नित्यं च । ईश्वरैकाधीनम्‌। तदपेक्षया स्पष्टत्वे न्यूनम्‌। स्पष्टत्वं चापरोक्षत्ववज्जञानगत एव विशेषो न विषयौपाधिकः ।‌"
    },
    {
      "id": "Pramanapaddati-23",
      "oldKey": "PP_C01_B23",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "योगप्रभावलब्धातिशयं योगज्ञानम्‌। तत्‌त्रिविधम्‌। ऋजुयोगिज्ञानं, तात्त्विकयोगिज्ञानं अतात्तविकयोगिज्ञानं चेति । ऋजवो नाम ब्रह्मत्वयोग्या जीवाः । ईश्वरादन्यत्र आलोचने सर्वविषयं तज्जञानम्‌। ईश्वरेत्वसार्वत्रिकमेव ।‌‌"
    },
    {
      "id": "Pramanapaddati-24",
      "oldKey": "PP_C01_B24",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तद्‌ द्विविधम्‌। स्वरूपं, मनोवृत्तिरूपं च इति । तत्र स्वरूपमनादिनित्यम्‌। योगप्रभावादामुक्तेः व्यक्त्यतिशयोपेतम्‌।मुक्तावेकप्रकारम्‌।‌"
    },
    {
      "id": "Pramanapaddati-25",
      "oldKey": "PP_C01_B25",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "वृत्तिज्ञानं तु प्रवाहतोऽनादि । योगानुगृहीतप्रत्यक्षादिजन्यम्‌। मुक्तौ तु नास्त्येव । द्वयमपि नियमेन यथार्थम्‌। ईश्वरे त्वन्यजीवेभ्योऽधिकविषयम्‌।‌"
    },
    {
      "id": "Pramanapaddati-26",
      "oldKey": "PP_C01_B26",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तदतिरिक्तास्तत्तवाभिमानिनो देवाः तात्विकाः । अनादित्वे सतीश्वरादन्यत्रालोचनेऽप्यसर्वविषयं तज्जञानम्‌। तदपि स्वरूपं, बाह्यं चेति द्विविधम्‌। तस्यानादित्वं पूर्ववत्‌। स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपि ।‌‌"
    },
    {
      "id": "Pramanapaddati-27",
      "oldKey": "PP_C01_B27",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तद्व्यतिरिक्ता देवादयो योगिनोऽतात्विकाः । सादित्वे सतीश्वरादन्यत्राल्पाज्ञानयुक्तं तज्जञानम्‌। तदपि पूर्ववद्‌द्विविधम्‌। तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य प्रवाहोत्पत्त्यपेक्षया । याथार्थनियमादि पूर्ववत्‌।‌"
    },
    {
      "id": "Pramanapaddati-28",
      "oldKey": "PP_C01_B28",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तद्व्यतिरिक्ता जीवा अयोगिनः । ईश्वरादन्यत्राज्ञानप्रचुरं तज्जञानम्‌। तदपि पूर्ववत्‌द्विविधम्‌। उत्पत्तिविनाशवच्च । अयोगिनोऽपि त्रिविधाः । मुक्तियोग्या नित्यसंसारिणस्तमोयोग्याश्चेति । तत्र मुक्तियोग्यानां स्वरूपज्ञानं यथार्थमेव । नित्यसंसारिणां तु मिश्रम्‌। अन्येषामयथार्थमेव । बाह्यं तु त्रयाणामप्युभयविधमिति ।‌"
    },
    {
      "id": "Pramanapaddati-29",
      "oldKey": "PP_C01_B29",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "इन्द्रियजं लिङ्गजं स्मृतिरार्षं चेति चतुर्विधं यथार्थज्ञानमिति वैशेषिकाः । तदसत्‌। नित्यस्यागमजन्यस्य चासङ्ग्रहात्‌। स्मृतेरिन्द्रियजत्वेनार्षस्य योगिज्ञानत्वेन च पृथग्गरहणायोगाच्च ।‌"
    },
    {
      "id": "Pramanapaddati-30",
      "oldKey": "PP_C01_B30",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "यथार्थज्ञानसाधनमनुप्रमाणम्‌। यथार्थमित्येवोक्ते केवलेऽतिव्याप्तिः । ज्ञानमित्येवोक्ते तत्र संशयादौ च । प्रत्यक्षेऽव्याप्तिश्च । साधनमित्येवोक्ते कुठारादवतिव्याप्तिः । यथार्थज्ञानमित्युक्ते केवलेऽतिव्याप्तिः, प्रत्यक्षेऽव्याप्तिश्च । यथार्थसाधनमित्युक्ते प्रत्यक्षसाधनेऽतिव्याप्तिः । ज्ञानसाधनमित्युक्ते संशयादिसाधनेऽतिव्याप्तिः । यथार्थज्ञानकारण मित्युक्ते प्रमात्रादावतिव्याप्तिरिति सर्वे सार्थकम्‌। यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितम्‌। अतो न यादृच्छिकसंवादिष्वतिव्याप्तिः ।‌"
    },
    {
      "id": "Pramanapaddati-31",
      "oldKey": "PP_C01_B31",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "ननु त्रिविधं प्रमाणमिति वक्तव्यम्‌। ल्युटोऽधिकरणेऽप्यनुशासनात्‌। सत्यम्‌। तथाऽपि प्रमाणशब्दस्याधिकरणे प्रयोगाभावात्‌  तदसङ्ग्रहः । तथाऽपि प्रमाणशब्दे भावसाधनः करणसाधनश्चेत्यनेकार्थः । तत्र किमनुगतलक्षणकथनेनेति । उच्यते । नायमक्षादिशब्दवदत्यन्तभिन्नार्थः । किन्तु धात्वर्थानुगमस्तूभयत्र सम इत्येकार्थत्वमाश्रित्यानुगतलक्षणोक्तिरित्यदोषः ।‌"
    },
    {
      "id": "Pramanapaddati-32",
      "oldKey": "PP_C01_B32",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "त्रिविधमनुप्रमाणम्‌। प्रत्यक्षमनुमानमागमश्चेति । तत्र निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्‌। अर्थशब्देनेन्द्रियविषया गॄह्यन्ते । तेषां दोषाः अतिदूरत्वमतिसामीप्यं सौक्ष्म्यं व्यवधानं समानद्रव्याभिघातोऽनभिव्यक्तत्वं सादृश्यं चेत्यादयः । तेषु सत्सु क्वचिज्जञानमेव न जायते । क्वचिद्विपरीतज्ञानमुत्पद्यते ।‌"
    },
    {
      "id": "Pramanapaddati-33",
      "oldKey": "PP_C01_B33",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "प्राकृतं षड्विधम्‌। घ्राणरसनचक्षुस्त्वक्‌श्रोत्रमनोभेदात्‌। तत्र गन्धस्तद्विशेषाश्च घ्राणस्य विषयाः । रसस्तद्विशेषाश्च रसनस्य । महान्ति रूपवन्ति द्रव्याणि केचिद्‌गुणाः । कर्माणि जातयश्च चक्षुस्त्वचोः । वायुस्पर्शोऽपि त्वचो विषयः । शब्दः श्रोत्रस्य । एतेषां पञ्चानां मनोऽनधिष्ठितत्वं काचकामलादयश्च दोषाः । मनसस्तु बाह्येन्द्रियाधिष्ठानेनैते सर्वे विषयाः । स्वातन्त्र्येण स्मरणसाधनं मनः । तस्य दोषा रागादयः ।‌"
    },
    {
      "id": "Pramanapaddati-34",
      "oldKey": "PP_C01_B34",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "इन्द्रियशब्देन ज्ञानेन्द्रियं गृह्यते । तद्‌द्विविधम्‌। प्रमातृस्वरूपं प्राकृतं चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपं तद्धर्मा अविद्यामनस्तद्वृत्तयो बाह्येन्द्रियज्ञानसुखाद्याः कालोऽव्याकृताकाशश्चेत्याद्याः । स च स्वरूपज्ञानमभिव्यनक्ति ।‌"
    },
    {
      "id": "Pramanapaddati-35",
      "oldKey": "PP_C01_B35",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "ननु स्मृतेर्याथार्थ्यमेव नास्ति । न हि यदा यादृशोऽर्थः स्मर्यते तदाऽसौ तादृशः । पूर्वावस्थाया निवृत्तत्वादिति चेन्न । यतो ज्ञानकाले वस्तुनस्तथात्वं याथार्थ्योपयुक्तं न भवति । किन्तु यद्देशकालसम्बन्धितया यद्वस्तु ज्ञानेन यादृशं गृह्यते तद्देशकालयोस्तस्य तथात्वम्‌। स्मृतिश्च तत्र तदाऽसौ तादृश इति गृह्णाति । न च तत्र तदाऽसौ न तादृशः ।‌"
    },
    {
      "id": "Pramanapaddati-36",
      "oldKey": "PP_C01_B36",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "ननु पूर्वानुभवजनितसंस्कारः स्मृतिकारणम्‌। स चानुभूतविषय एव स्मृतिजननस्येष्टे । न चानुभवेन निवृत्तपूर्वावस्थतयाऽर्थो गृहीतः । तत्कथमनुभवसमानविषयसंस्कारजन्यास्मृतिरर्थे निवृत्तपूर्वावस्थतया विषयीकुर्यादिति ।‌‌"
    },
    {
      "id": "Pramanapaddati-37",
      "oldKey": "PP_C01_B37",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "मैवम्‌। भवेदेतदेवं यदि संस्कारमात्रजन्यत्वं स्मृतेरभ्युपगच्चामः । न चैवम्‌। मनोजन्या स्मृतिः । संस्कारस्तु मनसस्तदर्थसन्निकर्षरूप एव । यथा योगीन्द्रियाणां योगजो धर्मः । ततश्च संस्कारसहकृतं मनोऽननुभूतामपि निवृत्तपूर्वावस्थां विषयीकुर्वत्स्मरणं जनयेदिति को दोषः ? वर्तमानमात्रविषयाण्यपीन्द्रियाणि सहकारिसामर्थ्यात्‌  कालान्तरसम्बन्धितामपि गोचरयन्ति । यथा संस्कारसहकृतानि सोऽयमित्यतीतवर्तमानत्वविशिष्टविषयप्रत्यभिज्ञासाधनानि । प्राकृतेन्द्रियाणि मनोवृत्तिज्ञानं जनयन्ति । तत्र सन्निकर्षः प्रत्यक्षमित्युक्ते घटपटसन्निकर्षेऽतिव्याप्तिः । इन्द्रियसन्निकर्षः प्रत्यक्षमित्युक्ते चक्षुराकाशसंनिकर्षेऽतिव्याप्तिः । अर्थसंन्निकर्ष इत्युक्ते पूर्ववदतिव्याप्तिः । दुष्टार्थानां दुष्टेन्द्रियैर्वा संन्निकर्षे व्यावर्तयितुमुभयत्र निर्दोषग्रहणम्‌।‌"
    },
    {
      "id": "Pramanapaddati-38",
      "oldKey": "PP_C01_B38",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "ननु प्रत्यक्षं करणविशेषः । करणस्य चावान्तरव्यापारेण भवितव्यम्‌। यथा छिदाकरणस्य परशोर्दारुसंयोगोऽवान्तरव्यापारः । सत्यम्‌। अत्रापीन्द्रियं करणधर्मि । तस्यार्थसङ्न्निकर्षोऽवान्तरव्यापारः । तत्रावान्तरव्यापारप्राधान्यविवक्षयाऽर्थेन्द्रियसङ्न्निकर्षः प्रत्यक्षमित्युच्यते । क्वचित्तु धर्मिप्राधान्यविवक्षया स्वस्वविषयसन्निकृष्टमिन्द्रियं प्रत्यक्षमित्युच्यते । ईश्वरप्रत्यक्षं, लक्ष्मीप्रत्यक्षं, योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्राद्यद्वयं स्वरूपेन्द्रियात्मकमेव । उत्तरद्वयं तु द्विविधेन्द्रियात्मकम्‌। विषयस्तु तत्तज्जञानविषयवद्विवेक्तव्यः ।‌"
    },
    {
      "id": "Pramanapaddati-39",
      "oldKey": "PP_C01_B39",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "बाह्येन्द्रियं त्रिविधम्‌। दैवमासुरं मध्यममिति । तत्र यथार्थज्ञानप्रचुरं दैवम्‌। अयथार्थज्ञानप्रचुरमासुरम्‌। समज्ञानसाधनं तु मध्यमम्‌। स्वरूपेन्द्रियमप्युत्तमानां विषयस्वरूपे प्रकारे च यथार्थमेव । अधममध्यमानां तु स्वरूपमात्रे यथार्थमेव । प्रकारे त्वयथार्थं मिश्चं चेति । इन्द्रियार्थयोस्तु सन्निकर्षोऽपरोक्षज्ञानहेतुः षोड्हा भिद्यत इत्येके । तद्यथा । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो विशेषणविशेष्यभावश्चेति । तत्र चक्षुःस्पर्शनयोर्घटादिद्रव्यैर्मनसश्चात्मना संयोगः । तेषां स्वविषयगतगुणकर्मसामान्यैः संयुक्तसमवायः । तथा घ्राणरसनयोर्गन्धरसाभ्याम्‌। एतेषां स्वविषयगुणकर्मगतसामान्यैः  संयुक्तसमवेतसमवायः ।‌"
    },
    {
      "id": "Pramanapaddati-40",
      "oldKey": "PP_C01_B40",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "श्रोत्रस्य शब्देन समवायः । तद्गतसामान्यैः समवेतसमवायः । एतेषामेतत्पञ्चविधसम्बन्धसम्बन्धार्थस्याभावसमवायाभ्यां पञ्चविधो विशेषणविशेष्यभाव इति । तदसत्‌। गुणादीनां गुण्यादिभिरभेदेन समवायाभावात्‌। आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात्‌। वर्णात्मकस्य शब्दस्य द्रव्यत्वेनाकाशविशेषगुणत्वाभावात्‌। अतः सर्वेन्द्रियाणां स्वस्वविषयैः स्वस्वविषयप्रतियोगिकाभावेन च साक्षादेव रश्मिद्वारा सङ्न्निकर्षः ।‌"
    },
    {
      "id": "Pramanapaddati-41",
      "oldKey": "PP_C01_B41",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "निर्विकल्पकसविकल्पकभेदेन च द्विविधं प्रत्यक्षमित्याचक्षते । तत्र वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम्‌। विशिष्टाकारगोचरं सविकल्पकम्‌। तत् ‌अष्टविधम्‌।"
    },
    {
      "id": "Pramanapaddati-42",
      "oldKey": "PP_C01_B42",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "तत्र द्रव्यविकल्पो यथा दण्डीति । गुणविकल्पो यथा शुक्ल इति ।"
    },
    {
      "id": "Pramanapaddati-43",
      "oldKey": "PP_C01_B43",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "क्रियाविकल्पो यथा गच्छतीति । जातिविकल्पो यथा गौरिति ।"
    },
    {
      "id": "Pramanapaddati-44",
      "oldKey": "PP_C01_B44",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "विशेषविकल्पो यथा विशिष्टः परमाणुरिति । समवायिविकल्पो यथा पटसमवायवन्तस्तन्तव इति ।"
    },
    {
      "id": "Pramanapaddati-45",
      "oldKey": "PP_C01_B45",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "नामविकल्पो यथा देवदत्त इति । अभ वविकल्पो यथा घटाभाववद्भूतलमिति ।‌"
    },
    {
      "id": "Pramanapaddati-46",
      "oldKey": "PP_C01_B46",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "एतदप्यसत्‌। विशेषसमवाययोरप्रामाणिकत्वात्‌। नाम्नः पश्चात्स्मरणेनाभावस्य च प्रतियोगिस्मरणाधीनज्ञानत्वेन तद्विकल्पस्य प्रथमाक्षिसङ्न्निकर्षानन्तरमेवोत्पत्त्यभावेऽपि द्रव्यादिविकल्पानां प्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पकानुपपत्तेः ।‌"
    },
    {
      "id": "Pramanapaddati-47",
      "oldKey": "PP_C01_B47",
      "type": "bhashya",
      "parent": "PP_C01",
      "chapter": "PP_C01",
      "verseType": null,
      "text": "हानोपादानोपेक्षाबुद्धयः प्रत्यक्षस्य फलमिति केचिदाहुः । तदप्यसत्‌। तासामनुमानफलत्वात्‌। तथाहि । कण्टकादिस्वरूपमात्रं प्रदर्श्य प्रत्यक्षं निवर्तते । अथेदानीं पूर्वानुभूतस्य कण्टकादेरनिष्टसाधनत्वमनुभूतं स्मृत्वाऽस्य च कण्टकादित्वेन तदनुमिमानस्य हानबुद्धिरुपजायते । एवं कदलीफलादाविष्टसाधनत्वानुमानानन्तरमुपादानबुद्धिरुत्पद्यते । तृणादौ चौदासीन्यमनुमायोपेक्षाबुद्धिः  प्रतिपद्यते । अतो विशिष्टविषयसाक्षात्कार एव प्रत्यक्षस्य फलमिति ।‌"
    },
    {
      "id": "Pramanapaddati-48",
      "oldKey": "PP_C02_B001",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "निर्दोषोपपत्तिरनुमानम्‌। उपपत्तिर्व्याप्यं युक्तिलिङ्गमिति पर्यायः । अविनाभावो व्याप्तिः । साहचर्यनियम इति यावत्‌। व्याप्तेः कर्म व्याप्यम्‌। तस्याः कर्तृ व्यापकम्‌। यथा धूमस्याग्निना व्याप्तिरव्यभिचरितः सम्बन्धः । यत्र धूमः तत्र अग्निरिति नियमात्‌। तत्र धूमो व्याप्यः । अग्निर्व्यापकः ।‌"
    },
    {
      "id": "Pramanapaddati-49",
      "oldKey": "PP_C02_B002",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "चतुष्टयी खलु धर्माणां गतिः । केचित्समवृत्तयो यथा निषिद्धत्वपापसाधनत्वे । यत्र निषिद्धत्वं तत्र पापसाधनत्वं, यत्र पापसाधनत्वं तत्र निषिद्धत्वमिति नियमात्‌। तत्र द्वयोरपि अन्योन्यं व्याप्यव्यापकभावः । केचित्‌न्यूनाधिकवृत्तयः । यथा धूमवत्तवाग्निमत्वे । तत्र न्यूनवृत्तिधूमवत्वं व्याप्यमेव । अधिकवृत्यग्निमत्वं व्यापकमेव । केचित्‌परस्परपरिहारेणैव वर्तन्ते । यथा गोत्वाश्वत्वे । यतो यत्र गोत्वं न तत्र सर्वथाऽश्वत्वम्‌। यत्र चाश्वत्वं न तत्र सर्वथा गोत्वम्‌। तेषां नान्योन्यं व्याप्यव्यापकभावः । सम्बन्धस्यैव अभावात्‌।‌"
    },
    {
      "id": "Pramanapaddati-50",
      "oldKey": "PP_C02_B003",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "केचित्‌क्वचित्‌समाविष्टा अपि क्वचित्‌परस्परपरिहारेणैव वर्तन्ते । यथा पाचकत्वंपुरुषत्वे । तयोः पुरुषविशेषे समोवेशेऽपि पाचकत्वं पुरुषत्वपरिहारेण स्त्रीषु वर्तते । पुरुषत्वमपि पाचकत्वपरिहारेणापचति पुरुषे वर्तते । तेऽपि नान्योन्यं व्याप्यव्यापकभाववन्तः । सत्यपि सम्बन्धे परस्परव्यभिचारित्वात्‌। तत्र व्याप्यो धर्मो व्यापकप्रमितिसाधनं भवन्ननुमानमित्युच्यते । व्यापकश्चानुमेय इति ।‌"
    },
    {
      "id": "Pramanapaddati-51",
      "oldKey": "PP_C02_B004",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "ननु पर्वते वर्तमानो धूमः गृहान्तर्वर्तिनः पुरुषस्य किमित्यग्निप्रमां न जनयति । उच्यते । न प्रत्यज्ञवदनुमानमज्ञातकरणम्‌। किन्तु सम्यक्‌ज्ञातमेव । तथाऽपि नारिकेलद्वीपवासिनो देशान्तरं गतस्य धूमप्रमितावति कस्मान्नाग्निप्रमोदयः । उच्यते । तस्य धूमस्वरूपज्ञानेऽप्यग्निव्याप्ततया तज्जञानाभावात्‌। ज्ञातव्याप्तिकस्यापि कुतः कदाचिदग्निप्रमाऽनुत्पत्तिः । व्याप्तिस्मरणाभावात्‌। व्याप्तिस्मरणवतः पर्वते धूमं दृष्टवतोऽपि कथं पर्वतादन्यत्राग्निप्रमाऽनुद्भवः । व्याप्तिप्रकारमपेक्ष्य लिङ्गज्ञानस्य लिङ्गज्ञानजनकत्वनियमात्‌।‌"
    },
    {
      "id": "Pramanapaddati-52",
      "oldKey": "PP_C02_B005",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "तथाहि । कयोश्चित्‌समानदेशकालयोर्व्याप्तिः । यथा रसस्य रूपेण । कयोश्चित्‌समानदेशत्वेऽपि भिन्नकालयोः, यथा धूमस्याग्निना । कयोश्चित्समानकालत्वेपि भिन्नदेशयोः । यथा कृत्तिकोदयस्य रोहिण्युदयासत्तया । कयोश्चित्‌भिन्नदेशकालयोः । यथाऽधोदेशे नदीपूरस्योर्धवदेशवृष्ट्या । कस्यचित्कादाचित्कस्य समानदेशत्वेऽपि सार्वकालीनेन । यथा पतनस्य गुरुत्वेन । कस्यचित्समानदेशत्वेऽपि सार्वकालिकस्य कादाचित्केन । यथा शरीरत्वस्य विनाशेन । कस्यचित्प्रदेशवर्तिनो व्याप्यवर्तिना । यथा संयोगस्य द्रव्यत्वेन । कस्यचिद्व्याप्यवर्तिनः प्रदेशवर्तिना । यथा रूपस्य संयोगेन । कयोश्चित्‌एकावयविवर्तिनोरप्यवयवभेदेन । यथा तुलोन्नमनावनमनयोरित्यादि । तथा च व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गस्य सम्यग्ज्ञानं, सम्यग्ज्ञातं वा लिङ्गव्याप्तिप्रकारानुसारेण समुचितदेशादौ लिङ्गप्रमां जनयदनुमानमित्युक्तं भवति । अत एव लिङ्गस्वरूपस्य ज्ञातत्वेऽपि देशविशेषादिसंसृष्टतया ज्ञापकत्वान्नानुमानस्य वैयर्थ्यम्‌। ततश्चानुमानस्य द्वयं सामर्थ्यम्‌। व्याप्तिः, समुचितदेशादौ सिद्धिश्चेति । न तु पक्षधर्मतानियमः ।‌"
    },
    {
      "id": "Pramanapaddati-53",
      "oldKey": "PP_C02_B006",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "ननु व्याप्तिज्ञानं केन प्रमाणेन जायते । यथायथं प्रत्यक्षानुमानागमैरिति ब्रूमः । तत्र तावत्‌धूमस्याग्निना व्याप्तिः प्रत्यक्षगम्या । तथाहि । महानसादौ धूमाग्न्योः साहचर्यं पश्यतः पुरुषस्यैष विमर्शो जायते । किमत्रैवेतौ धूमाग्नी सहचरितावन्यत्र देशान्तरे कालान्तरे च, एतज्जातीयौ परस्परपरिहारेण वर्तेते, उतान्यतर एवान्यतरपरिहारेण किंवा सकलदेशकालयोः सहचरितावेवेति । ततः भूयोभूयः धूमं पश्यन्‌अग्निं पश्यति । अग्न्यभावे च धूमाभावम्‌। तथा धूमाभावेऽपि क्वचिदग्निसद्भावम्‌। ततः पुनरेव विचारो भवति । यथा बहुषु स्थलेषु धूमेन सहचरितोऽप्यग्निः क्वचित्तं परित्यज्य वर्तते । तथा धूमो मत्परिचितस्थलेष्वग्निना सह वर्तमानोऽपि क्वचित्तं परित्यज्य वर्तते । किं वा सर्वत्र तत्सहचरित एवेति । ततः पुनरेशा बुद्धिरुत्पद्यते । अग्नेर्धूमसम्बन्धेऽस्त्यार्द्रेन्धन संयोग उपाधिः । स च धूमव्यापकः । स्वयं व्यावर्तमानस्तं व्यावर्तितवान्‌। न पुररग्निम्‌। तदव्यापकत्वात्‌। तथा धूमस्याग्निसम्बन्धे यदि कश्चिदुपाधि स्यात्‌तदा सोऽप्यग्निं व्यभिचरिष्यति । न चेन्निर्निमित्तस्य सम्बन्धस्य धूमस्वभावत्वेन न क्वापि तदभावो भविष्यतीत्येवं निश्चित्य महानसादावुपाधिगवेषणे प्रवर्तते ।‌"
    },
    {
      "id": "Pramanapaddati-54",
      "oldKey": "PP_C02_B007",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "तत्र केचिद्धर्मा उभयव्यापकाः । यथा प्रमेयत्वम्‌। नैतत्सम्बन्धं विघटयितुमीशते । केचिदुभयाव्यापकाः । यथा महानसत्वम्‌। तेऽपिनैतसंबन्धविघटनाय समर्थाः । केचिद्धूमव्यापका अग्न्यव्यापकाः । यथा आर्द्रेन्धनसंयोगः । तेऽपि अग्नेर्धूमवियोजने शक्ता अपि न धूमस्याग्निवियोजने । यस्वग्नेर्व्यापको धूमस्य त्वव्यापकः स स्वयं व्यावर्तमानः शक्ष्यत्येतत्सबन्धं विघटयितुम्‌। स तु नास्त्येव । अनुपलम्भात्‌। अतीन्द्रियोपि प्रमाणान्तरवेद्यः स्यात्‌। न च तत्प्रमाणमुपलभ्यते । न चाप्रामाणिकः शङ्कामप्यधिरोहति । अतो नात्रोपाधिरस्तीति निर्णीतवतोऽविनाभावप्रमितिरुत्पद्यते ।‌"
    },
    {
      "id": "Pramanapaddati-55",
      "oldKey": "PP_C02_B008",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "ननु एवं सति न प्रत्यक्षं व्याप्तिग्राहकम्‌। मैवम्‌। यतः साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाध्यभावनिश्चयाः सहकारिणः । न च सहकारिभेदेऽपि प्रत्यभिज्ञायामिव प्रमाणान्तरत्वम्‌।  वर्तमानसन्निकृष्टमात्रग्राहि प्रत्यक्षं कथमतीताद्यास्पदानां व्याप्तिं गृह्णीयादिति चेन्न । सहकारिसामर्थ्येन करणानां शक्त्यन्तराविर्भावस्य बहुलमुपलम्भात्‌।‌"
    },
    {
      "id": "Pramanapaddati-56",
      "oldKey": "PP_C02_B009",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "किञ्च प्रतीतस्य धूमस्याग्निसम्बन्धे स्वाभाविकतया निश्चिते यद्यन्यत्रापि धूमः स्यात्‌तर्हि तस्याप्येवमित्येवं व्याप्तिग्रहो भवतीत्यतः काऽत्रानुपपत्तिः । ‌"
    },
    {
      "id": "Pramanapaddati-57",
      "oldKey": "PP_C02_B010",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "एतेन प्रमेयत्वाभिधेयत्वयोः व्याप्तिं गृह्णतः सार्वज्ञप्रसङ्ग इत्यपि परास्तम्‌। कुत  एतत्सर्वं कल्प्यत इति चेत्‌। कार्यदर्शनादेव । अस्ति तावद्‌  धूमदर्शनानन्तरमग्निज्ञानम्‌। न च तदयथार्थम्‌। संवादित्वात्‌। न चान्यदर्शनेनान्यज्ञानं निर्निमित्तं भवितुमर्हति । अतिप्रसङ्गात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-58",
      "oldKey": "PP_C02_B011",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "न च व्याप्तिप्रमां समुचितदेशत्वप्रमां चापहाय निमित्तान्तरमस्तीति कार्यमेवैतत्कल्पयति । यथा खलु शिलाशकलादावनुपलब्धामपि क्षितिसलिलादिसहकारिसमुद्भूतां बीजस्य शक्तिमङ्कुरदर्शनं कल्पयतीति । अनुमानगम्यां तु व्याप्तिमुत्तरत्रोदाहरिष्यामः ।‌"
    },
    {
      "id": "Pramanapaddati-59",
      "oldKey": "PP_C02_B012",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "न च तस्याप्यनुमानस्य व्याप्त्यपेक्षायामनवस्था । अन्ततः प्रत्यक्षागममूलत्वात्‌। 'ब्राह्मणो न हन्तव्यो', 'गौर्न पदा स्प्रष्टव्यो'त्यागमगम्या व्याप्तिः । न चात्र क्वचित्क्षुद्रोपद्रवो, नापि दृष्टान्तापेक्षेति ।‌"
    },
    {
      "id": "Pramanapaddati-60",
      "oldKey": "PP_C02_B013",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "त्रिविधमनुमानम्‌। कार्यानुमानं, कारणानुमानं, अकार्यकारणानुमानं चेति । तत्राद्यं यथा । धूमोऽग्नेः । द्वितीयं यथा । विशिष्टमेघोन्नतिर्वृष्टेः । इयांस्तु विशेषः । कार्यं कारणमात्रमनुमापयति । कारणं तु समग्रमेव कार्यमिति । तृतीयं यथा । रसो रूपस्येति ।‌‌"
    },
    {
      "id": "Pramanapaddati-61",
      "oldKey": "PP_C02_B014",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पुनर्द्विविधम्‌। दृष्टं, सामान्यतो दृष्टं चेति । तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम्‌। यथा धूमोऽग्नेः ।प्रत्यक्षायोग्यार्थानुमापकं सामान्यतो दृष्टम्‌। यथा रूपादिज्ञानं चक्षुरादेः । अथवा, यथाभूतयोः व्याप्तिग्रहणं, तथाभूतयोरेव लिङ्गलिङ्गिभावे दृष्टम्‌। यथा धूमाग्न्योः । व्याप्यव्यापकयोरन्यादृशत्वेऽपि तत्सामान्याकारानुगमेन लिङ्गलिङ्गिभावे सामान्यतो दृष्टम्‌। यथा कृषीवलस्य कर्षाणादिप्रवृत्तेर्धान्यादि फलवत्वदर्शनेन यज्ञादेः स्वर्गादिफलानुमानम्‌। प्रेक्षावत्प्रवृत्तित्वफलवत्त्वसामान्यानुगमात्‌।‌"
    },
    {
      "id": "Pramanapaddati-62",
      "oldKey": "PP_C02_B015",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पुनर्द्विविधम्‌। साधनानुमानं दूषणानुमानं चेति । तत्राद्यं यथा । धूमप्रमित्याऽग्निप्रमितिसाधनम्‌। दूषणानुमानमपि द्वेधा । दुष्टिप्रमितिसाधनं, तर्कश्चेति । तत्र आद्यं यथा । नेदं स्वसाध्यसाधनसमर्थम्‌। प्रमाणबाधितत्वादित्यादि ।‌‌"
    },
    {
      "id": "Pramanapaddati-63",
      "oldKey": "PP_C02_B016",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "कस्यचिद्धर्मस्याङ्गीकारेऽर्थान्तरस्यापादनं तर्कः ।तस्य पञ्चाङ्गानि । आपादकस्यापाद्येन व्याप्तिः, प्रतितर्केणाप्रतिघातः आपाद्यस्यानिष्टत्वम्‌। तत्‌द्विविधम्‌। प्रामाणिकहानमप्रामाणिककल्पनं चेति । तत्राद्यं त्रेधा । दृष्टाननुमितश्रुतहानभेदात्‌। द्वितीयमप्यदृष्टाननुमिताश्रुतकल्पनाभेदात्‌त्रिविधम्‌। एतदेव कल्प्यानेकत्वे कल्पनागौरवमित्युच्यते । आपाद्यस्य विपर्यये पर्यवसानं, परस्याननुकूलत्वं चेति ।‌‌"
    },
    {
      "id": "Pramanapaddati-64",
      "oldKey": "PP_C02_B017",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "आपाद्यमनिष्टं पुनः पञ्चधा भिद्यते । आत्माश्रयत्वमन्योन्याश्रयत्वं चक्रकाश्रयत्वमनवस्था, केवलानिष्टं चेति । तद्भेदादात्तपदापादनरूपस्तर्कोऽपि पञ्चविधः । तत्र तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञप्त्यपेक्षाङ्गीकारे स्वापेक्षया पूर्वभावित्वरूपमात्माश्रयत्वमापाद्यते । यदि घटोऽयमस्यैव घटस्योत्पादकः स्यात्तर्हि स्वतोपि पूर्वभावी स्यात्‌। यद्यस्य कारणं तत्ततोऽपि पूर्वभावि दृष्टम्‌। यथा पटकारणं तन्तवस्तदपेक्षया पूर्वभाविनः । न चात्र प्रतिकूलस्तर्कोऽस्ति । यदि घटस्य घट एव कारणं न स्यात्‌तर्हीदमापद्यत इति । अनिष्टं चेदम्‌। स्वापेक्षया पूर्वभावित्वस्याप्रामाणिकत्वात्‌। व्याहतत्वेनाङ्गीकर्तुमनुचितत्वाच्च । पूर्वभावित्वं हि तदभाववति काले भावः । न च स्वाभाववति काले स्वयं भवतीति न व्याहतम्‌। न चेत्पूर्वभावित्वमङ्गीक्रियते तदा न स्वस्य स्वयं कारणम्‌। न चैवमेवापादकं प्रत्यापादयितुं शक्यत इति पञ्चाङ्गानि । एवं ज्ञप्तावपि तज्जञानस्य तज्जञानं प्रति पूर्वभावित्वमापाद्यम्‌। द्वयोरितरेतरे कारणत्वाङ्गीकारे त्वन्योन्यापेक्षया पूर्वभावित्वरूपमन्योन्याश्रयत्वमापाद्यम्‌। बहूनां चक्रवत्कार्यकारणभावाभ्युपगमे पूर्वभावित्वलक्षणं चक्रकाश्रयत्वम्‌। अनवस्थितासिद्धकारणापेक्षायां मूलक्षयापरनामकप्रतीतकार्यविलोपलक्षणानवस्था ।‌"
    },
    {
      "id": "Pramanapaddati-65",
      "oldKey": "PP_C02_B018",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "केवलानिष्टापादनमपि त्रेधा । दृष्टानुमितश्रुतहानापादनभेदात्‌। अदृष्टानानुमिताश्रुतकल्पनापादनभेदाच्च । एतदेव कल्प्यानेकत्वे कल्पनागौरवमित्युच्यते । दृष्टहानं यथा । यदि पर्वतो निरग्निकस्तर्हि निर्धूमः स्यादिति । एवमन्यस्याप्युदाहरणं शास्त्रे द्रष्टव्यम्‌। अनुमानत्वेऽपि तर्कस्यापादकासिद्धिरदूषणम्‌। पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-66",
      "oldKey": "PP_C02_B019",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "एवमापाद्यस्य प्रमाणविरोधोऽपसिद्धान्तश्च न दूषणम्‌। निर्धूमो भवतीत्यसाधनात्‌। यथा साधनानुमाने न व्याप्ति मात्रं, नापि पक्ष धर्मतामात्रं साध्यप्रमितिसाधनं, किन्तु मिलितमेव । एवमनिष्टापादनं विपर्यये पर्यवसानं चोभयं मिलितमेवानुमितिसाधनं भवतीति तर्कस्य प्रामाण्यमुपपद्यते । सोऽयं क्वचिद्विपरीतशङ्कानिरसनद्वारेण प्रमाणानामनुग्राहकोऽपि भवतीति ।‌"
    },
    {
      "id": "Pramanapaddati-67",
      "oldKey": "PP_C02_B020",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्तरिविधमनुमानमित्येके । साध्यधर्मविशिष्टो धर्मी पक्षः । तत्र व्याप्त्यावर्तमाननिश्चितसाध्यसमानधर्माधर्मी सपक्षः । तत्र सर्वस्मिन्‌एकदेशे वर्तमानम्‌। साध्यतत्समान धर्मरहितो धर्मी विपक्षः । तद्रहितं केवलान्वयै । तत्‌द्विविधम्‌। सर्वसपक्षतदेकदेशवृत्तिभेदात्‌। शब्दोऽभिधेयः प्रमेयत्वादिति सपक्षव्यापकम्‌। सर्वस्मिन्नभिधेयतया सम्प्रतिपन्ने प्रमेयत्वस्य वृत्तेः । गुणत्वादिति सपक्षैकदेशवृत्ति । रूपादौ वृत्तेर्घटादाववृत्तेः ।‌"
    },
    {
      "id": "Pramanapaddati-68",
      "oldKey": "PP_C02_B021",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "द्विविधा किल व्याप्तिः । अन्वयतो व्यतिरेकतश्चेति । साधनस्य साध्येन व्याप्तिरन्वयः । साध्याभावस्य साधनाभावेन व्याप्तिः व्यतिरेकः । तत्र अस्य केवलमन्वय एवास्ति । यत्प्रमेयं तदभिधेयं, यथा घट इति । न तत्र व्यतिरेकः । यदभिधेयं न भवति तत्प्रमेयं न भवतीति निदर्शनाभावात्‌। सर्वस्याप्यभिधेयत्वेनानभिधेयासम्भवात्‌। तेनैतत्‌केवलान्वयीत्युच्यते ।‌"
    },
    {
      "id": "Pramanapaddati-69",
      "oldKey": "PP_C02_B022",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पक्षव्यापकमविद्यमानसपक्षं सर्वस्माद्विपक्षाद्‌व्यावृत्तं केवलव्यतिरेकि ।  यथा जीवच्छरीरजातं सात्मकं प्राणादिमत्तवादिति । अस्य हि यत्सात्मकं न भवति तत्प्राणादिमन्न भवति, यथा घट इति व्यतिरेक एवास्ति । न तु यत्प्राणादिमत्‌तत्सात्मकमित्यन्वयः । सर्वस्यापि जीवच्छरीरस्य पक्षत्वात्‌। अन्यस्य सर्वस्य निरात्मकत्वात्‌। तेनैतत्‌केवलव्यतिरेकीत्युच्यते ।‌"
    },
    {
      "id": "Pramanapaddati-70",
      "oldKey": "PP_C02_B023",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पक्षव्यापकं सपक्षवृत्ति सर्वविपक्षव्यावृत्तमन्वयव्यतिरेकीति । तदपि द्विविधम्‌। सर्वसपक्षतदेकदेशवृत्तिभेदात्‌। शब्दोऽनित्यः कृतकत्वादिति सपक्षव्यापकम्‌। सर्वस्मिन्ननित्ये कृतकत्वस्य वृत्तेः । पर्वतोऽग्निमान्‌धूमवत्वादिति सपक्षैकदेशवृत्ति । अग्निमत्यपि क्वचित्‌वृत्तेः, क्वचिच्चावृत्तेः । इदं हि यद्‌धूमवत्‌  तदग्निमद्यथा महानसः । यदग्निमन्न भवति तद्धूमवन्न भवति, यथा ह्वद इति व्याप्तिद्वयसद्भावादन्वयव्यतिरेकीत्युच्यते । ‌"
    },
    {
      "id": "Pramanapaddati-71",
      "oldKey": "PP_C02_B024",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "तदिदमसत्‌। व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयोगात्‌। न हि भावेन भावसाधने ऽभावस्याभावेन व्याप्तिरुपयुज्यते । व्याप्तिपक्षधर्मतयोर्वैय्यधिकरण्यं चैवं सति स्यात्‌। कथं तर्हि केवलव्यतिरेकिणः शास्त्रे सङ्व्यवहारः इत्थम्‌। तत्रापि यत्प्राणादिमत्‌तत्सात्मकमित्येव व्याप्तिः । किन्तु व्याप्तिग्रहणस्थानस्यैव विप्रतिपत्तिविषयत्वप्राप्त्या सा दर्शयितुमशक्याऽभूत्‌। ततोऽनुमानेन तां साधयितुं  व्यतिरेकव्याप्तिरुपन्यस्यते । प्राणादिमत्तवादिति प्रयुक्ते, कथमस्य व्याप्तिः इति आकाङ्क्षायां प्राणादिमत्तवं सात्मकत्वेन व्याप्तम्‌। तदभावव्यापकाभावप्रतियोगित्वात्‌। यद्यदभावव्यापकाभावप्रतियोगि  तत्‌ तेन व्याप्तम्‌। यथा धूमवत्त्वमग्निमत्तवेनेत्यस्यार्थस्य विवक्षितत्वात्‌। अन्वयव्यतिरेकिणि तु व्यतिरेकव्याप्तिरनुपयुक्तैव । विवक्षितव्याप्तेः प्रत्यक्षादिनैव सिद्धत्वात्‌। व्यभिचाराभावदर्शनमुखेन कथञ्चित्‌उपयुज्यते वेति ।‌"
    },
    {
      "id": "Pramanapaddati-72",
      "oldKey": "PP_C02_B025",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पुनरनुमानं द्विविधम्‌। स्वार्थं परार्थं चेति । तत्र परोपदेशमनपेक्ष्य यत्स्वयमेव व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गज्ञानमुत्पद्यते तत्‌स्वार्थानुमानम्‌। यत्तु परोपदेशापेक्षमुत्पद्यते तत्‌परार्थानुमानम्‌। तज्जनकत्वात्परोपदेशोऽपि परार्थानुमानमिति क्वचित्‌ उपचर्यङ्ते । परोपदेशस्तु पञ्चावयववाक्यानीति नैयायिकादयः ।‌‌"
    },
    {
      "id": "Pramanapaddati-73",
      "oldKey": "PP_C02_B026",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । एत एव वैशेषिकैः प्रतिज्ञोपदेशनिदर्शनानुसन्धानप्रत्याम्नाया इत्युच्यन्ते । तत्र पक्षवचनं प्रतिज्ञा । यथा पर्वतोऽग्निमानिति । तत्र धर्मिणमुद्दिश्य पश्चात्‌धर्मो विधातव्यः । साधनत्वख्यापकविभक्त्यन्तं लिङ्गवचनं हेतुः । यथा धूमवत्वादिति । व्याप्तिग्रहणस्थलं दृष्टान्तः । स द्विविधः । साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेति । तत्रान्वव्याप्तिग्रहणस्थलं साधर्म्यदृष्टान्तः । तथा धूमानुमाने महानसः । व्यतिरेकव्याप्तिग्रहणस्थलं वैधर्म्यदृष्टान्तः । यथा तत्रैव महाह्वद इति । सम्यग्व्याप्तिप्रदर्शनपूर्वकं दृष्टान्ताभिधानमुदाहरणम्‌। तद्‌द्विविधम्‌। साधर्म्योदाहरणं, वैधर्म्योदाहरणं चेति । अन्वयव्याप्तिप्रदर्शनपूर्वकं साधर्म्यदृष्टान्ताभिधानं साधर्म्योदाहरणम्‌। यथा यो यो धूमवान्‌स सोऽग्निमान्‌यथा महानस इति ।‌"
    },
    {
      "id": "Pramanapaddati-74",
      "oldKey": "PP_C02_B027",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "व्यतिरेकव्याप्तिप्रदर्शनपूर्वकं वैधर्म्यदृष्टान्ताभिधानं वैधर्म्योदाहरणम्‌। यथा योऽग्निमान्न भवति स धूमवान्न भवति । यथा महाह्वद इति । दृष्टान्ते प्रसिद्धाविनाभावस्य लिङ्गस्य पक्षे व्याप्तिरव्यापकं वचनमुपनयः । सोऽपि दृष्टान्तानुसारेण द्विविधः । तत्र महानस इव पर्वतोऽपि धूमवानिति साधर्म्योपनयः । न च ह्वद इवायं निर्धूमः पर्वत इति वैधर्म्योपनयः । पुनः सहेतुकं पक्षवचनं निगमनम्‌। यथा तस्मात्पर्वतोऽग्निमानिति ।‌"
    },
    {
      "id": "Pramanapaddati-75",
      "oldKey": "PP_C02_B028",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "प्रतिज्ञाहेतूदाहरणान्युदाहरणोपनयनिगमनानि वा त्रय एवावयवा इति भाट्टाः । उदाहरणोपनयौ द्वावेति बौद्धाः । तदेतदसत्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-76",
      "oldKey": "PP_C02_B029",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "व्याप्तिद्वैविध्यनिराकरणेनोदाहरणोपनयद्वैविध्यस्यापि निराकृतत्वात्‌। नियमानुपपत्तेश्च । न हीदं वाक्यमागमतया व्याप्त्यादिबोधकम्‌। येनाकाङ्क्षाद्यनुसारेण पञ्चावयवादिनियमः स्यात्‌। परस्य परस्मिन्नाप्त्यनिश्चयात्‌। निश्चये वा प्रतिज्ञामात्रेण पूर्तेर्हेत्वाद्यभिधानवैय्यर्थ्यात्‌। किन्तु गृहीतव्याप्तेः पुरुषस्य तत्स्मारकत्वादिनाऽगृहीतव्याप्त्यादेस्तु तज्जिज्ञासाजनकत्वेनोपयुज्यते । व्याप्तिस्मरणादिकं चैतच्चतुर्भिरपि प्रकारैर्भवदनुभूयते । तत्किमनेन नियमेन ।‌"
    },
    {
      "id": "Pramanapaddati-77",
      "oldKey": "PP_C02_B030",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "सम्भवन्ति चान्येऽपि प्रकाराः । पर्वतोऽग्निमान्धूमवत्वान्महानसवदिति वा । धूमवान्पर्वतोऽग्निमानिति हेतुगर्भं पक्षवचनं वा । विवादेनैन प्रतिज्ञासिद्धौ कुतः पर्वतोऽग्निमानिति प्रश्ने धूमवत्तवादिति हेतुमात्रं वा । पर्वतस्याग्निमत्वे किं प्रमाणमिति पृष्टे, धूमवत्वमिति लिङ्गोक्तिमात्रं वा । धूमवन्महानसवत्पर्वतोऽग्निमानिति सप्रतिज्ञं हेतुगर्भं दृष्टान्तवचनं वा । अग्निव्याप्यो धूमोऽत्र पर्वतेऽस्तीत्युपनयो वा । व्याप्त्यादिमद्धूमवत्तवात्पर्वतोऽग्निमानिति निगमनं वेति । साम्व्यावहारिकाश्चैते प्रकाराः सर्वेषु शास्त्रेष्वित्येवम्प्रकारमनुमानमिति ।‌"
    },
    {
      "id": "Pramanapaddati-78",
      "oldKey": "PP_C02_B031",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "अथ निर्दोषोपपत्तिरनुमानमित्युक्तम्‌। के तत्रोपपत्तिदोषाः । यत्सद्भावे लिङ्गाभिमतं ज्ञानमेव न जनयति, स.म्शयविपर्ययौ वा करोति ते दोषाः । ते द्विविधाः । अर्थवचनदोषभेदात्‌। तत्र साक्षादुपपत्तेरेव दोषौ विरोधासङ्गती । तद्दवारा वचनस्यापि । वचनदोषौ न्यूनाधिक्ये । वचनद्वारेणार्थस्यापि । तत्र योग्यताभावो विरोधः । आकाङ्क्षाविरहोऽसङ्गतिः । अवश्यवक्तव्यस्यैकदेशमात्रवचनं न्यूनम्‌। सन्निध्यभावविशेषः । आकाङ्क्षितस्यैवान्येन कृतकार्यस्य वचनमाधिक्यम्‌।‌"
    },
    {
      "id": "Pramanapaddati-79",
      "oldKey": "PP_C02_B032",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "एते च विरोधादयो द्विविधाः । समयबन्धप्रश्नस्वपक्षसाधनपरपक्षनिराकरणात्मककथारूपसाधारणा अनुमाननिष्ठाश्च । तत्रानुमाननिष्ठास्तावदुच्यन्ते ।‌"
    },
    {
      "id": "Pramanapaddati-80",
      "oldKey": "PP_C02_B033",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "त्रिविधोऽनुमानविरोधः । प्रतिज्ञाहेतुदृष्टाङ्तविरोधभेदेन । तत्र प्रमाणविरोधः, स्ववचनविरोध इति द्विविधः प्रतिज्ञाविरोधः ।‌‌"
    },
    {
      "id": "Pramanapaddati-81",
      "oldKey": "PP_C02_B034",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "प्रमाणविरोधोऽपि द्वेधा । प्रबलप्रमाणविरोधः , समबलप्रमाणविरोधश्चेति । हीनबलस्यानेनैव बाधितस्याकिञ्चित्करत्वात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-82",
      "oldKey": "PP_C02_B035",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "प्राबल्यं च द्विविधम्‌। बहुत्वेन स्वभावेन च । स्वभावश्चोपजीव्यत्वं निरवकाशत्वमित्यादिरूपः । प्रत्यक्षादिविरोधभेदेन द्वावपि प्रत्येकं त्रिविधौ ।‌‌"
    },
    {
      "id": "Pramanapaddati-83",
      "oldKey": "PP_C02_B036",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "समबलानुमानविरोधोऽपि द्वेधा । तेनैवानुमानेनाऽनुमानान्तरेण चेति ।‌‌"
    },
    {
      "id": "Pramanapaddati-84",
      "oldKey": "PP_C02_B037",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "स्ववचनविरोधोऽपि द्विविधः । अपसिद्धान्तो जातिरिति । तत्र पूर्वाचार्यैर्यत्प्रामाणिकतयाऽभ्युपगतं तद्विरुद्धाङ्गीकारोऽपसिद्धान्तः । पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-85",
      "oldKey": "PP_C02_B038",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "स्ववचन एव व्याहतिर्जातिः । सा त्रिविधा । एककर्तृके वाक्ये पदयोरवान्तरवाक्ययोर्वा मिथो व्याघातः, स्वक्रियाविरोधः, स्वन्याय विरोधश्चेति ।‌‌"
    },
    {
      "id": "Pramanapaddati-86",
      "oldKey": "PP_C02_B039",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "हेतुविरोधोऽपि द्विविधः । असिद्धिरव्याप्तिश्चेति । समुचितस्थले लिङ्गस्याप्रमितिरसिद्धिः । अव्याप्तिस्त्रिविधा । लिङ्गस्य साध्येन तदभावेन च संबन्धः, साध्यसंबन्धस्याभावे सति तदभावेनैव सम्बन्धः, उभयसम्बन्धाभावश्चेति ।‌‌"
    },
    {
      "id": "Pramanapaddati-87",
      "oldKey": "PP_C02_B040",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "दृष्टान्तविरोधोऽपि द्विविधः । साध्यवैकल्यं, साधनवैकल्यं चेति । हेत्वादौ स्ववचनविरोधोऽसिध्यादिनैव सङ्गृहीतः इति नोक्तः । एवमसङ्गतिन्यूनाधिक्यान्यपि प्रतिज्ञाहेतुदृष्टान्तसम्बन्धभेदेन प्रत्येकं त्रिविधानि । एतेषां उदाहरणानि कथारूपसाधारणान्विरोधादींश्च परोदीरितनिग्रहस्थानानामेतेष्वेवान्तर्भावं वदन्तो दर्शयिष्यामः ।‌‌"
    },
    {
      "id": "Pramanapaddati-88",
      "oldKey": "PP_C02_B041",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "न केवलमुपपत्तिदोषाणां विरोधादिभिः सङ्ग्रहः । किं नाम? नैय्यायिकनिरूपिताशेषनिग्रहस्थानानां वक्तृदोषाभ्यां संवादानुक्तिभ्यां युतेष्वेवान्तर्भावः । ततश्च विरोधासङ्गती न्यूनाधिके संवादानुक्ती इति षडेव निग्रहस्थानानि । विप्रतिपन्नप्रमेयाङ्गीकारः संवादः । परबोधनार्थस्यावश्यं वक्तव्यस्यावचनमनुक्तिः ।‌"
    },
    {
      "id": "Pramanapaddati-89",
      "oldKey": "PP_C02_B042",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "कथायामखण्डिताहङ्कारेण परेण परस्याहङ्कारखण्डनं पराजयो निग्रह इति चोच्यते । तन्निमित्तं निग्रहस्थानम्‌। अहङ्कारखण्डनं च स्वपक्षसाधनपरपक्षदूषणसङ्कल्पभ्रंशः । अत एव कथाबाह्यानि, कथायामप्यपस्मारोन्मादादिदशापन्नानि ज्हटिति संवरणेन तिरोहितोद्भावनावसराणि पुरस्फूर्तिकानधिकृतोद्भावितानि च व्यवच्छिन्नानि । परोक्तस्ववक्तव्ययोरज्ञानं विपरीतज्ञानं वा निग्रहः । तल्लिङ्गं निग्रहस्थानमिति वा ।‌"
    },
    {
      "id": "Pramanapaddati-90",
      "oldKey": "PP_C02_B043",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "तानि च,\n(1) प्रतिज्ञाहानिः,\n(2) प्रतिज्ञान्तरं,\n(3) प्रतिज्ञाविरोधः,\n(4) प्रतिज्ञासन्नयासः,\n(5) हेत्वन्तरं,\n(6) अर्थान्तरम्‌,\n(7) निरर्थकं,\n(8) अविज्ञातार्थम्‌,\n(9) अपार्थकम्‌,\n(10) अप्राप्तकालं,\n(11) न्यूनम्‌,\n(12) अधिकम्‌,\n(13) पुनरुक्तं,\n(14) अननुभाषणम्‌,\n(15) अज्ञानम्‌,\n(16) अप्रतिभा,\n(17) विक्षेपः,\n(18) मतानुज्ञा,\n(19) पर्यनुयोज्योपेक्षणम्‌,\n(20) निरनुयोज्यानुयोगः,\n(21) अपसिद्धान्तः,\n(22) हेत्वाभासश्चेति द्वाविंशतिः ।‌"
    },
    {
      "id": "Pramanapaddati-91",
      "oldKey": "PP_C02_B044",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(1) प्रतिज्ञाहानिः\nतत्र येन यद्यथा साध्यत्वादिना निर्दिष्टं तेन तस्य तथा परित्यागः प्रतिज्ञाहानिः । यथा पर्वतोऽग्निमान्प्रमेयत्वादित्युक्तेऽनैकान्तिकत्वेन च प्रयुक्ते, 'मा भूत्तर्हि पर्वतोऽग्निमानि' ति । अयन्तु संवाद एव ।‌"
    },
    {
      "id": "Pramanapaddati-92",
      "oldKey": "PP_C02_B045",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(2) प्रतिज्ञान्तरम्‌\nप्रथममविशिष्टतयोक्ते साध्यभागे पुनर्विशेषणप्रक्षेपः प्रतिज्ञान्तरम्‌। प्रतिज्ञोदाहरणे प्रयोज्यभागो निगमनं चेति साध्यभागः । यथा शब्दोऽनित्य इति प्रतिज्ञाते, ध्वनिभिः सिद्धसाधनत्वोद्भावने वर्णात्मकः शब्दोऽनित्य इत्यादि । अत्र वक्तव्यम्‌। किं पूर्वैव कथाऽनुवर्ततेऽथ कथान्तरम्‌। नाद्यः, एकस्य साधनस्य दूषणस्य वा स्थितौ भङ्गे वा कथायाः परिसमाप्तत्वात्‌। साधनान्तरोपन्यासस्य व्यर्थत्वात्‌। नचेदं पूर्वोक्तमेव । तथात्वे पूर्वदूषणेनैव दुष्टत्वप्रसङ्गात्‌। न द्वितीयः । तथासति प्रथममेव विशिष्टस्योपात्तत्वेन प्रतिज्ञान्तराभावात्‌। वादे तु कथैक्येऽपि न निग्रहस्थानम्‌। शङ्कानिवृत्तिपर्यन्तं प्रतिवक्तव्यत्वात्‌। सत्यम्‌। निवृत्तयोरपि जल्पवितण्डयोः पुनर्विशेषणं प्रक्षिपतः को दोष इति चेत्‌, असङ्गत्यादिकमिति ब्रूमः । तदपि कथाबाह्यत्वान्न निग्रहस्थानम्‌।‌"
    },
    {
      "id": "Pramanapaddati-93",
      "oldKey": "PP_C02_B046",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(3) प्रतिज्ञाविरोधः\nएकवक्तृके वाक्ये पदानामवान्तरवाक्यानां वा मिथो व्याघातः प्रतिज्ञाविरोधः । यथा मे माता वन्ध्येति । द्रव्यं गुणव्यतिरिक्तमव्यतिरिक्तत्वादिति । अयं च प्रथमजातित्वात्‌स्ववचनविरोध एव ।‌"
    },
    {
      "id": "Pramanapaddati-94",
      "oldKey": "PP_C02_B047",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(4) प्रतिज्ञासंन्यासः\nस्वोक्तापलापः प्रतिज्ञासंन्यासः । यथाऽग्निरनुष्ण इत्युक्ते प्रत्यक्षविरोधे चाभिहिते ब्रवीति, 'न मयाऽग्निरनुष्ण इत्यभिहित' इति सोऽपि प्रमाणविरोध एव । उक्तेः प्रमितत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-95",
      "oldKey": "PP_C02_B048",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(5) हेत्वन्तरम्‌\nप्रथमविशिष्टतयोक्ते साधकांशे पुनरधिकप्रक्षेपो हेत्वन्तरम्‌। हेतुरुदाहरणे प्रयोजकांश उपनयो दूषणं चेति साधकांशः । यथा शब्दो नित्य ऐन्द्रियकत्वादित्युक्ते सामान्येनानैकान्त्येऽभिहिते सामान्यवत्वे सतीत्यादि । एतत्प्रतिज्ञान्तरनिरासेनैव निरस्तम्‌। प्रतिज्ञाग्रहणस्योक्तोपलक्षणत्वेन पृथङ् न वक्तव्यं च । अनुपलक्षणत्वे तूदाहरणान्तरादिकमपि पृथग्वाच्यं स्यात्‌। प्रतिज्ञापदेन साध्यांश एवोपलक्ष्यत इति चेन्नः वैय्यर्थ्यात्‌। अन्यथा प्रतिज्ञाहान्यादावपि किं विभागो न क्रियत इति ।‌"
    },
    {
      "id": "Pramanapaddati-96",
      "oldKey": "PP_C02_B049",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(6) अर्थान्तरम्‌\nप्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरम्‌। यथा शब्दो नित्यः प्रमेयत्वादित्यत्र प्रमेयत्वं हेतुः । हेतुशब्दश्च हिनोतेर्धातोस्तुन्प्रत्यये कृते सति कृदन्तं पदमित्यादि । इदमनाकाङ्क्षितत्वादसङ्गतिरेवेति ।‌"
    },
    {
      "id": "Pramanapaddati-97",
      "oldKey": "PP_C02_B050",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(7) निरर्थकम्‌\nअवाचकपदप्रयोगो निरर्थकम्‌। यथा शब्दो नित्यः कचटतपानां जबगडदत्कादित्यादि । इदं त्वनुक्तिरेव ।‌"
    },
    {
      "id": "Pramanapaddati-98",
      "oldKey": "PP_C02_B051",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(8) अविज्ञातार्थम्‌\nत्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थवाचकपदमविज्ञातार्थम्‌। यथा कश्यपतनयाधृतिहेतुरयं त्रिनयनतनयासनसमाननामधेययुक्त इत्यादि । तद्ध्वजवत्तवादित्यादि । इदमप्यनुक्तिरेव ।‌"
    },
    {
      "id": "Pramanapaddati-99",
      "oldKey": "PP_C02_B052",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(9) अपार्थकम्‌\nअनन्वितावाचकपदादिप्रयोगोऽपार्थकम्‌। यथा कुण्डमजाजिनं दशदाडिमानि षडपूपा इत्यादि । इदं च स्फुटमसङ्गतम्‌।‌"
    },
    {
      "id": "Pramanapaddati-100",
      "oldKey": "PP_C02_B053",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(10) अप्राप्तकालम्‌\nक्रमविपर्यासोऽप्राप्तकालम्‌। यथा कृतकत्वादनित्यः शब्द इत्यादि । इदं किञ्चिन्न निग्रहस्थानम्‌। प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमित्यादिसंव्यवहारात्‌। निग्रहस्थानं त्वसङ्गतिरेव ।‌"
    },
    {
      "id": "Pramanapaddati-101",
      "oldKey": "PP_C02_B054",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(11) न्यूनम्‌\nअवश्योपादेयानमन्यतमानुपदानं न्यूनम्‌। यथा पर्वतोऽग्निमान्महानसवदित्यादि । एतन्नयूनमेव ।‌"
    },
    {
      "id": "Pramanapaddati-102",
      "oldKey": "PP_C02_B055",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(12) अधिकम्‌\nअन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगोऽधिकम्‌। यथा पर्वतोऽग्निमान्‌ धूमवत्वात्प्रकाशविशेषवत्तवाच्चेत्यादि । एतदधिकमेव ।‌"
    },
    {
      "id": "Pramanapaddati-103",
      "oldKey": "PP_C02_B056",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(13) पुनरुक्तम्‌\nप्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनं विनाऽभिधानं पुनरुक्तम्‌। यथा पर्वताऽग्निमान्पर्वतोग्निमानित्यादि । एतदधिकमेव ।‌"
    },
    {
      "id": "Pramanapaddati-104",
      "oldKey": "PP_C02_B057",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(14) अननुभाषणम्‌\nवादिनोक्तस्य प्राश्निकैर्विज्ञातार्थस्य वादिना परिषदा वा पुनरनूद्य दत्तस्योच्चारणयोग्यस्य स्वाज्ञानमनाविष्कुर्वता कथामविच्छिन्दता यदप्रत्युच्चारणं तदननुभाषणम्‌। तत्पञ्चविधम्‌। यत्तदित्याद्यनुवादो दूष्यैकदेशानुवादः, केवलं दूषणोक्तिरन्यथानुवादस्तूण्णींभावश्चेति । तत्राद्यत्रयं न्यूनम्‌। चतुर्थमसङ्गतम्‌। पञ्चममनुक्तिः ।‌"
    },
    {
      "id": "Pramanapaddati-105",
      "oldKey": "PP_C02_B058",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(15) अज्ञानम्‌\nवादिना त्रिवारममिहितस्य परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम्‌।‌"
    },
    {
      "id": "Pramanapaddati-106",
      "oldKey": "PP_C02_B059",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(16) अप्रतिभा\nवादिनोक्तस्य प्रत्युत्तराप्रतिपत्तिरप्रतिभा ।‌"
    },
    {
      "id": "Pramanapaddati-107",
      "oldKey": "PP_C02_B060",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(17) विक्षेपः\nकेनचिद्‌व्याजेन कथाविच्छेदो विक्षेपः । यथा, कथामारभ्याह अद्य मे महत्प्रयोजनमस्ति तस्मिन्नवसिते वक्ष्यामीति । एतत्तरयमनुक्तिरेव ।‌"
    },
    {
      "id": "Pramanapaddati-108",
      "oldKey": "PP_C02_B061",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(18) मतानुज्ञा\nइष्टापादनं मतानुज्ञा । यथा केनचित्‌स्वस्य चोरत्वमभ्युपेत्य त्वं चोरः पुरुषत्वादि त्युक्ते, तर्हि तवापि चोरत्वं प्रसज्येतेति । इयमसङ्गतिरेव ।‌"
    },
    {
      "id": "Pramanapaddati-109",
      "oldKey": "PP_C02_B062",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(19) पर्यनुयोज्योपेक्षणम्‌\nअवश्योद्भाव्यतया प्राप्तनिग्रहस्थानानुद्भावनं पर्यनुयोज्योपेक्षणम्‌। इदमप्यनुक्तान्तर्गतम्‌।‌"
    },
    {
      "id": "Pramanapaddati-110",
      "oldKey": "PP_C02_B063",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20) निरनुयोज्यानुयोगः\nअतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । स चतुर्विधः ।\n(1) छलम्‌।\n(2) जातिः ।\n(3) हान्याद्याभासः ।\n(4) अप्राप्तकालेग्रहणं चेति ।‌"
    },
    {
      "id": "Pramanapaddati-111",
      "oldKey": "PP_C02_B064",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-1) छलम्‌\nतत्र परोक्तस्य तदभिप्रेतार्थादर्थान्तरं परिकल्प्य तद्‌दूषणेन परोक्तभङ्गः छलम्‌। यथा गृष्टिविवक्षया गामानये त्युक्ते पृथिवीविवक्षया गवानयनमशक्यमिति । एतदसङ्गतम्‌। विवक्षितदूषणस्यैवाकाङ्क्षितत्वात्‌। छलवाक्यस्यप्यर्थान्तरं परिकल्प्य गवनयनमित्यनन्वितमिति दूषणसम्भवेन स्वन्यायविरोधेऽप्यन्तर्भवति छलम्‌।‌"
    },
    {
      "id": "Pramanapaddati-112",
      "oldKey": "PP_C02_B065",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2) जातिः\nसिद्धमपि दूषणासमर्थमुत्तरं जातिः । असामर्थ्यं च द्विविधम्‌। साधारणमसाधारणं च । तत्र साधारणं स्वव्याहतिः, असाधारणं तु युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति । सा च साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्तयुपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदाच्चतुर्विंशतिधा । तत्र वादिना स्थापनाय हेतौ प्रयुक्तेऽनभ्युपेतयुक्ताङ्गेन प्रतिप्रमाणेन प्रतिपक्षोद्भावनं प्रतिधर्मसमाजातिः । सा च प्रत्यक्षाभासादिभेदेन बहुविधा ।‌"
    },
    {
      "id": "Pramanapaddati-113",
      "oldKey": "PP_C02_B066",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-1) साधर्म्यसमः\nतत्र व्याप्तिहीनेनानुमानेन यत्प्रतिपक्षचोदनं तद्‌द्विविधम्‌। साधर्म्येण वैधर्म्येण च । तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेधः । यथा यदि महानससाधर्म्याद्‌ धूमवत्तवादग्निमान्पर्वत इष्यते तर्हि हृदसाधर्म्याद्‌ द्रव्यवादनग्निरपि किं नेष्यत इति ।‌"
    },
    {
      "id": "Pramanapaddati-114",
      "oldKey": "PP_C02_B067",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-2) वैधर्म्यसमः\nवैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः । यथा यदि हृदवैधर्म्याद्‌धूमवत्वात्पर्वतोऽग्निमानिष्यते तर्हि महानसवैधर्म्यात्पर्वतत्वादनग्निः किं नेष्यत इति । अत्र व्याप्तिलक्षणयुक्ताङ्गराहित्यमेव प्रथममुद्भाव्यम्‌। न तु जातित्वम्‌। परचित्तवर्तिनो व्याप्त्यनभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वात्‌। यदा तु परो ब्रूयात्साधर्म्यवैधर्म्यमात्रं प्रयोजकं किं व्याप्त्येति । तदा वक्तव्यम्‌- एवं सति नेदं साधकं सत्प्रतिपक्षितत्वादिति ।\nत्वदनुमानस्यापि व्याप्तिहीनेन साधर्म्येण वैधर्म्येण वा प्रतिपक्षसंभवाद्व्याघात इति । तथा च प्रतिषेधे स्वन्यायविरोधात्मकतृतीयजातवन्तर्भावः (भवति) ।‌"
    },
    {
      "id": "Pramanapaddati-115",
      "oldKey": "PP_C02_B068",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-3) उत्कर्षसमः\nवादिसाधन सामर्थ्येनसाध्यस्येव व्याप्तिं विना कस्यचिदनिष्टधर्मस्य दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसमः । यदि धूमवत्वान्महानसवदग्निमान्पर्वतस्तर्हि तत एव तद्वदेव स्थाल्यादिमानपि स्यादिति । अत्रापि व्याप्तिवैकल्यात्तर्काभासोऽयमित्युत्तरं वक्तव्यम्‌। साहचर्यमात्रेण तर्कस्य प्रवृत्तेः किं व्याप्त्येति वदतः स्वन्यायविरोधेन व्याघात इति ।‌"
    },
    {
      "id": "Pramanapaddati-116",
      "oldKey": "PP_C02_B069",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-4) अपकर्षसमः\nपक्षादिष्टधर्मापकर्षणमपकर्षसम इत्येके । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते तर्हि तत एव तद्वदेव शब्दः श्रावणोऽपि मा भूदिति । अत्र वक्तव्यम्‌, किमिदं साधनमुतापादन मिति । नाद्यः । अर्थान्तरत्वेन निरनुयोज्यानुयोगत्वाभावात्‌। द्वितीये तु उत्कर्षसम एवायम्‌। न हि भावोत्कर्षोऽभावोत्कर्ष इत्येतावता भेदः संभवति ।‌"
    },
    {
      "id": "Pramanapaddati-117",
      "oldKey": "PP_C02_B070",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "उदयनस्तु दृष्टान्ते साध्येन साधनेन वा सहचरितस्य कस्यचिद्धर्मस्य निवृत्तया, पक्षे तयोरन्यतराभावसाधनमपकर्षसम इत्याह । यथा महानसेऽग्निमत्तवेन धूमवत्तवेन वा सह दृष्टस्य स्थाल्यादिमत्त्वस्य पर्वतेऽभावात्तयोरप्यभावः । तत्र साध्याभावसाधने सत्प्रतिपक्षत्वं बाधो वाऽऽरोप्यः । साधनाभावसाधने त्वसिद्धिरिति ।‌‌"
    },
    {
      "id": "Pramanapaddati-118",
      "oldKey": "PP_C02_B071",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "इदमप्यसत्‌। साध्याभावसाधने साधर्म्यसमप्रकरणसमाभ्यां भेदाभावप्रसङ्गात्‌। तस्माद्व्याप्त्यनपेक्षया पक्षे साधनाभावसाधनमेवापकर्षसमः । तत्र व्याप्त्यभावः साधनग्राहकप्रमाणाविरोधश्चेत्युत्तरं वाच्यम्‌। साहचर्यमेव प्रयोजकं किं व्याप्त्यादिनेति व्रुवाणं प्रति स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-119",
      "oldKey": "PP_C02_B072",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-5) वर्ण्यसमः\nपक्षवद्दृष्टान्तस्यापिसाध्यत्वचोदनं वर्ण्यसम इत्येके । तदसत्‌। दृष्टान्ते साध्यसाधनबिप्रतिपत्तया चोदने सदुत्तरत्वात्‌। एवमेव चोदनस्य निर्बीजतयाऽसम्भवदुक्तिकत्वात्‌। एवं तेनैव हेतुना साध्यत्वचोदनमपि निर्बीजम्‌। पक्षे हेतुः साध्येन सहचरित उपलब्धो दृष्टान्तस्यापि तदापादयतीत्येवं चोदनायामुत्कर्षसम एव ।‌‌"
    },
    {
      "id": "Pramanapaddati-120",
      "oldKey": "PP_C02_B073",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पक्षे दृष्टान्ते चोत्कर्षणमित्येतावता भेदेऽतिप्रसङ्गः । साध्यसमाच्च भेदाभावः ।\nतस्मात्‌ पक्षमात्रविवक्षितासिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोर्दृष्टान्तस्य साध्यत्वापादनं वर्ण्यसम इत्युदयनः । यथाऽसिद्धार्थं धूमवत्वं पर्वत इव महानसेऽस्ति चेत्‌सोऽपि साध्यवत्तया साध्यः स्यात्‌। न चेत्साधनवत्तया साध्यः स्यादिति ।\nअत्रापि हेतुस्वरूपस्य सद्भावमात्रेण दृष्टान्तत्वोपपत्तौ रूपविशेषचिन्ता व्यर्थेति वाच्यम्‌। तदावश्यकत्वाभ्युपगमे तु स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-121",
      "oldKey": "PP_C02_B074",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-6) अवर्ण्यसमः\nदृष्टान्तवत्पक्षस्याप्यसाध्यत्वचोदनमवर्ण्यसम इत्येके । अत्रापि सिद्धत्वाभिमानेन चादेने सदुत्तरम्‌। अन्यथा निर्बीजत्वम्‌। साधनसाहचयबलेनापदने तूत्कर्षसम एव । तस्माद्‌दृष्टान्तमात्रविवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोः पक्षस्यासाध्यत्वचोदनमवर्ण्यसम इत्युदयनः । यथा सिद्धार्थं धूमवत्वं महानस इव पर्वते वर्तते चेत्साध्यस्य सिद्धत्वादसाध्यत्वम्‌। न चेदुपायाभावादसाध्यत्वमिति । अस्यापि पूर्ववदन्तर्भावो वाच्य इति ।‌"
    },
    {
      "id": "Pramanapaddati-122",
      "oldKey": "PP_C02_B075",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-7) विकल्पसमः\nधर्माणां धर्मान्तरव्यभिचारदर्शनेन साधनस्यापि साध्यव्यभिचारचोदनं विकल्पसमः । यथा कृतकत्वाविशेषेऽपि किञ्चिन्मूर्तं दृष्टं घटादि, किञ्चिदमूर्तं रूपादि, तथा कृतकमपि किंचिन्नित्यं किंचिदनित्यं किं न स्यादिति । अत्र शङ्कामात्रं चेत्सदुत्तरमेव । उपाद्यभावादिना समाधेयं धर्मान्तरव्यभिचारेणास्यापि व्यभिचारसाधनं चेद्धर्मान्तरव्यभिचारो हेतुर्वा स्यात्‌दृष्टान्तो वा । आद्ये व्यप्त्यभावो वक्तव्यः । द्वितीये हेत्वभावान्नयूनम्‌। हेतोरनङ्गत्वादिहेत्वङ्गीकारे प्रतिदृष्टान्तसम साङ्कर्यम्‌। धर्मत्वादिहेत्वङ्गीकारे व्याप्त्यभाव एव । तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-123",
      "oldKey": "PP_C02_B076",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-8) साध्यसमः\nसाध्यद्‌दृष्टान्तस्यापि साध्यत्वचोदनं साध्यसम इत्येके । तदसत्‌। विप्रतिपत्तया चोदने सदुत्तरत्वात्‌। एवमेव चोदनेऽसम्भवदुक्तिकत्वात्‌। तेनैष हेतुना साध्यत्वापादनेऽप्येवमेव । वर्ण्यसमवद्‌बीजोपपादने तुतदभेदः । तस्मात्‌क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य धर्म्यादावप्रयोजकत्वे साध्येऽपि तथात्वप्रसङ्गात्‌तेनैव हेतुना धर्म्यादेरपि साध्यत्वापादनं साध्यसम इत्युदयनः । व्याप्तिपक्षधर्मवत्तयैव प्रयोजकत्वोपपत्तेस्तत्सिद्धतामात्रेण साधनाङ्गत्वसम्भवात्‌तेनैव हेतुना साधनमित्युत्तरं वाच्यम्‌। तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-124",
      "oldKey": "PP_C02_B077",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-9) प्राप्तिसमः\n(20-2-10) अप्राप्तिसमः\nसाधनस्य साध्यप्रप्तिपक्षनिरासेन तस्य साधनत्वभङ्गः प्राप्तिसमः । प्राप्तिपक्षनिरासेन तद्भङ्गः अप्राप्तिसमः । कृतिज्ञप्तिसाधारणमिदं जातिद्वयम्‌। यथा धूमज्ञानमग्निज्ञानं प्राप्य जनयति चेत्‌, सतैव प्राप्तिरिति तस्य प्राक्‌सिद्धत्वान्नोत्पादकम्‌। तथा धूमज्ञानमग्निं प्राप्य ज्ञापयति चेत्तर्ह्यन्यस्याः प्राप्तेरसम्भवाद्विविषयविषयिभावे वक्तव्ये धूमज्ञान एवाग्नेः स्फुरणान्न तज्जञापकत्वमिति प्राप्तिसमः । अप्राप्योत्पादकत्वं ज्ञापकत्वं चेत्तन्न । क्वाप्यदर्शनात्‌। न ह्यप्राप्याग्निः काष्ठं दहति ।\nनापि प्रकाश्यमप्राप्य प्रदीपः प्रकाशयति । अतिप्रसङ्गश्चान्यथेत्यप्राप्तिसमः । अत्र कृतौ सामर्थ्यलक्षणप्राप्तिसद्भावेनातिप्रसङ्गाभावात्‌। स्वरूपप्राप्तिरनपेक्षितैव । ज्ञाप्तावपि तद्व्याप्तिलिङ्गविषयत्वरूपप्राप्तिसद्भावेनातिप्रसङ्गाभावाद्विषयविषयिभावोऽनपेक्षित एवेत्युत्तरं वाच्यम्‌। एतदनङ्गीकृत्य स्वरूपप्राप्त्यादिकमपेक्षमाणस्य स्वन्यायेन व्याघात इति ।‌"
    },
    {
      "id": "Pramanapaddati-125",
      "oldKey": "PP_C02_B078",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-11) प्रसङ्गसमः\nअनवस्थाभासप्रसञ्जनं प्रसङ्गसमः । यथा पर्वतस्योत्पादकं वाच्यम्‌। तस्यापीत्यनवस्था । एवं पर्वतस्य ज्ञापकं वाच्यम्‌। तस्यपीत्यनवस्थेति । अत्र सिद्धविषयत्वेनावस्थानसम्भवेन मूलक्षयभावाददोषत्वमिति वाच्यम्‌। तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-126",
      "oldKey": "PP_C02_B079",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-12) प्रतिदृष्टान्तसमः\nप्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसम इत्येके । तदसत्‌। साधर्म्यसमादावपि तद्भावात्‌। यथा शब्दोऽनित्यः ऐन्द्रियकत्वादित्युक्ते वदति - यदि घटदृष्टान्तेनैन्द्रियकत्वादनित्यस्तर्हि सामान्यदृष्टान्तेन नित्यः किं न स्यादिति । व्यभिचारचोदनाभिप्रायेण प्रवृत्तेर्न साधर्म्यसमादिसाङ्कर्यमिति चेन्न । अस्यसदुत्तरत्वात्‌। तस्माद्धेतुनिरपेक्षेण प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधयोरन्यतरोद्भावनं प्रतिदृष्टान्तसम इत्युदयनः । यथा यदि महानसदृष्टान्तेनाग्निमानिष्यते तर्हि हृददृष्टान्तेनानग्निकोऽस्त्वित्यादि । अत्र न्यूनत्वं वाच्यम्‌। हेतोरनङ्गत्वाभिमाने तु स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-127",
      "oldKey": "PP_C02_B080",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-13) अनुत्पत्तिसमः\nपक्षादीनां प्रागुत्पत्तेर्हेतुवृत्त्यभावेनासिद्ध्युद्भावनमनुत्पत्तिसमः । यथा पर्वतस्योत्पत्तेः प्राक्‌तत्र धूमवत्वं न वृत्तमिति भागासिद्धमित्यादि । अत्रानुत्पन्नस्य पर्वतत्वाभावेनपक्षत्वात्‌ तत्र वृत्त्यभावो न दोपायेति वाच्यम्‌। न चेदेवं तदा स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-128",
      "oldKey": "PP_C02_B081",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-14) संशयसमः\nसत्यपि निर्णयकारणे साधारणधर्मादिमात्रेण संशयापादनं संशयसमः । यथा यदि धूमवत्तवादग्निमत्त्वनिश्चयस्तर्हि हृदमहानससाधारणेन द्रव्यत्वेन तत्संशयः किं न स्यादिति । तत्र निर्णायकाभावसहकृतस्यैव समानधर्मादेः संशयकारणत्वादत्र निर्णायकसद्भावादसंशय इति वाच्यम्‌। निर्णायकं न संशयप्रतिबन्धकमिति वदतः स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-129",
      "oldKey": "PP_C02_B082",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-15) प्रकरणसमः\nप्रत्यनुमानेन प्रत्यवस्थानं प्रकरणसम इत्येके । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते, नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । अत्र प्रत्यनुमानस्याङ्गसाकल्याभिमाने सदुत्तरमेव । अन्यथा साधर्म्यसमाद्यन्तर्भावः । तस्मादङ्गीकृतानधिकबलेन बाधचोदनं प्रकरणसम इत्युदयनः । एतदप्ययुक्तम्‌। यथ प्रतिदृष्टान्तसमादावन्यतरचोदनेनैकजातित्वं तथा साधर्म्यसमादिनाऽप्येकजातित्वसम्भवेन पृथक्करणानुपपत्तिः । उद्दारस्तु तद्वदेव ।‌"
    },
    {
      "id": "Pramanapaddati-130",
      "oldKey": "PP_C02_B083",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-16) अहेतुसमः\nहेतोः साध्यपेक्षया पूर्वापरसहभावनिरासेन अहेतुत्वचोदनमहेतुसमः । यथा न तावत्‌सर्वसाधनं साध्यपूर्वम्‌। साध्याभावे तन्निरूप्यसाधनत्वायोगात्‌। नापि साधनं पश्चाद्भावि । साधनाभावे साध्ययोगात्‌। नापि द्वयोर्यौगपद्यम्‌। अविशेषेण साध्यसाधनभावायोगादिति । अत्र कृतौ पूर्वभाविनः साधनत्वम्‌। साधनशक्तेः परानपेक्ष्यत्वात्‌, तद्व्यवहारस्य बुद्धिस्थेनैव साध्येनोपपत्तेः । ज्ञतौ तु यथायथं पक्षत्रयमपि । ज्ञातत्वाज्ञातत्वाभ्यां विशेष इत्युत्तरं वाच्यम्‌। तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-131",
      "oldKey": "PP_C02_B084",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-17) अर्थापत्तिसमः\nअर्थापत्त्यभासेन प्रत्यवस्थानमर्थापत्तिसमः । यथा पर्वतोऽग्निमानित्युक्तेऽर्थदापद्यतेऽन्यदनग्निमदित्यादि । तथा च साध्यविकलो दृष्टान्त इति । अत्रानुपपद्यमानदर्शनानुपपादके बुद्धिरर्थापत्तिः । न चात्रानुपपद्यमानं किञ्चिदस्ति । अतो नायं प्रसङ्ग इति वाच्यम्‌। उक्तविपरीतापेक्षमात्रमर्थापत्तिरित्यङ्गीकारे तु स्वन्यायविरोध इति । उपपत्तिसमवद्बीजाभावान्नेदं जात्युत्तरम्‌।‌"
    },
    {
      "id": "Pramanapaddati-132",
      "oldKey": "PP_C02_B085",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-18) अविशेषसमः\nसाधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानामविशेषापादनमविशेषसमः । यथा यदि धूमवत्वात्पर्वतमहानसयोरग्निमत्वविशेषः, तदा सर्वभावानां सत्वादनित्यत्वविशेषप्रसङ्ग इति । अत्र व्याप्त्यादिसदसद्भावाभ्यां विशेषान्न प्रति बन्दीग्रहणमित्युत्तरं वाच्यम्‌। तदनङ्गीकारेण प्रवृत्तस्य स्वन्यायविरोध इति ।‌"
    },
    {
      "id": "Pramanapaddati-133",
      "oldKey": "PP_C02_B086",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-19) उपपत्तिसमः\nउभयहेतूपपत्तया प्रत्यवस्थानमुपपत्तिसम इत्येके । यथा यदि शब्दस्यानित्यत्वोपपादकं कृतकत्वमस्तीत्यनित्यत्वमिष्यते तर्हि नित्यत्वोपपादकमस्पर्शत्वमस्तीति नित्यत्वमपि किं नेष्यत इति । एतदसत्‌। साधर्म्यसमाद्यभेदात्‌। तस्मान्मत्पक्षेऽपि किमपि साधनं भविष्यतीति सामान्यतः प्रत्यवस्थानमुपपत्तिसम इत्युदयनः । इदमप्यसत्‌। केवलाया एव मुक्तेर्निर्बीजत्वात्‌। प्रमाणोपपादने तूपपादकस्य साधुत्वे सदुत्तरत्वात्‌। असाधुत्वे तस्यैवोद्भाव्यत्वेनाजातित्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-134",
      "oldKey": "PP_C02_B087",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-20) उपलब्धिसमः\nनिर्दिष्टहेत्वभावेऽपि साध्योपलब्ध्या हेतोरप्रयोजकत्वाभिधानमुपलब्धिसम इत्येके । यथा क्वचिद्‌धूमवत्वाभावेऽप्यग्निमत्वोपलब्धेरप्रयोजकं धूमवत्वमिति । उत्थानबीजाभावान्नेदं जात्युत्तरम्‌। किन्तु हान्याद्याभास एव । एव तस्माद्वादिवाक्यस्यावधारणे तात्पर्यमारोप्यावधारणं विकल्प्य दूषणमुपलब्धिसम इत्युदयनः । यथा पर्वतोऽग्निमानित्युक्ते किं पर्वत एवाग्निमानुत पर्वतोऽग्निमानेवेति । नाद्यः । महानसादेरप्यग्निमत्वात्‌। न द्वितीयः । कदाचिदनग्निमत्तवादित्यादि । इदमप्यसत्‌। तात्पर्यान्तरारोपेण सामान्यचलत्वात्‌। विकल्पेनोत्थानान्नेति चेन्न । अवधारणस्यैव विकल्पेनावधारणतात्पर्यारोपापरिहारात्‌। व्यवच्छेदवाक्यार्थरुचीनमवधारणं स्थितमेवेति चेन्न । तेशामप्यतद्व्यावृत्त्यङ्गीकारेणैवंविधवधारणस्यानिष्टत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-135",
      "oldKey": "PP_C02_B088",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-21) अनुपलब्धिसमः\nउपलब्ध्यादिविषयिधर्माणां स्वात्मनि वृत्यवृत्तया तत्त्वव्याघातापादनमुपलब्धिसमः । यथोपलब्धि स्वात्मनि वर्तते चेदुपलब्धत्वाद्‌घटादिवदनुपलब्धिः । न वर्तते चेत्तथापि तद्वदेवेत्यादि । अत्र विषयपेक्षयोपलब्धित्वस्य स्वात्मनि वृत्त्यवृत्तिभ्यां न निवृत्तिरिति वक्तव्यम्‌। तदनङ्गीकारे स्वन्यायविरोधः, स्वक्रियाविरोधो वेति ।‌"
    },
    {
      "id": "Pramanapaddati-136",
      "oldKey": "PP_C02_B089",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-22) नित्यसमः\nविशेषणधर्मस्य तदतद्रूपताविकल्पेन धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमः । यथा शब्दोऽनित्य इत्युक्तेऽनित्यत्वं नित्यमनित्यं वा । आद्ये धर्मिणो नित्यत्वापातः । द्वितीये तन्नाशे पुनः शब्दस्य नित्यत्वापत्तिरित्यादि । अत्र स्वपक्षे निर्वाहान्तरविवक्षया परपक्षे दौर्घट्यापादने तात्पर्यं चेत्सदुत्तरमेव । विशिष्टस्वरूपनिराकरणं चेत्तदादौ निर्वाहो वाच्यः । तदनभ्युपगमेन प्रवृत्तस्य स्वन्यायस्वक्रियाविरोधाविति ।"
    },
    {
      "id": "Pramanapaddati-137",
      "oldKey": "PP_C02_B090",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-23) अनित्यसमः\nवादिसाधनप्रतिबन्द्या धर्मान्तरेण तद्वदतां साध्यधर्मक्त्तवापादनमनित्यसमः । यथा यदि कृतकत्वाच्छब्दोऽनित्यः स्यात्तर्हि सत्तवात्सर्वमनित्यं स्यादिति । इयमप्यविशेषसमलक्षणेनैव सङ्गृहीतत्वान्न पृथग्वाच्यैव ।‌"
    },
    {
      "id": "Pramanapaddati-138",
      "oldKey": "PP_C02_B091",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-2-24) कार्यसमः\nहेतोः सन्दिग्धासिद्ध्या प्रत्यवस्थानं कार्यसम इति केचित्‌। यथा शव्दो नित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वमुत्पाद्यत्वेन व्यङ्ग्यत्वेन वेति सन्दिह्यत इति । इदमप्यन्यथासिध्युद्भावनत्वात्‌ सदुत्तरमेव । तस्मात्पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य तत्साधकत्वेन स्वयमुत्प्रेक्षितस्य दूषणेन वादिसाधनभङ्गः कार्यसम इत्युदयनः । यथा शब्दो नित्यः कार्यत्वादित्युक्ते कार्यत्वमसिद्धम्‌। तत्साधकं च प्रयत्नानन्तरीयकत्वं वाच्यम्‌। तच्चान्यथासिद्धमिति । इदमप्यनभिप्रेततात्पर्यारोपाच्छलमेवेति ।‌"
    },
    {
      "id": "Pramanapaddati-139",
      "oldKey": "PP_C02_B092",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-3) हान्याद्याभासः\nप्रतिज्ञाहान्याद्यप्राप्तावपि भ्रान्त्यादिना तदुद्भावनं हान्याद्याभासः । स प्रमाणविरोध एव । हान्याद्याभासस्य प्राश्निकादिभिः प्रमितत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-140",
      "oldKey": "PP_C02_B093",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(20-4) अप्राप्तकाले ग्रहणम्‌\nउद्भावनकालमप्राप्यातिक्रम्य वा निग्रहस्थानोद्भावनमप्राप्तकाले ग्रहणम्‌। तदसङ्गतमेवेति ।‌"
    },
    {
      "id": "Pramanapaddati-141",
      "oldKey": "PP_C02_B094",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(21) अपसिद्धान्तः\nअपसिद्धान्तस्तु स्ववचनविरोध एव । यथा प्राभाकरस्येश्वराभ्युपगमः ।‌"
    },
    {
      "id": "Pramanapaddati-142",
      "oldKey": "PP_C02_B095",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "(22) हेत्वाभासः\nपक्षधर्मत्वं, सपक्षे सत्वं, विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति हेतोः पञ्चरूपाणि । तत्र अन्वयव्यतिरेकिणः पञ्चापि विवक्षितानि । इतरयोस्तु चत्वारि । केवलान्वयिनो विपक्षाभावेन ततो व्यावृत्त्यभावात्‌। केवलव्यतिरेकिणः सपक्षाभावेन तत्र सत्वानुपपत्तेः ।‌"
    },
    {
      "id": "Pramanapaddati-143",
      "oldKey": "PP_C02_B096",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "तत्र विवक्षितरूपेषु कतिपयसहिताः कतिपयरहिता हेत्वाभासाः । ते च असिद्धविरुद्धानेकान्तिकानध्यवसितकालात्ययापदिष्टसत्प्रतिपक्षप्रकरणसमाः । तत्र व्याप्तस्य पक्षधर्मत्वप्रमितिः सिद्धिः । तदभावोऽसिद्धिः । तद्वानसिद्धः ।‌"
    },
    {
      "id": "Pramanapaddati-144",
      "oldKey": "PP_C02_B097",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "स चतुर्विधः । व्याप्यत्वासिद्धः, आश्रयासिद्धः, पक्षधर्मत्वासिद्धः, एतत्प्रमित्यसिद्धश्चेति । तत्र व्याप्यत्वासिद्धो द्विविधः । साध्यसम्बन्धरहितः सोपाधिकसम्बन्धश्चेति । आद्यो यथा । सर्वं क्षणिकं सत्वादिति । अयमुभयसम्बन्धाभावादव्याप्तावन्तर्भूतः । द्वितीयो यथा । वैधी हिंसाऽधर्मसाधनम्‌, हिंसात्वात्‌, ब्रह्महिंसावदिति । हिंसात्वपापसाधनयोः सम्बन्धे निषिद्धत्वस्योपाधेः सत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-145",
      "oldKey": "PP_C02_B098",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "साध्यव्यापकत्वे सति साधनव्यापक उपाधिः । निषिद्धत्वं च साध्यमधर्मसाधनत्वं व्याप्तोनि । यत्राधर्मसाधनत्वं तत्र  निषिद्धत्वमिति नियमात्‌। न व्याप्नोति च साधनत्वाभिप्रेतं हिंसात्वम्‌। पक्षे हिंसात्वसद्भावेऽपि निषिद्धत्वस्याभावात्‌।  अयं तु विप्रतिपत्तेः प्रागव्यप्त्युन्नायकः । वैधहिंसायाः साधनाव्यापकत्वान्निवर्तमानं निषिद्धत्वं साध्यव्यापकत्वान्निवर्तयद्‌  हिंसात्वस्य साध्याभावसंबन्धमापादयतीति । विप्रतिपत्तयुत्तरकालस्तु प्रतिपक्षोन्नायको भवति । साधनाव्यापकत्वात्‌। पक्षाद्‌व्यावर्तमान उपाधिः साध्यव्यापकत्वात्तद्‌व्यावर्तयति । ततश्चोपाध्यभावः साध्याभावसाधने हेतुर्भवति । वैधहिंसाऽधर्मसाधनं न भवति, अनिषिद्धत्वात्‌, भोजनवदिति । तथा च सोपाधिकस्याव्याप्तौ प्रतिज्ञायाः समबलविरोधे चान्तर्भावः ।‌"
    },
    {
      "id": "Pramanapaddati-146",
      "oldKey": "PP_C02_B099",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "आश्रयासिद्धोपि द्विविधः । असदाश्रयः, सिद्धसाधनश्चेति । आद्यो यथा, शशविषाणं तीक्ष्णम्‌, विषाणत्वादिति । प्रमाणविरोधाद्यसङ्कीर्णोदाहरणाभावादयं हेत्वाभास एव न भवति । द्वितीयो यथा, ईश्वरावादिनं प्रति क्षित्यादिकं सकर्तृकं कार्यत्वादिति । अयमसङ्गतावन्तर्भवति । अनाकाङ्क्षितसाधनाय प्रवृत्तत्वात्‌।‌"
    },
    {
      "id": "Pramanapaddati-147",
      "oldKey": "PP_C02_B100",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पक्षधर्मत्वासिद्धोऽनेकविधः । यथा शब्दो नित्यश्चाक्षुषत्वादित्यादि । तत्र व्यधिकरणासिद्धो न दूषणमित्युक्तमेव । व्यर्थविशेषणासिद्धो व्यर्थविशेष्यासिद्धश्चाधिक्येऽन्तर्भवतः । भूरियं शशविषाणोल्लिखिता भूत्वादिति । अप्रसिद्धविशेषणासिद्धिस्तु दोषान्तरासङ्कीर्णोदाहरणाभावान्न हेत्वाभासः । इतरः पक्षधर्मत्वासिद्धोऽसिद्धावन्तर्भवति । एतत्प्रमित्यसिद्धो यथा । धूमवाष्पाविवेके धूमवत्तवादिति । अस्याप्यसिद्धिरेव । पक्षविपक्षयोरेव वर्तमानो हेतुर्विरोधः । यथा शब्दो नित्यः कृतकत्वादिति । अयमपि साध्यसम्बन्धाभावे सति तदभावसम्बन्धित्वादव्याप्तः ।‌"
    },
    {
      "id": "Pramanapaddati-148",
      "oldKey": "PP_C02_B101",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः । यथा शब्दो नित्यः प्रमेयत्वादिति । अयमपि साध्यसम्बन्धित्वादव्यप्त एव ।‌‌"
    },
    {
      "id": "Pramanapaddati-149",
      "oldKey": "PP_C02_B102",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "साध्यसाधकः पक्ष एव वर्तमनो हेतुरनध्यवसितः । स त्रिविधः । तत्र सपक्षविपक्षरहितो यथा । सर्वमनित्यं सत्वादिति । उभयवान्‌यथा, भूर्नित्या गन्धवत्वादिति । सपक्षवान्‌विपक्षरहितो यथा । शब्दोऽभिधेयः शब्दत्वादिति ।‌‌"
    },
    {
      "id": "Pramanapaddati-150",
      "oldKey": "PP_C02_B103",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "अयं व्याप्यत्वासिद्धत्वान्न पृथग्घेत्वाभास इत्येके । अन्ये तु सपक्षविपक्षरहितो व्याप्यत्वासिद्धः । सति सपक्षे पक्षमात्रवृत्तिः । सपक्षवान्विपक्षरहितश्च द्वावनैकान्तिकेऽन्तर्भवत इत्याहुः । तथाहि । सव्यभिचारोऽनैकान्तिकः । व्यभिचारोऽन्वयतो व्यतिरेकतश्च । तत्रान्वयस्य भूमिः पक्षः सपक्षश्च । तदतिरेकेण विपक्षेपि वर्तमानः साधारणानैकान्तिकः । व्यतिरेकस्य भूमिर्विपक्षः सपक्षैकदेशोऽपि । तत्र सर्वस्मिन्नपि सपक्षेऽवर्तमानोऽसाधारणानैकान्तिक इति । सर्वथाऽव्याप्तावन्तर्भवति । उभयसम्बन्धाभावात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-151",
      "oldKey": "PP_C02_B104",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "व्यतिरेकव्याप्तिसम्भवादयं न हेत्वाभास इत्येके । अपरे तु सत्यपि सपक्षे तत्रावर्तमानस्य किं व्याप्तिरेव । नास्त्युत केवलव्यतिरेकिवदस्तीति सन्देहावस्कन्दनाद्धेत्वाभासत्वमित्याहुः ।‌"
    },
    {
      "id": "Pramanapaddati-152",
      "oldKey": "PP_C02_B105",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "स्वपरपक्षसिद्धावपि त्रिरूणे हेतुः प्रकरणसमः । यथा विमतं मिथ्या, दृश्यत्वादिति । सत्यत्वेऽप्यस्य वक्तुं शक्यत्वात्‌। अयं त्वसम्भवीति केचिदाहुः । तदसत्‌। सत्पतिपक्षवदभिमानतः संभवात्‌। अयमपि प्रतिज्ञायाः समबलविरोध एवेति ।‌‌"
    },
    {
      "id": "Pramanapaddati-153",
      "oldKey": "PP_C02_B106",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "पक्षाभासहेत्वाभासान्तर्भूतत्वान्न पृथक्‌वाच्या इत्याहुः । तदसत्‌। प्रतिज्ञामात्रेणैव स्फुरणात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-154",
      "oldKey": "PP_C02_B107",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "साधने स्वक्रियाविरोधस्वन्यायविरोधयोर्हेत्वाभासानन्तर्भावाच्च । स्वक्रियाविरोधो यथा । अहं मूक इति । स्वन्यायविरोधो यथा । प्रमेयं प्रमाणानपेक्षमिति ।‌"
    },
    {
      "id": "Pramanapaddati-155",
      "oldKey": "PP_C02_B108",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "एवमुदाहरणाभासानपि हेत्वाभासेऽन्तर्भावयन्तस्तेषां न पृथग्वाच्यतामाहुः । तथाहि । उदाहरणलक्षणरहिता उदाहरणवदवभासमाना उदाहरणाभासाः ।‌‌"
    },
    {
      "id": "Pramanapaddati-156",
      "oldKey": "PP_C02_B109",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "तत्र साधर्म्योदाहरणे साध्यविकलो यथा । मनोऽनित्यं मूर्तत्वात्‌। यन्मूर्तं तत्‌अनित्यम्‌। यथा परमाणुरिति । साधनविकलो यथा । यथा कर्मेति । उभयविकलो यथा । यथाऽऽकाश इति ।‌‌"
    },
    {
      "id": "Pramanapaddati-157",
      "oldKey": "PP_C02_B110",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "आश्रयहीनो यथा । यथा शशविषाणमिति । अव्याप्त्यभिधानं यथा । यथा घटवदिति । विपरीतव्याप्त्यभिधानं यथा । यदनित्यं तन्मूर्तम्‌। यथा घट इति ।‌"
    },
    {
      "id": "Pramanapaddati-158",
      "oldKey": "PP_C02_B111",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "वैधर्म्योदाहरणे साध्याव्यावृत्तो यथा । यदनित्यं न भवति तन्मूर्तं न भवति । यथा कर्मेति । साधनाव्यावृत्तो यथा । यथा परमाणुरिति । उभयाव्यावृत्तो यथा । यथा घट इति । आश्रयहीनः पूर्ववत्‌।‌"
    },
    {
      "id": "Pramanapaddati-159",
      "oldKey": "PP_C02_B112",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "अव्याप्त्यभिधानं यथा । यथाऽऽकाश इति । विपरीतव्याप्त्यभिधानं यथा । यन्मूर्तं न भवति तदनित्यं न भवति । यथाऽऽकाश इति ।‌‌"
    },
    {
      "id": "Pramanapaddati-160",
      "oldKey": "PP_C02_B113",
      "type": "bhashya",
      "parent": "PP_C02",
      "chapter": "PP_C02",
      "verseType": null,
      "text": "अत्र वैधर्म्योदाहरणस्यानुपयुक्तत्वात्तदाभासकथनमनुपयुक्तम्‌। अव्याप्त्यभिधानं तु न दोषो न्यूनं वा । विपरीतव्याप्त्यभिधानमप्यसङ्गतम्‌। आश्रयहीनत्वं चाश्रयासिद्धवददूषणम्‌। अन्यतरवैकल्येनैव दृष्टान्तस्य दुष्टत्वादुभयवैकल्यं न पृथग्गणणीयम्‌। तस्मात्‌ साध्यवैकल्यं साधनवैकल्यं च द्वयमेव दृष्टान्तदूषणम्‌। तत्र साध्यवैकल्ये दृष्टान्तो विपक्षो भवति । तत्र वर्तमानं साधनमनैकान्तिकं विरुद्धं वा भवति । साधनवैकल्ये व्याप्यत्वासिद्धिरिति । दृष्टान्तदोषो हेत्वाभासेऽन्तर्भवतीति चेन्न । दृष्टान्तोक्त्यनन्तरं प्रतिभासात्‌। सपक्षान्तरे वर्तमानस्य साधनस्य दृष्टान्तीकृते सपक्षेऽवृत्ततौ हेत्वाभासत्वानुपपत्तेश्च । तत्राप्यनुपदर्शितव्याप्तिकत्वेन व्याप्यत्वासिद्ध इति चेन्न । तथाऽप्यर्थदोषाभावादिति ।‌"
    },
    {
      "id": "Pramanapaddati-161",
      "oldKey": "PP_C03_B01",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "निर्दोषः शब्दः आगमः । निरभिधेयत्वेनन्वयाभावेन वा बोधकत्वं, विपरीतबोधकत्वं, ज्ञातज्ञापकत्वं, अप्रयोजनत्वं, अनभिमतप्रयोजनत्वं, अशक्यसाधनप्रतिपादनं, लधूपाये सति गुरूपायोपदेशनमित्यादिदोषरहितः शब्द आगमः । निर्दोशं वाक्यमिति वा ।‌"
    },
    {
      "id": "Pramanapaddati-162",
      "oldKey": "PP_C03_B02",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "विभक्यन्ता वर्णाः पदम्‌। आकाङ्क्षा-सन्निधि-योज्यतावतां पदानां समूहो वाक्यम्‌। आकाङ्क्षा जिज्ञासा । सा चेतनधर्मः । तद्विषयत्वादर्थाः साकाङ्क्षाः । तत्प्रतिपादकत्वात्‌पदान्यपि । सन्निधिरविलम्बेनोच्चरितत्वं, पदधर्म एव । प्रतीतान्वयस्य प्रमाणविरोधाभावो योग्यता, पदार्थधर्मः । तद्वाचकत्वात्‌पदान्यपि योग्यतावन्तीत्युच्यन्ते । तत्र पदत्वेन निरभिधेयत्वस्य, आकांक्षासन्निधिभ्यामन्वयाभावस्य, योग्यतया विपरीतबोधकत्वस्य च निरासे सति, अशेषदोषनिरासार्थं निर्दोषग्रहणम्‌।‌"
    },
    {
      "id": "Pramanapaddati-163",
      "oldKey": "PP_C03_B03",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितं, वाच्यवाचकभावसम्बन्धग्रहणसंस्कारानुगृहीतं अन्त्यवर्णसन्निकृष्टं श्रोत्रमनेकेष्वपि वर्णेष्वेकां पदबुद्धिं जनयति । तथा पूर्वपूर्वपदानुभवजनितसंसारसहकृतमन्त्यपदविषयं श्रोत्रमनेकेषु पदेष्वेकां वाक्यबुद्धिमाकाङ्क्षाद्यनुसारेण जनयति । तेन वर्णानां पदानां च सहानवस्थितप्रतीतानामपि समुदायो युज्यते ।‌"
    },
    {
      "id": "Pramanapaddati-164",
      "oldKey": "PP_C03_B04",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "आगमोऽपि समयकूश्रुतः समयस्मरणानुगृहीतः शाब्दन्यायानुसन्धानसहित एव स्वार्थस्य बोधको न तु सत्तामात्रेण । जातिरेव वाच्या पदानां व्यक्तयस्तु लक्ष्या इति भाट्टाः । जातिविशिष्टा व्यक्तयो वाच्या इति वैशेषिकाः । क्वचिज्जातिः क्वचिद्वक्तिरिति वैयाकरणाः । क्वचिज्जातिः क्वचिद्व्यक्तिः क्वचिदाकृतिरिति नैयायिकाः । अन्यापोह इति बौद्धाः । व्यक्तय एव वाच्याः समयप्रतिपत्तौ तु सादृश्यमुपधानमित्याचार्याः ।‌"
    },
    {
      "id": "Pramanapaddati-165",
      "oldKey": "PP_C03_B05",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "ननु समयो नाम पदानां पदार्थानां च वाच्यवाचकभावसम्बन्धः । स च सम्बन्धिष्वज्ञातेषु ज्ञातुमशक्य इति पदार्थज्ञानस्य प्रागेव सिद्धत्वात्‌किमागमस्य प्रयोजनम्‌। उच्यते । यथा ज्ञातयोरपि धर्मधर्मिणोः संसर्गोऽनुमानेन बोध्यते तथा ज्ञातानामेव पदार्थानामन्वयविशेषस्याऽऽगमो बोधकः । पदानां पदार्थमात्रविषयत्वेनान्वयबोधकं न किञ्चिदस्तीति चेत्‌। अत्र वर्णपदाभिव्यक्तोऽखण्डः स्फोटाख्यः शब्दोऽन्वयबोधक इति वैयाकरणा ब्रुवते । वर्णमालेत्यपरे । वाक्यान्त्यो वर्ण इत्यन्ये ।‌"
    },
    {
      "id": "Pramanapaddati-166",
      "oldKey": "PP_C03_B06",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "पदानां सान्निध्यमिति केचित्‌। पदैरभिहिताः पदार्था एवाकाङ्क्षादिशालिन इति भाट्टाः । सर्वेषां पक्षाणामप्रामाणिकत्वात्‌प्रमाणविरुद्धत्वाच्च पदान्येवान्वितस्वार्थाभिधायीनीति प्रेक्षावन्तः । तत्र प्रत्येकमपि पदान्यन्वयविशेषाभिधानसमर्थानीति प्राभाकरः । प्रत्येकं सामान्यतो योग्येतरान्वितस्वार्थाभिधानशक्तीनि पदानि पदान्तरसन्निधानाहितशक्त्यन्तराणि विशेषतोऽप्यन्वितान्‌स्वार्थानभिदधति तथाऽनुभवादित्याचार्याः ।‌"
    },
    {
      "id": "Pramanapaddati-167",
      "oldKey": "PP_C03_B07",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "आगमो द्विविधः । अपौरुषेयः पौरुषेयश्चेति । तत्र अपौरुषेयो वेदः पौरुषेयोऽन्यः । वर्णाः सर्वत्र कूटस्थनित्याः । सर्वगताश्च । पदान्यपि नियतान्येव । तेषां पदार्थसम्बन्धोऽपि स्वाभाविक एव । तथाऽपि वाक्ये पदानामानुपूर्वीविशेषस्य स्वतन्त्रपुरुषपूर्वकत्वभावाभावाभ्यामयं भेदः ।‌"
    },
    {
      "id": "Pramanapaddati-168",
      "oldKey": "PP_C03_B08",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "आगमोऽनुमान एवान्तर्भवतीति वैशेषिकादयः । तदसत्‌। व्याप्त्याद्यननुसंधान एव वाक्यार्थप्रतीतेरनुभवात्‌। अपौरुषेयः पृथक्‌प्रमाणम्‌। पौरुषेयस्त्वनुमानमिति प्राभाकराः । तदप्यसत्‌। उभयत्र सामग्रीसाम्येऽपि विशेषकल्पकाभावात्‌। तदेतानि त्रीण्येव प्रमाणानि ।‌"
    },
    {
      "id": "Pramanapaddati-169",
      "oldKey": "PP_C03_B09",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "एतेष्ववार्थापत्तयादीनामन्तर्भावः । तथाहि अनुपपद्यमानार्थदर्शनात्तदुपपादके  बुद्धिरर्थापत्तिः । यथा जीवंश्चैत्रो गृहे नास्तीति ज्ञाने सति बहिर्भावज्ञानम्‌। अत्र यद्यप्येकैकस्य बहिर्भावलिङ्गत्वं नोपपद्यते व्यभिचारात्‌। तथापि चैत्रो बहिरस्ति जीवनवत्वे सति गृहेऽसत्वात्‌। यो जीवन्‌यत्र नास्ति स ततोऽन्यत्रास्ति । यथाऽहमिति । मिलितयोर्जीवनगृहाभावयोर्लिङ्गत्वमुपपद्यत एव ।‌"
    },
    {
      "id": "Pramanapaddati-170",
      "oldKey": "PP_C03_B10",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "विरुद्धयोर्विशेषणविशेश्यभावानुपपत्तिरिति चेन्न । सामान्यविशेषयोरविरोधस्य स्वस्मिन्नेव दृष्टत्वात्‌। आत्यन्तिकविरोधे त्वर्थापत्तिरपि न प्रवर्तते । किन्तु विप्रतिपत्तया सन्देह एव भवतीति ।‌"
    },
    {
      "id": "Pramanapaddati-171",
      "oldKey": "PP_C03_B11",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "सादृश्यज्ञानसाधनमुपमानम्‌। तत्र तेनायं सदृशः सदृशाविमावित्यादि वा ज्ञानं प्रत्यक्षजम्‌। गोगवयौ सदृशाविति वाक्यजं त्वागम एव । गृह्यमाणे स्मर्यमाणसादृश्यं दृष्ट्वा स्मर्यमाणे यद्‌गृह्यमाणसादृश्यं प्रत्येति तदनुमानमेव ।‌‌"
    },
    {
      "id": "Pramanapaddati-172",
      "oldKey": "PP_C03_B12",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "ननु अनुभूयमानगतत्वेन प्रतीयमानं सादृश्यं करणम्‌। स्मर्यमाणगतं प्रमेयम्‌। तत्कथमनयोर्व्यधिकरणयोलिंङ्ग-लिङ्गभाव इति चेन्न स गौरेतद्गवयसदृशः । अस्य गवयस्य तद्गोसदृशत्वात्‌। यो यत्सदृशः स तत्सदृशः । यथा यमो यमान्तरेणेति व्याप्तिसम्भवेन व्यधिकरणस्यादोषत्वात्‌। एतद्नवयगतसादृश्यप्रतियोगित्वस्य वा लिङ्गत्वेन सामानाधिकरण्याच्चेति ।‌"
    },
    {
      "id": "Pramanapaddati-173",
      "oldKey": "PP_C03_B13",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "अभावज्ञानकरणमभावप्रमाणम्‌। तत्र इदानीं कौरवाद्यभावो  भारताद्यागमादवगम्यते । देवदत्तस्य चक्षुराद्यभावो रूपाद्यदर्शनलिङ्गगम्यः । सुखाद्यभावप्रमितिस्तु साक्षिप्रत्यक्षेणैव । पुरोवृत्तिघटाद्यभावप्रमितिस्तु  झटिति जायमाना प्रत्यक्षफलमेव । न त्वनुपलब्धिमात्रजन्या अपरोक्षज्ञानत्वात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-174",
      "oldKey": "PP_C03_B14",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "अनुपलब्धिस्त्ववर्जनीयसन्निधिरेव । यत्र त्वन्धकारे हस्तप्रसारणादिरूपपरामर्शेन घाटाभावं प्रत्येति न तदाऽनुपलब्धिः करणम्‌। किन्तु लिङ्गत्वेनैव अत्र घटो नस्ति । योग्यत्वे सत्यनुपलभ्यमानत्वादिति ।‌"
    },
    {
      "id": "Pramanapaddati-175",
      "oldKey": "PP_C03_B15",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "एवं प्रातर्गजाद्यभावज्ञानमनुपलब्धिलिङ्गजन्यम्‌। अभावस्येन्द्रियसन्निकर्षानुपपत्तिरिति चेन्न । भाववदभावस्यापीन्द्रियसन्निकर्षे बाधकाभावात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-176",
      "oldKey": "PP_C03_B16",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "बहुलज्ञानेऽल्पज्ञानं सम्भवः । यथा शतमस्तीति जाने पञ्चाशज्जहानम्‌। तदप्यनुमानमेव । देवदत्तः पञ्चाशद्वान्‌शतवत्वात्‌। यथाऽहमिति प्रयोगसंभवात्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-177",
      "oldKey": "PP_C03_B17",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः परिशेषः । यथा देवदत्तयज्ञत्तावेताविति ज्ञाने सत्येकस्मिन्नायं यज्ञदत्त इति प्रतिषेधे देवदत्तबुद्धिः । इयमनुमानजन्या । अयं देवदत्तः देवदत्तयज्ञदत्तयोरन्यतरत्वे सति अयज्ञदत्तत्वात्‌। व्यतिरेकेण यज्ञदत्तवदिति प्रयोगोपपत्तेः । उपक्रमादीन्यप्यनुमानान्येव । अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम्‌। यथाऽत्र वटे वैश्रवणोऽस्तीति वाक्यम्‌। तदागम एव । एवमन्यान्यपि प्रमाणान्युक्तेष्वेवान्तर्भाव्यानि ।‌"
    },
    {
      "id": "Pramanapaddati-178",
      "oldKey": "PP_C03_B18",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "नन्वेतेषां प्रमाणानां प्रामाण्यमप्रमाणानामप्रामाण्यं च केनोत्पद्यते केन वा ज्ञायत इति चेत्‌उच्यते । तत्र ज्ञानानामुभयं स्वत एवेति साङ्ख्या मन्यन्ते ।‌‌"
    },
    {
      "id": "Pramanapaddati-179",
      "oldKey": "PP_C03_B19",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "ज्ञानजनकातिरिक्तजनकानपेक्षित्वमुत्पत्तौ स्वतस्त्वम्‌। ज्ञानज्ञापकातिरिक्तज्ञापकानपेक्षत्वं ज्ञप्तौ स्वतस्त्वम्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-180",
      "oldKey": "PP_C03_B20",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "उभयं परत एवेति नैयायिकादयः । ज्ञानजनकातिरिक्तकारणजन्यत्वमुत्पत्तौ परतस्त्वम्‌।‌‌"
    },
    {
      "id": "Pramanapaddati-181",
      "oldKey": "PP_C03_B21",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "ज्ञानज्ञापकातिरिक्तप्रमाणापेक्षत्वं ज्ञाप्तौ परतस्त्वम्‌। तत्र ज्ञानमिन्द्रियादिजन्यम्‌। प्रामाण्यं पुनरिन्द्रियादिगुणजन्यम्‌। तथाऽप्रामाण्यं तद्दोषजन्यम्‌।‌"
    },
    {
      "id": "Pramanapaddati-182",
      "oldKey": "PP_C03_B22",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "एवं ज्ञानं मानसप्रत्यक्षवेद्यम्‌। तत्र प्रामाण्यप्रामाण्यं च संवादविसंवादलिङ्गम्यमिति ।‌‌"
    },
    {
      "id": "Pramanapaddati-183",
      "oldKey": "PP_C03_B23",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "प्रामाण्यं परतोऽप्रामाण्यं स्वत इति बौद्धाः ।‌‌"
    },
    {
      "id": "Pramanapaddati-184",
      "oldKey": "PP_C03_B24",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "प्रामाण्यं स्वतोऽप्रामाण्यं परत इति पक्षमङ्गीकुर्वाणा अपि भाट्टाः प्रामाण्यविशिष्टं ज्ञानं ज्ञातताविशेषेणानुमीयत इति ज्ञप्तौ स्वतस्त्वम्‌। अप्रामाण्यं तु विसंवादाद्यनुमानान्तरवेद्यमिति परतस्त्वं मन्यते ।‌‌"
    },
    {
      "id": "Pramanapaddati-185",
      "oldKey": "PP_C03_B25",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "स्वप्रकाशज्ञानेनैव प्रामाण्यविशिष्टज्ञानं सिद्ध्यति ।अप्रामाण्यं तु नास्त्येवेति प्राभाकराः ।‌‌"
    },
    {
      "id": "Pramanapaddati-186",
      "oldKey": "PP_C03_B26",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "इन्द्रियादिमात्रेणैव प्रामान्यविशिष्टं ज्ञानमुत्पद्यते । गुणास्त्वकिञ्चित्कराः । अप्रामाण्यं दोषसहकृतेन्द्रियादिभिरुत्पद्यते । तथा ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायते । अप्रमाणज्ञानस्वरूपमात्रं साक्षिवेद्यम्‌। तदप्रामाण्यं त्वनुमेयमित्याचार्याः ।‌"
    },
    {
      "id": "Pramanapaddati-187",
      "oldKey": "PP_C03_B27",
      "type": "bhashya",
      "parent": "PP_C03",
      "chapter": "PP_C03",
      "verseType": null,
      "text": "करणानां तु ज्ञानजनकत्वशक्तिरेव स्वकारणासादिता प्रामाव्यजनकत्वशक्तिः । अप्रामाण्यजनने त्वन्या शक्तिर्दोषवशदाविर्भवति । ज्ञप्तिस्तु परत एव । इन्द्रियादिस्वरूपस्य यथायथं स्वप्रमाणवेद्यत्वात्‌। यथार्थज्ञानसाधनत्वस्यानुमानवेद्यत्वादिति । तदेवंभूतैः प्रमाणैः पदार्थानां नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्य शमदमादिसम्पत्तिमतो वासुदेवैकशरणस्य तद्विषयाणि श्रवणमनननिदिध्यासनान्यादरनैरन्तर्याभ्यां बहुकालमनुष्ठितवतो भगवत्साक्षात्कारे सत्यत्युद्रिक्तया भक्त्या भगवत्प्रसादादशेषानिष्टनिवृत्तिविशिष्टानन्दादिस्वरूपाविर्भावलक्षणा मुक्तिर्भवतीति ।‌"
    }
  ]
}