Padyamala/Vyakhya/Bhavadipika
भावदीपिका
अध्याय 1
नमोऽगणितकल्याणगुणपूर्णाय विष्णवे। सत्याशेषजगज्जन्मपूर्वकर्त्र मुरद्विषे ।। 1 ।।
अमन्दान्दसन्दोदेहाहायेन्दीवरत्विषे। इन्दिरास्याब्जपीयूषजुषे कंसद्विषे नमः ।। 1 ।।
प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान्। वादावलीं यथाबुद्धि व्याख्यास्यामि सतां मुदे ।। 2 ।।
मूलम्--ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी। विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजतवदित्यनुमानविरोधादिति। मैवम्। मिथ्यात्वानिरुक्तेः।
मूलम्-तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्ययोरन्यरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा। नाद्यः। विकल्पासहत्वात्।।
अध्याय 2
लक्षणप्रमाणाभ्यां वस्तुसिद्धेरनिर्वचनीये च तयोर भावात्तदप्रसिद्धमिति भावेन लक्षणं तावद्दूषयितुं प्रतिजानीते।। तथा हीति। अनिर्वचनीयमित्यत्र नञ्तत्पुरुषबहुव्रीही आश्रित्य निर्वचनरूपाभिलपनाभावो वा निर्वचनयोग्यार्थशून्यत्वं वेति भावेन विकल्पयति।। किमिति ।। स्वेति।। शुक्तिरूप्यं प्रपञ्चोऽनिर्वचनीयमित्यादि व्यवहारविषयत्वस्याभ्युपगमान् मूकोऽहमितिवत्स्वक्रियाविरोध इत्यर्थः। अर्थशून्यत्वमित्यत्रापि द्वेधा विकल्पमाह।। सत्त्वेति। क्रमेण द्वावपि दूषयति।। नाद्य इत्यादिना । उपलक्षणं चैतत्। सदसदुभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति च बोध्यम्। न चासतो निस्स्वरूपत्वाद् ब्रह्मणश्च निर्धर्मकत्वात्कथं तत्र सत्त्वविरहासत्वविरहौ धर्मौ स्यातामिति वाच्यम्। तयोर्निःस्वरूपत्वनिर्धर्मकत्वरूपधर्मवत्त्वयोच्यमानधर्मनिषेधवच्च सत्त्वविरहासत्त्वविरहरूपधर्मयोरप्युपपत्तेः। अन्यथाऽसद्ब्रह्मणोः सत्त्वासत्त्वे स्यातामिति भावः। ननु सदसद्वैलक्षण्यं तत्त्वं विवक्षितम्। एवञ्चासति सद्वैलक्षण्यस्य ब्रह्मण्यसद्वैलक्षण्यस्य सत्त्वेऽपि नोभयवैलक्षण्यमस्तीति शङ्कते। अथेति।। सत्त्वे सति यदसदुभयात्मकं तद्वैलक्षण्यमनिर्वाच्यत्वमित्यर्थः। उत सद्विलक्षणत्वे सत्यसद्विलक्षणत्वमिति वैलक्षण्यसमुच्चयो वेति विकल्प्याद्यं दूषयति।। तदेति। तर्हीत्यर्थः। सदेकरूपताऽभ्युपगमेनेति भावः। द्वितीयं शङ्कते।। अथेति।। दूषयति ।। तथाऽपीति। असद्ब्रह्मभ्यां वैलक्षण्याभ्युपगमेनेत्यर्थः। ब्रह्मणः सत्त्वादिति भावः।। प्रस्तुतेति। सिद्धासाधनत्वमित्यर्थः। उपलक्षणमेतत्। उभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वं च बोध्यम्। न च सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सत्युभयवैलक्षण्यं विवक्षितमिति वाच्यम्। केवलसत्त्वेनाप्युपत्तेः। ननु सत्त्वासत्त्वानधिकणत्वं विवक्षितम्। एवञ्च जगतो ब्रह्मवैलक्षण्येऽपि सत्त्वाधिकरणत्वान्नोक्तदोष इत्याशङ्क्याह।। एतेनेति। सदसद्वैलक्षण्यदूषणेनेत्यर्थः। तथा हि। सत्त्वविशिष्टसत्त्वानधिकाणत्वं वा प्रत्येकं सत्त्वानाधिकरणत्वे सत्यसत्त्वानधिकरणत्वं वा सत्त्वानाधिकरणत्वे सत्यसत्त्वानधिकरणत्वे सति सदसत्त्वानधिकरणत्वं वा। नाद्यः। सत्त्वैकाधिकरणत्वेन सदसत्त्वानधिकरणत्वाभ्युपगमेन सिद्धसाधनत्वात्। न द्वितीयः। असत्त्वानधिकरणत्वांशमादायांशतः सिद्धसाधनात्। किञ्च निर्धर्मकब्रह्मवत्सत्त्वादिराहित्येऽपि सद्रूपत्वोपपत्त्याऽर्थान्तरत्वं च। सत्त्वादिधर्माणामननुगतत्वेन ब्रह्मगतसत्त्वानधिकरणत्वेना सत्त्वानधिकरणत्वेन चोक्तदोषादित्यर्थ इत्यप्याहुः। न तृतीयः। केवलसत्त्वाधिकरणत्वेऽप्युपपत्त्याऽर्थान्तरत्वादिति। ननु सत्त्वेनासत्त्वेन च विचारासहत्त्वं तत्त्वम्। एवञ्च नोक्तदोष इत्याशङ्क्यानुक्तोपालम्भताव्युदासाय चित्सुखोक्तवचनमेव पठति।। प्रत्येकमिति। सदसत्त्वाभ्यामित्युपलक्षणम्। सदसत्त्वेन चेत्यपि बोध्यम्।। अप्रसिद्धत्वेनेति।। तत्प्रसिद्धिसाधकानुमानस्य चाग्रे निरासादिति भावः। अप्रसिद्धेति। विमतं मिथ्येत्यत्र सत्त्वेनासत्त्वेन सदसत्त्वेन च विचारासहमिति साध्यनिर्देशः स्यात्। तथा चाप्रसिद्धत्वमित्यर्थः ।
किञ्च सत्त्वेनासत्त्वेन चेत्यत्र सत्त्वासत्त्वयोः परस्परप्रतिषेधानात्मकयोः पारिभाषिकयो राहित्यविवक्षायां सिद्धसाधनम्। अस्मदभिमतयो राहित्यविवक्षशयां त्वस्माभिर्लाघवादवश्यकत्वाच्च सत्त्वाभाव एवासत्त्वमिति स्वीकारात्। द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वान्मे माता वन्ध्येतिवद्रव्याघात इत्याह।। असत्त्वेति।। निपतितत्वेन प्राप्तत्वेनेत्यर्थः। नियतत्वेनेति पाठे आवश्यकत्वेनेत्यर्थः। यद्वा सत्त्वासत्त्वयोः परस्परविरह व्याप्यत्वमित्यभिप्रेत्य व्याघातोक्तिरियं बोध्या। व्याप्तिश्चाग्रे आत्मादौ साधयिष्यत इति भावः। तथा चासत्त्वविरहस्य सत्त्वव्याप्यत्वेना सत्त्वविरहं व्याप्यमङ्गीकृत्य तद्व्यापकं सत्त्वमङ्गीकृत्य सत्त्व विरहेऽङ्गीकृते व्याघात इत्यर्थः। यद्वाऽसत्त्वविरहमङ्गीकृत्य पुनः सतत्वविरहेऽङ्गीक्रियमाणे सत्त्वविरहव्यापकस्यासत्त्वस्य चाङ्गीकर्तव्यत्वेन पूर्वाङ्गीकृतस्यासत्त्वविरहस्य परित्यागादङ्गीकृतपरित्यागेन व्याघात इत्यर्थः।
प्रपञ्चगतसदसद्वैलक्षण्यस्याप्य निर्वचनीयत्वे को दोष इत्यत आह।। यथेति। खल्विति दृष्टान्तस्य सुप्रसिद्धतामाह।। अनिर्वचनीयताया इति। जगत इत्यनुकर्षः।। तदभाव इति। सदसद्वैलक्षण्याभाव इत्यर्थः। ध्रुव इत्यनेनेदं सूचयति सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्यानिर्वाच्यत्वे उक्तरीत्या जगतः सदसद्वैलक्षण्याभावेन सत्त्वासत्त्वे एव ध्रुवे स्याताम्। अभावाभावे भावनियमात्। एवञ्चादावेव जगतः सदसदात्मकत्वमङ्गीकार्यम्। किञ्च यथा प्रपञ्चे सदसद्वैलक्षण्ये अङ्गीकृत्यातात्त्विकत्वेन विरोधपरिहारस्तथा सत्त्वासत्त्वे एवाङ्गीकृत्यातात्त्विकत्वेन विरोधपरिहारः कार्यः। एवञ्च चतुर्थः प्रकारोऽपि नाङ्गीकर्तव्य इति लाघवं च स्यात्। किञ्च सत्त्वविरहासत्त्वविरहयोर्द्वयोरप्यतात्त्विकत्वमुच्यत उतान्यतरस्यातात्त्विकत्वम्। नाद्यः। सत्त्वासत्त्वयोस्तात्त्विकत्वस्य ध्रुवत्वेन तयोर्दुर्निरूपत्वस्याप्ययोगात्। उभयतात्त्विकत्ववदुभयविरहातात्त्विकत्वस्यापि विरोधाच्च। न द्वितीयः। तत्प्रतियोगिनोः सत्त्वासत्त्वयोरन्यतरतात्त्विकस्य ध्रुवत्वापत्तेः। अतात्त्विकात्यन्ताभावप्रतियोगिनस्तात्त्विकत्वनियमादिति। ननु यदुक्तमसत्त्वविरहे सत्त्वस्य सत्त्वविरहेऽसत्त्वस्य नियतत्वेनोभयविरहितत्वं व्याहतमेवेति तदयुक्तम्। व्याप्त्यसिद्धेः। न तावत्प्रपञ्चे व्याप्तिग्रहः। तस्य पक्षत्वात्। नापि शुक्तिरूप्ये। तस्य त्वन्मतेऽसत्त्वात्। मन्मते चोभयविलक्षणत्वात्। नाप्यसति। तत्र सत्त्वाभावात्। नाप्यात्मनि। तत्र सत्त्वस्यात्मत्वप्रयुक्तत्वेनासत्त्वविरहाप्रयुक्तत्वादित्यभिप्रायं हृदि निधाय शङ्कते।। असत्त्वेति। इत्यादीत्यादिशब्देन सत्त्वविरहेऽसत्त्वमित्यस्य ग्रहणम्। यद्यपीदं चोद्यं व्याहतमेवेति वाक्यानन्तरमेव कार्यम्। व्याहत्युपपादकहेत्व सिद्ध्यर्थत्वात्। न तु निषेधेत्यादिचोद्यमुदीर्य तेनैतच्चोद्यसमाधानानन्तरं कर्तव्यम्। तथाऽपि व्याप्तौ वक्तव्यस्य बहुत्वेन व्यवधानेनात्र चोद्यं कृतमिति न दोषः।
यद्वोक्तव्याहतिं सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्याभावे सदसदात्मकत्वमेव ध्रुवं स्यादित्युक्तदोषमप्युद्धर्तुमत्र कृतमिति बोध्यम्। निषेधति।। नेति। हेतुमाह।। आत्मादाविति। आदिशब्देनासत्परिग्रहः। असत्त्वविरहे सत्त्वमित्यस्यात्मनि सत्त्वविरहेऽसत्त्वमित्यस्यासति व्याप्तिग्रहसम्भवादित्यर्थः।
ननु साङ्ख्यवेदान्तिनां तु करणव्युत्पत्त्या बुद्धिवृत्तिर्न ज्ञानमिति विवरणोक्तेर्वृत्तेर्ज्ञप्तित्वं नेति नोक्तदोष इति चेन्न। वृत्तेर्ज्ञानत्वाभावे परोक्षवृत्तिविषयेष्वज्ञाननिवृत्ति व्यवहारस्मृतीनामनुपपत्तेः। तासां ज्ञप्तिकार्यत्वात्। धर्माधर्मादिकं जानामीति वृत्तेर्ज्ञप्तित्वावगाह्यनुभवविरोधादिति भावः। पक्षैकदेशाव्यावृत्तेरित्युपलक्षणम्। आत्मरूपं ज्ञानं किं स्वविषयं परविषयं वेत्यादिना जडत्वहेतुदूषणप्रस्तावे वक्ष्यमाणरीत्याऽऽत्मनो ज्ञानत्वाभावेन साध्याव्यापकत्वादित्यपि बोध्यम्। एतेनानन्दत्वमात्मत्वमित्यपि परास्तम्। पक्षभूतप्रपञ्चान्तर्गतजन्मादिमतो वैषयिकानन्दरूपपक्षैकदेशाद्व्यावृत्तत्वेनोक्तदोषात् । न च विवरणे संसारे वैषयैरभिव्यज्यमानमप्यात्मस्वरूपं सुखमेवेत्युक्तत्वेन वैषयिकानन्दस्यात्मस्वरूपत्वेन पक्षान्तर्गततैव नेति नोक्तदोष इति वाच्यम्। तथात्वे नीरपानजात्क्षीरपानजं सुखमधिकमित्यनुभवेन सैषानन्दस्य मीमांसेत्यादिश्रुत्या साधनतारतम्यादियुक्त्या च सिद्धस्यानन्दतारतम्यस्यानुपपत्तेः। न चाभिव्यक्तितारतम्यमेव न त्वानन्दतारतम्यमिति वाच्यम्। अखण्डे स्वरूपानन्देऽभि व्यक्तितारतम्यस्याप्ययोगात्। न च दुःखाभावतारतम्येन तदुपपत्तिः। दुःखस्य सर्वात्मनाऽभावेऽपि सुखतारतम्यानुभवात्। अन्तःकरणवृत्तिज्ञान वत्तद्वृत्तिरूपसुखाभावेऽहं सुखीत्यनुभवायोगात्। मुमुक्षोर्वैषयिकसुखे वैराग्यानुपपत्तेश्च। आनन्दत्वस्य सत्त्वेऽप्रयोजकत्वाच्चेति।। आत्मन्यभावादिति। शुद्धात्मनो ज्ञानरूपत्वेन तदाधारत्वस्य त्वन्मतेऽभावेन साध्याव्यापकत्वादित्यर्थः। ननु कल्पितात्मनां तदाधारत्वमस्तीत्यत आह।। तद्वत इति। ज्ञानवत इत्यर्थः। तस्यात्मनः। तथा च ज्ञानाधारत्वस्य पक्षैकदेशादव्यावृत्तेस्तुरीयपक्षोक्तदोष इत्यर्थः। एतेन ज्ञातृत्वमात्मत्वमिति निरस्तम्। शुद्धात्मन्यभावात्। तद्वतस्तस्य पक्षनिक्षेपादिति।। उपरीति। दृश्यत्वहेतुदूषणावसर इत्यर्थः। तथा च साध्याव्यापकतेति भावः।।
आत्मनीति। त्वन्मते आत्मनः सर्वशब्दावाच्यत्वेनात्मपदवाच्यत्वाभावात्साध्याव्यापकत्वेन नोपाधित्वमिति भावः। आत्मशब्दवाच्ये देहादौ सत्त्वेन पक्षैकदेशादव्यावृत्तेश्चेत्यपि बोध्यम्।। पक्षाव्यावृत्तेरिति। अनात्मनोऽप्यात्मपदलक्ष्यत्वस्य भावेन साधनव्यापकत्वमिति भावः। एतेनात्मपदप्रतिपाद्यत्वमात्रमात्मत्वमित्यपि निरस्तम्। तत्पदलक्ष्येन्द्रियादौ सत्त्वेन पक्षैकदेशादव्यावृत्तेः। एतेनाहन्त्वमात्मत्वमित्यपि परास्तम्। पक्षैकदेशादहङ्कारादव्यावृत्तेः। आत्मन्यभावाच्च। न च प्रत्यक्त्वं वा चेतनत्वं वाऽऽत्मत्वमिति वाच्यम्। उक्तकल्पेभ्यस्तयोर्बहिर्भावाभावात्।
अध्याय 3
एवमनिर्वाच्यत्वलक्षणं खण्डयित्वा तत्र प्रमाणमपि दूषयितुं प्रतिजानीते।। किञ्चेति। नन्वनिर्वाच्यत्वे कथं मानाभावः। विमतं सदसद्विलक्षणं बाध्यत्वाद्व्यतिरेकेण ब्रह्मवत्। सत्त्वासत्त्वे एकवस्तुनिष्ठत्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदिति वा चित्सुखोक्तानुमानस्य सच्चेन्न बाध्येतासच्चेन्न प्रतीयेतेत्यर्थापत्तेश्च सत्त्वादित्याशङ्क्याद्यानुमाने दूष्यभागं प्रतिज्ञांशानुवादेन दूषयति।। विवादेति। सदसद्विलक्षणं न वेति विवादविषयीभूतं शुक्तिरूप्यादीत्यर्थः। अत्र विवादपदत्वस्य पक्षतावच्छेदकत्वेनोपादाने पूर्वोक्ताशयोऽनुसन्धेयः। सदसद्विलक्षणमित्यत्र किं सत्त्वे सत्यसद्रूपविशिष्टप्रतियोगिकविलक्षणत्वं वाऽभिप्रेतं किं वा सद्वैलक्षण्यासद्वैलक्षण्यरूपं धर्मद्वयं यद्वा सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपं न वेति विकल्प्य नाद्य इत्याह।। पक्षस्येति। सदसदुभयात्मकस्य प्रतियोगिनोऽप्रसिद्ध्या तद्वैलक्षण्यमप्रसिद्धमिति भावः। उपलक्षणमेतत्। मन्मतेऽसदेकस्वभावे शुक्तिरूप्यादौ सदसद्रूप विशिष्टप्रतियोगिकवैलक्षण्यस्य सिद्धत्वेन सिद्धसाधनादिति ज्ञेयम्। विशिष्टवैलक्षण्यस्य विशेषणसद्वैलक्षण्येनाप्युपपत्तेः। द्वितीयेऽपि द्वित्वावच्छिन्नवैलक्षण्यद्वयं साध्यमुतोभयसाहित्यमात्रम्। आद्य आह।। पक्षस्येति।। पूर्वोक्तरीत्या सद्वैलक्षण्यासद्वैलक्षण्ये व्याहते इत्युभयमेकत्रासिद्धमिति भावः। द्वितीये ब्रह्मवैलक्षण्यमादायांशतः सिद्धसाधनात्। न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवतीति बहिरेव बोध्यम्। तृतीयेऽप्याह।। पक्षस्येति। विशेषणविशेष्यभावापन्नयोः सद्वैलक्षण्यासद्वैलक्षण्ययोरैकाधिकरण्य रूपसाध्यतावच्छेदकावच्छिन्नयोरप्रसिद्धेरिति भावः। उपलक्षणमेतत्। विमतं सदसदात्मकं बाध्यत्वाव्द्यतिरेकेण ब्रह्मवदित्याभाससाम्यं च बोध्यम्। नन्वत्र पक्षस्याप्रसिद्धविशेषणतेति नोपपद्यते साध्यधर्मविशिष्टधर्मिण एव पक्षत्वात्। यदाहुः साध्यधर्मविशिष्टः पक्ष इति। न हि साध्यधर्मविशिष्टस्य साध्यधर्मो विशेषणम्। आत्माश्रयप्रसङ्गादिति चेदाहुः। पक्षपदेन तदेकदेशो धर्मी लक्ष्यते। यद्वाऽप्रसिद्धं विशेषणं यस्मिन् पक्ष इति बहुव्रीहिमाश्रित्य मुख्यार्थ एव यद्वर्मेणास्य पक्षता तद्धर्मांशोऽप्रसिद्ध इति। ननु कथमप्रसिद्धविशेषणत्वं दोषः। न च सन्दिग्धसाध्यवान् पक्ष इति तल्लक्षणात्साध्यस्यैवाप्रसिद्धत्वे तत्कोटिकसन्देहासम्भवान्न पक्षतेति पक्षताविघटकत्वेन तस्य दोषत्वमिति वाच्यम्। सिषाधयिषाविरहसहकृतसाधकमानाभावस्यैव पक्षत्वेन सन्देहानपेक्षत्वात्। सन्देहापेक्षत्वे वा, शब्दोऽभिधेयः प्रमेयत्वादित्यादाभिधेयत्वं शब्दनिष्ठात्यन्ताभावप्रतियोगि न वेतिवत्सत्त्वासत्त्वे शुक्तिरूप्यनिष्ठात्यन्ताभावप्रतियोगिनी न वेति सन्देहसम्भवात्। नापि साध्यस्यासिद्धत्वात्तन्निरूपितव्याप्तिग्रहासम्भवाव्द्याप्तिविघटकत्वेन दोषतेति। व्यतिरेकिणि व्यतिरेकयोरेव व्याप्त्या साध्यसाधनयोर्व्याप्तेरग्रहादिति चेन्मैवमवादीः। व्यतिरेकज्ञानार्थमपि साध्यज्ञानस्यापेक्षितत्वात्। अभावज्ञाने प्रतियोगिज्ञानस्यापेक्षितत्वात्साध्यस्य च प्रतियोगित्वात्। ननु यत्र केवलव्यतिरोकिणि भाव एव साध्यस्तत्र तदभावज्ञानार्थं साध्यज्ञानापेक्षा। यत्र त्वभावः साध्यस्तत्र साध्याभावस्य भावरूपतया प्रतियोगिज्ञानं विनाऽपि तज्ज्ञानसम्भवात्। अत एव पृथिवी इतरभिन्नेत्यत्र त्रयोदशान्योन्याभावानामैकाधिकरण्येनाप्रसिद्धावपि तदभावस्येतरत्वस्य भावतया साध्याप्रसिद्धावपि व्यतिरेकव्याप्तिग्रहः सुशक इत्युक्तम्। अत्र वैलक्षण्यस्याभावरूपस्य साध्यत्वान्न दोष इति चेन्मैवं वोचः। साध्याभावव्यापकाभावप्रतियोगित्वमेव व्यतिरेकिणि गमकतौपयिकं रूपम्। तच्च न स्वरूपसत्। तथात्वे व्यतिरेक्याभासोच्छेदापत्तेः। किन्तु ज्ञातमेव। तज्ज्ञानमपि न वस्तुगत्या साध्याभावव्यापकाभावप्रतियोगिज्ञानत्वेन। तथात्वे यत्र पटादौ घटाभावत्वमारोप्य तव्द्यापकतया लोष्ठत्वाभावादि ग्रहीतं तत्र लोष्ठत्वादिना घटाननुमानापातात्। किन्तु साध्याभावत्वेन ज्ञायमानव्यापकाभावप्रतियोगित्वज्ञानत्वेन। एवञ्च साध्याप्रसिद्धौ व्यापकतौपयिकरूपज्ञानमेव दुर्लभमिति।
किञ्च व्यतिरेकसहचारेणान्वयव्याप्तिर्गृह्यत इति मते साध्यप्रसिद्धेरावश्यकत्वादनुमितिरूपविशिष्टज्ञानार्थमपि विशेषणस्य साध्यस्य प्रसिद्धेरवश्यं वक्तव्यत्वाच्चेत्यभावसाध्यक व्यतिरेकिण्यप्रसिद्धविशेषणत्वं दूषणमेवेति सुस्थं दोषत्वम्। इदं दूषणं परमतरीत्यैव। यदाहुः। परसिद्धैर्दूषणमिति। न तु स्वमतानुसारेण। स्वमते तस्यादोषत्वात्। तदुक्तमाचार्यैः। आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्। अतिप्रसङ्गाभावादिति। तस्यादोषत्वं चासङ्कीर्णोदाहरणाभावादिना प्रकारान्तरेण शास्त्रे तत्र तत्र समर्थितं बोध्यम्। स्वमतानुसारेण च व्याहत्यादिकं दूषणं बोध्यम्। अत एव तत्त्वोद्योतटीकायां ग्रन्थकारैरित्थमेव विभावितमिति।
किञ्च सत्त्वासत्त्वे एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी न भवतः। परस्परनिषेधात्मकत्वाद्धटत्वाघटत्ववदिति त्वदभिमतसाध्याभावस्यापि साधनसम्भवेन स्वव्याघात इत्यर्थः। केवलान्वयिधर्मेषु व्यभिचारं चाह।। प्रमेयत्वेति। आदिपदेनात्यन्ताभाव प्रतियोगित्वकल्पित त्वादिधर्मपरिग्रहः। तत्र धर्मत्वरूपहेतुसन्त्त्वेऽप्यत्यन्ता भावप्रतियोगित्वस्याभावात्। अन्यथा तेषां केवलान्वयित्वं न स्यादिति भावः।। नन्वौपाधिकधर्माणामुपाध्यनतिरेकात्प्रमात्वमेव परम्परासम्बन्धेन प्रमेयत्वमभिधात्वमेवाभिधेयत्वमिति तदप्यत्यन्ताभावप्रतियोगि। अत एव केवलान्वयिवादे प्रमात्वमेव हि परम्परासम्बन्धाद्धटादौ प्रमेयत्वमिति मणिकृतोक्तमिति चेन्न। दृक्त्वव्यतिरेकेण दृश्यत्वाभावापत्त्या ब्रह्मण एव दृश्यत्वापत्तेर्दृश्यत्वहेतोर्व्यभिचारासिद्ध्योः प्रसङ्गात्। त्वन्मते षट्पदार्थनियमाभावेन वैशेषिकप्रक्रियादरणायोगाच्च। न च प्रमेयत्वाद्यपि स्वनिष्ठात्यन्ताभावप्रतियोगि। अन्यथाऽऽत्माश्रयादिति न व्यभिचार इति वाच्यम्। मिथ्यात्वदृश्यत्वादिवत्प्रमेयत्वादेरनन्यथासिद्धधीबलेन स्ववृत्तित्वात्। अत्यन्ताभावप्रतियोगित्वे व्यभिचारस्य दुर्वारत्वाच्च। न च प्रमेयत्वादेर्निर्धर्मिकब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वान्न दोष इति वाच्यम्। ब्रह्मणः प्रमेयत्वाभावे वेदान्तानां वैयर्थ्यमित्यलम्। उपाधिमप्याह।। अविरुद्धत्वमिति। रूपरसादौ साध्यव्यापकत्वात्साधनवति पक्षेऽभावेन साधनाव्यापकत्वादिति भावः।
ननु गोत्वाश्वत्वयोर्घटाद्येकवस्तुनिष्ठात्यन्ताभाव प्रतियोगित्वेऽप्यविरुद्धत्वाभावान्न साध्यव्यापकतेति चेन्न। सहानवस्थायित्वपरस्परविरहव्याप्यत्वरूपविरुद्धत्वाभावस्य तत्राभावेऽपि परस्परनिषेधात्मकत्वरूपविरुद्धत्वस्य तत्र भावेन परस्परनिषेधानात्मत्वरूपाविरुद्धत्वस्योपाधित्वेनाभिमतस्य तत्र सत्त्वात्। सत्त्वासत्त्वयोश्च परस्परनिषेधात्मकत्वात्। पूर्वं तयोर्विरहव्याप्यत्वाभ्युपगमेन व्याघातसमर्थनं चाभ्युपेत्यवादेनेति। उक्तं च तत्त्वनिर्णयटीकायाम्। न च गोत्वाश्वत्वादौ साध्याव्यापकता प्रतिषेध्यप्रतिषेधात्मकस्य विरोधस्य विवक्षितत्वादिति
अध्याय 4
अत्रार्थापत्तौ व्याप्त्यादिविघटयितुं तन्मूलव्याप्ति ग्रहौपयिकतर्कशरीरप्रविष्टसच्छाब्दार्थं पृच्छति।। सच्चेदिति। ।। सत्तेति। सत्ताजातियुक्तमित्यर्थः।। सत्तायुक्तस्येति। आत्मनो निर्धर्मकत्वेन सत्ताया अभावादनात्मन्येव सत्ताङ्गीकारेण तस्य च बाध्यत्वादिति भावः। एतेनार्थक्रियाकारि सदिति निरस्तम्। अर्थक्रियाकारिणो बाध्यत्वेन व्याप्त्यसिद्धेः। न च व्यवहारदशायां न बाध्यतेत्युच्यतेऽतो न दोष इति वाच्यम्। व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शनात्। व्यवहारदशायां प्रत्यक्षेण न बाध्येतेत्युक्तावपि परोक्षाध्यस्तेऽपरोक्षाध्यस्ते नभोनैल्यादौ च बाधाभावेन विपर्यये पर्यवसानायोगेन तत्र सद्वैलक्षण्यासिद्धेः। उपलक्षणमेतत्। बाध्यतेऽतो न सत्त्वाद्युक्तमिति विपर्यये पर्यवसानेन सत्ताराहित्यसिद्धावपि ब्रह्मवन्निर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरत्वं च बोध्यम्।। साध्याविशिष्टत्वादिति।। यदबाध्यं तन्न बाध्येत इत्यापाद्यापादकयोरैक्येनापाद्यवदापादकमसिद्धमिति भावः।
ननु व्यवहारस्य साध्यत्वान्न दोष इति चेत्तर्हि त्वन्मतेऽसतो बाध्यत्वाभावेन विपर्यये पर्यवसानलब्धबाध्यत्वेनैव सद्व्यावत्तेरिवासद्व्यावृत्तेरपि सिद्ध्याऽसच्चेन्न प्रतीयेतेत्यस्य व्यर्थत्वात्। एतेनाबाध्यतावच्छेतदकावच्छिन्नं सद्विवक्षितमतो न साध्याविशिष्टतेति प्रत्युक्तम्। असच्चेन्न प्रतीयेतेत्यस्य व्यर्थत्वापत्तेः।। सिद्धसाधनत्वादिति।। शुक्तिरूप्यादि ब्रह्मस्वरूपं चेन्न बाध्येत च। अतो ब्रह्मस्वरूपं नेति शुक्तिरूप्यादेर्ब्रह्मस्वरूपत्वाभावस्य मन्मतेऽपि सिद्धत्वादिति भावः। सत्खण्डनमुपलक्षणम्। न बाध्यतेत्यादावपि द्रष्टव्यम्। तथा हि। न बाध्येतेत्यत्र बाधः किं ज्ञाननिवर्त्यत्वं किंवा त्रैकालिकनिषेधप्रतियोगित्वम्। आद्ये ज्ञाननिवर्त्यत्वस्य शुक्तिरूप्यादावस्माभिरनङ्गीकारेणेष्टापत्तेः। न द्वितीयः। त्रैकालिकनिषेधप्रतियोगित्वस्यैवासत्त्वेन शुक्तिरूप्यादेरसद्वैलक्षण्यवादिमते विपर्यये पर्यवसानायोगात्। एवमसच्चेदित्यत्रासत्किं सत्ताहीनं बाध्यं वाऽब्रह्मस्वरूपं वा निरूपाख्यं वा । नाद्यः। सत्ताहीनस्याप्यात्मादेः प्रतीत्या व्यभिचारात्। शुक्तिरूप्यादेस्तस्मादसन्न भवतीति विपर्ययापर्यवसानाच्च। अत एव न द्वितीयतृतीयौ। शुक्तिरूप्यादेर्बाध्यत्वादिना विपर्ययापर्यवसानात्। अब्रह्मस्वरूपस्याप्यसतः प्रतीत्या व्यभिचाराच्च। न चतुर्थः। निरुपाख्यं चेन्न ख्यायेतेति साध्याविशिष्टत्वादिति।
सत्त्वेन प्रतीतिर्निषिध्यत इत्यत्र तादृशप्रमा निषिध्यते भ्रान्तिर्वा। आद्ये इष्टापत्तिं मन्वानो द्वितीये दोषमाह।। भ्रान्तीति। असतः सत्त्वेन प्रतीत्यभावे शुक्तिरूप्यादिज्ञानं भ्रान्तिरिति व्यवहारो न स्यात्। यद्वाऽसतः सत्त्वेन भानाभावे शुक्तिरूप्यदिज्ञानस्य भ्रान्तित्वायोगेन तत्कार्यविसंवादिप्रवृत्त्यादिव्यवहारो न स्यादित्यर्थः। यद्वाऽसतः सत्त्वप्रकारकज्ञानस्यैव भ्रमत्वेनासच्चेत्सत्त्वेन न भ्राम्येत भ्राम्यते च तथा। अतोऽसन्नेति व्यवहारस्य विरुद्धत्वेन तथाव्यवहारलोपः स्यादित्यर्थः। असतः सत्त्वेन ज्ञानाभावे कुतो भ्रान्तिव्यवहारलोप इत्यत आह।। प्रकृतादिति। प्रकृताद्वस्तुनः स्वाभाविकरूपाद्रूपान्तरात्मत्वेन ज्ञानस्य भ्रान्तित्वात्। वस्तुयाथात्म्यज्ञानस्य च प्रमात्वादित्यर्थः। असतः सत्त्वप्रतीतिः सतोऽसत्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति तत्त्वनिर्णयोक्तेरिति भावः। अस्तु प्रकृतादन्यात्मना प्रतीतिर्भ्रान्तिः। असतः सत्त्वेन भाने किमायातमिति चेन्न। भ्रान्तौ प्रतीयमानं शुक्तौ रूप्यात्मकत्वं सत् उतासत् यद्वा सदसद्विलक्षणम्। नाद्यः। तज्ज्ञानस्य भ्रान्तित्वायोगात्। यथावद्वस्त्ववगाहिनोऽपि भ्रान्तित्वे बहुविप्लवापातात्। विसंवादायोगाच्च। द्वितीयेऽसदपि रूप्यात्मकत्वमसत्त्वेन भात्युत सत्त्वेन। आद्ये भ्रान्तित्वानुपपत्तिः। प्रवृत्त्वनुपपत्तिश्च। द्वितीयेऽसतः सत्त्वेन प्रतीतिरङ्गीकृतैवेत्याह।। तत्र चेति। भ्रान्तौ चेत्यर्थः। अन्याकारस्य रूप्यात्मकस्येत्यर्थः। तृतीयं पक्षमाशङ्कते।। तस्येति। शुक्तौ रूप्यात्मकस्येत्यर्थः। सदसद्विलक्षणत्वमनिर्वचनीयत्वम्। न च भ्रान्तित्वानुपपत्तिः। अनिर्वचनीयविषयकत्वादेव तदुपपत्तेः। प्रातिभासिकविषयत्वादेव विसंवादोपपत्तेश्च। एवञ्च नासतः सत्त्वेन भानमिति भावः।
निषेधति।। नेति।।
ननु मूलक्षयाभावाद्बीजाङ्कुरवन्नानवस्था दोष इत्यत आह।। तथा चेति। उत्तरोत्तरानिर्वाच्यासिद्ध्या पूर्वपूर्वनिर्वाच्यासिद्धिरिति प्राथमिकानिर्वाच्यासिद्ध्या निर्णयो दुःशक इत्यर्थः। नन्वेतत्खण्डनं स्वव्याहतम्। त्वत्पक्षेऽपि साम्यात्। तथा हि। असति रूप्ये यत्सत्त्वं भाति तत्सदुतासत्। आद्ये भ्रान्तित्वानुपपत्तिः। द्वितीये तदपि सत्त्वमसत्त्वेन भात्युत सत्त्वेन। आद्ये प्रवृत्त्यनुपपत्तिः। द्वितीये तदपि सत्त्वेन प्रतीयमानं सत्त्वं किं सदुतासदित्यादि विकल्पसम्भवेनानवस्थानादिति चेन्मैवं भाषिष्ठाः। त्वन्मतेऽनिर्वाच्यगतसत्त्वस्य प्रातिभासिकत्वेन तस्य सत्त्वेनाप्रतीतौ प्रातिभासिकत्वायोगेन सत्त्वेन सत्त्वप्रतितेरावश्यकत्वात्। अस्मन्मते चासति रूप्ये प्रतीयमानस्यासत एव सत्त्वस्य सत्त्वेनाप्रतीतावपि तस्यासत्त्वव्याघाताभावेन सत्त्वस्यापि सत्त्वेन प्रतीतेरनावश्यकत्वेन दोषाभावात्। अत एवोक्तं भगवत्पादैः।
अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते। सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता। तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिरिति।
रीत्यन्तरेणेति। एकस्मिन्देशे प्रतीतस्य देशान्तरस्थनिषेधप्रतियोगित्वे परिच्छिन्नत्वापत्त्या पक्षान्तर्गतघटपटादिरूपपरिच्छिन्नपदार्थेषु तस्य सिद्धत्वात्। तथैककालप्रतीतस्य कालान्तरस्थनिषेधप्रतियोगित्वेऽनित्यत्वापत्त्या तथाविधेष्वेव तेषु तस्य सिद्धत्वादित्यर्थः। आदिपदेन परिच्छिन्नत्वं गृह्यते। एवकारस्य न तु मिथ्यात्वस्येत्यर्थः। नित्येति हेतुगर्भं विशेषणद्वयम् ।। तादृशेति। त्रिकालाखिलदेशनिषेधप्रतियोगित्वरूपेत्यर्थः। नित्यत्वात्त्रैकालिकनिषेधप्रतियोगित्वं सर्वगतत्वादखिलदेशगतनिषेध प्रतियोगित्वं च व्याहतम्। तथा चांशतो बाध इति भावः। नन्वात्मन आकाशः सम्भूत इत्यादिश्रुत्या सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वश इत्यादिश्रुत्या च कालाकाशयोर्जनिमत्त्वश्रवणेन कथं नित्यत्वमिति चेन्न। अत्र कालपदोनांशिकालस्याकाशपदेनाव्याकृताकाशस्य ग्रहणादुक्तश्रुत्योश्च भूताकाशक्षणलवाद्यंशकालपरत्वात्। आकाशद्वैविध्यस्य च वियदधिकरणे समर्थितत्वात्।
अव्याकृताकाशांशिकालयोर्नित्यत्वं सर्वगतत्वं च वक्ष्यमाणरीत्या धर्मिग्राहिणा साक्षिणाऽऽकाशवत्सर्वगतश्च नित्य इत्याकाशस्य सदेव सौम्येदमग्रे दृष्ट्वैव तं मुच्यते नापरेणेत्यादिश्रुत्या सृष्टेः पूर्वं मुक्त्यनन्तरं च कालस्य श्रवणेन सदा सर्वत्र कार्योपलम्भेन विमतं कार्यं देशकालोभयजन्यं कार्यत्वात्सम्प्रतिपन्नत्वादित्यद्यनुमानेन च सिद्धम्। अन्यथाऽत्र देशो नास्तीदानीं कालो नास्तीति निषेधे व्याघातः। उक्तं चानुव्याख्याने। केवलं साक्षिमानेन कालो देशोऽपि नान्तवानिति। नच देशकालयोः स्ववृत्तित्वेऽन्योन्यवृत्तित्वे वाऽऽत्माश्रयाद्यापत्त्या तादृशनिषेधप्रतियोगित्वं तयोरिति वाच्यम्। देशः सर्वत्र सदाऽस्ति कालः सर्वत्र सदाऽस्तीत्यबाधितप्रतीत्या तयोः स्वनिर्वाहकतया प्रमेयत्वादिवत्स्वसम्बन्धसिद्धेरिति भावः।
किञ्च प्रमाणसिद्धं विश्वं पक्षीक्रियते उत तदसिद्धम्। नाद्यः। प्रमाणसिद्धस्य प्रमाणाविषयत्वे साध्ये व्याघातादित्याद्यपि दूषणं मनसि निधाय द्वितीये दूषणमाह।। प्रमाणेति। प्रपञ्चस्य प्रमाणसामान्याविषयत्वेऽङ्गीक्रियमाणे सतीति शेषः।। तत्पक्षीकरणायोगाच्चेति। सर्वप्रमाणातीतस्य बुद्धावनारूढस्य प्रपञ्चस्य पक्षीकरणासम्भवात्तथा चाश्रयासिद्धिरिति भावः। नृशृङ्गमसद्योग्यत्वे सत्यनुपलभ्यमानत्वात् इत्यादिना शब्दादिप्रमाणैरवगतस्यैव नृशृङ्गादेः पक्षीकरणान्न तत्प्रतिबन्दीति ध्येयम्। ननु शुक्तिरूप्यमप्रामाणिकं बाध्यत्वादित्यादाविव प्रमाणाभासैः प्रसक्तस्य पक्षत्वसम्भावात्तत्त्वावेदकप्रमाणमात्रागोचरत्वस्यैव साध्यत्वान्न काऽप्यनुपपत्तिरित्याशङ्क्य निरस्यति।। अतत्त्वावेदकेति। व्यावहारिकप्रामाण्यकेत्यर्थः।। मानाभावादिति। तथा च तत्त्वावेदकप्रत्यक्षादिसिद्धस्योक्तमिथ्यात्वसाधनं व्याहतमित्यर्थः ननु मानाभावोऽसिद्धः। प्रत्यक्षाद्यतत्त्वावेदकं मिथ्याभूतार्थविषयकत्वाच्छुक्तिरूप्यप्रत्यक्षवदिति मानभावादिति शङ्कते।। विषयस्येति।। असत्त्वादिति। मिथ्यात्वादित्यर्थः। तत्सिद्धिः प्रत्यक्षादेरतत्त्वावेदकत्वसिद्धिः। दूषयति।। तदिति। विषयमिथ्यात्वमित्यर्थः। कुतः कस्मान्मानात्। न कस्मादपीत्यर्थः।
ननु दृश्यत्वाद्यनुमानेन नेह नानेत्यागमेन च तत्सिद्धिरिति चेन्न। तयोरेव प्रत्यक्षविरोधेनातत्त्वावेदकत्वापत्त्या तद्विरोधेन प्रबलप्रत्यक्षाप्रामाण्यायोगात्। प्राबल्यस्य वक्ष्यमाणत्वादिति भावः।
किञ्च यद्यनात्मनोऽप्यज्ञानस्यानादित्वं मन्यसे तर्हि तादृशस्य तस्य ब्रह्मविज्ञानविलाप्यत्वाभावादसम्भव एवेति भावेनाह।। अनादीति। नन्वज्ञानस्य भावाभावविलक्षणत्वादनादिभावरूपत्वमसिद्धं येन विज्ञानविलाप्यत्वासिद्ध्या लक्षणमसम्भवि स्यादित्याशङ्क्ते।। भावेति।। अनाद्यभावविलक्षणत्वेनापि हेतुना व्यभिचाराभावेन ज्ञानानिवर्त्यत्वानुमानमक्षतमेवेति भावेन परिहरति।। अभावेति। अनाद्यभावविलक्षणत्वेन हेतुनेत्यर्थः।। न चेति। आदिपदेनाभावत्वं ग्राह्यम्। आत्मत्वस्यात्मन्यभावत्वस्याभावेऽनिवर्त्यत्व रूपसाध्यव्यापकत्वस्य सत्त्वात्साधनवति पक्षेऽभावेन साधनाव्यापकत्वाच्चेति भावः।।
व्यभिचारादिति। असति ज्ञानानिवर्त्यत्वे सत्यप्यात्मत्वाभावत्वयोरभावेन साध्याव्यापकत्वादित्यर्थः। यदत्रोक्तं विवरणे। अनिवर्त्यत्वे नानादित्वं प्रयोजकं किन्तु विरोध्यसन्निपातः। प्रकृते चास्ति विरोधिसन्निपात इति। तदचारु। अनादिभावत्वेनैव विरोध्यसन्निपातस्याप्यनुमानात्। विस्तरस्तु सुधायां बोध्यः।
किञ्च मृद्घट इति प्रतीतिवद् भ्रमस्याज्ञानानुविद्धतया प्रतीत्यभावेन तदुपादानकत्वायोगात्तदुपादानकत्वविद्यायामसम्भवीत्याह।। भ्रमस्येति। गूढाभिप्रायेण शङ्कते।। तदिति। अज्ञानानुपादानत्वे भ्रमस्येत्यनुकर्षः। आत्मवदिति भावः। जन्यत्वे सतीत्यपि बोध्यम्। तेन नाविद्यादौ व्यभिचारः। यद्यपि परमते यदज्ञानानुपादानकं तत्सत्यमिति न व्याप्तिरस्ति। आत्मनि सहचारग्रहसम्भवेऽप्यनाद्यज्ञानजीवब्रह्मविभागादौ व्यभिचारात्। जन्यत्वे सतीति विशेषणे च दृष्टान्ताभावेन तत्र व्याप्त्यसिद्धेरिति वक्ष्यमाणं दूषणमत्रापि सुवचम्। तथाऽपि वास्तवाभिप्रायेणेष्टपत्त्या परिहरति।। स्यादेवेति। एवकारेण तत्सत्वं सुप्रसिद्धमित्याह। शङ्किता स्वशयमुद्घाटयति।। तथेति। भ्रमस्य सत्यत्वे सतीत्यर्थः।।
प्रमाणेति। तत्त्वावेदकप्रमाणजन्याद्वैतज्ञानवदित्यर्तः।। बाध्यस्यापीति। न केवलं मदभिमतधीस्वरूपबाधस्याप्यप्रसङ्गः किन्तु भवदभिमतस्य रूप्यलक्षणविषयाभावरूपबाधस्याप्यप्रसङ्ग इत्यपिशब्दार्थः। ज्ञानस्य सत्यत्वे विषयस्यापि सत्यत्वं स्यादिति फलितोऽर्थः। अतो न ज्ञानं सत्यमिति भावः। विषयसत्त्वे न ज्ञानसत्त्वं प्रयोजकम्। क्वचिज्ज्ञानसत्त्वाभावेऽपि विषयसत्त्वाब्युपगमेन व्यभिचारादित्याह।। तवेति।।
अध्याय 5
एवमविद्यालक्षणानि निरस्य प्रमाणमपि व्युदसितुं पृच्छति।। अविद्यायामिति। एवंविधायामुक्तलक्षणविशिष्टायाम्। अनेनाविद्याया भवद्भिरङ्गीकारात्तत्र प्रमाणखण्डनादि व्याहतमिति निरस्तम्। पराङ्गीकृतायामेव तस्यां प्रमाणादिनिराकरणात्। तथा च वक्ष्यति स्वयमेव। किमित्याक्षेपे न किमपीत्यर्थः। चित्सुखोक्तमनुमानमाशङ्कते।। देवदत्तेति। तत्स्थो देवदत्तगतो यो देवदत्तप्रमाप्रमाप्रागभावस्तदतिरिक्तस्येत्यर्थः। अनेनानादिभावरूपज्ञाननिवर्त्यज्ञानसिद्धिः।। अविगीतप्रमेति। मैत्रप्रमा यथेत्यर्थः। दृष्टान्ते मैत्रप्रमायां देवदत्तगतप्रमाप्रागभावातिरिक्तस्या नादेर्मैत्रप्रमाप्रागभावस्य ध्वंसकत्वमादाय साध्यं बोध्यम्। अत्र मैत्रादिप्रमायां तत्तत्प्रागबावध्वंसित्वमादायांशे सिद्धसाधनतावारणाय देवदत्तेति पक्षविशेषणम्। पक्षविशेषणाभावे पक्षतावच्छेदकहेत्वोरभेदेन व्याप्तिग्रहदशायामेव पक्षतावच्छेदकसामानाधिकरण्येन विवक्षितसाध्यसिद्धेः सिद्धसाधनमेव दोषः। दृष्टान्तासिद्धिश्चेत्यप्याहुः। साध्ये पूर्वज्ञानध्वंसित्वेनार्थान्तरवारणायानादेरिति। प्रमाप्रागभावमादाय तद्व्यावृत्तये प्रमाप्रागभावातिरेकिण इति। साध्याप्रसिद्धिवारणाय तत्स्थेति विशेषणम्। एवमाशङ्कितमनुमानमाभाससाम्येन दूषयति।। नेति। अन्यथा तत्राप्यनादिभावरूपत्वे सति घटनिवर्त्यः कश्चन पदार्थः सिध्येदिति भावः। प्रथमानुमानदूषणेनैव नित्सुखोक्तमनुमानान्तरं च निरस्तमित्याह।। एतेनेति। विगीतो विवादविषयीभूतः। देवदत्तभ्रम इत्यर्थः।। एतदिति। एतस्य विगीतभ्रमस्य यज्जनकमबाध्यं तदतिरिक्तमुपादानं यस्य स इत्यर्थः। दृष्टान्ते मैत्रभ्रमे देवदत्तभ्रमजनकाबाध्यातिरिक्तमैत्रीयान्तः करणोपादानकत्वेन साध्यं बोध्यम्। भ्रमान्तरेंऽशतः सिद्धसाधनतावारणाय विगीत इति पक्षविशेषणम्। साध्ये आत्माद्युपादानकत्वेनार्थान्तर वारणायाबाध्यतिरिक्तेति। परमते साध्याप्रसिद्धिवारणायैतज्जनकेति। एतज्जनकाबाध्यातिरिक्तकारणक इत्येवोक्ते तादृशप्रागभावादिजन्यत्वेनार्थान्तरवारणायोपादानेति। अनेन भ्रमोपादानमज्ञानं सिध्यतीति भावः।। निरस्तमिति। चैत्रेच्छैतज्जनका बाध्यातिरिक्तोपादानिका इत्छात्वान्मैत्रेच्छावत्। चैत्रसुखादिकमुक्तसाध्यवत् सुखत्वान्मैत्रसुखवदित्याबाससाम्येन निरस्तमित्यर्थः। आद्यानुमाने प्रतिज्ञावाक्यगतपदानां परस्परविरोधं चाह।। अनादित्वेति। प्रकरणसमत्वं चाह।। देवदत्तेति। देवदत्तगतो य एतत्प्रमाप्रागभावस्तदतिरिक्तस्यानादेर्निवर्तिका नेत्यर्थः। दृष्टन्ते मैत्रप्रमादौ स्वप्रागभावनिवृत्तिरूपत्वेन तन्निवर्तकत्वं नेति न साध्यवैकल्यम्। अत एवोत्तरानुमाने तथैव वक्ष्यति। यद्वा देवदत्तगतेति प्रमाप्रागभावयोरन्यतरस्य विशेषणमुत तत्स्थश्चासौ प्रमाप्रागभावातिरेकी चेति तदतिरेकिणोऽनादेर्विशेषणम्। नाद्यः । वृत्तिरूपप्रमाया अन्तः करणनिष्ठत्वेन देवदत्तनिष्ठत्वाभावात्। अभावस्यापि प्रतियोगिसमान देशत्वेनान्तः करणनिष्ठत्वेन देवदत्ताद्यनिष्ठत्वाद्बाधापत्तेः। द्वितीये दोषमाह।। देवदत्तेति। देवदत्तगतस्यैतत्प्रमाप्रागभावातिरिक्तस्यानादेर्निवर्तिका नेत्यर्थः। एवं च दृष्टन्ते मैत्रप्रमादौ स्वप्रागभावनिवर्तकत्वेऽपि देवदत्तगतानादिनिवर्तिकत्वं नेति न साध्यवैकल्यम्।।
सत्प्रतिपक्षतेति। प्रकरणसमतेत्यर्थः। उक्तं हि न्यायकल्पलतायाम्। स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसम इति।
अध्याय 6
विवरणोक्तमनुमानमाशङ्कते।। अथेति। साध्ये स्वपदेन प्रमाणज्ञानं गृह्यते। विशेषणचतुष्टयमपि वस्त्वन्तरविशेषणम्। अत्र प्रमाणेति विशेषणं भ्रान्तावंशतो बाधवारणाय। ज्ञानमिति तु प्रमाणशब्दस्य भावसाधनत्वज्ञापनाय। तेन करणमादाय न बाधः शङ्कनीयः। दूषणसौकर्याय साध्यगतपदानां व्यावर्त्यमाह।। अत्रेति।
सिद्धसाधनतेत्यनन्तरं स्यादिति शेषः।। तथाऽपीति। प्रागभावेनार्थान्तरताभावेऽपीत्यर्थः। स्वप्रागभावव्यतिरिक्ता या स्वजनकसामग्री तयेत्यर्थः। अदृष्टेन स्वोत्पत्तिप्रतिबन्धकादृष्टेनेत्यर्थः। अर्थान्तरेति। ज्ञानविषये ज्ञानतावदज्ञानविषयेऽप्यज्ञातताऽस्तीति तत्पूर्वकत्वमादायार्थान्तरेत्यर्थः। अप्रकाशितेति हेतुविशेषणं द्वितीयादिप्रकाशे व्यभिचारवारणाय। दृष्टान्ते प्रथमोत्पन्नेति द्वितीयादिप्रमायां साधनवैकल्यवारणायेति।
साध्यविकल इति। तमसोऽनिर्वचनीयत्वासिद्धेरिति भावः। अप्रसिद्धत्वमेवोपपादयितुं सामान्यन्यायमाह।। प्रामाणिकेति।। ततः किमित्यत आह।। अनिर्वचनीयस्येति। प्रामाणिकाप्रामाणिकयोः सामान्यधर्मो नेत्येतत्प्रसिद्धमित्याह।। न हीति।। दोषान्तरं चाह।। ज्ञानेति।। ज्ञानप्रतिबन्धकेति स्वविषयावरणत्वख्यापनायोक्तम्। ज्ञानप्रागभावभिन्नत्वं ज्ञानदेशगतत्वं च स्पष्टम्। ज्ञाननिवर्त्यत्वे तु विवादादाह।। ज्ञानेति। "अग्निचित्कपिला सत्रं राजा भिक्षुर्महोदधिः। दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यश।।" इति स्मृत्याऽग्निचित्कपिलादि दर्शनस्य दुरितादिनिवर्तकत्वस्य, सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहतीति सेतुदर्शनस्य ब्रह्महत्यादिपापनिवर्तकत्वस्य च प्रसिद्धत्वादिति भावः।
ननु सेत्वादिदर्शनस्य सेतुविषयाज्ञाननिवृत्तिद्वारेण स्वजन्यादृष्टद्वारेण वा ब्रह्महत्यादिनिवर्तकत्वं न साक्षात्। प्रकृते च साक्षाज्ज्ञाननिवर्त्यत्वं विवक्षितमिति चेन्मैवं वोचः। सेतुदर्शनेन युगपदज्ञानब्रह्महत्ययोर्द्वयोरपि निवृत्तिसम्भवात्। ब्रह्महत्यायाः सेत्वज्ञानानुपादानत्वेनाज्ञाननिवृत्त्या ब्रह्महत्यादिनिवृत्तिरित्यस्यासम्भवदुक्तिकत्वाच्च। यदप्यदृष्टद्वारेणेति तदपि न साधनीयः। सेतुदर्शनानन्तरमेव ब्रह्महत्यादिनिवृत्तिसम्भवे तस्यादृष्टद्वारत्वकल्पने मानाभावात्। अन्यथा दृष्टमात्राः पुनन्तीति सेतुं दृष्ट्वेति श्रुतदर्शनत्यागेन तज्जन्यादृष्टस्य निवर्तकत्वकल्पने तरति शोकमात्मविदिति तदा विद्वान्नामरूपाद्विमुक्त इति श्रुतस्यापि ज्ञानस्य त्यागेन तज्जन्यादृष्टस्यैवाज्ञाननिवर्तकत्वं स्यात्। नन्वथाऽपि न ज्ञानत्वेन सेतुदर्शनादेर्ब्रह्महत्यादिनिवर्तकत्वम्। किन्तु विहितक्रियात्वेन। प्रकृते च ज्ञानत्वेन तन्निवर्त्यत्वं विवक्षितमिति चेन्न। ब्रह्मज्ञानस्यापि विहितक्रियात्वेनैवाज्ञाननिवर्तकत्वं न तु ज्ञानत्वेनेति सुवचत्वादित्यास्तां विस्तारः।
किञ्च किमिति। ज्ञापकाप्यायकत्वं ज्ञानहेतुसहकारित्वमित्यर्थः। ज्ञापकत्वं नाम ज्ञानकरणत्वं वा ज्ञानहेतुत्वमात्रं वेति विकल्प्याद्ये दोषमाह।। चक्षुरिति। चक्षुरादिज्ञानकरणनिवर्त्याज्ञानानभ्युपगमादिति भावः।। दृष्टान्तस्येति। दीपादिप्रभायां ज्ञानकरणत्वाभावादिति भावः। ज्ञाने पक्षीभूतप्रमाणज्ञाने। एतेन द्वितीयोऽपि निरस्तः।। असिद्धेरिति। ज्ञाने ज्ञानहेतुसहकारित्वाभावादिति भावः। एतेन तमोनिवर्तकत्वं प्रकाशकत्वमिति प्रत्युक्तम्। अज्ञानान्धकारयोरनुगततमस्त्वाभावात्। शब्दसाम्येनानुगमे च गोत्वेन वाचः शृङ्गित्वसाधनं च स्यादिति भावः। एवमज्ञानेऽनुमानं निरस्य प्रत्यक्षमपि व्युदसितुमाशङ्कते।। नेति। सुप्तोत्थितस्य तावदेतावन्तं कालं न किञ्चिदहमवेदिषमित्यज्ञानविषयक परमार्शशब्दितस्मृतिरस्तीत्यविवादम्। सा च स्मृतिः सुषुप्तावज्ञानानुभावाभावे न सम्भवतीत्युत्तरस्मृत्यन्थाऽनुपपत्त्या कल्पितसौषुप्तिकानुभव एवाज्ञाने प्रमाणमित्यर्थः। परमर्शस्यान्यथोपपत्तिमाह ।। तस्येति। परामर्शस्येत्यर्थः। तथा च सौषुप्तिकानुभवोऽपि तत्समानविषयत्वाज्ज्ञानाभावविषयक इति नानेन भावरूपाज्ञानसिद्धिरिति भावः।
ननु न ज्ञानाभावविषयकत्वेन तस्यान्यथोपपत्तिर्वक्तुं शक्या। सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति न्यायेनाभावज्ञानस्य धर्मिप्रतियोगिज्ञानसाद्यत्वात्तत्सत्त्वे च न किञ्चिदवेदिषमिति ज्ञानसामान्याभावप्रतीत्यसम्भवात्। सुषुप्तौ सर्वेन्द्रियाणामुपरतत्वेन धर्मिप्रतियोगिज्ञानासम्भवाच्च। अतो भावरूपाज्ञानविषयत्वमेव वाच्यमिति शङ्कते।। नन्विति। तदभावे धर्मिप्रतियोगिबोधाभावे। तस्य ज्ञानाभावस्य।। साक्षिणेति। तथा च साक्षिणा धर्मिप्रतियोगिग्रहणे सत्यन्तःकरणवृत्तिरूपज्ञानाभावोऽनुभवितुं शक्यः। प्राकृतेन्द्रियाणामुपरमेऽपि स्वरूपेन्दियस्यानुपरमात्। भावरूपाज्ञानस्यापि धर्मिप्रतियोगिनिरूप्यत्वेन तयोर्ज्ञाने च वृत्तेरेव त्वन्मतेऽज्ञानविरोधित्वेन तद्विषयकाज्ञानानुभवायोगेन साक्षिणैव धर्मिप्रतियोगिग्रहणस्य वाच्यत्वात्। अन्यथेदानीं वेदान्तश्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानस्य त्वयाऽपि वक्तव्यत्वाच्चेति भावः।
अध्याय 7
एवं सौषुप्तिकानुभवस्य ज्ञानाभावविषयकत्वेनान्यथासिद्धिमुक्त्वाकेनचिदुक्तमज्ञानसाधकं न्यायमपाकर्तुमनुवदिति।। यत्त्विति। यदाह तदसदित्यन्वयः। न किञ्चिदवेदिषमित्यादिना सिद्धमज्ञानं पक्षः। न ज्ञानाभाव इति साध्यम्। अभावमानागम्यत्वादुपलब्ध्यभावागम्यत्वात्प्रमाणगम्यत्वाच्चेत्यर्थः।। सम्प्रतिपन्नवदिति। हेतुसाध्यवत्तया सम्मतपटादिवदित्यर्थः। द्वितीये व्यतिरेकदृष्टान्त इति भावः। नन्वभावस्याप्यनुपलब्धिमानागम्यत्वे कथं ताभ्यां हेतुभ्यां ज्ञानाभावरूपत्वाभावसाधनं विरुद्धत्वादित्यत आह।। अभाव इति। घटपटादिप्रमेयाभाव इत्यर्थः।। अभावस्येति। प्रतियोग्युपलब्ध्यभावस्येत्यर्थः। अभावस्यानुपलब्धिमानगम्यत्वं प्रसिद्धमिति हिशब्देनाह। अभावममानागम्यत्वादिति हेत्वोरसिद्धिं परिहर्तुमज्ञानस्य प्रमाणमात्राविषयत्वं समर्थयते। अज्ञानं चेति।। सम्प्रतिपन्नवदिति। शुक्तितरूप्यवदित्यर्थः। अविद्याया अविद्यात्वे इदमेवहि लक्षणम्। मिनाधातासहिष्णुत्वमसाधारणमिष्यत इति सुरेश्वरोक्तेरिति भावः।। अनुमानकथनेति। प्रमाणज्ञानं स्वप्रागभावेत्याद्यनुमानकथनायोगात्। कथ्यते च। अतस्त्वया कथ्यमानानुमानरूपैतन्मानगम्यत्वेन मानागम्यत्वसाधनं व्याहतमित्यर्थः। यद्वाऽज्ञानं मानागम्यमिति वाक्यममानमुत मानम्। आद्येऽज्ञानस्य मानगम्यत्वसिद्धिः। द्वितीये दोषमाह।। एतदिति। अज्ञानं मानागम्यमित्येव वाक्यरूपमानगम्यत्वेन माननिवर्त्यत्वादित्यनुमानरूपमानगम्यत्वेनेति वाऽर्थः। नन्विदमयुक्तम्। अविद्याया वृत्तिप्रतिफलितचैतन्यरूपफलवेद्यत्वाभावेन मानागम्यत्वोक्तावप्यन्तःकरणवृत्तिवेद्यत्वेनानुमानकथनमुपपद्यते। अतो न व्याघात इति भावेनाशङ्क्य निराकरोति।। फलेति। वृत्तिप्रतिफलितं चैतन्यं फलम्।। अनङ्गीकारादिति। अज्ञानस्य यावत्सत्त्वं प्रतिभासमानत्वेन वृत्तेश्च कादाचित्कत्वेन शुद्धचैतन्याभासत्वस्य त्वयाऽङ्गीकारात्। वृत्तेरज्ञानविरोधित्वेनाज्ञानस्य वृत्तिव्याप्यताऽसम्भवाच्चेति भावः। एवमज्ञानं न मानगम्यमिति प्रतिज्ञांशं निरस्य व्याप्तिं च निरस्यति।। न चेति। किञ्चेति चार्थः। व्याप्त्यभावमेवोपपादयति।। प्रत्यभिज्ञेति।
उपलक्षणेमतत्। उत्तरज्ञाननिवर्त्यपूर्वज्ञानस्य विषये दोषदर्शननिवर्त्यस्य रागादेर्गरुडध्याननिवर्त्यस्य विषादेश्च मानगम्यत्वेन व्यभिचारादिति बोध्यम्। एवं सौषुप्तिकानुभवस्य ज्ञानाभावविषयत्वेनान्यथोपपत्तिममुक्त्वा त्वदुक्तमर्थं न जानामीत्यादिव्यवहारान्यथाऽनुपपत्तिकल्पितानुभावस्याप्यन्यथोपपत्तिं वक्तुं तमाशङ्क्यनिराकरोति।। न चेति। इत्यादीत्यादिपदेनाहमज्ञो मामन्यं च न जानामीति व्यवहारो ग्राह्यः। सुप्ते आत्मनीति शेषः। ज्ञायमाने चेत्यनन्तरमर्थ इति शेषः। अयमर्थः। त्वदुक्तमर्थं न जानामीत्यादि व्यवहारोऽस्तीति तावदविवादम्। व्यवहारश्चानुभवं विना न सम्भवतीति तदन्यथानुपपत्तिकल्पिताज्ञानानुभवोऽज्ञाने मानम्। न चायं व्यवहारो ज्ञानाभावविषयः। आत्मनि सुप्ते सत्यात्मरूपधर्मिज्ञानाभावेनानुपपद्यमान इत्यात्मज्ञाने सत्येव तथा व्यवहारो वाच्यः। सोऽप्ययुक्तः। आत्मज्ञाने सति न जानामीति ज्ञानसामान्याभावव्यवहारासम्भवात्। तथाऽर्थं न जानामीति ज्ञानाभावज्ञानार्थं प्रतियोगिनि ज्ञाने ज्ञायमानेसति ज्ञानस्यविषयनिरूप्यत्वेन ज्ञानावच्छेदकतया विषयस्यापि ज्ञायमानत्वेन तज्ज्ञानाभावायोगात्। अज्ञायमाने च प्रतियोगिज्ञानाभावेन हेत्वभावादेव ज्ञानाभावज्ञानायोगात्। भावरूपाज्ञानवादे तु धर्मिप्रतियोगिनोः साक्षिणा ग्रहणेऽपि वृत्त्यभावेन व्यवहारोपपत्तेः। वृत्तेरेवाज्ञानविरोधित्वेन साक्षिणोऽविरोधित्वादिति।
ननु यथा सामान्यस्यावगतत्वान्न सामान्यविषयकज्ञानाभावविषयकतया न जानामिति व्यवहारस्योपपत्तिस्तथा विशेषविषयकज्ञानाभावज्ञानार्थं प्रतियोगिभूतज्ञाने ज्ञातव्ये तदवच्छेदकस्य विशेषस्याप्यवगतत्वेन व्यवहारस्य तज्ज्ञाना भावविषयतानुपपत्तिर्विशेषस्याज्ञातत्वे तदवच्छिन्नज्ञानस्याप्यज्ञातत्वेन प्रतियोगिज्ञानरूपहेत्वभावादेव न तत्तद्विशेषविषयक ज्ञानाभावविषयकत्वम्। अतो भावरूपमज्ञानमकामेनाप्यङ्गीकार्यमिति भावेन शङ्कते।। विशेषस्येति। अधिगमे तज्ज्ञानस्यैव सत्त्वादनधिगमे तदवच्छिन्नज्ञानरूप प्रतियोगिनोऽज्ञानादिति भावः। एवं न जानामीत्येवंरूपविशेषस्यापि सामान्यतो ज्ञातत्वेन विशेषाकारज्ञानाभावविषयतयोपपत्तिमाह।। अस्तीति। ज्ञातत्वाद्विशेषस्येति शेषः। ननु विषमोऽयमुपन्यासः। सामान्याकारस्य ज्ञातत्वादेव न तदवच्छिन्नज्ञानाभावविषयत्वं विशेषाकारस्य त्वज्ञातत्वेन तद्विषयकज्ञानरूपप्रतियोगिनोऽज्ञानेन विशेषविषयकज्ञानाभावविषयकत्वं व्यवहारस्येत्याशङ्क्य तत्सामान्यज्ञानेनैव तद्विशेषज्ञानाभावज्ञानोपपत्तेस्तद्विशेषसंशयं प्रति तत्सामान्यनिश्चयवद्भाव रूपाज्ञानवादेऽपि तद्विशेषवच्छिन्नाज्ञानज्ञानं प्रति तत्समान्यमानस्येव हेतुत्वादिति वक्तुमुक्तबाधकं परपक्षेऽपि दर्शयन्विपर्यये पर्यपसानमाह।। किञ्चेत्यादिना व्यवहारं ब्रूम इत्यन्तेन।। प्रश्नायोग इति। अर्थे ज्ञाते तदवच्छिन्नाज्ञानायोगात्। अज्ञाते च तदवच्छिन्नाज्ञानज्ञानायोगात्। अवच्छेदकाज्ञानेऽवच्छिन्नज्ञानायोगेन त्वदुक्तार्थं न जानामि तमर्थं कथयेति प्रश्नायोगादित्यर्थः। मायावादी शङ्कते।। अस्माकं त्विति। तुशब्देन ज्ञानाभाववाद्यपेक्षया वैलक्षण्यमाह। ज्ञाततया घटं जानामीत्यनु व्यवसायरूपज्ञानावच्छेदकतयेत्यर्थः। अज्ञाततया त्वदुक्तमर्थं न जानामीत्यज्ञानावच्छेदकतयेत्यर्थः। इत्यन्तं विवरणानुवादः। इतिशब्दो हेत्वर्थः।। प्रमाणेति। अन्तःकरणवृत्तिरूपप्रमाणज्ञानोदयात्पूर्वमित्यर्थः।। अज्ञातत्वेति।। अज्ञानावच्छेदकतेत्यर्थः।। साक्षिसिद्ध इति। अवच्छेदकस्य विषयस्याज्ञानेऽवच्छिन्नाज्ञान ज्ञानायोगात्साक्षिणश्चाज्ञानस्फोरकत्वेन तदविरोधित्वात्साधकस्य बाधकतायोगात्। तथा च साक्षिसिद्धमर्थमनूद्य सोऽर्थः कः, नाहं तमर्थं जानामीति प्रश्नो युज्यत इति भावः। त्वन्मते नित्यातीन्द्रियवृत्तौ सत्यामपि चैतन्याविषयत्वेनाज्ञानानिवृत्तेः सुखादौ वृत्त्यभावेऽपि चैतन्यविषयत्वेनाज्ञानादर्शनाच्चान्वयव्यतिरेकाभ्यां साक्षिचैतन्यस्यैवाज्ञानविरोधित्वेन साक्षिसिद्धेऽर्थे कथं न जानामीति व्यवहार इति भावं हृदि निधाय परिहरति।। नेति। ननु सिद्धेऽप्यर्थेऽज्ञान विरोधिप्रमाणवृत्त्यभावेन तज्जिज्ञासया न जानामीति व्यवहार इति शङ्कते।। साक्षिणेति। साक्षिण एव प्रमाणत्वादुक्तरीत्या तस्यैवाज्ञानविरोधित्वाच्च न प्रमाणजिज्ञासा युज्यते। अन्यथा सुखादावपि तज्जिज्ञासया सुखं न जानामीति व्यवहारः स्यादिति भावेनाह।। नेति।। निष्फलत्वादिति। अज्ञाननिवृत्तेर्व्यवहारादेः साक्षित एव सम्भवादिति भावः। किञ्चेत्यादिनोक्तार्थस्य प्रकृतोपयोगमाह।। तथा चेति। भावरूपाज्ञानपक्षेऽपि तद्विषयस्य ज्ञानाज्ञानाभ्यां न जानामीति व्यवहारायोगे सतीत्यर्थः। त्वयाऽपि भावरूपाज्ञानवादिनाऽपि।। अनूद्यत इति। त्वदुक्तमर्थं न जानामीत्यादिरूपेणेत्यर्थः। वयमपि ज्ञानाभावविषयतयाऽन्यथोपपत्तिं वदन्तोऽपि। व्यवहारं न जानामीति व्यवहारम्। एवं केयमविद्येत्यारभ्यैतावत्पर्यन्तमज्ञाने लक्षणप्रमाणयोः खण्डनं कृतम्। तथाऽऽश्रयविषययोरभावादपि। परमतेऽज्ञानासम्भवस्तु "निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेदि" त्यादिना शास्त्रे द्रष्टव्य इति भावः।
ननु भवत्यविद्या दुर्निरूपा, तथाऽप्यविद्यातत्कार्यरोरन्यतरत्वं मिथ्यात्वमित्यत्र किमायातमित्यतोऽविद्यादूषणोपसंहारव्याजेन तस्य प्रकृतोपयोगमाह।। तस्मादिति। उक्तदूषणगणादित्यर्थः। सिध्यतीति शब्दः षष्ठपक्षदूष्मसमाप्तौ। आद्यर्थको वा। तथा चायमर्थः। अनादौ जीव ब्रह्मविभागादावविद्यातत्कार्ययोरन्यतरत्वाभावेनाव्याप्तेः। अस्मन्मतेऽप्यज्ञानस्य तत्कार्यभ्रान्त्यादेश्च सत्त्वेनार्थान्तरत्वाच्च। शुक्तितरूप्यादावनिर्वाच्याविद्याकार्यत्वस्यास्माकमसम्मतेश्च ।। छ ।।
अध्याय 8
नन्वज्ञानस्य भवद्भिरप्यङ्गीकारात्तन्निराकरणं व्याहतमिति शङ्कते।। न चेति। परमत एवैते दोषा नास्मन्मत इत्याह।। परेति। स्वमते तु स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदित्यादौ शास्त्रे तद्व्युत्पादनं व्यक्तमिति भावः। स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पक्षं प्रतिक्षिपति।। न सप्तम इति।। असत्त्वेति। स्वरूपेणात्यन्ताभावास्यासत्त्वे पर्यवसानादिति भावः।।
तदतिरिक्तस्येति। स्वरूपेणात्यन्ताभावप्रतियोगित्वादन्यस्यासत्त्वस्येत्यर्थः।। भावेति। सद्वैलक्षण्यमित्यर्थः। तथा च सद्वैलक्षण्यादेवासत्त्वापत्त्याऽप सिद्धान्तदोषस्यानिवृत्तिरित्याह।। तर्हीति। प्रतिज्ञांशदोषमुपसंहरति।। तस्मादिति ।। छ ।।
अध्याय 9
एवं प्रतिज्ञांशं दूषयित्वा हेत्वंशमपि दूषयति।। नापीति। निरुक्तिरिति सम्बध्यते। न केवलं मिथ्यात्वस्येत्यपेरर्थः।। अनैकान्त्यादिति। ब्रह्मणि वृत्तिविषयत्वे सत्यपि मिथ्यात्वाभावादिति भावः। हेतोरभावान्न व्यभिचार इत्याशङ्क्याह।। तस्येति। अन्यथा ब्रह्मपराणां वेदान्तानां ब्रह्मज्ञानार्थं श्रवणादिविधेश्च वैय्यर्थं स्यात्। ब्रह्मविचारवतोर्गुरुशिष्ययोः क्रमेण मौनं मौढ्यं च स्यादिति भावः। यत्तु विपक्षे धर्मिसमसत्त्वस्य हेतोस्सत्त्वे व्यभिचारः। न त्वारोपितस्यानुमानमात्रोच्छेदात्। दृश्यत्वं च व्याहारिके जगतीव पारमार्थिके ब्रह्मण्यपि व्यावहारिकमेवेति न व्यभिचार इति। तत्तुच्छम्। ब्रह्मजगतोः पारमार्थिकत्वव्यावहारिकत्वविभागस्य मिथ्यात्वसिद्ध्युत्तरकालीनत्वात्। यदपि धर्मिसमसत्त्वं हेतुविशेषणमिति तदपि न चारु। ब्रह्मणि धर्ममात्रस्याप्यभावेन धर्मिसमसत्त्वं हेतुविशेषणमिति तदपि न चारु। ब्रह्मणि धर्ममात्रस्याप्यभावेन धर्मिसमसत्त्वविषयत्वमात्रस्य हेतुत्वसम्भवेन शेषवैय्यर्थ्यादित्यलम्।
ननु दृश्यत्वं नाम न वृत्तिविषयत्वं किन्तु तत्कर्मत्वम्। तच्च वृत्तिजन्यफलाधारत्वम्। परसमवेतक्रियाफलशालित्वस्यैव कर्मलक्षणत्वात्। ब्रह्मणश्च तदभावान्न व्यभिचार इति शङ्कते।। वृत्तीति।। ज्ञाततेति। व्यवहारे भट्टनय इत्यभ्युपगमेन भट्टरीत्याऽयं कल्पः। व्यवहार इति सिद्धान्तरीत्येति बोध्यम्। सिद्धान्तरीत्या दोषमाह।। घटादाविति। न केवलमतीतानगतादावित्यपेरर्थः। न केवलं ब्रह्मणीति वाऽर्थः। ज्ञानविषयताव्यतिरेकेण ज्ञाततासद्भावे मानाभावादिति भावः।
ननु परमते कथमतीतादौ ज्ञाततारूपफलाभावः कथं च वृत्तिप्रतिफलितचैतन्यरूपफलाभावश्चेत्यतो द्वयमपि चित्सुखवचनेन संवादयितुं प्रतिजानीते।। तथा हीति। न चावेद्यत्वमित्यारभ्य तत्राभावादित्यन्तं चित्सुखवाक्यानुवादः।। फलव्याप्यतेति। ज्ञातताधारत्वरूपस्य वृत्तिप्रतिफलितचैतन्यविषयत्वरूपस्य चाभावादित्यर्थः। न च नित्यानुमेयमपि योगिनं प्रति फलव्याप्यमिति वाच्यम्। चित्सुखेनैव न च योगिप्रत्यक्षगम्यतयाऽपरोक्षत्वम्। धर्मादीनां चोदनैकप्रमाणगम्यत्वादित्युक्तत्वेन तद्विरोधादिति भावः। व्यवहारः फलमिति कल्पं निराह।। द्वितीय इति।। व्यवहारविषयत्त्वादिति।। तथा च व्यभिचार इति भावः। चिद्रूपदृग्विषयत्वं दृश्यत्वमिति प्राग्विकल्पितं पक्षं निराह।। चिद्रूपेति। सुखदुःखादौ चिद्विषयत्वसत्त्वेऽपि घटादावभावेन भागासिद्धिरित्यर्थः। अस्वप्रकाशत्वं दृश्यत्वमिति द्वितीयपक्षं प्रतिक्षेप्तुं तत्प्रतियोगिभूतस्वप्रकाशत्वं पृच्छति।। स्वप्रकाशत्वं चेति।
ननु दृश्यत्वापाकरणप्रस्तावे प्रकाशत्वप्रश्नोऽयुक्त इत्यत आह।। यदिति। प्रागुक्तविकल्पेति। वेद्यत्वं किं वृत्तिवेद्यत्वंवा चिद्वेद्यत्वं वा वृत्तिजन्यफलसम्बन्धित्वं वा, फलं च ज्ञातता व्यवहारो वा वृत्तिप्रतिफलितचैतन्यं वेति विकल्पानां तेषूक्तदोषाणां चापात इत्यर्थः।
नन्वस्तु वेद्यत्वमेव हेतुरित्यत आह।। तस्य चेति। वृत्तिवेद्यत्वं चिद्वेद्यत्वं वेत्यादिविकल्पदोषाणामपि तेन दूषितत्वादित्यर्थः।। स्वरूपासिद्धिरिति। चिदविषयत्वेन त्वदभिमतेऽतीन्द्रिये धर्माधर्मादाववेद्यत्वे सत्यपरोक्षव्यवहाराभावेन विशिष्टाभावरूपहेतुसत्त्वे।़पि घटादौ त्वदभिमतचिद्वेद्यत्वे मानाभावेन दृग्दृश्यसम्बन्धानुपपत्तिनिराकरणप्रस्तावे निरसिष्यमाणत्वेनचावेद्यत्वविशिष्टापरोक्षव्यवहारयोग्यत्वस्यैव तत्र सत्त्वेन तदभावरूपदृश्यत्वस्याभावेन भागसिद्धिरित्यर्थः। स्वरूपग्रहणं त्वन्त्यपक्ष इव विशेष्यभागमात्रस्यैवासिद्धिरित्यभिप्रेत्येति ध्येयम्। वस्तुतस्तु घटादाविवातीन्द्रिये धर्माधर्मादाववेद्यत्ववदपरोक्षेण योगजज्ञानेन धर्मादिकमहं जानामीत्यनुव्यवसायरूपप्रत्यक्षेण यो धर्मः स विहितक्रियाजन्य इति ज्ञानान्तरोपनीतधर्मविहितक्रिययोर्व्याप्ति विषयकमानसप्रत्यक्षेण वा जन्यापरोक्षव्यवहारविषयत्वस्यापि सत्त्वेन धर्मादाविव घटादावपि त्वदभिमतावेद्यत्वस्यापि सत्त्वेन विशेष्याभावस्य क्वाप्यभावेन स्वरूपासिद्धिरेवेत्यर्थः।। व्यर्थविशेष्यत्वमिति। वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावादिति हेत्वर्थः स्यात्तत्र वेद्यत्वादित्येतावत एव हेतुत्वसम्भवादिति भावः।
ननु चिद्विषयत्वरूपं वेद्यत्वमात्मन्यप्यस्ति। अत एव चित्सुखेन चिद्रूपस्याप्यात्मनश्चिद्विषयत्वमुपेत्य तदकर्मकत्वमुक्तम्। तथा चात्मनि व्यभिचारवारणायैव विशेष्यं सार्थकमित्यरुचेराह।। विशेष्येति। उक्तरीत्या सर्वस्याप्यपरोक्षव्यवहारयोग्यत्वादिति भावः। इतिशब्दो दृश्यत्वविकल्पनिराससमाप्तौ।। छ ।।
अध्याय 10
किञ्च दृश्यत्वमित्यत्र दृक्शब्देन प्रमोच्यते भ्रमो वेति विकल्प्याद्ये तवासिद्धिः। अन्त्येऽस्माकमसिद्धिरित्याह।। दृश्यत्वमिति। ननु दृश्यत्वं न प्रमाणतो नापि भ्रान्त्या येनोक्तदोषः स्यात्। किन्तूभयसाधारणमेव। न हि सामान्येनोक्तस्य विशेषविकल्पेन दोषोत्कीर्तनम्। अतिप्रसङ्गादिति शङ्कते।। नन्विति। सामान्यतो भ्रमप्रमासाधारण्येनेत्यर्थः। अतिप्रसङ्गमेवाह।। तथा हीति। धूमध्वजो वह्निः।। एतद्देशेति। पक्षत्वेनाभिमतो देश एतद्देशशब्देनोच्यते। यदा पक्षे हेतुरस्ति तत्काल एतत्कालशब्देनोच्यते। देशिकव्याप्तिकत्वेन कालिकव्याप्त्युपेतत्वेन वा सर्वानुमानानां द्वैविध्यात्तादृश सर्वानुमानोच्छेदज्ञापनाय देशकालोभयोपादानम्।। अनेतदिति। पक्षदेशभिन्नदेशसम्बद्धस्तत्कालभिन्नकालसम्बद्ध इत्यर्थः। विकल्प्येत्यनन्तरं वर्तमानेन पुंसेति शेषः। दूषणमिति भावे ल्युट्। दूषणकरणसम्भवादित्यर्थः। तेन विकल्प्येति क्त्वाप्रत्ययोपपत्तिः।। साधनशून्यमिति। पक्षदेशसम्बद्धस्य दृष्टन्तेऽभावादिति भावः। एतेनासिद्धिर्व्याख्याता। इतिशब्दः शङ्कासमाप्तौ। समाधत्ते।। मैवमिति। तत्रेति। धूमानुमान इत्यर्थः। धूममात्रस्यैतद्देशाद्यविशेषितस्य।। अदूषणत्वेति। निर्दोषत्वेनाभ्युपगमात्। परीक्षकैरिति शेषः। शङ्कते।। तर्हीति। धूमवत्त्वस्य साधकत्वेऽपीत्यर्थः। इति विकल्पेनेत्यत्रावक्रो धूम इति कोट्यन्तरं च ध्येयम्।। दूषणेति। साधनवैकल्यादिनेति भावः। वक्रावक्रसाधरणधूमत्वाक्रान्तधूममात्रस्यैव हेतुत्वसम्भवे वक्रादिविशेषणं व्यर्थम्। गौरवपराहतं चेति भावेनाह।। तस्येति। दृश्यत्वानुमानेऽपि भ्रमप्रमासाधारणदृश्यत्वमेव हेतुरस्त्विति शङ्कते।। न चेति। वक्रावक्रधूमयोर्द्वयोरपि सत्त्वेन तत्र धूमत्वस्यानुगतसामान्यस्य सम्भवेऽपि प्रकृते न तस्य सम्भवः। प्रमाणदृश्यत्वस्य सत्त्वेऽपि भ्रान्तिदृश्यत्वस्यासत्त्वेन सत्यसति चानुगतसामान्याभावेनासिद्धिः स्यादिति भावेन परिहरति।। प्रमाणेति। आश्रयाभावे तदनुगतधर्मस्याभाव इत्येतन्निदर्शनेनोपपादयति।। न हीति। भ्रान्तिदृश्ये दृश्यत्वाभावे भ्रान्तिदृश्यत्वमिति व्यवहारायोग इति शङ्कते।। ।। तर्हीति। उपचारोऽयं प्रयोग इति भावेन निदर्शनपूर्वमाह।। यथेति। अवेहि अवगच्छेति। तथा च दृश्यत्वं जगत्यसिद्धमिति सुस्थमिति भावः। एवं लिङ्गदर्शनानन्तरं व्याप्तिस्मृतिरिति न्यायात्तेनैव क्रमेण हेतोराभासीकरणं मन्वानोऽसिद्धत्वं दृश्यत्वं प्रमाणत इत्यादिना प्रतिष्ठाप्येदानीं व्याप्तिविरहभेदौ विरुद्धानैकान्तिकौ। तत्र विरुद्धो विपरितनिश्चयं करोति। अनैकान्तिकस्तु सन्देहमिति दुष्टत्वक्रमानुरोधेन व्याप्त्यभावमुपपादयन् विरुद्धतां तावदाह।। दृश्यत्वस्येति। चस्त्वसिद्धिसमुच्चायार्थः।। सन्मात्रेति। साध्यसम्बन्धरहितत्वे सति तदभावेनैव सम्बन्धो विरुद्ध इति विरुद्धलक्षणम्। तथा च दृश्यत्वस्य मिथ्यात्वरहितसत्पदार्थ एव सत्त्वेनोक्तलक्षणसत्त्वादिति भावः।
ननु सति ब्रह्मणि दृश्यत्वस्याग्रे साधयिष्यमाणत्वेन मिथ्यात्वरूपसाध्याभावेन सम्बन्धे सत्यपि मिथ्याभूते शुक्तिरूप्ये च सत्त्वान्न साध्यसम्बन्धवैधुर्यमिति शङ्कते।। न चेति। दृग्विषयत्वं हि दृश्यत्वं नाम। तथा च यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्यनित्यज्ञाने व्यवस्थित्म्। रजतज्ञानं शुक्तिसन्निकृष्टेन जातमिति शुक्तिकाया एव दृश्यत्वमिति भावेन परिहरति।। तत्रेति। भ्रान्तावित्यर्थः।। अनभ्युपगमादिति। उक्तदिशा शुक्तिविषयकत्वादिति भावः। अविरोधमेवाह।। स्वविषयेति। अन्याकारेण रूप्याकारेण। आकारान्तरेणेत्यपि क्वचित्पाठः।
ननु यादृशं रजते दृश्यत्वं तादृशमेव प्रकृते हेतुरस्तु। तथा च न विरुद्धत्वमित्याशङ्क्याह।। तादृशस्येति। असिद्धिप्रसङ्कादिति भावः। एवं स्वरीत्या रूप्ये दृश्यत्वाभावं प्रतिपाद्य पररीत्याऽपि तमाह।। किञ्चेति।। फलेति। अन्तःकरणवृत्तिप्रतिफलितचैतन्यविषयतयेत्यर्थः।। वृत्तीति। अन्तःकरणवृत्तिविषयतयेत्यर्थः।। अध्यस्ततयेति। प्रतिभासमात्रशरीरतयेत्यर्थः। ननु तन्मतेऽधिष्ठानस्यैव तदुभयविषयत्वेन रूप्यस्य तदभावेऽप्यविद्यावृत्त्या तत्प्रतिफलितचैतन्यरूपफलेन व्याप्यत्वमङ्गीकृतमिति कथं तस्य न दृश्यत्वमिति चेन्न। तादृशदृश्यत्वस्य पक्षेऽभावेनासिद्ध्यापत्त्या तस्याहेतुत्वादिति भावः। किञ्च शुक्तिरूप्यस्या दृश्यत्वमिन्द्रियसन्निकर्षादिरूपसामग्र्यभावाच्चेत्याह।। न चेति। सन्निकृष्टस्यैव ज्ञानविषयत्वात्परोक्षस्थलेऽपि व्याप्त्यादिरूपप्रत्यासत्तेः सत्त्वादिति भावः। इदानीं क्रमप्राप्तं व्यभिचारं च वक्तुं दृश्यत्वं वृत्तिव्याप्यत्वं वा फलव्याप्यत्वं वेति विकल्पौ हृदि कृत्वाऽऽद्य आह।। आत्मन इति। न केवलं सपक्षस्य शुक्तिरूप्यादेः किन्तु विपक्षस्यात्मनोऽपीत्यपेरर्थः। हेतोरेवाभावान्न दोष इति शङ्कते।। नेति। मूकोऽहमिति वत्स्वक्रियाविरोधलक्षणव्याहतिमेवोपपादयति।। न हीति। धर्मविधानमिति दृष्टान्तार्थम्। दृश्यत्वरूपधर्मनिषेथधस्यैव प्रस्तुतत्वात्। आत्मनि दृश्यत्वे निषेधता परेणात्मा ज्ञातव्य इति भावः। ननु न बाधकाभावमात्रेण वस्तुसिद्धिः। मानाधीनत्वान्मेयसिद्धेरित्याशङ्क्यात्मनो दृश्यत्वं साधयति।। आत्मेति।।
नन्वात्मनो वस्तुत्वमसिद्धम्। निर्धर्मकत्वात्। न च निर्धर्मकत्वस्य भावाभावाभ्यां विरोधः। अभावरूपधर्माङ्गीकारात्। कल्पितस्य च रूप्यादौ सत्त्वेन व्यभिचारापत्तेरित्याशयेनानुमानान्तरमाह।। अयं घठ इति। इन्द्रियसन्निकृष्टः पुरोवर्तिघटविशेषोऽयमिति परामृश्यते। एतद्धटः पक्षीकृतो घटः, स चात्मा च ताभ्यां यदन्यत्तदुभयभिन्नं विश्वं तदन्यद्यद्दृशमात्मरूपं तदन्य इत्यर्थः। अत्र यद्यप्येतद्धटात्मान्यान्यदृश्यं पक्षीकृतघटो भवति तथाऽपि स्वस्य स्वान्यत्वं बाधितमित्यात्मनो दृश्यत्वसिद्धिः। दृष्टन्ते घटे च तथाभूतैद्धटान्यत्वेन साध्यं बोध्यम्। दृश्यान्य इति कृते पटान्यत्वेनार्थान्तरमत एतद्धटान्यान्येति विशेषणम्। तावत्युक्ते बाधः। अत आत्मेत्युक्तम्। आत्मान्यान्यदृश्यान्य इति कृते यद्यप्यात्मनो दृश्यत्वसिद्धिः। तथाऽपि दृष्टान्ते साध्यवैकल्याद्व्याप्तिवैकल्यं प्रसज्येत। अत एतद्धटेति विशेषणम्। एतद्धटात्मान्यदृश्यान्य इति कृते तादृशपटान्यत्वेनार्थान्तरता। अतोऽन्यान्येति सर्वं सार्थकम्। विपक्षे बाधकस्य प्राचीनवाक्ये प्रतिपादितत्वेन नाप्रयोजकत्वं शङ्कनीयम्। अत एवायं घट एतद्धटात्मान्यान्यनित्यान्यः। तथाविधाचेतनान्य इत्याभाससाम्यमपास्तम्। तत्र विपक्षे बाधकाभावेनाप्रयोजकत्वात्। अत एवेति चेति प्रागुक्तबाधकसमुच्चयार्थश्चकारः। तथा दृश्यते त्वग्र्यया बुद्ध्या तमेव धीरो विज्ञायेत्यादिश्रुत्या सर्वप्रत्ययवेद्ये च ब्रह्मरूप इत्यादिस्ववचनेन विरोधश्च स्यात्। वेदान्तानां वैय्यर्थ्यं च स्यात्। इत्यादिविपक्षबाधकेन चानुगृहीतत्वादन्योऽपि क्षुद्रोपद्रवः परिहार्य इति भावः।
यत्किञ्चित्तदन्याविषयकत्वादिरूपम्। कुत इत्यत आह।। षष्ठ्यर्थस्येति। ब्रह्मणो ज्ञानं ब्रह्मज्ञानमित्यत्र कर्तृकर्मणोः कृतीति कर्मणि षष्ठीविधानादन्यस्य च प्रकृतेऽसम्भवात्। न च तदन्याविषयकत्वं तदर्थः। गुरुत्वात्। पटादावपि तथात्वापत्त्या वृत्तिव्याप्यत्वं क्वापि नेत्यसिद्ध्यापत्तेः। घटपटोभयज्ञानेन घटाज्ञानानिवृत्त्यापत्तेश्चेति भावः। अज्ञानविवृत्तिप्रकारमाशङ्कते।। यद्धीति। यच्छब्दस्य यद्वृत्तिरूपं ज्ञानमिति सम्बन्धः। श्रुतमयेन श्रवणजन्येन ज्ञानेन। तत्त्वं निश्चित्य निदिध्यासनं कुर्वतो यदपरोक्षज्ञानमखण्डाकारं वृत्तिरूपं जायते तेन तन्निवृत्तिरित्यर्थः।
ननु न ब्रूमो वयमात्मनो वृत्तिव्याप्यत्वमेव नेति येनोक्तदोषः स्यात्। किन्तु फलव्याप्यत्वम्। तत्तु नात्मन इति द्वितीयं पक्षमाशङ्क्य निषेधति।। आत्मन इति।। दत्तोत्तरत्वादिति। फलं ज्ञातता व्यवहारो वेत्यादिना दृश्यत्वविकल्पनिरासप्रस्ताव एवोक्तत्वात्तत्रैवानुसन्धेयमिति भावः। स्यादेतत्। आत्मनो दृग्विषयत्वाभावेऽपि वेदान्तवाक्यजनितापरोक्षज्ञानस्याकारसमप्रकतया व्यावर्तकत्वमङ्गीक्रियत एव। तेनात्माविषयकमप्यात्माकरं ज्ञानं तदज्ञानं निवर्तयिष्यतीति न कोऽप्यतिप्रसङ्गः। अनुमानश्रुत्यादीनां च तत्परतयोपपत्तेः। न च तदविषयत्वे तदाकारत्वमपि कथमिति वाच्यम्। शशशृङ्गस्य सर्वसामर्थ्यविधुरस्य कारकतापरपर्यायं विषयत्वमस्ति। तदिहापि वेदान्तवाक्यरूपकरणसामर्थ्यादेवात्माविषयकस्यापि तदाकारस्योत्पत्तौ दोषाभावादिति भावेनाशङ्कते।। विषयत्वेति। आत्मन इति सम्बन्धः।
किञ्च संवित्पदेन वृत्तिरुच्यते चैतन्यं वा। नाद्यः। घटादौ तवासिद्धेः। द्वितीये स्वातिरिक्तेति व्यर्थम्। विशेष्यस्यैवाव्यभिचारित्वादित्याह।। संविदिति। यद्वा व्यवहारो हि व्यवहर्तव्यज्ञानमपेक्षते। न तु स्वातिरिक्तज्ञानमात्रम्। घटज्ञानेन पटव्यवहारापत्तेः। तथा च तावतैवोपपत्तौ विशेषणं व्यर्थमित्याह।। संविदिति। एवं स्वप्रतिबद्धेत्यादिनिरुक्तदृश्यत्वस्यान्यतरासिद्धिव्यर्थविशेषणते अभिधाय स्वव्यवहारे स्वातिरिक्तसंविदपेक्षत्वस्यात्मनि विपक्षे सत्त्वं सिद्धवत्कृत्य साध्यसम्बन्धाभावोपपादनाय तस्य सपक्षे वृत्तित्वमाह।। न चेति। किञ्चिति चार्थः। कुत इत्यतस्तस्य प्रातिभासिकत्वेन मनोवृत्तेर्वा मनोवृत्तिप्रतिफलितचैतन्यस्य वाऽपेक्षा नेति प्रागेवावोचामेत्याह।। अध्यस्ततयैवेति। स्वप्रतिबद्धेत्यादिनिरुक्तहेतोर्व्यभिचारं चाह।। अत्यन्तेति। तत्र साध्यसत्त्वान्न दोष इत्याशङ्क्याह।। न चेति। तथा सत्यसतोऽपि मिथ्यात्वे। शुक्त्यध्यस्तरजतरज्जुसर्पादेः सदसद्वैलक्षणरूपमिथ्यात्वं वदता त्वया कथमसतोऽपि मिथ्यात्वं वक्तुं शक्यमिति भावः।
किञ्च मिथ्यात्वमसत्त्वं वा बाध्यत्वं वाऽनिर्वचनीयत्वं वा। आद्यस्य तत्र सत्त्वेऽपि त्वया तदनङ्गीकारात्। द्वितीयतृतीययोश्च तत्राभावमाह।। न चेति। नासत्त्वस्यास्ति बाधकमिति त्वदुक्तेरेवेति भावः। इतिशब्दो दृश्यत्वहेतुदूषणसमाप्तौ।। छ ।।
अध्याय 11
ननु माऽस्तु दृश्यत्वं हेतुः। जडत्वं हेतुर्भविष्यतीत्यतस्तदप्युक्तदूषणेनैव निरस्तमित्याह।। न च जडत्वेति। जङ्घालो जङ्घावान्। प्राणिस्थादातो लजन्यतरस्यामिति मत्वर्थे लच्। तदप्युक्तदूषणानि नातिक्रामेदित्यर्थः। न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतस्तान्युपपादयितुं प्रतिजानीते।। तथा हीति।। ज्ञानानाधारत्वमिति। ज्ञातृत्वाभाव इत्यर्थः। अज्ञानरूपत्वं ज्ञानरूपत्वाभावः। अस्वप्रकाशत्वं स्वप्रकाशत्वाभावः।। विशिष्टेति। अन्तःकरणावच्छिन्नस्यैवाहंशब्दितस्यात्मनो ज्ञातृत्वेन मिथ्यात्वेन त्वदभिमते तत्र ज्ञातृत्वाभावरूपहेतोरभावेन भागासिद्धेरित्यर्थः। किञ्च मिथ्यात्वेन त्वदनभिमते निर्धर्मकेऽत्यन्तासति शुद्धात्मनि च ज्ञातृत्वाभावरूपहेतोः सत्त्वेन व्यभिचारश्चेत्याह।। असदिति। न च शुद्धात्मनि कल्पितं ज्ञातृत्वमस्तीति वाच्यम्। कल्पितेन हेत्वभावेन व्यभिचारापरिहारात्। असति कल्पितस्याप्यभावात्। न च शुद्धस्याप्यात्मनो निर्धर्मकत्वादेव ज्ञानानाधारत्वमपि नेति वाच्यम्। निर्धर्मकत्वरूपहेतोर्ज्ञानाधारत्वाभावरूपसाध्यस्य च भावाभावाभ्यां व्याघातेनाभावरूपधर्मनिषेधायोगादिति भावः। अनात्मत्वं जडत्वमित्यत्र नञोऽन्योन्याभावोऽर्थ उत्तात्यन्ताभावो वेति भावेन विकल्पयति।। अनात्मत्वेति। आद्येऽप्यतिरिक्तपदेन तात्त्विकभेदवत्त्वं वाऽतात्त्विकभेदवत्त्वं वेति विकल्पौ हृदि निधायाद्य आह।। तवेति। तामेवोपपादयति।। न हीति। तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणे तत्त्वतः कार्यस्य जगतः कारणस्यात्मनोऽनन्यत्वं वाचारम्भणं विकारो नामधेयमिदं सर्वं यदयमात्मेति श्रुतेरुच्यत इति त्वयैवोक्तेः कथं तयोस्तत्त्वतो भेदः स्यादित्यर्थः। द्वितीयं शङ्कते।। परमार्थतस्तदभावेऽपीति। पारमार्थिकभेदाभावेऽपीत्यर्थः। अविद्याविलसितोऽविद्यानिमित्तभ्रमविषय इत्यर्थः। ननु भेदस्यानादित्वात्कथं दोषजन्यभ्रमविलसितत्वमित्यत उक्तमनादीति। अविद्याया अप्यनादित्वादनाद्यध्यासविषयता युक्तेत्यर्थः। आविद्यकभेदस्यास्माभिर्जगदात्मनोरनङ्गीकारादन्यरासिद्धो हेतुरित्याह।। तर्हीति। ननु तात्त्विकाविद्यकसाधारण्येनात्मातिरिक्तत्वमात्रं हेतुरस्तु। तथा च नान्यतरासिद्धिः। अत्मातिरिक्तत्वमात्रस्योभयसम्मतत्वादिति चेन्न। तात्त्विकाविद्यकभेदद्वयाभावेन सामान्यस्याभावादित्युक्तत्वादिति मन्वानो दूषणान्तरं चाह।। असतीति। त्वयाऽसति मिथ्यात्वानङ्गीकारादिति भावः।
ननु कथमसत्यात्मभेदस्तस्य धर्मिस्वरूपत्वेन निःस्वरूपासत्स्वरूपत्वायोगादिति चेन्न। परमते तस्य धर्मिस्वरूपत्वाभावेनासन्नात्मेत्यबाधितप्रतीत्याऽऽत्मभेदस्य सत्त्वात्। अन्यथाऽऽत्मन्यसद्वैलक्षण्यासिद्धेः। पररीत्या च तस्योपपादनात्। यद्वा सस्वरूपभावाभावनिष्ठभेदस्य तदुभस्वरूपत्वेऽपि निःस्वरूपासन्निष्ठस्य तदभावेऽपि तन्निष्ठत्वोपपत्तेः। अत एव भावभावस्वरूपत्वान्नान्योन्याभावता पृथगिति भावाभावस्वरूपत्वमेवोक्तम्।
ननु स्वस्य स्वकर्मत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वरूपं स्वविषयत्वमस्ति। तत्स्वभावस्यापि स्फुरणस्य तद्व्यवहारजनकतया तद्विषयत्वमिति चित्सुखोक्तेरिति चेन्न। घटादावप्येतदन्यस्य ज्ञप्तिकर्मत्वस्याभावात्। न च घटादौ ज्ञप्तिकारकत्वमेव तद्विषयत्वमिति वाच्यम्। घटादेरपीन्द्रियसन्निकर्ष एवोपयुक्ततया ज्ञानजनकत्वाभावादिति भावः। परविषयत्वमिति कल्पं निराह।। न द्वितीय इति।। मोक्ष इति। तत्र त्वन्मते पराभावेन परविषयत्वस्य दुर्निरूपत्वादिति भावः। न च मोक्षे पराभावेऽप्यतीतपरविषयत्वेन ज्ञात्वं स्यादिति वाच्यम्। त्वन्मते वर्तमानस्यैव वृत्तिरूपज्ञानज्ञातव्यस्य व्यवधानमन्तरेण साक्षाच्छुद्धचैतन्यरूपज्ञानविषयत्वात्। नन्वतीतमप्यतीतत्वेन चैतन्यं विषयीकरोतीति चेत्तर्हि वन्हिरासीदित्याद्यनुमिताविव शुद्धात्मरूपज्ञाने मोक्षेऽतीतविषयोल्लेखरूपोप्लवापातादिति। निर्विषयं वेति द्वितीयं पक्षं क्षिपति।। नोत्तर इति। ननु निर्विषयत्वं न ज्ञानत्वाभावापादकम्। अतीतज्ञाने तुच्छज्ञाने च व्यभिचारादिति चेत्। भ्रान्तोऽसि। न हि निर्विषयत्वं नाम तद्विषयस्यावर्तमानत्वमसत्त्वं वाऽभिमतम्। किन्तु विषयानुल्लेखित्वम्। न ह्यतीतादिज्ञानं विषयानुल्लेखि। येन व्यभिचारः स्यात्। नन्वात्मरूपं ज्ञानं परविषयत्वेनैव ज्ञानं स्यात्। न त मोक्षे पराभावो दोषः। तथाऽपि संसारदशायां परसत्त्वेन तद्विषयकतया ज्ञानत्वोपपत्तेः। ज्ञानत्वे च सविषयकत्वमेव तन्त्रम्। न तु यावत्सत्त्वं सविषयकत्वम्। गौरवात्। तथा च मोक्षे निर्विषयत्वेऽपि संसारदशायां सविषयत्वेन कथं मोक्षे ज्ञानाभावप्रसङ्ग इति। मैवम्। सप्रतियोगिकेऽभावादौ सविषयके इच्छादौ घटादिज्ञाने च सविषयकत्वादेः स्वभावत्वदर्शनात्।
किञ्च स्वरूपानन्दस्य परत्वाभावेन परमपुरुषार्थे मोक्षे आनन्दाप्रकाशापाताच्च। अपि च। सविषयकत्वरूपज्ञानस्वभावाभावेऽपि ज्ञानत्वे घटादेरपि ज्ञानत्वापत्त्या ज्ञानरूपत्वाभावरूपजडत्वहेतोरसिद्धिरित्याह।। निर्विषयज्ञानरूपत्वे चेति। एवं ज्ञात्रभावेनापि ज्ञानत्वाभावोपपादनं त्वन्यत्रोक्तं बोध्यम्।
ननु स्वकर्मकसंविद्रूपत्वलक्षणस्यापि स्वप्रकाशत्वस्य सत्त्वात्कथं हेतोर्व्यभिचार इत्यतः परेण तदनङ्गीकारादित्याह ।। सेवेति। इतिशब्दो जडत्वहेतुविकल्पदूषणसमाप्तौ। कल्पचतुष्टयदूषणेनैव तत्त्वसिद्ध्युक्तमचेतनत्वं जडत्वमित्यपि प्रत्युक्तमित्याह।। एतेनेति।। कथमित्यत आह।। उक्तेति।
ननु भवतो यज्जडत्वं तदेव ममाप्यभिमतमित्यत आह।। अस्माभिरिति। तच्च त्वन्मते न सम्भवतीति दूषितमिति भावः।।
अध्याय 12
ननु माऽस्तु जडत्वं, परिच्छिन्नत्वं तु हेतुः स्यादित्यत आह।। परिच्छिन्नत्वेति। न केवलं दृश्यत्वजडत्वे इत्यपेरर्थः। प्रतिज्ञातं परिच्छिन्नत्वस्य साधकत्वाभावमुपपादयितुं पृच्छति।। परिच्छिन्नत्वमिति।। कालतो वेति। परिच्छिन्नत्वमिति सम्बन्धः। वस्तुतः परिच्छिन्नत्वं तृतीयकोटिस्तदभिप्रायकथनमन्योन्येति।। कालाकाशादीति। कालशब्देनात्रांशी कालो गृह्यते। न तु क्षणलवाद्यंशः। आकाशशब्देन चाव्याकृताकाशः। न तु भूताकाशः। येन तयोर्जन्यत्वेन यथायोगं देशकालपरिच्छिन्नत्वेनासिद्धिर्नस्यात्। आदिपदेनाज्ञानं पराभिमतो रूप्यादेर्जगतश्च प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधश्च गृह्यते। न च कालादिव्यतिरिक्तस्य पक्षतेति वाच्यम्। तत्र मिथ्यात्वासिद्ध्यापत्तेः। दृश्यत्वादेर्दूषितत्वादिति भावः। कालादौ भागासिद्धेरेव द्वितीयोऽप्यपास्त इत्याह।। अत एवेति। पक्षद्वयेऽपि नासिद्धिरिति शङ्कते।। ब्रह्मेति।। सर्वस्य देशकालाभ्यां परिच्छेदे उक्तं व्याघातं प्रतिपिपादयिषुर्देशतः परिच्छेदं तावदुपपादयितुं देशतः परिच्छिन्नत्वं निर्धारयति।। देशत इति। अस्त्वेवं प्रकृते किमित्यत आह।। तथा चेति। अत्र हेतुमाह।। अभावस्येति। तथा च सुस्थो व्याघात इत्याह।। तथा चेति। इदमुक्तं भवति। सर्वस्य देशतः परिच्छेदे हि सर्वं कस्मिंश्चिद्देशेऽस्ति कस्मिंश्चिद्देशे नास्तीति वक्तव्यम्। तथा च सर्वाभावाधिष्ठानत्वेन देशशब्दितमाकाशमङ्गीकृत्य पुनस्तस्याप्यभावाभिधाने माता वन्ध्येतिवद्व्याघात इति।
ननु न व्याघातः सर्वस्यापि ब्रह्मनिष्ठाभावप्रतियोगित्वेनान्याधिष्ठानानभ्युपगमादिति शङ्कते।। सकलमिति। निषेधति।। नेति। देशतः परिच्छिन्नत्वं नामाध्यासाधिष्ठनब्रह्मनिष्ठाभावप्रतियोगित्वमित्युक्तं स्यात्। तथा चेदमेव साध्यत्वेनाभिमतं मिथ्यात्वमित्यसिद्धिः स्यादित्याह।। तथात्व इति। अध्यासाधिष्ठानब्रह्मनिष्ठाभावप्रतियोगित्व इत्यर्थः। एवकारस्य न तु दोषान्तरान्वेषणायास इत्यर्थः। एवं सर्वान्तर्गताकाशस्य देशतः परिच्छेदे व्याघातमभिधाय कालस्य कालतः परिच्छेद व्याघातं विवक्षुः कालपरिच्छेदो नाम भविष्यत्कालतः परिच्छेद उत भूतकालतो यद्वा त्रिकालत इति विकल्पत्रयाभिप्रेतार्थकथनपूर्वमाह।। कालेति। कालस्येति शेषः। अनित्येति भाविकालतः परिच्छेदे सादितेति भूतकालतः परिच्छेदे त्रिकालासत्यतेति कालत्रयपरिच्छेदे। अस्त्वेवं किं तत इत्यत आह।। तथा चेति।। अयोगेनेति। पूर्वं कालो नास्ति पश्चान्नास्ति सर्वदा नास्तीति निषिध्यमानकालाभावाधिकरणत्वेन पूर्वदिकालाङ्गीकारेण पुनस्तन्निषेधो व्याहत इत्यर्थः। अत्र कालस्येदानीं कालो नास्तीत्यादिकालतः परिच्छेदे व्याघात इति वक्तव्ये यदनित्यतेत्यादिना कालपरिच्छेदाभिप्रायकथनं तस्यायम्भावः। पश्चात्पूर्वं वाऽसत्त्वमात्रेण वर्तमानकालेऽप्यभावसाधने प्रमाणविरोधस्याविशिष्टतया वर्तमानकाले सत्त्वेन कालान्तरेऽपि सत्त्वसाधनं स्यात्। त्रिकालासत्त्वं त्वसिद्धमिति।
ननु कालादिर्देशकालाभ्यां परिच्छिन्नो जडत्वाद्धटादिवदित्यनुमानात्तन्निश्चय इत्याशङ्क्य निराह।। जडत्वेति। परिच्छिन्नत्वे कार्यत्वमेव प्रयोजकं न तु जडत्वमिति भावेन तस्य साध्यव्यापकत्वमाह।। घटादाविति। ननु कार्यत्वं न परिच्छिन्नत्वे प्रयोजकं तस्य साध्यव्यापकत्वे सत्यपि साधनाव्यापकत्वाभावाज्जडत्वहेतुमति पक्षे कालादौ तेनैव कार्यत्वस्यापि साधनादिति भावेन जडत्वकार्यत्वयोर्व्याप्तिमाह।। यदिति। अनाद्यविद्यायां जडत्वे सति कार्यत्वाभावाद्व्यभिचार इति भावेन निषेधति।। नेति। ननु तत्र साध्यस्यापि सत्वान्न दोष इत्याशङ्क्य बाधकमाह।। तस्या इति। अनाद्यनिर्वाच्यत्वे सति विज्ञानविलाप्येत्यादित्वदीयपरिभाषोच्छेद इत्यर्थः। किञ्चाविद्यायाः कार्यत्वे तदुपादानं किञ्चिदुपेयं न च तदस्तीत्याह।। तदिति। एवं कालादिकं कालादितः परिच्छिन्नं जडत्वादित्यत्र कार्यत्वमुपाधिं व्युत्पाद्याधुना व्यभिचारं चाह।। पञ्चमेति। न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षय इत्यादिनाऽविद्यानिवृत्तिलक्षणमोक्षं पञ्चमप्रकारं वदतस्तव जडत्वहेतोर्व्यभिचार इत्यन्वयः। नित्यतयाऽभ्युपगत इत्येतत्कालपरिच्छेदाभावरूपसाध्याभावोपपादनाय। जडत्वरूपहेतूपपादनाय च पञ्चमप्रकारेत्याद्यंशः। अविद्यानिवृत्तेरात्ममात्रत्वे तत्र जडत्वाभावात्। ननु तत्र साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्क्य बाधकमाह।। तस्येति। उक्तरूपमोक्षस्येत्यर्थः। मोक्षस्यापगमे पुनः संसारापत्तिरित्यर्थः। नन्वविद्यानिवृत्तिलक्षणमोक्षः कालतः परिच्छिन्न एव। न चैवमविद्यानिवृत्तेर्निवृत्तौ पुनः संसारापत्तिरिति वाच्यम्। यथा प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावस्योन्मज्जना भावस्तथाऽविद्यानिवृत्तेर्निवृत्तेरपि संसारविरोधित्वेन पुनरावृत्त्यभावादित्यत आह।। न हीति। सहस्राक्ष इन्द्रः। क्षयं निवृत्तिम्। क्षेप्तुं नाशयितुम्। अप्रामाणिकानन्तनिवृत्त्यापातादिति भावः। किञ्चैवं न सा पुनरावर्तत इत्यादिनिवृत्त्यनिवृत्तिवादश्चायुक्तः स्यादित्याह।। उन्मत्तेति। उपलक्षणमेतत्। त्वन्मते तदात्माऽन्यस्याभावात्तन्मात्रस्य चाहेतुत्वेन निवर्त्यनिवृत्तिहेत्वभावाच्चेति ध्येयम्। अन्योन्याभावाधिकरणत्वं वेति तृतीयं निराह।। न तृतीय इति। तत्र हेतुमाह।। नेतीति। बृहदारण्यके तन्नेति नेतीत्यादिवाक्ये इति नेति नेति मूर्तामूर्तविलक्षणत्वेनाभिधानात्तत्र तदन्योन्याभावसत्त्वेन व्यभिचारादित्यर्थः। तात्त्विकभेदवत्त्त्वं हेतुरिति भावं हृदि निधाय व्यभिचारमुद्धर्तुमाह।। सोऽपीति। श्रुतोऽपीत्यर्थः। पराभिप्रायं प्रश्नमुखेन व्यनक्ति।। तत्किमिति। हेतुरित्यनन्तरं बाढमिति शेषः। दूषयति ।। तथा सतीति। पारमार्थिकभेदवत्त्वस्य हेतुत्वे सतीत्यर्थः। त्वयाऽनङ्गीकारदिति भावः।
किञ्च पारमार्थिकभेदवत्त्वस्य सत्यत्वेनैव व्याप्तेस्तादृशानृतभेदवत्यात्मन्युपलम्भेन शुक्तिरूप्यादौ मिथ्यात्वे सत्यपि पारमार्थिकभेदवत्त्वाभावेन साध्याभावेनैव व्याप्तत्वेन विरुद्धहेत्वाभासत्वं च स्यादित्याह ।। विरुद्धतेति। उपलक्षणमेतत्। आत्मनि तादृशानृतभेदवत्त्वेन व्यभिचारश्च बोध्यः। इतिशब्दः परिच्छिन्नत्वहेतुदूषणसमाप्तौ।। छ ।।
अध्याय 13
एवं दृश्यत्वादिहेतून् प्रातिस्विकरूपेणासिद्धविरुद्धानैकान्तिकत्वैर्निराकृत्याधुना सर्वसाधारण्येन बाधितविषयत्वरूपदोषेणापि दुष्टतां वक्तुमाह।। सन्निति। आदिपदात्सन्पटः सत्सुखमित्यादि गृह्यते।
ननु न मिथ्यात्वानुमानस्य प्रत्यक्षबाधः। भिन्नविषयत्वेनाविरोधात्। यत्प्रत्यक्षवेद्यं सत्त्वं न तदभावोऽनुमानबोध्यः। यदभावोऽनुमानवेद्यो न तत्प्रत्यक्षवेद्यमिति भावेन शङ्कते।। नन्विति।। सत्त्वमिति। सत्ताजातित्यर्थः।। विधीति। घटोऽस्ति पटोऽस्तीत्यादिविधिमुखप्रत्ययविषयत्वमित्यर्थः।। तस्येति। आद्यपञ्चकान्यतमस्येत्यर्थः। अनिराकरणात् अनुमानेनेति शेषः। अन्यथा शून्यवादापत्तेरिति भावः। अबाध्यत्वरूपसत्त्वस्यानुमानेन निराकरणेऽपि नाक्षबाधः। तस्य वर्तमानमात्रग्राहित्वेन त्रैकालिकनिषेधाप्रतियोगित्वरूपाबाध्यत्वग्रहाक्षमत्वादिति भावेनाह।। न षष्ठ इति। नन्वबाध्यत्वस्याक्षागोचरत्वे कथं घटसत्त्वं प्रत्यक्षमिति व्यवहार इत्यत आह।। तस्मादिति। अबाध्यत्वरूपसत्त्वस्याक्षागोचरत्वादित्यर्थः।। सद्गन्धर्वनगरमिति। मायाविनिर्मितान्तरिक्षगत गन्धर्वनगरसत्त्वग्रहणवदित्यर्थः। शुक्तिरूप्यादिसत्त्वग्रहणमादिपदार्थः।
ननु गन्धर्वनगरप्रत्यक्षवद्विश्वसत्त्वाग्राहिप्रत्यक्षमप्रमाणमिति द्वितीयं गूढभावेन शङ्कते।। तत्कालीनेति। यदा गन्धर्वनगरं गृह्यते तत्कालावच्छेदेनाबाध्यतेत्यर्थः। विप्रतिपन्नाक्षस्याप्रामाण्यं किं प्रमाण्यस्य परतस्त्वेन तद्ग्राहकप्रमाणान्तरसंवादाभावाद्वा मिथ्यात्वग्राह्यनुमानादिबाधकाद्वेत गन्धर्वनगरप्रत्यक्ष इवात्रापि कालान्तरे किञ्चद्बाधकं भविष्यतीति शङ्कामात्रेण वेति त्रेधा विकल्प्याद्ये सन्घट इतिवत्सद्गन्धर्वनगरमिति तस्य सत्त्वग्रहणेऽपि घटादिवन्नात्यन्ताभाध्यता प्रामाण्यस्य स्वतस्त्वेन संवादानपेक्षत्वेन बाधकैकापोद्यतया गन्धर्वनगरादौ बाधकेन तत्सत्त्वग्राहिणः प्रामाण्यत्यागेन तद्विषयस्यासत्त्वेऽपि न घटादौ तथा बाधकाभावादिति भावेन परिहरति।। सत्यमिति। तथाऽपि सन्घटः सद्गन्धर्वनगरमिति ज्ञानयोः सत्त्वग्रहणसाम्येऽपीत्यर्थः। अस्ति विशेष इत्युक्तमेव प्रामाण्याप्रमाण्यरूपं विशेषं विशदयितुमाह।। प्रामाण्यं हीति। तस्य युक्त्यादिसिद्धत्वं हिशब्दार्थः।। ज्ञानस्येति। प्रकृते तावतैवोपपत्त्या ज्ञानग्रहणम्। न तु करणप्रामाण्यव्युदासाय। तस्याप्युत्पत्तौ स्वतस्त्वादिति ध्येयम्।। यद्वेह ज्ञप्तावेव स्वतस्त्वकथनात्करणानां च ज्ञप्तौ परतस्त्वाज्ज्ञानग्रहणमिति बोध्यम्। उक्तं च प्रमाणपद्धतौ। ज्ञप्तिस्तु परत एव। इन्द्रियादिस्वरूपस्य यथाययं प्रमाणवेद्यत्वात्। यथार्थज्ञानसाधनत्वस्यानुपमानवेद्यत्वादिति। बाह्यैरप्रामाण्यस्यौत्सर्गि कत्वाङ्गीकारात्कथं सम्मतिरित्यत उक्तम्।। विद्वदिति। परीक्षकाणामित्यर्थः। तार्किकाणामप्यविद्वत्त्वादिति भावः। किमतो यद्येवमित्यत आह।। तथा चेति। प्रामाण्यस्य बाधकैकापोद्यत्वे चेत्यर्थः। तत्र गन्धर्वनगरादिसत्त्वग्राहिणि। प्रकृते घटदिसत्त्वग्राहिणि।। तादृशेति। असदेव गन्धर्वनगरं प्रत्यभादिति विशेषदर्शनजन्यबलवत्प्रत्यक्षरूपेत्यर्थः। बाधकाभावस्यासिद्धतां व्युदसितुमदर्शनादित्युक्तम्। तेन निरपवादेत्यस्य नासिद्धिरिति भावः। तस्मात्प्रक्षबाधः सुस्थ इति घट्टार्थः। नन्विदं रूप्यमितिवत्सन्घट इत्यत्रापि सदित्यधिष्ठानब्रह्मानुवेध एव न तु घटगतं सत्त्वं प्रतीयत इति चेन्न। नीलो घटोऽनित्यः पटो मिथ्यारूप्यमसन्नृशृङ्गमित्यादावपि नीलादिरधिष्ठानानुवेध इत्यापातात्। ननु नैल्यादिकं घटेऽस्ति सत्त्वं तु नेति चेन्न। अस्यारोपितसिद्ध्यधीनत्वेनान्योन्याश्रयात्। सिद्धे ह्यारोपितत्वे घटादेः सत्त्वाभावसिद्धिः। सत्त्वाभावसिद्धौ चाधिष्ठानब्रह्मानुवेध सम्भवेनारोपितत्वसिद्धिरिति।
किञ्च रूपादिहीनस्यासंसारमज्ञानानुवृत्तस्य शब्दैकगम्यस्य ब्रह्मणः सन् घटः सन् शब्द इति चाक्षुषादिज्ञाने भानायोगात्। न च स्वरूपेणाप्रत्यक्षस्यापि राहोश्चन्द्रावच्छेदेनेव ब्रह्मणो घटाद्यवच्छेदेन प्रत्यक्षता युक्तेति वाच्यम्। शब्दाद्यवच्छिन्नगगनादेः श्रावणादित्वापातात्। राहोस्तु दूरदोषेणाज्ञातस्य नीलस्य शुक्लभास्वरसम्बन्धाच्चाक्षुषता युक्तेति।
प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे। लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धदृगिति। कैमुत्यन्यायेनापि नाक्षबाधकतानुमानस्येत्याह।। यदा चेति। नन्विदं रूप्यमिति ज्ञानं नेदं रूप्यमित्यक्षेण बाध्यं दृष्टमित्यत आह।। समबलेति। तस्य विशेषदर्शनजन्यतया बलवत्त्वादिति भावः। ननु यद्युक्तरीत्या प्रत्यक्षं तर्कबाध्यं न स्यात्तदा नीलं नभ इति प्रत्यक्षस्य नभो न नीलममूर्तत्वात्कालादिवदित्यनुमानेन बाधो न स्यादिति शङ्कते।। नभ इति। मलिनतामाकलयन्नैल्यं गृह्णदित्यर्थः।। आप्तवाक्येति। अद्यपि न वाक्यस्याप्यक्षबाधने क्षमता। अन्यथाऽद्वैतश्रुत्यैव तद्बाधसम्भवेन पराभिमतसिद्धेः। तथाऽप्यक्षस्य तर्काबाध्यत्वे तात्पर्यम्। अत एव तत्रारुच्याऽऽदिपदप्रयोगः। इदमुक्तं भवति। नानुमानेन नैल्यप्रत्यक्षबाधः। किन्तु तन्मूलभूतबलवत्प्रत्यक्षानुगृहीताप्तवाक्येनैवेति। अश्रावणे नभसि श्रावणीशब्दाभावधीरिवाचाक्षुषेऽपि नभसि नैल्याभावधीर्वायाविव चाक्षुष्येवादूरस्थस्य पुंसो यत्र नभःप्रदेशे नैल्यधीः समीपस्थस्य तस्यैव तत्रैव चक्षुषैवानैल्यबुद्धेरिति वदन्ति। ननु यदाऽऽप्तवाक्यं नास्ति स्वयमेवामूर्तत्वलानुमानेन नैल्याभावमनुसन्धत्ते तदा तद्बाध्यत्वमक्षस्येत्यत आह।। यदा चेति। नैल्याभावमिति शेषः। स्वतो दुर्बलमप्यनुमानं स्वमूलभूतबलवत्प्रत्यक्षबलादेव प्रबलमिति प्रत्यक्षं बाधते। यथा राजगौरवाद्राजभृत्योऽमात्यम्। प्रकृते च मिथ्यात्वानुमानमूलं च प्रत्यक्षं स्वविषयसत्त्वाग्राहीति तत्प्रतिकूलमिति भावः।
ननु कथमद्वैतिनो नभसि नैल्याभावधीरनुमानात्। परममहत्परिमाणलक्षणस्यामूर्तत्वस्यान्त्यावयविभिन्नद्रव्यानारम्भकत्वादेर्वाऽऽत्मन आकाशः सम्भूत इत्युत्पत्तिमत्त्वेनाङ्गीकृते नभस्यसिद्धेर्निःस्पर्शद्रव्यत्वस्य तमसि व्यभिचारात्पृथिव्यादित्रितयान्यत्वस्याप्रयोजकत्वात्पञ्चीकरणेन रूपस्यापि सत्त्वेन बाधाच्चेति चेत्। सत्यम्। तार्किकमतावष्टम्भेन शङ्कमानं प्रति तुष्यतु दुर्जन इति न्यायेनोत्तरमभ्यधायीति ध्येयम्। अत एव वक्ष्यत्युत्तरत्रावयवित्वहेतुदूषणावसरेऽनुमानस्याप्रसारात्तथा हीत्यादिना।
जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति भद्रकाणि। तं ब्राह्मणी पृच्छति रन्तुकामा राजन्रुमायां लशुनस्य कोऽर्थः।। इत्यादिवाक्याभासवदित्यर्थः। तथा च वृद्धिमिच्छतो मूलहान्यापत्तिरिव त्वदभिमतहानिरिति भावः। ननु प्रत्यक्षस्य सम्भावितदोषत्वेनानाश्वाससम्भवेऽपि न वेदे तत्सम्भवस्तस्य नित्यनिर्दोषत्वादित्यतो दोषान्तरमाह।। किञ्चेति। प्रत्यक्षत्वादित्यत्र किं प्रत्यक्षाभासत्वादित्यर्थ उत प्रमाणभूतप्रत्यक्षत्वादिति विकल्प्याद्येऽसिद्धिमाह।। पक्ष इति। अद्याप्याभासत्वासिद्धेरिति भावः। द्वितीये साधनविकलो दृष्टान्त इत्याह।। प्रमाणेति। गन्धर्वनगरप्रत्यक्षस्य प्रामाण्यासिद्भेरिति भावः। आभासप्रमाणसाधारणप्रत्यक्षत्वमात्रं हेतुरिति तुल्यन्यायतया दृश्यत्वनिरासप्रहस्तावे निरस्तप्रायमिति भावः।
ननु न प्रत्यक्षत्वं हेतुः किन्तु ज्ञानत्वमेवेत्यत आह।। ज्ञानत्वेति।। सत्येति। तत्र त्वया प्रामाण्याभ्युपगमात्। अन्यथा तदप्येवमेव स्यादिति भावः।।
अध्याय 14
तदेवं प्रत्यक्षे स्वतः प्राप्तप्रामाण्यस्य बाधकाभावेन निश्चितप्रामाण्यकेन प्रबलेन प्रत्यक्षेण मिथ्यात्वानुमानस्य बाधमुक्त्वाऽऽगमबाधं चाह ।। विश्वमिति। विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वामिति श्रुतेरयमर्थः। हे मघवानौ धनवन्तौ धनवन्तौ युवयोः सम्बन्धीदं विश्वं सङ्कोचकाभावात्प्रत्यक्षादिसिद्धं सर्वं सत्यं ब्रह्मवदबाध्यम्। अत एव तादृशविश्वान्तर्गतत्वादेव वां व्रतं तदर्थं कर्मविशेषम्। आपश्चनाबभिमानिन्यो देवता अपि प्रमिनन्ति प्रतीत्या विषयीकुर्वत इति। आदिपदेन यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता। याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः। सत्यःसो अस्य महिमा अथैनमाहुः सत्यकर्मेति। सत्यं ह्येवेदं विश्वमसौ सृजते। कथमसतः सज्जायेतेत्यादिश्रुतयः। विरोधो बाध इत्यर्थः। ननु नानुमानस्यागमबाधः। भिन्नविषयत्वेनाविरोधात्। अनुमानं हि तात्त्विकसत्त्वाभावमवगाहते श्रुत्यादिकं व्यावहारिकसत्त्वमावेदयतीति भावेनाशङ्क्य निषेधति।। व्यावहारिकमिति। अत्र श्रुत्यादौ।। निर्बीजत्वादिति। व्यावहारिकसत्यत्वकल्पनाया मिथ्यात्वसिद्ध्यत्तरकालीनत्वेनाद्यापि तदसिद्ध्या कल्पकाभावादित्यर्थः। अन्यथा तत्सत्यमित्यादिब्रह्मसत्ताश्रुतिरपि प्रातिभासिकसत्त्वपरा स्यात्। न च मिथ्यात्वबोधकाद्वैतश्रुतिविरोधात्सत्यत्वश्रुतेर्व्यावहारिकत्वपरता कल्प्यत इति वाच्यम्। त्वत्पक्षे तस्या लक्षणयाऽखण्डचिन्मात्रपरत्वेन विश्वसत्ताऽविरोधित्वात्। असद्वा इत्यादिश्रुतिविरोधेन तत्सत्यमित्यादेः प्रातिभासिकसत्त्वपरत्वसाम्याच्च। न च ब्रह्मसत्त्वश्रुतिविरोधादसद्वा इदमित्यादिवाक्यमप्रमाणमन्यार्थं वेति वाच्यम्। विश्वसत्यत्वश्रुति विरोधात्तन्मिथ्यात्वश्रुतिरप्रमाणमन्यार्था वेत्यपि साम्यात्। न च मिथ्यात्वश्रुतिः षड्विधतात्पर्यलिङ्गोपेतत्वात्प्रबलेति वाच्यम्। अत्रापि वाक्यशेषे आपश्चन प्रमिनन्तीति प्रामाणिकत्वरूपायाः सत्यमित्तन्न मोघमित्यर्थक्रियाकारित्वरूपायाश्चोपपत्तेस्तात्पर्यलिङ्गस्य सत्त्वात्। तस्मात्साधूक्तं निर्बीजत्वात्कल्पनाया इति। किञ्चैवमविप्रतिपन्नार्थबोधकत्वेनाग्निर्हिमस्य भेषजमितिवदनुपादेयमेव स्यादित्याह।। व्यर्थं चेति। वैय्यर्थ्यमेवोपपादयति।। न हीति।। व्यावहारिकेति। असत्प्रातिभासिकविलक्षणसद्रूपतामित्यर्थः। ननु भवतामप्ययं दोषः समानो विश्वसत्यत्वस्य विश्वजनीनत्वादित्याशङ्क्य वैदिकाभासविवादनिरासेनार्थवत्त्वमाह।। तस्मादिति। व्यावहारिकपरत्वे वैय्यर्थ्यप्रसङ्गादित्यर्थः। तत्र युक्तिमाह।। अप्राप्त इति। मानान्तरानवगतार्थं बोधयच्छास्त्रं सप्रयोजनमित्यर्थः। अत एव शासनादप्रतीतार्थबोधनाच्छास्त्रमिति वदन्तीति भावः। नन्वथाऽपि नागमादनुमानस्य बाधस्तस्य प्रत्यक्षावगतसत्त्वानुवादित्त्वेन दुर्बलत्वात्। न चानुवादित्वे तस्य वैय्यर्थ्यमिति वाच्यम्। नेह नानेति निषेधवाक्यापेक्षितप्रतियोगिसमर्पकत्वेन सार्थक्यादिति शङ्कते।। नेह नानेति। अनुवदति विश्वसत्यतामिति शेषः। निषेध्यसमर्पणाभावे निषेधानुपपत्तेरिति भावः। यदि विश्वसत्यतावाक्यं निषेध्यसमर्पकं तर्हि नियामकाभावेन नेह नानेति श्रुतिरेव बाध्यत्वरूपबाधनिषेधाय विश्वबाधानुवादिनी किन्न स्यादित्याह।। तथा सतीति।। विधानेति। बाधाभावरूपाबाध्यत्वलक्षणसत्यताविधानार्थमित्यर्थः।। अनुवाद इति। तत्र प्रतियोगिभूतबाधानुवाद इत्यर्थः। अत्र यद्यपि विश्वं सत्यमिति न निषेधः। तथाऽपि न्यायनये तमःशब्दवत्सर्वमते प्रलयशब्दवच्चार्थगत्या भवत्येव निषेध इति भावः। उपलक्षणं चैतत्। नेह नानेति वाक्य एव किञ्चनेति निषेध्यार्पकस्य सत्त्वेन तद्धानेनातिदूरस्थकर्मकाण्डगतस्य विश्वं सत्यमित्यादेर्ब्रह्मकाण्डगतनेहनानेति वाक्यनिषेध्यार्पकताकल्पनमन्याय्यमिति च बोध्यम्। ननु न विश्वं सत्यमित्यनेन विश्वस्य सत्यत्वं विधातुं शक्यते। तस्याक्षसिद्धत्वेनाप्राप्त्यभावेन विधानायोगादिति चेत्तर्हि विश्वबाधस्यापि विज्ञानवादादितो दृश्यत्वादिकुतर्कैश्च प्राप्त्या नेह नानेत्यनेनापि तन्निषेधविधानायोगात्।
किञ्च वर्तमानकतिपयमात्रविषय प्रत्यक्षाप्राप्तसर्वप्रपञ्चनिष्ठत्रिकालाबाध्यत्वरूपसत्त्वविधानसम्भावाच्च। अन्ये तु। अक्षसिद्धस्य सत्त्वस्य नेह नानेत्यादिना निषिद्धस्य प्रतिप्रसवार्थं विश्वं सत्यमित्यादि किन्न स्यादिति विधानशब्दस्य प्रतिप्रसवार्थाभिधायकत्वमाहुः।
ननु यदुक्तं नेह नानेति वाक्यं विश्वं सत्यमित्यादिवचनविधानायानुवादकं ब्रह्मसत्तापरं वाक्यं चासदिति निषेधायेति च तद्द्वयमप्ययुक्तम्। अनुवादस्य मानान्तरसापेक्षत्वेन विश्वसत्यतावाक्ये तत्सत्यतावेदकाक्षरूपमानान्तरसत्त्वेनानुवादितोपपत्तावपि न बाधबोधकस्य नेह नानेत्यादेः। न वा ब्रह्मसत्ताबोधकस्य सत्यं ज्ञानमित्यादेः सा सम्भवति। तयोर्बोधकस्य कस्यापीतोऽन्यस्याभावादित्याशयेन शङ्कते।। विश्वमिथ्यात्वब्रह्मसत्यत्वे इति।। श्रुतिमन्तरेति। नेह नानेति सत्यं ज्ञानमिति च श्रुतिद्वयं विनेत्यर्थः। पररीत्यैव प्राप्तिसम्पादनं सुशकमिति परिहरति।। नेति। साधनात्परेणेति शेषः। नन्वधिष्ठानत्वमात्रेण कथं ब्रह्मणः सत्त्वसिद्धिरित्यत उक्तं भ्रमेति। निरधिष्ठानकभ्रमायोगादित्यर्थः। एवं विश्वं सत्यमित्यादिवाक्यमनुवादकमिति पक्षेऽतिप्रसङ्गमभिधायोपपाद्य चेदानीं तस्यानुवादकत्वाय पुरोवादस्थानीयं घटादिसत्ताग्राहिप्रत्यक्षं प्रमाणं चेत्तद्बाधो मिथ्यात्वश्रुतेर्न चेन्नानुवादकता सत्त्वश्रुतेरित्युभयतः पाशारज्जुरित्यभिप्रेत्य दूषयति।। किञ्चेति।। प्रामाणिकतेति। विश्वसत्त्वग्राहिणः प्रमाण्यमुपेयते न वेति यावत्।। तत्प्रमाणेति। घटादिसत्त्वग्राहिप्रमाणबाधादित्यर्थः। नेह नानेत्यादेरिति शेषः। निषेध्यस्य घटादिसत्त्वस्य। स्वेन परेण।। असिद्धस्येति। प्रत्यक्षस्याप्रामाण्ये घटादिसत्त्वस्यासिद्धत्वेनाप्राप्त्या नानुवादकत्वमित्यर्थः। तत्समानविषयत्वे च श्रुतेरसदर्थविषयकत्वेनाप्रामाण्यापत्तेरिति भावः।। दत्तोत्तरत्वादिति। तत्प्रमाणविरोधादित्युक्तत्वादित्यर्थः। तथैव विश्वसत्त्ववदेव। निषिध्यतेऽसदित्यादिवाक्यैरिति शेषः।
ननु तर्हि कुत्राप्यनुवादकता न स्यात्। अतिप्रसङ्गस्य तत्रापि वक्तुं शक्यत्वादित्याशङ्क्य यत्र यच्छब्दादि तल्लिङ्गं तत्रैवानुवादकता नान्यत्रेत्यभिप्रेत्य श्रुतिबाधं चोपसंहरति।। तस्मादिति। उक्तात्पिरसङ्गादित्यर्थः। यद्वदन्तीत्यादीत्यादिपदेन निषेधसमभिव्याहाररूपलिङ्गं गृह्यते। यद्यपि न कलञ्जं भक्षयेदित्यादौ यद्वदन्तीत्यादि निषेधार्थानुवादलिङ्गाभावेऽपि कलञ्जं भक्षयेदित्यादेर्निषेध्यसमर्पकानुवादत्वमस्ति। तथाऽपि तत्रैवात्र निषेधसमभिव्याहाररूपलिङ्गस्याप्यभावादिति भावः। उदितं श्रुत्येति शेषः। इति यतोऽतः। श्रुतिविरोधो बाध इत्यर्थः।। छ ।।
अध्याय 15
एवं श्रुतिविरोधमुक्त्वा विश्वमिथ्यात्वस्य स्मृत्या निन्दनाच्च न तद्बाध्यमित्याह।। असत्यमिति। त आसुराः स्वयं नष्टा जगतः क्षयकारिण इत्युत्तरार्धेन तेषां निन्दनादिति भावः।। निरवकाशेति। श्रुतिवन्निषेध्यसमर्पकत्वेन व्यावहारिकसत्त्वपरत्त्वेन वा शङ्कानवकाशादित्यर्थः। आदिपदेन "एवं भूतो महाविष्णुर्यथार्थं जगदीदृशम्। अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुरि"ति वाराहवचनं नाभाव उपलब्धेर्वैधर्म्याच्च न स्वप्रादित्यादिसूत्रं च गृह्यते। ननु भवेदयं स्मृतिविरोधो जगतोऽसत्त्वं ब्रुवतां शून्यवादिनामेव नास्माकम्। अस्माभिर्जगतोऽसद्वैलक्षण्याभ्युपगमेन व्यावहारिकसत्त्वस्वीकारादित्याशङ्क्य निषेधति।। न चेति।। वादिन एवाभावादिति। शून्यवादिमतेऽप्यर्थक्रियाकारित्वादिना शशशृङ्गादिवैलक्षम्यसत्त्वात्। प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेन तद्वैलक्षण्यस्याद्वैतिमत एवाभावाद्व्यावहारिकसत्त्वस्य च तन्मतेऽपि भावात् द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना। लोके संवृतसत्यत्वं सत्त्वं च परमार्थथः। सत्त्वं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम्। सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम्।। इति बौद्धोक्तेरिति भावः। अत एवोक्तं भगवत्पादैः। "न च शून्यवादिनः सकाशाद्वैलक्षण्यं मायावादिन" इति।
ननु माऽस्त्वत्यन्तासत्त्वाभ्युपगन्ता वादी स्मृतिकर्ता व्यासः स्वयमेवासत्त्वमाशङ्क्य निषेधतीति किन्न स्यादित्यत आह।। आहुरिति। इतिशब्दः श्रुत्यादिबाधसमाप्तै।। छ ।।
अध्याय 16
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमविरोधमभिधायाधुनाऽनुमानविरोधं चाह।। विप्रतिपन्नमिति। अत्र यद्यपि प्रत्यक्षविरोधकथनानन्तरं क्रमप्राप्तानुमानविरोधमुक्त्वा पश्चादागमविरोधकथनमुचितम्। तथाऽप्यनुमानस्य स्वातन्त्र्येण साधकबाधकत्वान्यतराशक्तत्वात्प्रत्यक्षागमान्यतरमूलकस्यैव तच्छक्तत्वेन तदुभयनिरूपणान्तरमेतन्निरूपणमिति ध्येयम्। विप्रतिपन्नं स्त्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम्। असत्प्रातिभासिकब्रह्मान्यजगदित्यर्थः। सत्यमबाध्यम्। प्रमाणदृष्टत्वात्प्रमाणजन्यज्ञानं प्रत्यनिषेध्यत्वेनसाक्षाद्विषयत्वादित्यर्थः। दृष्टत्वाज्ज्ञानविषयत्वादित्युक्तौ शुक्तिरूप्ये व्यभिचारः। अतः प्रमाणेति। प्रमितिविषयत्वादित्यर्थः। तावत्युक्तेऽपि रूप्यज्ञानवानहमिति व्यवसायद्वारा शुक्तिरूप्यस्यापि साक्ष्यादिरूपप्रमाविषयत्वाद्व्यभिचार एव। अतः साक्षादिति। अव्यवधानेनेत्यर्थः। तावत्युक्तेऽप्यसद्रजतमिति बाधरूपप्रमां प्रति साक्षाद्विषयत्वेन पुनर्व्यभिचारः। अतो निषेध्यत्वेनेति विशेषणम्।। ब्रह्मवदिति। शुद्धब्रह्मवदित्यर्थः। ब्रह्मणो वृत्तिव्याप्यत्वमतेनेदं दृष्टान्तकथनमतो न साधनवैकल्यम्। अत्र व्याप्त्यनाभिधानं तदभिधाननियमाभाववसूचनाय। ननु सत्यमित्यत्र किमिदं सत्यत्वं सत्ताजातिर्वा विधिगम्यत्वं वाऽर्थक्रियाकारित्वं वा प्रातिभासिकेतरत्वं वाऽसदतिरिक्तत्वं वा। सर्वस्यापि मयाऽङ्गीकृतत्वेन सिद्धसाधनादन्यस्यानिरूपणादित्याशङ्क्य निषेधति।। न चेति। अभिमतसत्यशब्दार्थमाह। अबाध्यताया इति। साध्यत्वात्सत्यशब्दार्थत्वात्। एतेन सत्यत्वं नाम व्यावहारिकसत्त्वमुत पारमार्थिकसत्त्वम्। आद्ये सिद्धसाधनं साध्यहीनता दृष्टान्तस्य। अन्त्ये सिद्धान्ते व्यर्थविशेषणत्वं व्यावर्त्याभावादिति निरस्तम्। बाधाभावस्यैव साध्यत्वात्। नन्वेवमपि सप्रकारकबाधाभावो वा निष्प्रकारकबाधाभावो वा साध्यः। आद्ये इष्टापत्तेः। वादिनः सप्रकारकपदवैय्यर्थ्यं च। अन्त्ये वादिनोऽप्रसिद्धिरिति चेन्न। बाधसामान्याभावस्यैव साधनात्। ननु बाधो नामान्यथाविज्ञातस्य सम्यग्विज्ञातत्वं चेत्तर्हि सिद्धान्तेऽपि पक्षसपक्षयोः क्षणिकत्वनिर्गुणत्वादिना ज्ञातस्य सत्यत्वसगुणत्वादिना प्रमितत्वाङ्गीकाराद्बाधसाध्यवैकल्ये स्यातामिति चेन्न। प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधाप्रतियोगित्वस्यैव तदर्थत्वादिति भावः। नन्वबाध्यत्वमप्रसिद्धम्। प्रपञ्चमात्रस्य पक्षत्वात्। शुक्तिरूप्यस्य विपक्षत्वादित्यत आह।। तस्याश्चेति। त्रैकालिकनिषेधाप्रतियोगित्वरूपाबाध्यताया इत्यर्थः। सिद्धत्वाद्वादिप्रतिवादिनोरिति शेषः। न वा साध्यवैकल्यामिति वक्यशेषः।
ननु प्रमाणदृष्टत्वादित्यत्र किं तत्त्वावेदकप्रमाणविषयत्वमुतातत्त्वावेदकप्रमाणविषयत्वं हेतुः। पक्षद्वयेऽप्यन्यतरासिद्धो हेतुरिति शङ्कते।। नन्विति। अस्माकमद्वैतिनाम्। असिद्धमेवोपपादयति।। प्रत्यक्षादीति।। तवेति। सिद्धान्तिन इत्यर्थः। मतद्वयेऽपि दोषमाह।। साधनेति। ब्रह्मणस्तत्त्वावेदकमानवेद्यत्वादिति भावः।
ननु प्रत्यक्षादेरततत्त्वावेदकत्वे मानाभावेऽपि न तत्त्वावेदकत्वम्। तत्साधकाभावात्। तथा चासिद्धिरेवेत्याशङ्क्य तामुद्धर्तुमाह।। प्रत्यक्षादिकमिति। हेतोरप्रयोजकतामुद्धरिति। अन्यथेति। प्रत्यक्षादेरतत्त्वावेदकत्वं इत्यर्थः। तत्त्वावेदकस्यैव प्रमाणत्वादिति भावः। एवं प्रत्यक्षादेस्तत्त्वावेदकत्व इत्यर्थः। तत्त्वावेदकस्यैव प्रमाणत्वादिति भावः। एवं प्रत्यक्षादेस्तत्त्वावेदकत्वं प्रसाध्य पक्षे हेतुसिद्धिं साधयति।। प्रपञ्च इति। साक्षादनिषेध्यत्वेन तादृशप्रमाणविषय इत्यर्थः।। सम्प्रतिपन्नेति। भ्रमविषयत्वेनोभयवादिसिद्धो योऽर्थस्तद्भिन्नत्वादित्यर्थः।। उपाधेः साधनव्यापकतामाह।। अबाध्यत्वादेरिति। अबाध्यत्वज्ञानत्वज्ञानाधारत्वात्मपदवाच्यत्वादिप्रागुक्तात्मत्वविकल्पानां पक्षेऽनेनैव हेतुना साधनसम्भवादित्यर्थः। ज्ञानत्वादेरपि पक्षैकदेशे सत्त्वादिति भावः।।
अन्यथेति। उक्तहेतुनाऽबाध्यत्वादिरूपात्मत्वस्य पक्षेऽसिद्धौ तादृशहेतुमति ब्रह्मण्यप्यात्मत्वं न स्यादविशेषात्। तथा च साधनव्यापकतेति भावः। तथा च तत्त्वावेदकप्रमाणविषयत्वरूपो हेतुर्नासिद्ध इत्यखण्डतात्पर्यम्।
अन्यथेति। प्रमाणप्रवृत्तेः प्राक् तस्य सत्त्वाभावे इत्यर्थः। एवं साध्यावैशिष्ट्यमुद्धृत्य ब्रह्मवृत्तिव्याप्यमपि नेति मते दृष्टन्ते साधनवैकल्य दोषमुद्धर्तुं शङ्कामुपक्षिपति।। तथाऽपीति। साध्यावैशिष्ट्याभावेऽपीत्यर्थः।। केवलेति। अन्वयव्याप्तौ ब्रह्मणो दृष्टन्तत्वेऽपि न व्यतिरेकव्याप्तौ। तत्र शुक्तिरूप्यस्य दृष्टान्तत्वात्। तत्र च साधनव्यावृत्तेः सत्त्वेनादोषत्वादिति भावः।
ननु सति सपक्षे तत्रावर्तमानो हेतुरसाधारणानैकान्तिक इति तल्लक्षणात्सपक्षे ब्रह्मण्यवर्तमानो हेतुः कथं साध्यसाधक इत्यत उक्तमसाधारणेति। असाधारण्यस्या नित्यदोषत्वेनानुकूलतर्कादिविशेषदर्शनदशायां तस्यादोषत्वादिति भावः। एवं ब्रह्मणः प्रामाणिकत्वाभावेऽपप्यनुमानसामीचीन्यमभिधायाधुना वस्तुस्थितिमनुरुध्य प्रामाणिकत्वं समर्थयितुं तदनङ्गीकारे बाधकमाह।। ब्रह्मणश्चेति। किञ्चेति चार्थः। अप्रामाणिकत्वे प्रामाणिकत्वाभावे। शशविषाणवत् शशविषाणस्येव। ब्रह्मणः प्रमाणविषयत्वाभावेऽपि नासत्त्वमिति सङ्कते।। स्वत इति।। अनभ्युपगमादिति। परेणेति शेषः। तमेवोपपादयति ।। न हीति। कारकतेति। स्वेनेति करणार्थे विहि ततृतीयाभिधेयकरणकारकत्वस्य वा सिद्ध इति विषयत्वरूपकर्मकारकत्वस्य वा त्वयाऽनङ्गीकारादित्यर्थः। यदि स्वकर्मकसिद्ध्यभावेऽपि तत्स्वतःसिद्धं तदाऽतिप्रसङ्गमाह।। अन्यथेति। इत्यस्येत्यनन्तरमाक्षेपस्येति शेषः।
ननु सत्यार्थक्रियाकारित्वं हेतुरुतासत्यम्। नाद्यः। परं प्रत्यसिद्धेः। नान्त्यः। असत्यायाश्चैन्द्रजालिकादौ व्यभिचारादिति चेदत्राहुः। सप्रकाराबाध्यार्थक्रियाकारित्वं हेतुः। परमते निष्प्रकारकबाध्यत्वेऽपि सप्रकाराबाध्यत्वात्सिद्धान्ते चाबाध्यत्वादेव सप्रकारकाबाध्यत्वस्यापि सत्त्वात्। न च परमते सप्रकारकेत्यस्यासिद्धिवारकत्वं दोषः। विमतमकर्तृकं शरीराजन्यत्वात्। अनभ्यासदशायां सांशयिकत्वात्। विमतं निर्धूममार्द्रेन्धनप्रभववन्हिरहितत्वादित्यादौ तत्स्वीकारात्। किञ्च परमतेऽबाध्यार्थक्रियाकारित्वस्य क्वाप्यभावेनाप्रसिद्ध्या व्याप्तिग्रहोपयुक्तत्वेन सार्थकत्वाच्च। व्यबिचारवारकस्यापि व्याप्तिग्रहोपयुक्तत्वेनैव सार्थक्यात्। नन्वेवमपि भारतयुद्धादौ घटोत्कचादिनिर्मितपदार्थेषु व्यभिचार इति वाच्यम्। तेषामपि तत्छक्तिविशेषसृष्टत्वेन सत्यत्वान्न व्यभिचार इति। वस्तुतस्तु अर्थक्रियाकारित्वादिति यथान्यासमेवास्तु। न चैन्द्रजालिकादौ व्यभिचारः। तत्र हेतोरेवाभावात्। न च तत्राप्यसत्यं तदस्तीति वाच्यम्। अनुमानमात्रे आरोपितहेतोर्विपक्षवृत्तितासम्भवेनानुमानमात्रोच्छेदकतया स्वव्याघातात्। यदपि मायाविनिर्मितचतुरङ्गादिदर्शनाद्भयादिकं जायत इति तदपि मायाविप्रदर्शितपदार्थज्ञानस्य सत्यस्यैवेत्यवगच्छतो यथाश्रुतमेव साध्वित्युत्पत्स्यामः। ननु स्वप्नरम्भासम्भोगादौ धातुविसर्जनरूपार्थक्रियाकारित्वे विद्यमानेऽपि न तत्र सत्यत्वमित्याशङ्क्य निषेधति।। स्वाप्नेति। आदिपदेनानिष्ट सूचककृष्णपुरुषमर्कटास्कन्दनादिपरिग्रहः। स्वाप्नार्थानां सत्यत्वमभिप्रेत्याह।। पक्षेति। ततश्च किमित्यत आह।। न हीति। अनुमानमात्रोच्छेदकतया स्वव्याहतत्वादिति भावः। ननु स्वाप्ने व्चभिचाराभावेऽपि रज्ज्वामारोऽपित भुजङ्गस्यासत्यस्य भयकम्पादिरूपार्थक्रियाकारित्वदर्शनाद्व्यभिचार इति शङ्कते ।। रज्जिति। आदिपदेन सवितृसुषिरादिपरिग्रहः। न रज्जुभुजङ्गादेर्भयादिजनकत्वम्। सत्यप्यर्थे तदज्ञाने भयादेरदर्शनात्। असत्यप्यर्थे तज्ज्ञाने सति तस्य दर्शनेनान्वयव्यतिरेकाभ्यां रज्जुसर्पदिज्ञानमेव भयादिजनकं न तु रज्जुसर्पादि। ज्ञानं च सत्यमिति भावेन परिहरति।। तज्ज्ञानस्येति।
ननु चार्थस्य मिथ्यात्वे ज्ञानस्यापि मिथ्यात्वाङ्गीकारादेवमपि व्यभिचारतादवस्थ्यमिति चेन्न। अज्ञानस्यावच्छेदकस्यानिर्वचनीयत्वेऽपि तदवच्छिन्नाज्ञानाहनेर्ब्रह्माभिन्नायाः पञ्चमप्रकारायाः सदसद्वैलक्षण्यलक्षमानिर्वाच्यत्वाभावादिति भावः।
किञ्च सत्यसर्पज्ञानं विषयोपाधिमनपेक्ष्यासर्पज्ञानाद्विलक्षणम्। तज्जनकविलक्षणजनकजन्यत्वात्। परोक्षज्ञानजनकविलक्षणजनकजन्यापरोक्षज्ञानवत्। न चासिद्धिः। असर्पज्ञानजनको यो सर्वेन्द्रियसंयोगस्तद्विलक्षण सर्पेन्द्रियसंयोगजन्यत्वात्सर्पज्ञानस्य। न च दृष्टान्तस्य साध्यवैकल्यम्। एकविषयकयोरपि परोक्षत्वापरोक्षत्वलक्षणवैलक्षण्यदर्शनेनापरोक्षत्वस्य विषयोपाधिकत्वाभावात्। न च विलक्षणजनकजन्यत्वं सर्पस्य विषयसम्बन्धरूपवैलक्षण्येनैवोपपन्नमिति तदतिरिक्तवैलण्यसाधनेऽप्रयोजकता। यवबीजविलक्षणकलमबीजजन्यत्वस्यापि कदाचिद्देवदत्तादिरूपसम्बन्धवैलक्षण्येनैवोपपत्त्या कलमबीजजन्याङ्कुरस्य यवबीजजन्यत्वात्स्वतो वैलक्षण्यरूपकलमाङ्कुरत्वस्य कदाचिदभावप्रसङ्गादिति। एवञ्चानेनानुमानेन सत्यसर्पज्ञानस्य स्वतो वैलक्षण्ये सिद्धे तन्न्यायेनासत्यसर्पज्ञानस्यापि स्वतो वैलक्षण्यसिद्धेर्ज्ञानस्यैव भयादिजनकत्वं नार्थस्य न वाऽतिप्रसङ्ग इति। उक्तं च मिथ्यात्वानुमानखण्डनटीकायाम्। तत्रापि तज्ज्ञानस्यैव साधकत्वात्। ज्ञेयभेदानवच्छिन्नस्य ज्ञानमात्रस्याति प्रसङ्गित्वात्तदवच्छिन्नस्य सिद्ध्यङ्गतायां तस्याप्यङ्गत्वमिति चेन्न। दोषवशात्सत्यतद्विषयज्ञानसदृशज्ञानस्याङ्गताऽङ्गी कारादित्यादिनाऽनवच्छिन्नस्य ज्ञानस्य हेतुत्वम्। एतेन मिथ्यात्वज्ञानं प्रति व्यावृत्तिधीहेतुत्वरूपव्यावर्तकत्वमस्तीत्यसतोऽपि हेतुतेति निरस्तम्। विषयमनपेक्ष्य ज्ञान एव व्यावर्तकधर्मोक्तेः। न च तर्हि तेनैवासाधारणधर्मेण व्यवहारः स्यान्न तु सर्पज्ञानं घटज्ञानमित्यर्थस्य व्यावर्तकतया व्यवहारः इति वाच्यम्। व्यवहारदशायामनुभवसिद्धसत्ताऽपि तस्य ज्ञानगतविशेषस्य क्षीरमाधुर्यादिवद्विशिष्याख्यातुमशक्त्या क्षीरपदवत्तदुपलक्षकं सर्पादिपदमेवानुप्रयुक्तमित्यास्तां विस्तरः। नन्वर्थक्रियाकारित्वादित्यत्र न विशिष्टात्मा दृष्टन्तस्तस्य सत्यत्वाभावेन पक्षनिक्षेपात्। न शुद्धात्मा तस्य सत्यत्वेऽप्युदासीनस्य नार्थक्रियाकारित्वम्। तथा च साधनविकलो दृष्टन्त इति शङ्कते।। आत्मनीति। अत्रापि पूर्वानुमान इवासाधारणस्य दूषणत्वाभावपक्षेऽसद्दृष्टान्तेन व्यतिरेकित्वोपपत्तेरिति वक्तुं शक्यम्। तथाऽपि वस्तुस्थितिमनुरुध्य गूढाभिप्रायेण परिहारमाह।। नेति। ऐन्द्रजालिकसृष्टिवन्मायिकं किन्न स्यादित्यत उक्तं श्रुतिशतेति। यतो वा इमानि भूतानि जायन्ते, द्यावाभूमी जनयन्देव एकः, सत्यः, सोऽस्य महिमा, सत्यकर्मा महात्मा, याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इत्यादिभिर्जगत्कारणत्वावगमादित्यर्थः। अन्यथा श्रुतेरप्रामाण्यापत्तेरिति भावः।। सोऽपीति। जगत्कारणत्वेन श्रूयमाणोऽपीत्यर्थः। स्वाशयमुद्धाटयति।। महायानिकेति। जगत्कारणत्वेन श्रूयमाणस्याप्यात्मनो मिथ्यात्वे आत्ममिथ्यात्ववादिषु बौद्धेषु पक्षपातः कृतः स्यात्। बौद्धमतप्रवेशापत्तिरिति यावत्।
ननु विशिष्टात्मान्यस्य शुद्धस्यात्मनो मयाऽङ्गीकारान्न बौद्धपक्षपातः स्यादित्याशङ्कते।। तदिति।। एतद्विशेषणेति। विशिष्टात्मातिरिक्तत्वरूपविशेषणविशिष्टस्य मिथ्यात्वेन पूर्वदोषानिस्तार इति भावः।
ननु विष्णवे शिपिविष्टाय शक्ष्यते चरुमित्यादौ देवतात्वं यथा विशिष्टनिष्ठं न तु विशेष्यगतं तद्वदिहापि विशिष्ट एवार्थक्रियाकारितेति चेत्तद्वदेव विशेषणेऽप्यर्थक्रियाकारिता न स्यात्। विशेष्यविशेषणोभयानन्वयिनो विशिष्टान्वयायोगेन जगत्कारणत्वश्रुतयो निरालम्बनाः प्रसज्येरन्। मिथ्यात्वमपि विशिष्ट एव न तु विशेषण इत्यपि सुवचत्वाच्च। वस्तुतस्तु परेणापि शुद्धात्मनोऽज्ञानसुखादिसाधकत्वस्याङ्गीकृतत्वेन न साधनवैकल्यमिति बोध्यम्। अन्यथा साक्षी चेता केवलो निर्गुणश्च तेभ्यो विलक्षणः साक्षी चिन्मात्रस्तुरीयं तत्सर्वदृक् सदेत्यादिश्रुतिविरोधात्। अत्र चिन्मात्रस्य साक्षिपदेन दृक्पदेन साधनतोक्तेः। उक्तं चानुव्याख्याने। "साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता।स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनरि"ति। न चार्थक्रियाकारित्वेऽपि सत्त्वेन भाव्यमित्यत्र नियामकाभावादप्रयोजकत्वम्। ब्रह्मण्यर्थक्रियाकारित्वरूपहेतुं प्रति सत्यत्वस्यैव प्रयोजकत्वेन क्लृप्तत्वादसति च सत्यत्वाभावेनार्थक्रियानुपलम्भाच्च। एवञ्च प्रयोजकं विना प्रयोज्यं स्यादिति शङ्कायाः स्वव्याहतत्वेनानुदयात्। उक्तं च व्याघातावधिराशङ्केति। न चात्मत्वमुपाधिः। प्राग्वदेवोक्तहेतुनाऽबाध्यत्वादिरूपस्यात्मत्वस्य पक्षे साधनसम्भवेन साधनव्यापकत्वात्। अन्यथा ब्रह्मणोऽप्यात्मत्वाभावप्रसङ्गादिति साध्याव्यापकत्वाच्चेति ध्येयम्। किञ्च विमतं सत्यं व्यावहारिकत्वादात्मवदित्यनुमानान्तराच्च सत्यत्वसिद्धिरित्यभिप्रेत्याह।। व्यावहारिकत्वं चेति। साध्यं प्राग्वद्व्याख्येयम्।
ननु व्यावहारिकत्वं नाम व्यवहारविषयत्वं तत्र व्यवहारशब्देनाभिज्ञोच्यते उताभिलपनमथ प्रवृत्तिः। सर्वथाऽपि शुक्तिरूप्यादौ व्यभिचार इत्यत आह ।। अभिज्ञेति। यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्यनित्यज्ञाने व्यवस्था। तथा चेह शुक्तिसन्निकृष्टेन चेन्द्रियेण दोषवशाच्छुक्तिरेव रूप्यतया प्रतीयत इत्यभिज्ञा तावत्तद्विषयैव। तज्जन्यव्यवहारश्च तद्विषयविषये भवितुमर्हतीति सोऽपि तस्यामेव। प्रवृत्तिश्च तद्विषयेत्यत्र न कस्यापि विवाद इति भावः। ब्रह्म वृत्तिव्याप्यमिति मते तस्याप्यभिज्ञाविषयत्वान्न साधनशून्यं निदर्शनम्। असद्वा व्यतिरेकिदृष्टान्तः असाधारण्यस्यागृह्यमाणविशेषदशायामेव दोषत्वादिह चासतो व्यावहारिकत्वादर्शनेन सत्यत्वाभावे व्यावहारिकत्वमेव न स्यादिति हेतूच्छित्तिरूपस्य विपक्षे बाधकतर्कस्य विशेषस्य दर्शनात्। एवेनोपाध्यप्रयोजकत्वादिशङ्कानवकाशा वेदितव्येति सुस्थो मिथ्यात्वहेतूनामनुमानबाध इति ।। छ ।।
अध्याय 17
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमानुमानैर्बाधितविषयत्वमभिधायाधुनोपाधिं चाह।। दोषेति। चशब्दो दूषणसमुच्चयार्थः। दोषेण गम्यत्वं दोषगम्यत्वं दोषजन्यज्ञानविषयत्वमित्यर्थः। मिथ्यात्वेन सम्मते शुक्तिरूप्यादौ तस्य सत्त्वेन साध्यव्यापकत्वात् साधनवति पक्षे क्लृप्तातिदूरस्थत्वातिसामीप्यसौक्ष्म्यसमानद्रव्यभिघातादिदोषाणामभावस्य निश्चितत्वेन दोषगम्यत्वस्याभावात्साधनाव्यापकत्वमिति भावः। ननु दोषगम्यत्वं नोपाधिः साधनव्यापकत्वात्। विमतं दोषगम्यं दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरूप्यवदिति तस्य पक्ष एव साधनसम्भवादित्याशङ्क्य निषेधति।। न चेति। यथा शुक्तिरजते तथा प्रपञ्चेऽपीत्यपेरर्थः। तत् दोषगम्यत्वमित्यर्थः। कुतो न साध्यमित्यतो हेतुमाह।। मिथ्यात्वेति। अत्रापि दोषगम्यत्वसाधनेऽपीत्यर्थः। अयमाशयः। यथा मिथ्यात्वे दृस्यत्वादिना साध्ये दोषगम्यत्वमुपाधिरेवं दोषगम्यत्वे साध्ये मिथ्यात्वमुपाधिः स्यात्। न चोभ्यं युगपत्साध्यम्। तथाऽप्यन्यतरस्योपाधित्वानिस्तारात्। किञ्च यथा स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः शाकपाकजत्वसाधने श्यामत्वमुपाधिरुभयसाधने त्वर्थान्तरमित्युच्यते। एवं दोषगम्यत्व मिथ्यात्वयोर्द्वयोरपि युगपत्साधनेऽर्थान्तरत्वं दूषणं बोध्यम्। मिथ्यात्व एव विप्रतिपत्तेरिति।
ननु तर्हि शाकपाकजत्ववदेवायं साधनाव्यापकत्वसन्देहात्सन्दिग्धोपाधिरेव स्यान्न निश्चितोपाधिरिति चेत्। सत्यम्। तथाऽपि पक्षे स्वाव्यावृत्तिसन्देहेन साध्यसन्देहाधायकत्वेन सन्दिग्धोपाधेरपि दूषकत्वात्। न चानुमानमात्रोच्छेदकतया साध्यसन्देहस्यानुमित्यप्रतिबन्धकत्वेनादोषत्वमिति वाच्यम्। स्वरसवाहिनः साध्यसन्देहस्यानुमित्यप्रतिबन्धकत्वेऽप्युपाध्यादिशङ्काहितस्य बाधसन्देहोत्थापकतया वा सन्दिग्धानैकान्तिकोत्थापकतया वा तत्प्रतिबन्धकत्वेन स्वीकारात्। उक्तं च तत्त्वनिर्णयटीकायाम्। अन्यतरप्रामाण्येऽपि व्याघातस्म्भवेन सन्दिग्धकालातीतत्वस्यानैकान्तिकत्वस्य वाऽऽपातादित्यप्रयोजकत्वशङ्काहितस्य तस्य दोषत्वम्। यद्वा यथा दृश्यत्वादिना मिथ्यात्वे साध्येऽसिद्धविरुद्धानैकान्तिकत्वकालात्ययापदिष्टत्वादयो दोषा अभिप्रेतास्तथा तेनैव हेतुना दोषगम्यत्वस्यापि पक्षे साधनेऽसिद्धत्वादयो दोषाः प्रादुष्युः। तथा च दृश्यत्वादीनां पक्षे दोषगम्यत्वसाधनासमर्थत्वेन पक्षे तदसिद्धौ साधनाव्यापकत्वनिश्चयात्साध्यव्यापकत्वस्य च शुक्तिरूप्यादौ निश्चितत्वेन तद्व्यावृत्त्या पक्षे साध्याभावं निश्चयितुं समर्थमिति भवत्युपाधिरिति। इदमुपलक्षणम्। विमतं प्रातिभासिकं दृश्यत्वाच्छुक्तिरूप्यवदित्यपि साधनसम्भवेनाभाससाम्यं च बोध्यम्।। छ ।।
अध्याय 18
एवं मिथ्यात्वहेतूनां सोपाधिकत्वमुक्त्वा दृष्टन्ते साध्यवैकल्यं चाह।। अनिर्वचनीयत्वेति। निदर्शनस्य शुक्तिरूप्यस्यासत्त्वसद्विविक्तत्वादिरूपमिथ्यात्वे विवक्षिते तस्य शुक्तिरूप्यादौ सिद्धान्तेऽपि सत्त्वान्न साध्यहीनतेत्यत उक्तमनिर्वचनीयत्वेति। तथा चानिर्वचनीयत्वस्याविद्यात्कार्ययोरन्यतरत्वस्य वा मिथ्यात्वस्य विवक्षायां साध्यहीनतेत्यर्थः। तयोः सिद्धान्ते तत्राङ्गीकारादिति।
ननु न दृष्टन्तः साध्यहीनस्तस्यानिर्वचनीयत्व साधकलक्षणप्रमाणयोर्मिथ्यात्वरूपसाध्यविकल्पखण्डनवेलायां खण्डितत्वेनानिर्वाच्यत्वरूपसाध्याभावेऽप्यविद्याकार्यत्वरूपमिथ्यात्वं सम्भवत्येव। तथा हि। विमतं शुक्तिरूप्यं सकारणकं कादाचित्कत्वाद्धटवदिति तस्य सकार्णकत्वे सिद्धे तच्च कारणं न सत्। तज्जन्यस्य रूप्यस्यापि सत्त्वापत्त्या बाधायोगात्। नाप्यसत्। तस्य कारणत्वासम्भवात्। नोभ्यं विरोधात्। ततोऽनिर्वचनीयमेव तत्कारणमेषितव्यम्। सैव चाविद्येति सामान्यपरिशेषाभ्यामविद्याकार्यत्वसिद्धेरिति भावेन शङ्कते।। नन्विति।। सकारणकत्वेति। कारणशब्दश्चोपादानपरः। शुक्तिरूप्यस्येति शेषः।। सदसद्रूपत्वेति। सद्रूपत्वासद्रूपत्वयोः सदसद्रूपत्वस्य चेत्यर्थः। असम्भव-श्चोक्तरीत्या बोध्यः।। व्याप्त्यभावादिति। आसंसारमज्ञानावृतस्य शुद्धस्य वेदान्तजन्यचरमसाक्षात्कारेण कदाचित्प्रतीतत्वे विद्यमानेऽपि सकारणकत्वाभावात्तुच्छस्यापि शब्दादिना कदाचित्प्रतीतिसम्भवेन च व्यभिचारादिति भावः ।। असिद्धत्वादिति। मन्मतेतस्यासिद्धत्वात्। त्वन्मते च तस्य सद्विलक्षणत्वेन सत्तन्त्रस्य कादाचित्कसत्त्वस्याभावेन सकारणकत्वानुपपत्तेरिति भावः। न च सकारणकत्वेऽसद्वैलक्षण्यमेव तन्त्रम्। न तु कादाचित्कसत्त्वमिति वाच्यम्। गौरवेण तस्यातन्त्रत्वात्। ब्रह्मणोऽपिसकारणकत्वापत्तेश्चेति। अतः साध्यहीनत्वं दृष्टन्तस्य सुस्थमिति भावः। एवं दृश्यत्वादिहेतूनां दूषणान्यभिधायोपसंहरति।। तस्मादिति। उक्तदूषणगणादित्यर्थः। त्रिविधो दृश्यत्वजडत्वपरिच्छिन्नत्वलक्षणः।। युक्तिपथमिति। युक्तेर्निर्दोषानुमानस्य यः पन्था असिद्धत्वाद्याभावसशून्यत्वरूपस्तन्न प्राप्नोति। अनेकहेत्वाभासलक्षणलक्षितोऽयं न स्वसाध्यं साधयितुमलमिति।। छ ।।
अध्याय 19
मिथ्यात्वहेतूनां प्रतिकूलपराहतिं चाह।। किञ्चेति।। कल्प्यमानेति। कल्प्यमानं यज्जगत्तत्सदृशं सत्यभूतं यदधिष्ठानं यच्च प्रधानं तत्पूर्वकं स्यादित्यर्थः। यद्भ्रान्तिकल्पितं तत्तादृशसत्यवस्तुद्वयपूर्वकं यथा शुक्तिरूप्यमिति व्याप्तेरिति भावः। आपाद्यस्यानिष्टत्वमाह।। न चेति। कुतो न युक्तमित्यतो दृष्टान्तपूर्वं हेतुमाह।। पिण्याकेति। कश्चित्कञ्चित्पुरुषं पिण्याकं भक्षयितुं ययाचे। तदा स एनं बद्ध्वा खारीपरिमाणकं तैलं मह्यं दत्वा गच्छेत्युक्ते तर्हि दास्यामीति प्रतिज्ञा यथाऽधिका तद्वदेकस्य मिथ्यात्वं वक्तुमागतस्य तव सत्यवस्तुद्वयाङ्गीकारापातोऽधिक इत्यर्थः। विपर्यये पर्यवसानमाह।। तत इति। सत्यद्वयाङ्गीकारस्यायोगादित्यर्थः।
ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान्न स्वत इति मन्यमानं प्रति तदनुग्राह्यमनुमानं वक्तुमाह।। किञ्चेति।वक्ष्यमाणप्रयोगे व्याप्यत्वासिद्धिवारणाय व्यतिरेकव्याप्तिं दर्शयति।। कल्पनाया इति। यद्यप्यवक्रत्वादन्वय एव प्रदर्श्यः। तथाऽप्येतत्प्रदर्शनं तु वक्ष्यमाणहेतोर्व्यभिचारशङ्कानिवृत्तिश्च कृताभवतीत्यभिप्रत्येति बोध्यम्।। व्यापकमिति। शुक्तिरूप्यादौ दर्शनादिति भावः। हेतोः पक्षधर्मतां च दर्शयति।। तदिति। तादृसाधिष्ठानप्रधानपूर्वकत्वमित्यर्थः। अत्र जगत्कल्पनायामित्यर्थः। तत्र हेतुमाह।। सत्येति। अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम्। अधिष्ठानप्रधानयोश्चारोप्येण सादृश्य स्यापेक्षितत्वात्। जगत एव जगता सादृश्यसम्भवात्सत्यजगद्द्वयाङ्गीकारादित्युक्तम्। अस्यैव विप्रतिपन्नस्यैवेत्यर्थः। व्याप्तिपक्षधर्मतावद्धेतूक्तिपूर्वं साध्यं निगमयिति। अत इति। कल्पितत्वव्यापकाधिष्ठानादेरभावादित्यर्थः। कथमनुमानप्रयोग इत्याशङ्कायामाह।। तथा चेति। व्याप्तिपक्षधर्मतयोः सिद्धत्व इत्यर्थः। हेतोरप्रयोजकतामुद्धर्तुं तदनुग्राहकं विपक्षे बाधकतर्कमाह।। विपक्ष इति। साध्यानङ्गीकारे कल्पितत्वानङ्गीकार इत्यर्थः। प्रत्यक्षबाधादिरादिपदार्थः।
ननु तत्र कल्पितत्वमेव नास्ति येनोक्तदोषः स्यादित्याशङ्क्य तस्य कल्पितत्वं साधयितुं प्रतिजानीते।। तथा हीति। ननु कथं भ्रान्तिकल्पितेति प्रतिज्ञा। अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैकाधीनज्ञानत्वादित्यतः सत्यत्वे बाधकानि वक्तुं विकल्पयति। सत्यत्वे हीति। न च तृतीयः प्रकारोऽस्तीति भावः।। प्रागूर्ध्वामिति। अनादित्वात्सुप्तेः पूर्वं जाग्रदवस्थायामुपलभ्येरन्। नित्यात्वाच्च सुप्त्युत्थानानन्तरमप्युपलभ्येरन्नित्यर्थः ।। द्वितीय इति। किमिति काकुः। उपलभ्येरन्नेव। अनुपलम्भे हेत्वभावादित्यर्थः। उत्पद्यमानस्य प्रागसत्त्वेन प्रागनुपलम्भसत्त्वेऽप्युत्पन्नस्य कियत्कालं स्थायित्वनियमेन सुप्त्युत्थानानन्तरमप्युपलम्भः स्यादेवेति भावः।
ननु स्वप्ने चोत्पन्नानां तदानीमेव नाशान्नोत्थानान्तरं तदनुपलम्भो दोष इत्याशङ्क्य क्वापि तादृशवस्तुनोऽदृष्ट्याऽयोगादित्याह।। तदैवेति। स्वप्नदशायामेवेत्यर्थः। एतेन तस्य प्रमाणेन सत्यत्वसाधनं च परास्तम्। उक्तं च सम्भावितः प्रतिज्ञाया अर्थः। साध्येत हेतुनेति। विद्युद्बुद्बुदादौ तथा दर्शनादसम्भावितत्वमसिद्धमित्यरुचेराह।। किञ्चिति।। उपलब्धव्यानीति। प्रागूर्ध्वमिति शेषः। सत्यत्वे पदार्थस्वरूपं खण्डयित्वा प्रतीतिमपि खण्डयति ।। अपि चेति। अन्तर्हृदयाकाशे। बहिर्देहाद्बहिरित्यर्थः।। महतामिति। गजतुरगपर्वतसरित्सागरादीनां दर्शने हृदयविदारणप्रसङ्ग इत्यर्थः।। पार्श्वस्थानामिति। सुप्तस्योभयापार्श्वे जाग्रतां पुंसामित्यर्थः। बहिः पश्यतीति पक्षे प्रतीतिकारणमपि दुर्वचमित्याह।। केन चेति। देशविशेषस्य कालविशेषस्य च दर्शनात्तदा तत्र तयोरसत्त्वादकामेनापि तस्य कल्पितत्वं वाच्यमित्याह।। किञ्चेति। तत्रेत्यनन्तरं तदेति शेषः। प्रतिज्ञातं साध्यं निगमयति।। तस्मादिति। सत्यत्वे बाधकसद्भावादित्यर्थः। एवं साध्याभावमुपपाद्य तत्र निरधिष्ठानत्वहेतुं चोपपादयति।। न चेति। नन्वात्मन एवाधिष्ठानत्वात्कथमेवमित्यत आह।। आत्मन इति । तस्याधिष्ठानत्वे इदं रूप्यमितिवदहं गज इत्यधिष्ठानसम्भेदेनैव धीः स्यादिति भावः। भेदोपलम्भमेवोपपादयति।। न हीति। तस्मात्तत्र व्यभिचार इत्यर्थः। इतिशब्दः पूर्वपक्षसमाप्तौ। उपन्यस्तं पूर्वपक्षं प्रतिक्षिपति।। एतदपीति। न केवलं विश्वमिथ्यात्ववर्णनमापातरमणीयमित्यपेरर्थः। न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह।। तेषामिति।। तेनेति। अकल्पितत्वरूपसाध्यसत्त्वेनेत्यर्थः।
ननु स्वाप्नपदार्थानामतीन्द्रियवासनो पादानकत्वेनोपादेयानामनुपलम्भः स्यादित्याशङ्क्याह।। अतीन्द्रियेति। अतीन्द्रियद्व्यणुककार्यत्र्यणुकस्येवेत्यर्थः। अत एवोपलम्भदेशकारणयोः खण्डनमप्ययुक्तमित्याह।। अत एवेति। वासनो पादानकत्वादेवेत्यर्थः। अन्तर्हृदयदेशे। तज्जन्यानां गजपर्वतादीनामतिसूक्ष्मत्वादिति भावः। एतेन मधुरादिदर्शनं च समाहितं बोध्यम्। नन्वेवं स्वप्नो स्वशिरश्छेदादिप्रतीतिरनुपपन्ना। तस्याननुभूतत्वेन वासनासम्भवादिति चेन्न। मनसस्तावदनादित्वं प्रसिद्धम्। अन्यथा संसारस्य सादित्वप्रसङ्गात्। मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्युक्तेः। तथा च तस्य मनसो जन्मान्तरानुभूतवस्तुवासनारूपेण परिणामसम्भवेनादोषत्वात्। ननु रूपादिहीनाया वासनायाः कथं रूपादिमद्गजादित्वेन परिणाम इति वाच्यम्। वेदान्तिनां नीरूपादपि वायो रूपवतोऽग्नेरुत्पत्तेः सम्मतत्वात्। स्यादेतत्। यदि स्वाप्नपदार्थानां सत्यत्वं प्रमाणसिद्धं स्यात्तत्सर्वं कल्प्येत। तदेव कुत इति चेन्मैवम्। प्रामाण्यस्य स्वतस्त्वात्। स्वाप्नपदार्थप्रतीत्यैव तत्सत्त्वसिद्धेः। तत्प्रामाण्यापवादकस्य बाधकस्य सर्वस्य परिहृतत्वात्। किञ्च बृहदारण्यके न तत्र रथा न रथयोगा न पन्थानो भवन्तीति प्रागभावमुक्त्वाऽथ रथान्रथयोगान्पथः सृजते इति य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाण इत्यादिश्रुत्या, मनोगतांश्च संस्कारान्स्वेच्छया परमेस्वरः। प्रदर्शयति जीवाय सा स्वप्न इति गीयते।। इत्यादिस्मृत्या सन्ध्ये सृष्टिराह हि, निर्मातारं चैके पुत्रादयश्च, मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति सूत्रैश्च तत्सिद्धेश्च।
ननु यदि स्वाप्नं जगत्सत्यमिति सूत्रकाराभिमतं तर्हि वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं कथितमिति चेदित्थम्। यत्तत्र बाह्यपदार्थोपादानकत्वं बहिरनुभूतैक्यं च दृश्यते तदपेक्षं तत्सूत्रमित्यवागच्छ। बाह्यत्वारोपे चाधिष्ठानादिकमस्त्येवेति न व्याप्तिभङ्गः। गजमद्राक्षं किन्त्वसौ स्वाप्न एव न बाह्य इत्येव हि प्रतीतिरुत्थितस्योत्पद्यते। उक्तं च तत्त्वनिर्णये भगवत्पादैः। स्वप्नेऽपि वासनारूपं सत्यमेव जगन्मनसि स्थितं बहिष्ठत्वेन दृश्यत इति। नन्वथाऽपि पीतः शङ्खो नभो नीलं तिक्तो गुड इत्यादौ प्रधानाधिष्ठानयोः सम्भवेऽपि सादृश्याभावान्नारोप्यसदृशसत्यवस्तुद्वयपूर्वकत्वमिति चेन्न। तस्य सोपाधिकभ्रमत्वेन निरुपाधिकभ्रमे सादृश्यनियमात्। द्रव्यत्वादिना किञ्चित्सादृश्यस्य तत्रापि सत्त्वाच्च। अङ्गीकृतैव परेणाप्येषा व्याप्तिः। यदवोचत स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इति अत्र हि स्मृतिरूपपदेन सादृश्यमङ्गीकृतम्। परत्रेत्यधिष्ठानं पूर्वदृष्टेति प्रधानम्। अत एव केशोण्ड्रकादिभ्रमस्य निरधिष्ठानत्वमाशह्क्य तेजोंशाधिष्ठानत्वेन समाहितम्। बालस्य गुडतिक्तताभ्रमे प्रधानाभावमासङ्क्य जन्मान्तरानुभूतत्वोपपादनेन परिहार उक्तः। अत एव ग्रन्थकारैरेतद्व्याप्त्युपपादनार्थं नातीव पराक्रान्तम्। स्वप्नस्य तु सत्यत्वव्युत्पादनाय शङ्कासमाधाने कृते इति द्रष्टव्यम्।
ननु सन्घटः स्फुरति घट इति सत्प्रकाशानुविद्धतया घटः प्रतीयते। सत्प्रकाशात्मकश्चात्मेति कथमात्मनो घटादिसम्भिन्नतया प्रतीत्यभावः। असाधारणाकारानुवेधस्तु रजतादावपि नास्तीति चेन्न। रूपादिहीनस्यात्मन आसंसारमज्ञानावृतस्य वेदान्तजन्यचरमसाक्षात्कारविषयस्य कथं चाक्षुषादिप्रतीतिविषयत्वमित्युक्तत्वात्। अधिकं तु तत्रैवानुसन्धेयम्।। तद्विरुद्धतयेति। जगद्ध्यनात्मत्वेन पराक्त्वेन दृश्यत्वादिना प्रतीयते। आत्मा त्वात्मत्वेन प्रत्युक्त्वेन दृक्त्वादिना प्रतीयते। तथा च जगद्विरुद्धधर्मतया प्रतीयमानं कथमधिष्ठानमित्यर्थः। तत्तेदन्ते स्वतान्यत्वे त्वत्तामत्ते परस्परम्। प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः।। इति स्वयमात्मेति च पर्यायाविति च परेणैवोक्तेरिति भावः।। तद्विरुद्धतयेति। आत्मविरुद्धतयेत्यर्थः। ननु विरुद्धतया प्रतीतावारोपोऽस्तु को दोष इत्यतो विपक्षे बाधकमाह।। विरुद्धेति। भ्रमकाले ज्ञातविरुद्धाकारदर्शनेन हि भ्रस्य निवृत्तिः स्यात्। तद्यदि विरुद्धदर्शनेऽपि भ्रमस्तर्हि तस्य निवर्तकाभावात्कदाऽपि तस्य निवृत्तिर्न स्यात्। निष्प्रकारकज्ञानस्य च भ्रमानिवर्तकत्वादित्यर्थः। आत्मन उपादानत्वश्रुतिस्तु नास्त्येवेत्यन्यत्र विस्तरेणोपपादितत्वादिति भावः।
ननु जगदारोपानङ्गीकारे प्रतियोग्यप्रसिद्ध्याऽनुमानयोरप्रसिद्धविशेषणत्वमिति चेन्न। प्रतिषेध्यस्य परप्रसिद्ध्याऽप्यनुमानोपपत्तेः। अन्यथा प्रतितन्त्रसिद्धान्तस्य क्वापि प्रतिषेधाभावप्रसङ्गादिति बोध्यम्। युक्त्यन्तरेणाप्यात्मनो जगदारोपाधिष्ठनत्वं निराकरोति।। किञ्चेति। शुक्तिकायामारोपितमपि रजतं भ्रान्तेरुत्थितेन भिन्नत्वेन दृश्यत इत्यत उक्तं भ्रान्ताविति। तथा च नव्याप्तिभङ्ग इति भावः। विपर्यये पर्यवसानमाह।। दृश्यते चेति। इदीनीं तव भ्रमत्वेन सम्प्रतिपन्नदशायामित्यर्थः। भिन्नत्वेनेति धर्म्यारोपपक्षे बोध्यम्। धर्मारोपपक्षे त्वसंसृष्टत्वेनेति बोद्यम्। प्रत्यक्पराग्भावेन भेदप्रतीतेः स्पष्टत्वात्। परेणाप्यङ्गीकृतामित्युक्तत्वाच्च। प्राग्विरोधप्रतीतिरुक्तेदानीं तु भेदप्रतीतिमात्रमिति न पौनरुक्त्यमिति भावः। भेदेन प्रतीयमानमपि तत्रारोपितं चेत्कदाऽप्यारोपानिवृत्तिः स्यादिति विपक्षे बाधकं च बोध्यम्।
ननु यदुक्तं निष्प्रधानत्वान्न भ्रान्तिकल्पितमिति तदयुक्तम्। यद्भ्रान्तिकल्पितं तत्सप्रधानमिति नियममङ्गीकुर्मः। इहापि पूर्वपूर्वप्रपञ्च उत्तरोत्तरारोपे प्रधानं भविष्यति। न च सत्यत्वाभावान्न प्रधानमिति वाच्यम्। प्रधानं किं स्वरूपेणोपयुज्यत उत ज्ञानेनाथ संस्कारेण। नाद्यः। अज्ञातरजतस्यापि रजतारोपप्रसङ्गात्। न द्वितीयः ज्ञानस्याचिरविनष्टस्य कारणत्वानुपपत्तेः। तृतीये तपपद्यत एव मिथ्यार्थस्यापि प्रधानत्वम्। तज्ज्ञानजन्यसंस्कारसम्भवात्। नच प्रथमारोपेऽनुपपत्तिः। अनादित्वादारोपपरम्परायाः। आदिसृष्टावपि पूर्वकल्पसंस्कारोऽस्त्येव। अत एव नानवस्थादोषः। सिद्धविषयत्वात्। अतो निष्प्रधानत्वमसिद्धमिति सङ्कते।। नन्विति।। असत्त्वादिति। पूर्वपूर्वारोपेणोत्तरारोपस्यासत्त्वादित्यर्थः। अयमाशयः। एवं कल्पेन आदिसृष्टौ भ्रमानुपपत्तिः। न च पूर्वकल्पानुभवसंस्कारमादाय तदुपपत्तिरिति वाच्यम्। तथा सति नारिकेलद्वीपवासिनो गुञ्जापुञ्जादौ ज्वलनसमारोपप्रसङ्गात्। न ह्यनादौ संसारे कदाऽपि तेन ज्वलनो नानुभूत इति शक्यते वक्तुम्। नन्वेतज्जन्मन्यननुभूततिक्तरसस्यापि बालस्य गुडादावास्यगतपित्तद्रव्यनिष्ठतिक्तत्वारोपस्य जन्मान्तरीयसंस्कारजन्यत्ववदिहापि तत्कल्पनमिति चेन्न। अनन्यथासिद्धे हि कार्ये जन्मान्तरानुभवस्याप्युपयोगः कल्प्यते। न चेदानीमपि जगदारोपः प्रमितः। अनुमानागमयोर्निराकृतत्वादिति।
वयद्वाऽसत्त्वादसत्त्वापातादित्यर्थः। एवं सत्यधिष्ठानस्येति शेषः। तथा चायमर्थः। यथा प्रधानसत्त्वं नापेक्षितम्। तथाऽधिष्ठानस्यापि धीरेव भ्रमहेतुः। तद्धीश्च भ्रमरूपानादिरिति शून्यवादिरीत्याऽधिष्ठानस्याप्यसत्त्वापातेनाधिष्ठानत्वेन ब्रह्म सदिति त्वदुक्त्ययोगात्। अधिष्ठानवदबाध्यत्वस्य प्रधानेऽपि सत्त्वादिति ।। छ ।।
अध्याय 20
अध्याय 21
एवं मिथ्यात्वहेतूनां बाधादिदोषानभिधायाधुनाऽनुकूलतर्काभावान्मिथ्यात्वहेतवः सर्वेऽप्रयोजका इति वक्तुं प्रतिजानीते।। किञ्चेति। दृशत्वमस्तु मिथात्वं मास्तु एवं सति न किञ्चिद्बाधकं पश्याम इत्यर्थः। ननु मिथ्यात्वं विना दृश्यत्वमेवानुपपन्नम्। दृश्यत्वं हि दृक्प्रकाश्यत्वम्। न च दृशोऽसङ्गभूताया दृश्येन सम्बन्धोऽस्ति। तस्माद्दृशो दृश्येनाधिष्ठानाध्यस्तभावलक्षणः सम्बन्धोऽभ्युपेय इति दृगदृश्ययोः सम्बन्धानुपपत्तिरेव विपक्षे बाधकस्तर्क इत्यभिप्रायेण शङ्कते।। सत्यत्व इति। कथं न कथमपीत्यर्थः। तदेव विविच्याह।। न तावदिति।। जडत्वादिति। अप्रकाशात्मकस्य जडस्य प्रकाशत्वमेव दुर्लभं स्वप्रकाशत्वं तु दूरापेतमिति भावः। परेण प्रकाशत इत्यत्रापि स्वसम्बन्धेनोतासम्बन्धेन। आद्य आह।। प्रकाशान्तरेति। स्वस्माद्भिन्नदृग्रूपेणेत्यर्थः। असङ्गो ह्ययं पुरुष इति श्रुत्या दृशोऽसङ्गत्वश्रवणादिति भावः। द्वितीय आह।। असम्बद्धस्येति। सर्वदा सकलपदार्थप्रकाशः। स्यादित्यर्थः। एवं सत्यत्वे प्रकाशानुपपत्तिमुक्त्वा मिथ्यात्वे तदुपपत्तिमाह।। असत्त्वे त्विति। मिथ्यात्व इत्यर्थः।। चिदिति। चिद्रूपप्रकाशारोपितस्येत्यर्थः। चितोऽधिष्ठानत्वं दृश्यस्याध्यस्तत्वमित्यर्थः। असङ्गश्रुतेस्तात्त्विकसम्बन्धाभावपरत्वादतो मिथ्यात्वमुपेयमिति भावः। एवमनूदितं पूर्वपक्षं प्रतिक्षिपति।। विचारेति। प्रकाशः प्रकाशात्मकः स्यादित्यर्थः। प्रकाशाश्रय इति।समवायसम्बन्धेनेत्यर्थः।। अनुभ्युपगमादिति। वादिप्रतिवादिभ्यामित्यर्थः।। वृत्तिरिति। अन्तःकरणवृत्तिरित्यर्थः। यद्यपि परेण चैतन्याभिप्रायेणैव प्रकाशशब्दः प्रयुक्तस्तथाऽपि वृत्तेरपि प्रकाशशब्दार्थत्वात्तयाऽप्युपपत्तिं वक्तुं वृत्तिर्वेत्युक्तमिति ध्येयम्। तत्तदीयव्यवहारानुपपत्तिरेव चिदविषयत्वे बाधिकेत्यत आह।। वृत्तिति। ननु घटादेश्चैतन्याविषयत्वे घटोऽपरोक्ष इति घटादावापरोश्र्यव्यवहारो न स्यात्। अपरोक्षत्वस्य चिन्मात्रगतत्वात्। तथा च बाधकाभावोऽसिद्ध एवेति चेन्न। इच्छादिवृत्त्यनिष्ठेन परोक्षवृत्तिगेन ज्ञानत्वरूपविशेषेण विषयस्य ज्ञातत्वव्यवहारस्येव स्मृत्याद्यनिष्ठेनानुभवादिगतेनानुभवत्वादिरूपविशेषेण तद्विषयत्वस्यानुभूतत्वव्यवहारस्येव च चैतन्याविषयस्यापि घटादेरिन्द्रियजन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्वरूपविशेषेणैवापरोक्ष व्यवहार स्याप्युपपत्तेः। न च वृत्तौ परोक्षत्वमेवापरोक्षत्वं तु चैतन्य एवेति युक्तम्। परोक्षत्वापरोक्षत्वयोरेकज्ञानत्वव्याप्यत्वप्रसिद्धिपरिलोपापातात्।। एतदप्युक्तं वृत्तीति। अपरोक्षवृत्तीत्यर्थः।। व्यवहारेति। अपरोक्षव्यवहारेत्यर्थः। न चाज्ञानव्यवहारेऽपरोक्षचिद्विषयत्वम्। त्वन्मते वृत्तेरेवाज्ञानविरोधित्वात्। चितस्तु तत्साधकत्वेन तद्बाधकत्वायोगाच्च। न च घटं जानामीति सकर्मकज्ञानवृत्त्यन्यो घटः प्रकाशते। घटः स्फुरतीत्यकर्मकप्रकाशरूपा चिदनुभवसिद्धेति वाच्यम्। जानाति प्रकाशत इति क्रिययोरेकार्थकत्वेऽपि करोति प्रयतते गच्छति चलतीत्यादाविव धात्वोः कर्मोपरागवाचित्वतदभावस्वभावत्वोपपत्तेः। अन्यथा त्वत्पक्षे परिणतेरकर्मकत्वात्परिणतिविशेषस्य वृत्तेः सकर्मकज्ञानत्वं न स्यात्। अतीतचैतन्यसम्बन्धानङ्गीकारेणातीतो घटः प्रकाशत इति धीश्च न स्यादिति। एतदप्याह।। वृत्तीति।। व्यवहारेति। घट- प्रकाशत इत्यादिव्यवहारेत्यर्थः।
ननु "तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती"ति श्रुत्या सर्वस्य दृश्यस्य दृक्प्रकाशत्वं श्रूयत इति विरोध एव चैतन्याविषयत्वे बाधक इति चेन्मैवं वादीः। अस्याः श्रुतेः सूर्यादिप्रकाशस्येशाधीनत्वपरत्वस्यानुकृतेस्तस्य चेत्यधिकरणभाष्यादावेव स्पष्टत्वात्। एतद्वाक्यनिर्णायके अपि स्मर्यत इति सूत्रे त्वद्भाष्येऽपि यदादित्यगतं तेज इत्यादिस्मृतेरेवोदाहृतत्वेनास्मदादिगतघटज्ञानस्य चैतन्यरूपताऽप्रसक्तेः। अन्यथा त्वन्मते ब्रह्मणो भानमात्रत्वेन भान्तमिति कर्तरि विहितक्तप्रत्ययस्य तस्य भासेति षष्ठ्याः प्रपञ्चे ब्रह्मभानान्यभानाभावेनानुशब्दस्य चायोगाच्च। गच्छन्तमनुगच्छतीत्यादौ गमनादिभेदे सत्येवानुशब्दस्य दर्शनादिति। एवं चैतन्याविषयत्वे बाधकाभावमुपपाद्येदानीं चैतन्यविषयत्वमभ्युपेत्यापि समाधत्ते।। चैतन्यस्यापीति। सुखदुःखाकाशादौ चैतन्यविषयत्वस्य सिद्धान्तेऽप्यङ्गीकारादयमप्यभ्युगम इति ध्येयम्।। स्वाभाविकमिति। अर्थप्रकाशकत्वमिति शेषः। स्वरूपसम्बन्धकृतं न त्वधिष्ठानाध्यस्तत्वरूपाध्यासिकसम्बन्धकृतमित्यर्थः। नन्वसङ्गो ह्ययं पुरुष इति श्रुतिपीडनमेव दोष इत्यत आह।। असङ्गेति। स यत्तत्र यत्किञ्चित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्यात् यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महानित्यादिस्मृतेः। अन्यथाऽसङ्गो ह्ययं पुरुष इति वाक्यबोध्यासङ्गत्वान्वयस्य भावाभावाभ्यां व्याघातादिति भावः।
बहुजीवपक्षेऽप्याह।। बहुजीवेति।। सर्वदेति। तस्याप्यावृतत्वे न कदाचित्प्रकाशः स्यादिति ध्येयम्। न च मतद्वयेऽपि ब्रह्माध्यासपक्षेऽनवच्छिन्नस्यावृतत्वेऽपि घटाद्यवच्छिन्नं तत्तदाकारवृत्त्याऽभिव्यक्तं सत्तदर्थप्रकाशकं भवतीति वाच्यम्। अवच्छिन्नस्य कल्पितत्वेनात्माश्रयापातेन घटाद्यनधिष्ठानत्वेनाध्यासिकसम्बन्धस्यातन्त्रत्वापातात्। विशिष्टज्ञानेऽधिकप्रकाशेऽपि चरमवृत्तिविषयस्य विशेष्यस्यापि प्रकाशेन चरमवृत्तिवैय्यर्थ्याच्च। किञ्च घटाद्यधिष्ठानब्रह्मचैतन्यावरणाभिभवार्थमावश्यकवृत्त्यैव घटप्रकाशोपपत्तौ किं चैतन्यविषयत्वकल्पनाव्यसनेन। न च जीवाध्यासपक्षे तत्तदिन्द्रियसन्निकर्षादिकं नियामकमतो नाव्यवस्थेति चेत्तर्हि किमनेनारोपितत्वदुर्व्यसनेन। सत्यस्यैव दृश्यस्य वृत्तिरूपया दृशा करणसम्बन्धनिबन्धनस्य विषयविषयिभावस्योपपत्तेरिति न सत्यत्वे बाधकं किञ्चित्पश्याम इति भावः। ननु यदुक्तं वृत्तिविषयत्वेनैव व्यवहाराद्युपपत्तिरिति तदयुक्तम्। वृत्तेर्दृश्यस्य च सम्बन्धस्यैव दुर्निरूपत्वात्। तथा चाध्यासिकस्यैव सम्बन्धस्य वक्तव्यत्वादिति भावेन शङ्कते।। तथाऽपीति। वृत्तिविषयत्वेऽपीत्यर्थः। वृत्तिरत्र दृक्शब्देनोच्यते।। संसर्गानिरूपणादिति। अयमाशयः। न तावद्दृग्दृश्ययोः संयोगो द्रव्ययोरेव संयोगात्। दृशश्चाद्रव्यत्वात्। द्रव्यत्वेऽपि गुणकर्मादिभिः संयोगस्यासम्भवात् नापि समवायः। दृश आत्मैकगुणत्वेन वाऽन्तःकरणधर्मत्वेन वा घटादिना तदयोगात्। न तादात्म्यमपि। विरुद्धयोर्दृग्दृश्ययोरसम्भवात्। विषयविषयिभावपि न तत्त्वतो जानीमः। न तावज्ज्ञानजन्यफलाधारत्वं विषयत्वम्। फलं ज्ञातता व्यवहारो वा। नाद्यःठ। अतीतादेरविषयत्वापातात्। नान्त्यः। अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वप्रसङ्गात्। नापि व्यवहारयोग्यत्वम्। योग्यतायां तदभ्युपगमेऽनवस्था। तदनभ्युपगमे च तस्याविषयत्वप्रसङ्गात्। यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इति चेन्न। रूपादिज्ञानस्याकाशादिविषयत्वापातात्। नित्यज्ञानस्य निर्विषयत्वापाताच्च। किञ्च विषयविषयिभावस्याद्विष्ठत्वेन मुख्यसम्बन्धत्वाभावाच्चेति।। समवायवदिति। गुणगुण्यादेरिति शेषः। तयोरयुतसिद्धत्वेन युतसिद्धसम्बन्धस्य संयोगस्यायोगे समवायः सम्बन्धत्वेन कल्प्यते। तद्वज्ज्ञाययोस्तयोरयोगेऽप्यन्यः सम्बन्धः कल्प्यतामित्यर्थः। ननु संयोगसमवाययोः प्रामामिकत्वेन तत्परिकल्पनेऽपि न तदन्यः कल्प्यते। मानाभावादिति चेन्न। नियतव्यवहाररूपकार्यान्वयव्यतिरेकसिद्धत्वात्। ज्ञातो घट दृष्टो घट इत्यादिका धीः परस्परासंयुक्तासमवेतविशेषणविशेष्यसम्बन्धविषयिका। विशिष्टधीत्वात्। दण्डीति विशिष्टधीवदित्याद्यनुमानेन च तत्सिद्धेरिति भावः।
ननु तथाऽपि कोऽसौ सम्बन्ध इति चेन्न। कोऽसाविति किं तत्र प्रमाणमिति प्रश्न उत संयोगादौ कुत्रान्तर्भाव इति। यद्वा सञ्ज्ञाविशेषः क इति अथ किं तस्य लक्षणमिति। नाद्यः। प्रमाणस्योपन्यस्तत्वात्। द्वितीये न क्वचिदिति। सन्ति चैकशतं षष्ठ्यर्थाः। यथोक्तं महाभाष्ये षष्ठीस्थाने योगेत्यत्र नियमार्थोऽयमारम्भः। एकशतं षष्ठ्यर्थाः सन्त्येते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति। एतमन्तरेणापि सामान्यत एव व्यवहारसिद्धेः किं तद्विशेषविचारक्लेशेन। किञ्चास्ति च विशेषसञ्ज्ञेत्याह।। विषयेति। विषयविषयिभावनामकस्य सम्भवादित्यर्थः।
ननु तत्तत्प्रतीतियोग्यत्वमेव विषयत्वमस्त्वित्याशङ्क्य तत्स्वरूपमेव विवेचयन्पूर्वपक्षं निषेधति।। ज्ञानेति। नास्तीति। अयम्भावः। फलं ज्ञातता। तस्याः सर्वत्राभावेनातीतादेरतीन्द्रियस्य च विषयता न स्यात्। नापि व्यवहारः। आदानादिकस्य गगनादावभावात्। अभिलपनस्य करणपाटवाद्यभावेन यत्रा भावस्तत्राविषयत्वप्रसङ्गादिति।
तत्र ज्ञाततापक्षे तावदुत्तरमाह।। प्रतिनियतमिति। विषयत्वमित्यनुवर्तते। यत्र ज्ञातता तत्र तदाधारत्वमन्यत्रान्यदेवास्त्वित्यर्थः। द्वितीय आह।। व्यवहारोऽपीति। यत्र यत्सम्भवति तत्र तदेव व्यवहारशब्देन विवक्ष्यतां न तु सर्वत्रैकरूप्यमित्यर्थः। वस्तुतस्तु यज्ज्ञानं यदभिलपनव्यवहारकारणं स तस्य विषयः। क्वचित्पाटवाद्यभावेन व्यवहारानुदयेऽपि सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वरूपं कारणत्वमस्त्येव। कदाऽपि व्यवहाराजनकन्तु निर्विकल्पकं नोपेयत इति नाव्याप्तिः। यत्त्वतत्त्वजात्योरभावेनाननुगमः। कस्य को विषय इति प्रश्नेऽस्यायं विषय इत्यननुगतस्यैव वक्तव्यत्वात्। घटज्ञानानन्तरं प्रामादिके पट इति व्यवहारे न घटज्ञानं हेतुरिति नातिव्याप्तिरिति। एवं दृश्यत्वादिहेतून् सविस्तरं दूषयित्वाऽन्येऽपि मिथ्यात्वहेतवोऽनेनैव न्यायेन दूषणीया इत्याशयवानुपसंहरति।। तस्मादिति। असिद्धत्वादिसर्वहेत्वाभासदुष्टत्वात्प्रतिकूलतर्क पराहतत्वादनुकूलतर्कहीनत्वाच्चेत्यर्थः।। छ ।।
अध्याय 22
मिथ्यात्वहेतूनां प्रतिकूलपराहतिं चाह।। किञ्चेति।। कल्प्यमानेति। कल्प्यमानं यज्जगत्तत्सदृशं सत्यभूतं यदधिष्ठानं यच्च प्रधानं तत्पूर्वकं स्यादित्यर्थः। यद्भ्रान्तिकल्पितं तत्तादृशसत्यवस्तुद्वयपूर्वकं यथा शुक्तिरूप्यमिति व्याप्तेरिति भावः। आपाद्यस्यानिष्टत्वमाह।। न चेति। कुतो न युक्तमित्यतो दृष्टान्तपूर्वं हेतुमाह।। पिण्याकेति। कश्चित्कञ्चित्पुरुषं पिण्याकं भक्षयितुं ययाचे। तदा स एनं बद्ध्वा खारीपरिमाणकं तैलं मह्यं दत्वा गच्छेत्युक्ते तर्हि दास्यामीति प्रतिज्ञा यथाऽधिका तद्वदेकस्य मिथ्यात्वं वक्तुमागतस्य तव सत्यवस्तुद्वयाङ्गीकारापातोऽधिक इत्यर्थः। विपर्यये पर्यवसानमाह।। तत इति। सत्यद्वयाङ्गीकारस्यायोगादित्यर्थः। ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान्न स्वत इति मन्यमानं प्रति तदनुग्राह्यमनुमानं वक्तुमाह।। किञ्चेति।
वक्ष्यमाणप्रयोगे व्याप्यत्वासिद्धिवारणाय व्यतिरेकव्याप्तिं दर्शयति।। कल्पनाया इति। यद्यप्यवक्रत्वादन्वय एव प्रदर्श्यः। तथाऽप्येतत्प्रदर्शनं तु वक्ष्यमाणहेतोर्व्यभिचारशङ्कानिवृत्तिश्च कृताभवतीत्यभिप्रत्येति बोध्यम्।। व्यापकमिति। शुक्तिरूप्यादौ दर्शनादिति भावः। हेतोः पक्षधर्मतां च दर्शयति।। तदिति। तादृसाधिष्ठानप्रधानपूर्वकत्वमित्यर्थः। अत्र जगत्कल्पनायामित्यर्थः। तत्र हेतुमाह।। सत्येति। अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम्। अधिष्ठानप्रधानयोश्चारोप्येण सादृश्य स्यापेक्षितत्वात्। जगत एव जगता सादृश्यसम्भवात्सत्यजगद्द्वयाङ्गीकारादित्युक्तम्। अस्यैव विप्रतिपन्नस्यैवेत्यर्थः। व्याप्तिपक्षधर्मतावद्धेतूक्तिपूर्वं साध्यं निगमयिति। अत इति। कल्पितत्वव्यापकाधिष्ठानादेरभावादित्यर्थः। कथमनुमानप्रयोग इत्याशङ्कायामाह।। तथा चेति। व्याप्तिपक्षधर्मतयोः सिद्धत्व इत्यर्थः। हेतोरप्रयोजकतामुद्धर्तुं तदनुग्राहकं विपक्षे बाधकतर्कमाह।। विपक्ष इति। साध्यानङ्गीकारे कल्पितत्वानङ्गीकार इत्यर्थः। प्रत्यक्षबाधादिरादिपदार्थः।
ननु तत्र कल्पितत्वमेव नास्ति येनोक्तदोषः स्यादित्याशङ्क्य तस्य कल्पितत्वं साधयितुं प्रतिजानीते।। तथा हीति। ननु कथं भ्रान्तिकल्पितेति प्रतिज्ञा। अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैकाधीनज्ञानत्वादित्यतः सत्यत्वे बाधकानि वक्तुं विकल्पयति। सत्यत्वे हीति। न च तृतीयः प्रकारोऽस्तीति भावः।। प्रागूर्ध्वामिति। अनादित्वात्सुप्तेः पूर्वं जाग्रदवस्थायामुपलभ्येरन्। नित्यात्वाच्च सुप्त्युत्थानानन्तरमप्युपलभ्येरन्नित्यर्थः ।। द्वितीय इति। किमिति काकुः। उपलभ्येरन्नेव। अनुपलम्भे हेत्वभावादित्यर्थः। उत्पद्यमानस्य प्रागसत्त्वेन प्रागनुपलम्भसत्त्वेऽप्युत्पन्नस्य कियत्कालं स्थायित्वनियमेन सुप्त्युत्थानानन्तरमप्युपलम्भः स्यादेवेति भावः। ननु स्वप्ने चोत्पन्नानां तदानीमेव नाशान्नोत्थानान्तरं तदनुपलम्भो दोष इत्याशङ्क्य क्वापि तादृशवस्तुनोऽदृष्ट्याऽयोगादित्याह।। तदैवेति। स्वप्नदशायामेवेत्यर्थः। एतेन तस्य प्रमाणेन सत्यत्वसाधनं च परास्तम्। उक्तं च सम्भावितः प्रतिज्ञाया अर्थः। साध्येत हेतुनेति। विद्युद्बुद्बुदादौ तथा दर्शनादसम्भावितत्वमसिद्धमित्यरुचेराह।। किञ्चिति।। उपलब्धव्यानीति। प्रागूर्ध्वमिति शेषः। सत्यत्वे पदार्थस्वरूपं खण्डयित्वा प्रतीतिमपि खण्डयति ।। अपि चेति। अन्तर्हृदयाकाशे। बहिर्देहाद्बहिरित्यर्थः।। महतामिति। गजतुरगपर्वतसरित्सागरादीनां दर्शने हृदयविदारणप्रसङ्ग इत्यर्थः।। पार्श्वस्थानामिति। सुप्तस्योभयापार्श्वे जाग्रतां पुंसामित्यर्थः। बहिः पश्यतीति पक्षे प्रतीतिकारणमपि दुर्वचमित्याह।। केन चेति।
देशविशेषस्य कालविशेषस्य च दर्शनात्तदा तत्र तयोरसत्त्वादकामेनापि तस्य कल्पितत्वं वाच्यमित्याह।। किञ्चेति। तत्रेत्यनन्तरं तदेति शेषः। प्रतिज्ञातं साध्यं निगमयति।। तस्मादिति। सत्यत्वे बाधकसद्भावादित्यर्थः। एवं साध्याभावमुपपाद्य तत्र निरधिष्ठानत्वहेतुं चोपपादयति।। न चेति। नन्वात्मन एवाधिष्ठानत्वात्कथमेवमित्यत आह।। आत्मन इति । तस्याधिष्ठानत्वे इदं रूप्यमितिवदहं गज इत्यधिष्ठानसम्भेदेनैव धीः स्यादिति भावः। भेदोपलम्भमेवोपपादयति।। न हीति। तस्मात्तत्र व्यभिचार इत्यर्थः। इतिशब्दः पूर्वपक्षसमाप्तौ। उपन्यस्तं पूर्वपक्षं प्रतिक्षिपति।। एतदपीति। न केवलं विश्वमिथ्यात्ववर्णनमापातरमणीयमित्यपेरर्थः। न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह।। तेषामिति।। तेनेति। अकल्पितत्वरूपसाध्यसत्त्वेनेत्यर्थः।
ननु स्वाप्नपदार्थानामतीन्द्रियवासनो पादानकत्वेनोपादेयानामनुपलम्भः स्यादित्याशङ्क्याह।। अतीन्द्रियेति। अतीन्द्रियद्व्यणुककार्यत्र्यणुकस्येवेत्यर्थः। अत एवोपलम्भदेशकारणयोः खण्डनमप्ययुक्तमित्याह।। अत एवेति। वासनो पादानकत्वादेवेत्यर्थः। अन्तर्हृदयदेशे। तज्जन्यानां गजपर्वतादीनामतिसूक्ष्मत्वादिति भावः। एतेन मधुरादिदर्शनं च समाहितं बोध्यम्। नन्वेवं स्वप्नो स्वशिरश्छेदादिप्रतीतिरनुपपन्ना। तस्याननुभूतत्वेन वासनासम्भवादिति चेन्न। मनसस्तावदनादित्वं प्रसिद्धम्। अन्यथा संसारस्य सादित्वप्रसङ्गात्। मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्युक्तेः। तथा च तस्य मनसो जन्मान्तरानुभूतवस्तुवासनारूपेण परिणामसम्भवेनादोषत्वात्। ननु रूपादिहीनाया वासनायाः कथं रूपादिमद्गजादित्वेन परिणाम इति वाच्यम्। वेदान्तिनां नीरूपादपि वायो रूपवतोऽग्नेरुत्पत्तेः सम्मतत्वात्। स्यादेतत्। यदि स्वाप्नपदार्थानां सत्यत्वं प्रमाणसिद्धं स्यात्तत्सर्वं कल्प्येत। तदेव कुत इति चेन्मैवम्। प्रामाण्यस्य स्वतस्त्वात्। स्वाप्नपदार्थप्रतीत्यैव तत्सत्त्वसिद्धेः। तत्प्रामाण्यापवादकस्य बाधकस्य सर्वस्य परिहृतत्वात्। किञ्च बृहदारण्यके न तत्र रथा न रथयोगा न पन्थानो भवन्तीति प्रागभावमुक्त्वाऽथ रथान्रथयोगान्पथः सृजते इति य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाण इत्यादिश्रुत्या, मनोगतांश्च संस्कारान्स्वेच्छया परमेस्वरः। प्रदर्शयति जीवाय सा स्वप्न इति गीयते।। इत्यादिस्मृत्या सन्ध्ये सृष्टिराह हि, निर्मातारं चैके पुत्रादयश्च, मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति सूत्रैश्च तत्सिद्धेश्च।
ननु यदि स्वाप्नं जगत्सत्यमिति सूत्रकाराभिमतं तर्हि वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं कथितमिति चेदित्थम्। यत्तत्र बाह्यपदार्थोपादानकत्वं बहिरनुभूतैक्यं च दृश्यते तदपेक्षं तत्सूत्रमित्यवागच्छ। बाह्यत्वारोपे चाधिष्ठानादिकमस्त्येवेति न व्याप्तिभङ्गः। गजमद्राक्षं किन्त्वसौ स्वाप्न एव न बाह्य इत्येव हि प्रतीतिरुत्थितस्योत्पद्यते। उक्तं च तत्त्वनिर्णये भगवत्पादैः। स्वप्नेऽपि वासनारूपं सत्यमेव जगन्मनसि स्थितं बहिष्ठत्वेन दृश्यत इति। नन्वथाऽपि पीतः शङ्खो नभो नीलं तिक्तो गुड इत्यादौ प्रधानाधिष्ठानयोः सम्भवेऽपि सादृश्याभावान्नारोप्यसदृशसत्यवस्तुद्वयपूर्वकत्वमिति चेन्न। तस्य सोपाधिकभ्रमत्वेन निरुपाधिकभ्रमे सादृश्यनियमात्। द्रव्यत्वादिना किञ्चित्सादृश्यस्य तत्रापि सत्त्वाच्च। अङ्गीकृतैव परेणाप्येषा व्याप्तिः। यदवोचत स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इति अत्र हि स्मृतिरूपपदेन सादृश्यमङ्गीकृतम्। परत्रेत्यधिष्ठानं पूर्वदृष्टेति प्रधानम्। अत एव केशोण्ड्रकादिभ्रमस्य निरधिष्ठानत्वमाशह्क्य तेजोंशाधिष्ठानत्वेन समाहितम्। बालस्य गुडतिक्तताभ्रमे प्रधानाभावमासङ्क्य जन्मान्तरानुभूतत्वोपपादनेन परिहार उक्तः। अत एव ग्रन्थकारैरेतद्व्याप्त्युपपादनार्थं नातीव पराक्रान्तम्। स्वप्नस्य तु सत्यत्वव्युत्पादनाय शङ्कासमाधाने कृते इति द्रष्टव्यम्।
ननु सन्घटः स्फुरति घट इति सत्प्रकाशानुविद्धतया घटः प्रतीयते। सत्प्रकाशात्मकश्चात्मेति कथमात्मनो घटादिसम्भिन्नतया प्रतीत्यभावः। असाधारणाकारानुवेधस्तु रजतादावपि नास्तीति चेन्न। रूपादिहीनस्यात्मन आसंसारमज्ञानावृतस्य वेदान्तजन्यचरमसाक्षात्कारविषयस्य कथं चाक्षुषादिप्रतीतिविषयत्वमित्युक्तत्वात्। अधिकं तु तत्रैवानुसन्धेयम्।। तद्विरुद्धतयेति। जगद्ध्यनात्मत्वेन पराक्त्वेन दृश्यत्वादिना प्रतीयते। आत्मा त्वात्मत्वेन प्रत्युक्त्वेन दृक्त्वादिना प्रतीयते। तथा च जगद्विरुद्धधर्मतया प्रतीयमानं कथमधिष्ठानमित्यर्थः। तत्तेदन्ते स्वतान्यत्वे त्वत्तामत्ते परस्परम्। प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः।। इति स्वयमात्मेति च पर्यायाविति च परेणैवोक्तेरिति भावः।। तद्विरुद्धतयेति। आत्मविरुद्धतयेत्यर्थः। ननु विरुद्धतया प्रतीतावारोपोऽस्तु को दोष इत्यतो विपक्षे बाधकमाह।। विरुद्धेति। भ्रमकाले ज्ञातविरुद्धाकारदर्शनेन हि भ्रस्य निवृत्तिः स्यात्। तद्यदि विरुद्धदर्शनेऽपि भ्रमस्तर्हि तस्य निवर्तकाभावात्कदाऽपि तस्य निवृत्तिर्न स्यात्। निष्प्रकारकज्ञानस्य च भ्रमानिवर्तकत्वादित्यर्थः। आत्मन उपादानत्वश्रुतिस्तु नास्त्येवेत्यन्यत्र विस्तरेणोपपादितत्वादिति भावः।
ननु जगदारोपानङ्गीकारे प्रतियोग्यप्रसिद्ध्याऽनुमानयोरप्रसिद्धविशेषणत्वमिति चेन्न। प्रतिषेध्यस्य परप्रसिद्ध्याऽप्यनुमानोपपत्तेः। अन्यथा प्रतितन्त्रसिद्धान्तस्य क्वापि प्रतिषेधाभावप्रसङ्गादिति बोध्यम्। युक्त्यन्तरेणाप्यात्मनो जगदारोपाधिष्ठनत्वं निराकरोति।। किञ्चेति। शुक्तिकायामारोपितमपि रजतं भ्रान्तेरुत्थितेन भिन्नत्वेन दृश्यत इत्यत उक्तं भ्रान्ताविति। तथा च नव्याप्तिभङ्ग इति भावः। विपर्यये पर्यवसानमाह।। दृश्यते चेति। इदीनीं तव भ्रमत्वेन सम्प्रतिपन्नदशायामित्यर्थः। भिन्नत्वेनेति धर्म्यारोपपक्षे बोध्यम्। धर्मारोपपक्षे त्वसंसृष्टत्वेनेति बोद्यम्। प्रत्यक्पराग्भावेन भेदप्रतीतेः स्पष्टत्वात्। परेणाप्यङ्गीकृतामित्युक्तत्वाच्च। प्राग्विरोधप्रतीतिरुक्तेदानीं तु भेदप्रतीतिमात्रमिति न पौनरुक्त्यमिति भावः। भेदेन प्रतीयमानमपि तत्रारोपितं चेत्कदाऽप्यारोपानिवृत्तिः स्यादिति विपक्षे बाधकं च बोध्यम्।
ननु यदुक्तं निष्प्रधानत्वान्न भ्रान्तिकल्पितमिति तदयुक्तम्। यद्भ्रान्तिकल्पितं तत्सप्रधानमिति नियममङ्गीकुर्मः। इहापि पूर्वपूर्वप्रपञ्च उत्तरोत्तरारोपे प्रधानं भविष्यति। न च सत्यत्वाभावान्न प्रधानमिति वाच्यम्। प्रधानं किं स्वरूपेणोपयुज्यत उत ज्ञानेनाथ संस्कारेण। नाद्यः। अज्ञातरजतस्यापि रजतारोपप्रसङ्गात्। न द्वितीयः ज्ञानस्याचिरविनष्टस्य कारणत्वानुपपत्तेः। तृतीये तपपद्यत एव मिथ्यार्थस्यापि प्रधानत्वम्। तज्ज्ञानजन्यसंस्कारसम्भवात्। नच प्रथमारोपेऽनुपपत्तिः। अनादित्वादारोपपरम्परायाः। आदिसृष्टावपि पूर्वकल्पसंस्कारोऽस्त्येव। अत एव नानवस्थादोषः। सिद्धविषयत्वात्। अतो निष्प्रधानत्वमसिद्धमिति सङ्कते।। नन्विति।। असत्त्वादिति। पूर्वपूर्वारोपेणोत्तरारोपस्यासत्त्वादित्यर्थः। अयमाशयः। एवं कल्पेन आदिसृष्टौ भ्रमानुपपत्तिः। न च पूर्वकल्पानुभवसंस्कारमादाय तदुपपत्तिरिति वाच्यम्। तथा सति नारिकेलद्वीपवासिनो गुञ्जापुञ्जादौ ज्वलनसमारोपप्रसङ्गात्। न ह्यनादौ संसारे कदाऽपि तेन ज्वलनो नानुभूत इति शक्यते वक्तुम्। नन्वेतज्जन्मन्यननुभूततिक्तरसस्यापि बालस्य गुडादावास्यगतपित्तद्रव्यनिष्ठतिक्तत्वारोपस्य जन्मान्तरीयसंस्कारजन्यत्ववदिहापि तत्कल्पनमिति चेन्न। अनन्यथासिद्धे हि कार्ये जन्मान्तरानुभवस्याप्युपयोगः कल्प्यते। न चेदानीमपि जगदारोपः प्रमितः। अनुमानागमयोर्निराकृतत्वादिति।
यद्वाऽसत्त्वादसत्त्वापातादित्यर्थः। एवं सत्यधिष्ठानस्येति शेषः। तथा चायमर्थः। यथा प्रधानसत्त्वं नापेक्षितम्। तथाऽधिष्ठानस्यापि धीरेव भ्रमहेतुः। तद्धीश्च भ्रमरूपानादिरिति शून्यवादिरीत्याऽधिष्ठानस्याप्यसत्त्वापातेनाधिष्ठानत्वेन ब्रह्म सदिति त्वदुक्त्ययोगात्। अधिष्ठानवदबाध्यत्वस्य प्रधानेऽपि सत्त्वादिति ।। छ ।।
अध्याय 23
अध्याय 24
ननु माऽस्तु दृश्यत्वादिकं मिथ्यात्वे मानम्। तथाऽप्ययं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात्पटत्वाद्वा पटान्तरवदिति तत्त्वप्रदीपोक्तानुमानात्तत्सिद्धेः।
अत्र च हेतोः पक्षधर्मताबलन्मिथ्यात्वसिद्धिरित्याशङ्क्याह।। अस्येति। बुद्धिस्थः कश्चन पटो द्रष्टव्यः। एतत्तन्त्विति पक्षीकृतपटजनकतन्तवो गृह्यन्ते। न केवलं दृश्यत्वादिना मिथ्यात्वसाधनमपि त्विदमपि बाधितमित्यपेरर्थः। अभावप्रतियोगीत्येवोक्ते प्रागभावादिप्रतियोगित्वमादाय सिद्धसाधनमतोऽत्यन्तेति। तावत्युक्ते पटान्तरजनकतन्तुनिष्ठात्यन्ताभावप्रतियोगित्वमादाय तद्दोषतादवस्थ्यम्। अत एव तन्त्विति विशेषणम्। अवयवित्वादंशित्वादित्यर्थः। अत्यन्ताभावप्रतियोगित्वं किं पटस्य साध्यते उत तन्तुपटयोराधाराधेयभावलक्षणसम्बन्धस्याथवा पटान्तरस्येवास्यापि पटस्यैतत्तन्त्वारब्धत्वाभावो वाऽभिमत इति त्रेधा विकल्प्य क्मेण दूषयति।। अत्यन्तेति।। निष्प्रतियोगिकत्वेनेति। असत्प्रतियोगिकत्वेनेत्यर्थः।। तथा च पटस्यात्यन्ताभावप्रतियोगित्वे साध्य तस्य नृशृङ्गादिवदत्यन्तासत्त्वापत्त्या तत्सत्वग्राहिप्रत्यक्षबाधः इत्यर्थः। प्रत्यक्षप्राबल्यं चोपजीव्यत्वादिना प्रागवद्बोध्यम्। तस्यानुमानबाधितत्वप्रत्याशा तु निरस्ता निरसिष्यते चेति भावः। द्वितीये दोषमाह।। एतदिति। सिद्धसाधनत्वमेवोपपादयति।। कार्येति। उपादेयोपादानयोरित्यर्थः। तयोराधाराधेयभावस्याप्रामाणिकत्वेन तस्यात्यन्ताभावप्रतियोगित्वसम्भवादिति भावः। तृतीये दोषमाह।। एतत्तन्त्विति। न्वन्याकार्यत्वेन कार्यत्वेन च प्रत्यक्षसिद्धस्यान्यकार्यत्वादिकमादाय नार्थान्तरता। बाधापत्तेरिति चेत्तर्हि तत एवैतत्तन्त्वजन्यस्याप्ययोगादिति भावः। सर्वत्र दोषान्तरं चाह।। आकाशेति। आकाशादिष्वकारणकेषु स्वकारणनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाधअयासम्भवादित्यर्थः।
अध्याय 25
अंशित्वानुमानस्य तर्कपराहतिं च वक्तुं पूर्ववदेवसाध्यं विकल्पयति ।। किञ्चेति। तर्कपराहतत्वप्रतिपादनपरत्वान्नपौनरुक्त्यमिति बोध्यम्।। संसर्गेति। आधाराधेयभावलक्षणेत्यर्थः।। त्त्वद्दर्शनविरोधादिति। त्वयाऽपि पटोदेर्व्यावारिकत्वरूपसत्त्वाभ्युपगमेनासत्त्वेऽभिधीयमानेऽपसिद्धान्त इत्यर्थः। ननु नापसिद्धान्तः। मया प्रपञ्चस्य सदसद्वैलक्षण्याभ्युपगमेन सत्त्वमात्रस्य निषेधे दोषाभावादिति शङ्कते।। सत्त्वेति। मात्रपदव्यावर्त्यमाह।। नासत्त्वमिति।। तन्निषेध इति। सत्त्वनिषेधेऽसत्त्वस्य ध्रुवत्वादिति भावः। सत्त्वासत्त्वयोर्भावाभावरूपत्वात्। परस्परविरहव्याप्यत्वस्य वा समर्थितत्वादिति भावः। किञ्च यदि पटस्य सत्त्वनिषेध एवात्यन्ताभावप्रतियोगित्वपदेनाभिमतस्तर्हि पटात्यन्ताभावप्रतियोगीत्येतावतैवेष्टसिद्धेरेतत्तन्तुनिष्ठेति व्यर्थमित्याह।। सत्त्वेति। किञ्चेति चार्थः। ननु तार्किकमतेऽस्य पटस्य तन्त्वन्तरनिष्ठात्यन्ता भावप्रतियोगितोपगमात्सिद्धसाधनता निवृत्त्यैतदुपात्तमित्याशङ्क्य तथाऽपि मन्मते तद्व्यर्थमित्याह।। न चेति।। असिद्धेरिति। अन्यथाऽसत्त्वापत्तेरिति भावः।। एतेनेति। पटान्तरात्यन्ताभावस्यास्माकमसिद्धत्वेनेत्यर्थः। ननु यदि पटान्तरस्यात्यन्ताभाव एतत्तन्तुषु न स्यात्तर्ह्यत्र पटः स्यात्। न चेष्टापत्तिः। एतस्मिन्पटे सति पटान्तरस्यात्र वृत्तेरयोगात्। मूर्तानां समानदेशताविरोधादिति शङ्ककते।। नन्विति। एतत्तन्तुष्विति शेषः। प्रश्नाशयं विवृण्वन्नुत्तरयति।। किमिति। अत्रैतत्तन्तुष्वित्यर्थः।। न व्याप्तिसिद्धिरिति। मन्मतेऽश्वे गोत्वात्यन्ताभावाभावेऽपि गोत्वसंसर्गस्याभावान्मतान्तरेऽपि पटाभावे आत्माश्रयापत्त्या पटाभावाभावेऽपि पटसंसर्गस्याभावेन यत्र यदत्यन्ताभावो नास्ति तत्र तत्संसर्ग इति व्याप्तेरसिद्धेरित्यर्थः।। सिद्धसाधनमिति। पटान्तरस्यापि संयोगवृत्त्यैतत्तन्तुष्ववस्थानसम्भवेनेष्टापत्तेरित्यर्थः। उपादानोपादेययोरभेदेन मूर्तानां समानदेशताविरोध इत्यस्याप्यभावात्। यद्यपीदं दूषणं प्राचीनपक्षेऽपि समानं तथाऽपि वस्तुस्थितिकथनाय व्याप्त्यभाव एवोक्तः। यद्वाऽऽद्ये संसर्गशब्दः समवायपरः। ननु पटस्यात्यन्ताभावाभावे इह तन्तुष्वयं पटो नास्ति भूतले नास्तीत्यादिप्रत्यया निरालम्बना भवेयुरिति चेन्मैवं वोचः। इह पटो नास्तीति प्रतीतेः पटसम्बन्धाभावविषयत्वात्। इह भूतले घटो नास्तीत्यत्र भूतलघटसंयोगो निषिध्यत इति कुसुमाञ्जलावुदयनोक्तेः। भूतले घटोऽस्तीति बुद्धेस्ततद्सम्बन्धविषयत्वेन नास्तीति बुद्धेरपि तदभावविषयत्वाच्च। किञ्च न तावदयं घटस्य प्रागभावो ध्वंसो वा। घटसमानकालीनत्वात्। नाप्यत्यन्ताभावः। कदाचिद्धटस्य तत्रानयनात्। सम्बन्धस्य तु भूतत्वे ध्वंसो भावित्वे प्रागभावः। कदाऽप्यभावे तदधिकरणकैतत्पटनिरूपितसम्बन्धस्यासत्त्वेन तदत्यन्तभावसम्भव इत्येत्तन्तुषु पटान्तरस्यात्यन्ताभावाभावे न कोऽपि दोष इत्यलमियता। संसर्गनिषेधो वा क्रियत इति प्रागुक्तं साध्ये विकल्पं दूषयति।। नाप्युत्तर इति। पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगीत्यस्यैतत्तन्तुजन्यो नेत्येव विवक्षितमिति शङ्कते।। अथेति।। अंशित्वमपीति। तन्त्वन्तराजन्यत्वेन निश्चितस्यैतत्तन्त्वजन्यत्वे साध्ये सर्वथाऽजन्यत्वापत्त्या परमाणुवदवयवित्वरूपमंशित्वमपि न स्यादित्यर्थः।
ननु तात्त्विकांशित्वाभावेऽप्यतात्त्विकमंशित्वं सम्भवतीति भावेन शङ्कते।। न तत्त्वत इति। एवमप्यन्यतरासितद्धो हेतुरिति भावेनाह।। अतात्त्विकेति। एवमवयवित्यानुमानस्य तर्कपराहतिमुक्त्वा बाधकं चाह।। इहेति। इदं च न्यायमतरीत्या बोध्यम्। स्वमत एवंविधप्रत्यक्षाभावादिति ध्येयम्। केचित्तु सर्वतन्तुभिः पटस्यात्यन्ताभेदेऽप्येकैकतन्तुभिर्भेदाभेदादेवं प्रत्यक्षमुक्तमित्याहुः।
ननु वन्ह्यौष्णयप्रत्यक्षप्रामाण्ये च वादिप्रतिवादिसम्मतेः सत्त्वात्तत्र बाधसम्भवेऽपि नेह तथा। इह तन्तुषु पट इति प्रत्यक्षे मम प्रामाण्यासम्मतेरिति तत्त्वप्रदीपोक्तामाशङ्कां प्रति हेतुमनुवदति।। उभयेति। तत्किमित्याक्षेपे न किमपीत्यर्थः। तथा च न दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः। तत्र कारणमाशङ्क्य तदपि सम्मतमेवेत्याह।। अनुमानेति। अंसित्वानुमानेत्यर्थः।। सममिति। अनुमानविरोधलक्षणं कारणमित्यर्थः। अभ्युपेत्यैवमुदितं वस्तुतस्त्वनुमानबाधितं प्रत्यक्षमेव नास्ति। येन तद्दृष्टान्तेनेह तन्तुषु पट इति प्रत्यक्षस्यानुमानबाधसम्भावनाऽपि स्यादित्याह।। न चेति। किञ्चेति चार्थः। दृष्टान्तं चेति वाऽन्वयः।
ननूक्तं नभोनैल्यप्रत्यक्षमिति तत्राह।। नभ इति। आगमेति तर्काबाध्यत्वे तात्पर्यम्। न त्वागमेनापि तत्र बाधः। तथात्वेऽद्वैतानुमानेन बाधाभावेऽप्यद्वैतागमेन तस्य बाधसम्भवेन पराभिमतसिद्ध्यापातात्। अत एवादिपदप्रयोगः। तथा चायमर्थः। न तत्रागमेन बाधः। किन्तु मूलभूतप्रत्यक्षेणैव बाधः। यथा चैतत्तथोक्तं प्राक्। विस्तरस्तु न्यायामृते द्रष्टव्यः। एवकारव्यावर्त्यमाह।। अनुमानस्येति। महत्त्वात्परममहत्त्वादित्यर्थः।। अगन्धेति। गन्धरसरूपस्पर्शान्यतमवत्त्वाभावादित्यर्थः। पृथिव्यादिचतुष्टयान्यतमत्वाभावदिति यावत्। यद्वा नीलरूपाभावलक्षणसाध्याभिप्रायेण यथाश्रुत एवागन्धवत्त्वादिति हेतुः साधुः।। तत एवेति। उक्तहेतुत्रयान्यतमादित्यर्थः। इदमुपलक्षणम्। अद्वैतिमते नभसो जन्यत्वेनाद्यहेतोरसिद्धिश्च बोध्या। एतेनामूर्तत्वान्त्यावय विभिन्नानारम्भकत्वादिकमिह हेतुरिति प्रत्युक्तम्। असिद्धेः। अशब्दगुणकत्वसाधनसम्भवाच्चेति।