Jump to content

ब्रह्मसूत्रभाष्यम्/C01/S02/A015

From Anandamakaranda
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

इत्यन्तराधिकरणम्

आदित्ये विष्णुरित्युक्तम् ।


ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥


चक्षुरन्तस्थो विष्णुरेव।‘त्रिपादस्यामृतं दिवि’इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।ब्रह्मशब्दाद्युपपत्तेश्च ।


‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया ।



ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥


‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ इत्यादिस्थानशक्तिः वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते ।


तस्य ह्येत्यल्लिङ्गम् ।‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’ इति चतुर्वेदशिखायाम् ।



ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥


‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति,‘विज्ञानमानन्दं ब्रह्म’ ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्यादेस्तस्यैव हि लक्षणम् ।



न च मुख्ये सत्यमुख्यं युज्यते ॥ 15 ॥


ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥


‘स एनान् ब्रह्म गमयति’ इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥


ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥


जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात् । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥