Jump to content

Bhagavatatatparyanirnaya/C1/S13

From Anandamakaranda
Revision as of 04:40, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

त्रयोदशोऽध्यायः

व्यतीताः कतिचिन् मासास्तदा तु शतशो नृपः ।ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥ २ ॥


मासशब्देनाहान्युच्यन्ते । तथाहि महाभारते–'अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत् ।एवं संवत्सराद्यं च विपरीते विपर्ययः। इति नाममहोदधौ ॥ २ ॥
अपि देवर्षिणाऽऽदिष्टः स कालः प्रत्युपस्थितः ।यदाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥


अङ्गं पृथिवीम् ।'यदा त्यागादिरुच्येत पृथिव्याद्यङ्गकल्पना ।तदा ज्ञेया न हि स्वाङ्गं कदाचिद् विष्णुरुत्सृजेत्। इति ब्रह्मतर्के ॥८॥
मृत्युदूतः कपोतोऽग्नावुलूकः कम्पयन्मनः ।प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥ १४ ॥


अग्नौ पदं करोति ।'यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोतिइति हि श्रुतिः ॥ १४ ॥
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥


यथाऽन्येषां सुखं भविष्यति तथा । नित्यसुखत्वाद्धरेः ।'अत्युत्तमानां कुशलप्रश्नो लोकसुखेच्छया ।नित्यदाऽऽप्तसुखत्वात्तु न तेषां युज्यते क्वचित्। इति नारदीये ॥३४॥
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥


पूर्वं चिरोषितः ॥ ३९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे त्रयोदशोऽध्यायः ॥