Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01/A008

From Anandamakaranda
Revision as of 10:10, 2 March 2026 by Chandrashekars (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

शब्दमूलत्वाधिकरणं

ॐ श्रुतेस्तुशब्दमूलत्वात् ॐ ॥ 28-163 ॥


न चेश्वरपक्षेयं विरोधः ।


‘योऽसौ विरुद्धोऽविरुद्धो मनुरमनुरवाग्वागिन्द्रोऽनिन्द्रः प्रवृत्तिरप्रवृत्तिः स परः परमात्मा’ इति पैङ्ग्यादिश्रुतेरेव ।


शब्दमूलत्वाच्च न युक्तिविरोधः ।


‘यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात् क्वचित् । विरोधे वाक्ययोः क्वापि किञ्चित् साहाय्यकारणम्’ इति पुरुषोत्तमतन्त्रे ॥ 28 ॥


ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ 29-164 ॥


परमात्मनो विचित्राश्च शक्तयः सन्ति, नान्येषाम् ।



ॐ स्वपक्षदोषाच्च ॐ ॥ 30-165 ॥


ये दोषा इतरत्रापि ते गुणाः परमे मताः ।

न दोषः परमे कश्चिद्गुणा एव निरन्तराः’ ।

इति वचनाज्जीवपक्ष एव दोषो न परपक्षे ।



ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ 31-166 ॥



अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ 31 ॥


ॐ विकरणत्वान्नेति चेत् तदुक्तम् ॐ ॥ 32-167 ॥


न च करणाभावादनुपपत्तिरिति युक्तम् ।


‘आपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्तातमाहुरग्र्यं पुरुषं महान्तम्’।


‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।

पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’

इत्यादि श्रतिभ्यः


‘सर्वोपेता च’ इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्का ॥ 32 ॥