ब्रह्मसूत्रभाष्यम्/C03/S03/A058
छन्दादिकरणम्
कर्मापि कुर्वन्ति न वेत्याह –
ॐ छन्दत उभयाविरोधात् ॐ ॥ 29-394 ॥
स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥
ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा ह विरोधः ॐ ॥ 30-395 ॥
बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥
‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।
नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥
इति हि ब्रह्माण्डे ॥ 30 ॥तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।
प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’
ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ॥ 31-396 ॥
उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥