Jump to content

Bhagavatatatparyanirnaya/C1/S6

From Anandamakaranda
Revision as of 18:59, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

षष्टोऽध्यायः

स्फीतान् जनपदान् तत्र पुरग्रामव्रजाकरान् ।खेटान् पट्टनवाटीश्च वनान्युपवनानि च ॥ ११ ॥


'मृगयाजीविनां खेटो वाटी पुष्पोपजीविनाम् ।

ग्रामो बहुजनाकीर्णो राजराजाश्रयं पुरम् ॥

जलस्थलायतिस्फीतं पट्टनं कीर्त्यते बुधैः। इति स्कान्दे ॥ ११ ॥
प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ २१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे षष्ठोऽध्यायः ॥
उभयं द्वितीयं नापश्यं तमेवापश्यम् ॥ २१ ॥