Jump to content

Karmanirnaya/Ullekha

From Anandamakaranda
Revision as of 17:16, 28 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
उल्लेखसूची — कर्मनिर्णयः
इस ग्रन्थे उद्धृतानि प्रमाणस्थानानि — 39 स्रोताः
Aitareyaaranyaka
6 उद्धरणानि
  1. ‘प्रचेतन प्रचेतय’(ऐ.आ.४.१.१)
  2. ‘आयाहि पिब मत्स्व’ (ऐ.आ.(बह्वृचब्राह्मणारण्यककाण्डे)४.१.१)
  3. ‘क्रतुश्छन्द ऋतं बृहत्’(ऐ.आ.(बह्वृचब्राह्मणारण्यककाण्डे)४.१.१)
  4. ‘सुम्न आ धेहि नो वसो’(ऐ.आ.(बह्वृचब्राह्मणारण्यककाण्डे)४.१.१)
  5. ‘ता नदेन विहरति’(ऐ.आ.१.३.५)
  6. ‘अथ सूददोहाः प्राणो वै सूददोहाः’(ऐ.आ.१.४.१)
Ashvalayanashroutasutra
2 उद्धरणानि
  1. ‘पादान्व्यवधायार्धर्चशः शंसेत् । पूर्वासां पूर्वाणि पदानि । गायत्र्यः पङ्क्तिभिः। पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात् । उष्णिहो बृहतीभिः । उष्णिहान्तूत्तमान्पादान् द्वौ कुर्यात्। चतुरक्षरमाद्यम् । द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिः । उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याऽऽद्यमुत्तरस्य । अनुष्टुभमतिच्छन्दःस्वव(द)दध्यात् । द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम् । उत्तरास्वितरान् पादान् षष्ठान्कृत्वाऽनुष्टुप्कारं शंसेत् ॥’ (आ.श्रौ.सू.६.३.३-१३)
  2. ‘एवाह्येवा(वैव) अपाः पूर्वेषां हरिवः सुतानाम् (एवै)एवाहीन्द्रम् अथो इदं सवनं केवलं ते । एवा हि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र वशीहि शक्रः सत्रा वृषं जठर आवृषस्वेति’(आ.श्रौ.सू.६.३.१७)
Atharvanopanishat
1 उद्धरणानि
  1. ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
    नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनकरं वाऽऽविशन्ति॥’((मुण्डक)आथ.२.१०)
Bhagavadgeeta
11 उद्धरणानि
  1. ‘श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप’(भ.गी.४.३३)
  2. ‘न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
    जोषयेत् सर्वकर्माणि विद्वान्युक्तस्समाचरन् ॥’(भ.गी.२.२६)
  3. ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
    भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्’(भगी.१२.७)
  4. ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
    क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
    यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
    अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।
    यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
    स सर्वविद्भजति मां सर्वभावेन भारत ।
    इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
    एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत॥’(भ.गी.१५.१६-२०)
  5. ‘श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप’(भ.गी.४.३३)
  6. ‘दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय।’(भ.गी.२.४९)
  7. ‘यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
    स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥’(भ.गी.१८.४६)
  8. ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
    ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥’(भ.गी.१९.२०)
  9. ‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥
    ये मे मतमिदं नित्यमनुतिषष्ठन्ति मानवाः ।
    श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
    ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
    सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥’(भ.गी.३.३०-३२)
  10. ‘परं भावमजानन्तो मम भूतमहेश्वरम् ॥
    मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।’(भ.गी.९.११-१२)
  11. ‘सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
    इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
    मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥’(भ.गी.१८.६४-६५)
Bhagavata
4 उद्धरणानि
  1. ‘कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्’(भाग.३.३२.१३)
  2. ‘प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथस्सुमध्यमे ।
    प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥’(भाग.४.३.२२)
  3. ‘नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ।
    कुतः पुनः शश्वदभद्रमीश्वरे विनार्पितं कर्म यदप्यकारणम्॥’(भाग.१२.१२.५२)
  4. ‘तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।
    क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः॥’(भाग.२.४.१७)
Brahmasutra
2 उद्धरणानि
  1. ‘ओं स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’(ब्र.सू.४.४.१६)
  2. ‘ओं भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति’(ब्र.सू.३.१.७)
Brahmatarka
1 उद्धरणानि
  1. ‘रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत् ।
    तत्रापि यौगिको मुख्यः सर्वत्रास्ति स वैदिके ।
    अनवस्थानिवृत्त्यर्थं यौगिके रूढकल्पना ।
    ज्ञाते विशेषविज्ञानं व्यवहारोऽपि रूढितः॥’
Bruhadaranyakopanishat
3 उद्धरणानि
  1. ‘विज्ञानमानन्दं ब्रह्म’(बृह. ३,९.३५)
  2. ‘वाचं धेनुमुपासीत। तस्याश्चत्वारः स्तनासः स्वाहाकारो वषट्कारो हन्तकारसः स्वधाकार(स्तस्यै) इति । तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः। तस्याः प्राण ऋषभो मनो वत्सः’(बृ.उ.७.१०)
  3. ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।
    तिष्ठमानस्य तद्विदः’(बृ.उ.५.९.७(३.९.२८))
Chandogyopanishat
2 उद्धरणानि
  1. ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः।’(छां.उ.३.१४.२,४)
  2. ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छां.उ.१.१.८(१०))
Karmaviveka
1 उद्धरणानि
  1. ‘अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक् ।
    तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते’
Kathopanishat
1 उद्धरणानि
  1. ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’(कठ.उ.१.२.२३)
Mahabharata
1 उद्धरणानि
  1. ‘न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥’(म.भा.५.३५.३३)
Mahanarayanopanishat
1 उद्धरणानि
  1. ‘त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुष्पितासत्(यस्तद्वेद सवितुः पिता सत् )’(महानारायणोपनिषत्.१.१५)
Manyasamhita
1 उद्धरणानि
  1. ‘ओतमस्मिन् जगद्यस्मादोमित्युक्तो हरिसः सदा ।
    तमेव जगदाधारं यतयः समुपासते॥’
Manyasamhitayam
1 उद्धरणानि
  1. ‘जीवदेहं परित्यज्य सह जीवेन चेश्वरः ।
    जीवस्यान्यच्छरीरं च समुत्पाद्य विशत्यजः’
Mundakopanishat
2 उद्धरणानि
  1. ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते॥’(मुण्डक.उ.१.१.९)
  2. ‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः॥’(मुण्डक.उ.३.२(२.१.२))
Padmapurana
1 उद्धरणानि
  1. ‘समीपे दूरतोऽभिज्ञं(दूरतो ज्ञं) त्वामुद्दिश्यैव मद्गतम् ।
    एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप ॥
    इति ब्रह्माऽस्तुवद्विष्णुं तन्नाभ्युत्थितपद्मगः’
Prakashasamhita
1 उद्धरणानि
  1. ‘विशेषेणाधिकत्वेन व्यतयो देवतास्स्मृताः ।
    नित्ययोगरताश्चैव नारायणपरायणाः ।
    ता एव चेन्द्रियात्मानस्तान्विस्तारयतीश्वरः ।
    मन आदीन्द्रियाणां तु शक्तिविस्तार एव तु(हि) ।
    विस्तारो देवतानां स्याद् भक्तेषु हरिणा कृतः’
Praman
1 उद्धरणानि
  1. ‘ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम् ।
    न ज्ञानसदृशं किञ्चित् पुरुषार्थप्रसिद्धये॥’
Pramana
10 उद्धरणानि
  1. ‘त्रिलोकगेन हरिणा निर्मितः षोळशीक्रतुः ।
    एवं ज्ञात्वा हरिं तं च कर्म कुर्वन्न जायते’
  2. ‘यज्ञो वै देवजन्म तत्र हि देवाः प्रादुर्भवन्त्या सूर्याचन्द्रमसावा विद्युतं ते वै लोकानधिश्रिताः’
  3. ‘द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति सैषा ब्रह्मलोके विराजते’
  4. ‘नदीसमुद्रघोषाश्च नादत्वाच्छ्रैष्ठ्यवाचकाः।
    नादो हि श्रैष्ठ्यवाची स्यादेवं घोषाः परेपि च’
  5. ‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’
  6. ‘ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः ।
    स्वपुत्रं पूरयामास महिषं महतां महान्’
  7. ‘विलोमः शत्रुज (क्ष)यकृत्संसर्गः पापनाशनः ।
    यथास्थितः श्रीकरः स्यात्स्वाध्यायः शंसनेऽपि च’
  8. ‘ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम् ।
    पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः ।
    तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि ।
    ध्यायन्कर्माणि कृत्वापि मुच्यते सर्वपातकैः॥’
  9. ‘मुख्यार्थानां च सर्वेषां तारतम्यं (च) तु विद्यते ।
    तत्राऽपि परमो मुख्यो वाच्योऽशेषरवैर्हरिः ।
    (तत्र मुख्यविरोधेन)तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः ।
    स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपि ।
    इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु’
  10. ‘एकविंशति दिव्यानि स्थानानि दिवि चक्रिणः ।
    वज्रिणो वाऽपि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः॥’
Purushottanasamhita
1 उद्धरणानि
  1. ‘विशुद्धविज्ञानमरीचिमालया (वि)सचित्ररत्नप्रकरप्रकाशया ।
    प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदा ह्लादतनुर्विभूषितः॥’
Rigveda
12 उद्धरणानि
  1. ‘एतावानस्य महिमाऽतो ज्यायांश्च पुरुषः।’(ऋ.सं.१०.९०.३)
  2. ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा।’(ऋ.सं.१०.८२.३)
  3. ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि।’(ऋ.सं.१.१५४.१)
  4. ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति।’(ऋ.सं.७.९९.१)
  5. ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप।’(ऋ.सं.७.९९.२)
  6. ‘तेभिरिन्द्रं चोदय दातवे मघम्’(ऋ.सं.९.७५.५)
  7. ‘इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः’(ऋ.सं.४.५८.४)
  8. ‘प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः ।
    द्वितीयाया आन्तरिक्ष्यस्तृतीयाया द्युगः प्रभुः’
  9. ‘(त्र्युचा)तृचास्तिस्त्रो महानाम्न्यः पञ्चर्चा प्रथमा परा ।
    (त्र्युचा)तृचा द्व्यृचा च निगदैस्तार्तीया सप्तभिर्युता ।
    इति द्वेधा(त्रेधा) विभागः स्याज्जपध्यानादिकर्मसु’
  10. ‘अधा ते विष्णो विदुषा चिदर्ध्यस्तोमो यज्ञश्च राध्यो हविष्मता’(ऋ.सं.१.१५६.१)
  11. ‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्’(ऋ.सं.१.१५५.६)
  12. ‘न वर्तवे प्रसवः सर्गतक्तः’(ऋ.सं.३.३३.४)
Samaveda
1 उद्धरणानि
  1. ‘दाता राधस्तुवते काम्यं वसु 'प्रचेतय'’(सामवेद.३.६)
Shabdanirnaya
4 उद्धरणानि
  1. ‘अन्तर्गतं बहिर्गञ्च(र्गतञ्च) द्विधा स्यादुपसर्जनम् ।
    हस्तवद्धेतिवच्चैव पदानां चोपसर्गवत्’
  2. ‘अल्पाक्षरेण शक्येऽपि वक्तुं बह्वक्षरं यदि ।
    उक्तस्याऽधिक्यमेवात्र निषेधेऽशेषतो भवेत्॥’
  3. ‘किञ्चित्वे चोभयत्वे च संशये सदृशे तथा । इवशब्दः प्रयुज्येत न्यक्कारेऽपि च पण्डितैः॥’
  4. ‘शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा ।
    अपराधश्च शमलं मलं च शमलं विदुः॥’
Shabdatattve
1 उद्धरणानि
  1. ‘दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः ।
    भीषकत्वं हरेर्ब्रूयादन्तर्नादो हि भीषणे ।
    गजबृंहितमप्येवं धिक्कारसहितं वदेत् ।
    स्वरितेन समायोगाद् धिक्कृतौ स्वरितो यतः ।
    महामत्रं(मन्त्रं) जलाद्यैश्च युक्तमेतादृशं वदेत् ।
    पादभूषा च धिक्कारं तत्कृतं स्वरितं(तो) वदेत् ।
    अद्भुतत्वं हरेर्वक्ति पिङ्गाकण्ठगशब्दवत् ।
    तामेवाद्भुततां वक्ति गृहगोधा पराऽपि च’
Shvetashvataropanishat
1 उद्धरणानि
  1. ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ.६.११)
Skandapurana
1 उद्धरणानि
  1. ‘समीपे दूरतश्चैव ध्यायन्तं त्वा सदा (प्र)विभो ।
    मामेहि ज्ञानदानायेत्याह गाधिसुतो हरिम्॥’
Soukarayanashruti
1 उद्धरणानि
  1. ‘वानात्सूतेर्देवनाद्वासुदेवो वासाद्‍द्युतेश्छादनात्क्रीडया वा ।
    बलादसुत्वाद् दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः॥’
Svadhyayatattva
1 उद्धरणानि
  1. ‘गतश्रियः श्रियो हानिं पापहानिं परस्य च ।
    संसर्गश्छन्दसां कुर्याच्छ्रियो वृद्धिं यथास्थितः’
Svadhyayatattve
1 उद्धरणानि
  1. ‘पापानां व्यतिषिक्तत्वाद्व्यतिषक्तं विनाशकम् ।
    धनस्याव्यतिषङ्गेण व्यतिषङ्गोविनाशकः ।
    सदृशं सदृशस्यैव यतः स्यात्प्रविनाशकम् ।
    तथाप्यप्राप्तनाशस्य धनस्य बलवत्त्वतः ।
    शक्नुयान्न विनाशाय पापस्येच्छासमेधितम् ।
    संसृष्टं स्याद्विनाशाय नहीच्छा धनसङ्क्षये॥’
Taittiriyaaranyaka
1 उद्धरणानि
  1. ‘स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान् न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत यस्ता विजानात् (सवितुः पिता सत्)स पितुष्पितासत्।’(तैत्तिरीयारण्यकम्.१.११)
Taittiriyaranyaka
1 उद्धरणानि
  1. ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै.आ.३.१३)
Taittiriyopanishat
2 उद्धरणानि
  1. ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१,ब्रह्मवल्लि.२)
  2. ‘स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम्’(तै.उ.१.९(शिक्षावल्लि.९))
Vaihayasasaamhita
1 उद्धरणानि
  1. ‘भूतादिभूतोम्बुनिधानमध्ये भूत्वा हरिः सर्वहरोऽतिधाम्ना । अगाधमम्भो विदधाति भस्म यो वाडवाग्निर्नृहरिर्विचिन्त्यः॥’
Varahapurana
1 उद्धरणानि
  1. ‘कुहकञ्चेन्द्रजालं च विरुद्धाचरणानि च ।
    दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर॥’
Vyasasamhita
1 उद्धरणानि
  1. ‘संश्लेषादोदनं कर्म पच्यमानं गिरैव हि । अभिनद्भगवान् व्यासः स्वभक्तानामशेषतः’
Vyasasmruti
1 उद्धरणानि
  1. ‘सदेहमानिहरये प्रणमेत्केवलाय वा ।
    न देहाय न तन्मानपराय च कथञ्चन ॥’ इति व्यासस्मृतौ
पद्मपुराणम्
1 उद्धरणानि
  1. ‘देहदेहिविभागश्च न क्वचित्परमेश्वरे । गुणतद्वद्विभागो वा नेह नानेति हि श्रुतिः॥’
श्रुतिः
10 उद्धरणानि
  1. ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥’
  2. ‘तं वा एतं मघ(ख)वन्तं सन्तं मघवानित्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’
  3. ‘तन्न आयातु मघाय । यशो वा मघम् । मघमनु प्रापत्सि’, ‘आ मामेतु मघम् । मघमनुप्रापत्सि । धनं वाव मघम्’
  4. ‘प्रजा वै वाजः’
  5. ‘इन्द्रो वा एताभिर्महानात्मानं निरमिमीत’
  6. ‘यस्तद्वेद स पितुष्पितासत्’
  7. ‘वायुर्वाव गवां पतिः’
  8. ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव(प्राण ऋच इत्येव विद्यात्)’
  9. ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
    ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः’॥
  10. ‘एष उ एव दाश्वान् य (एनमेवं)एवं वेद’