Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S02/A018

From Anandamakaranda
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

समुदायाधिकरणम्

परमाणुपुञ्जवादिमतं निराकरोति-


ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ 18-191 ॥


समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात् तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ॥ 18 ॥


ॐ इतरेतरप्रत्ययात्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ 19-192 ॥


सर्वदा विद्यमानोऽपि समुदाय परस्परापेक्षया व्यवह्रियत इति चेन्न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात् परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ॥ 19 ॥


ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ 20-193 ॥


कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्योत्पत्तिः ॥ 20 ॥


ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ 21-194 ॥


कारणे विनष्टे कार्यमुत्पद्यते चेत् तत्कार्यमिति प्रतिज्ञाहानिः । तत्काले कारणमस्ति चेद्विनाशकारणाभावद्यौगपद्यं सर्वकार्याणाम् ॥ 21 ॥


ॐ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधप्राप्तिरविच्छेदात् ॐ ॥ 22 -195 ॥


कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः ससन्तानश्च विनाशो न युज्यते ॥ 22 ॥


ॐ उभयथा च दोषात् ॐ ॥ 23-196 ॥


कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभावान्न कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥ 23 ॥


ॐ आकाशे चाविशेषात् ॐ ॥ 24-197 ॥


दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्यत्रापि तदनुमीयते ॥ 24 ॥


ॐ अनुस्मृतेश्च ॐ ॥ 25-198 ॥


तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाय ब्रान्तित्वे विशेषदर्शनस्यापि ब्रान्तित्वम् ॥ 25 ॥