Jump to content

Bhagavatatatparyanirnaya/C1/S12

From Anandamakaranda
Revision as of 18:59, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

द्वादशोऽध्यायः

प्रत्युज्जग्मुः प्रहर्षेण प्राणांस्तन्व इवाऽगतान् ।अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवन्दनैः ॥ ५ ॥


'तत्प्राणे प्रपन्न उदतिष्ठत्इति श्रुतिः ॥ ५ ॥
इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।यथानुभूतं भ्रमता विना यदुकुलक्षयम् ॥ १२ ॥


यदुकुलक्षयं एष्यत् ।

'शापं श्रुत्वा ब्राह्मणानामुद्धवः खिन्नमानसः । उदासीनं तथा कृष्णमिव सुप्रीतमेव च ॥ नशिष्यमाणं स्वकुलं स्वर्यियासुं च केशवम् । ज्ञात्वा पप्रच्छ भगवत्स्वरूपं तमुपह्वरे ॥ मैत्रेयोऽपि तदैवाऽगाद् जिज्ञासुस्तत्त्वमुत्तमम् । तयोरदात् स भगवान् ज्ञानं निर्मलमञ्जसा ॥ षडि्वंशद्वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमः । प्रेषयामास च हरिरुद्धवं बदरीमनु ॥ कलापग्रामिणां वक्तुमेतत् तत्त्वमशेषतः । विदुरं तीर्थयात्रास्थमन्तराले स उद्धवः ॥ दृष्ट्वा नशिष्यमाणं च कुलं जिगमिषुं हरिम् । कथयित्वा बदर्यां च कलापग्रामवासिनाम् ॥ प्रोच्य तत्त्वमशेषेण वासुदेवमुखोद्गतम् । षडि्वंशद्वर्षगमने पुनरागतिमात्मनः ॥ तेषामुक्त्वा पुनः कृष्णसन्निधौ विचचार ह । मैत्रेयो विदुरायैतदूचिवान् कृष्णचोदितः ॥ विदुरः पाण्डवानां च विना यदुविनाशनम् । षडि्वंशद्वर्षतः पूर्वं ज्ञात्वाऽप्यप्रियमेव तत् ॥ नावोचद् विदुरो धीमांस्तस्मान्नाप्रियमावदेत्। इति पाद्मे ॥ 'तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः। इति चोपरि । 'विदुरं चागतं पुनः। इति च ।

भारते चैकविंशद्वर्षात् पूर्वं विदुरस्य युधिष्ठिरभाव उक्तः ॥ १२ ॥
अबिभ्रदर्यमा दण्डं यथाघमघकारिषु ।यावद्बभार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५ ॥


योऽर्यमा दण्डमबिभ्रत् स वर्षशतं यावच्छूद्रत्वं बभार ।

'न देवानां न दैवीनां सामस्त्येन जनिर्भुवि ।

अंशांशेनैव जायन्ते सर्वे त्वाजानजादयः॥ १५ ॥
प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।स एष भगवान् कालः सर्वेषां नः समागतः ॥ २० ॥


'संहर्ता भगवान् विष्णुः काल इत्यभिधीयते । अथवा गुणसर्वस्वं कालशब्दो व्यनक्ति हि। इति हि स्कान्दे ॥२०॥
अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः ॥ २८ ॥


स्वैरज्ञातगतिः विविक्तगतिः ॥ २८ ॥
अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोवस्त्ररुग्मैः ।गृहान्प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३१॥


पितरौ कुन्तीधृतराष्ट्रौ । न चापश्यत् । तस्य मनसि तेषां विपद्भावो बभूव । अन्यथा महाभारतविरोधात् ।

स्कान्दे च– 'भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः । धृतराष्ट्रो वने वासमकरोद् वत्सरत्रयम् ॥ विदुरस्तद्दिदृक्षार्थमागतेषु वनं पुरात् । पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः ॥ ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम् । श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा 'तांस्तदा नारदो विद्वान् शमयामास धर्मवित् ।

उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिकीं तथा। इत्यादि ॥ ३१ ॥
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ।


ब्रह्माण्डे च–

'धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे । गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्ट्रयोः॥ इत्यादि ॥। पितृव्योऽपि धृतराष्ट्र एव । द्विरुक्तिस्तात्पर्यार्था । 'यत्राधिकं तत्परता बहुवारमपि ध्रुवम् ।

तद्वदन्ति महाप्राज्ञा लोकवेदानुसारतः। इति ब्रह्मवैवर्ते ॥ ३२ ॥
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् ।अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३४ ॥


पितृव्यौ गान्धारीधृतराष्ट्रौ ॥ ३४ ॥
सञ्जय उवाच—अहं च व्यंसितो राजन् पित्रोर्वः कुलनन्दन ।


मुषितोऽस्मि इति प्रलापः ॥ ३७ ॥
युधिष्ठिर उवाच—नाहं वेद गतिं पित्रोर्भगवान् क्वगतावितः ।


क्व गतावित्यदृष्टापेक्षया ॥ ४० ॥
यन्मन्यसे ध्रुवं लोकमध्रुवं चाथवोभयम् ।सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥


अपरिहार्यत्वादशोच्याः ॥ ४४ ॥
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।दक्षिणेन हिमवता ऋषीणामाश्रमं गतः ॥ ५१ ॥


गमनकाले सह भ्रात्रा ॥ ५१ ॥
स्नात्वा त्रिषवणं तस्मिन् हुत्वा चाग्नीन् यथाविधि ।अब्भक्ष उपशान्तात्मा स आस्तेऽ)विगतेक्षणः ॥ ५३ ॥


आस्त इत्याद्यतीतार्थे ।

'स एष तर्ह्यध्यास्त आसनं पार्थिवोचितम्इत्यादिवत् । 'सुप्तिङ्उपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन इति महाव्याकरणे । 'व्यासादयो वर्तमानमतीतानागते तथा । व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम् ॥ पौर्वापर्यं यतो नैव सदैव परिवर्तनात् ।

अतश्च व्यत्ययादेतद्वदन्ति ज्ञानचक्षुषः। इति ब्राह्मे ॥ ५३ ॥
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥


'विज्ञानात्मा विरिञ्चोऽयं यस्तस्मिंल्लीयते जगत् ।

यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने ॥ हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत । प्रलयौ भेदवन्तौ तु पूर्वोक्तौ ब्रह्मकृष्णयोः ॥ अन्तस्थस्य बहिष्ठे तु तस्य तस्मिन्नभेदतः॥ इति ब्रह्मवैवर्ते । काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम् । 'अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः । उच्यते तस्य कर्तेति तथैव मुनयोऽमलाः । जगद्विलापयामासुरित्युच्यन्तेऽथ तत्स्मृतेः । नच तत्स्मृतिमात्रेण लयो भवति निश्चितम्। इति हि नारदीये । 'स्वरूपं जायमानं च आकाशं च घटे द्विधा । स्वरूपं जायमाने तु घटे निर्भेदमेव हि ॥ भिन्नवद् व्यवहारस्य समर्थं तल्लये च तत् । तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम् ॥ भिन्नवद् व्यवहाराय शक्तो लीने जगत्यपि । स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः ॥ जायमानं घटे जाते जायते तल्लये तु न । तस्माद्भिन्नं महाकाशादेवं जीवोऽपि कीर्तितः ॥ उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् ॥

न चाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते। इति ब्रह्मतर्के ॥ ५५ ॥
ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः ।निवर्तिताखिलाहार आस्ते स्थाणुरिवाधुना॥ ५६ ॥


'त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च ।

मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः। इति नाममहोदधौ ॥

अत्र सत्वादयो मायागुणाः ॥ ५६ ॥
स वा अद्यतनाद् राजा परतः पञ्चमेऽहनि ।कलेवरं हास्यति ह तच्च भस्मीभविष्यति ॥ ५७ ॥


'परावरे तथैवाऽरादुभयार्थाभिधायिनःइति च ॥ ५७ ॥
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५९ ॥


एतत्सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणात् विदुरस्तीर्थानि ययौ ॥ ५९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वादशोऽध्यायः ॥