ब्रह्मसूत्रभाष्यम्/C01/S02/A015
इत्यन्तराधिकरणम्
आदित्ये विष्णुरित्युक्तम् ।
ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥
चक्षुरन्तस्थो विष्णुरेव।‘त्रिपादस्यामृतं दिवि’इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।ब्रह्मशब्दाद्युपपत्तेश्च ।
‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया ।
इति महाकौर्मे ॥ 13 ॥‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।
सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’
ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥
‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ इत्यादिस्थानशक्तिः वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते ।
तस्य ह्येत्यल्लिङ्गम् ।‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’ इति चतुर्वेदशिखायाम् ।
इति वामने ॥ 14 ॥‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः ।
स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’
ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति,‘विज्ञानमानन्दं ब्रह्म’
‘आनन्दो ब्रह्मेति व्यजानात्’ इत्यादेस्तस्यैव हि लक्षणम् ।
इति ब्रह्मवैवर्ते ॥‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।
अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’
न च मुख्ये सत्यमुख्यं युज्यते ॥ 15 ॥
ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥
‘स एनान् ब्रह्म गमयति’ इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥
ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥
जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात् । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥