Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha

From Anandamakaranda
Revision as of 19:54, 19 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

न्यायसुधा

अध्याय 1

श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रं असाधुनिबन्धान्धतमसाऽवकुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिना अवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- नारायणमिति ।
अनु०- तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ २ ॥
नारायणप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिद्ध्यङ्गतया कार्यारम्भे अवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति ।
-प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ ३ ॥
यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति । तदयुक्तम् । व्यासोपज्ञताप्रसिदि्धविरोधात् । न च नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासंभवाच्च ॥ यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिदि्धरिति । तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य च अर्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किं चेय• परविद्याख्यैतद्विषया इत्यत्रापि न नियामकमस्ती त्यत आह प्रादुर्भूत इति ।
अनु०- गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ ४ ॥
एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्य अधुना अनुमानतोऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति ।
अनु०- वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन
अनु०- श्रुतिमूलतया तथा ॥ ५ ॥ युक्तिमूलतया च
अनु०- एव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणां
अनु०- एकधाऽन्यत्र सर्वशः ॥ ६ ॥
ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद् भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमि ति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरि ति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ॥ तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् ॥ सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वासाध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्य आप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति ।
अनु०- अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।
अनु०- स्वयं कृताऽपि तद्व्याख्या क्रियते स्पष्टतार्थतः ॥ ७ ॥
तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति अत इति ।
अनु०- तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।
अनु०- सर्वत्रानुगतत्वेन पृथगोंक्रियतेऽखिलैः ॥ ८ ॥
नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथा अधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यात् इत्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति ।

ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥

ॐ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥
अनु०- ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।
अनु०- स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ ९ ॥
अनु०- स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ॥ भावनाच्चैव सुत्वाच्च
अनु०- सोऽयं पुरुष इत्यपि ॥ १० ॥
अनु०- स एव सर्ववेदार्थो
अनु०- जिज्ञास्योऽयं विधीयते ॥
अनु०- ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥ ११ ॥
वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि । जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १२ ॥
अनु०-द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १३ ॥ नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना । ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १४ ॥
अनु०- अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः । आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ १५ ॥ इत्युक्तेः
अनु०- बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ॥
अनु०- मिथ्यात्वमपि बन्धस्य न
अनु०-प्रत्यक्षविरोधतः ॥ १६ ॥
अनु०- मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ॥
अनु०- मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १७ ॥
अनु०- तच्च मिथ्या प्रमाणेन सता वा साध्यते त्वया ।
अनु०- सता चेद् द्वैतसिदि्धः स्यात्
अनु०- न सिद्धं चान्यसाधनम् ॥ १८ ॥
अनु०- साधकत्वं सतस्तेन साक्षिणा सिदि्धमिच्छता ॥ स्वीकृतं हि
अनु०- अविशेषस्य साध्या साधकता पुनः ॥ १९ ॥
अनु०- तच्चाविशेषमानेन साध्यम्
अनु०- इत्यनवस्थितिः ॥
अनु०- अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ २० ॥
अनु०- तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
अनु०- व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥ २१ ॥
अनु०- व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।
अनु०- सत्त्रैविध्यं च मानेन सिद्ध्येत्केनेति पृच्छ्यते ॥ २२ ॥
अनु०- तस्याप्युक्तप्रकारेण नैव सिदि्धः कथञ्चन ।
अनु०- वैलक्षण्यं सदसतोरप्येतेन निषिद्ध्यते ॥ २३ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
अनु०- यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।
अनु०- सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥ २५ ॥
अनु०- ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
अनु०- विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥ २६ ॥
अनु०- असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ २७ ॥
अनु०- अन्यथात्वमसत्
अनु०- तस्माद् भ्रान्तावेव प्रतीयते ।
अनु०- सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ २८ ॥
अनु०- तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।
अनु०- निर्विशेषे स्वयंभाते किमज्ञानावृतं भवेत् ॥ २९ ॥
अनु०- मिथ्याविशेषोऽपि
अनु०- अज्ञानसिदि्धमेव ह्यपेक्षते ।
अनु०- न चावरणमज्ञानमसत्ये तेन चेष्यते ॥ ३० ॥
अनु०- अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।
अनु०- अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ ३१ ॥
अनु०- अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने । अनवस्थितिः
अनु०- तथा च स्यादन्योन्याश्रयता
अनु०-अथवा ॥ ३२ ॥
अनु०- स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अनु०- अविद्यादुर्घटत्वं चेत्स्यादात्माऽपि हि तादृशः ॥ ३३ ॥
अनु०- अतोऽधिकारिविषयफलयोगादिवर्जितम् । अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ ३४ ॥
अनु०- सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ ३५ ॥
अनु०- यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् । ब्रह्मत्वमपि जीवस्य
अनु०- प्रत्यक्षस्याविशेषतः ॥ ३६ ॥
अनु०- सार्वज्ञ्यादिगुणं जीवादि्भन्नं ज्ञापयति श्रुतिः । ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ ३७ ॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।
अनु०- स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥ ३८ ॥
अनु०-सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः । अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥ ३९ ॥
अनु०- अज्ञानासंभवादेव मिथ्याभेदो निराकृतः ।
अनु०- अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ ४० ॥ अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते ।
अनु०- यथा दृष्ट्या प्रसन्नः सन्राजा बन्धापनोदकृत् ॥ ४१ ॥ एवं दृष्टः स भगवान्कुर्याद् बन्धविभेदनम् ।
अनु०- कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ ४२ ॥
अनु०- कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ ४२ ॥
अनु०- कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।
न भविष्यत्क्रियेति ।
अनु०- न भविष्यत्क्रिया कार्यं
अनु०- स्रक्ष्यतीश इति ह्यपि ॥ ४३ ॥ कार्यं स्यात्
अनु०- नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य
अनु०- तदिष्टं साधनं तथा ॥ ४४ ॥ कार्यम्
अनु०- साधनमिष्टस्य भगवानिष्टदेवता । मुख्येष्टं वा सुमनसाम्
अनु०- प्रेयस्तदिति च श्रुतिः ॥ ४५ ॥
अनु०- प्राणबुदि्धमनःखात्मदेहापत्यधनादयः । यत्संपर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ ४६ ॥ इत्यादिवाक्यैः
अनु०- आकाङ्क्षासन्निधिर्योग्यता यतः । तस्मिन्नेव समस्तस्येति
अनु०- इष्टे व्युत्पत्तिरिष्यते ॥ ४७ ॥
अनु०- अत्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च । उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ ४८ ॥ बालो व्युत्पत्तिमप्येति
अनु०- नानयेत्यादिवाक्यतः ।
अनु०- आनीयमानदृष्ट्यैव व्युत्पत्तेः संभवे सति ॥ ४९ ॥ एष्यदानयनायायं कुत एव प्रतीक्षते ।
अनु०- व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ ५० ॥ पुनर्दृष्ट्यैव शब्दश्रुत्पश्चाद्व्युत्पत्तिमेष्यति ।
अनु०- वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥ ५१ ॥ आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः ।
अनु०- दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ॥ ५२ ॥ व्युत्पत्तिः प्रथमा तस्माद्वर्तमाने(ऽ)गते ततः ।
अनु०- इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ ५३ ॥
अनु०- अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।
अनु०- क्वापि चेष्टा तदर्था स्यात्
अनु०- अत्तिर्हि रसवित्तये ॥ ५४ ॥
अनु०- वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।
अनु०- न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥ ५५ ॥
अनु०- यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत् ।
अनु०- तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद् भवेत् ॥ ५६ ॥
अनु०- इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।
अनु०- इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ ५७ ॥ आत्मानमेवेत्यादीनि
अनु०- योगेऽग्नावपि तत्समम् ।
अनु०- एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ ५८ ॥ वाक्यभेदो न युक्तः स्यात्
अनु०- योगश्च स्यात्
अनु०- महाफले ।
अनु०- इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ ५९ ॥
अनु०- कल्पनागौरवं चेत्स्यात् पृथक् तात्पर्यकल्पने । कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ ६० ॥
अनु०- प्रमाणावगतत्वं चेत्तात्पर्याणां तथैव हि ।
अनु०- तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ ६१ ॥
अनु०- पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।
अनु०- अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ ६२ ॥
अनु०- अङ्गीकृतत्वादपि तैः पदानां च पृथक् पृथक् । क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥ ६३ ॥
अनु०- प्रत्यक्षादिविरोधे तु गौणार्थस्यापि संभवात् । अतात्पर्यं पदार्थेऽपि न कल्प्यम्
अनु०- अविरोधतः ॥ ६४ ॥
अनु०- अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि । मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ ६५ ॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।
अनु०- प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ ६६ ॥
अनु०- अनवस्थाऽन्यथा हि स्यात्
अनु०- अप्रामाण्यं तथाऽन्यतः ।
अनु०- मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ ६७ ॥ न मानम्
अनु०- अपि वेदानामङ्गीकार्या हि नित्यता ।
अनु०- न हि धर्मादिसिदि्धः स्यान्नित्यवाक्यं विना क्वचित् ॥ ६८ ॥
अनु०- अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ ६९ ॥
अनु०- प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
अनु०- न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥ ७० ॥
अनु०- अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
अनु०- धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ ७१ ॥ अतः संशयसंपत्तौ वाक्यं प्रत्यक्षवत्प्रमा ।
अनु०- शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ ७२ ॥ अतोऽन्विताभिधायित्वम्
अनु०- गौरवं कल्पनेऽन्यथा ।
अनु०- न चाशक्त्याभिधायित्वम्
अनु०- प्रवृत्तिश्च द्विधाऽन्यथा ॥ ७३ ॥
अनु०- एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥ ७४ ॥
अनु०- प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥ ७५ ॥
अनु०- ब्रह्मतर्कं च भगवान्स एव कृतवान्प्रभुः ।
अनु०- पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ ७६ ॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।
अनु०- अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ ७७ ॥
अनु०- यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।
अनु०- देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ ७८ ॥ चकार
अनु०- एता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।
अनु०- प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥ ७९ ॥ तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेभ्युपेक्षितः ।
अनु०- स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ ८० ॥
अनु०- स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि ।
अनु०- आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ ८१ ॥ मध्यं तदाज्ञया शेषपैलाभ्यां कृतमञ्जसा ।
अनु०- अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ ८२ ॥
अनु०- दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः । गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥ ८३ ॥
अनु०- ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।
अनु०- अतो नारायणस्यैव जिज्ञासाऽत्र विधीयते ॥ ८४ ॥
अनु०- सिद्धत्वाद् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।
अनु०- अम्भस्यपार इत्युक्तो नारायणपदोदितः ॥ ८५ ॥
अनु०- आपो नारा इति ह्याह
अनु०- स एवाप्स्वन्तरीरितः । कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥ ८६ ॥ योनित्वेनात्मनः
अनु०- विष्णोस्तिष्ठन्तीत्युदितस्य च । यस्मिन्देवा अधीत्युक्त्वा
अनु०- समुद्रं स्थानमेव च ॥ ८७ ॥
अनु०- नाम चाक्षरमित्येव
अनु०- ऋच इत्युदितं तु यत् ।
अनु०*-* यतः प्रसूतेऽत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥ ८८ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्याये प्रथमपादे जिज्ञासाधिकरणं समाप्तम् ॥
तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ॐ अथातो ब्रह्मजिज्ञासेति ।
अनु०-अन्तःसमुद्रगं विश्वप्रसूतेः कारणं तु यत् । सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ।
सु०- प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।
अनु०-सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ।
५सु०- ननु जन्मादिकं वा लक्षणत्वेनात्राभिमतं तत्कारणत्वं वा । नाद्यः तस्य प्रपञ्चधर्मत्वात् । न द्वितीयः ब्रह्मवत्तदीयजगज्जन्मादिकारणत्वस्याप्यप्रसिद्धत्वात् । न च अनुमानात्तत्सिदि्धः उत्तरसूत्रविरोधात् । अतः कथमेतदपि लक्षणम् । इत्यत आह सृष्टिरिति ।
अनु०-यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि । श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ।
९सु०- ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्, यावता हिरण्यगर्भः समवर्तताग्रे , एको रुद्रो न द्वितीयाय तस्थे , इमाल-लोकानीशत ईशनीभिः , ज्ञात्वा शिवं शान्तिमत्यन्तमेति इत्यादिश्रुतिषु हिरण्यगर्भादीनां तत्प्रतीयते; इत्यत आह सृष्टिरिति । आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ता न तु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति ।
अनु०-अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित्
अनु०-गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ।
१०सु०- ननु यथा हिरण्यगर्भादिशब्दान् विष्णुविषयान् व्याख्याय हिरण्यगर्भ इत्यादिश्रुतयो विष्णौ योज्यन्ते तथा विष्ण्वादिशब्दान् हिरण्यगर्भादौ व्याख्याय भाष्योदाहृताः श्रुतयोऽन्यविषयतया कुतो न योज्यन्त इत्यत आह अत इति
अनु०-प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे
अनु०-सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ।
सु०- युक्त्यन्तरमाह प्रीत्येति
अनु०-तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः
अनु०-न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ।
ननु प्रयोजनमनुसृत्य वेदस्य प्रतीतविषयपरित्यागेनाप्रतीतविषयान्तराङ्गीकारोऽयमयुक्तः । तथात्वे पुरुषार्थविरोधिनो दुर्गन्धादिग्राहकस्य घ्राणादेस्तदविषयत्वप्रसङ्गात् । सुगन्धादिविषयत्वप्रसङ्गाच्च । इत्यत आह तद्विरोध इति
अनु०-दर्शनान्तरमूलत्वात्
अनु०- मोहार्थं च
अनु०- आज्ञया हरेः
अनु०-न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित् ।
१६सु०- ननु शैवपुराणादीन्यपि श्रुतिमूलानि तत्कथं श्रुतिविरोधेनाप्रमाणानीत्यत
अनु०-अदोषवचनाच्चैव नियमेन हरेः श्रुतौ
अनु०-अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च । अशक्तिश्चोदिताऽन्येषां सर्वेषामपि च श्रुतौ
अनु०-जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ।
२०सु०- अपि च जगत्कारणेनाज्ञानादिदोषरहितेन भवितव्यम्, दोषिणोऽस्मदादिवज्जगत्कारणत्वानुपपत्तेः । निर्दोषत्वं च भगवतो हरेरेव नान्येषाम् । अतः स एव जगज्जन्मादिकर्ता न रुद्रादिः इत्याह अदोषेति
अनु०-अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत् ।
२२सु०- एवं स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये मायावादिनां मते लक्षणसूत्रारम्भ एवानुपपन्न इति वक्तुं यत्तै(परै)रभिहितं जगज्जन्मादिकारणत्वं न लक्ष्यब्रह्मणः स्वरूपान्तर्गतं(त) लक्षणं किन्तु तटस्थमेव । त्रैविध्यमत्र सम्भवति मायाविशिष्टं ब्रह्म कारणमिति वा, मायाशक्तिमत्कारणमिति वा, जगत्कारणं तु मायैव तदाश्रयतया ब्रह्म कारणमिति वेति । सर्वथाऽपि जगत्कारणत्वं बाह्यमेव, न साक्षात्स्वरूपान्तर्गतम् (एव) । इति; तदेतदनुपपन्नम् इति भावेनोक्तं स्वलक्षणम् इति । स्वरूपान्तर्गतमेवेदं ब्रह्मणो जगज्जन्मादिकारणत्वं न मायावाद्युक्तरीत्या तटस्थमित्यर्थः ।
अनु०-अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः
अनु०-न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ।
२५सु०- यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो
अनु०-हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः
अनु०-निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ।
सु०- किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते; किन्तु सोऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवेऽतिव्याप्तिमाशङ्क्येतरव्यपदेशादि्धताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । न हि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्क्यते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशयवानाह हिताक्रियेति
अनु०-भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः
अनु०-कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ।
सु०- स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । न हि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणदि्ध ।।
अनु०-सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा
अनु०-न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ।
३४सु०- ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथा हि । तन्निर्गुणं किं सगुणादीश्वरादि्भन्नमुताभिन्नम् (वा) । द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह सदैवेति
अनु०-निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा
अनु०-लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम्
सु०- एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल-लुण्ठमाह निर्गुणत्वमिति ।
अनु०-इति पृष्टे
अनु०- तदैक्यस्य गतिरेव न विद्यते
अनु०-ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः
सु०- एवमनूद्य निराकर्तुमारभते इति पृष्ट इति
अनु०-भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि
अनु०-भेदाभेदौ यदि
अनु०- तदा स्यादेव ह्यनवस्थितिः ।
ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारेऽनुपपत्तिरेवेति ।
अनु०-स्वनिर्वाहकता चेत्स्यात्
अनु०- वाह्यं वाहकमित्यपि । पर्यायो भेदवान्वा स्यादनवस्थोभयत्र च ।
सु०- नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) । यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम्, तयोश्च भेदाभेदान्तराभावेऽपि स्वनिर्वाहकत्वाद्व्यवहारोपपत्तिरि ति चेन्न, विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति
अनु०-सत्यज्ञानादिकेऽप्येवं
अनु०- न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे
अनु०-तदखण्डं च खण्डितम् ।
सु०- एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्येऽपि तामतिदिशति सत्येति
अनु०-निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत्
अनु०-अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।
सु०- स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति ।
अनु०-विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत्
अनु०-भेदहीने त्वपर्यायशब्दान्तरनियामकः ।। विशेषो नाम कथितः
अनु०- सोऽस्ति वस्तुष्वशेषतः
अनु०-विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः । स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः
सु०- नन्वङ्गीकृतेऽपि विशेषे नानुपपत्तिशान्तिः । सोऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादिदोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति
अनु०-अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।
अनु०-एवंधर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ।
सु०- यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषोऽङ्गीकारितस्तदिदानीमाह अत इति
अनु०-शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।। तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयते । ईशवाक्यत्वत
ब्र०सू०- । ॐ शास्त्रयोनित्वात् ॐ ।
अनु०- इति चेत्तद्गव्यभिचारिणा ।अप्रामाण्यानुमा च स्यात्
अनु०- न पृथक् चानुमेश्वरे
अनु०-पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना
अनु०-शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत्
अनु०-नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन
अनु०-वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम्
अनु०-वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वादि्ध चैत्रवत् ।
अनु०-इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने
अनु०- चातिप्रसङ्गोऽनुमयेदृशा ।
अनु०-वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता । चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।
अनु०-उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः
सु०- तत्र पूर्वपक्षमारचयति शैवाद्येति
ब्र०सू० - ।।ॐ तत्तु समन्वयात् ॐ ।।
अनु०-त एवान्वयनामानः
अनु०- तैः सम्यक् प्रविचारिते ।मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापरः ।
सु०- अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथाऽपि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम्, अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते, तथाऽपि न तात्पर्ये प्रमाणमस्ति, यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण
।। ॐ ईक्षतेर्नाशब्दम् ॐ ।
अनु०-ईक्षणीयत्वतो विष्णुर्वाच्य एव
अनु०-न चान्यथा ।। लक्ष्यत्वं क्वापि दृष्टं हि
अनु०-किं तदित्यनवस्थितिः
अनु०-माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ।
अनु०-वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत्
अनु०-नावाच्यं तेन किञ्चित्स्यात्
अनु०-यत इत्यादिकैर्वदन् । अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः
अनु०-येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ।
अनु०-एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् । महती जायते लज्जा यत्र तत्राखिला रवाः ।। अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् । कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ।
अनु०-आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः ।जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ।। वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन्पदैः ।। आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना । स्यात्सर्वत्र च
अनु०-यत्रैकमपि लोको जुगुप्सते
अनु०-नियमेनोभयं स्यादि्ध यस्य स्वपरयोर्मते । अलंकृतः सदैवायं दुर्घटैरेव भूषणैः
अनु०-अन्धन्तमो नित्यदुःखं तस्य स्याद्वसनद्वयम् ।
अनु०-अनन्दा नाम ते लोका अन्धेन तमसावृताः ।तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसो बुधो जनाः ।।असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।। इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः
अनु०-हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ।
अनु०-तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ।
अनु०-परिवारतया ग्राह्या अपि हेयाः प्रधानतः
अनु०-पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः
अनु०-कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ।
अनु०-पदं च निर्गुण इति कथं गौणं वदिष्यति
अनु०-गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ।
अनु०-अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।कथमेतन्मतं सदि्भराद्रियेत विचक्षणैः ।
अनु०-न च साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्ऌपत् ।भगवान्
अनु०-न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ।
अनु०-समन्वये प्रतिज्ञाते शब्दगोचरतैव हि । प्रथमप्रतिपाद्या स्यात्
अनु०- तदभावे कुतोऽन्वयः ।
अनु०-कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम्
अनु०-योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ।
अनु०-जन्मादिकारणे साक्षादाह देवः समन्वयम् ।उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ।
अनु०-कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ
अनु०-मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ।
अनु०-अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन
अनु०-तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ।। वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम्
अनु०-विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ।
अनु०-निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् । अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ।
अनु०-अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा । अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ।
अनु०-जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् ।वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ।। प्रवृत्तमस्त्ववाच्यं ते मैवं ब्रूयाः कथञ्चन
अनु०-सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ।। शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत्
अनु०-मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ।
अनु०-वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वाऽस्मच्छास्त्रमञ्जसा । विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ।
अनु०-अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।
अनु०-अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि ।
सु०- ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम्, तदेवात्र मण्डूकप्लुत्याऽनुवर्तिष्यते, किं पुनरत्र तद् ग्रहणेन ।
अनु०-एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।। आनन्दमय इत्यादिनाऽध्यायेन वदत्यजः
अनु०-तत्रान्यत्रप्रसिद्धानां विष्णावेव समन्वयम् ।।शब्दानां प्रथमे पादे
अनु०- गुणिसामान्यवाचिनाम् ।गुणवाचिनां च प्रथममाह देवः समन्वयम् ।
अनु०-समुद्रशायिनं सर्वप्रसूतिप्रभवं श्रुतिः ।तदेव ब्रह्म परममिति सावधृतिर्जगौ ।।यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः । येऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके ।। अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ।आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ।।
अनु०-उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम्
अनु०-सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ।
अनु०-सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ।
अनु०-आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ।समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ।
अनु०-ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम्
अनु०-ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः ।
अनु०-यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला
अनु०-दर्शिता चैव पार्थाय
अनु०-निःसीमाः शक्तयोऽस्य हि ।
अनु०-ऋतं सत्यं परम्ब्रह्म पुरुषं कृष्णपिङ्गलम् ।विष्ण्वाख्यमुक्तम् अन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ।
अनु०-समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति
अनु०-ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ।
अनु०-स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति
अनु०-स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ।
अनु०-तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः ।
अनु०-पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति । महाव्याकरणे सूत्रमिति स्वरविनिर्णये
अनु०-ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।। विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा
अनु०-तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत्
अनु०-ऋतं सत्यं परंब्रह्म प्रति विष्णुं सदाशिवः ।ऊर्ध्वरेता ध्यायतीह शङ्करो नील-लोहितः ।इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।आथर्वणी परंब्रह्म तस्मादेको हरिः श्रुतौ
अनु०-तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा
अनु०-एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।। वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ।नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः । इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा
अनु०-मुख्यं ब्रह्म हरिस्तस्मात्
अनु०-प्रस्तावः परमित्यपि ।
अनु०-मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ।असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ।
ब्र०सू०-ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ।
अनु०-प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः
अनु०-भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ।
अनु०-महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ।महाप्राणो महाबोधो महाविज्ञानवानपि ।
अनु०-विशेषसामान्यतया विज्ञानं मन इत्यपि ।एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ।
अनु०-अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः
अनु०-भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् । ब्रूयुः
अनु०- हरेर्जीवजडैरपि भेदं हि मुख्यतः
अनु०-ब्रह्मतर्कवचोऽप्येवम्
अनु०-अत एकः स पञ्चधा ।। उक्तोऽन्नमय इत्यादि
अनु०-भृगोश्चैतद्वदिष्यति
अनु०-प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ।
अनु०-प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि । उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ।
अनु०-महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् । उक्तः
अनु०-श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् । करोति नासुखी
अनु०-भूमा सुखं नाल्पे सुखं भवेत् ।इत्युक्तं
अनु०- यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ।। दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च । सर्वशक्तेर्न दुःखं स्यात्
अनु०-अतः केवललीलया ।। प्रवर्तको
अनु०-न चेदेष प्राण्यादन्याच्च कः पुमान्
अनु०-ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।। तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् । लक्षितं
अनु०-तत्र सत्यत्वं सृष्ट्याऽन्नप्राणयोरपि ।। उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् । अनन्तत्वं तथाऽऽनन्दमयवाचाऽप्युदाहृतम् ।
अनु०-सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते । इति सृष्टिरिह प्रोक्ता
अनु०-जगत्सद्भावयापकम् ।। ब्रह्मेति स्थापनायैव
अनु०-सत्त्वं जीवनमेव च । विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ।
अनु०-अतोऽद्यताऽत्तृताऽन्नत्वं सत्यशब्दार्थ एव हि
अनु०-प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।। आयुः प्राणो हि भूतानामिति यद्गतिजीवने । उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ।। प्राणत्वं
अनु०-अवबोधार्थो मनुधातुः प्रकर्तितः
अनु०-नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।। अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके
अनु०-अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।। क्रियते परया यस्मात्
ॐ नेतरोऽनुपपत्तेः ॐ
अनु०-इतरोऽत्र न कथ्यते
अनु०-पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।।इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति
अनु०-पुरुषः पर आत्माऽजो ब्रह्म नारायणः प्रभुः ।। महानानन्द उद्विष्णुर्भग ओम इतीर्यते ।स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ।
अनु०-तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते
अनु०-सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः । इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते
अनु०-ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।। तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम्
अनु०-भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च । आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ।
अनु०-बलज्ञानस्वरूपत्वाद्वायुः
अनु०-अग्निरगं नयन्
अनु०-आप आपालनाच्चैव
अनु०-पृथिवी प्रथितो यतः ।
अनु०-उष्टानामाश्रयत्वेन स एवौषधिनामकः
अनु०-ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत्
अनु०-पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते
अनु०-क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।। आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः । अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ।
अनु०-एवं देहादिपर्यन्तमागतं हरिमेव तु । परामृशति तस्यैव पञ्चरूपत्ववित्तये ।। त्यक्त्वा भूतादिकं सर्वं स वा एष इति श्रुतिः
अनु०-स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ।
अनु०-सारान्नमय एवायं न लोकान्नमयः प्रभुः । इति तं रसशब्देन विशिनष्टि शरीरगम् ।
अनु०-इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः । शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ।
अनु०-तं विदित्वाऽस्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन
ब्र०सू०-ॐ भेदव्यपदेशाच्च ॐ ।।
अनु०-आदित्ये पुरुषे चायमिति भेदोपदेशतः । नास्याभेदोऽस्ति जीवेन
ब्र०सू० ॐ कामाच्च नानुमानापेक्षा ॐ ।।
अनु०-नानुमा कामचारिणी । विमतानि शरीराणि मद्भोगायतनानि यत् ।। शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते । प्रत्यक्षादिविरुद्धत्वात्
अनु०-अक्षागमभयोज्खिता ।। अनुमा कामवृत्ता हि
अनु०-कुत्र नावसरं व्रजेत्
अनु०-जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः । घन आकाश इत्याद्या वार्यन्ते केन हेतुना
अनु०-न जीवभेदसूत्राणां शङ्क्याऽत्र पुनरुक्तता । वाक्यान्तरद्योतकत्वात्
अनु०-पृथगित्यत्र पूर्णता
अनु०-योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति । स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम्
अनु०-उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति । अतिक्रमं वदन्तं तमुपशब्दो निवारयेत्
अनु०-अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।
अनु०-श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम्
अनु०-मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।
अनु०-येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः । उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।। स्थानद्वयगता वेदवाणी तदपलापिनाम् ।तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ।
अनु०-अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् । आह ब्रह्म कथं तन्न
अनु०-द्वारं तदिति वादिनः ।। उपसत्तिं कथं विद्युः
अनु०- उपसन्नाय हि त्रिशः ।वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ।।सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च
अनु०-तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ।
अनु०-न वदेद्ब्रह्म च कथं मायावी न हि वारिराट्
अनु०-चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।। वचनादेव वाग्ब्रह्म
अनु०- सृष्टिस्थित्यादिकारणम्
अनु०-तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ।। विज्ञानानन्दसहितं पृथक् सृष्ट्यादिलक्षणैः
अनु०-आवापोद्वापतः शाखा यत आहुः परं पदम् ।
अनु०-यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ।लक्षितं गुरुणा पश्चात्तपसैवापरोक्षितम् ।। दृष्ट्वैकैकस्वरूपं तु समस्तोक्तानुदर्शनम् । इच्छताऽऽज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ।। अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ । साक्षाल-लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ।
अनु०-समीपे सह भोगस्य मुक्तित्वेनोक्तितोऽसकृत् ।भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ।
अनु०-एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् । तदन्येषां मतमपि सत्संसत्सु न भासते ।
अनु०-अतो नारायणो देवो निश्शेषगुणवाचकैः ।गुणिसामान्यवचनैरपि मुख्यतयोदितः ।
अनु०-अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः । अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ।
अनु०-जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं
अनु०-शास्त्रमूलं यतस्ततः ।
अनु०-अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।
अनु०-शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ।
अनु०-अन्यार्थेष्वल्पता हेतोस्तन्निमित्तत्वतस्तथा ।तद्वाचकत्वं शब्दानां
अनु०-बहुलातिप्रयोगतः । रूढमित्येव साध्यं स्यात्
अनु०-रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव
अनु०- मुख्या हि विदुषां तु सा ।
अनु०-विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते
अनु०-तस्मान्मुख्यार्थता विष्णोः
अनु०-इति कृत्वा हृदि प्रभुः ।। समन्वयं साधयति
ब्र०सू०- ।। ॐ आनन्दमयोऽभ्यासात् ॐ ।।
ब्र०सू०- ॐ अन्तस्तद्धर्मोपदशात् ॐ ।
अनु०-देवानां तत्र शक्तताम् ।आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ।
८६सु०- स्यादेतत् । यदि आनन्दमयोऽभ्यासादि ति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वात् अन्तस्तद्धर्मोपदेशादि त्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः ।
अनु०-समुद्रान्तःस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् । साधयित्वा
अनु०-अभिदां तैश्च पुनरेव न्यवारयत् ।
स्वयं सूत्रकारः अन्तस्तद्धर्मोपदेशादि ति सूत्रेणान्तःप्रविष्टो विष्णुरेव, समुद्रेऽन्तः कवयः , यस्याण्डकोशशुष्ममाहुः , ब्रह्मा तपसाऽन्वविन्ददि ति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतपोलभ्यत्वादिधर्मोपदेशात्; तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् ।
ब्र०सू० ॐ आकाशस्तल्लिङ्गात् ॐ ।।
सु०- एवं अधिदैवविषयशब्दसमन्वयमभिधाय अधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः आकाशस्तल्लिङ्गादिति
अनु०-चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ।। इति शङ्कानिवृत्त्यर्थम्
९३सु०- तत्राभ्यधिकां शङ्कां दर्शयति चेष्टा हीति
अनु०-आकाश इति नाम च । परतोऽपि वरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ।
अनु०-नभो ददाति श्वसतां मार्गं यन्नियमाददः ।। इत्यादिवाक्यैः
सु०- नन्वत्राकाशः परमात्मा तलि-लङ्गादित्येतावदुच्यते, न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति
ब्र०सू०- ॐ अत एव प्राणः ॐ ।।
अनु०-अध्यात्ममन्वयव्यतिरेकतः ।। प्राणादिहेतुतादृष्टेः
अनु०-अतिदेशो हि तादृशः
सु०- तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् ।।
अनु०-लिङ्गं बलवदेव स्यात्
अनु०-प्रेरकोऽस्यापि यद्धरिः ।
सु०- अतिदेशार्थमाह लिङ्गमिति
ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॐ ।
अनु०-नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः
अनु०-कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ।
सु०- अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायत्र्याः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम् छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनमिति ।
अनु०-इति चेत्तद्धरेरेव बाहुल्याच्छतिलिङ्गयोः
अनु०-तादृशत्वाच्च तच्छक्तेः
सु०- एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति
ब्र०सू०- । ॐ प्राणस्तथाऽनुगमात् ॐ ।।
अनु०-बाहुल्ये श्रुतिलिङ्गयोः ।। अन्यस्य मुख्यवाच्यत्वमिति
अनु०-तन्नात्रगस्य हि । विष्णावेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ।।प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ।
सु०- नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता (वा) एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न, उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न, अदर्शनात् । सद्भावे वा तदनन्तरमेव आरम्भणीयत्वात् इत्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति
अनु०-तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।एको नारायणो देवो भण्यते नात्र संशयः ।
सु०- पादार्थमुपसंहरति तस्मादिति
अनु०-वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ।। प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथाऽपि वा
सु०- सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृत्तेन भगवताऽऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात्, तां निराकर्तुमाह वासुदेवादीति
अनु०-तैस्तैर्युक्तिश्रुतिन्यायविशेषैः
अनु०-योग्यता यथा ।
अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति ।
अनु०-बृहत्तन्त्रप्रमाणेन
अनु०- बह्वर्थमपि सङ्ग्रहात् ।उच्यते नरबुद्धीनामपि किञ्चिहार्थतः ।
एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति ।
अनु०-ग्रन्थोऽयमपि बह्वर्थो
अनु०-भाष्यं चात्यर्थविस्तरम्
अनु०-बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ।
अनु०-तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः
सु०- न चैवं सूत्रार्थलेशव्याख्यानपरोऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह ग्रन्थ इति
।। ॐ सर्वत्रप्रसिद्धोपदेशात् ॐ ।।
लिङ्गात्मकानां शब्दानां
वृत्तिर्नारायणे परे ।। चिन्त्यते
सर्वगत्वं तु प्रथमं प्रविचार्यते ।
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।।
दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः ।इति ज्ञापयितुम्
ॐ कर्मकर्तृव्यपदेशाच्च ॐ ।।
कर्मकर्त्रोरुत्सर्गतो भिदा ।।
अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ।
एतावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।।अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ।अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।।
द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति
अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ।
इति चेत्स विशेषोऽपि क्रिया शक्तयात्मना स्थिरः ।।
शक्तिता व्यक्तिता चेति विशेषोऽपि
विशेषवान् । अभिन्नोऽपि
क्रियादिश्च स्वभाव इति हि श्रुतिः ।।
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः । नित्यानन्दोऽव्ययः पूर्णो भगवान्विष्णुरच्युतः ।।इति पैङ्गिश्रुतिश्चाह
शक्तिसाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ।। इति सत्तत्त्ववचनम्
यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्तेऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाऽभिन्नमिति लक्षणसूत्रे प्रतिपादितम् ।
द्वित्वं चैकस्य युज्यते ।
ॐ विशेषणाच्च ॐ ।।
यः सेतुरिति चैकत्ववचनेन विशेषणात् ।।
ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किं वा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेन परिहारः, बाधकाभावात्, कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितत्व
।। ॐ अन्तर उपपत्तेः ॐ ।।
अन्तःस्थित्वा रमणकृदन्तरः स(मु)उदाहृतः । रमणं चात्मशब्देनाऽऽदेयं मातीति चोच्यते ।।
।। ॐ सुखविशिष्टाभिधानादेव च ॐ ।।
विशिष्टसुखवत्त्वाच्च
ब्रह्मत्वं च विशिष्टता ।
।। ॐ अनवस्थितेरसंभवाच्च नेतरः ॐ ।।
अन्योन्यनियतिश्चेशनियमेनान्यथा भवेत् ।।
चेतनानां विशेषो यः स्वभावोऽपीश्वरार्पितः ।
अन्योन्यनियमे तस्मादनवस्थित्यसंभवौ ।।
ईश्वरश्चेन्नियन्ता स्यात्स एव प्रथमागतः । किमित्यपोद्यते कस्माद् वृथाऽवस्थितिकल्पना ।।
दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ।
अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम्, तदयुक्तम्, सूत्रे भावस्यैव प्रतिज्ञानात्, क्रियाया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्यातिअन्तरिति
रमणं नातियत्नस्य विक्षेपादेव युज्यते ।।
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।
स्वात्मनाऽनियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।। स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ।
नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेव अन्तर उपपत्तेरित्युक्तम् । न च तत्र नियामकत्वं न विवक्षितम्, तथा सत्यनवस्थितेरसंभवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह रमणमिति
गुणक्रियादयो भावा यदि वा स्युरभेदिनः ।। अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ।
नाभावो भाव इति च विशेषः प्रायशो भवेत् ।।
अतावोऽन्यता चेति न विशेषोऽस्ति कश्चन ।
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।।
अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ।
भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।।
तदभावो हि तावविरोधी न ततोऽपरः ।
पृथक्तवाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत् ।कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।
पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।।
यदा तदधिको दोषो विद्यते को नु वादिनाम् ।
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।।अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।
यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।। अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।
अखण्डवादिनोऽपि स्याद्विशेषः
अनिच्छतोऽप्यसौ ।। व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ।
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।।प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।।
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाऽप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ।।
अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते, तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतम्; तदभ्यधिकाशङ्कया आक्षिपति गुणेति
तत्रान्यत्र प्रसिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ।।
भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।श्रुतिर्वक्त्यखिलेशत्वात् .............॥

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्ति
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।

...............भूमा विष्णुः सुखाधिकः ॥2॥

अखिलेशत्वद् भूमा विष्णुः सुखाधिकः ।।
इदं कश्चिद्व्याख्याति । भूमा परमात्मा । कुतः । संप्रसीदत्यत्रेति संप्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति ।
।। ॐ अन्यभावव्यावृत्तेश्च ॐ ।।
अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।।ब्रह्मैव
तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ।।
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ।।
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुतास्तु(श्च) नेत्याद्याः प्रमाणं श्रुतिरत्र च ।।
एतद्वै तदक्षरं गार्गीत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्-
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ।।बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ।।लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात्तथागतिः ।।समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ।। सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।।
अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति, परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम्, तदुभयसिद्ध््यर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति-लिङ्गमिति
।। ॐ भावं तु बादरायणोऽस्ति हि ॐ ।।
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ।।विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।
मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।।सर्वदा तेन देवानामपि युक्ता ह्युपासना ।
नित्यं वृदि्धक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् । अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।।
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि । जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथा वदन् ।।
एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकारे(र इति) इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम्ॐ भावं तु बादरायणोऽस्ति हीति
सु अन्यत्रैवप्रसिशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात् परिशेषाद्वा सिम् ।
एतदेव विवृणोति स्वातन्त्र्यमिति ।
अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ॥
एवं योगवृत्त्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति ।
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥
सु ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्ततिसमासकरणं तु व्युत्पत्तिमात्रा(र्थे)र्थम् । यथोक्तम्, वृक्षादिवदमी रूढा इ(ति)त्यादि, मैवम्, शब्दार्थविभागस्यावापोाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति
यदुक्तम् उभयं दृश्यते विष्णौ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति ।
एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां
अत्र दूषणमाह अजामिति ।
अस्तु परस्यैवम्, भवतां तु कथं न दोष इत्यत आह अस्माकमिति ।
विशेषवदित्यस्य विवरणम् पञ्चभिरिति ।
कुतो नेति चेत् । अत्र पित्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्त, पित्रादिचेतनः पुत्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा; पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति ।
ङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।
अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति ।
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥
विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।
सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
द्वितीये त्वाह तत्प्रामाण्यमिति ।
तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमतेऽर्थेऽनुपपत्तिमाह
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।

अध्याय 2

अनु०-उक्तः समन्वयः साक्षात्
अनु०-अविरोधोऽत्र साध्यते ।
अनु०-चतुर्विधस्य तस्यादौ यौक्तः
अनु०- तत्रापि च स्मृतेः ॥
॥ अथ द्वितीयाध्यायः ॥
अनु०-तस्याश्चतुस्स्वरूपत्वात्
अनु०-प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च
अनु०-मूर्तीनां वर्णमागमात् ॥
६सु०- युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्योऽसङ्गतत्वात्, कर्तव्यतायां वा प्राथम्यं कुतः; इत्यत आह तस्या इति
अनु०-आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः ।सर्वानुसारो लघुता विशेषादर्शनाफले ॥ इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः ॥
९सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्क्षेपेणाह आप्ततेत्यादिना ।
अनु०-आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।
किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव, वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत, साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वात् इत्यतो निर्दलं पूर्वपक्षं तावदुज्जीवयतिआप्तैरिति
अनु०-इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किन्नाशेषविदः
अनु०- मानं ह्युभयत्र समं भवेत् ॥
अनु०-न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः
अनु०-न चास्या व्यभिचारेऽपि हीयते मानता क्वचित्
अनु०-निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता
अनु०-वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते
अनु०-अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् । वेदोक्तो ह्यधिकारस्तु दुर्लभस्सर्वमानुषैः
अनु०-अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् । मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥
१४सु०- एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह इति चेदिति
अनु०-अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः । अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये । उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु । कथं प्रमाणतां गच्छेत् ॥
२८सु०- ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम्, किन्नाम परस्परविसंवादेनापीत्याह अधिकारमिति
अनु०- नित्यत्वात् पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥
अनु०-विरूप नित्यया वाचा
अनु०- नित्ययाऽनित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्येव गम्यते ॥
२९सु०- परिहृतः स्मृतिविरोधः । सम्प्रति युक्तिविरोधः परिह्रियते । तथा हि । श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् । तत्र श्रुतेरेव प्रामाण्यं तावद् दुर्लभम् ।
अनु०-पिपीलिकालिपिश्चापि प्रमाणमविरोधतः
अनु०-यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ।
अनु०-विरुद्धं तु विरोधादेव बाधितम्
अनु०-विरोधादर्शनात्
अनु०-तस्माद्वेदप्रामाण्यमिष्यते ॥
अनु०-प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥
अनु०-याथार्थ्यमेव मानत्वं
अनु०- तन्मुख्यं ज्ञानशब्दयोः
अनु०-अर्थत्वमर्यतैव स्यात्
अनु०- न क्रियार्थेषु सा मता
अनु०-ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्
अनु०-यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥
अनु०-अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः
अनु०-प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ॥
अनु०-अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥
अनु०-न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः
अनु०- फलवत्त्वं न चास्माभिः प्रामाण्यं च (हि) विवक्षितम् ॥
अनु०-तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते
अनु०-सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥
अनु०-न परिच्छेदकार्येव प्रमाणमिति च प्रमा
अनु०-निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥
अनु०-प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्
अनु०-शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥
अनु०-निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते
अनु०-तन्मूलत्वात्स्मृतीनां च
अनु०- विरोधो यत्र न क्वचित्
अनु०-विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥
अनु०-आगमेनागमस्यैव विरोधे युक्तिरिष्यते
अनु०-उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥
अनु०- प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥
अनु०-युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थः
अनु०-युक्तिश्च त्रिविधा मता ॥
अनु०-व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा
अनु०-प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥
अनु०-याथार्थ्यमेव मानत्वं
अनु०- तन्मुख्यं ज्ञानशब्दयोः
अनु०-अर्थत्वमर्यतैव स्यात्
अनु०- न क्रियार्थेषु सा मता
अनु०-ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्
अनु०-यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥
अनु०-अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः
अनु०-प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ॥
अनु०-अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥
अनु०-न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः
अनु०- फलवत्त्वं न चास्माभिः प्रामाण्यं च (हि) विवक्षितम् ॥
अनु०-तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते
अनु०-सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥
अनु०-न परिच्छेदकार्येव प्रमाणमिति च प्रमा
अनु०-निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥
अनु०-प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्
अनु०-शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥
अनु०-निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते
अनु०-सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥
अनु०-निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम्
अनु०-पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥
अनु०-अनुमा युक्तिरेवोक्ता
अनु०- व्याप्तिरेव तु सा स्मृता
अनु०-प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता । अवशिष्टं किमत्रास्ति
अनु०-लिङ्गं तत्र विजानतः
अनु०- यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥
अनु०-यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम्
अनु०-न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥
अनु०-दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव तु
अनु०-लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥
अनु०-विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम्
अनु०-प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥
अनु०-विरोधोऽपि त्रिधैव स्यात्
अनु०-प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिः
अनु०-न्यूनाधिक्ये तु वाचिके ॥
अनु०-साध्यव्यापकवैलोम्यमव्याप्तिस्साधनस्य च
अनु०-दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥
अनु०-स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत्
अनु०-संवादानुक्तिसंयुक्ता एत एव तु निग्रहाः ॥
अनु०- वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम्
अनु०-स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी । केवलं तु कथा वादः
अनु०- जल्पोऽर्थादिव्यपेक्षया ।४४४५५ सतामेव कथा ज्ञेया
अनु०- वितण्डा त्वसतां सताम् । ४४४ अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम्
अनु०-उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥
अनु०-विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च
अनु०-उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥
अनु०-विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् । उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥
अनु०-वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम्
अनु०-इति वादस्य पूर्वत्वं
अनु०- तत्सिद्धौ व्यर्थताऽन्ययोः ॥
अनु०-बहुविद्यत्वसिद्धौ तु नैव वादोऽपि
अनु०- कारणम्
अनु०-सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ।४४४ वाद एव
अनु०-उभयार्थः स्यान्निर्णीतिजयकारकः
अनु०-तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥
अनु०-विना वादेन विद्याया यदि शक्यं परीक्षणम् । स्याज्जल्पादिरपि क्वापि
अनु०- वाद एवान्यथा भवेत् ॥
अनु०-जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु
अनु०-प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥
अनु०-संवादे वादिनोः क्वापि
अनु०- विवादे हेतुरिष्यते
अनु०-सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः । रागद्वेषविहीनाश्च
अनु०-स्युः सभ्याः सर्ववेदिनः ।
अनु०- एतदज्ञाने सभ्याश्च
अनु०- एषां च दूरगाः ॥४४४ प्रमाणं निर्णयाय स्युः
अनु०- पक्षपातविवर्जिताः
अनु०-उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥
अनु०-सदि्भरागम एवैकः प्रयोज्योऽभीष्टसाधकः
अनु०-स्वसिद्धान्तानुसारेण ह्यसदि्भरनुमोच्यते
अनु०-प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ।आगमे दर्शनीयाऽत्र दोषो लिङ्गविलोमता ॥
अनु०-लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः
अनु०-त्रिपञ्चावयवामेव युग्मावयविनीमपि । ४४४ नियमाद्योऽनुमां ब्रूयात्तं ब्रूयाद्यदि तादृशी ।नानुमेति तदा केन साध्यावयवकल्पना ॥
अनु०-नियतावयवासिद्धौ
अनु०- व्याप्तिमात्रेण साधनम् ।कर्तव्यमेव तेन स्यात्
अनु०- तस्मात्सैवानुमा मता ॥
अनु०-अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते
अनु०-पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम्
अनु०-मानसं तद्धि विज्ञानं
अनु०- तच्च साक्षिप्रमाणकम् ॥
अनु०-अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ॥४४४ एवं पूर्वानुभूतं च मनसैवावगम्यते
अनु०-विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि । ४४४साक्षादनुभवात्सिद्धं
अनु०-कथमेव ह्यपोद्यते ।
अनु०-एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥ ४४४प्रमाणं वेद एवैकः
अनु०-तत्प्रामाण्यं च साधितम् ॥
अनु०-तथाऽपि मृज्जलादीनां बुद्धिवागादिवाचकः ।दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥
अनु०-ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते
अनु०-बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् । तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । सन्ति
अनु०- तेषां विशेषेण शक्तिरन्येभ्य उच्यते
अनु०-व्याप्तिश्चोक्तानुसारेण
अनु०- दृश्यन्ते चाधिकारिभिः
अनु०-शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः
अनु०-व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत्
अनु०-दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥
३३सु०- यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति पिपीलिकेति ।
अनु०-अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥ विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः
अनु०-युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च । कथं न निर्णयं कुर्यादिति
अनु०- असत्कारणं न हि ।श्रुत्यर्थो भवति
अनु०- क्वापि
अनु०- श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते
अनु०-असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा । इति चेन्न
अनु०-निषेधैकस्वरूपस्य न कर्तृता
अनु०-बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम्
अनु०-प्रतिषेधात्मकत्वं तु भावस्य
अनु०- अभावधर्मतः
अनु०-धर्मधर्म्यैक्यतश्चैव
अनु०- न तु तन्मात्रता भवेत्
अनु०-अभावस्य च भावोऽपि धर्मोऽथापि
अनु०- हि धर्मिणः । तादृक्तवं मात्रतेहोक्ता
अनु०- बुद्धिराहित्यमेव तत्
अनु०-विशेष्यतैव धर्मित्वं
अनु०-प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि
अनु०-सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥
अनु०- न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित्
अनु०-धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥
अनु०-अनादित्वं विनाऽदृष्टं कथं स्यात्कारणं क्वचित्
अनु०-पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः
अनु०-अदृष्टं कारणं नो चेल्लये मानं च किं भवेत्
अनु०-उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् । तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते
अनु०-आगमानुगृहीता तु मानम्
अनु०- एषाऽनुमाऽपि तु
अनु०-आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः
अनु०-अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः
अनु०-अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि
अनु०-न च शिष्टागृहीतत्वं निरीशादीशवादिनः
अनु०-तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः । निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । असतो विश्वजननमाशङ्क्यात्र निषिध्यते
अनु०-प्रापकं वाक्यमात्रं तु
अनु०- परिहारोऽविशेषितः
अनु०-क्वचिज्जीवाकृतं दृष्ट्वाऽचेतनादेव चाकृतम् । तद्वदेवानुमाऽन्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥
॥ अथ असदधिकरणम् ॥
अनु०-नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन । अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन
अनु०-क्वचिदि्भन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते
अनु०-भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राह
५८सु०- अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया
अनु०-कथं च तदनन्यता
अनु०-जगतस्त्वविका(रि)रत्वे उक्तन्यायेन साधिते
अनु०-स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिध्यते
अनु०-द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेस्तद्वशस्य भावः
अनु०- न पर इत्यतः
अनु०-शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।कारणैर्नियतैरेव करोतीदं जगत्सदा ॥
अनु०-नित्यभेदो निमित्तेन हि
अनु०- उपादानेन तु द्वयम्
अनु०-असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि
अनु०-अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः
अनु०-शक्तोऽपि भगवान्विष्णुरकर्तुं कर्तुमन्यथा । स्वभिन्नं कारणाभिन्न(न्नं)भिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तोऽर्थोऽयमशेषतः ॥
६४सु०- प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेर्थे विरोधो निरस्तः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।
अनु०-अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे
अनु०-यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा
अनु०-अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः । अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् । बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता
अनु०-बहुत्वेनाविनाभावादि्भन्नता नियमाद्भवेत् । यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ॥
१०६सु०- अतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति अनंशस्यापीति
अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च)
अनु०-विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये
अनु०-तदन्ये तत्र तत्रगाः
अनु०-सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अनु०-मानमेयविशेषेण पुनरुक्तिर्न जायते ॥
नन्वेतत्सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह तस्य त्विति ।
अनु०-सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्
अनु०-अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः
अनु०-देवस्यैष स्वभावोऽयमि त्याह श्रुतिरञ्जसा
अनु०-क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी
अनु०-इति केवल्लीलैव निर्णीता प्रभुणा स्वयम्
अनु०-आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्
अनु०-न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ।
अनु०-इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । इति प्रशंसया
अनु०- कामश्रुतिभ्यश्चैव
अनु०- युक्तितः
अनु०-महातात्पर्ययुक्तेश्च
अनु०- नेच्छामात्रं निषिध्यते
अनु०-मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृ(ष्ट्य)ष्टानुसारतः । इच्छानिमित्तको यस्मात्तदभावे कुतः श्रुतिः । महातात्पर्यरहिता प्रमाणत्वं गमिष्यति
अनु०-याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् । मानत्वमेति
अनु०-तत्रापि यत्सम्पूर्णप्रयोजनम् ॥
१२२सु०- ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति । मैवम्, बाधादेरुद्भावनादि त्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाहसदेति
अनु०-वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥
१४१सु०- प्राणिनां विविधान्देहेन्द्रिय•दि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात्, कांश्चिद् दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमि त्येव पूर्वपक्षोऽत्राधिकरणे निरा
अनु०-यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः
अनु०-सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः । निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥
१४२सु०- सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूर्णगुणत्वं दोषित्वं च स्यादि ति पूर्वपक्षोऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं भाष्ये, चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्, युक्तेरव्युत्पादनात् । ततः
अनु०-स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥
॥ रचनानुपपत्त्यधिकरणम् ॥
अनु०-अनादिकालतो वृत्ताः समया हि प्रवाहतः । न चोच्छेदोऽस्ति कस्यापि समयस्येति
अनु०- अतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥
६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं मन्द इति ; मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति अनादीति
अनु०- तर्कैर्दृढतमैरेव वाक्यैरा(श्चा)गमवादिनाम् ॥
अनु०- दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् । अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥
८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह तर्कैरिति
अनु०-तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा । इति विद्यापतिः सम्यक् समयानां निराकृतिम् । चकार
अनु०- निजभक्तानां बुद्धिशाणत्वसिद्धये
१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह तथापीति
अनु०- चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुः
अनु०- तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतन•
अनु०- तदसङ्ख्यातं
अनु०- भिन्नमन्यदि्भदोज्खितम्
अनु०- अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते
अनु०- परस्परविभेदश्च कार्याणामालयं भवेत्
अनु०- भोक्तृतां चेतनस्याहुः केचित्तामपि नापरे
अनु०- स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम्
अनु०- प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु । अभोगवादिनो भोगमाहुः
अनु०- भेदग्रहात्तयोः । भोगिनां मुक्तिरुद्दिष्टा
अनु०- स एवाभोगवादिनाम्
अनु०-ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि
अनु०-चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥
अनु०- न च काचित्प्रमोक्तार्थे
अनु०- श्रुतिरेव प्रमा हि नः
अनु०- आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते
अनु०- अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि
अनु०- मायिवत् । स्वोक्ताखिलनिषेधी स्यात्
अनु०- न च किञ्चित्प्रसिद्ध्यति
अनु०- इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् । इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥
अनु०- स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः
अनु०- अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम्
अनु०-स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः
अनु०- कुत इच्छाऽचेतनस्य
अनु०- सेच्छं चेत् किमचेतनम्
अनु०- इच्छाम्यहमिति ह्येव निजानुभवरोधतः । अचेतनेच्छापगता
अनु०- यदि भेदाग्रहोऽत्र च । कथं स न घटस्य स्यात्
अनु०- मनो म इति भेदतः । मनसोऽपि गृहीतत्वात्
अनु०- उभयात्मकता यतः । कामस्य तु मनः कामः
अनु०- प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य
अनु०- तस्माद् भेदाग्रहः कुतः
अनु०- रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ
अनु०-पयोम्ब्वादि च नोपमा । एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ॥
अनु०- द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥
अनु०- इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं न चापरम्
अनु०- किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत्
अनु०- सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः
अनु०- न चानुभवगं कामस्वामित्वं वेदवागपि । शक्ताऽपवदितुं
अनु०- तस्मात्सा तदन्याभिधायिनी
अनु०- मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः
अनु०- मोक्षकामस्य किं तेन
अनु०- स्वनाशार्थं च को यतेत्
अनु०- कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते
अनु०- विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत्
अनु०- सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् । मायावाद्युपमां यायात्
अनु०- तत् चशब्दान्निराकृतः ॥
अनु०- साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥
अनु०- क्षेत्रशक्तिमती सैव प्रकृतिः
अनु०- बीजशक्तिमान् । जीवः, पर्जन्यवत्
अनु०- दैवशक्तिमानीश्वरः स्मृतः
अनु०- पृथिवीवत्प्रधानं तत्
अनु०- जीवः सन्निधिमात्रतः । बीजावपनकर्तैवेति
अनु०- अत्र प्राह स्वयं प्रभुः
अनु०- अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येण
अनु०- ईश एव हि । शक्तस्ताः प्रेरयत्यञ्जः
अनु०- तदधीनाश्च सर्वदा ।सत्ता प्रधानपुरुषशक्तनां च प्रतीतयः । प्रवृत्तयश्च तास्सर्वाः
अनु०- नित्यं नित्यात्मना यतः । यथाऽनित्यतयाऽनित्यं नित्यशक्त्या स्वयेश्वरः । नियामयति नित्यं च
अनु०- न ऋते त्वदिति श्रुतेः
अनु०-स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेर्न सत्ताद्या अपि नारायणं विना
अनु०-तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥
अनु०- चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्
अनु०-देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि
अनु०- यदेवं
अनु०- दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि
अनु०- नरैः शास्त्रात् किं मोहनं विना
अनु०- स्वपरार्थविहीनत्वात्
अनु०-स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम्
अनु०- देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत् सदा ॥
अनु०- प्रत्यक्षस्यैव मानत्वमिति केनावसीयते
अनु०- यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्
अनु०- न चान्यामानता क्वापि प्रमाणेनावसीयते
अनु०- स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥
तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति चेतनेति
अनु०- सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्
अनु०- तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥
अनु०- अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ॥
अनु०-किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखिलम् ॥
११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे सन्निधानादिति
अनु०- अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥
अनु०- न च स्वातन्त्र्यमस्यैव
अनु०- प्रत्यक्षादिविरोधतः
अनु०-हिताक्रियादिदोषाच्च
अनु०- भद्रं नानीश्वरं मतम्
अनु०- संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥
अनु०- तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥
१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।
अनु०- नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः । युक्तमीशं वदन्तोऽन्ये
अनु०- तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥
अनु०- परमाणुद्वयेनैव द्व्यणुकं नाम जायते । द्व्यणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् । ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥
अनु०- कारणं समवाय्याख्यं परमाण्वादिरत्र हि
अनु०- ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्
अनु०- सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् । नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥
अनु०- कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥
अनु०- एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः
अनु०-द्व्यणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् । न कारणं कार्यगुणे
अनु०- वैरूप्यं तत्र कारणम् । इत्याहुः
अनु०- तानथोवाच विद्याधीशः स्वयं प्रभुः
अनु०- महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् । तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥४४४ यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि । जायेत सदृशं कार्ये परिमाणं समत्वतः ॥
अनु०- न चेन्महत्त्वतश्चैव दीर्घत्वादपि नो भवेत्
अनु०- सदृशस्य हि कार्यस्य नैव योगः कथञ्चन
अनु०- अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वतः । इति चेत्
अनु०- न महत्त्वं च परमाणावणावपि
अनु०- कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते
अनु०- प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले
अनु०- अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया
अनु०- तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च
अनु०- यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते । परिमाणत्वतश्चेत्
अनु०- न महत्त्वस्यापि विश्रमः
अनु०- दृश्यतेऽनन्त इत्येव
अनु०- तथानन्त्यमणावपि
अनु०- न महत्तत्त्वगुणत एतावानिति हीश्वरः । परिच्छिन्नः
अनु०- तथाणोश्च नैतावद्भागता क्वचित्
अनु०- विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते
अनु०-नावसाययितुं शक्यो विरोधादेव केवलम्
अनु०- केवलं साक्षिमानेन कालो देशोऽपि नान्तवान्
अनु०- अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः
अनु०- यदि नो साक्षिगम्यं तत्
अनु०- महत्त्वं केन गम्यते
अनु०- विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः
अनु०- यद्यागमादनन्तं तन्महत्त्वमवगम्यते । अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥
अनु०-महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते
अनु०- अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम्
अनु०- बहुत्वाल्पत्वयोर्यद्वत्सङ्ख्यायामुपलभ्यते । आनन्त्यम्
अनु०- एकभागानां तावत्वं ह्यवगम्यते
अनु०- अणीयांश्च महीयांश्च भगवानागमोदितः
अनु०-आनन्त्यवाचकश्शब्दो द्विधाऽऽनन्त्येऽपि मानताम् । याति
अनु०- नैव गुणाल्पत्वं कालाल्पत्वं च मानगम्
अनु०- तावत्त्वमेव नैव स्यात्
अनु०- देशेऽप्येतन्न नो मतम्
अनु०- महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित्
अनु०- यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्
अनु०- शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः
अनु०- अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित्
अनु०-उभयानन्त्ययुक् तस्माद्यदि मुख्यं महद्भवेत्
अनु०- तच्च ब्रह्म परं साक्षात्
अनु०- सर्वानन्त्ययुतं
अनु०- सदा
अनु०- यदि साक्षी स्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वम्
अनु०- अनवस्थाऽन्यथा भवेत्
अनु०- अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
अनु०-अविभागः पराणुता
अनु०- तत्संयोगादनियतात्पदार्थानां जनिर्भवेत्
अनु०- द्वयोरेव तु संयोग इति केनावसीयते
अनु०- कारणस्य गुणास्तेन भवेयुः कार्यगा अपि
अनु०- तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः
अनु०- न च तत्प्रोक्तसृष्टौ तु मानं
अनु०- केवलकल्पना । कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥
अनु०- यदि साक्षिमितं नैतत्
अनु०- नानुमा तत्र वर्तते
अनु०- पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत्
अनु०-यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्
अनु०- देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत्
अनु०- सदृशं च सजातीयं नास्मत्पक्षे किमेव हि
अनु०-येनैव च प्रकारेणात्यसिद्धमनुमीयते । तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥
अनु०- प्रत्यक्षमागमो वाऽपि भवेद्यत्र नियामकः । सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥
अनु०-सहदर्शनमात्रेण न व्याप्तिरवसीयते
अनु०-यदैवाव्यतिरेकेऽस्य ह्यक्षजं वाऽऽगमो भवेत् । तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥
अनु०- अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत् । अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥
अनु०- कार्यकारणयोश्चैव
अनु०- गुणादेः पञ्चकस्य च । भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥
अनु०- भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम्
अनु०- स स्वनिर्वाहकश्चेत्स्यात्
अनु०- द्रव्यमेव तथा न किम्
अनु०- विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते । गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥
अनु०- द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा । नानाव्यवहृतेर्हेतुः
अनु०- अनन्तत्वं विशेषतः
अनु०- विशेषश्च विशेषी स स्वेनैव समवायवत्
अनु०- कल्पनागुरुतादोषात्पदार्थान्तरता न हि
अनु०-कल्पयित्वा षट्पदार्थान्साभावानपि केवलम् । एकस्मिन्स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥
अनु०-येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् । भावाभावविभागोन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत् ॥
अनु०- अभेदेन प्रतीतिश्च कार्यकारणपूर्वके । अभावान्ते पदार्थेऽस्मिन्सविशेषाऽवसीयते ॥
अनु०- सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः । कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥
अनु०-कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः । कथं विशेषो नैवास्ति
अनु०- स च धर्मोऽपरो यदि
अनु०-षट् --- पदार्थातिरेकः स्यात्
अनु०- पदार्थानियमेऽपि हि । धर्मस्य धर्मसन्तानादनवस्था(ऽऽकरो खनिर्भवेत् ॥
अनु०- सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः । नाङ्गीकृतः
अनु०- स च यदि नानवस्था क्वचिद्भवेत्
अनु०- अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः । अनन्यत्वान्नानवस्था
अनु०- भेदो नाशे भवेत्तथा
अनु०- विशेषमेव संश्रित्य
अनु०-विशेषो बलवान्यतः
अनु०- दृष्टिप्रमाणतश्चैव
अनु०- विरोधो दर्शने कथम्
अनु०- विरोधो ह्यविरोधश्च यतो दर्शनमानकौ । ततो दृष्टे विरोधस्तु सदि्भरापाद्यते कथम् ॥
अनु०- अभिन्नो भगवान् स्वेन तदन्येन विभेदवान्
अनु०- नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः
अनु०-सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपिणः । भावे
अनु०- त एव चोच्छेदात्तदन्ये च समस्तशः
अनु०- अंशांशिनोरभेदेन त्वंशसंयोग एव हि । अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः ॥
अनु०- एकस्मिञ्जात एवान्यः संयोगो जायते यदि । अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥
अनु०- अंशे संयोगदृष्टेश्च
अनु०- दृष्टे का साऽनवस्थितिः
अनु०- यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम्
अनु०- परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः
अनु०- अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः । परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥
अनु०- अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाभिदा
अनु०- सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते
अनु०- संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक्
अनु०- अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते
अनु०- भिन्ना इति तु भेदानां समुदायो हि दृश्यते । यथैव च पदार्थानाम्
अनु०- अनयोर्भेद इत्यपि । इतोऽमुष्यामुतोऽमुष्य भेदो दृष्टो द्विधर्मिकः ॥
अनु०- तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा
अनु०- नरत्वादिकमप्येवं
अनु०-तत्तद्धर्मतयेयते
अनु०- न सर्वधर्म एकोऽस्ति
अनु०- समुदायस्तु भिन्नगः
अनु०- एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक्
अनु०- एकस्मिन्स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते
अनु०-कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते
अनु०- एकत्वे नास्ति मानं च
अनु०- श्रुतिरप्याह सादरम् । भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि ॥ स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः । अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥ न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना । इति
अनु०- व्युत्पत्तिरपि हि सादृश्येनैव गम्यते
अनु०- सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते
अनु०- तथाऽपि प्राप्तितस्त्वेकवचनाच्च विशेषतः । अभीष्टावगतिश्च स्यात्
अनु०- शक्तिः सादृश्यगा यतः । तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥
अनु०- जातितश्चेत्कथं तासु
अनु०- तत्र चेदनवस्थितिः
अनु०-तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम्
अनु०- यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः
अनु०- कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि । एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ॥
अनु०- कल्पनागौरवात्तेन युक्ता नानुगकल्पना
अनु०- औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः । अन्यत्
अनु०-तदेव चेदग्निमत्त्वं किं तत्र भण्यते
अनु०- अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम्
अनु०- भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः
अनु०-समवायो यदि हि
अनु०- अस्य चैकत्वात्सिद्धसाधनम्
अनु०-यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते
अनु०-नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः । सत्यत्वात् को विशेषः स्यात्
अनु०- मायावाद्यन्यथा वदेत्
अनु०-उपाधिजन्यं तद्गम्यमिति चौपाधिकं भवेत्
अनु०-उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः
अनु०-भिन्नत्वं चैव तेष्वस्ति
अनु०- को विशेष उपाधिगे
अनु०- अविद्यमान एवान्यः समवायोऽधिगम्यते । उपाधिना
अनु०- तद्गमकमनुमानं न मा भवेत्
अनु०- एवमेवासतः सत्तासमवायो जनिर्मता
अनु०- तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्
अनु०- अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः । नास्ति दोषः क्वचित्
अनु०- भावो ह्यभावश्च स एव हि
अनु०- अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः
अनु०-सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा
अनु०-तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः । सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥
अनु०- तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते
अनु०- अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता । इत्यादि युज्यते सर्वं
अनु०- प्रत्यक्षादिप्रमाणतः
अनु०-अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक् । यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ॥
अनु०-पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि
अनु०- भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥
अनु०- प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात्
अनु०- कथञ्चन
अनु०- विभागेनाल्पतैव स्यात्कुत एव तु शून्यता
अनु०- न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते
अनु०- विदारणार्थो धातुश्च विभागगुणवाचकः
अनु०- अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च
अनु०- अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः
अनु०-न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥
अनु०-मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः । नारायणः परोऽशेषचेतनेभ्यः परं पदम् । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते । अनन्तगुणता विष्णोः
अनु०- कथमेव ह्यपोद्यते
अनु०- यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः । कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते
अनु०- औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥
अनु०- स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य
अनु०- स्वज्ञानाधिगमं विना
अनु०- ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः । इति चेत्
अनु०- एष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्यात्
अनु०- स्वप्रकाशत्वमेतस्माद् दुर्निवारं समापतेत्
अनु०-सुखवान्दुःखवांश्चेत्स्यादिति व्याप्तिश्च नो भवेत्
अनु०- निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते
अनु०- योऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान्विपाप्मेत्यादिका च सा
अनु०- ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥
अनु०- न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते
अनु०- सहदर्शनमात्रेण श्रुतीनामपलापकः । यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः । नानुमाति कथं
अनु०- तत्र यद्युपाधिर्निषिद्धता
अनु०-अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत्
अनु०-अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते । इति श्रुतिर्हि परमा
अनु०- श्रुत्युक्तिर्यदि कारणम् । किं कार्यमनुमानेन गलस्तनसमेन हि ॥
अनु०- अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते ।
अनु०-तेनात्र श्रुतिरेव प्रमा भवेत्
अनु०- ईशस्यानुमयाऽसिद्धेः श्रुतिर्धर्मिप्रमा भवेत् । तया सर्वगुणैः पूर्ण ईश उक्तो यतस्ततः । अनानन्दानुमानस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत्
अनु०- तस्मान्नानुमाऽत्रोपयोगिनी
अनु०- नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥
अनु०-न हि कालविभेदोऽस्ति तत्पक्षे
अनु०-अस्मन्मते हरेः । विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥
अनु०- विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा
अनु०-सर्वे निमेषा इति हि श्रुतिरेवाह सादरम्
अनु०- उदीरयति कालाख्यां शक्तिमित्यस्य वागपि
अनु०- कालस्य कालगत्वेन न विरोधोऽपि कश्चन
अनु०- असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा
अनु०- ईशो देशश्च कालश्च स्वगता एव सर्वदा
अनु०- ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु । तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥
अनु०- स्वभावादेव हीच्छैषा
अनु०-देवस्यैष इति श्रुतेः
अनु०- स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा
अनु०-नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ॥
अनु०- रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ।अनुमेया
अनु०- श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
॥ अथ वैशेषिकाधिकरणम् ॥
अनु०-वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत्
अनु०- अणूनां समुदायं च
अनु०- कालकर्मनिमित्ततः ।उत्पत्तिकाले युक्तानां
अनु०- आत्मानं च क्षणस्थितम्
अनु०- नित्यं सन्तानमेतेषां
अनु०- पञ्चस्कन्धात्मना स्थितम्
अनु०- संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः
अनु०-दुःखाभावं सुखं चाहुः
अनु०- अरूपज्ञानसन्ततिम् । मोक्षं
अनु०- स समुदायो हि नैकस्मादेव युज्यते
अनु०-नोभयोश्च
अनु०- उभयत्वं यत्समुदायव्यपेक्षया
अनु०- अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते
अनु०-अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् । स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् । इति चेत्
अनु०- कार्यसम्भूतिमात्रव्यापृति कारणम् । न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ॥
अनु०- अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः । संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ॥
अनु०- विशेषकार्यजनकं यदि कारणमिष्यते
अनु०- अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम्
अनु०- अदृष्टमपि तस्यैव विशेषापादकं कुतः
अनु०- यस्यकस्यापि यत्किञ्चिद्विशेषमुपपादयेत्
अनु०- कार्यं च कारणं चैवं यत्किञ्चिद्यस्य कस्यचित् । भवेन्नियामकाभावात्
अनु०-इदमस्यैव कारणम् । इति नित्यविनाशित्वे केन मानेन गम्यते ॥
अनु०-इदं न जायतेऽमुष्मादित्यत्रापि न कारणम्
अनु०- विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः
अनु०- दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु
अनु०- फलादीनां विशेषेण सर्वत्राप्यनुमीयते । सत्त्वेन क्षणिकत्वं चेत्
अनु०- आकाशस्याविशेषतः । अविशेषोऽखिलस्यापि सत्त्वात्किन्नानुमीयते
अनु०-यद्याकाशस्य सत्त्वं न कुत एव नरादिषु
अनु०- सधर्मिप्रतियोगित्वमभावस्य नियामकम्
अनु०- तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन
अनु०- अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते
अनु०- स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु । गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥
अनु०- उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुनः । न संस्कारार्पकत्वं च युज्यते कस्य चित्क्वचित् ॥
अनु०- अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः
अनु०- एकत्वमनुभूतिस्थं त्यक्तवा निर्मानिका भिदा । कुत आत्मादिकेषु स्यात्
अनु०- बल्येवानुभवो यतः
अनु०- कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगि स्यादुत्तरो नियमेन च ॥
अनु०- सम्बद्धा एव संस्कारमन्यत्रादधतेऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥
अनु०- एककालतया योगं विना संस्कारतः कथम्
अनु०-क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु
अनु०-पूर्वमध्यापरकलाविकलः क्षण इष्यते
अनु०- पूर्वभावभवं कार्यमुत तन्नाशसम्भवम्
अनु०-विनाशे चेन्न तत्कार्यम्
अनु०-कार्योत्पत्तौ च का प्रमा
अनु०- अभेदेऽपि विशेषेण देहदीपफलादिषु । विशेषदर्शनं युक्तमस्माकम्
अनु०- अनुभूतितः । विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ॥
अनु०- दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेत्
अनु०-विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥
अनु०- सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा । कथं नु तस्य बुद्धित्वं
अनु०- विश्वमन्यच्च किंप्रमम्
अनु०- सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा । तस्यापलापिनः किन्न निष्प्रमाणकवादिनः ॥
अनु०- सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥
अनु०- अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
॥ अथ समुदायाधिकरणम् ॥
अनु०- अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च
अनु०-तदस्मीति नित्योपासाऽपरोक्षितम् । रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥
अनु०- तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् । सदिवाभाति
अनु०- सत्यत्वं सांवृतं तस्य चेष्यते
अनु०- पारमार्थिकसत्यत्वं शून्यादन्यस्य न क्वचित्
अनु०- सांवृतेनैव सत्त्वेन व्यवहारोऽखिलो भवेत् ॥
अनु०-शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते
अनु०- तमुद्दिश्य जगाद जगतां गुरुः
अनु०- नासतो जगतो भावो
अनु०- न हि दृष्टाऽसतो जनिः ।४४४सतः क्वचित्
अनु०- प्रमाणं च दृष्टिरेवाखिलाद्वरम्
अनु०- यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥
अनु०-कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन
अनु०-देशकालादिनियमो न हि शून्यात्सतो भवेत्
अनु०-पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते । किन्नानुमीयते तद्वद्वस्तुत्वात्पुरुषोद्भवः ।४४४ सर्वस्यापि
अनु०- न चाभावो विश्वं सदिति गम्यते । यतो
अनु०- अनुभवरोधे तु वचनं वादिनः कुतः
अनु०-स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ।४४४ यदि सत्त्वेन
अनु०- किञ्चात्र भ्रमो नैव निवर्तते
अनु०- अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥
अनु०- दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः
अनु०- गवामृङ्गिभावेन न हि स्याच्छशृङ्गिता
अनु०-अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
अनु०- दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत्
अनु०- इयं च मा
अनु०- मिथ्या चेत्साध्यसिद्धिर्न
अनु०- व्यभिचारो न चेद्भवेत्
अनु०- साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः
अनु०-तस्य च
अनु०- इत्यनवस्था स्यात्
अनु०- सत्त्व• चास्यानुभूतितः
अनु०-अनुभूतिविरोधेन मिथ्यात्वे मा न काचन
अनु०- अतीतानागतौ कालावपि नः साक्षिगोचरौ
अनु०- तत्सम्बन्धितया सत्त्वमपि
अनु०- दृष्टस्य साक्षिगम्
अनु०- दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम्
अनु०-भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् । तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ॥
अनु०-विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा । नैव दृष्टा
अनु०- प्रमा सा च न भवेत्स्वविरोधतः
अनु०- भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि । अन्योन्याश्रयताहेतोर्दुर्ग्राह्य इति यत्
अनु०- न तत्
अनु०- स्वरूपं वस्तुनो भेदो
अनु०-यन्न तस्य ग्रहेऽग्रहः
अनु०- अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते
अनु०- अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः । स्यात्
अनु०-प्रतीतिविरोधाच्च
अनु०- न हि कश्चित्तथा वदेत्
अनु०- धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥
अनु०- को विरोधः
अनु०- स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥
अनु०-किञ्च
अनु०- भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः ॥
अनु०- अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः
अनु०- अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः
अनु०- एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ । मायी माध्यमिकश्चैव
अनु०- तदुपेक्ष्यौ बभूषुभिः
अनु०- यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः
अनु०- न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः
अनु०- अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम्
अनु०- स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः । तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः । अप्रयत्नान्निराचक्रे
अनु०-चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥
॥ अथ असदधिकरणम् ॥
अनु०- ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते
अनु०- तत्र सन्ततिभेदश्च स्वभेदो(ऽ)भेद एव च । कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥
अनु०- इत्येतदपि नो युक्तं
अनु०-न हि ज्ञानतया जगत् । भासते
अनु०- अनुभवस्यैव विरुद्धत्वादपेशलम् । तन्मतं
अनु०- क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण
अनु०-सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥
॥ अथ अनुपलब्ध्यधिकरणम् ॥
अनु०- आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥
अनु०- नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः
अनु०- भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥
अनु०- तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदि
अनु०-तैरखिलैर्दोषैर्लिप्यते(ऽ)चलदर्शनः
अनु०- अतिहाय प्रमाणाप्तनियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा । सर्वप्रकारं वदतो
अनु०-दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥
अनु०- वक्ति स्वप्रभमात्मानं देहमानम्
अनु०- तदप्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥
अनु०- अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः । तन्मते
अनु०- तदनित्यत्वं
अनु०- पुद्गलस्य
अनु०- अनिवारितम्
अनु०- नानित्यताऽस्मत्पक्षे तु
अनु०- चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यात्
अनु०- न तच्चेतने क्वचित्
अनु०- ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥
अनु०- भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते
अनु०-नैवं तस्य
अनु०- अन्यथाभावो यस्यानित्यत्वमीरितम् । रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥
अनु०-व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत्
अनु०-नित्योर्ध्वगतिरप्येेषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥
अनु०- कदृशश्चान्यथाभावो नाशहेतुतयेष्यते
अनु०- संस्थानापगमश्चेत्
अनु०-यः कश्चिदन्यथाभावो यदि
अनु०-मुक्तिश्च तादृशी
अनु०- देहमाने विकारः स्यादिति स्थास्नूननात्मनः । आह
अनु०- हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः
अनु०- अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥
अनु०- गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥
अनु०-एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥
॥ अथ नैकस्मिन्नधिकरणम् ॥
अनु०- सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् । जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । आहुः पाशुपताः
अनु०- तच्च बहुश्रुतिविरोधतः । नोपादेयं मतं हि
अनु०-अस्य देवस्य स्तुहि गर्तगम् । उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् । यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया । धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः । घ्नंच्छिश्नदेवानेकोऽसावासीन्नारायणः परः । तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् । यज्ञेन यज्ञमयजन्ताबध्नन्पुरुषं पशुम् । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥
अनु०- इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः । पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः । प्रतीयन्ते
अनु०- सदोषत्वान्नेशः पशुपतिस्ततः
अनु०-अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् । कर्तृत्वेन न युज्येत
अनु०-देहिनो ज्ञानदृष्टितः
अनु०- न च देहादिवद्विश्वमस्य स्यात्
अनु०- भोगसम्भवात्
अनु०- अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन्प्रतीयते
अनु०- नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा
अनु०- ओहश्चेदसर्वज्ञः शिलाकाष्ठादिवत्सदा
अनु०- देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥
अनु०-न चैतदखिलं विष्णौ
अनु०- श्रुतिप्रामाण्यगौरवात्
अनु०- मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः । स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता । देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत् । एको नारायण आसीन्न ब्रह्मा न च शङ्करः । अजस्य नाभावध्येकमर्पितं मात्रया परः । सद्देहस्सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः । आनन्द एक एवाग्र आसीन्नारायणः प्रभुः । प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः । आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् । मनसोऽस्याभवद्ब्रह्मा ल्लाटादपि शङ्करः । पक्षयोर्गरुडः शेषो मुखादासीत्सरस्वती । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
अनु०-इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः । विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥
अनु०- मानवत्त्वाद्विरोधः को
अनु०-नामानं क्वचिदिष्यते
अनु०- अविरोधो विरोधश्च मानेनैव हि गम्यते
अनु०- अत उक्तं समस्तं च वासुदेवस्य युज्यते
अनु०- शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः
अनु०- नामानि सर्वाणि च यमेको यो देवनामधाः । विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् । न नारायणनामानि तदन्येष्वपरे हरौ । इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥
अनु०-पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा
अनु०- तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः
अनु०- समब्राह्मविरोधाच्च
अनु०- नियमाद्वैष्णवेष्वपि
अनु०- मोहार्थमुक्तितश्चैव
अनु०- विष्णुरेको गुणार्णवः
अनु०- स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।
अनु०- अशेषेण सिद्धान्तस्याविशेषतः ॥
॥ अथ पत्युरधिकरणम् ॥
अनु०- निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते
अनु०- महती देवी ह्रीङ्कारी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साऽभिधीयते ॥
अनु०-तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ।
अनु०- तन्नोपपद्यते
अनु०- दृष्टा पुंभ्यः सदा सृष्टिः स्त्रीपुंभ्यो वा विशेषतः । केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । नार्च्यं महावाममतं
अनु०- वामैरन्यदुदीर्यते
अनु०- शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । इति
अनु०- शिवस्याकरणत्वतः । ओहत्वात्
अनु०- अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । अणुवामा
अनु०- न तद्युक्तम्
अनु०- ईशवादप्रवेशनात्
अनु०- सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । न युज्यते
अनु०-ततस्त्वीश एक एव प्रयोजकः
अनु०- उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते
अनु०- श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्
अनु०-पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि । सूत्राण्यतिविरुद्धं तत्
अनु०- यत आह स भारते
अनु०- पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते । इति
अनु०- वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि । इति वाराहवचनं
अनु०-श्लोका इति वचः श्रुतौ
अनु०- वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः
अनु०- पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।
अनु०- पञ्चरात्रमपोद्यते । कथमेव
अनु०- अत्र दोषः कः
अनु०- उत्पत्तिर्ज्ञोऽत इत्यपि । इहैवोक्ता
अनु०- न चाभूतभावस्तत्रापि कथ्यते
अनु०- अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥
अनु०- न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित्
अनु०- जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनोभिमानिनः कामस्यैवं
अनु०- साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तो
अनु०- अन्यथाऽनूद्य कथं दुष्टत्वमुच्यते
अनु०- यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।
अनु०- अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥
अनु०- अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥
अनु०- अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवायान्ति एतस्या नैव निन्दकाः । ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतां विद्ययाऽमृतमश्नुते ॥
॥ अथ उत्पत्त्य(शक्त्य)धिकरणम् ॥
अनु०- अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥
अनु०- स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥
अनु०-अनूभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं ततः साम्यं द्वारवैयर्थ्यमेव च । दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता । लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा । उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः । व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः । गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्त शास्त्रसिद्धिर्विपर्ययः ॥ विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।
॥ अथ वियदधिकरणम् ॥
अनु०- प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः । महदाद्याश्च जायन्ते
अनु०- पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम्
अनु०- अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ॥
अनु०- यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥
अनु०-मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत्
अनु०-मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥
अनु०- अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥
अनु०-भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यते
अनु०- अव्याकृतं हि गगनं साक्षिगोचरम् । प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्
अनु०- तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् । खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥
अनु०- प्रकृतिः पुरुषः काल इत्येते च समस्तशः । ईशाधीनविशेषेण जन्मा इत्येव शब्दिताः ॥
अनु०- कालप्रवाह एवैको नित्यो न तु विशेषवान्
अनु०-पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता
अनु०-प्रधानं विकृतेरपि
अनु०- पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥
४सु०-
अनु०- एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् । पराधीनविशेषेण जनिमानेव शब्दितः ॥
अनु०- नैव किञ्चित्ततो जन्मवर्जितं परमादृते । पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कर्त्यते । रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्य
अनु०- वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषोऽस्ति
अनु०- तस्मात्तद्वशतैव हि । उत्पत्तिरत्र कथिता ॥
ब्र०सू०- ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥
अनु०- स्वतन्त्रत्वात्परमात्मनः । नैवोत्पत्तिः कथमपि
अनु०- न स्वतन्त्रं ततोऽपरम् ॥
ब्र०सू०-ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥
अनु०- अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः । कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥
अनु०-अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥
१९सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता, इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते, सतो गुणादेरसम्भवो नोपपद्यते प्रतिज्ञाहान्यादिनाऽनुपपत्तेरि ति ।
अनु०- एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥
अनु०- न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते
अनु०-प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते
अनु०- एतमानन्दमित्यन्या परमं साम्यमित्यपि
अनु०- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
अनु०- उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ।
अनु०- आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् । इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः । शाखां शाखां महानद्यः संयान्ति परितः स्रवाः । धानापूपा मांसकामाः सदा पायसकर्दमाः । यस्मिन्नग्निमुखा देवाः सेन्द्रा सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः । निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥
अनु०- भेददृष्ट्याभिमानेन निस्सङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥
अनु०- ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा
अनु०-यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि
अनु०-सहैव ब्रह्मणा कामान् भुङ्क्तेनिस्तीर्णतद्गुणः
अनु०- दुःखादींश्च परित्यज्य
अनु०-जगद्व्यापारवर्जितः । भुङ्क्ते भोगान् सदैवोच्चान्
अनु०-इत्याद्यागममानतः । मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । जीवेशयोः
अनु०-नानुमा च तदभेदं प्रमापयेत्
अनु०- मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत्
अनु०-साध्यधर्मोऽयं सन्नसन्वा न वोभयम्
अनु०- यदि सन्नपसिद्धान्तः
अनु०-स एवासन्नितीरिते
अनु०- नोभयं चेन्न सिद्धं तत्
अनु०- इति मानस्य दूषणम्
अनु०-न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित्
अनु०- अनुमानेन चेत्सैव ह्यनवस्था भविष्यति
अनु०- न चागमस्तदर्थोऽस्ति
अनु०- नासदासीन्न तद्वदेत् ॥
अनु०-परिशेषादनिर्वाच्यं यदि सिद्ध्येत्
अनु०- परात्मनः । अनिर्वाच्यत्वमेव स्यात्
अनु०- परिशिष्टो ह्यसौ तदा
अनु०- न चान्य आगमस्तत्र
अनु०- सदसत्प्रतियोगिनि
अनु०-न च प्रत्यक्षमत्रास्ति
अनु०- न चार्थापत्तिरिष्यते
अनु०-बाधायोगात् सत इति
अनु०- बाधाभावत एव हि । इष्टापत्तिः
अनु०-न हि भ्रान्तावपि बाधोऽवगम्यते
अनु०-विषयस्य कुतो बाधो
अनु०- विद्यमानं हि बाध्यते
अनु०-न हि वन्ध्यासुतो बा(व)ध्यो यज्ञदत्तो हि बा(व)ध्यते
अनु०- बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते
अनु०- कश्चायं बाध उद्दिष्टो
अनु०- न हि नाशोऽसतो भवेत्
अनु०- निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते
अनु०- नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधः
अनु०-तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः
अनु०- प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम्
अनु०- निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते
अनु०-न चोपमा भवेदत्र
अनु०- प्रत्यक्षात्सत्त्वमेव च
अनु०-शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते
अनु०- अनुभूतिविरोधेन कथमेकत्वमुच्यते
अनु०- किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते । सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ॥
अनु०- अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम्
अनु०- उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ॥
अनु०- अप्रामाण्यं यदा भेदवाचकस्य भविष्यति । स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ॥
अनु०-यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत्
अनु०- एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥
अनु०- धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम्
अनु०-नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात्
अनु०- न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित्
अनु०-येन मानेन चोपेयं भेदस्तेनावगम्यते
अनु०- सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥
अनु०- न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत्
अनु०- न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु
अनु०- यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥
अनु०-श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ॥
अनु०-तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः
अनु०- न च बाधविशेषोऽस्ति यदबाधितमेव तत्
अनु०-बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते
अनु०- कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना
अनु०- भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् । एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥
अनु०-भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा । स चेत्साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ॥
अनु०- विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः
अनु०- ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते
अनु०- साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते
अनु०- तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकस्सदाऽङ्गीकार्य एव न ः ॥
अनु०-शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम्
अनु०- उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि
अनु०- अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः
अनु०- तथाऽपि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः । सारस्स्वरूपमस्यापि मुक्तावप्यवशिष्यते । अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥
अनु०-सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपि चाभिदाम् ।
अनु०- न स्वरूपाभिदां क्वचित्
अनु०- स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते
अनु०-सादृश्यं च विशेषेण
अनु०- जडानां द्वयमेव तु
अनु०-भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना
अनु०- ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
अनु०- यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति । इति श्रुतेः
अनु०- नोभयं च भेदाभेदाख्यमिष्यते
अनु०- एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥
अनु०- इवोभये च सादृश्य इति वाक् शब्दनिर्णये ॥
ब्र०सू०-ॐ पृथगुपदेशात् ॐ ॥
अनु०-भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः
अनु०-चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥
अनु०-न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा । इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ॥
अनु०-अभेदश्रुतयोंऽशत्वात्
अनु०- सादृश्यं चांशताऽस्य तु
अनु०-अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा
अनु०-सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेवी
अनु०- एवमेवैको भगवान्विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥
अनु०- विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः । सूर्यादिभ्यस्तथैवार्यं संसारी परमात्पृथक् ॥
अनु०-देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्यास्सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैस्सदा । एवमेव पराद्विष्णोः पृथक् संसारिणो मताः । अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्येवमिष्यते ॥
अनु०- गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्न च
अनु०- अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः
अनु०-न तु पुम्पादवत्पादा जीवा एते परात्मनः ।पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।एवं जगाद परमा श्रुतिर्नारायणं परम् ॥
अनु०-अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः
अनु०-प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपते विष्णोर्विशेषावाप्तिमात्रतः । उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्माऽस्यां वासुदेवतः । सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः । ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥
अनु०- तत्र पूर्वतनः श्रेयान् गुणैस्सर्वैस्समस्तशः
अनु०- तेभ्यश्च भगवान् विष्णुः
अनु०- तदधीना इमे सदा । जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च
अनु०- तदधीनत्वमेतेषां नैव हीयते । मुक्तावपि
अनु०- स एवैकः स्वतन्त्रः पूर्णसद्गुणः
इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥
ब्र०सू०- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥
अनु०- श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन
अनु०-तत्र स्पष्टार्थवच्छतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः । दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता । युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥
द्वितीयाध्यायस्य चतुर्थः पादः

अध्याय 3

अनु०-स्वाभाविकान्यथानामसहभावान्यथोक्तयः ।अविशेषविशेषौ च सहभावो विमिश्रता ।विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतो भवौ ।उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।योग्यता बलवत्वं च विभागः कारणाभवः ।क्ऌप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः
अनु०-बीजपूरुषयोनीनां सङ्गातिनियमोज्खितिम् । अथशब्देन भगवानाह
अनु०- कारणतश्च ताम् ।
अथ तृतीयाध्यायः
अनु०-पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।। स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ।। गुणसाम्यमयोगाश्च तर्कबाधो विलोमता ।। नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः । अशक्यकर्तृताशक्तिः स्वतो बोधस्तथैव च ।। अमानक्ऌप्तिसन्मानव्यवस्थाऽत्यल्पता भवाः ।। विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।।अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ।।
अथ तृतीयाध्यायस्य द्वितीयः पादः
अनु०-वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः
अनु०-त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिस्सदातनम् ।तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च
अनु०-सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः
अनु०-संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति
अनु०- भ्रान्तिर्जाग्रत्त्वमेव हि
अनु०-अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते । इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते
अनु०-कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः । दृष्टं
अनु०- समाधिकरणं दृश्यतेऽत्र स च भ्रमः
अनु०-वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च
अनु०-भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य
अनु०-दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः
अनु०-प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यं
अनु०- न तैः स्यात्तत्त्वनिर्णयः
अनु०-तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः
अनु०-उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् । विजिगीषुकथायां तु कथावसितिकारणम्
अनु०-परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः । प्रतिज्ञायां
अनु०- तदन्यस्य सिद्धतैव हि साधिका
अनु०-आश्रयव्याश्रयासिद्धी साध्यासिदि्धश्च दूषणम् । केषाञ्चित्
अनु०- न च ते दोषा व्याप्तौ सत्यां कथञ्चन
अनु०- दोषा व्याहतिरेवास्ति नृृङ्गास्तित्वसाधने
अनु०- यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने
अनु०-प्रत्यक्षागममूलास्तु न्यायास्सर्वे भवन्ति हि ।न्यायाभासा अमूलाः युः
अनु०- न्यायस्यान्यस्य तौ पुनः
अनु०-अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।ज्ञायते साक्षिणैवाद्धा
अनु०-मानबाधे न तद्भवेत् ।यत्साक्षिणैव मानत्वं मानानामवसीयते
अनु०- अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत्
अनु०-उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति
अनु०-अतो हि भोजनादीनामिष्टसाधनताऽनुमा । मानं व्यवहृतौ नित्यं
अनु०- व्यभिचारो हि तत्र च
अनु०-व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम्
अनु०-रोहिण्युदय आसन्नः कृत्तिकाऽभ्युदिता यतः । इत्युक्ते साधनं नो किं
अनु०- न ह्याज्ञैवात्र साधिका
अनु०- अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा
अनु०-असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते
अनु०- व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते
अनु०-अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते । लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते
अनु०-साधनं परमाण्वादेर्यद्यसिद्धस्य चेष्यते । यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा
अनु०-यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यये । क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः
अनु०- परिशेषो मिथस्सिदि्धश्चक्रकस्वाश्रयादयः । असिद्धसाधकत्वेन पञ्चावयवतां विना । अङ्गीकार्याः समस्तैः
अनु०-तन्नियमः किन्निबन्धनः
अनु०-सिद्धसाधनतायां च न कथावसितिर्भवेत्
अनु०- व्यभिचारो हेत्वसिदि्धरेकपक्षेऽपि दूषणम्
अनु०-साध्यसाधनवैकल्यं दृष्टान्तस्य
अनु०- विशेषणे ।वैयर्थ्यम्
अनु०- एकासिद्धौ च विशिष्टासिदि्धरेव हि
अनु०-अप्रयोजनता तत्र प्रथमप्रश्नदूषणम्
अनु०-सिद्धप्रश्नादिकं यत्तदाधिक्यान्तर्गतं भवेत्
अनु०-अर्थापत्त्युपमाऽभावा अनुमान्तर्गताः
अनु०-क्वचित् । प्रत्यक्षान्तर्गतोऽभावः
अनु०- सुखादेर्नियमेन च
अनु०-अन्यत्र खटिति प्राप्तः
अनु०-प्रारम्भाद्याश्च युक्तयः
अनु०-आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः
अनु०- वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः
अनु०-कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः
अनु०-स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः
अनु०-प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः
अनु०-छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते
अनु०-जातिः स्वव्याहतिर्ज्ञेया
अनु०- छलमर्थान्तरोत्तरम्
अनु०-एवं संशोधितन्यायसदागमविरोधतः ।नानिर्वाच्यमिदं प्रोक्तं मायामात्रपदेन हि
अनु०-विलक्षणं सदसतोरिति हि व्याहतं स्वतः
अनु०-प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत्
अनु०-मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि
अनु०-अविलक्षणत्वं सत्यं स्यात् ५
अनु०-मिथ्यात्वं ब्रह्मणस्ततः ।अनिर्वाच्यस्य सत्त्वं वा
अनु०-यदि धर्मा न केचन ।ब्रह्मणो नैव जिज्ञास्यं
अनु०-जिज्ञासा धर्मनिर्णयः
अनु०-इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम्
अनु०-इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता
अनु०-इत्थम्भावात्मकान्धर्मानाहुश्च श्रुतयोऽखिलाः
अनु०-अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः
अनु०-यदि स्युस्तादृशा धर्माः सार्वज्ञत्वादयो न किम्
अनु०-अन्यापेक्षा यदि स्युष्टे
अनु०- सत्तैवं
अनु०-देशाकालगा
अनु०- देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते
अनु०-सर्वधर्मोज्खितस्यास्य किं शास्त्रेणाधिगम्यते
अनु०-मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता
अनु०-आप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत्
अनु०-न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः
अनु०-वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम्
अनु०-धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने
अनु०-इदं तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि
अनु०-सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते
अनु०-तदर्थं यदि धर्माणामारोपः साऽनवस्थितिः
अनु०-ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।तन्मात्रस्यान्यथाभावे किन्न स्याद्विश्वसत्यता
अनु०-येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किन्न सा
अनु०-भ्रान्तत्वे तस्य विश्वारेरीशाद्यभ्रान्तमेव हि
अनु०-भवेयुर्भ्रान्तयो नॄणां नैवेशादेः कथञ्चन
अनु०-सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते
अनु०-प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः
अनु०-साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते
अनु०-साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि
अनु०-तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् । ऐक्यागमस्य किन्न स्यात्
अनु०-तस्याप्येतादृशं यदि
अनु०-ऐक्यप्रमाणमिथ्यात्वं य(त)दा विश्वस्य सत्यता
अनु०-ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते ।अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते
अनु०-औतहानिसामान्यात्
अनु०- न विशेषश्च कश्चन
अनु०-यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते
अनु०- प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत्
अनु०-कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः
अनु०-मिथ्यात्वमानं मोक्षेऽपि मानं किन्नेति भण्यताम्
अनु०-मानत्वेऽद्वैतहानिः स्यात्
अनु०-अमानत्वेऽप्यमोक्षता ।
अनु०-विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा
अनु०-अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिः
अनु०- अतोऽन्यथा ।। ४४४अमुक्तत्वं
अनु०-तथा काले
अनु०-कालाधीना हि मुक्तता
अनु०-काल एवागमोऽप्याह मुक्तिं
अनु०- कालनिवर्तने ।मुक्तेरपि निवृत्तिः स्यात्
अनु०-संसारित्वमतो भवेत् ।
अनु०- क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम्
अनु०-देहात्मत्वं यदि
अनु०-न तत्प्राप्तं प्रत्यक्षतः क्वचित्
अनु०-मम देह इति ह्येव न देहोऽहमिति प्रमा
अनु०-उपचारश्च कृष्णोऽहमिति
अनु०- कर्दमलेपने वस्त्रस्य यद्वदेवं स्यात्
अनु०- यद्युपाधिकृतं तदा ।
अनु०-स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ।
अनु०-कथं च भेदो देहादेरात्मनो न प्रतीयते
अनु०-जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।।४४४ भयाभयस्वभोगादौ कारणानि विजानते
अनु०-अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत्
अनु०-अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ
अनु०-यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
अनु०-व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् । भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् । भवन्ति व्यवहाराश्च
अनु०-न हि प्रत्यक्षगानपि । अर्थान्यथाऽनुभवतः प्रतिपादयितुं क्षमाः । लोकाः
अनु०-ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् । शक्यं वारयितुं क्वापि
अनु०-तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ।
अनु०-आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
अनु०-कथं शक्तिग्रहोऽन्यथा ।
अनु०-अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।।न ४४४विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ।
अनु०-शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत्
अनु०-यदि शक्तिग्रहोऽन्यत्र कथं स स्यात् तदग्रहे ।
अनु०-सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।
अनु०-सामान्यवर्जितं वस्तुस्वरूपं गमयेत् कथम् ।
अनु०-न स्वरूपत्वसामान्यं केनाऽप्यङ्गीकृतं क्वचित्
अनु०-स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ।
अनु०-सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् । स्यादुत्तरं
अनु०- ततोऽन्यच्चेत्तदेव स्वयमेव नः ।
अनु०-एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवे । तस्य
अनु०- सामान्यतो ज्ञानं विना स च भवेत् कुतः ।
अनु०-अतो विशेषसामान्यरूपं सर्वमपीष्यते ।
अनु०-व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ।।४४४ न चैकधर्मता तेन पदार्थानां परस्परम् ।
अनु०-धर्माणां भेददृष्ट्यैव
अनु०- तत्सादृश्यस्य दर्शनात् ।
अनु०-अतः सर्वे पदार्थाश्च सामान्यात् साक्षिगोचराः ।
अनु०-सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ।
अनु०-किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः । शब्दशक्तिग्रहश्च स्यात्
अनु०-तत्तत्सादृश्यमानतः ।
अनु०-प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम् ।
अनु०-तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।
अनु०-आधिक्यमनुभूतात्तु यदाऽतीतत्वमिष्यते ।मानता च कथं न स्यात् स्मृतेः
अनु०- बाधश्च नात्र हि
अनु०-मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम्
अनु०-अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।
अनु०-न च सा स्मृतिमात्रार्धा
अनु०- तदिदन्त्वग्रहैकतः
अनु०-अतो न वर्तमानैकनियमः स्याद् ग्रहेऽक्षजे ।
अनु०-न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ।
अनु०-मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् । ज्ञानमेव
अनु०-ततोऽन्या न प्रमितिर्नाम दृश्यते
अनु०-मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित्
अनु०-स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित्
अनु०-जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।अतो मिथ्या न च स्वप्नो
अनु०-जाग्रद्वत्
अनु०- जाग्रदेव च ।आत्मवत्
अनु०-क्वचिदात्मा च स्यादेव भ्रमगोचरः । एतावता न मिथ्याऽसौ स्वप्ने जागरिते तथा
अनु०-यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत्
अनु०-अबाधितानुवृत्तेस्तु स्वाप्नादेर्भ्रान्तता कुतः
अनु०-न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च । अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्र्रान्तता भवेत्
अनु०-किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।।अङ्गीकरोति नियतं
अनु०-तत्र सम्प्रतिपन्नता ।वादिनोः ५
अनु०-अशेषदोषदुष्टं तन्मतं हेयं बुभूषुभिः
अनु०-येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ।उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति
अनु०-ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम्
अनु०-अतः प्रज्ञाऽत्र मायोक्ता जैवी
अनु०-निमित्तमैश्वरी मुख्या
अनु०- निर्मितं त्रातमेव च
अनु०-ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते
अनु०-उभाभ्यां मातमैश्वर्यात् त्रातं सह पृथक् ततः ।
अनु०-प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः
अनु०-धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा
अनु०-चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।तेनावस्था इमास्सर्वा जीवः पश्यति सर्वदा ।
अनु०-मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते ।स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित्
अनु०-क्वचित्स्पष्टा अपि स्युष्टे
अनु०- वासना मानसी च सा ।।
२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।
अनु०-ईशेच्छयाऽन्तर्दधाति
अनु०-व्यज्यते च पुनस्तया ।
अनु०-सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ।
।। अथ पराभिध्यानाधिकरणम् ।।
अनु०-सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति जीवेशो ।
।। अथ सुषुप्तिबोधमोहाधिकरणानि ।।
अनु०- नान्यः कर्ताऽस्य कश्चन ।
।। अथ कर्मानुस्मृत्यधिकरणम् ।।
अनु०-न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः
अनु०-सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ।
अनु०-तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत्
अनु०-महातात्पर्यरोधेन कथं तन्मानमत्र तु
अनु०-दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।भवेन्मानं
अनु०- तदीशानात् प्रसन्नादेव नान्यथा
अनु०-प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।निर्दोषतापरिज्ञानादपि नान्येन केनचित्
अनु०-यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा ।यो मामशेषाभ्यधिकं विजानाति स एव माम् ।विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ।यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः ।
अनु०-इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते
अनु०- लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात्
अनु०-महातात्पर्यमुख्यस्य विरोधादत एव हि ।दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेः
अनु०-तद्विरुद्धोऽखिलस्य च । अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम्
अनु०-इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत । इति
अनु०- अतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।वर्तते तत्र
अनु०-तेनेशो निर्णीतोऽखिलसद्गुणः ।
।। अथ स्थान(तोऽप्य)भेदाधिकरणम् ।।
अनु०-न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।यत आभासतामेव श्रुतिरस्य वदत्यलम्
अनु०-यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्
अनु०-छाया यथा पुंसदृशी पुमधीना च दृश्यते ।एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः । सत्ताप्रतीतिकार्येषु पुमधीना यथेयते । आभासा एव पुरुषा मुक्ताश्च परमात्मनः
अनु०-छाया विष्णो रमा, तस्याश्छाया धाता, विशेषकौ । तस्य, इन्द्रकामौ च तयोः, तयोरन्येऽखिला अपि । हरेर्ब्रह्मा,ऽस्य गीः, तस्या विशेषौ, इन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ।सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
अनु०-इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि
अनु०-आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।तन्न युक्तं
अनु०- यदाभास उपाध्यायत्त ईयते
अनु०-उपाध्यायत्तताभावात्
अनु०-चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् ।
अनु०-अतः पृथक्तवमुदितं समुदायांशयोर्भवेत्
अनु०-ईशाख्या समुदाये स्यात्
अनु०- ईशरूपेष्विवोदिता
अनु०-अतो देहाद्युपाधीनामपाये समता भवेत् । ईशरूपैः
अनु०- अथाभासा मुख्यतः सूर्यकादिवत् । यदा
अनु०-तदोपाध्यायत्तरूपाणां नाशिता भवेत्
अनु०-इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।अत एवोपमेत्येव च
अनु०-अन्याभासविशेषिताम्
अनु०-यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम्
अनु०-तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम्
अनु०-नोपाध्यधीनताद्यैश्च
अनु०-नातिसाम्यं निदर्शने
अनु०-किञ्चित्सुखादिसादृश्यमपीशेनासुरानृते
अनु०-तत आभासते नित्यं तद्वदाभासतेऽपि च ।भानमस्तित्वमपि चैवासमन्ताद्यतस्ततः ।जीव आभास उद्दिष्टः सदैव परमात्मनः ।
अनु०-न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः
अनु०-तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।
अनु०- अखिलमानतः । जीवेशभेददृष्ट्यैव समुदायैकता कुतः
अनु०-अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः । सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा
अनु०-अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम्
अनु०-अनुसन्धानरहितमैक्यं चेत्
अनु०- एकता न तत्
अनु०-अनुसन्धानरहितं समुदायैक्यमेव चेत् । चेतनेषु
अनु०-अस्तु तत्
अनु०- नाममात्रमेव यतस्ततः
अनु०-मुक्तौ स्यादनुसन्धानमित्यपि स्यात्सुदुष्करम्
अनु०-सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः
अनु०-पश्चात्स्यादनुसन्धानं चेत्
अनु०-विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत्
अनु०-असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः
अनु०-समुदायैक्यमेतस्मात् दूरतोऽपाकृतं सदा
अनु०-अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम
अनु०-तत्र भेदोऽपि न क्वचित्
अनु०-नेह नानाऽस्ति किमपि हरयोऽयमयं हि सः । इत्यादिश्रुतिमानेन
अनु०- जीवांशाः सर्व एव च ।नियमेनानुसन्धानवन्तो
अनु०-यद्येकता स्वतः ।
अनु०-अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ।भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत्
अनु०-ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते
अनु०-सेशताऽनुपपन्नैव यदि जीवैकताऽस्य हि
अनु०-अनीशस्येशतेत्येव विरुद्धं सर्वमानतः
अनु०-अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च
अनु०-ईशत्वेऽनीशभेदेन श्रुत्या सम्यक् प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् । अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत्
अनु०-ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः । इति हि ब्रह्मतर्कोक्तिः
अनु०- अतिहेयमतोऽखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः
अनु०- नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशत्वविरोधि स्यात्तदेवायुक्तमञ्जसा । ईशत्वस्याविरोधेन योजयित्वाऽखिलाः प्रमाः । सिद्धेशत्वेन चायुक्तमपि हीशेन योजयेत् । मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् । इति हि ब्रह्मतर्कोक्तिः
अनु०- अतो युक्तमिहोदितम् ।
।। अथ उपमाधिकरणम् ।।
अनु०-स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते
अनु०- स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्त्वानामुपलक्षकः । अप्राकृतरूपत्वात् । प्राकृतरूपरहितत्वात् । गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात् । तन्निरासार्थं स्वशब्दः । ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् । अतः शिरःपाणीति विवरणं कृतम् । अतो रूपवांश्चेति शेषः । विचारप्रयोजनं दर्शयति अत इति ।
अनु०-अतो नानित्यता नैव श्रुतिद्वयविरोधिता
अनु०-यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।
।। अथ अरूपाधिकरणम् ।।
अनु०-तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् । ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।
।। अथ वृदि्धह्रासाधिकरणम् ।।
अनु०-प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा
अनु०-नारायणगुणाधीनश्च
अनु०- अत्यल्पस्तदपेक्षया । तस्मादि्भन्नश्च सततमन्यज्ज्ञानं परस्य च
अनु०-अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता । मुख्येशता परेशस्य गौणी जीवस्य सा यतः । इति श्रुतेः ।
।। अथ स्थानविशेषाधिकरणम् ।।
अनु०- सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात्स्थितेर्नैतदपेक्षा
अनु०-इति न युज्यते । यतस्स्वभावोऽप्यखिल ईशायत्तोऽखिलस्य च ।
।। अथ पालकत्वाधिकरणम् ।।
अनु०-अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः।
।। अथ अव्यक्ताधिकरणम् ।।
अनु०-तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थितः ।
अनु०-विशेषात्मतया तेषां नित्यशक्तयात्मना तथा । नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ।
अनु०-न विशेषात्मता चेयमनित्या
अनु०-शक्तिरूपता । सैव यत्
अनु०-सविशेषा स्यात्
अनु०-विशेषोऽन्यो न चाप्ययम् । स्वनिर्वाहकताहेतोस्तथाऽपि स्याद्विशेषता
अनु०-विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि
अनु०- ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।श्रुत्येव स स एवेति तदभेदश्च गम्यते ।
अनु०-भेदो यदि विशेषस्य स भेदो भेदिना कथम्
अनु०- भिन्नश्चेदनवस्था स्यात्
अनु०-अभिन्नश्चेत्पुरा न किम्
अनु०-विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते
अनु०-अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः
अनु०-अनेनानेन भिन्नोऽयमिति यत्सविशेषतः । भेद एवैष बहुधा दृश्यते तत्किमुत्तरम्
अनु०-अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः
अनु०-तयोरपि
अनु०- अविशेषत्वे पर्यायत्वं हि शब्दयोः
अनु०-अभेदभेदशब्दौ च पर्यायाविति को वदेत्
अनु०-भेदोऽन्योन्यमभेदश्च भेदिना चेत्
अनु०-विशेषिता
अनु०-अविशेषे कथं भेदो भेदिनैकस्तथाऽभिदा ।पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत्
अनु०-भेदिनश्चैव भेदस्य विशेषो यदि गम्यते । अभेदाभेदिनोश्चैव
अनु०-विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् । कल्पनागौरवायैव किं भेदः कल्प्यते तदा
अनु०-ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः
अनु०-स एवेति प्रतीतौ हि विशेषो नाम भण्यते
अनु०-सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनाऽपि हि । अङ्गीकार्यो विशेषोऽयं
अनु०-यद्यसत्यविशेषणम् । पृथक् पृथग्वारयितुं शब्दान्तरमितीष्यते
अनु०-मायाविशेषराहित्यविशेषणविशेषिता । सत्यस्यापि भवेत्
अनु०-सा च तथा चेत्
अनु०-अनवस्थितिः
अनु०-यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा
अनु०-लक्ष्यते चेत्तेन
अनु०- लक्ष्यमित्यपि स्याद्विशेषिता
अनु०-पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः
अनु०-यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते
अनु०-असार्वज्ञादिराहित्यमप्येवं ते भविष्यति
अनु०-तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः
अनु०-यदि नैतादृशं ग्राह्यम्
अनु०-असुखत्वानिवर्तनात् । असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा
अनु०-अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते
अनु०-अनैश्वर्यविरोधित्वमप्येवं किन्निवार्यते
अनु०-अखण्डखण्डनादेवं विशेषोऽखण्डवादिना । खण्डितेनापि मनसा स्वीकार्योऽनन्यथा गतेः
अनु०-अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् । महादरेण शिरसि विशेषो धार्य एव हि
अनु०-निदर्शनत्रयेणातो भगवानत्यभिन्नताम् । गुणानामादरेणाह
अनु०- तच्च नाभिहितान्वयः
अनु०-यदाऽशेषविशेषाणामुक्तिः सामान्यतो भवेत् ।पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत्
अनु०-यतोऽशेषविशेषाणां वस्तुनाऽस्त्येव चैकता । अतः
अनु०- सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता
अनु०-स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः । अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि
अनु०-यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह । तथाऽन्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः
अनु०-व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् । पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् । अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदाऽस्य न
अनु०-यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ।अनन्वितः स्याच्छब्दार्थो
अनु०- न तदर्थो हि सोऽन्वयः ।
अनु०- निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः
अनु०-तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा
अनु०-अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते
अनु०-कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत्
अनु०-अपूर्तिश्चेत्पदैरुक्तैः किं नृृङ्गेण पूर्यते
अनु०-व्यापारश्चेत्पुनस्तेषामनुक्तावपि किन्न सः
अनु०-उक्ते बुदि्धस्थताहेतोर्यदि व्यापार इष्यते
अनु०-बुदि्धस्थत्वाय यत्नं न कथं कुर्युः पुरैव च
अनु०-पुरुषाधीनता तेषां यदि
अनु०-पश्चाच्च सा समा
अनु०-पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते ।अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।यततां
अनु०-शब्दशक्तिश्चेत्तत्र नैव
अनु०-अन्वये कथम्
अनु०-तत्कल्पनागुरुत्वादिदोषेऽतोऽभिहितान्वयः ।
अनु०-कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति
अनु०-गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।
अनु०- शब्दा अन्वितवाचकाः
अनु०-अतोऽनन्तगुणात्मैको भगवान्
अनु०-एक एव तु । उच्यते सर्ववेदैश्च ।
।। अथ उभयव्यपदेशाधिकरणम् ।।
अनु०-ते चाखिलविलक्षणाः
अनु०-सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु
अनु०-तथाऽपि सविशेषाश्च
अनु०- विद्वद्व्युत्पत्तितोऽपि च । तैस्तैश्शब्दैश्च भण्यन्ते
अनु०- युज्यते चोपदेशतः
अनु०-अन्यानन्दादिसादृश्यम्
अनु०- आनुकूल्यादि नापरम्
अनु०-पूर्णत्वादिमहत्तेषां वैलक्षण्यं श्रुतौ श्रुतम्
अनु०-पूर्णोऽशेषनियन्ता च सुस्वादुतम एकलः । गुणोरुसमुदायोऽयं वासुदेवः सुनिष्कलः । वासुदेवश्रुतिश्चैषा गुणान् वक्ति हरेः परान् ।
।। अथ परानन्दा(परमता)धिकरणम् ।।
अनु०-स एवाशेषजीवस्थनिस्सङ्ख्यानादिकालिकान् । धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । कांश्चित्तेषां फलं चैवं ददाति स्वयमच्युतः । न ते विशेषं कमपि प्रेरणादिकमच्युते । कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः
अनु०-कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्जि च । प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवम्
अनु०-एकैव ब्रह्महत्या हि वराहहरिणोदिता
अनु०-ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः । स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथाऽन्यान्यपि सर्वशः । अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक्
अनु०-तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः ।भक्तया परमयाऽऽराध्य इति पादार्थ ईयते ।
।। फलदानाधिकरणम् ।।
अनु०-वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् ।
अनु०-युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं च प्रणुद्याशेषवाक्यगम् । अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः । विरोधं च निराकृत्य श्रुतीनां प्राणतत्त्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः । देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् । निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् । सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा
अनु०-कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।
अनु०-अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः
अनु०-सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः । इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत्
अनु०-येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा
अनु०-मोक्षादिदत्वमीशस्य कथमेवावगम्यते । इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः
अनु०-प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन । किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः
अनु०-यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् । धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः
अनु०-अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि । दृष्यपूरुषवन्मोक्षदातृतां विनिवारयेत् । तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम्
अनु०-शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात्
अनु०-मोक्षदो हि स्वतन्त्रः स्यात्
अनु०-परतन्त्रः स्वयं सृतौ । वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।
अनु०-अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि । तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः
अनु०-अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः
अनु०-यमेवैष इति श्रुत्या तमेवेति च सादरम् ।शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः
अनु०-य एनं विदुरमृता
अनु०- इत्युक्तस्तु समुद्रगः
अनु०-तदेव ब्रह्म परममिति श्रुत्याऽवधारितः
अनु०-यतः प्रसूतेति ततः सृष्टिमाह
अनु०- ततो हरिः । शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते
अनु०-शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात्
अनु०-समिति ह्युपसर्गेण परमुख्यार्थतोच्यते
अनु०- अनु०-एवं परममुख्यार्थो नारायण इति श्रुतेः ।निर्धारणाय नाशब्दमिति वेदपतिर्जगौ
अनु०-कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम्
अनु०-वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम्
अनु०-अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः । उत्तारणोपमा
अनु०-इत्यस्मान्न ज्ञेयोऽत्र समन्वयः
अनु०-इत्याशङ्काऽपनोदार्थं स आह करुणाकरः
अनु०-अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः । निर्णीयते मयैवायं रोमकूपलयोदिना
अनु०-यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम्
अनु०-इति प्रकाशयन्विश्वपतिराह प्रमेयताम् । निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा
अनु०-को नाम गतिसामान्यमनन्तागमसम्पदः । ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम्
अनु०-अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु । जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः
अनु०-इति मुख्यतयाऽशेषगतिसामान्यवित्प्रभुः । प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते
अनु०-अतो निखिलवेदानां सिद्ध एव समन्वयः । इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम्
अनु०-तत्र प्रथमतोऽन्यत्रप्रसिद्धानां समन्वयः । शब्दानां वाच्य एवात्र महामल-लेशभङ्गवत्
अनु०-इतोऽप्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु
अनु०-महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि । ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् । दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।
अनु०-अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु । प्रवृत्तः प्रथमं देवः
अनु०- तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात्
अनु०-देवतान्तरगास्सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा
अनु०- तत्सङ्गादुपचारतः । अन्यदेवान्वदन्तीह विशेषगुणवक्तृतः ।।४४४ विष्णुमेव परं ब्रूयुः
अनु०-एवमन्येऽप्यशेषतः
अनु०-इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशोषतः । ज्ञाते समन्वये धिष्णौ लिङ्गैर्ह्येष समन्वयः । तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् । आह
अनु०-उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्यर्थम्
अनु०- उभयत्र प्रतीतितः । शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव
अनु०-यन्नैवान्यत्र मुख्यतः । शब्दा लिङ्गानि च
अनु०-यतो नैवान्यत्र स्वतन्त्रता
अनु०-अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः । यतोऽतो
अनु०- यदधीनास्ते शब्दार्थत्वमुपागताः ।अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ।अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः । इत्याह
अनु०- एवं च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते । विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेत्
अनु०- अवरत्वादि द्विविधं ह्युपलभ्यते
अनु०-परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् । अन्योऽवरत्वानुभवी
अनु०-तयोः पूर्वोऽस्ति केशवे
अनु०-द्वितीयो जीव एवास्ति
अनु०- स्वातन्त्र्यान्नैव दूषणम् । हरेः
अनु०- एवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात्समन्वयता यतः । अतोऽशेषविरोधानां कृतेशेन निराकृतिः
अनु०- समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये
अनु०-किं मया कार्यमित्येव स्याद्बुदि्धरधिकारिणः
अनु०-तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ । उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि
अनु०-सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव
अनु०- तदङ्गं धारणादिकम्
अनु०-तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धैव विस्तराच्छतिपूर्वकम्
अनु०-पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलेपो नानोक्तिराशुता । विभ्रमोऽपाकृतिर्लिङ्गमनवस्था विशेषिता । अप्रयोजनता चातिप्रसङ्गो दूरसंश्रयः । विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ । पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शितालापौ गुणसाम्यं पृथग्दृशिः । अगम्यवर्त्मसन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशोषदृशिः क्रिया । युक्तयः पूर्वपक्षस्थास्सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः । फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्ति क्रिया सन्धिः प्रमाणबलमानतिः । कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता । संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः । सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिशिष्टिरनूनता । अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयोऽव्याहताः सदा ।
अथ तृतीयाध्यायस्य तृतीयः पादः
अनु०-यथाशक्तयखिलान्वेदान्विज्ञायोपासनं भवेत्
अनु०-तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि । तदन्येषां यथायोगमखिलज्ञप्तिरिष्यते
अनु०-तावतोपासने योग्यो भवेदेवाखिलः पुमान्
अनु०-महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद । किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः । इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।
अनु०-आत्मज्ञानानुरूपत्वं यथाशक्तिविचारणात्
अनु०-वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते
अनु०-अद्यापि तेन देवाद्याः ृण्वते मन्वते सदा ।ध्यायन्ति च यथायोगं
अनु०-तथाऽप्यावस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वदैव हि
अनु०-मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।वेत्ति तस्योक्तमार्गेण कुर्वतः स्यादि्ध दर्शनम्
अनु०-श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या(प्त्यै)
अनु०-अन्यस्यैतानि दृष्टये
अनु०-यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत्
अनु०-श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्
अनु०-अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत्
अनु०-अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । ृणुयात्
अनु०-यदि सज्ज्ञानप्राचुर्यमुपलभ्यते
अनु०-महद्भ््यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात्
अनु०- स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।ब्रूयादपि च शिष्येभ्यः
अनु०-सत्सिद्धान्तमहापयन्
अनु०-अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः
अनु०-स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः
अनु०-अदोषत्वस्य सिद्ध्यर्थं
अनु०- यदभेदे तदन्वयः
अनु०-तत्तन्त्रत्वं च मुक्तानामपि
अनु०- तद्गुणपूर्तये
अनु०-मुक्तानामपि भेदश्च
अनु०- न हि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित्
अनु०- तस्याप्यभावोऽनुभवोपगः
अनु०-पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।
अनु०-भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः
अनु०-निर्दोषत्वं रमायाश्च
अनु०- तदनन्तरता तथा
अनु०-ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । सत्सिद्धान्त इति ज्ञेयो
अनु०-निर्णीतो हरिणा स्वयम्
अनु०-एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम्
अनु०-इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् । मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि । ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः । प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्
अनु०-अन्यावकाशरहितं प्रकाशयति सादरम्
अनु०-एतदेव च सच्छास्त्रं दुश्शास्त्रं तु ततःपरम् ।सच्छास्त्रमभ्यसेन्नित्यं दुश्शास्त्रं तु परित्यजेत्
अनु०-असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्
अनु०-साम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्
अनु०-अतो यथात्मशक्तयैव श्रवणं मननं तथा ।
।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।
अनु०-कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ।
।। अथ उपसंहाराधिकरणम् ।।
अनु०-विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते । इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति
अनु०-दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते
अनु०-सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः
अनु०-ऋजूनामेक एवास्ति परमोत्साहवर्जनम्
अनु०-स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुध्यते
अनु०-अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।तारतम्येन कर्तव्या पुरुषार्थमभीप्सता
अनु०-स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता
अनु०-न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत्
अनु०-तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।इत्याह सच्छ्रुतिः
अनु०-तेन सम्प्रोक्तगुणसंयुतः ।उपासीत हरिं दृष्ट्वा मुक्तिस्तैनेव जायते
अनु०-द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत्
अनु०-रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ।हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च
अनु०-इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते
अनु०-हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ।यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।निन्दां भगवतः ृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ।अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परम्भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्मणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः
अनु०-इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।
।। अथ अनुबन्धाद्यधिकरणम् ।।
अनु०-अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां
अनु०- मोक्षे चैव विशेषतः
अनु०-न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।आभासत्वात्परेषां तदवराणां च सर्वशः
अनु०-यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन
अनु०-न च संसारिदेवानां कालेयत्तापरे इमे ।सूत्रे
अनु०-ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।अनारब्धस्य भोगेन त्वितरे इति चोदितः
अनु०-पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ।
।। अथ यावदधिकाराधिकरणम् ।।
अनु०-उषास्स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।उत्तरोत्तरतस्त्वेते गुणैस्सर्वैश्च मुक्तिगाः
अनु०-सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ।सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।पर्जन्यवद्वारुणी च तथा संज्ञा च रोहिणी ।धार्मी च मित्रवत्त्वेव प्रावही परिकर्तिता ।मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ।भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ।कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ।वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।च्यवनोचथ्यवैन्याश्च शशिबिन्दुश्च हैहयः ।तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ।तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः
अनु०-एतेभ्योऽभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ।तत्समो नास्ति परमो हरिरेव न चापरः ।संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।तदेतदखिलं
अनु०- प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो ..।
।। अथ इयदामननाधिकरणम् ।।
अनु०-दृष्टिरपि योग्यानुसारतः
।। अथ दर्शनभेदाधिकरणम् ।।
अनु०-सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम्
अनु०-श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ।
।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।
अनु०-गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित्
अनु०-विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता
अनु०-समे विकल्प एव स्यात्
अनु०- पूर्वानुज्ञा च सर्वथा
अनु०-तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते
अनु०-गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती ।देवता भगवान्विष्णुः सर्वेषामविशेषतः
अनु०-तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन
अनु०-स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः
अनु०-उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।
।। अथ पूर्वविकल्पाधिकरणम् ।।
अनु०-साधनेभ्योऽधिका भक्तिः
अनु०-नैवान्यत्तादृशं क्वचित् ।
अनु०-भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम् ।
अनु०-स्वाधिकत्वेन सर्वत्र स्वोत्तमेषु क्रमेण च
अनु०-अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी
अनु०-तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः ।
।। अथ ताद्विद्याधिकरणम् ।।
अनु०-एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।अपेक्षितफलप्राप्तिः
अनु०-आरब्धस्यानतिक्रमात्
अनु०-देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः
अनु०-जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन
अनु०-सामान्यं भगवत्प्रोक्तं
अनु०- देवादीनां विशेषतः
अनु०-बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ।
।। अथ पुरुषार्थाधिकरणम् ।।
अनु०-विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित्
अनु०-गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ।देवानामपि न प्रायः
अनु०- क्ऌप्तस्य तु कथञ्चन
अनु०-प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा
अनु०-तथाऽपि तत्क्ऌप्तमेव
अनु०- तस्मान्न नियमोज्खितिः
अनु०-चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।प्राप्तहानिरभून्नैव क्ऌप्तहानिः कथञ्चन ।
अनु०-ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ।भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ।
अनु०-ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते
अनु०-अशुचित्वादिकं चास्य न भवेदिति तत्फलम्
अनु०-अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते
अनु०-प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ।उपमर्द इह प्रोक्तो
अनु०- देवादीनां यथाक्रमम्
अनु०-सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः । न ब्रह्मदर्शिनोऽपि स्यात्
अनु०-फलह्रासस्तु विद्यते
अनु०-सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।स्यात्काम्यविधिवैयर्थ्यम्
अनु०- इत्युक्तनियमो भवेत्
अनु०-एवमाद्यपि सम्प्रोक्तं तन्त्रभागवते स्फुटम्
अनु०-तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः ।अवृजिनोऽकामहत इति मुक्तिं निगद्य च ।आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक्
अनु०-संसार एव चेदेतत्तारतम्यं न मुख्यतः । अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत्
अनु०-कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।इति यल-लक्षणं मुक्तेः श्रुतिराह बलीयसी ।कामाहतिः कुतोऽन्यत्र
अनु०- प्राप्तकामस्य सा भवेत्
अनु०-अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।तदैवाकामहतता कुत एवान्यथा भवेत्
अनु०-चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता
अनु०-अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः
अनु०-यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः ।अवशोऽपि व्याहरति कुतः सुप्तावकामता
अनु०-सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।पर्येति तत्र जक्षंश्च क्रडन् रतिमवाप्नुयात् ।कामान्नी कामरूपी सन्निमाल-लोकांश्च सञ्चरन् ।आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ।अकामः स्यात् कथं मुक्तः
अनु०-कामा येऽस्य हृदि श्रिताः ।इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।आह श्रुतिः
अनु०-हृदीत्येव न चेद्व्यर्थं विशेषणम्
अनु०-हृद्येव तेषां श्रयणमिति पक्षो न भासते
अनु०-मुक्तानां कामितामाह पृथक् शाखासु यच्छतिः
अनु०-अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः
अनु०-मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम्
अनु०-अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम्
अनु०-अप्रियं वृजिनं दुःखमकं तोद इतीर्यते ।तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ।इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये
अनु०-अपापत्वं च नैवास्ति यावत्संसारमस्य हि । आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि
अनु०-तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना
अनु०-अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा
अनु०-कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् । इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति
अनु०-तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ।उक्तवा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।आहेति पेशलं
अनु०-तच्च चशब्दादेव गम्यते
अनु०-राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते
अनु०-साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ।यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ।निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इव गीयतेस्थितस्यानन्यथाप्राप्तेर्दृढिष्ठ इति चोदितः ।बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम्
अनु०-तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया
अनु०-स एक इति संसारगतमुक्तवा सुखं पुनः ।श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम्
अनु०-संसारगाच्च संसारगतस्यैव शताधिकम् ।मुक्तान्मुक्तस्य
अनु०-युक्तं स्याच्छत्युक्तमभिवीक्षतः
अनु०-युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु
अनु०-नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः
अनु०-यत्नश्च दृश्यते तेषां महानेव महात्मनाम्
अनु०-यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।दृष्टं नियमतो
अनु०- नो चेन्न यत्नं कुर्युरञ्जसा
अनु०-कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते
अनु०-दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ।शके्रण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।वर्षायुतं च सूर्येण तपोऽर्वाक्शिरसा कृतम् ।सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।पीता मरीचयो वर्षसाहस्रमतिसादरम् । अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि च । इति
अनु०-एतदखिलं मोक्षविशेषाभावतः कथम्
अनु०-दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।इति मोक्षविशेषश्च स्वयं भगवतोदितः
अनु०-तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ।अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।व्यक्तं वदन्ति
अनु०-तत्केन साम्यं मुक्तेषु गम्यते
अनु०-दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते
अनु०-भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।उक्तं
अनु०-साधनवैचित्र्यमपि सर्वत्र कथ्यते
अनु०-दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च
अनु०-नित्ययुक्तैर्महाभागौर्विमोहक्लेशसाध्वसैः ।महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ।अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।शौचस्वाध्यायसन्तोषतपःसत्त्वदयान्वितैः ।किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।अल्पायुवीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः
अनु०-कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन
अनु०-मुक्तानामपि सिद्धानां नारायणपरायणः ।सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते
अनु०-यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः । ब्रह्मापि यं वेत्ति न चेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ।
अनु०-नमस्तेऽमिततत्त्वाय ब्रह्मादीनां च सूतये ।निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः
अनु०-नाहं परायुर्ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः ।यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ।
अनु०-अहं महेन्द्रो निऋतिः प्रचेताः सोमोऽग्निरीशःपवनोऽर्को विरिञ्चः आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः । अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये । सर्वस्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः । जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ।
अनु०-न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि । यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ।
अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।।न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ।।अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।।्रद्धावाननसूयश्च शृणुयादपि यो नरः ।सोऽपि मुक्तश्शुभाल्लोकान्प्राप्नुयात्पुण्यकर्मणा ।
अनु०-ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे । अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।
अनु०-सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति । स्वात्मानं भगवान्विष्णुः सर्वरूपोऽपि सर्वदा । सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वदैवेशं पश्यत्येव रमाऽपि तु । न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् ।स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा । ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोऽधिकम् । न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः । मुक्तस्तु सर्वदा पश्येत् सर्वदत्वेन चापि तु ।न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् । स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि । पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ।त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ।
अनु०-गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ।।उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ।रुद्रदृष्टान्विशेषांश्च नैव पश्येत्कदाचन ।।स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहंकृतिः ।।पश्यन्तो मनुदक्षाद्या बुदि्धतत्त्वस्थितं हरिम् ।पश्यन्ति सोमसूर्यौ तु मनस्स्थं परमेश्वरम् ।। अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा । बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ।।अन्ये चैव यथायोगमण्डान्तर्वर्तिनं हरिम् ।श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ।।
अनु०-उमा यादवनन्तांशान्पूर्वदृष्टेभ्य एव तु ।विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते । शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् । उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ।
अनु०-इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।तारतम्यं च मुक्तानां साधनानां च दृश्यते ।
अनु०-साध्यसाधनवैरूप्यम्
अनु०-अदृष्टं केन कल्प्यते
अनु०-वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च
अनु०-सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ
अनु०-तारतम्यात्साधनानां साध्यतादृक्त्वमीशतः ।अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे ।।
अनु०-स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ।अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः
अनु०-नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ।
अनु०-अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।मया कया विरुद्धा स्यात्
अनु०- राजादावपि दृश्यते
अनु०-त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।मायिभ्योऽन्येन केनापि
अनु०- तत्किमन्यैश्च वादिभिः ।मायिनोऽत्रानुगम्यन्ते
अनु०- श्रुतहान्यश्रुतग्रहौ ।अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोधिकाः ।
अनु०-निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ।।
अनु०-भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।
अनु०-तप्यमानाः समान्दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।।
अनु०-यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ।
अनु०-यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते
अनु०-अदर्शनादरत्यादिः कथं तेन निवार्यते
अनु०-ब्रह्मणोऽप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ ।
अनु०-नैव रेमे स चैकाक तस्मान्न रमते क्वचित् ।द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ।
अनु०-यदीच्छा नैव तत्रास्तीत्येव तत्कल्प्यते मृषा ।श्रुत्युक्तनिर्दोषतैवं किन्नाङ्गीक्रियते स्वयम् ।
अनु०-तारतम्यं च कामं च श्रुतमेवातिहाय तु । अश्रुता समता केन कल्प्यते युक्तिमानिना ।
अनु०-किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते
अनु०-वृथाऽयमाग्रहः केन श्रुतहान्यश्रुतग्रहे
अनु०-मोक्षेऽपि तारतम्येतश्चेतनत्वाद्यथा पुरा ।
अनु०-इत्युक्त उत्तरं किं ते
अनु०-कल्पनामात्रवादिनः
अनु०-न च दुःखादिकं कल्प्यं
अनु०- निर्दुःखत्वश्रुतेर्बलात्
अनु०-शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ।येनानन्द्येव भवति न शोचति कदाचन ।किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ।यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ।इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ।
अनु०-अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते
अनु०- श्रुतियुक्तिबलादेव तारतम्यं विभाव्यते ।मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ।
।। अथ कामचाराधिकरणम् ।।
अनु०-अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ।
अनु०-ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान् । कालो ह्ययं यथेत्यादि माऽनुमामानिनो भवेत् ।
अनु०-अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ।प्रयुक्तो नैव दोषाय
अनु०- रुद्रादिषु च युक्तितः
अनु०-उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत्
अनु०-व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च
अनु०-बलज्ञानाधिकत्वं तु तेभ्यो हि ब्रह्मणः सदा
अनु०-आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते
अनु०-ृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।एधमानद्विलुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ।
अनु०-दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनो जाः ।अहन् दासावृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ।
अनु०-तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः । तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते । एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वा अन्यन्नवतरं कल्याणतरं रूपं कुरुते । पित्र्यं वा गान्धर्वं वा दैवं प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम् ।
अनु०-प्रयान्ति परमां सिदि्धमैहिकामुष्मिकं द्रुतम् ।या न प्राप्याऽसुरैः सर्वैरक्षय्या क्लेशवर्जिता ।न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ।
अनु०-अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परं भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।
अनु०-महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।
अनु०-मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।
अनु०- इत्यादिवाक्यसन्दर्भैर्ज्ञायतेऽनादियोग्यता
अनु०-यद्यनादिविशेषो न साम्प्रतं कथमेव सः
अनु०-अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः
अनु०-आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ।
अनु०-अदृष्टाच्चेद्विशेषोऽयमनादित्वं कुतो न तत्
अनु०-न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ।दृश्यते
अनु०- प्रत्यभिज्ञैव बहुरूपेषु दृश्यते
अनु०-बहुत्वं च विशेषेण
अनु०-न भेदेन कथञ्चन
अनु०-प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्टदृष्टयः
अनु०-भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ।
अनु०-एवं बृहत्संहितायां वचनं
अनु०-न पुराणगम् ।लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ।
अनु०-अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।निषेद्धुं शक्नुयात्क्वापि
अनु०- देवदत्तादिदृष्टिवत्
अनु०-न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ।वाक्यं क्वचिदि्ध
अनु०- सम्मुग्धं दर्शनं तत्र गम्यते
अनु०-अपरीक्षितमेवात्र वेधादिकमधीशितुः ।परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ।
अनु०-निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः । निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः । इति बर्कश्रुतेश्चैव सदोषं नास्य दर्शनम्
अनु०-अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ।
अनु०-अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ।परीक्षादर्शने नैव दोषो दृश्यो हरेः क्वचित् ।इति पैङ्गिश्रुतिश्चाह
अनु०-प्रमाणं हि परीक्षितम् ।
अनु०-न परीक्षाऽनवस्था स्यात्
अनु०- साक्षिसिद्धे त्वसंशयात्
अनु०-मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने
अनु०-सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्
अनु०-इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ।साक्षिसिद्धाः
अनु०-न कश्चिदि्ध तत्र संशयवान्क्वचित्
अनु०-यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्
अनु०-मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा । प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ।
अनु०-न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते
अनु०-नियमेन सुख्याद्येषु प्रामाण्यं साक्षिगोचरम्
अनु०- स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात्
अनु०-ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ।
अनु०-दोषाभावे प्रमाणत्वं
अनु०- दोषाभावस्य साक्षिणा ।निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ।
अनु०-अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् । साक्षिणा निश्चितं यत्र तत्प्रामाण्यं स्वलक्षणम् ।
अनु०-न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ।न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ।तस्मादनुभवारूढं किमर्थमपलप्यते ।
अनु०-दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति
अनु०-तत्परीक्षितमानेन न दोषो विष्णवि क्वचित्
अनु०-अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते
अनु०-तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ।।
अनु०-लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ।
अनु०-आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते
अनु०-न चेत्स्याद्दोषवानन्यः
अनु०- शास्त्रसिद्धं हि लक्षणम्
अनु०-कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत्
अनु०-न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः
अनु०-केचित्पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम्
अनु०-पौराणं वाक्यमेवात्र
अनु०- तच्छत्यैव विरुद्ध्यते
अनु०-पुराणस्योपजीव्यश्च वेद एव
अनु०- न चापरः
अनु०-तद्विरोधे कथं मानं तत्तत्र च भविष्यति
अनु०-अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत्
अनु०-यद्येवं देवदत्तादिभ्रमः किन्नाक्षजं भवेत्
अनु०-यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ।
अनु०-भ्रमेऽप्यभ्रमभागोऽस्ति
अनु०- न चैवं
अनु०- सुपरीक्षिते
अनु०-सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः
अनु०-कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् । विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ।उपजीव्यत्वम्
अनु०-एतस्माद्व्यावृत्तं यावता भवेत् ।तावतैवोपजीव्यत्वं
अनु०- स्वरूपस्यैव न क्वचित्
अनु०-सर्वलक्षणयुक्तं च स्वरूपं यदि भण्यते
अनु०-अस्तु
अनु०- नो नैव हानिः स्यात्
अनु०-स्वपक्षश्चायमञ्जसा
अनु०-यस्मादन्वित एवार्थः शब्दानामपि सर्वशः
अनु०-विशेषसामान्यतया स्वरूपमखिलं भवेत्
अनु०-पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।व्यावर्तयन्ति तद्रूपं चैत्रमात्राद्विनैव तु ।
अनु०-ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः
अनु०-यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम्
अनु०-चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः
अनु०-तावन्मात्रं यदीष्टं स्यात्सर्वज्ञत्वं कुतो न तत्
अनु०-चिन्मात्राभेदसाध्येऽपि
अनु०- सिद्धं तत्प्रतिवादिनः
अनु०-स्वाभेदाङ्गीकृतेरेव
अनु०-चित्त्वं स्वस्यापि यन्मतम्
अनु०-सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ।इति चेत्
अनु०- चेतनत्वं च
अनु०- ज्ञत्वं
अनु०- न ज्ञेयवर्जितम्
अनु०-स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः
अनु०-स्वशब्दोऽपि परापेक्षः
अनु०-तस्माद्व्यावृत्तिरेव हि ।स्वशब्दार्थ इति प्रोक्तः
अनु०- स्वरूपं नाम किन्न चेत् ।न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वपदस्य यत् । रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः ।
अनु०-चेतनस्य स्वभावो हि चैतन्यमिति गीयते
अनु०-तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः
अनु०-न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत्
अनु०-ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा
अनु०-ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः ।हीनं भोजनमेव स्यात् ताडनं कर्तृ ताड्यतः ।
अनु०-नित्यत्वात् तादृशं च स्यादिति चेत् नित्यत्वमकार्यत्वस्योपलक्षणम् । अनित्यस्य भोजनादेर्भोक्त्राद्यपेक्षायामपीदं नित्यत्वात् तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः । नोत्पादकमेव कारकम् । तथा सत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात् । किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि ।
अनु०- नित्यवागपि । वाच्यवक्तृविहीना स्यात्
अनु०-द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा
अनु०-नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ।न हि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित् ।
अनु०-ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत्
अनु०-न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः ।ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ।
अनु०-किञ्च सर्वविलोपश्च केन मानेन गम्यते
अनु०-सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ।तदभावेन सर्वस्य नापलापो भवेत्तदा ।
अनु०-उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते
अनु०-उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।श्रुत्यादौ पूर्वपूर्वं च
अनु०- ब्रह्मतर्कविनिर्णयात्
अनु०-प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।विरुध्यन्ते, न चार्थोऽस्ति यत्र, लिङ्गविरोधिता ।स एवार्थः कथं ग्राह्यः
अनु०- उपपन्नेऽविरोधिनि
अनु०-अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि
अनु०-अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा
अनु०-ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ।
अनु०-तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः
अनु०-कृच्छे्रणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ।बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ।
अनु०-न च स्वभाव एवायं भयपूर्वप्रवृत्तितः
अनु०-कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः
अनु०-तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा
अनु०-फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत्
अनु०-निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।
अनु०-शुभेनानन्दवृदि्धः स्याद् ह्रासश्चैवाशुभेन हि ।ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ।
अनु०-उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि ।अस्माद्ध्येवात्मनो यद्यत्कामयेत्सृजते च तत् ।
अनु०-यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ।इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ।
अनु०-न चात्रोपासकस्यैव फलमक्षयमुच्यते
अनु०-न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत्
अनु०-ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता
अनु०-ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं
अनु०-न चान्यथा
अनु०-पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ।प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ।
अनु०-ज्ञानात्पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये ।अकाम्यानि
अनु०-निषिद्धानि ज्ञानरोधाय भुक्तये
अनु०-योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य कारणम् ।
अनु०-ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते
अनु०-ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते
अनु०-परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा
अनु०-स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोऽपरः
अनु०-इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।वदन्ति श्रुतयः
अनु०- सोऽयं विशेषोऽपि ह्युदीर्यते ।भक्तिज्ञानमिति क्वापि
अनु०- न हि द्वेषयुता दृशिः ।पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ।
अनु०-चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा । मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथाऽपरम् ।नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि । काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ।द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ।
अनु०-असन्मुक्तेः कारणं च
अनु०-मुक्तावित्यत्र केशवः । मुक्तिशब्दोदितो
अनु०- मोक्षं स्वभक्तानां करोति यत्
अनु०-द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम्
अनु०-भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।वदन्ति श्रुतयस्सर्वाः पुराणान्यागमा अपि ।
अनु०-यदि द्वेषेणः मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः
अनु०-यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ।वाक्यं
अनु०-श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ।
अनु०-तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ।
अनु०-महातात्पर्यरोधेन कथं वाक्यं प्रमाणताम् ।याति
अनु०-सर्वार्थरूपं हि महातात्पर्यमिष्यते
अनु०-वाचकत्वं हि तात्पर्यं
अनु०-यदर्था अखिला रवाः ।सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ।
अनु०-अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत्
अनु०-यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ।।भक्त्या प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् ।तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ।। नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ।
अनु०-न च प्रसादमाप्नोति द्वेषाद्भक्तया तमाप्नुयात् ।इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईर्यते ।
अनु०-ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् । त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ।अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ।
अनु०-दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ।अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः ।एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ।
अनु०-तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।कर्तव्या
अनु०-एषाऽपि तद्भक्तिः
अनु०- लोकवेदानुसारतः
अनु०-यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् ।दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ।
अनु०-व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते
अनु०-भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान्
अनु०-तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा
अनु०-स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते
अनु०-तारतम्यपरिज्ञानमप्येतेनैव साधनम्
अनु०-लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रा गिरां पतिः ।सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ।तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।
अनु०-सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ।तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् । इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ।हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः । हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ।तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि । नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ।इति प्रवृत्तवचनं साधनस्य विनिर्णये ।
अनु०-प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ।
अनु०-हरिद्वेषो न शुभदः सद्द्वेषत्वाद्यथा गुरोः ।क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियोपगा ।भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ।
अनु०-प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ।इति वा .. ।
।। अथ उभयलिङ्ग-आधिकारिकाधिकरणे ।।
अनु०- ज्ञानकर्मादिफलं चैषु क्रमोपगम्
अनु०-स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत्
अनु०-अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः ।आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ।
अनु०-पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात् ।इत्यादिश्रुतयो मानमुक्तेऽर्थे
अनु०- युक्तयोऽपराः
अनु०-उपासनाधर्मफलं यतो देहान्तरे स्थितिः । वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः । प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः । हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः ।
अनु०-अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।सर्वप्राणिगतं देवाः प्राप्नुवन्त्याविरिञ्चतः ।
अनु०-देवा एव हि देवानां विशिष्टा विनियामकाः
अनु०-ब्रह्मा त्वखिलदेवानां नराणा• च नियामकः । अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ।
अनु०-द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम् ।बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।
अनु०- लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते
अनु०-एवञ्च कलिपूर्वाणामसुराणां महत्फलम् ।अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ।
अनु०-शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः । प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ।
अनु०-यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ।
अनु०-तस्मान्निरयमानुष्यस्वर्गमुक्तयुपभोगिनः । मानुषोत्तममारभ्य
अनु०-देवास्तु निरयं विना ।असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ।इति तत्त्वविवेकोक्तं स्वयं भगवतो वचः ।
।। अथ फलश्रुत्यधिकरणम् ।।
अनु०-ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः
अनु०-मुक्तावष्टगुणं शिष्याद्गुरुराप्नोति शोभनम् ।तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे । देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ।ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ।
अनु०-युक्तं च तत्
अनु०- न गोदाता गोमात्रफलमाप्नुयात्
अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतमो भुवि ।।इत्याह भगवान्
अनु०-एवमपि
अनु०- पात्रमपेक्ष्यते ।
।। अथ अनाविष्काराधिकरणम् ।।
अनु०-एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लभ्यते ।
।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।

अध्याय 1

अनु०-नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।
अनु०-भोगः
अनु०- शरीरपर्यन्तं
अनु०-भस्मीभावस्ततो भवेत् । इति
अनु०-तत्केन मानेन दृष्टं
अनु०-प्रत्यक्षवादिना
अनु०-न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते
अनु०-घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा
अनु०-नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते
अनु०-साधयन् सर्वसामान्यं कथमेव विशेषवान्
अनु०-दृश्यन्ते पुरुषा लोके परापरविदोऽपि च । अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः । प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः । ज्ञानविज्ञानपारज्ञा
अनु०-निषिध्यन्ते कथं नृभिः
अनु०-दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम्
अनु०-यदि तेऽपि निषिध्यन्ते किं नोक्तिस्ते निषिध्यते
अनु०-यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते
अनु०-वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि
अनु०-अप्रामाण्यं तदुक्तेश्च वृथावाचाऽवसीयते
अनु०-न हि प्रयोजनं किञ्चित्परलोकनिवारणात्
अनु०-वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम्
अनु०-स्वजीवनविरोधाय वदन् किन्नाम बुदि्धमान्
अनु०-प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः । यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन्
अनु०-अतः प्रत्यक्षगम्यत्वाद्वेदमात्रस्य च स्फुटम्
अनु०-यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत्
अनु०-यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत्
अनु०-लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्ध्यति
अनु०-अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च
अनु०-प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने । तद्वाक्यात् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च
अनु०-धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् । इति जैनाः
अनु०- कथं तत्स्यात्प्रमाणमनुमानतः
अनु०-विषयान्प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।प्रत्यक्षशब्दानुसारादनुमेति प्रकर्तिता । आसमन्ताद्गमयति धर्माधर्मौ परं पदम् ।यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः
अनु०-एतेन कारणेनैव तत्तन्मानत्वमिष्यते
अनु०-स्वरूपं हि तदेतेषाम्
अनु०- अन्यथाऽसिदि्धमानतः
अनु०-अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत्
अनु०-स्वरूपे पुद्गलस्योक्ता दोषाः
अनु०- आनन्दमेव च ।न मन्यते पुद्गलं स
अनु०- दुःखाभावः सुखं त्विति
अनु०-मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात्
अनु०-सुखस्याभावता केन
अनु०-न च स्यात्किं विपर्ययः
अनु०-यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः
अनु०-यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति
अनु०- भावता ।अभावाभावतैव स्यात्किन्नश्छिन्नं तदा भवेत्
अनु०-भावत्वं विधिरूपत्वं निषेधत्वमभावता
अनु०-निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत्
अनु०-प्रथमप्रतिपत्तिस्तु भावाभावनियामिका
अनु०-न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित्
अनु०-अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि
अनु०-न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते
अनु०-यदि पुद्गलविज्ञानाद् अदुःखी स्यात् कथञ्चन । देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा
अनु०-ईशक्ऌप्त्यनुसारेण स्यात्कालादीशवादिनः
अनु०-कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित्
अनु०-अशेषदुःखविलये नेदानीं कारणं यथा । तथोत्तरं न चैव स्यात्
अनु०- दृष्टिपूर्वाऽनुमा यतः
अनु०-शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।तयैव बन्धहानिः स्यादिति किन्नाम दूषणम्
अनु०-स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित्
अनु०-अहिंसायाश्च धर्मत्वं केन मानेन गम्यते
अनु०-हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम्
अनु०-धर्मस्य सुखहेतुत्वमपि केनावगम्यते
अनु०-हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते
अनु०-न च शून्यपरिज्ञानाच्छून्यभावनयाऽपि च ।मोक्षः कथं च न भवेत्
अनु०- यदीदानीं कथं न सः ।
अनु०-परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विलम्बः किं कृतो भवेत्
अनु०-अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः
अनु०-अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते
अनु०-कारणे सति कार्यस्य भावः सुनियतोऽस्य हि
अनु०-विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् । विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित्
अनु०-अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् । भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते
अनु०-प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् । इति साङ्ख्याः
अनु०-न चैतस्मिन्मानम्
अनु०-ईशाप्रसादतः
अनु०-श्रुतयः स्मृतयश्चैव यदेशस्य प्रसादतः ।वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत्
अनु०-कणादयोगाक्षपादा अपि
अनु०- ईशस्य प्रसादतः । मुक्तिं ब्रुवाणा अप्याहुः
अनु०-भोगादेव च कर्मणाम् । क्षयं प्राहुः
अनु०-कुतश्चैतत्प्रसन्ने जगदीश्वरे
अनु०-भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे । इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः
अनु०-न च पाशुपताद्युक्तशिवादीनामनुग्रहात्
अनु०-नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ
अनु०-सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ
अनु०-न तस्येशे कश्चन तस्य नाम महद्यशः । इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ । विश्वतः परमां नित्यं विश्वं नारायणं हरिम् । इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः
अनु०-समाधिकस्य राहित्यान्नोपचारपुमानसौ
अनु०-पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ।मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः
अनु०-अमृतेशानवचनात् सर्वस्येशानतोदिता
अनु०-यदि सर्वत्वमुदितमुतेश इति तद्वृथा
अनु०-उतशब्दो वदेदेष हीशत्वस्य समुच्चयम्
अनु०-पुरुषेणैवेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति
अनु०-एतावानस्य महिमेति महिम्नो वचो हि तत्
अनु०-सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च । उतामृतस्येश इति विधत्ते मुक्तिगेशताम्
अनु०-अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः
अनु०-तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत्
अनु०-यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा
अनु०-सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते
अनु०-नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।मुच्यते संसृतेश्च
अनु०- एतदप्येतेन निराकृतम्
अनु०-विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट्
अनु०-विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः । नान्यः पन्था इति ह्येव निवारयति सादरम्
अनु०-अन्यथोपासनमपि तमेवमिति वादिनी ।निवारयत्यादरेण
अनु०-न प्रतीक इति प्रभुः
अनु०-अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत्
अनु०-न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते
अनु०-इति सर्वं प्रतिज्ञाय सर्वैस्तर्कैः सदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः
अनु०-ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ।
।। अथ विद्याधिकरणम् ।।

अध्याय 4

अथ चतुर्थाध्यायः
।। अथ आत्मोपगमाधिकरणम् ।।
।। अथ प्रतीकाधिकरणम् ।।
।। अथ ब्रह्मदृष्ट्यधिकरणम् ।।
।। अथ तदधिगमाधिकरणम् ।।
अथ चतुर्थाध्यायस्य द्वितीयः पादः
।। अथ अनेकलयाधिकरणम् ।।
।। अथ परा(लया)धिकरणम् ।।
अथ चतुर्थाध्यायस्य तृतीयः पादः
अथ चतुर्थाध्यायस्य चतुर्थः पादः