Brahmasutra/Ullekha
उल्लेखसूची — ब्रह्मसूत्रभाष्यम्
इस ग्रन्थे उद्धृतानि प्रमाणस्थानानि — 125 स्रोताः
Agnayapurana
1 उद्धरणानि
- ‘यथाऽश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः ।
एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम्’
Agneye
1 उद्धरणानि
- ‘यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा ।
तस्य शान्त्यादयोऽङ्गानि तस्मात् तेषामनिष्ठितिः ॥
अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत्’
Agniveshyashruti
1 उद्धरणानि
- ‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसुरा एवमनेवं च मनुष्याः’
Aitareyaaranyaka
18 उद्धरणानि
- ‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक् प्राणः’(ऐ.आ.२.१.४)
- ‘तं देवाः प्राणयन्त’(ऐ.आ.२.१.५)
- ‘स एषोऽसुः स एष प्राणः’(ऐ.आ.२.१.५)
- ‘प्राण ऋच इत्येव विद्यात्’(ऐ.आ.२.२.२)
- ’तदयं प्राणोऽधिष्ठति’(ऐ.आ.२.३.८)
- ‘प्राणो वा अहमस्म्यृषे’(ऐ.आ.२.२.३)
- ‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’(ऐ.आ.२.२.३)
- ‘तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’(ऐ.आ.२.२.४)
- ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ.आ.२.४.३)
- ‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ.आ.२.४.३)
- ‘एतद्धस्म वै तद्विद् विद्वानाह महिदास ऐतरेयः’(ऐ.आ.२.१.८)
- ‘ब्रह्म ततमम्’(ऐ.आ.२.४.३)
- ‘तस्यैतस्यासावादित्यो रसः’(ऐ.आ.३.२.३)
- ‘स यश्चायमशरीरः प्रज्ञात्मा’(ऐ.आ.३.२.४)
- ‘स योऽतोऽश्रुतः’(ऐ.आ.३.२.४)
- ‘आत्मानां परस्मै शंसति’(ऐ.आ.३.२.३)
- ‘एतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३)
- ‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतामन्तरपुरुष’(ऐ.आ.३.२.४)
Aitareyopanishat
1 उद्धरणानि
- ‘एतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३.१२)
Bashkalashruti
1 उद्धरणानि
- ‘अवचनेनैव प्रोवाच’(बाष्कलश्रुति)
Bhagavadgeeta
7 उद्धरणानि
- ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।’(भ.गी.७.१७)
- ‘मम योनिर्महद्ब्रह्म’(भ.गी.१४.३)
- ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’(भ.गी.१०.२०)
- ‘गामाविश्य च भूतानि धारयाम्यहमोजसा’(भ.गी.१५.१३)
- ‘कूटस्थोऽक्षर उच्यते’(भ.गी.१५.१६)
- ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’(भ.गी.१५.१४)
Bhagavata
9 उद्धरणानि
- ‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’(भाग.१.२.११)
- ‘दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान्’(भाग.३.१.१५)
- ‘इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः’(भाग.१.५.२०)
- ‘विद्याऽऽत्मनि भिदाभोधः’(भाग.११.१९.३९)
- ‘भेददृष्ट्वाऽभिमानेन निस्सङ्गेनापि कर्मणा’(भाग.३.३.१२)
- ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’(भाग.२.१०.६)
- ‘संविच्छास्त्रं परं पदम्’
- ‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’(भाग.४.२९.४९)
Bhagavatatantra
1 उद्धरणानि
- मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।
तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥
मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः ।
इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः ॥
भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः ।
अधमः शमादिसंयुक्तो मध्यमः समुदाहृतः ॥
आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।
विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥
स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान् इति ।
Bhagavathatantra
1 उद्धरणानि
- ‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥
नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’(छां.उ.५.१०.८)
Bhagavdgeeta
1 उद्धरणानि
- ‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्’(भ.गी.१५.१५)
Bhallaveya
1 उद्धरणानि
- ‘नामानि सर्वाणि यमाविशन्ति’
Bhallaveyashruti
3 उद्धरणानि
- ‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ - ‘नामानि सर्वाणि यमाविशन्ति’
- ‘आत्मा हि परमः स्वतन्त्रोऽधिगुणः, जीवोऽल्पशक्तिरस्वतन्त्रोऽवरः’
Bhavishya
1 उद्धरणानि
- ‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः ।
इतरेषां तु सत्ताद्या यत एव तदाज्ञया’
Bhavishyapurana
2 उद्धरणानि
- ‘ऋग्यजुः सामाथर्वाश्च मूलरामायणं तथा।
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥
पुराणानि च यानीह वैष्णवानि विदो विदुः ।
स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद् विचार्यते ॥
यत् तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् ।
नाप्रामाण्यं भवेदेषां दृश्यते ह्यधिकारतः॥
इतः प्रामाण्यमन्येषां न स्वतस्तु कथञ्चन ।
अदृश्योक्तौ ततस्तेषामप्रमाण्यं न संशयः’ - ‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः।
अचिन्त्याः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ।
ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः’
Bhavishyathparva
1 उद्धरणानि
- ‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’
Bodhayanagruhyasuktam
1 उद्धरणानि
- ‘प्राणेश्वरः कृत्तिवासाः पिनाकी’(बोधायनगृह्यसूत्रं)
Brahmandapurana
1 उद्धरणानि
- ‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशानादेव चेशानो महैदेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् ।
तदाधारो यतो विष्णुः पिनाकीति ततः (स्मृ)श्रुतः॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।
कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामाऽसौ ऐश्वर्यादिन्द्र उच्यते ॥
एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः ।
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’
Brahmapurana
2 उद्धरणानि
- एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् ।
अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’(प्रभुम्) ॥ - ‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।
तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’
Brahmasutra
2 उद्धरणानि
- ‘अध्ययनमात्रवतः’(ब्र.सू.३.४.१२)
- ‘नाविशेषात्’(ब्र.सू.३.४.१३)
Brahmatarka
5 उद्धरणानि
- ‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् ।
ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥ - तदुपासनं च भवति प्रतिमोपासनं यथा ।
- दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् ।
उपासना त्वापरोक्ष्यं गमयेत् तत्प्रसादतः’ - ‘ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।
चीर्णीऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि’ - ‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।
परस्य ब्रह्मणो ह्येव सर्वविध्यतिदूरता’
Brahmavaivarta
1 उद्धरणानि
- ‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ।
बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः’
Bruhadaranyakaupanishad
1 उद्धरणानि
- ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’(बृ.उ.४.४.२३)।
Bruhadaranyakopanishad
12 उद्धरणानि
- ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः।’(बृ.उ.६.५.६)
- ‘अहं ब्रह्मास्मि’(बृ.उ.३.५.४)
- ‘स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वां वा अत्तीति तददितेरदितित्वम्’(बृ.उ.३.२.५)
- ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ.५.९.२८)
- ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’(बृ.उ.५.७.३)
- ‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तरः’(बृ.उ.५.७.३)
- ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा
शरीरं य आत्मानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’
‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं’(बृ.उ.५.७.२२) - ‘अयमग्निर्वैश्वानरः’(बृ.उ.७.९.१)
- ‘येनेदमन्नं पच्यते’(बृ.उ.७.९.१)
- ‘योऽग्नौ तिष्ठन्’(बृ.उ.५.७.५)
- ‘न हास्य कर्म क्षीयते’(बृ.उ.३.४.१५)
- ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते’(बृ.उ.६.४.२)
Bruhadaranyakopanishat
5 उद्धरणानि
- ‘आत्मन्येवात्मनं पश्येत्’(बृ.उ.६.४.२३)
- ‘विज्ञाय प्रज्ञां कुर्वीत’(बृ.उ.६.४.२१)
- ‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्दोहे गहने प्रविष्टः ।
स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’(बृ.उ.६.४.१३) - ‘अयमात्मा ब्रह्म॥’(बृ.उ.४.५.१९,माण्डूक्य.उ.१.२)
- ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥’(बृ.उ.५.१.१)
Bruhathsamhita
4 उद्धरणानि
- ‘शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।
प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥
नारायणोऽथ सन्दोहो वासुदेवः शिरोऽपि वा ।
पुच्छं सङ्कर्षणः प्रोक्त एक एव तु पञ्चधा ॥
अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ।
ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ॥
अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा’ - ‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः ।
निविष्टो हृदयेनित्यं रसं पिबति कर्मजम् - ‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।
न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ - ‘एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते ।
प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥
चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता ।
तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥
यो विभागी विकारः स सोऽविकारः परो हरिः ।
अविभागात् परानन्दो नित्यो नित्यगुणात्मकः ।
विभागो ह्यल्पशक्तित्वं नहि तत् परमात्मनः’।
Bruhatsamhita
2 उद्धरणानि
- ‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्॥’ - ‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥’
Bruhattantra
5 उद्धरणानि
- गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन।
गुणैरपि न तूपास्यो यो पूर्णत्वविरोधिनः’ - ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् ।
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’ - ‘आनन्दानुभवत्त्वाच्च निर्दोषत्वाच्च भण्यते ।
नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः’ - ‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः ।
विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः’ - समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् ।
ऋषभाद्यनुज्ञया चैष प्राप तस्माद्धि युज्यते’
Bruhdaranyakopanishad
1 उद्धरणानि
- ‘ब्रह्मैव सन्’(बृ.उ.६.४)
Chandogyopanishad
26 उद्धरणानि
- ‘तत्त्वमसि’(छा.उ.६.८)
- ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’(छा.उ.१.९)
- ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’(छा.उ.१.९)
- ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’(छा.उ.३.१३.७)
- ‘गायत्री वा इदं सर्वम्’(छा.उ.३.१२.१)
- ‘गायति त्रायति च’(छा.उ.३.१२.१)
- ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.उ.३.१२.६) - ‘त्रिपादस्यामृतं दिवि’(छा.उ.३.१२.६)
- ‘परो दिवः’(छा.उ.३.१३.७)
- ‘य एष आदित्ये पुरुषः सोऽहमस्मि, स एवाहमस्मि’(छां.उ.४.११)
- ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’(छां.उ.४.१५)
- तत् ‘यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवम् एवंविधि पापं कर्म न श्लिष्यते’(छां.उ.४.१४.३)
- ‘सोऽहमस्मि’(छां.उ.४.११.१)
- ‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छां.उ.४.१५.१)
- ‘वामनिः, भामनिः’(छां.उ.४.१५.३-४)
- ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छां.उ.४.१०.५)
- ‘स एनान् ब्रह्म गमयति’(छां.उ.४.१५.५)
- ‘एतदमृतम्’(छां.उ.४.१५.१)
- ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’(छां.उ.५.१८.१)
- ‘वैश्वानरे तद्धुतं भवति’(छां.उ.५.२४.४)
- ‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छां.उ.५.१८.२)
- ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’(छां.उ.५.१९.१)
- ‘को न आत्मा, किं ब्रह्म’(छां.उ.५.११.१)
- ‘मूर्धैव सुतेजाः, चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’(छां.उ.५.१८.२)
- ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छां.उ.१.१.१०)
- ‘तस्य यावन्न वाङ्मनसि सम्पद्यते’(छां.उ.६.१५.१)
Chandogyopanishat
2 उद्धरणानि
- ‘एष म आत्माऽन्तर्हृदये ज्यायन्’(छां.उ.३.१४.३)
- ‘स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात् पूर्वमेव तु ।
मातुः शरीरमाप्नोति पर्यटन् यत्र तत्र च॥’(छां.उ.५.१०.७)
Chaturvedashikha
6 उद्धरणानि
- ‘अहं तत्तेजो रश्मीन्नारायणम् पुरुषं जातमग्रतः । पुरुषात् प्रकृतिर्जगदण्डम्’ इति चतुर्वेदशिखायाम् ॥ 20 ॥
- ‘स सविता स वायुः स इन्द्रः सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्तः’
- ‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’
- ‘एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्त गुणोऽनन्तरूपः’
- ‘सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् ।
नित्यानन्दा नित्यरूपाऽजरा च या शाश्वताऽत्मेति च यां वदन्ति’ - ‘सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुषु ।
स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम्॥’
Indradyumnashakha
1 उद्धरणानि
- ‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः’
Kathopanishad
6 उद्धरणानि
- ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।’(क.उ.२.२३)
- ‘यमेवैष वृणुते तेन लभ्यः ।’(क.उ.२.२३)
- ‘नैषा तर्केण मतिराऽऽपनेया’(कठ.उ.२.९)
- ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायाऽऽतपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः’ ।(क.उ.१.३.१) - ‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’(क.उ.१.३.२)
- ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’(क.उ.४.१५)
Kathopanishat
3 उद्धरणानि
- ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’(क.उ.१.३.१५)
- ‘यद्वाचाऽनभ्युदितम् । येन वागभ्युद्यते । यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्’(क.उ.१)
- ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’(कठ.२.१५)
Kenopanishat
1 उद्धरणानि
- ‘यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(केन.उ.१.६)
Koushitakibrahmana
1 उद्धरणानि
- ‘एष ह्येव(एनं) साधु कर्म कारयति’(कौ.ब्रा.३.९)
Mahabharata
5 उद्धरणानि
- ‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥ - प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥’(म.भा.१२.२२०.३०-३१) - ‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह’(म.भा.१२.३६०.२)
- ‘परमं यो महद्ब्रह्म’(म.भा.१३.२५४.९)(विष्णुसहस्रनाम)
- ‘अनादिनिधना नित्या’(म.भा.१२.२३८.९३)
Mahanarayanopanisat
1 उद्धरणानि
- ‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥
विश्वतः परमां नित्यम्’(महाना.उ.११)
Mahanarayanopanishad
1 उद्धरणानि
- ‘तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६)
Mahanarayanopanishat
4 उद्धरणानि
- ‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः ।
यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’(म.ना.उ.१.३) - ‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६)
- ‘तन्नो विष्णुः’(म.ना.उ.३.१६)
- ‘तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६)
Mahanarayanopashat
1 उद्धरणानि
- ‘प्राणानां ग्रन्थिरसि रुद्रोऽमाऽऽविशान्तकः’(महाना.उ.३५)
Mahopanishad
1 उद्धरणानि
- ‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषुवेदेषु कामचारो भवति’
Mathsyapurana
1 उद्धरणानि
- ‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद् रूपमेकं च सूर्यवद्बहुधेयते’
Moksha
1 उद्धरणानि
- ‘यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।
न हीयते यत्र गत्वा यत्र गत्वा न वर्धते’
Mundakaupanishad
1 उद्धरणानि
- ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।”(मुण्डक.उ.१.२.१२)
Mundakopanishad
14 उद्धरणानि
- ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।’(मु.उ.३.१.२)
- ‘यत्तदद्रेश्यम्, अग्राह्यम्, अगोत्रम्, अवर्णम्, अचक्षुःश्रोत्रं, तद् अपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’(मु.उ.१.१.६)
- ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु.उ.१.१.७) - ‘अक्षरात्परतः परः’(मु.उ.२.१.२)
- ‘अक्षरात् सम्भवतीह विश्वम्’(मु.उ.१.१.७)
- ‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च। तत्र यो वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’(मु.उ.१.१.४-५)
- ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप’(मु.उ.१.१.९)
- ‘तस्मादेतत्ब्रह्म नाम रूपमन्नं च जायते’(मु.उ.१.१.९)
- ‘अक्षरात् परतः परः’(मु.उ.२.१.२)
- ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’(मु.उ.३.१.२)
- ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु.उ.३.१.३)
- ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्चसर्वैस्तमेवैकं जानथ आत्मानम्’(मुण्डक.उ.२.२.५)
- ‘स एषोऽन्तरश्चरते बहुधा जायमानः’(मुण्डक.उ.२.२.६)
- ‘यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जायते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः’(मुं.उ.३.१.१०)
Mundakopanishat
1 उद्धरणानि
- ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’(मुण्डक.उ.२.२.५)
NarayanaTantra
1 उद्धरणानि
- ‘ब्रह्मणां शतकालात् तु पूर्वमारब्दसङ्क्षयः ।
नियमेन भवेन्नात्र कार्या काचिद्विचारणा’
Paingishruti
2 उद्धरणानि
- ‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव ।
प्रकाशयन्ते न विरोधः कुतश्चिद् वेदेषु सर्वेषु तथेतिहासे॥’ - ‘सत्य आत्मा, सत्यो जीवः, सत्यं भिदा सत्यं भिदा सत्यं भिदा, मैवाऽरुवण्यो मैवाऽरुवण्यो मैवाऽरुवण्यः’
Parasamhitayam
2 उद्धरणानि
- ‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।
विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता’ - ‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥
नान्यत् प्रयोजनं ज्ञानात् ध्यानात् कर्मकृतेरपि ।
श्रवणाच्चाथ पाठाद्वा विद्याभिः कञ्चिदिष्यते’
Pippalada
1 उद्धरणानि
- ‘यत्तत् सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।
यत्तल्लोका न विदुर्लोकसारं विन्दन्त्येतत् कवयो योगनिष्ठाः’
Pramana
22 उद्धरणानि
- ‘औपनिषदः पुरुषः’
- ‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’ - ‘स आत्मन आत्मानमुद्धृत्य आत्मन्येव विलापयति, अथ आत्मैव भवति’।
- ‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
असम्पूर्णाः परे यस्माद् उपचारेण वा भवेत्॥’ - ‘स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छम्’
- ‘असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ् पराङ् वैक ईयते बहुधेयते’,‘स पुरुषः’, ‘स ईश्वरः’, ‘स ब्रह्म’ ।
- ‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयते ।
एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः’ - ‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् ।
स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ ॥ - ‘नेहाऽसीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।
सोऽत्मनो मनसाऽस्राक्षीद् अप एव जनार्दनः’ ॥ - शयानस्तासु भगवान् निर्ममेऽण्डं महत्तरम् ।
तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥
तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ॥ - ‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत्’ ॥ - ‘यस्य पृथिवी शरीरम्’
- ‘शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।
रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत्’ ॥ - “एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः”
- तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्य(व्य)चीक्लृपत् । विमिश्राणि व्यमिश्रयत् । अत एतादृगेतद्रूपम्
- ‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीत’
- ‘सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप’
- ‘अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः ।
अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’ - ‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः’
- ‘सोऽन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो हरिर्योऽनन्तो यो विष्णुर्यः परः परोवरीयान्’ इत्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् ।
- ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’ - ‘नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति’ इति ह्युपगच्छन्ति । ‘आत्मेत्येवोपास्वाऽत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येष भवति’
Rigveda
22 उद्धरणानि
- ‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’(ऋ.सं.१०.८२.३)
- ‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’(ऋ.सं.१०.८२.६)
- ‘परो दिवा पर एना पृथिव्या’(ऋ.सं.१०.८२.५)
- ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’(ऋ.सं.१०.१२५.५)
- ‘मम योनिरप्स्वन्तः समुद्रे’(ऋ.सं.१०.१२५.७)
- ‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।’(ऋ.सं.१.१५४.४)
- ‘चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँवीविपत् ।’(ऋ.सं.१.१५५.६)
- ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१)
- ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप।’(ऋ.सं.७.९९.२)
- ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’(ऋ.सं.१०.८२.३)
- ‘विष्णोर्नु कं वीर्याणि प्रोवोचं यः पार्थिवानि विममे रजांसि’(ऋ.सं.१.१५४.१)
- परो मात्रया तन्वा वृधान’(ऋ.सं.७.९९.१)
- ‘वि मे कर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । विमे मनश्चरति दूर आधीः किं स्विद् वक्ष्यामि किमु नो मनिष्ये’(ऋ.सं.६.९.६)
- ‘परो मात्रया तन्वावृधान’(ऋ.सं.७.९९.१)
- ‘अहं मनुरभवं सूर्यश्च’(ऋ.सं.४.२६.१)
- ‘न ते विष्णो जायमानः’(ऋ.सं.७.९९.२)
- ‘घर्मा समन्ता त्रिवृतं व्यापतुः तयोर्जुष्टिं मातरिश्वा जगाम’(ऋ.सं.१०.११४.११)
- ‘त्रिपादस्यामृतं दिवि’(ऋ.सं.१०.९०.३)
- ‘न ते विष्णो चायमानो न जातः’(ऋ.सं.७.९९.२)
- ‘वैश्वानरमृत आजातमग्निम्’(ऋ.सं.६.७.१)
- ‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’(ऋ.सं.१०.९०.१)
- ‘वाचा विरूप नित्यया’(ऋ.सं.८.६४.६)
Shatapathabrahmana
1 उद्धरणानि
- ‘तं यथा यथोपासते तदेव भवति’
Shatprashnopanishat
1 उद्धरणानि
- ‘स एतस्मात् जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’(प्र.उ.५.५)
Shwetashvataropanishat
1 उद्धरणानि
- ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥’(श्वे.उ१.१)
Shwetashwataropanishad
1 उद्धरणानि
- “ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता(तस्यैतेऽकथिता) ह्यर्थाः प्रकाशन्ते महात्मनः ॥”(श्वे.उ.६.२३)
Shwethashwataropanishad
1 उद्धरणानि
- ‘विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।
एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः’
Taittiriyaaranyaka
1 उद्धरणानि
- ‘स्वाध्यायोऽध्येतव्यः’(तै.आ.२.१५)
Taittiriyaaranyaka
16 उद्धरणानि
- ‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥’(तै.आ.३.१२)
- ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै.आ.३.१२.७)
- ‘अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्ततम् । सहैव सन्तं न विजानन्ति देवाः’(तै.आ.३.११)
- ‘इन्द्रो राजा’(तै.आ.३.११.६)
- ‘सप्तयुञ्जन्ति’(तै.आ.३.११.८)
- ‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’(तै.आ.३.११.११)
- ‘यस्याण्डकोशं शुष्ममाहुः’(तै.आ.३.११.४)
- ‘वायोरात्मानं कवयो निचिक्युः’(तै.आ.३.११)
- ‘अन्तरादित्ये मनसा चरन्तम्’(तै.आ.३.११)
- ‘देवानां हृदयं ब्रह्मान्वविन्दत्(तै.आ.३.११)’
- ‘‘तद्वैत्वं प्राणो अभवः महान् भोगः प्रजापतेः ।
भुजः करिष्यमाणः यद्देवान् प्राणयो न व ॥’(तै.आ.३.१४) - ‘श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे’(तै.आ.३.१३)
- ‘सुवर्णं कोशं रजसा परीवृतम् देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां वि चक्षते । पादं षड्ढोतुर्न किलाविवित्से’(तै.आ.३.१.१)
- ‘यज्ञेन यज्ञमयजन्त’(तै.आ.३.१२)
- ‘तमेवं विद्वानमृत इह भवति’(तै.आ.३.१२.७)
- ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’(तै.आ.३.१२,ऋ.सं.१०.९०.१३)
Taittiriyabrahmana
1 उद्धरणानि
- ‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’ ॥(तै.ब्रा.३.१२.९)
Taittiriyopanishad
19 उद्धरणानि
- ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’(तै.उ.३.१)
- ‘अद्यतेऽत्ति च’(तै.उ.२.२)
- ‘स वा एषः’(तै.उ.२.२)
- ‘येऽन्नं ब्रह्मोपासते’(तै.उ.२.२)
- ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२.७)
- ‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१)
- ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१)
- ‘ते ये शतं प्रजापतेरानन्दाः’(तै.उ.२.२०(२८))
- ‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति’(तै.आ.२.१६)
- ‘स यश्चायं पुरुषे’(तै.उ.२.२१(२७))
- ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’(तै.उ.२.१)
- ‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’(तै.उ.२.७)
- ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’(तै.उ.२.८)
- ‘अदृश्येऽनात्म्ये’(तै.उ.२.७.१)
- ‘अन्तः समुद्रे मनसा चरन्तम् ब्रह्मान्वविन्दद्दशहोतारमर्णे’(तै.उ.३.११.१)
- ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२.१५)
- ‘यो वेद निहितं गुहायाम्’(तै.उ.२.१)
- ‘आनन्दो ब्रह्मेति व्यजानात्’(तै.उ.३.६)
Taittiriyopanishat
2 उद्धरणानि
- ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै.उ.२.४.२२)
- ‘ब्रह्म पुच्छं प्रतिष्ठा’(तै.उ.२.५.२)
Talavakarabrahmanam
1 उद्धरणानि
- ‘द्वे वाव ब्रह्मणो रूपे-आत्मा चैव अनात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह योऽनीदृशः सोऽनात्मा’
Turashruti
1 उद्धरणानि
- ‘असर्वः सर्व इत्यपि’
Vamanapurana
2 उद्धरणानि
- ‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः ।
अन्यनाम्नां गतिर्विष्णुः एक एव प्रकीर्तितः॥’ - ‘ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्॥’
Vyasasmriti
1 उद्धरणानि
- ‘वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः’(व्या.स्मृ.)
Vyasasmruti
1 उद्धरणानि
- ‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’
Vyomasamhita
3 उद्धरणानि
- ‘अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।
स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥ - एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।
त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥ - आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।
यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपरा ॥’ इति ॥
तथाऽऽपराः मुनिस्त्रियः नरादिकुलजाश्च ।
skanda
1 उद्धरणानि
- नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥
चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
अग्निवेश्यशाखा
1 उद्धरणानि
- ‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः ।
अत उत्पद्यते च म्रियते च विमुच्यते च’
अध्यात्मश्रुतिः
2 उद्धरणानि
- ‘हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु ।
उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमोवोपासतो भवेत्’ - ‘गत्यनुस्मरणाद् ब्रह्म चन्द्रं वा गच्छति ध्रुवम् ।
अननुस्मरतः काले स्मरणं प्राप्य वैगतिः’
काठकश्रुतिः
1 उद्धरणानि
- ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् ।
नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते’॥
काशायनशाखा
1 उद्धरणानि
- ‘अथ यः सदोषः साञ्जनः सजनिः स जीवोऽथ यः स निर्दोषो निष्कलः सगुणः परः परमात्मा’
कूर्मपुराणम्
11 उद्धरणानि
- ‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।
निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥ - श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥ - पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत्’ - ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः ।
क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः’ - ‘एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः ।
प्रतिव्यूह्य व्यूह्य चासावतीत्या च जनार्दनः ।
धारयत्यनिशं देवो नित्यानन्दैकलक्षणः’ - ‘आत्माऽमेयः परं ब्रह्म परानन्दादिकाभिधाः।
वदन्ति विष्णुमेवैकं नान्यत्राऽसां गतिः क्वचित्’ - ‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् ।
श्रवणादेव मूर्च्छादिरधरस्य यतो भवेत् ॥
तस्मान्न विस्तरेणैतत् कथ्यते राजसत्तम॥’ - ‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च ।
तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ - ‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।
स ईशः परमो ज्ञेयः परमानन्दलक्षणः’ - ‘अव्यक्तव्यक्तभावौ च न क्वचित् परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः’ - ‘अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् ।
कादाचित्कविशेषस्तु नैव तेषां विषिध्यते’
कौण्ठरव्यश्रुतिः
2 उद्धरणानि
- ‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्क(ष्फ)लम्।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत्॥’ - ‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते ।
तथापि यथा यथा कर्म कुरुते तथा तथाऽधिको भवति’
कौण्डिन्यसंहिता
1 उद्धरणानि
- ‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।
तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्’
कौण्डिन्यसंहिता
1 उद्धरणानि
- ‘मासेभ्यः संवत्सरं, संवत्सराद् वरुणलोकं, वरुणलोकात् प्रजापतिलोकम्’
गारुडपुराणम्
6 उद्धरणानि
- अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि ।
प्रारभन्ते नियत्यैव तत् किमत्र नियामकम् ॥
कश्चार्थस्तु तयोर्विद्वन् कथमुत्तमता तयोः ।
एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥ - एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः ।
आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥
अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः ।
परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥
स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः ।
सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥
ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् ।
तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥ - अकारः सर्ववागात्मा परब्रह्माभिधायकः ।
तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥
अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः ।
अथातःशब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥
सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति। - अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम्॥’ - ‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः ।
स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ - ‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित् परमेश्वरे ।
सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः’
गौपवनसंहिता
3 उद्धरणानि
- ‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद् विभोः’ - ‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः
- ‘त्रेधा हि ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति ।
विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’
गौपवनसंहिता
1 उद्धरणानि
- ‘संवत्सरात् तटितमागच्छति तटितः प्रजापतिलोकम्’
चतुर्वेदपरिशिष्टम्
2 उद्धरणानि
- आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृष्यमानम् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्’ - ‘सर्वैश्च वेदैः परमो हि देवो जीज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत् ।
तस्मादेनं सर्वेवेदानदीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’
छाद्यात्मपुराणम्
2 उद्धरणानि
- ‘सत्याद्या अहमात्मान्ताः यद्गुणाः समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यते’ - ‘देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे ।
अतः सुगतिरेतेषां नान्यथा व्यत्ययो भवेत्’
तदव्यपदेशसंहिता
1 उद्धरणानि
- ‘तद् यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छां.उ.४.१४.३),‘तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्ते’(छां.उ.५.२४.३)
तूरश्रुतिः
1 उद्धरणानि
- ‘सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः ।
ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः’
नारदीयपुराणम्
5 उद्धरणानि
- ‘कर्मणात्वधमः प्रोक्तः प्रसादः, श्रवणादिभिः ।
मध्यमो, ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥
प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः ।
मध्यमाज्जनलोकादिः, उत्तमस्त्वेव मुक्तिदः ॥ - श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च ।
साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥
न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन’। - ‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः ।
तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ॥’ - ‘अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् ।
अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते’ - ‘तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्यन्ते’(छां.उ.५.१०.७)
नारायणतन्त्रम्
4 उद्धरणानि
- ‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’
- ‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।
स्मरणं सर्वदा योग्यं ध्यानोपासनमानसे॥
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।
आसीनस्य भवेत् तत् तु न शयानस्य निद्रया ॥
स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।
स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः’ - ‘यदनारब्धपापं स्यात् तद् विनश्यति निश्चयात् ।
पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ॥
द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः ।
तस्याप्यारब्धकार्यस्य न विनाशोऽस्ति कुत्रचित् ॥
आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः’ - ‘प्रवाहतस्तु वृद्धिर्वा ह्रासो वा नैव कुत्रचित् ।
नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ॥
कुत एव तु दुःखं स्यात् सुखमेव सदोदितम् । भोगानां तु विशेषे तु वैचित्र्यं लभ्यते क्वचित्’
नारायणाध्यात्मश्रुतिः
3 उद्धरणानि
- नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः।
तमृते परमात्मानं कः पश्येतामितं प्रभुम्’ - ‘प्रकाशवत् कालवद्वा यथाऽङ्गे शयनादिकम् ।
ब्रह्मणश्चैव मुक्तानामानन्दोऽभिन्न एव तु’ - ‘शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः ।
तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ॥
ते सर्वे देहसम्बद्धाः सर्वदा सर्वदेहिनाम् ।
महर्लोकादिगन्तरा उत्तरायणरश्मिभिः ।
निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः ॥
उत्तरं दक्षिणमिति त एव तु निगद्यते ।
न तु कालविशेषोऽस्ति ज्ञानिनां नियमात् फलम् ॥
ददाति कालेऽनुगुणे फलं किञ्चिद्विशिष्यते ।
अत्युत्तमानां केषाञ्चिन्न विशेषोऽस्ति कालतः’
पद्मपुराणम्
18 उद्धरणानि
- ‘सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुः तस्मान्मोक्षस्ततः स्मृतः’ - ‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’ - ‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।
पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’ - ‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् ।
एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥ - ‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।
अशनायादिकानन्ये तत्प्रसादात् तरन्ति हि॥’ - ‘परस्य वाचकाः शब्दा समाकृष्येतरेष्वपि ।
व्यवह्रियन्ते सततं लोकवेदानुसारतः’ - ‘कृष्णद्द्वैपायनमताद् एकदेशविदः परे ।
वदन्त्येते यथाप्रज्ञं न विरोधः कथञ्चन’ - ‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।
इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः’ - ‘अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः ।
आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’ - ‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।
एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’ - ‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते ।
तयैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’ - ‘अन्यज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च
नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ - ‘अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते ।
ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्’ - ‘ऐश्वर्यात् परमाद्विष्णोर्भक्त्यादीनामनादितः ।
ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’ - ‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग् भवेत् ।
इतरे तु यथायोगं सम्यङ् मुक्तौ भवन्ति हि’ - ‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।
स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’ - ‘अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति ।
किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः’ - ‘यदुपास्ते पुमान् जीवन् यत् प्राप्तुमभिवाञ्छति ।
यच्च पश्यति तृप्तः संस्तत् प्राप्नोति मृतेरनु’
पिप्पलादशाखा
1 उद्धरणानि
- ‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् । यो वेद हरिमात्मानं स भयादनुमुच्यते’॥
पुरुषोत्तमसंहिता
1 उद्धरणानि
- ‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥
प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः’
पैङ्गिश्रुतिः
2 उद्धरणानि
- ‘देवानां पूर्वे युगेऽसतः सदजायतेति । ब्रह्म वा असत् सद् वा प्राणः प्राणं वाव महान् सह ओजो बलमित्याचक्षते’
- ‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’
पैङ्गिश्रुतिः
1 उद्धरणानि
- ‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’
पौत्रायणशाखा
1 उद्धरणानि
- ‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।
द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’
पौष्यायनशाखा
1 उद्धरणानि
- ‘दिवः स्थास्नून् गच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति सम्मितमथासम्मितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा’
बालवल्लिङ्गसंहिता
1 उद्धरणानि
- ‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपसन्नः॥
न कर्मभिर्न धनैर्नैव चान्यैः पश्येत् सुखं तेन तत्त्वं ब्रवीहि’
बृहत्संहिता
1 उद्धरणानि
- ‘न युक्तियोगाद् वाक्यानि निराकार्याण्यपि क्वचित् ।
विरोध एव वाक्यानां युक्तयो न तु युक्तयः’
बृहत्संहिता
9 उद्धरणानि
- ‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।
विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् ।
तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’ - ‘भिन्धि विद्ध्यश्रुणीहीति फलभेदेन सर्वशः ।
यत्यादीनां तेष्वयोगान्नाधिकार्येकता भवेत् ।
अयोग्योपासनादीयुरनर्थं चार्थनाशनम्’ - ‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकामाऽपि सर्वदा ।
उपास्ते नित्यशो विष्णमेवं भक्तो हरेर्भवेत्’ - ‘उपासनाङ्गदेवानां परमाङ्गतया भवेत् ।
उपसंहृतिर्विशेषे तु फलनामन्यथा न तु ॥
पुरुषाणां विशेषाद्वा यथायोगं भविष्यति’ - ‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥
अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।
तुष्ट्यर्थमीश्वरस्यैव न चोपास विदुष्यति’ - ‘सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ - ‘नित्यशः श्रवणं चैव मननं ध्यानमेव च ।
कर्तव्यमेव पुरुषैर्ब्रह्मदर्शनमिच्छुभिः’ - ‘विद्युत्पतिर्वायुरेव नयेद् ब्रह्म न चापरः ।
कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ - ‘गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् ।
इत्यादि पूर्वस्मरणान्मुक्तस्यैतद् भविष्यति’
बृहत्संहिता
1 उद्धरणानि
- ‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् ।
यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥
यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि ।
इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥
श्रवणं मननं चैव निधिध्यासनमेव च ।
परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ॥
एषा सेवेति सम्प्रोक्ता यया तद्दर्शनं भवेत्’
ब्रह्मपुराणम्
12 उद्धरणानि
- ‘सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् ।
सपञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा’ - ‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृतिः ।
कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा’ - ‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता’ - ‘देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः ।
आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत्’ - ‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
तत्रापि नैव सर्वेऽपि तस्मात् कार्योपसंहृतिः’ - ‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् ।
नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’ - ‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।
उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः’ - ‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
अतः पूर्णत्वमीशस्य वानैवैषां प्रदृश्यते ।
अतः फलस्य नानात्वं नानैवोपासनं यतः’ - ‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।
नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥
उपास्यते यथायोगं न वा फलविभेदतः’ - ‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् ।
अतो विद्वानपि न्यायं वर्तेतोत्कर्षसिद्धये’ - आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।
कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत्’ - ‘अग्निर्ज्योतिरिति द्वेधैर्वार्चिषः सम्प्रतिष्ठतिः ।
अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन्’ ॥ इति ।
एकस्मिन्स्तुपुरे संस्थो द्विरूपोऽग्नेः सुतो महान्’
ब्रह्मवैवर्तपुराणम्
4 उद्धरणानि
- अथ तं(तत्) कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।
सोऽसृजद्भुवनं विश्वमद्यार्थं हरये विभुः - ‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।
अव्यक्तादितृणान्तास्तु विप्लु(विपृ)डानन्दभागिनः’ - ‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्र उच्यते ।
खण्डनात् खड्ग एवैष हेतिनामा स्वयं हरिः’ - ‘न तमाराधयित्वाऽपि कश्चिद् व्यक्तीकरिष्यति ।
नित्याव्यक्तो यतो देवः परमात्मा सनातनः॥’
ब्रह्मसंहिता
1 उद्धरणानि
- ‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृता।
इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥
इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् ।
स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम्’
ब्रह्माण्डपुराणम्
14 उद्धरणानि
- ‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान् विष्णुरैश्वर्यात् पुरुषोत्तमः॥’ - ‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’ - ‘ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च ।
परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते’ - ‘व्यवधानेन सूतिस्तु पुंस्त्वम् विद्वद्भिरुच्यते ।
सूतिरव्यवधानेन स्त्रीत्वमाहुर्मनीषिणः ।
उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् ।
प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते’॥ - ‘अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति ।
यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’ - ‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।
रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥
अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।
हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः’ - ‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।
प्रदर्शयति जीवाय स्वप्न इति गीयते ॥ - यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।
अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत्॥’ - ‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः’ - तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।
प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’ - ‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।
आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा च वर्धते’ - ‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् ।
इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’ - ‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।
चलने तु शरीरस्य चञ्चलं तु मनो भवेत्’ - ‘श्रुणुयाद् यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥
दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते।
भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।
आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम्’
ब्राह्मपुराणम्
15 उद्धरणानि
- ‘अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुरेवैकः परेषामुपचारतः’ - ‘केषाञ्चित् सर्वगत्वेन केषाञ्चिद्धृदये हरिः ।
केषाञ्चिद्बहिरेवासावुपास्यः पुरुषोत्तमः’ - ‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’ - ‘अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।
विरुद्धर्मरूपोऽसौ ऐश्वर्यात् पुरुषोत्तमः॥’ - ‘सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् ।
स्वीकृत्य मुनयो ब्रूयुस्तन्मतं न विरुध्यते’ - ‘पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु ।
अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ।
पुनः शरीरसम्प्राप्तौतमेवानुविशन्ति च’ - ‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः’ - ‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् ।
पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥ - देहेन जायते जन्तुरिति सामान्यतो जनिः ।
विशेषवचनं(जननं) चापि प्रोच्यमानं निबोध मे ॥ - स्थास्नुष्वथापि पुरुषे प्रमादायामथापि वा ।
गर्भे वा बहिरेवाथ क्वचित् स्थानान्तरेषु च॥’ - ‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः’ - ‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत्।
कालवद् वा यथा कालः स्वावच्छेदकतां व्रजेत्॥’ - ‘स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदना ।
नाशङ्क्यं तन्मतं क्वापि विष्णोः प्रत्यक्षचोदना ।
इतरेषां न विहिता स्वेच्छावृत्तिः कथञ्चन’ - ‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यते’ - ‘मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु ।
कामानुकूलकामत्वं नान्यत् तेषां विधीयते’
भगवद्गीता
1 उद्धरणानि
- ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’(भ.गी.३.१७)
भविष्यत्पुराणम्
7 उद्धरणानि
- ‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्यतु ।
ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम् ॥
अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः’ - ‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।
नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ - ‘गुणैः सर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।
अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’ - ‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् ।
स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
ज्ञानेनाऽधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥
अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥
यस्माद् व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ।
यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावधिस्तथा ।
प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥
स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ।
अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥
ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।
इति प्राह महायोगी पुमर्थानां विनिर्णयम्’ - ‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् ।
पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ’ - ‘आत्मेत्युपासनम् कार्यं सर्वथैव मुमुक्षुभिः ।
नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’ - ‘देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।
उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ॥
प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।
नियता नैव केनापि नियता हि हरेर्गुणाः’
भागवतम्
5 उद्धरणानि
- ‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’(भाग.११.२१.४३) - ‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत्’ - ‘त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ।
ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते’(भा.३.६.२८) - ‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।
विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥
‘शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन ।
अविभिन्नाऽपि सेच्छादिभेदैरपि विभाव्यते’ - ‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’(भाग.३.२७.४५)
भाल्लवेयश्रुतिः
1 उद्धरणानि
- ‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतीहासैः ।
सपञ्चरात्र्यै सपुराणैश्च देवः सर्वगुणैस्तत्र तत्र प्रतीतैः’
मत्स्यपुराणम्
2 उद्धरणानि
- ‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।
अरूपवानतः प्रोक्तः क्व तदव्यक्ततः परे’ - ‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ।
चिन्तयीति यतिर्नान्यं ज्ञानरूपादृते हरेः’
महाकूर्मपुराणम्
2 उद्धरणानि
- ‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।
सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ - ‘शमूनं कुरुते विष्णुः अदृश्यः सन् परः स्वयम् ।
तस्माच्छून्यमिति प्रोक्तः तोदनात् तुच्छ उच्यते ॥
नैष भावयितं योग्यः केनचित् पुरुषोत्तमः ।
अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥
सर्वस्य तदधीनत्वात् तत्तच्छब्दाभिधेयता ।
अन्येषां व्यवहारार्थम् इष्यते व्यवहर्तृभिः’
महाभारतम्
4 उद्धरणानि
- ‘यथा धारुमयीं योषां नरः स्थिरसमाहितः।
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’ - ‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा ।
कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥
तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।
इति सप्तप्रधानानि बलीयस्तूत्तरोत्तरम् ।
एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’ - ‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।
तद्वर्जितस्त्रिधा याति तिर्यग् वा नरकं तमः’ - ‘अल्पमात्रः कृतो धर्मो भवेद् ज्ञानवतो महान् ।
महानपि कृतो धर्मो ह्यज्ञानां निष्फलो भवेत्’
महासंहिता
1 उद्धरणानि
- ‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि ।
कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥
ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।
एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’
महोपनिषत्
1 उद्धरणानि
- ‘एष ह्येव शून्यः, एष ह्येव तुच्छः, एष ह्येवाभावः, एष ह्येवाव्यक्तः, अदृश्यः, अचिन्त्यः, निर्गुणश्च’
माठरश्रुतिः
2 उद्धरणानि
- ‘कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेत् नापरस्तत्र हेतुः ।
भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत्’ - ‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
न तथा विद्यते भूयान् यं प्राप्यन्येऽपि भूयसः’
वामनपुराणम्
4 उद्धरणानि
- ‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः ।
हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥
एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ॥
अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते॥’ - ‘सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधोऽह्यसौ(प्यसौ) ।
सर्वलोकाभिधोऽह्येषः तेषां तदुपचारतः’ - ‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः ।
स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’ - ‘यावदेव प्रमाणेन सिद्धं तावदहापयन् ।
स्वीकुर्यान्नैव चान्यत्र शङ्क्यं मानमृते क्वचित्’
वायुप्रोक्तम्
3 उद्धरणानि
- ‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।
उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन’ - ‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः ।
तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते॥’ - भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि ।
तेजिष्ठत्वात् तैजसं च यथाऽस्थ्नां वचनं श्रुतौ॥’
वाराहपुराणम्
11 उद्धरणानि
- ‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’ - ‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’ - ‘स्वांशश्चाथो विभिन्नांश इति द्वेधांऽश इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥
‘तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्’ - न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः ।
केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ - ‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः ।
अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः’ - ‘हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत्।
वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन’ - ‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥
यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।
अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः’ - ‘ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य(आनन्दः परमस्य) च ।
प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः’ - ‘तमेव देशं सेवेत तं कालं तामवस्थितिम् ।
तानेव भोगान् सेवेत मनो यत्र प्रसीदति ॥
न हि देशादिभिः कश्चिद् विशेषः समुदीरितः ।
मनः प्रसाधनार्थं हि देशकालादिचिन्तना’ - ‘मत्स्यकूर्मवाराहाद्याः समा विष्णोरभेदतः ।
ब्रह्माद्यास्त्वमाः प्रोक्ताः प्रकृतिश्च समासमा’ - ‘परमोऽधिपतिस्तेषां विष्णुरेव न संशयः ।
ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ॥
ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ।
आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् ।
एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशयः’
वाराहसंहिता
1 उद्धरणानि
- ‘अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’
व्योमसंहिता
1 उद्धरणानि
- विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।
स्वर्णवीर्यो हि भगवाननादिः पुरुषोत्तमः
श्रुतिः
2 उद्धरणानि
- ‘इन्द्रस्यात्मानिहितः पञ्च होता’
- ‘तद् वा एतद्ब्रह्माहुर्बृहति बृंहयति चेति । तद् वा एतदसदाहुः न ह्यासादयति कश्चन । तद् वा एतत् परमाहुः परतो हि तदुदीक्ष्यते’
श्रुतिः
3 उद्धरणानि
- ‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’ - विषयभूते तस्मिन्नेव श्रवाणाध्यभ्यासात् प्रकाशश्च भवति ।
- ‘आत्मा वा अरे द्रष्टव्यः श्रोदव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ.४.४.५)
स्कान्दपुराणम्
22 उद्धरणानि
- ‘‘अजस्य नाभौ’ इति, यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् ।
तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे’’ - ‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मुखः॥’ - ‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’ - ‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम्।
मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥
यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्’॥ - ‘यज्ञो(वै) विष्णुर्देवता’ इति हि श्रुतिः ।
तस्मिन् काले महाराज राम एवाभिधीयते ।
यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते’ - ‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’ - ‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’ - ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।
वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’ - ‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् ।
तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’ - ‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमैवाखिलगुणमक्षरत्रयमीरितम्’॥ - ‘व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् ।
अन्ये व्यवहरन्त्येतान्यूरीकृत्य गृहादिवत्’ ॥ - ‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।
विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ॥’ - ‘सत्यकामोऽअपरो नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत् तत्काम्यकामिता॥’ - ‘सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः’
- ‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णयः’॥ - ‘यावत्सेवा परे तत्वे तावत्सुखविशेषता ।
सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ॥
तेषां सामर्थ्ययोगाच्च देवानामप्युपासनम्।
सर्वं विधीयते नित्यं सर्वयज्ञादिकर्म च’ - ‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः ।
किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः’ - ‘यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते ।
यथा जीवः परात्मेति यथा राजा जयीत्यपि’ - ‘अनुक्तं पञ्चभिर्वैदैर्न वस्त्वस्ति कुतश्चन ।
अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः’ - ‘स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।
स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ॥
एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् ।
सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्’ - ‘असुरा आसुरेणैव स्वभावेन च कर्मणा ।
ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ॥
देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् ।
सम्यज्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ॥
नानयोरन्यथाभावः कदाचित् क्वापि विद्यते ।
मानुषा मिश्रमतयो विमिश्रगतयोऽपि च’ - ‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।
तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद् विहीयते’
स्मृतिः
7 उद्धरणानि
- संस्काराभावेनाभावस्तु सामान्येन ।
- ‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा’
- ‘नाग्निर्न यज्ञः शूद्रस्य तथैवाद्ययनं कुतः ।
केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते’ - वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’
- ‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत ।
अवदस्यूँरधूनुथाः’(ऋ.सं.८.१४.१४) - ‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् ।
अन्यत्र शुभमाकाङ्क्षन् न पतेदविरोधतः’ - ‘आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।
गच्छेच्च हरिपादेन(पादाभ्यां) मुक्तस्यैषा स्थितिर्भवेत्’
हरिवंशः
2 उद्धरणानि
- ‘वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’ - ‘अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।
एतादृशोऽपि नाऽचारं श्रौतं स्मार्तं परित्यजेत्’