Bhagavatatatparyanirnaya/C1/S17
सप्तदशोऽध्यायः
वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।वेपमानं पदैकेन सीदन्तं शूद्रपीडितम् ॥ २ ॥
बिभ्यतमिव मेहन्तम् ॥ २ ॥
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २१ ॥
अथवा देवमायाया नूनं गतिरगोचरा ।चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २२ ॥
असतां सूचकस्य न दोषः तथाऽपि सतां न सूचनीयमिति दर्शयितुम् । ज्ञातुं शक्यत्वाच्च राज्ञः ।
'यद्यधर्मः कृतः सद्भिर्न स वाच्यः कथञ्चन । असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात्। इति व्यासस्मृतौ ।
तस्य गोचरत्वेऽपि भूतानामगोचरेति ज्ञापयितुं वा ॥ २१,२२ ॥न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥३२ ॥
ब्रह्मयज्ञाः वितानयज्ञाश्च ॥ ३२ ॥
यस्मिन् हरिर्भगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति ।कामानमोघान् स्थिरजङ्गमानां अन्तर्बहिर्वायुरिवेश आत्मा ॥ ३३ ॥
इष्टात्ममूर्तिः इच्छातनुः ॥ ३३ ॥
अथैतानि न सेवेत बुभूषु पुरुषः क्वचित् ।विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तदशोऽध्यायः ॥
विहितातिरेकेण न सेवेत ॥ ४० ॥