Jump to content

Bhagavadgitatatparya/Ullekha

From Anandamakaranda
Revision as of 17:29, 28 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
उल्लेखसूची — श्रीमद्भगवद्गीताप्रस्थानम्
इस ग्रन्थे उद्धृतानि प्रमाणस्थानानि — 34 स्रोताः
Atharvana
1 उद्धरणानि
  1. 'इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
    नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति
Barkshruthi
2 उद्धरणानि
  1. कर्मणा बध्यते जन्तुरित्यादिकमप्यवैष्णवकर्मविषयमित्याह - यज्ञार्थादिति ।
    'ज्ञो नाम भगवान्विष्णुस्तं यात्युद्देश एष यः ।
    स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः
  2. 'रक्षया वाथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित् ।
    अर्थो विष्णोस्तथाप्येष स्वभावात्सर्वकर्मकृत् ।
    मत्तो नृत्तादिकं यद्वत्कुर्यात्सुखविशेषतः ।
    परमानन्दरूपत्वात् कुर्याद्विष्णुस्तथैव तु
Bhagavathe
9 उद्धरणानि
  1. 'न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः ।
    न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिताः ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
    सर्वे चतुर्बाहव उन्मिषन्मणि - प्रवेकनिष्काभरणाः सुवर्चसः ॥ प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
    भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः
  2. देही कुतोवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेनावस्थितः अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।
    'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
    यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया
  3. 'वेदवादरतो न स्यान्न पाषण्डी न हैतुकी
  4. 'शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः
  5. 'यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा ।
    ज्ञानं वापि समत्वं तद्विषमत्वमतोन्यथा
  6. 'मुक्तानामपि सिद्धानां नारायणपरायणः ।
    सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते
  7. न च जीवस्य क्षेत्रज्ञनाम- 'क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।
    आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः
  8. 'स्वप्नं भयम् इत्यादि सर्वनिषिद्धोपलक्षणम् ।
    'तत्तत् सात्त्विकमेव स्याद् यद्यद् वृद्धाः प्रचक्षते ।
    निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम्
  9. 'क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः ।
    >तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते ।
    अधिकाश्चेद् गुणाः शूद्रे ब्राह्मणादिः स उच्यते ।
    ब्राह्मणोप्यल्पगुणकः शूद्र एवेति कीर्तितः ।
    नरोपि यो देवगुणो ज्ञेयो देवो नृतां गतः ॥ इति च ।नरोपि यो देवगुणो ज्ञेयो देवो नृतां गतः ॥ इति च ।
    'स्वकर्मणा तमभ्यर्च्य इति वचनाच्च क्षत्रियादिष्वपि शमाद्यनुवृत्ति-र्ज्ञायते । न हि शमादिकं विना तस्याभितोर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । न च शमादीन् विना सिदि्धं विन्दति । 'यज्ञदानतपः कर्म न त्याज्यम् इत्युक्तत्वाच्च । 'शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः इति हि भागवते । न च क्षत्रियादिभिरपि शौचतपःक्षमा(शमा)दिभिर्हीनैर्भाव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वैर्गुणैर्जनकतुलाधारादयः । अतो युद्धेपलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ । तौ, च कृष्यादयः, जीवनार्थं शुश्रूषा, याजनं, जीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः ।
    'शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेधिकाः ।
Dattatreya
1 उद्धरणानि
  1. 'तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते ।
    अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ज्ञानमप्यतः ।
    तत्रापि मय्यभक्तस्य नान्यद्ध्यानं प्रयोजकम् ।
    अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ।
    अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः ।
    मद्भक्तोपि हि कार्यार्थं यो ध्यायेदन्यदेवताः ।
    परिवारतामृते तस्मात् केवलं मदुपासकः ।
    वरोन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः
Krishnasamhitha
1 उद्धरणानि
  1. 'ममैव केवलं नास्ति केनाप्यर्थस्तथाप्यहम् ।
    कर्मकृल्लोकरक्षायै तस्मात् कुर्वीत मत्परः
Mahavaraha
5 उद्धरणानि
  1. यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।
    'अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
    नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।
    तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि
  2. 'एकमेवाद्वितीयं 'नेह नानास्ति किञ्चिन
    'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति
    'यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
    एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति

    'मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि ।
    तथैवावयवानां च भेदं पश्यति यः क्वचित् ।
    भेदाभेदौ च यः पश्येत्स याति तम एव तु ।
    पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः ।
    अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत् ।
    विशेषिणां विशेषस्य तथा भेदविशेषयोः ।
    विशेषस्तु स एवायं नानवस्था ततः क्वचित् ।
    प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः ।
    न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन ।
    मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।
    राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः ।
    दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।
    शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः ।
    नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।
    ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा ।
    सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।
    सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः ।
    इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः ।
    तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु ।
    नरार्जुनादिषु तथा पुनरावेश उच्यते ।
    स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।
    एतज्जानाति यस्तस्मिन्प्रीतिरभ्यधिका हरेः ।
    सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम्
  3. 'स्वातन्त्र्याद्भगवान्विष्णुः स्वभाव इति कीर्तितः ।
    तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ।
    स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोपि न ।
    अज्ञानावृतबुदि्धत्वादीदृशं तं न जानते
  4. 'कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।
    संहारात् सर्ववित्त्वाद् वा सर्वविद्रावणेन वा
  5. 'सर्वपापक्षयाद् देहं त्यक्त्वा देवान् क्रमाद् व्रजन् ।
    प्राप्य लक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा ।
    भक्तिस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते ।
    अपरोक्षदृशो विष्णोः शरीरेपि सतः पुरा ।
    त्यक्तदेहादिकस्यापि यावद् विष्णुं प्रपद्यते ।
    तावद् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम्
Mahavishnu
4 उद्धरणानि
  1. जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह । न जायते म्रियत इति । अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति प्रसिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपानाशः कैमुत्येनैव सिद्धः । अयं जीवोप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।
    'अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
    उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
    स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन ।
    वदन्ति शाश्वतावेतावत एव महाजनाः
  2. अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह - अच्छेद्योयमिति । नित्यं सर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुः । सर्वगतो विष्णुस्तदधीनत्वादिकं तत्स्थत्वम् । हेतुतोपि तत्स्थत्वान्न चलतीत्यचलः । नादेन शब्देन सह वर्तत इति सनादन एव सनातनः ।
    'नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।
    न चास्य तदधीनत्वं हेतुतोपि विचाल्यते ।
    निषेधविधिपात्रत्वात्सनातन इति स्मृऽतः
  3. एतेभ्यः सत्त्वादिगुणेभ्योन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना ? यस्मात् 'मद्भावं सोधिगच्छति
    'महालक्ष्मीरिति परा भार्या नारायणस्य या ।
    प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ।
    तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः ।
    सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्र(भा)दा ।
    रजो रञ्जनकर्तृत्वाद् भूः सा सृष्टिकरी यतः ।
    यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ।
    जीवानां ग्लपनाद् दुर्गा तम इत्येव कीर्तिता ।
    एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ।
    सर्वान् बध्नन्ति सर्वाश्च तथापि तु विशेषतः ।
    श्रीर्देवबन्धिका नॄणां भूर्दैत्यानामथापरा ।
    एताभ्योन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते ।
    सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ।
    इति यावद् विजानाति तावत् तं नृपशुं विदुः ।
    तस्मादाभ्योधिकगुणो विष्णुर्ज्ञेयः सदैव च
  4. अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनम् । 'मामेकं शरणं व्रज इत्यपि 'मन्मना इत्याद्युक्तनिगमनात्मना तद्व्याख्यानम् ।
    'सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा ।
    सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ।
    अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः ।
    रक्षतीत्येव विश्वासस्तदीयोहमिति स्मृऽतिः ।
    शरणागतिरेषा स्याद् विष्णौ मोक्षफलप्रदा
Mahavishnupurana
1 उद्धरणानि
  1. 'मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृऽताः ।
    विप्रादिवर्णभेदेन चत्वारो बहवोपि ते ।
    दीनत्वाद् देवनामानस्त्वन्ये ब्रह्मादिनामकाः ।
    अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ।
    वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः ।
    मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृऽताः ।
    तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः ।
    तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता
Narayanashruthi
3 उद्धरणानि
  1. आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । 'देवस्यैष स्वभावोयम् इत्यादिश्रुतेश्च । अत एव स्वशब्देन विशेषणं 'प्रकृतिं स्वामवष्टभ्य इत्यादिषु । 'मयाध्यक्षेण प्रकृतिः इत्यादिषु तु न स्वशब्दः । 'प्रकृतिं विदि्ध मे पराम् इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति ।
    'स्रष्टृत्वादिस्वभावत्वात्स्वेच्छया विष्णुरव्ययः ।
    सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्
  2. 'हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् ।
    अव्यक्तादि शरीरं तत् तत्क्षेत्रं क्षीयतेत्र यत् ।
    इच्छा द्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः ।
    तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः ।
    विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः ।
    मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता ।
    चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः ।
    निषिद्धेच्छा च यत्र स्युर्नित्या सा मुक्तिरासुरी ।
    चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग्दृगात्मकः ।
    सुखमिच्छानुकूला च धृतिर्दैवी तु सा मता
  3. सौम्यत्वात् सोमनामासौ सोममण्डलगः सदा ।
    स एवाग्निस्थितो विष्णुः नाम्ना वैश्वानरः सदा ।
    सर्वेषां स नराणां यदुपजीव्यः सदैव च ।
    स एव व्यासरूपेण वेदान्तकृदुदाहृतः ।
    ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः ।
    श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः ।
    चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः ।
    कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् ।
    'क्षराक्षरात्मनोर्यस्मादुत्तमः स सदानयोः ।
    पुरुषोत्तमनाम्नातः प्रसिद्धो लोकवेदयोः
Painishruthi
1 उद्धरणानि
  1. सर्वगतश्चेत्परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति - अव्यक्तोयमिति । कथमेतद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवं भूतानीति दर्शयितुमेनमयमित्यादिपृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतत् श्रुतिसिद्धम् ।
    'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
    ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः
Paramashruthi
3 उद्धरणानि
  1. 'देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
    सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः
  2. 'ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा ।
    आनन्दवृदि्धरन्येन ह्रासो ज्ञानं तु कर्मणा
  3. 'अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः ।
    शपेदुपासिताप्येषा श्रीस्तांस्तद्धरितत्त्ववित् ।
    तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यदा ।
    तेन तुष्टा तु साच्छिद्रं दद्याद् विष्णोरुपासनम् ।
    ततस्तद्दर्शनान्मुक्तिं यात्यसौ नात्र संशयः ।
    तथापि सर्वपरमां सर्वदोषविवर्जिताम् ।
    ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् ।
    विज्ञायोपासते नित्यं ते हि युक्ततमा मताः ।
    यतः क्लेशोधिकस्तेषां पृथक् श्रियमुपासताम् ।
    विष्णुना सहिता ध्याता सापि तुष्टिं परां व्रजेत् ।
    अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् ।
    अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद् भवेत् ।
    तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम्
Paramayoga
1 उद्धरणानि
  1. 'मोक्षोपायस्य जिज्ञासुरपि केवलपाठकात् ।
    विशिष्टः किमु तद्विद्वान् किं पुनर्यस्तदास्थितः
Prakashasamhitha
1 उद्धरणानि
  1. 'स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः ।
    उत्तमास्तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः ।
    अधमा असुराद्याश्च नैषामस्त्यन्यथाभवः ।
    शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ।
    उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः ।
    अपरेन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ।
    पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृऽता ।
    नैव पूर्तिश्च सर्वेषां नित्यकालहरीच्छया ।
    अतोनुवर्तते नित्यं संसारोयमनादिमान् ।
    अतोधमानां जीवानां मिथ्याज्ञानादयोखिलाः ।
    स्वाभाविका गुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः ।
    तत्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।
    कार्यते ह्यवशः कर्म सर्वैस्तैः प्राकृतैर्गुणैः ।
    स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना ।
    कर्मसु क्रियमाणेषु कर्ताहमिति मूढधीः ।
    मन्यते तत्वविद्विष्णोर्गुणा इच्छादयस्तु ये ।
    स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु ।
    प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ।
    इति मत्वा न सक्तः स्यात्प्रीतोस्य भवति प्रभुः ।
    स्वभावगुणसम्मूढा ज्ञानादिगुणवत्तरम् ।
    स्वातन्त्र्येणैव कर्तारं चात्मानं प्रतिजानते ।
    तान्गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः ।
    तेष्वयोग्येषु तत्वज्ञस्तत्त्वं नातिप्रकाशयेत् ।
    वदेद्विवादरूपेण नोपदेशात्मना क्वचित् ।
    सभ्यरूपेण वा ब्रूयात्पृष्टेव्यक्तिकृदेव वा ।
    बुद्ध्वाप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।
    स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति
Sattatva
1 उद्धरणानि
  1. 'सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः ।
    विष्णोः परमभक्तस्तु तस्मात् जीवघनो मतः
Sbhbdanirnaya
1 उद्धरणानि
  1. अतपस्कायैव न वाच्यम् । अशुश्रूषवे पुनश्चेति दोषाधिक्यमशुश्रूषोर्दर्शयितुं चशब्दः । एवमभक्ताय कदापि न वाच्यम् । कदाचिदल्पतपसोल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति विशेषः । अभक्ताच्च न वाच्यमसूयोरिति तत्रापि चशब्दः ।
    'समुच्चये तथाधिक्ये न्यूनत्वे चः प्रयुज्यते
Shabdanirnaya
20 उद्धरणानि
  1. न च युद्धात्परलोकदुःखमिति शोकः । असत्कर्मणः सकाशात् भावो नास्ति सत्कर्मणः सकाशात् अभावो नास्तीति नियतत्वात् ।
    'सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः ।
    अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः
  2. तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हसि ।
    'नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च । इति
  3. सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेनेनेति योगस्तदुपायः ।
    'सम्यक्तत्वदृशिः साङ्ख्यं योगस्तत्साधनं स्मृऽतम्
  4. 'रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता ।
    प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च
  5. 'नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
    तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।
    तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ।
    कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ।
    यस्मात्स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् ।
    तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु ।
    जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।
    पुमान्दोग्धा च गौर्दोग्ध्री स्तनो दोग्धेतिवत्क्रमात् ॥ इति ब्रह्मतर्कवचनादीश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।
    'क्वचित् स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका ।
    क्वचित् प्रकृष्टकर्तृत्वाद् भगवान्प्रकृतिर्हरिः
  6. 'बहुवाचिनां तुशब्दानां लिङ्गप्रकरणादिभिः ।
    प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोर्थेषु गम्यते
  7. 'अध्यक्षोधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि
  8. 'सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः ।
    यतोतोसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम्
  9. 'बुदि्धर्बोधनिधित्वात् तदन्तःकरणमुच्यते
  10. 'हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः
  11. 'सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित् सत्त्वं जनार्दनः ।
    सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते
  12. तेनेति प्रस्तुतत्वादेव सिद्धम् । 'अहं सर्वस्य प्रभवः 'स हि कर्ता 'कर्तारमीशं पुरुषं ब्रह्मयोनिम् 'जन्माद्यस्य यतः 'मत्त एवेति तान् विदि्ध इत्यादिसकलप्रमाणविरोधश्चान्यथा । 'प्रकृत्यैव च इति चशब्दाच्चैतेनैवेति सिद्ध्यति ।
    'प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् ।
    क्वचित् समुच्चयं ब्रूयात् क्वचिद् दौर्लभ्यवाचकः
  13. 'योनिर्भार्या तथा स्थानं योनिः कारणमेव च
  14. 'रजसस्तु फलं दुःखम् इत्यत्र दुःखमिति दुःखमिश्रं सुखम्- 'दुखं दुरिति सम्प्रोक्तं खं नाम सुखमुच्यते
  15. 'लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति ।
    स्वयम्प्रकाशी मोहोज्झस्तथापि पुनरिच्छति ।
    विष्णौ प्रकाशं तं चैव नित्यभक्त्याभिसेवते ।
    सुखदुःखादिभावेपि विष्णुभक्तौ समः सदा ।
    अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ।
    न विष्णुभक्तिह्रासोस्य किन्तु साम्यमथोन्नतिः ।
    अवैष्णवारम्भवर्जी विष्णुं याति न संशयः ॥ इति च ॥२२ ॥ उदासीनवदित्युक्तेश्च न केवलोदासीनत्वम् । नेङ्गते इत्युदासीनप्रवृत्ति-निषेधः । सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयापि न अवैष्णवारम्भः इति । 'इङ्गनं क्षणिकं कर्म दीर्घमारम्भ उच्यते
  16. अशास्त्रविहितं घोरं तप्यन्ते ये तपोधनाः (तपो जनाः) ।
    डम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ।
    अकृशानपि लक्ष्म्यादीन् देवान् विष्णुपरायणान् ।
    विष्णुं च सर्वदेहस्थान् कृशत्वेन विजानते ।
    तेषामल्पगुणत्वेन कल्पनात् ते तमो ध्रुवम् ।
    यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः ॥ अन्नैश्चैवाथ यज्ञाद्यैः प्रायो ज्ञेया इमे नराः ।
    सात्त्विका सात्त्विकान् कुर्युर्यस्मादन्ये तथेतरान् ॥ ओन्तत्सदिति यद् विष्णोर्नामत्रयमुदाहृतम् ।
    प्रसिद्धं वैदिकं तस्मात् कर्म सद्विषयं हि सत् ।
    तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते ।
    विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् ।
    विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः ।
    ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति ।
    तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः ।
    अनोङ्कृतं ह्यासुरं स्याद् यत् तस्मादोङ्कृतं त्वपि ।
    ओङ्कारार्थहरेः सम्यगज्ञानादासुरं भवेत् ।
    फलं त्वनभिसन्धाय तद् ब्रह्म स्यान्ममास्पदम् ।
    इति यत् क्रियते कर्म तन्नामातो जनार्दनः ।
    अभिसन्धितं हि तत् प्रोक्तं ततं वा स्वगुणैः सदा ॥ इत्यादि च ।
    'मयः(मयं) प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च
  17. स्थिराः स्थिरगुणाः घृतादयः । कवादीनामप्यारोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव । रस्यादीनामपि राजसत्वमनारोग्यादिहेतुत्वे ।'दुःखशोकामयप्रदाः इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोपि शुच्यन्नात् ।
    'हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम् ।
    सुखदं दीर्घसुखदं रस्यमभ्यास सौख्यदम्
  18. पूर्वं स्वादु पश्चादन्यथाजातं गतरसम्'शुद्धभागवतानां तु स्वभावापेक्षयैव तु ।
    स्वादुत्वादि विजानीयात् पदार्थानां न चान्यथा
  19. मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवलमानसम् । कायक्लेशस्य पृथगुक्तेः ।
    'दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते ।
    'दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते ।
    विशेषस्य विवक्षायामन्यथा सर्वमेव तु
  20. तदेवाह ईश्वरः सर्वभूतानामिति ।
    'निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः ।
    उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते
Shanthirmukti
1 उद्धरणानि
  1. 'अन्तवत्तु फलं तेषाम् इत्यादिनान्यदेवोपासनायाः पूर्वमेव निन्दितत्वात् लक्ष्म्यास्त्वतिसामीप्याद् विशेषमाशङ्क्य तदुपासनाविषय एव प्रश्नः कृतः ।
    'वैष्णवान्येव कर्माणि यः करोति सदा नरः ।
    जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च ।
    स तत्कर्मेति विज्ञेयो योन्यदेवादिपूजनम् ।
    कृत्वा हरावर्पयति स तु तद्योगमात्रवान् ।
    तत्र पूर्वोविशिष्टः स्यादादिमध्यान्ततः स्मृऽतेः ।
    अवान्तरे च नियमाद् विष्णोस्तद्दासतास्य यत् ।
    मनसा वर्ततेन्योपि यथाशक्ति हरिस्मृऽतेः ।
    पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति ।
    असम्यग्ज्ञानिनो ध्यानाज्ज्ञानमेव विशिष्यते ।
    ज्ञात्वा ध्यानं ततस्तस्मात् तत् फलेच्छाविवर्जितम् ।
    तस्माज्ज्ञानाद् भवेन्मुक्तिस्त्यागाद्ध्यानयुतात् स्फुटम्
    इति च ।
Tatvaviveka
2 उद्धरणानि
  1. परमाक्षरं विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव (परिहार इति) परिहरति । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्" इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देन 'अव्यक्तोक्षर इत्युक्तः इति परिह्रियते । 'ये चाप्यक्षरमव्यक्तम् इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् 'कूटस्थोक्षर उच्यते इत्युक्ताक्षरादपि चोत्तमः इति विष्णोरुत्तमत्वकथनाच्चान्यदेवेत्यवसीयते । 'अधियज्ञोहमेव इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थित-रूपान्तरापेक्षया सहितत्वं युज्यते ।
    'प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः ।
    स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ।
    तैस्तैरधिकयाज्यत्वाद् बृंहितत्वाच्च हेतुतः ।
    अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः ।
    पुंसां सजडभावानां सर्गः कर्म हरेः स्मृऽतम् ।
    भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।
    अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा ।
    पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः
  2. 'नियमाज्जन्मनोभावो मुक्तस्यैव तथापि तु ।
    महर्लोकमतीतानां न जन्मांशलयौ विना ।
    तत्राप्यवश्यं तत् स्थानं तैः क्षिप्रं पुनराप्यते
Vakshaya
1 उद्धरणानि
  1. 'सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
    प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥
Vakshya
1 उद्धरणानि
  1. वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिदि्धं प्राप्तो भूत्वा ब्रह्मा-ख्यायाः महालक्ष्म्याः सकाशं यथाप्नोति तथा निबोध । 'मम योनिर्महद् ब्रह्म 'ब्रह्मणो हि प्रतिष्ठाहम् इत्युक्तत्वात् । 'ब्रह्मभूतः प्रसन्नात्मा इत्युक्त्वा 'मद्भक्तिं लभते पराम्
Vakshyamana
1 उद्धरणानि
  1. 'क्षेत्रक्षेत्रज्ञसंयोगात् इत्यत्र क्षेत्रं श्रीः'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्
Vyasasmruthi
2 उद्धरणानि
  1. तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।
    'निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
    निवृत्तं सेवामानस्तु ब्रह्माभ्येति सनातनम् ।
    बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् ।
    वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ।
    मुक्तिरस्तीति नियमो ब्रह्मदृग्यस्य विद्यते ।
    तस्याप्यानन्दवृदि्धः स्याद्वैष्णवं कर्म कुर्वतः ।
    कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् ।
    तस्मात्कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना ।
    एतस्मान्न्यासिनां लोकं संयान्ति गृहिणोपि हि ।
    ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।
    तस्मादाश्रमभेदोयं कर्मसङ्कोचसम्भवः
  2. 'प्रसह्य वित्ताहरणं शारीरो दण्ड एव च ।
    अशिष्याणां शासनं च तथैवार्थविनाशनम् ।
    एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः ।
    सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा ।
    अङ्गाद्यहानिकृद् दण्डः शिष्येषु ब्राह्मणादिभिः ।
    कार्यो देहेपि शिष्यश्च स्वामिना स्वेन वार्पितः ।
    पुत्रानुजादयः सर्वे शिष्या एव निसर्गतः ।
    गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः ।
    सम्बन्धिनश्च सर्वेपि तत्तद्योग्यतयाखिलैः ।
    शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ।
    उन्मादे बन्धानाद्यैर्वा ताडनं न गुरोः क्वचित् ।
    पापं चरन्तस्त्वन्येपि सर्वैर्दृष्टिपथं गताः ।
    शक्तितो वारणीयाः स्युर्देशकालानुसारतः ।
    तदुत्तमविरोद्धारः सन्त्याज्या गुरवोपि तु ।
    यथाशक्त्यनुशास्यैव कालतोपि न चेच्छुभाः ।
    विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव च ।
    शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् ।
    महान्तो नानुशास्याश्च विरुद्धाचरिता अपि ।
    यदि च स्वोत्तमानां ते विरोधं नैव कुर्वते ॥ इत्यादि च ।
    'आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् ।
    क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् ।
    क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि ।
    क्षत्रियो विप्रधर्मापि नैव भैक्ष्यप्रतिग्रही ।
    वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् ।
    >शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः ।
    शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेत् ।
    अत्यापदि क्षत्रियोपि पादशुश्रूषणं विना ।
    शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति ।
    येषु कर्मसु याच्यः स्यात् स्वामिनापि न याचिता ।
    शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि ।
    आत्मनश्चेद् बलाधिक्यं सानुबन्धादपि प्रभोः ।
    धर्मार्थं सेवतोर्थार्थं विप्रधर्माधिकाद् वरः ।
    प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् ।
    बाह्वोर्बलेधिको यः स्यात् क्षत्रियो विद्ययाधिकः ।
    विप्रो भागवतौ चैतौ सेशा लोकास्तयोरिमे
नारदीयपुराणम्
6 उद्धरणानि
  1. 'ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।
    जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।
    निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः ।
    यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।
    ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।
    ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।
    बहिर्मुखा भगवतो निवृत्ताश्च विकर्मणः ।
    दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।
    यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च ।
    तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः
  2. जननात् परसस्यादेः पर्जन्यो मेघसन्ततिः ।
    स यज्ञात् कर्मणः सोपि समस्तं कर्म केशवात् ॥ स नित्योप्यक्षरततिरूपाद्वाक्यादि्ध गम्यते ।
    वाक्यमुच्चार्यते भूतैस्तान्यन्नात्तच्च मेघतः ॥ तस्मात्सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः ।
    एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
    स पापो विश्वहन्तृत्वान्नरके मज्जति ध्रुवम् ॥ वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः ।
    वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्ग्रहिणोखिलः ॥ शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः ।
    विद्याभयादिदानं च सर्वेषामपि सम्मतम् ॥ गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् ।
    सर्वैः कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः ॥
  3. 'स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते ।
    योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।
    विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् ।
    आरभ्य हीयतेथापि भेदः स्वाभाविकस्ततः
  4. कर्मणि जीवे अस्वातन्त्र्यादकर्म कर्मविधिफलयोरभावात् । अकर्मणि विष्णौ । स्वातन्त्र्यात्सर्वकर्तृत्वम् ।
    करोस्मिन् मीयत इति कर्म जीव उदाहृतः ।
    विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ॥
  5. 'अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् ।
    मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।
    उदासीनः स्नेहवतोप्यस्नेही तत्कृतानुकृत् ।
    >मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते
  6. 'सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा ।
    अनिर्देश्यौ तथाव्यक्तावचिन्त्यौ श्रीश्च माधवः
पद्मपुराणम्
11 उद्धरणानि
  1. 'तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा ।
    अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः ।
    भावाभावनियन्ता हि तदेकः पुरुषोत्तमः
  2. 'अनन्तानां तु जीवानां यतन्ते केचिदेव तु ।
    मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् ।
    केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः ।
    अन्येषां यावता मुक्तिस्तावत् ज्ञानं हरौ परम्
  3. तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः । 'अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद् ब्रह्मणो महिमानमाप्नोति इति विदुषो दक्षिणायनमरणेप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः । 'विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोपि सन्
  4. 'नास्य भक्तोपि यो द्वेष्यो नचाभक्तोपि यः प्रियः ।
    किन्तु भक्त्यनुसारेण फलदोतः समो हरिः
  5. कमलासने ब्रह्मणि स्थितं रुद्रम्'विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोङ्कगतो हरः ।
    हरस्याङ्गविशेषेषु देवाः सर्वेपि संस्थिताः
  6. 'विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः
  7. 'जनी प्रादुर्भावे इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ।॥२७ ॥ जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् 'दुःखयोगादिरूपेण जीवेषु विनश्यत्स्वपि ।
    दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ।
    गुणैः सर्वैः समो नित्यं न हीनो हीनगोपि सन् ।
    इति पश्यति यो विष्णुं स एव न तमो व्रजेत्
  8. 'यागात्तु राजसात् स्वर्गः साङ्कल्पिक उदाहृतः ।
    लोकः स दीनदेवानां सनाम्नां वासवादिभिः ।
    विष्णावश्रद्धयायोग्यकामाच्चैषां पुनर्भवेत् ।
    नरकं च विना यज्ञं राजसा नरलोकगाः ।
    निषिद्धकर्म कुर्युश्चेदीयुस्ते नरकं ध्रुवम् ।
    'कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् ।
    अन्येन्यच्च तथाप्येषां स्थितिः स्वाभावि(की)के पुनः ।
    स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महत्फलम् । अन्यदल्पफलं चैव बाहुल्यं तेषु लक्षणम्
  9. सङ्गफलत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । 'स्वयज्ञादीन् परित्यज्य निरयं यात्यसंशयम्
  10. 'विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते ।
    यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् ।
    अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः ।
    अकार्यं ब्रह्म जानाति स एवाखिलमित्यपि । एकजीवपरिज्ञानात् कृत्स्नज्ञोस्मीति मन्यते ।
    युक्तिभिर्ज्ञान(युक्तिविज्ञान)राहित्यात् स्वपक्षस्याल्पयुक्तितः ।
    अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः ।
    अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् ।
    स मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः ।
    सर्वैरेतैर्विशेषैश्च युक्तः पापतमाधिकः
  11. 'अभक्तादपि पापः स्यादसूयुर्दोषदृग् यतः
पैङ्गिश्रुतिः
10 उद्धरणानि
  1. कर्माधिकारिण एव त्वदादयो जीवाः । फलं तु मदायत्तमिति भावः । मा कर्मफलहेतुर्भूः नेश्वरोहमिति भावं कुरु ।
    'एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान्वेदितव्य
  2. बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ ।
    'अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः ।
    तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ।
    कृपणास्ते तमस्यन्धे निपतन्ति न संशयः ।
    न तेषामुत्थितिः क्वापि नित्यातिशयदुःखिनाम् ।
    गुणभेदविदां विष्णोर्भेदाभेदविदामपि ।
    देहकर्मादिषु तथा प्रादुर्भावादिकेपि वा ।
    स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येपि च ।
    सर्वेषामपि चैतेषां गतिरेषा न संशयः
  3. निर्वेदं नितरां लाभम् ।
    'बुदि्धमोहो यदा न स्यादन्यथाज्ञानलक्षणः ।
    श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ॥ श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला ।
    समाधानेन तु पुनरापरोक्ष्याच्च निश्चला ॥ विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते
  4. 'कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता ।
    विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता
  5. 'अहं सर्वस्य प्रभवः । 'तपाम्यहमहं वर्षं निगृह्णामि
    'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । 'न ऋते त्वत्क्रियते किञ्चिनारे । 'देवस्यैष स्वभावोयम्
    'लोकवत्तु लीलाकैवल्यम्
    । इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः । न च सर्वविशेषराहित्यवादिनां शून्यवादात्कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वलक्ष्यत्वास्तित्वादीनामपि विशेषत्वात् । अन्यथास्ति ब्रह्मेत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैयर्थ्यमेव स्यात् । न च सर्वशब्दावाच्यस्य लक्ष्यत्वम् । न च सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चिन्मानम् । नास्तित्वं तु सप्तमरसादिवददर्शनात्सिद्ध्यति ।
    स्वप्रकाशत्वं च न अमानं सिद्ध्यति । स्वयम्प्रकाशत्वं च ततोतिरिक्तं चेद्विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिदि्धरित्यर्थापत्तितः सिदि्धस्तत्प्रमाणतः सिदि्धर्वा । उभयथापि प्रमेयत्वमेव स्यात् ।
    स्वप्रकाशशब्देन स्वमितत्वानङ्गीकारात्परमितत्वानङ्गीकाराच्चासिदि्धरेव । प्रकाश इत्युक्तेपि स्वमन्यं वा किञ्चित्प्रकाश्यं विना न दृष्ट एव भोजनादिवत् । कर्तृकर्मविरोधश्चानुभवविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चिद्विशेषः । अतोनन्तदोषदुष्टत्वादुपरम्यते ।
    हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् ।
    अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ॥
  6. सम्पूर्णोपायो योगारूढः ।
    'नानाजनस्य शुश्रूषा कर्मेति करवन्मितेः ।
    योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः ।
    तेनापि स्वोत्तमानां तु कार्यान्यैरखिलेष्वपि ।
    शक्तितः करणीयेति विशेषोसिद्धसिद्धयोः ।
    प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते ।
    तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः ।
    सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् ।
    कार्यं नान्यत् तस्य तेन तुष्टो भवति केशवः
  7. 'तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्
  8. 'इच्छापूर्वक्रियादानं कर्तृत्वं मुख्यमीरितम्
  9. शास्त्रविहितमपि भगवच्छ्रद्धाहीनमसदेवेति वक्ष्यति'अश्रद्धया हुतम् इति । भगवच्छ्रद्धारहितत्वादेव चाशास्त्रविहितं भवति । 'विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते
  10. अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः ।
    यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय एव तत्" ॥
ब्रह्मपुराणम्
4 उद्धरणानि
  1. 'आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् ।
    यद्यसन्न विशेषोत्र जायते कोत्र जायते ॥
    व्यक्तावपि समं ह्येतदनवस्थान्यथा भवेत् ।
    एवं नाशेपि बोद्धव्यमतोसन्नेव जायते ॥
    तथाप्यभेदानुभवात् कार्यकारणयोः सदा ।
    भेदस्य चाविशेषेण देहोगात् क्षितितामिति ॥ व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा ॥
  2. 'आश्चर्यो भगवान्विष्णुर्यस्मान्नैतादृशः क्वचित् ।
    तस्मात्तद्गोचरं ज्ञानं तद्गोचरवदेव तु
  3. 'अखिलप्रेरको विष्णुर्ब्रह्माद्यास्तदवान्तराः ।
    असुरा अशुभेष्वेव कामादेरभिमानिनः ।
    तत्र कामः कालनेमिः सर्वं धूममलोल्बवत् ।
    शुभमध्याधमजनं क्रमादावृत्य तिष्ठति ।
    महाशनस्य तस्येदं नालं तेनानलोग्निवत् ।
    भुञ्जान इंद्रियाविष्टो ज्ञानास्त्रेणैव (दह्यते)हन्यते
  4. 'लिङ्गादिसाम्यं यत्र स्यात्प्रयोगाधिक्यमेव तु ।
    निर्णायकं भवेत्तत्र तेन स्यात्सुबहुश्रुतः
ब्रह्मवैवर्तपुराणम्
7 उद्धरणानि
  1. 'प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।
    न चान्यधर्माकरणाद्दोषवान्विष्णुधर्मकृत् ॥ इत्याग्नेये ।
    'स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् ।
    नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।
    एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः ।
    एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।
    तत्प्रीत्यर्थं विनान्यस्मै नोदबिन्दुं न तण्डुलम् ।
    दद्यान्निराशीश्च सदा भवेद्भक्तश्च केशवे ।
    नैतत्समेधिके वापि कुर्याच्छङ्कामपि क्वचित् ।
    जानीयात्तदधीनं च सर्वं तत्तत्त्ववित्सदा ।
    यथाक्रमं तु देवानां तारतम्यविदेव च ।
    एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ।
    एष धर्मोतिफलदो विशेषेण पुनः कलौ ।
    एवं भागवतो यस्तु स एव हि विमुच्यते ।
    त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।
    तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिको गुणैः ।
    समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे ।
    त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।
    पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे ।
    सर्वान्देवान्प्रविज्ञाय तत्कर्मैव सदा भवेत् ।
    सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि ।
    स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।
    सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात्परम् ।
    क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् ।
    यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः ।
    परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः ।
    नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते ।
    वादो विवादः सम्प्रोक्तो वादो वचनमेव च ।
    वेदोक्ते विष्णुमाहात्म्ये विवादात्पठनादपि ।
    अथवा निरर्थकात्पाठाद्वेदवादी स उच्यते ।
    वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।
    तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।
    अनारम्भमनन्तञ्च नित्यदुःखं सुखोज्झितम् ।
    वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः
  2. 'बुदि्धर्निर्णीततत्त्वानामेका विष्णुपरायणा ।
    बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम्
  3. 'देवेभ्योन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते ।
    निशायामिव सुव्यक्तं यथान्यैर्ब्रह्म नेयते ।
    आश्चर्यवस्तुदृग्यद्वद्व्यक्तमन्यन्न पश्यति ।
    ऐकाग्र्याद्वा सुखोद्रोकाद्देवाः सूर्यवदेव च ।
    प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम्
  4. ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोन्यः ।
    'साङ्ख्या ज्ञानप्रधानत्वाद् देवाश्च यतयस्तथा ।
    मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद् यतः ।
    बहुकर्मकृतोप्येते ततोपि बहुवेदनात् ।
    मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः ।
    ज्ञानिनोप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः ।
    नोभयं तद् विना कश्चित् पुमान् हि पुरुषार्थभाक् ।
    न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
    न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत्
  5. उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोयमध्यायः ।
    'ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।
    पञ्चरात्रात्मकं ज्ञानं व्यासोदात्पाण्डवेषु तत् ।
    तेषामेवावतारेषु सेनामध्येर्जुनाय च ।
    प्रादाद्गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे ।
    यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः ।
    सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः ।
    ज्ञातव्यं चैव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः ।
    त्रैतादित्रिषु जातैश्च गीतायां तदुदाहृतम् ।
    पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते ।
    तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित् ।
    वेदार्थपूर्वकं ज्ञेयं पञ्चरात्रं यतोखिलम् ।
    तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित्
  6. तत्पूजात्वेनेंद्रियादिसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते ।
    'तेनैव तं पूजयेद्वा विहितैर्वान्यसाधनैः ।
    स एव विष्णोर्यज्ञः स्यान्मानसो वा स बाह्यकः
  7. देवासुरलक्षणम्- 'येतिमानेन मन्यन्ते परमेशोहमित्यपि मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।
    मिथ्यात्वान्नेश्वरोस्यास्ति परेभ्यो न च जायते ।
    स्वस्मिन्नपि तथान्यस्मिन् नियन्तान्य इतीरिते ।
    प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः ।
    अयोग्येशत्वकामत्वात् लोभाच्चात्मसमर्पणे ।
    तत्त्व(वेदेषु)वादिषु कोपाच्च तत(तम)स्तेषां न दुर्लभम् ।
    अक्षानुमागमानां च स्वोक्तेरपि विरोधिनः ।
    यस्मात् तेतोसुरा ज्ञेया एवमन्येपि तादृशाः ।
    ये तु विष्णुं परं ज्ञात्वा यजन्तेनन्यदेवताः ।
    प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः
ब्रह्माण्डपुराणम्
1 उद्धरणानि
  1. 'त्वदन्येन न दृष्टपूर्वम् इत्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति तदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव ।
    'विश्वरूपं प्रथमतो ब्रह्मापश्यच्चतुर्मुखः ।
    तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।
    यथेन्द्रेण पुरा दृष्टमपश्यत् सोर्जुनोपि सन् ।
    तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः
ब्राह्मपुराणम्
2 उद्धरणानि
  1. 'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
    वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृऽताः
  2. 'आत्मानमव्ययम् 'परमं रूपमैश्वरम् 'सर्वाश्चर्यमयं देवमनन्तं विश्वतो-मुखम् इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । 'मम देहे इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । 'मे रूपाणि 'सर्वतोनन्तरूपम् इत्यादेः 'द्रष्टुमिच्छामि ते रूपम् इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च ।
    'एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः ।
    बहुसङ्ख्यागोचरं च विशेषादेव केवलम् ।
    अभावो यत्र भेदस्य प्रमाणावसितो भवेत् ।
    विशेषनामा तत्रैव विशेषव्यवहारवान् ।
    विशेषोपि स्वरूपं स स्वनिर्वाहक एव च ।
    द्रव्यात्मना स नित्योपि विशेषात्मैव जायते ।
    नित्या एव विशेषाश्च केचिदेवं द्विधैव सः ।
    वस्तुस्वरूपमस्त्येवेत्येवमादिष्वभेदिनः ।
    विशेषोनुभवादेव ज्ञायते सर्ववस्तुषु ।
    नचाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम् ।
    विशिष्टस्य स्वतोन्यत्वे स्वस्यामेयत्वहेतुतः ।
    नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ।
    स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् ।
    न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ।
    अभेदे न विरोधोस्ति ज्ञाताज्ञातं यतोखिलम् ।
    तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ।
    अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत ।
    एकत्वानुभवाच्चैव विशेषानुभवादपि ।
    तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः ।
    भेदाभेदौ च तेनैव (तौ नैव) कर्तृभोक्तृविशेषणे ।
    मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् ।
    भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवेत् ।
    शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् ।
    अपृथग्दृष्टिनियमाद् बलज्ञानादिकस्य च ।
    ऐक्यं बाह्यविशेषाणां पृथग्दृष्ट्यैव तन्न तु ।
    विशेषहेत्वभावेपि द्वैविध्यं कल्प्यते यदि ।
    कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः ।
    नैकत्वं वापि नानात्वं नियमादस्त्यचेतने ।
    भेदाभेदावनुभवादतस्तत्रान्यथागतेः ।
    एको मदन्यतोन्यश्चेत्येवमेव व्यवस्थितौ ।
    भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता ।
    एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः ।
    पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत् ।
    तन्तुभ्योन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।
    अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत् ।
    न चात्मनि विशेषोत्र दृष्टान्तत्वं गमिष्यति ।
    शुद्धोहम्प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः ।
    अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः ।
    न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् ।
    पूर्वापरादिभेदेन यतोंशोस्यावगम्यते ।
    उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि ।
    ज्ञापयेद् भेदमखिलं ग्रसन् स विभजेत् कथम् ।
    तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित् ।
    भावाभावव्यवहृतेर्विद्यमानेपि वस्तुनि ।
    भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ ।
    चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।
    सुप्तोयं बलवान् विद्वानित्यादिव्यवहारतः ।
    नचैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।
    एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ।
    मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
    यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
    एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।
    इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा ।
    सर्वं तु घटते विष्णौ यत् कल्याणगुणात्मकम्
भगवद्गीता
1 उद्धरणानि
  1. प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्य पूर्वप्रेरक इति । 'पूर्वं तु बादरायणो हेतुव्यपदेशात्
भविष्यत्पुराणम्
1 उद्धरणानि
  1. 'ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता ।
    प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ।
    धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः ।
    अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ।
    सर्वं मोघं शुभं तस्य योवजानाति केशवम् ।
    अवरं याति च तमः प्रादुर्भावगतोप्यतः ।
    ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुणः
महाभारतम्
2 उद्धरणानि
  1. कथमभिमानत्यागः ? ब्रह्मार्पणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मणो हविः । ब्रह्मणोग्नौ । ब्रह्मणः कर्मसमाधिना सह । समाधिरपि तदधीना इत्यर्थः ।'एकः स्वतन्त्रो भगवान् तदीयं त्वन्यदुच्यते
  2. द्वन्द्वमोहो मिथ्याज्ञानम् ।
    'तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः
श्रुतिः
3 उद्धरणानि
  1. जित्वा स्वर्गं महीं च ।
    'ये युद्ध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः
  2. शरीरस्थो जीवः । 'स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति
  3. तत्सम्बन्धित्वादेव कर्मादि सत् । ओं तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते । अनोङ्कृतं आसुरं कर्म"
स्कान्दपुराणम्
3 उद्धरणानि
  1. 'स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।
    इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित्
  2. 'स्वयं प्रकृत्य भगवान् करोति निखिलं जगत् ।
    नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः
  3. 'कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् ।
    अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः