ब्रह्मसूत्रभाष्यम्/C03/S02/A035
उभयव्यपदेशाधिकरणम्
स्वरूपेणानन्दादिना कथमानन्दित्वादिरित्यत उच्यते-
ॐ उभयव्यपदेशात् त्त्वहिकुण्डलवत् ॐ ॥ 28-351 ॥
‘आनन्दं ब्रह्मणो विद्वान्’ ।’अथैष एव परम आनन्दः’ इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात् केवलश्रुतिगम्यत्वं दर्शयति ॥ 28 ॥
ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ 29-352 ॥
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च, एवं वा दृष्टान्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ 29 ॥
ॐ पूर्ववद्वा ॐ ॥ 30-353 ॥
यथैक एव कालः पूर्व इत्यवच्छेदकोऽवच्छेद्यश्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलमतीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः ।
इति नारायणाध्यात्मे।‘प्रकाशवत् कालवद्वा यथाऽङ्गे शयनादिकम् ।
ब्रह्मणश्चैव मुक्तानामानन्दोऽभिन्न एव तु’
इति ब्राह्मे ॥ 30 ॥‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत्।
कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत्’
ॐ प्रतिषेधाच्च ॐ ॥ 31-354 ॥
‘एकमेवाद्वितीयम्’ ।‘नेह नानाऽस्ति किञ्चन’ इति भेदस्य ॥ 31 ॥