Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C1P4

From Anandamakaranda
Revision as of 01:36, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

न्यायसुधा — अध्यायः 1, पादः 4

न्यायसुधा

सु अन्यत्रैवप्रसिशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात् परिशेषाद्वा सिम् ।

अन्यत्रप्रसिेभ्योऽन्यत्रैवप्रसिानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते ॥

ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥

अत्र महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं पूर्वपक्षिणा अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषा(द)वरत्वं

प्राप्नोति । न च तद्युक्तम्, सकलश्रुत्यादिविरोधात् इति, तत्परिहारार्थं सूत्रम् तदधीनत्वादर्थवदिति ॥

॥ ॐ तदधीनत्वादर्थवत् ॐ ॥

तस्यार्थं विवृणोति दुःखीति ।

दुःखिबावराद्यास्तु तदधीनत्वहेतुतः ॥

शब्दा ब्रह्मणि वर्तन्ते

अव्यक्तग्रहणमुपलक्षणम् । यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते

जीवा एव तु दुःखिनः, योनिमन्ये प्रपद्यन्ते इत्यादौ, तस्य सर्वस्यापि समन्वयोऽत्र

प्रतिपाद्यत इत्यतो दुःख्यादिग्रहणम् ॥ नाव्यक्तादिशब्दानां ब्रह्मपरत्वेऽप्यवरत्वादिप्राप्त्या

सर्वमानविरोधोऽस्त; यतः स्वस्मन्नवरत्वाद्यभावेऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन

हेतुना दुःखी, बः, अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् ।

एतदुक्तं भवति । दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः, ततश्च प्रमाणविरोधो वाच्यः । न च दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः, किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य । सम्बन्धश्च समवाय इव स्वाम्यमपि भवति । तत्र निरनिष्टो निरवद्यः, नामानि सर्वाणि यमाविशन्तीति निरवकाशश्रुतिद्वयान्यथाऽनुपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे काऽनुपपत्तिरिति ।

सु भवत्वेवं ततिान्तेषु गतिः, कृदन्तेषु बादिशब्देषु रूढेषु चावरादिशब्देषु कथम् । इत्थम् ।

बशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् । तद्यस्यास्त तत्र स शब्दो

वर्तते । यस्यास्तीति च सम्बन्धमात्रमुच्यते । सम्बन्धविशेषे प्रमाणाभावात् ।

एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् । अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः । किञ्च प्रातिपदिक•त्वर्थ इति ण्यन्तेभ्यः पचाद्यचि

विहिते सुलभैवावरादिशब्दप्रवृत्तिः ।

स्यादेषा व्याख्या, यत्र शब्दतोऽवरत्वादिप्रतीतिः, यत्र पुनः अव्यक्तात्पुरुषः पर इत्यादावर्थादवरत्वादिप्राप्तिस्तत्र कथम्, न हि शब्दवदुपपत्तिर्व्याख्यानमर्हति । उच्यते । अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते ।

न च तदस्यास्तीत्यनेन समवाय एव प्राप्नोतीति नियमोऽस्त, तत्स्वामित्वेनाप्युपपत्तेः ।

ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् । परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः ।

स्यादेतत् । यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते, तथाऽपि समवायादिरेव न स्वामित्वम्, प्रयोगानुसारित्वात्कृत्ततिसमासानाम् । प्रयोगश्च समवायादिनिमित्त एव दृश्यते, न स्वामित्वनिमित्तः । अत एव तदस्यास्त्यस्मन्निति मतु(नु?)बितीतिकरणो विवक्षितार्थो निबः । तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतोऽस्त तदधीनत्वनिमित्तोऽपि प्रयोग

इत्याह राज्ञीति ।

राज्ञि यद्वत्पराजयः ॥

भृत्यसमवेतस्य पराजयस्य राजाऽधीनत्वेन, यथा, राज्ञि, पराजयः पराजयनिमित्तकः पराजयीतिशब्दो, वर्तते, पराजयी भद्रसेन इति, तथेत्यर्थः ।

किञ्च स्वाम्यसम्बन्धेन मतु(नु?)बर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् ।

न्यायसुधा

एतदेव विवृणोति स्वातन्त्र्यमिति ।

स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥

यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वम् इव परगतेषु स्वातन्त्र्यम् अपि दुःख्यादिशब्दप्रवृत्तेः कारणम्, अनुशासनप्रयोगयोरुभयत्र साम्यात्; तस्माद् दुःख्यादि

शब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्ते इति सम्बन्धः ।

सु अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम्, किं त्वमुख्यमेव, तत्र प्रयोगस्याप्रचुरत्वात् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । तथा च दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात् तत्तु समन्वयादित्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति ॥

स्वातन्त्र्यं तत्र मुख्यं स्यात्

तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यम् एव मुख्यं(ख्य)= शब्दप्रवृत्तिनिमित्तं स्यात् । न तु तद्गतत्वमित्यर्थः ।

स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बाधकमाह कुत इति ।

कुतो राज्ञि जयोऽन्यथा ॥

अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः कथम् । स्वधामोपविष्टे राज्ञि जयः कुतः, न कुतोऽपि यतः, इत्यर्थः । जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात्, न चैवम्, तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति ।

लक्षणया प्रयोगोऽस्त्वति चेन्न, तदस्यास्तीति निमित्तसाम्यात्, अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वेऽपि जयग्रहणं व्याप्त्यर्थम् ॥

स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति न हीति ।

न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ॥

यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ।

हिशब्दो यस्मादित्यर्थे । तावद्यावदिति क्रियाविशेषणे । जयस्य अन्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत् प्रयुज्यते

तावत् जयाधिकरणस्यापि भृत्यस्य सम्बन्धतया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं

तत्र मुख्यं स्यादिति सम्बन्धः ।

स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरित

स्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् ।

भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । भृत्यज्ञानेऽपि तदुपलम्भात् ।

ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः, अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् । सत्यम् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम्, स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्तेऽसिरिनेनाभिधीयते, न तु प्रयोगप्राचुर्येण मुख्यता साध्यते,

येन व्यभिचारचोदना सङ्गता स्यात् ।

यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिर्व्यिभिचारो वा

शक्यते वक्तुम्, तथाऽपि जगद्वाचित्वादिति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिरेवोक्ता ।

कुतस्तर्हि मुख्यतासिरिति चेत् ।

उच्यते । तदस्यास्तीति हि दुःख्यादिशब्दप्रवृत्तिनिमित्तमुक्तम् । यच्च यदधीनसत्ताप्रतीतिप्रवृत्तिकं, तत्तस्य मुख्यतो भवति, यथेष्टविनियोगयोग्यत्वात् । न तु(नु) यत्र यत्सम्बं तस्य तन्मुख्यतः, यथेष्टविनियोगायोग्यत्वात् । न हि जीवेन दुःखादिकं हातु

मुपदातुं वा शक्यते । अतः स्वातन्त्र्यमेव मुख्यमिति ।

अथवाऽभिधानवृत्तावेव स्वातन्त्र्यतद्गतत्वयोर्निर्धारणायां स्वातन्त्र्यं मुख्यमिति प्रतिज्ञातम् । तत्र प्रयोगप्राचुर्यस्य हेतुत्वाभिधाने न कश्चिद्दोषः । प्रकरणवशादेव व्यभिचारपरिहारात् ।

सु ननु यदि स्वाम्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बे मृते वा, राजा बो

(राजा) मृत इति प्रयोगः स्यात् । न चैवमस्त । तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्त

मिति ॥ न च वाच्यं प्रयोगे सति निमित्तानुसरणम्, न तु निमित्तमस्तीति प्रयोग इति; अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री, किन्तु तदेकदेशः ।

मुख्यप्रयोगे तु निमित्तमेव सामग्री । न हि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगो

रपत्ये (अपि) औपगवशब्दप्रयोगाभावो भवतीति ।

अत्र वक्तव्यम् । कोऽयं प्रयोगो नाम । किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति

यथा, किं वोच्चारणम् । नाद्यः प्रसङ्गस्येष्टत्वात्, विपर्ययपर्यवसाने चासिेः । द्वितीये त्वन्यथासिमिाह भृत्येति ।

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥

कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥

राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा ब•े मृत) इत्यादिवाक्यं

न प्रयुज्यते । किं कारणम् । स प्रयोगः संशयस्य कारणं स्यादित्येव, न तु स्वातन्त्र्यस्य अकारणत्वात् । कुतः संशयस्य कारणम् । राज्ञोऽपि बन्धादियोग्यत्वात् ।

इदमुक्तं भवति । भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगाभावस्तु प्रतिबन्धकनिमित्तः । राजा बो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात्, किं राजाधीनस्य भृत्यस्य बत्वादिनैवमुच्यते, किं वा राज्ञ एव बत्वादिनेति, आकाङ्क्षासन्निधियोग्यतानामुभयत्र सावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् । न च संशयो मा भूदित्येवं निवृत्तः प्रयोगोऽकारणत्वं स्वातन्त्र्यस्य गमयति । न हि मणिमन्त्रादिप्रतिबोऽग्न्थ्नर्िाधाक्षीदिति न तत्कारणमिति ।

सु न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् । व्याख्यानतः संशयनिवृत्तिसम्भवात् । यथोक्तम् । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति । अन्यथा

राजा जयीत्यपि प्रयोगो न स्यात् । तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलत्वादिति ।

अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥

अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥

तुशब्दोऽवधारणे । शब्दस्य इति जात्यपेक्षमे(त्ये)कवचनम् । राज्ञो बन्धनादौ

अमङ्गले (योगात्) योग्यता(त्व)सावात्, आकाङ्क्षादेश्च स्फुटत्वात् राजा ब इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् । राज्ञोऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् ।

अयमभिसन्धः । न केवलं संशयप्राप्तेः प्रयोगाभावः, किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव । न पुनः स्वातन्त्र्यस्याकारणत्वादिति । तर्हि राजा पराजयीत्यपि

न प्रयोक्तव्यमिति चेत् । भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसितया संशया

नुत्पादात् ।

सु नन्वस्त तावद् राजा ब इत्यादिप्रयोगाभावः । स तु स्वाम्यस्याकारण

त्वान्न भवति, किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् । न च वाच्यं मा भूदयं

निश्चयः, प्रयोगाभावस्यान्यथासिशिङ्काऽपि तर्कानुमाने शक्नोति दूषयितुमिति । वादि

नोऽपि निश्चयस्यावश्यकत्वात्, अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादि

त्यत आह गुणास्त्वति ।

गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ॥

तादृशाः = स्वाम्यनिमित्तकाः शब्दाः, यत्र = यदि, गुणाः = शुभाभिधायिनो न तु पाक्षिकमप्यमङ्गलं प्रत्याययन्त । तत्र = तर्हि । ते अखिला अपि प्रयुज्यन्ते । यथा जितं राज्ञेत्यादयः । प्राप्ताप्राप्तविवेकेनानर्थशङ्कैव प्रयोगाभावकारणम्, न तु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः । अत एवोक्तम् अखिला अपीति ॥ न चायं

नियमोऽस्त, निमित्तसावे प्रयोगो भवतीति । अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि, न च तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् । तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिमित्याह पूज्येष्वति ।

पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।

यतः, पूज्येषु = स्वामिषु, जयिप्रभृतयः शब्दाः प्रयुज्यन्ते; तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति । यतश्च, पूज्येष्वेव, विशेषेण = प्राचुर्येण, प्रयुज्यन्ते, न भृत्येषु;

तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति ।

सु किमतो यद्येवमित्यत आह अत इति ।

न्यायसुधा

अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ॥

दोषाणां विष्णुगत्वस्य प्राज्ञबुव्यिपेक्षया ।

स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दास्तु(श्च) विष्णवि ॥

यतः स्वातन्त्र्यं कारणं, मुख्यं च, अतः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबावराद्या दोषशब्दा अपि विष्णवि = विष्णौ, जीवा एव तु दुःखिन (.?.) इत्यादौ, प्रयुज्यन्त इति सम्बन्धः । सत्यपि निमित्ते यथा राजा ब इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावोऽपि कुतो न भवेत्, अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तम् दोषेति ।

निरनिष्टो निरवद्य इत्यादिश्रुतेर्विष्णोः(ष्णौ) दोषाति दूरत्वनिश्चयात्र । प्राज्ञबुिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् । निमित्तसावात्प्रतिबन्धकाभावादपीत्यपेरर्थः ।

एतदुक्तं भवति । सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णव(वेभ्यो)भयात्स्यात् । तत्कारणं च तदप्रीतिः । तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः ।

तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् । तस्याप्युभयत्र योग्यतादिसावः ।

न चासावस्त प्रकृते, विष्णुवैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः, अन्यथा जरद्गवादिवाक्येऽपि तत्प्रसङ्गात् ।

यद्यपि वाक्यतात्पर्याज्ञेऽ(ष्व)प्रीतिसम्भवस्तथाऽपि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति । एतदप्युक्तम् प्राज्ञबुव्यिपेक्षयेति ।

स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः ।

अत्र श्रुतिसंमतिमप्याह वासुदेवेति ।

वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।

मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ॥

स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।

आह एतमर्थमिति शेषः । यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्त । ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात् स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्त । तस्माद् दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः । अन्यत्र तु राजादौ

यतो मङ्गलामङ्गले सम्भवतोऽतो योग्यतासम्भवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा ब इत्यादिकं न वदेदित्यर्थः ।

एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद् दृष्टान्तेन बोधयति बहुभुक्तवमिति ।

बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ॥

यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते, अस्वर्ग्यं चातिभोजनमिति (श्रुतेः) स्मृतेः, उभयस्यापि देवदत्ते सम्भवेन योग्यत्वात् । अत एव देवदत्ताीरुणा नैवं प्रयुज्यते । परमेश्वरे तु संसारधर्माणामत्यन्तासम्भवान्न दोषप्रतिभासः,

किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति (। तत्र) तत्प्रयोगः । दार्ष्टान्तकमाह एवमिति ।

एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।

नैव दोषा हरौ

दोषा दोषहेतवः । प्रथमदृष्टान्तस्यापि दार्ष्टान्तकमध्याहार्यम् ।

तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥

दुःखादीनां तद्गतत्वविवक्षयेत्यर्थः । तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति । अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिम् ॥

ज्योतिष्टोमेन स्वर्गकामो यजेत, वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत् ब्रह्मणि समन्वेत्युत नेति । नेति पूर्वः पक्षः ।

तथाहि । किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः । नाद्यः । ज्योतिष्टोमकर्तव्यतादेर्वाक्यार्थतया प्रतीतेः । न द्वितीयः, पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा

योगेन । आद्येऽपि किं प्रसिवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत

(एवमेव) पृथगेव । नाद्यः, तेषां जडत्वानित्यत्वादिना ब्रह्मणोऽपि दूषणप्रसङ्गात् ।

न द्वितीयः, अनेकार्थतास्वीकारस्य अन्याय्यत्वात् । न हीश्वरे वसन्तादिशब्दानां

रूढिः प्रमाणवती । न च रूढ्या समन्वयसमाश्रयणे प्रयोजनमस्त, गुणपूर्त्यसिेः ।

नापि योगेन, योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थताऽसिेः । न चैवंविधं योगमपि

पश्यामः ॥ योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः । तत्र प्रकृत्यादेरीश्वरवाचित्वमस्त न वा । आद्ये, योगानुपपत्तिः सामर्थ्याभावात् । द्वितीये, ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः, प्रकृत्यादेरन्यपरत्वात् । किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति, क्रियोपहितरूपत्वात्कारकाणां, क्रियाभिधायकस्य चाभावात्, अनुष्ठापकप्रमाणान्तरादर्शनात् । तस्मादयुक्तं समन्वयसूत्रमिति ।

सु अत्रोच्यते । यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति ।

तत्र तावत्पदानामिति ब्रूमः । न च वृत्त्यसम्भवः, योगसावादित्यभिप्रेत्य निर्वक्ति

जातमिति ।

जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।

जिर्जातम् । जनेरौणादिको डिप्रत्ययः । ओतिरोतम् । (अवतेक्तिः?) अवतेः क्तिन् ।

जातं = जगत्, ओतं = प्रविष्टं, यस्मन्नसौ ज्योतिः । प्राणरूपतः चेष्टकरूपत्वात् ।

षकारः प्राण आत्मेति श्रुतेः । ज्योति चासौ षः चेति ज्योतिषः, तस्य सम्बुज्यर्तिष ॥

आयजेतश्चायजेतः

यजतेर्भावे घञर्थे कविधानमिति कप्रत्ययः । संप्रसारणाभावः (तु) छान्दसः ।

यजो = यज्ञः ।

अथवा कर्तर्येव पचाद्यच् । तथा च आ = सम्यक्, समन्ताद्वा, यजेन = यज्ञेन

कर्मणा, याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः । सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः । तस्य सम्बुरिायजेत ।

वसन्तश्च वसंस्ततः ।

वसतेः पचाद्यच्, वसतीति वसः । तनोतेरौणादिको डिप्रत्ययः, तनोतीति तिः । वर्णागमो वर्णविपर्ययश्चेति पूर्वपदस्य नकारागमः । वसंश्चासौ तिश्चेति वसन्तः,

व्याप्तो वर्तत इत्यर्थः । तत्सम्बुर्विसन्ते । द्विरुक्तिरादरार्था ।

विगतच्छादनत्वात्तु गच्छ

गमेश्छदेश्च डो(?)ऽन्यत्रापि दृश्यत इति डप्रत्ययः । गं विगतं, छं छादनम् अविद्यादिकं यस्माद् असौ गच्छस्तस्य सम्बुःि गच्छ । इन्द्रागच्छेत्यादिव्याख्यानमेतत् ।

सु

भूतक्षयंकरः ॥

भुंक्ष्वेत्युक्तो हरिः

भुशब्दो भूतशब्दस्यादेशः, क्षयशब्दस्य च क्ष्वः, पूर्वपदस्य मकारागमः । पृषोदरादिरयम् ॥ यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः । अयमपि सम्ब््युन्तः ।

हुं च हुतमस्मन् जगद्यतः ।

जुहोतेरधिकरणे मकारप्रत्ययः । कृन्मेजन्त इत्यव्ययत्वम् । हुतं स्वेनैव अस्मन् विष्णौ जगत् प्रलयादौ यतः अतो हुं च असावित्यर्थः । कर्मविशेषानुक्तेर्जगदित्युक्तम् ।

स्फुटत्वात्फडिति प्रोक्तः

स्फुटविकसन इत्यस्मात्कर्तरि क्विप् । सकारलोपः । उकारस्याकारः । स्फुटत्वात् स्वात्मानं प्रति व्यक्तत्वादसंकुचितवृत्तित्वात् (इति) वा ।

कवरक्षण इत्यतः ।

कवचं

कवरक्षणं इत्यतः = इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः । कवतेरच इत्येतावान् (एव) प्रत्ययः । कवति रक्षतीति कवचम् ।

वर्तते यस्मात् षड्गुणत्वेन सर्वदा ।

वषट्

वृतु वर्तने डप्रत्ययः, वर्तत इति वः । षड्गुणात्मकत्वात् षट् । वश्चासौ षट् चेति

वषट् । तस्य तात्पर्यं वर्तत इत्यादि । ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः ।

तद्गत्वतस्तेषां वौषट्

विः = विष्णुः । अकयप्रविसम्भूमसखहा विष्णुवाचका इति वचनात् । तस्मन्

वौ = वर्तमानाः, षट् = गुणा वौषट् । सप्तम्या अलुक् । अस्य तात्पर्यार्थः, तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषट् इति ।

इत्येव कथ्यते ॥

न चैवं भगवन्नामत्वानुपपत्तिः । तद्गतगुणानामपि तदात्मकत्वात् । तदिदमुक्तम्

इत्येवेति ।

तर्हि कथ्यत इति कथम् । भावे प्रयोगो न कर्मणीत्यतो न दोषः ।

स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।

हरतेर्जहातेर्वा डः । द्वावप्याङ्पूर्वौ(र्वकौ) स्वीकारे वर्तेते । स्वं = स्वभावतः

स्वीयम् एव हविरादि(इतरेषां) भ्रान्त्याऽस्ववत् प्रतीतं स्वीकुरुत इति स्वाहः । स चासौ

अश्चेति स्वाहेति सम्बुः ।

नमन्त्यस्मन्गुणा यस्मान्नम इत्येव कथ्यते ॥

नमतेरधिकरणेऽसुन्प्रत्ययः । नपुंसकलिङ्गता तु शब्दानुसारिणी । गुणा इति

योग्यतया सम्बन्धः । नमनेनात्यन्तकसम्बन्धमुपलक्षयति ।

अथवा अस्मन् = परमेश्वरे विषये गुणाः = उपसर्जनभूता ब्रह्मादयो, नमन्त प्रह्वीभवन्तीति व्याख्येयम् ।

न्यायसुधा

एवं योगवृत्त्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति ।

इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।

उच्यते मुख्यतो यस्मात्पदवर्णस्वरात्मभिः ॥

तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।

इति = उक्तदिशा । तेन न विभक्तयर्थानुपपत्तिः । क्रियाशब्दा आख्यातपदानि । नामशब्दाः सुबन्त(पद•नि । एक इति शब्दान्तरन्यायेेन प्राप्तं भेदमपाकरोति । अभि

धेयभेदे हि नानन्तगुणता स््यिति । मुख्यतो योगवृत्त्या । क्रियानामशब्दैः इत्यस्य

अनुवादः पदवर्णस्वरात्मभिरिति । न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च ।

ननु वर्णानामपि वाचकत्वे विभक्तयन्तत्वे च पदत्वमेव, तत्कमर्थं पृथग्ग्रहणम् । एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः ।

अनन्तगुणता स्यितीति शेषः । हिशब्दोऽपर्यायत्वादिति सूचयति । अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति ।

ननु च न निर्वचनस्य शक्यकरणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः

स्यिति, निर्वचनस्य व्याख्यातृमतिपरिकल्पतस्यार्थान्तरेऽन्यथा च सम्भवात् । अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो

द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम् श्रुतीति ।

भवेदेवं यदि वसन्त इत्यादिश्रुतीनामुक्तविधनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं

न स्यात्, तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः ।

योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह विज्ञानेति ।

विज्ञानार्थत्वतः सर्वशब्दानां नास्त दूषणम् ॥

वैदिकानां सर्वशब्दानाम् एवं योगवृत्त्या विज्ञानार्थत्वतः अनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वात् वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादि

दूषणम् उक्तं तत् नास्त इत्यर्थः ।

तदनेन ज्योतिरिति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति ।

सु एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिह(हृ)ता । इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति अङ्गीकृतेऽपीति ।

अङ्गीकृतेऽपि नैवास्त दोषो वाक्यसमन्वये ।

वाक्यसमन्वयेऽङ्गीकृतेऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिः नैवास्त इत्यर्थः ।

अनेन वाक्यान्वयादिति सूत्रस्य तात्पर्यमुक्तं भवति ।

सु ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते, साङ्गकर्मपरत्वावगमात् (आगमानाम्) इति तत्राह तदर्थत्वेनेति ।

तदर्थत्वेन कर्मादेः सम्भवादल्पबुये ॥

तत् इति विज्ञानं परामृशति । अल्पबुय इति षष्ठ्यर्थे चतुर्थी । अहल्यायै जार इति

यथा । न वाक्यान्वयानुपपत्तिरिति शेषः । यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्त, किन्तु ज्योतिष्टोमादीतिकर्तव्यतापराणि; तथा सर्वमपि कर्मकाण्डं नाल्पास्थरफले कर्ममात्रे पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव, तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानार्थत्वात्, विविदिषन्त यज्ञेन दानेन तपसाऽनाशकेन इत्यादि श्रुतेरिति भावः ।

ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयोऽभिहितः स युक्तो न वा । नेति

पक्षे न व्युत्पादनीयः । आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम् अल्पबुय इति । प्रपञ्चयिष्यते चैतत् ।

अनेन अन्यार्थमित्यादिसूत्राणां तात्पर्यमुक्तं भवति ।

सु नन्वल्पबीुनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति

किं वाक्यान्वयेनेत्यत आह क इति ।

कश्छन्दसां योगमिति श्रुतेः

कश्छन्दसां योगमावेद धीरः इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबेु(भि)रशक्यज्ञानत्वाद्यु(त्वेन यु)क्तं वाक्यान्वयव्युत्पादनमिति शेषः ।

नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम्, को धीरश्छन्दसां, योगं = ब्रह्मणि योगवृत्तिम्, आवेद न कोऽपीति निरधिकारिकत्वश्रवणात्,

न हि गायमानो बधिरेषु गायतीत्यत आह योगार्थेति ।

योगार्थतत्त्ववित् ।

ब्रह्मैको नैव चान्योऽस्त

योगस्यार्थो योगार्थः । तस्य तत्त्वं याथार्थ्यम् । चशब्दोऽर्थद्वयसमुच्चयार्थः ।

अयमस्याः श्रुतेरर्थ इति शेषः । एतदुपपादयति क इति ।

क इत्यस्योभयार्थतः ॥

प्रजापतिर्वै क इति श्रुतेः कशब्दो ब्रह्मार्थः । किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिा ।

तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारि

कत्वम् । आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः ।

ननु कथमेतत् । आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः । प्रमाणं चात्रान्यथाऽनुपपत्तिरिति ।

यदि ब्रह्मा एक एव पदानां योगवृत्त्याऽर्थसम्बन्धं वेद तदा एकस्य प्रति

भातं तु कृतकान्न विशिष्यते इति न्यायात्कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्येत(द्यते) ।

तथा चौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परि

त्यक्तः स्यादित्यत आह तस्यापीति ।

तस्यापि पूर्वसिस्य ज्ञानमेवेति निश्चयात् ।

नित्ययोगोऽपि शब्दानामर्थैर्नैव निष््यिते ॥

यद्यप्येक एव प्रतिपत्ता तथाऽपि तस्य पूर्वसिस्यैव = पूर्वस्थतस्यैव ज्ञातस्यैव

च शब्दार्थसम्बन्धस्य ज्ञानमेव प्रमितिरेव भवति न तूत्प्रेक्षामात्रम् इति = अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैव अस्माभिः (नैव)

त्यज्यत इति योजना ।

एतदुक्तं भवति । स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षा(रूपं)

स्यात् । न चैवम् । किन्तु पूर्वजन्म(नि )प्रतीतं स्वतःसिमेव सम्बन्धमिह जन्मनि सुप्तप्र(ति)बुन्यायेनेश्वरप्रसादादवब््युत इति । तथा च श्रुतिः, यो ब्रह्माणमित्येवंजातीयका ।

एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् । तथा च स्मृतिः, जन्मान्तरे श्रुता

स्तास्तु इत्यादिका । अत एव श्रुतिः आवेदेत्याह । एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् ॥

प्रकृत्यधिकरणम्

॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥

सु इदानीं प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, एतेन सर्वे व्याख्याता व्याख्याता इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति ।

स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ।

स्त्रीलिङ्गाः प्रकृत्यादिशब्दाः स्त्रीशब्दाः ॥ निषेधनं निषेधः = अभावः, निष््यित इति निषेधः = असत्; तदुभयार्थाः ॥ शब्दा इति (च) वर्तते ।

सु अत्र न सर्वाणि सूत्राणि व्याख्यातानि, ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिान्तयुक्तः आह

विरोधीति ।

यद्वा (अत्र) आद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते ।

विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥

> पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।

विरोधीति परमैश्वर्यविरोध्यर्थाः । सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः । बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः । कारणेति अवान्तरकारणवाचिनः । स्त्रीति स्त्रीलिङ्गाः । निषेधो वाच्यो येषामस्त ते निषेधिनः । अथवा द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः, तथात्वे विरोध्यादयोऽर्था ग्राह्याः । शब्दानामिति शेषः । एतानि एतत्पादगतानि, सर्वशः स्थानानि अधिकरणानि, एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वय

(सिःि) इत्यपि प्रतीयेत, अतः पृथगित्युक्तम् ।

न्यायसुधा

सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥

> परस्परविरोधश्च विरोधः कार्यतद्वतोः ।

> स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ॥

> दोषात्यस्पृष्टिनियमः शब्दार्थाऽनेकता तथा ।

> बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥

> उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।

> इत्यादियुक्तयः साक्षात्सान्तस्थापिका इह ॥

सर्वेत्यनेनैव समाकर्षाधिकरणार्थोऽपि सङ्गृहीतः । तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् । सर्वमानैर्विरोधश्चेत्याद्यर्थो न्यायविवरणादाववगन्तव्यः ।

एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं चान्वय इत्यादिना किञ्चिद्विवृणोति ।

तथा हि । समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमतो न वा ।

आद्ये वक्तव्यम्, प्रागुक्तप्रतिपदान्वयो युक्तो न वेति । नेति पक्षे न वक्तव्यः । युक्तत्वे

तु मुख्ये तस्मन्वद्यमानेऽस्य वैयर्थ्यम् ॥ किञ्च वाक्यान्वयस्य स्वमतत्वे अन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् ॥ अपि च प्रति ज्ञासिेर्लिङ्गमाश्म

रथ्यः, उत्क्रमिष्यत एवंभावादित्यौडुलोमिः, अवस्थतेरिति काशकृत्स्नः, इति वाक्या

न्वयः त्रिप्रकारोऽभिहितः । तस्य परस्परमविरोधे मतभेदो न स्यात् । विरोधे तु कथं सूत्रकाराभिमतत्वम् ।

अथ सूत्रकारस्य अनभिमतो वाक्यान्वयः तदा (तन्नि)निराकरणसूत्रेण भाव्यम् ।

न चैतदस्त ।

तत्कथमेतदित्यत आह अन्वय इति ।

॥ ॐ समाकर्षात् ॐ ॥ ५ ॥

> अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।

> इति योकवैमुख्यं जैमिन्यादिमते वदन् ॥

> विद्याऽधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।

प्रतिपदान्वयेऽभिहिते (हि) मन्दाधिकारिणां मोक्षमार्गवैमुख्यं स्यात् । सर्वशब्दानां

ब्रह्मणि अञ्जसा = मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः, कश्छन्दसामिति श्रुतेः ।

न च तज्ज्ञानेन विना मोक्षः । न चाशक्ये प्रवृत्तिर्युक्ता, आकाशरोमन्थनादौ प्रवृत्त्य

दर्शनात् । तथा चाहुः, व्यसनानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः इति । तस्मादास्तामयं मोक्षः, शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्र(वृत्ते)वर्तेमहीति ।

एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवान् सूत्रकारः स्वयमेव जैमिन्यादिमतमेत

दिति वदन् वाक्यान्वयप्रदर्शनेन निराकृतवान् । अनेन स्वाभिमत एव वाक्यान्वयः अतो

न निराकरणसूत्राभावो दोषाय । प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव ।

तथाऽपि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति ।

तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह स्वशिष्याणामिति ।

स्वशिष्याणां प्रस््यिर्थं मतमात्मीयमंशतः ।

विज्ञातं तैर्जगादात्र

जैमिन्यादीनामिति शेषः । नात्र जैमिन्यादिग्रहणेन तदीयमेवैत(दिति विज्ञायते)न्मतमित्युच्यते । किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति । एतच्च तेषां ख्यात्यर्थम् । गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते ।

ननु (च) वाक्यान्वयस्य प्रकारत्रयं परस्परविरुं कथं सूत्रकाराभिमतं स्यादित्यत

आह तारतम्यमिति ।

> तारतम्यं नृणां वदन् ॥ ५ ॥

नृणाम् अल्पाधिकारिणाम् अवस्थातारतम्यं वदन् इत्यनेन अवस्थातारतम्यव्यवस्थया मतभेदो न विरोधेन इत्युक्तं भवति । एतेनाङ्गीकृ(त्येद्या)तेऽपीत्याद्युक्तं

विवृतं वेदितव्यम् ॥ ॥

सु ज्योतिरधिकरणे योगवृत्त्या परमेश्वरेऽखिल(पदानां) शब्दसमन्वयोऽभिहितः, नासौ युज्यते, प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः । न हि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मन् इति व्युत्पत्तिः सम्भवति । प्रकृत्यादेरन्य

परत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः । किञ्च वसन्त इत्यादीनां भगव

त्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्वति ।

॥ ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ ॐ ॥

> तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥

> प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।

> उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥

व्युत्पत्त्युपपत्तिः, कर्मानुष्ठानसम्भवो, लोकव्यवहारानुच्छेदश्चेत्येवं, प्रयोजनानां बहुत्वेन कारणेन, तेषु तेषु तत्तच्छब्दवाच्यतया (प्र)सिेष्वर्थेषु, तत्तच्छब्दानां, रूढिः इत्युपलक्षणं, वृत्तिः अङ्गीकृता यतः तस्मात् त(स्य त)स्याविरोधतः तं तमर्थमपरित्यज्य, उपदेशलिङ्गप्रकरणादिबलेन, सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते । यद्यपि अत्र एतावदेव वक्तव्यम्, नैष दोषः, सर्वशब्दानां भगवद्वाचिनामपि प्रसिार्थान्तरवाचकत्वस्यापि स्वीकारात् । ज्योतिरादिशब्दानां (हि) ज्योतिष्टोमाद्यर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः । जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातादिपदानामन्यपरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः । पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युत्पत्तिसम्भव इति; तथाऽपि स्यादेतदेवम्, यदि शब्दानामनेकार्थत्वं स्यात्, तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् । तथा हि । पदा(नाम)र्थान्तरवाचित्वं तावदुक्तप्रयोजनसियेऽङ्गीकरणीयम् । परमेश्वरवाचित्वं च (तु) सर्वशब्दानां, नामानि सर्वाणि यमाविशन्त, ता वा एताः सर्वा ऋच इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति ।

अनेन कल्पनोपदेशाच्च मध्वादिवदविरोध इति सूत्रस्य तात्पर्यमुक्तं भवति ।

यदि सर्वशब्दानामुभयार्थत्वं तर्हि विश्वस्मादिन्द्र उत्तरः, असदेवेदमग्र आसीदित्यादौ कथम्, उभयोः सर्वोत्तमत्वादेर्विरुत्वेनात्र उभयार्थत्वानुपपत्तेः । पदानामुभय•र्थ)वाचित्वेऽपि तत्र विरोधः । तत्र अन्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत्,

तत्रापि किमुपादाय(देयं) किं परित्याज्यमिति न ज्ञायत इत्यत आह तथाऽपीति ।

तथाऽप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।

यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम्, तथाऽपि परमेश्वरपरत्वविरोधे अन्यपरत्वम् अपोद्यते । तुशब्दो विशेषद्योतनार्थः । उभयपरत्वं तावद्विरुमिति परेणैवोक्तम् । अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः, निश्चिततात्पर्यवाक्यान्तरविरोधात् ।

अतः परिशेषादितरपरित्याग (एवोचित) इति ।

तर्हि कल्पनोपदेशादित्यादिविरोधः, तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न; निरपवादस्थ(ले )पर्यवसायित्वात् तस्येत्याह अविरोध इति ।

अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥

बहुशब्दोऽनेकार्थः । मताः = तत्र तत्र सूत्रेऽभिमताः ।

नन्वविरोधेऽप्युभयार्थत्वाङ्गीकारो न युक्तः, तत्तु समन्वयादित्यवधार(णविरोधा)णादित्यत उक्तम् एतन्मूलतयेति । एष परमेश्वरः, मूलं मुख्यः, येषां ते

तथोक्ताः, तेषां भावः तत्ता, तयेति इत्थम्भूतलक्षणे तृतीया । मुख्या(म)र्थान्तरं वारयितुमवधारणम्, न त्वर्थान्तरमात्रम्, उक्तप्रयोजनव्याघातादिति भावः । एतेन अन्या(य्य)यश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम्, मुख्यार्थस्यैकत्वात् ।

सु ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः । रूढियोगौ च

मुख्यवृत्ती कथ्येते । अतः अक्षादिशब्दानामिव इन्द्रादिशब्दानाम् उभयं मुख्याभिधेयं

युक्तम्, नेश्वर एवेत्यत आह इतो हीति ।

इतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि ।

सत्यमस्त पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता, तथाऽपि सा इतः परमेश्वरादेव

हि यस्मात्, यस्माच्च अत्र (प्र)योगविषयत्वे परमेश्वरस्यैव उपजीव्यत्वं, तस्मात् स एव मुख्यार्थो न पुरन्दरादयः । स्वत एव अनवधिकैश्वर्यादिमति ईश्वर एव इन्द्रादिशब्दानां योगरूढी, तत्सन्निधानात् तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु । प्रसिं

चैतत्, यद्यत्सन्निधानात् यच्छब्दप्रतिपाद्यं तदमुख्यम् अन्यन्मुख्यमिति, यथा दग्धृ

शब्दस्य अयोऽग्न्थ्श्चि । न चाक्षादिशब्दार्थानामित(रेत)रापेक्षाऽस्तीति वैषम्यमिति ।

सु नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम्, अर्थान्तरापेक्षयैव तत्र शब्द

प्रवृत्तेः । न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह तत्सरिति ।

तत्सस्तिदपेक्षा च

चशब्दोऽवधारणे । नायमस्त दोषः, यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेव अर्थान्तरापेक्षा न तु प्रवृत्तिः । न हि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं

भवति । यथाऽन्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा । नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति ।

सु इतश्च नायं दोष इत्याह साऽपेक्षा चेति ।

साऽपेक्षा च हरीच्छया ।

या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः । न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता, नापि पटुकरणो लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भव(ती)ति ।

सु यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिः तत्कमयसीव दग्धृ

शब्दस्य लोके सर्वशब्दानां लक्षणैव । तथा सति गङ्गातीरयोरविशेषप्रसङ्गः । ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति तस्मादिति ।

तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।

नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव, रूढेरभिधानादिसित्वात्, योगनिमित्तस्य च परमैश्वर्यादेः सावात्; किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरंकुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्यार्थतायामेवायं मुख्यामुख्य(योः)विभागोऽभिहित इति । तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च ।

गौणी(चे)त्यतःपरमितिशब्दोऽध्याहार्यः ।

उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥

एतदेव दर्शयन् परम(मुख्यवृत्ति)मुख्यादिवृत्तिलक्षणान्याह प्रवृत्तीत्यादिना ।

सु तत्र परममुख्यवृत्तिर्द्वेधा । महायोगो महायोगरूढिश्चेति । महारूढिस्तु

न सम्भवति, सा योगादेव लभ्यत इत्युक्तत्वात् ।

तत्र महायोगस्वरूपमाह प्रवृत्तिहेतोरिति ।

प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।

निर्वचनलभ्योऽर्थः प्रवृत्तिहेतुः तस्य बाहुल्यं निरवधिकत्वम् ।

यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम्, प्रकृतत्वात्, तथाऽप्यन्यतरमात्रेणेतरव्यावृत्ति

सिेः लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् ।

परममुख्यता इति ज्ञेयम् इति योजना ।

ननु बाहुल्यं प्रवृत्तिहेतोर्धर्मः । बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य । परममुख्यता तु शब्दधर्मः । तत्कथं सामानाधिकरण्यम् । (मैवम्) नैष दोषः, उपचरितत्वात् । निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा

ज्ञातव्येति तात्पर्यार्थः ।

महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति ।

तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥

यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्र एव चेत् प्रयोगबाहुल्यं स्यात् तदा तस्या वृत्तेः

परता परममुख्यता किमु वक्तव्येति । अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्त तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम्, कैमुत्यकथनं तु शङ्कानिरासार्थम् ।

तथा हि । किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुत अनवधिकप्रवृत्तिनिमित्तविशेषितम् । नाद्यः, रूढिमात्रत्वात् परममुख्यत्वायोगात् । न द्वितीयः, अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेष्यवैयर्थ्यात् । न च समाहारेण विधाऽन्तरं भवति, तथा सति असिबाधितसमाहारोऽपरो हेत्त्वाभासः स्यादिति ।

अत्र द्वितीय(पक्ष) एवाभ्युपगम्यते । न चोक्तदोषः, विशेषणमात्रेण परममुख्यत्वे, विशेष्यसावेन (तु) सुतरां तत्स(ःि)ेः । न ह्यस्माभिः परममुख्यतामात्रसिये विशिष्टोपादानं क्रियते, किन्तु समाहाररूपविधाऽन्तरसिये । न चातिप्रसङ्गः, वैषम्यात् । अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम्, न समाहारमात्रम् । एतदर्थं च

तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् । न चैवं महायोगस्य अत्र प्रवेशः, अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति ।

अत्र कतरा वृत्तिर्विष्णौ, येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह उभयमिति ।

उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।

उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः, सर्वशोऽपि शब्दानाम् इत्यस्यायमर्थः नारायणादिशब्दानां महा(रूढियोगः)योगरूढिः, तदितरेषां महायोग इति ॥ अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति । उभयं प्रवृत्तिहेतोर्बाहुल्यं प्रयोगबाहुल्यं च ॥

यद्वा । प्रमितान्वाख्यानं परीक्षकधर्मो न तु स्वेच्छयाऽर्थकल्पनम् । न चैते वृत्ती क्वचि

त्प्रमिते । अतो न निरूपणीये इत्यत्रेदमुदितम् । प्रमाणानि तु वक्ष्यन्ते ।

ननु योगो योगरूढि(श्चेति)श्चैते किं न स्याताम् । किमेवं भेदकाभावादा(दित्यं)

शङ्क्यते अथवा तद्विवक्षाकारणाभावात् । नाद्यः, तस्योक्तत्वात् । न द्वितीयः, यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति ।

सु मुख्यवृत्तिरपि त्रेधा भवति, योगो रूढिर्योगरूढिश्चेति । तत्र प्रवृत्ति

निमित्तापेक्षा वृत्तिर्योगः, यथा कुम्भकारः, औपगवो, राजपुरुष इति ।

न्यायसुधा

सु ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्ततिसमासकरणं तु व्युत्पत्तिमात्रा(र्थे)र्थम् । यथोक्तम्, वृक्षादिवदमी रूढा इ(ति)त्यादि, मैवम्, शब्दार्थविभागस्यावापोाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति

मत्वा रूढेः स्वरूपमाह प्रयोगेति ।

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥

यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते । मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् । तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः । बाहुल्यमिति स्वरूपकथनम् ।

सु सर्वेऽपि यौगिकाः, नास्त रूढ इति शाकटायनः । तदसत्, घटपटादि

शब्दानां बहुलमुपलम्भात् । तेऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न, अर्थानुगमा

दर्शनात्, अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति ।

प्रवृत्तिनिमित्तापेक्षा यत्र बहुलप्रयोगः तत्र योगरूढिः, यथा पङ्कजादिशब्दानां तामरसादाविति प्रसित्वान्नोक्तम् ।

सु विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् । तथा हि । अवयववृत्ति

र्योगः, रूढिस्त्वखण्डवृत्तिः । न ह्येतयोरेकत्र समावेशो युज्यते । न च योगरूढ्यङ्गीकारे

किमपि प्रयोजनमस्त, पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति ॥ तदयुक्तम् ।

न हि योगरूढ्योः समाहारो योगरूढिरिति ब्रूमः, येन विरोधः स्यात् । किं नाम यथा

रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात् (प्रायेण प्राचुर्येण) प्रयोगप्राचुर्येण

भिद्यते, तथा प्रवृत्तिनिमित्तापे(क्ष)क्षित्वाद्रूढिमात्रात् प्रयोगबाहुल्येन योगमात्राच्च भिन्ना

तृतीयेयं वृत्तिरिति ।

(किञ्च) पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः ।

नाद्यः, अवयवार्थप्रतीतिविरोधात्, सप्तम्यां जनेर्ड इत्य•द्य)नुशासनविरोधाच्च, अनेनैव

न्यायेन यौगिकाभावप्रसङ्गाच्च । न द्वितीयः, भेकादिष्वपि प्रयोगप्रसङ्गात् । गवादिशब्दा

नामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्येऽपि प्रस््यिप्रसिी, इति चेन्न वैषम्यात् ।

गवादिशब्दाना(नां वाऽने)(नां सम्प्रतिपन्नवृत्त्याऽने)मनेकार्थत्वे शास्त्रतो निश्चिते

हि प्रस््यिादेः कारणान्तरं मार्गणीयम् । न चैवमेषां शब्दानामनेकत्र शक्तिरवधृता ।

किञ्च शमिधातोः संज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तसूचकयोरित्यादिना अवयवार्थव्यतिरेकेण उपाधीनपि वदता शास्त्रकारेणाङ्गीकृतै(वे)षा वृत्तिरित्यलम् ।

सु एवमव्यवहितामभिधावाचकत्वादिशब्द(पद)वेद्यां मुख्यवृत्तिं निरूप्येदानीं (व्यवहितां) गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति प्रयोगेति ।

प्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः ।

वृत्तिहेतुरिति ज्ञेयः

सम्बन्धः प्रयोगयुक्तेन । वाशब्दो व्यवस्थतविभाषायाम् । अपिशब्दो मुख्यवृत्तिलक्षणेन अमुख्यवृत्तिलक्षणस्य समुच्चयार्थः । अमुख्यत इति समासे गुण(णी)भूताया अपि वृत्तेब््यर्ाु पृथक्कृताया विशेषणम् । अमुख्याया गौण्या लक्षणायाश्च वृत्तेर्हेतुरिति ज्ञेय

इत्यर्थः । यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं, तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी; तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति ।

कश्चिदाह; गौणी नाम वृत्तिर्नास्त, सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति; त(न्मतमपा)न्निराकर्तुं पश्चादुद्दिष्टापि गौणी प्रथमं लक्षिता । स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् ।

यदि खलु कश्चिद् ब्रूयात्, लक्षणा नाम नास्त सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यामन्तर्भूतत्वादिति; तदा किं वक्तव्यम् । नैवं लौकिक प्रतीतिरिति

चेत्, तत्कं सादृश्यं सम्बन्धत्वेन प्रतियन्त लौकिकाः ।

तत्र गौणी द्विविधा, रूढारूढभेदात् । तत्राद्या यथा, मृद्गवकादौ गवादि

शब्दस्य । द्वितीया यथा गौर्वाहीक इति ।

अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके

वृत्तौ निमित्ततामुपयन्तीति केचित् । तदसत्, गौण्या लक्षणातो भेदाभावप्रसङ्गात्,

गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् ।

स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे । तदप्य(युक्तम्)

सत्, गुणानां भेदस्य साधयिष्यमाणत्वात्, वाहीके वृत्तौ निमित्ताभावाच्च ।

तस्मात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् ।

लक्षणाऽपि द्वेधा, रूढारूढभेदात् । तत्राद्या यथा, राजाऽयं गच्छतीति ।

द्वितीया यथा, गङ्गायां घोष इति ॥

केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः, तेषां मञ्चाः क्रोशन्तीत्यादौ

लक्षणा न स्यात्, स्याच्च शब्दात्प्रतीतेन लिङ्गेनानुमितार्थस्य । अथाविनाभावोऽत्र सम्बन्धमात्रम्, तथाऽपि लक्षितलक्षणायामव्याप्तिः; न हि तत्राभिधेयसम्बन्धनी वृत्तिः,

किन्तु लक्षितसम्बन्धनी; यथा प्राग्वरुा इदानीं परस्परमेकभूता इति । परम्परया

अयमर्थः अभिधेयसम्बन्धीति चेत्, तर्हि किमनया क्लिष्टकल्पनया; प्रयोगयुक्तसम्बन्ध

इति यथोक्तमेवास्तु ।

सु व्यञ्जनं नामापरा वृत्तिरस्तीति चे(त्)न्न, अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् । यथोक्तम्, वचनलिङ्गानुमा हि सेति ।

सु तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति ।

सु ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्ततेे । मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा । यथोक्तम् मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रियेति । तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति ।

न मुख्यानुपपत्तिः अमुख्यवृत्तेः कारणम्, प्रयोगोत्तरकालीनत्वात् अनुपपत्तिदर्शनस्य, किन्तु मुख्यार्थानुपपत्तिदर्शनम् अमुख्यार्थग्रहणस्य हेतुः । अत एव हि

न शब्देन अपेक्ष्यते, नापि प्रयोक्त्रा, किन्तु प्रतिपत्त्रैव । शब्दो हि व्युत्पत्तिवशान्मुख्य

मेवार्थं प्रथमं बाुवारोहयति, न च प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत; इति तदर्थमेवानुपपत्तिमपेक्षते । अतो न वृत्तिकारणचिन्तायामियं वाच्या ।

प्रयोजनमपि न वृत्तिहेतुः, किन्तु सति मुख्येऽस्मदायत्ते शब्दप्रयोगे (ऽ)कस्मा

दमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते । अतोऽत्र न वक्तव्यमिति ।

अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् । (यथा) अयोगः सार्वत्रिको न तथा

प्रयोजनं, रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय

न स्वशब्देनोपात्तम्, निर्दलत्वात् ।

मुख्यायोगेऽमुख्यग्रह इति वक्तव्ये पूर्वायोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् । न हि लक्षितलक्षणा मुख्यासम्भवमात्रेण आश्रीयते, किन्तु लक्षितस्य

अपि । अत एवैतदयुक्तं मुख्यार्थबाध इति ।

किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्त तथाऽमुख्यवृत्तिष्वपि ।

कुत इति चेत्, अर्थप्रतीतिसन्निकर्षविप्रकर्षाभ्यामिति ब्रूमः ।

५सु ननु च सादृश्यसम्बन्धयोस्ततिमुत्पाद्य तस्यापि लुपि कृते सर्वं

सेत्स्यति, किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् । यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाऽभिधैव स्यात् तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः

पूर्वं प्रतीतिः तदयोगे च अनुसंहितेऽर्थान्तरे प्रतीतिरिति न स्यात् । न हि हरीतक्यादिशब्दो

च्चारणे सत्ययं प्रतीतिक्रमोऽस्त, किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेन अन्य(त्र)तरनियन्त्रणं क्रियते । अस्त चायं पूर्वायोगे परग्रहः, तेन जानीमो नोभयत्रोक्तविधयाभिधेति ।

सु नन्वत्र अनुपपत्तेरर्थप्रतीतिहेतुत्वेऽर्थापत्तिरेवास्तु, किं शब्दशक्तिसमा

श्रयणेन । तथा हि । किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते, अन्यथा वा । नान्यथा, उन्मत्तवाक्यादौ तदभावात् । आद्ये त्वर्थापत्तिरेव, वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेन अर्थान्तरस्य कल्प्यमानत्वात् । स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत, तस्य पदस्य तत्र शक्तयभावेऽसम्बभाषिणि तस्मन्नाप्तत्वमेव कथं निश्चीयेतेति । तदर्थमवश्यं (शब्द)शक्तिराश्रयणीयेति सर्वमवदातम् ॥

एतेनैतदपि परिहृतम् । यदभिहितं पूर्वपक्षिणा, योगस्य रूढितो दुर्बलत्वेन

न परमेश्वरस्य मुख्यार्थत्वमिति, महायोगस्य अविद्वद्रूढिमात्रात् प्राबल्योपपत्तेः, विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति ।

न्यायसुधा

यदुक्तम् उभयं दृश्यते विष्णौ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति ।

एतमेव तथा सन्तं शतर्चीत्यादिका श्रुतिः (नामभिः) ।

आचक्षत इति ह्यत्र सन्तमित्यवधारणात् ॥

योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।

बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥

तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव

सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत

एतमेव सन्तम् इत्यादिका श्रुति ः । सनिरुक्तिकं योगवृत्तिसाहित्येन । तत्रगां परमेश्वरविषयाम् । शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति , आचक्षत इत्युक्तत्वात् । यच्चात्र बहुशः अतिबहुवारं दर्शयति , तेन ज्ञायते अञ्जः तात्पर्यादेव न तु प्रासङ्गिकत्वेनेति ।

किञ्चात्र सन्तमिति वचनात् एतमेवेत्यवधारणाच्च लौकिकरूढितो भगव

द्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः, एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तम्

उक्तेन योगेन शतर्च्यादिशब्दवाच्यम् आचक्षते विद्वांसः, मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्य अर्थस्य पदद्वयसामर्थ्येन प्रतीतेः । सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थता उच्यते, तदुपपादनार्थम् आचक्षत इति

निर्वचनं च सम्बध्यते । अवधारणेन त्वन्यस्य तच्छब्द(मुख्य•र्थत्वं प्रतिष््यिते; न च

सर्वथा प्रतिषेधो युक्तः, प्रागुक्तप्रयोजनव्याघातात्; ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते । रूढार्थेभ्यो यौगिकार्थस्याधिक्येऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिम् ।

अवधारणेति क्वचित्पाठः । अत्र सन्तमिति पदं अवधारणा चेति (पद)द्वयं दर्शयतीति योजना ।

हि यस्मादेवं तस्मादुक्तं युक्तमिति ।

वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति अ इतीति ।

अ इति ब्रह्म कथितं तद्व्याख्यानात्मता तथा ॥

शब्दानामपि सर्वेषां

अ इति ब्रह्म इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम्, अन्यथा इतिकरणवैयर्थ्यात् । अकारो वै सर्वा वाक् इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता

च कथिता, साक्षादैक्यस्य प्रत्यक्षादिविरुत्वेन लक्षणाश्रयणस्यावश्यकत्वात् । न च व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता । तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभि

धेयत्वं ब्रह्मणः प्रतीयते ।

किञ्च यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयोऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ. उ.) वाचः वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरम् अर्थतः कठिनं (च), यच्च उल्बणिष्णु शब्दत कठिनम्, उपलक्षणमेतत्, यावद्वैदिकं पदजातं; तत्सर्वं, वियूय विचार्य, कवयो विवेकिनः, (नामा

यत्ता) नामायत्तानि नामप्रकाश्यतया नामाधीनानि त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः; तस्मंश्च वेदने अधिश्रुते परिपक्वे सति, अ(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्; इति, नाममात्रविदः कृतकृत्यता तावत्कथिता ॥ तमेवं विद्वान्

इति परमेश्वरज्ञानादेव मोक्षः श्रूयते ॥ तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि

नामानि परमेश्वरार्थानीति गम्यत इत्याह नामेति ।

नामवित्कृतकृत्यता ॥

अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ

(रूप)त्वं तत्प्रतिपादकत्वम् अब्रवीत् वेदः, तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह विष्णुनामेति ।

विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।

क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति णकारं चेति ।

णकारं च षकारं च बलचेष्टात्मकं वदन् ॥

तज्ज्ञानपूर्वकत्वेन संहिताऽध्ययनं तथा ।

णकारो बलं षकारः प्राण आत्मा इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्टाप्रतिपादकौ वदन् वेदोऽनन्तरं स यो ह एतौ णकारषकारावनुसंहितम् ऋचो वेदेति ऋचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो योऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्संहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः ।

नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते, न तु विष्णुनामार्थत्वम्;

न हि णकारषकारावेव विष्णुनामेत्यत आह उपसर्गत्वत इति ।

उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥

णकारश्च षकारश्च नामरूपतया मतौ ।

सत्यं सन्त विष्णुनाम्नयन्येऽपि वर्णाः, तथाऽपि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात् उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात्

णकारश्च षकारश्च द्वावेव नामस्वरूपतयाऽभिमतावित्यदोषः । ननु उपसर्गाः क्रियायोगे,

न चात्र क्रियायोगोऽस्त, तत्कथमुपसर्गत्वम् । मैवम्, षोऽन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात्, अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः ।

उदाहृतानां श्रुतीनां प्रयोजनमाह तस्मादिति ।

तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥

अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ॥

यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावेताभिः श्रुतिभिः सिावित्यर्थः ।

वार उक्तधातुजत्वाङ्गीकारे षोणु इत्येवं धात्वन्तरस्यौकारस्योकारस्य च श्रवणापत्तिः उन्

प्रत्यये च विषोणवुरिति रूपापत्तिरित्यतो मूलाभिप्रायमाह निर्वचनत्वादिति । तथाप्यन्तकर्माद्यर्थप्राप्त्या

चेष्टाबलार्थकत्वकथनायोग इत्यत आह अनेहार्थत्वादिति । धात्वधिकारविहितत्वादिति । .......... इत्यादाविति शेषः ।

सु उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः, इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति घोषा इति ।

घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥

इन्द्रं मित्रं यमिन्द्रं च प्रथमं(मः) संकृतिस्तथा ।

नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥

प्रमाणमुक्तविषये

ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एव,

सर्वे वेदा यत्पदमामनन्त, इन्द्रं मित्रं वरुणमग्न्थ्मिाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।

एकं सद्विप्रा बहुधा वदन्त्यग्न्थ्ंि यमं मातरिश्वानमाहुः, यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्र

माहुर्यमु सत्यमाहुः, स प्रथमसं(स्)कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोऽग्न्थ्ःि ।

यो देवानां नामधा एक एव इत्येतानि वाक्यानि एतैः प्रतीकैः उपात्तानि । आदिपदेन

नामानि सर्वाणि इत्यादेर्ग्रहणम् ।

अत्राद्यद्वितीयान्तमश्रुतयः समन्वयद्वये प्रमाणम्, अन्यास्तु वाक्यान्वये । इन्द्रादि

नाम्नां परमेश्वरपरत्वे सति इन्द्रस्य नु वीर्याणि प्रवोचम् इत्यादिवाक्यानां तत्परत्वं हि

स््यिति ।

नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितोऽयमर्थः कस्मादुक्त इत्यत आह तदेवेति ।

तदेवोक्तमुपक्रमात् ।

इति स्वयं भगवता ब्रुवताऽशेषमन्वयम् ॥

तदेतत् भगवता सूत्रकारेण स्वयमुक्तमेव, नोत्सूत्रितं, कथ्यते । तथा च सूत्रम्, ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके इति ।

अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यत् उपक्रमात् इत्याह, तेन ज्योतिरुपक्रमा इति परेषामपपाठ एवेति सूचयति ।

अथवाऽत्र ज्योतिर्मात्रग्रहणात् कथं सर्वशब्दप्रतिपादनम् । ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः । कथमुपलक्षणाभिप्रायोऽवगम्यत इत्यत उक्तं उपक्रमादिति

ब्रुवतेति ।

अत्र हि ज्योतिः इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एके इति हेतुरुच्यते ।

तस्य चायमर्थः । एष इमं लोकमभ्यार्चत् इति उपक्रमात् उपक्रमं विधाय ता वा एता

इत्यादि अधीयत एक इति । तथा च यदि ज्योतिश्शब्दमात्रसमन्वयोऽत्र विवक्षितः स्यात्

तदा तन्मात्रोपपादकं किमपि वक्तव्यम्, सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते,

न हि विशेषविषयं प्रमाणं नास्त येन सामान्यद्वारा साधनं विधेयम्; अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिश्शब्दो लाक्षणिको विवक्षित इति ज्ञायते ।

किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्द

समन्वय इत्युपपादितम्, तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् । तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः, अस्मंश्च पादे विरोध्यादिशब्दसमन्वयः । तथा च कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्टमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति ।

अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम्, तथाऽपि योऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनाऽन्वयो(न्यायो)ऽभिहितः स न सूत्रित इत्यतो वोक्तम् उपक्रमादिति ।

एष इमं लोकमभ्यार्चत् इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता

सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम्, उपक्रमे सर्वस्यास्य दर्शनात् । यथा चैतत्तथा

एतमेव इत्यादिनोक्तमिति ॥ ॥

न्यायसुधा

एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां

व्याख्यानं प्रत्याख्याति । तथा हि केचित् एतत्पादप्रमेयमन्यथा वर्णयन्त, यदुक्तं

प्रधानस्य अशाब्दत्वम् ईक्षतेर्नाशब्दमिति, तदसिम्, कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति, तदेतद्यावन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)

स्थैर्यं भवति, अतः प्रधानस्य अशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति । तत्तावन्निराचष्टे न शब्दवाच्यतैवेति ।

न शब्दवाच्यतैवात्र प्रधानस्य निष््यिते ।

अत्रैव प्रथमेऽध्याये, प्रधानस्य शब्दवाच्यता निष््यित इति नोपपद्यते, तथा

सति समन्वयलक्षणेऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः ।

ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्य अशाब्दत्वमत्रोपपाद्यत इति; तथा च कथमसङ्गतिरिति । मैवम् । तथा सति अविरोधलक्षणे अन्तर्भावप्रसङ्गात् । अन्यथा द्वितीया(ध्याया)र्थोऽपि समन्वयस्थैर्यायैवेति सोऽप्यत्र वक्तव्यः स्यात् ।

केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते, विशेषाभावात् ।

किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते, शब्दवाच्यतैव वा ।

नाद्यः, अत्रोदाहृतवाक्येषु महतः परमव्यक्तम्, यस्मन्पञ्चपञ्चजनाः इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् । कश्चिदाह, महतः परमव्यक्तम् इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति । तदयुक्तम् । किं कालविप्रकर्ष एव कारण

त्वम्, उत तेनानुमेयम्, अथ सम्भाव्यम् । न प्रथमद्वितीयौ, कार्यकारणभावविकलयोरपि परापरभावदर्शनात् । न तृतीयः, सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वा

योगात् । अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत्, तत्कं ब्रह्मपरं करिष्यते, तेजोऽबन्नविषयं हि त््याख्यातं भवता; तथा च लौकिकमाभाणकं नातिवर्तते

व्याघ्रेणोरणे नीते का हानिः वृके(णोरणे)नीते को लाभः इति ।

द्वितीये त्वदमुपतिष्ठते न शब्दवाच्यतैवात्र प्रधानस्य निष््यिते, प्रकृतानुप

योगादिति । शाब्दत्वे हि प्रधानस्य स्वरूपमात्रं स््यिति, न च स्वरूपसिमिात्रेण काचिक्षणक्षतिः । न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः, नापि प्रधानं

निष््यि ब्रह्म तत्र निवेशितम्, येनास्मदीयदिशाऽप्युपयोगः स्यात् । तदिदमुक्तम् । ब्रह्म

निवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निष््यित इति न युक्तमिति ।

किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या, त्रिपादीं अतिक्रम्य अत्र निष््यित इति (न युज्यते), व्यवधान(ने) कारणानिरूपणादिति ।

किञ्च पादप्रतिपाद्योऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः ।

न च अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निष््यित इति

नियमोऽस्त, येनायमेतत्पादार्थः स्यात्, कारणत्वेनेत्यादौ तदभावात् । तत्रापि परम्परया

तदेव साध्यमिति चेत्, तर्हि पारम्पर्यस्यातीतपादार्थेऽपि सुवचत्वात् अत्रैव प्रधानस्य शब्दवाच्यता निष््यित इति नास्त, स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति ।

एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति

न शब्दवाच्यतैवेति । आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम्, आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते । काठके हि पठ्यते, महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति । तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिास्त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते । एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत्, नैतदेवम्, न ह्येतत्काठकवाक्यं प्रधानपरमिति ।

अत्र पृच्छामः । किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निष््यिते किंवा कुत्रापि केनापि शब्देन नोच्यत इति ।

आद्यस्योत्तरम्, अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निष््यित

इति नोपपन्नम्, तन्मात्रेणाशब्दत्वासिेः ।

द्वितीयेऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निष््यिते । आद्ये, तन्मात्रमनुमतमेव । सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निष््यित इति द्वितीयस्तु

नोपपद्यते । कुत इत्यत आह सर्वेति ।

सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥

सङ्ग्रहात् प्रधानस्येति शेषः । वेदे तावदाथर्वणिकाः पठन्त विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः इत्यादि । इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये ।

ननूक्तमत्र न ह्यत्र स्मृतिप्रसिं कारणं त्रिगुणं प्रधानमुच्यते, तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकं इतिहासवाक्यं पठति सत्त्वमिति ।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्त महाबाहो देहे देहिनमव्ययम् ॥

इत्यादिवाक्यरूपेण

आदिपदेन भूमिरापोऽनलो वायुः इत्यादेर्ग्रहणम् । इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः ।

किञ्च अव्यक्तात्पुरुषः परः इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि

तद्वाच्यं वाच्यम् ।

नन्वत्र सूत्रकृतैवोक्तं शरीररूपकविन्यस्तगृहीतेः इति, आत्मानं रथिनं वि िशरीरं रथमेव च इति प्राग्यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते; प्रकरणात् परिशेषाच्चेति ।

नैवं सूत्रकृदाह । तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत । अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः, इदं तु वक्तव्यम्, कथमव्यक्तशब्देन शरीरमुच्यत इति ।

न ह्येषा रूढिः, नापि योगः सम्भवति, शरीरस्य व्यक्तत्वात् ।

ननु परिहृतमेतत्सूत्रकारेण(कृता) सूक्ष्मं तु तदर्हत्वात् इति । यद्यपीदं शरीरं

व्यक्तम्, तथाऽप्यस्य यन्मूलमुपादानकारणं तेजोऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम्, अनादेस्तस्य सूक्ष्मस्याव्यक्तताऽर्हत्वात् । कार्यकारणशब्दाश्च सङ्कीर्यन्ते, गोभिः श्रीणीत मत्सरम् इति यथेति ।

अत्र वक्तव्यम् । किमनेनोक्तं भवतीति । किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलोपादानस्य तेजोऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति; किंवा भूतसूक्ष्ममेव अव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति ।

पक्षद्वयेऽपि दोषमाह यत्रेति ।

यत्रार्थो नान्य इष्यते ।

तेजोऽबन्नात्मकं वाऽपि यद्युपादानमिष्यते ॥

अनाद्ये वाऽपराधः कः प्रधानमिति चोदिते ।

यत्र वाक्ये, यदि अव्यक्तशब्दस्य अन्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजोऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्मम् एव इष्यते । प्रथमे स्वरूपेण (एव) । द्वितीयेऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत् प्रधानमिति चोदिते को दोषोऽस्त, येन नेति प्रतिषिध्यते ।

अयमभिसन्धः । सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति; परेण तु प्रधानवाचकमिति । यदि वा

अव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति, शरीराङ्गी

कारेण प्रधाननिरासो व्यर्थः । कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुत्वात् किमनेन अन्यतरपरिग्रहेण अन्यतरनिराकरणाग्रहेण विफलत्वात् असङ्गतत्वाच्चेति । अथवाऽनादेरुपादानस्य जडस्य भूतसूक्ष्म(शब्द•भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तक्षण

त्वात् प्रधानस्य; नामि्न विवादायोगादिति अभिप्रायः ।

नन्वदमाशङ्क्य सूत्रकारेणैव परिहृतं तदधीनत्वादर्थवदिति । स्यादेतदेवम् । यदि वयं स्वतन्त्रं तेजोऽबन्नात्मकं कारणम् (इति) अभ्युपगच्छामः । नैतदस्त । तस्य ब्रह्माधीनताङ्गीकारात् । अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् । अर्थव ितत् । न हि तेन विना

ब्रह्मणो जगत्कारणत्वं निर्वहतीति ।

अत्रोच्यते । किमनेनोक्तं भवति । अस्त प्रधानमिति सम्प्रतिपन्नम् । तर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति । एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्ख्येन चोदनीयम्,

त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम्, किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरास

प्रयासेन । न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते, प्रत्युत अव्यक्तात्पुरुषः पर इति अव्यक्तस्य पुरुषाधीनत्वं प्रतीयते । तदिदमप्युक्तं प्रधानमत्रोच्यत इत्येवोक्तेऽपराधः कः ।

किन्तु स्वतन्त्रमित्युदिते । न चैवमत्रोच्यते इति ।

चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्य अशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते । तथा हि । अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां

जनयन्तीं सरूपाम्) । बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते

जहात्येनां भुक्तभोगामजोऽन्यः इत्यस्मन्मन्त्रे प्रधानस्य प्रतिपादनात् कथं तदशब्दमिति । अत्रोच्यते । यथा हि अर्वाग्बलश्चमसः इत्यस्मन्मन्त्रे स्वातन्त्र्येण अयं नामासौ चमसः

इति न शक्यते निरूपयितुम्, विशेषाभावात्, ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात्; तथा अजामेकाम् इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति ।

तदिदमनुपपन्नम् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सिताऽसिता च

रक्ता च सर्वकामदुघा विभोः इत्यादिश्रुतिसमाख्यया निर्णयोपपत्तेः ।

ननु न मन्त्रस्य निर्विषयत्वमापद्यते, यतस्सूत्रकृदेवाह ज्योतिरुपक्रमेति ।

अत्र मन्त्रे प्रतिपादिताऽजा ज्योतिरुपक्रमा तेजोऽबन्नरूपा । कुतः । यदग्न्थ्े(र्लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इति लोहितादिरूपवत्तया तेजोऽबन्ना

न्यधीयते ह्येके । तत्समाख्ययाऽत्र•पि) तेजोऽबन्नात्मैवाजा प्रतिपत्तव्या । तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं, जडत्वेन भोग्यत्वं च उपपन्नमिति ।

न्यायसुधा

अत्र दूषणमाह अजामिति ।

अजामेकामिति प्राह श्रुतिरेतां यदा तदा ॥

को दोषः सर्वथैवास्त परिणामि जडं यदि ।

यदि अत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते, तर्हि अजामेकामिति श्रुति रेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषोऽस्त न कोऽपीति ।

ननु कथं नास्त, ईक्षतेर्नाशब्दमित्युक्ताशब्दताऽसिेर्विद्यमानत्वादिति चेत् (न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम् सर्वथेति ।

अपरिहार्य इत्यर्थः ।

इदमत्राकूतम्, जगत्कारणत्वेन खल्वत्राऽजा प्रतीयते । सा ब्रह्मवादिना ब्रह्मतया समर्थनीया । तेजोऽबन्नात्म(क)तया तु समर्थने प्रधानरूपाऽपि कुतो नाङ्गीकरणीया । लक्षणातिव्याप्तेस्तुल्यत्वादिति ।

तेजोऽबन्नान्यपि परमेश्वराधीनानि, अतो तत्रातिव्याप्तिरिति चेत् न; एवं तर्हि

किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन, किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव यो योनिमधि

तिष्ठत्येकः इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् ।

किञ्च तेजोऽबन्नादिषु न तावदजाशब्दो रूढः, नापि यौगिकः, तत्तेजोऽसृजतेत्यादिश्रुतेरजननासम्भवात् । न च स्त्रीलिङ्गत्वमुपपद्यते नाप्येकवचनम्, त्रिवृत्करणादिति चेन्न । बहुत्वानिवृत्तेः ।

अथ मन्येत तेजोऽबन्नोपादानं जडमनादिद्रव्यं किमप्येकमस्त, तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति, तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात्; अस्त्वति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराम्, तक्षणत्वात्

प्रकृतेः, नाममात्रे विवादायोगाच्च । तदिदमुक्तमजामेकामिति ।

५सु नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति । यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजोऽबन्नानामजादिकल्पनोपदेशादविरोध इति । एतदयुक्तम् । कल्पनायाः प्रयोजनाभावात्, न हीदं पामर(जन)मनोरञ्जनार्थं काव्यम् ।

अत एव दृष्टान्तोऽपि निरस्तः ।

कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे, ज्योति ः ब्रह्म, तत् उपक्रमा तत्कारणैवेयमजा, न स्वतन्त्रेति । तस्य प्रथमसूत्रं व्यर्थम्, अनेनैव चरितार्थत्वात् ॥

किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम्, प्रतिपादनीयं च साङ्ख्यपरीक्षायामपि ॥ अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं तत्तु सम

न्वयात् इत्यवधारणानुपपत्तेरिति चेत् न, तेजोऽबन्नपरत्वेऽपि तदनिस्तारात् ।

न्यायसुधा

अस्तु परस्यैवम्, भवतां तु कथं न दोष इत्यत आह अस्माकमिति ।

अस्माकं परमुख्यार्थो भगवानेक एव तु ॥

मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।

सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥

अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति । अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिं,

तदपि सर्वं तन्मुख्यार्थमात्रतया अभ्युपगम्यते । मुख्यायोगे गौणाद्यपि । एवं च अजादि

शब्दाः परममुख्यया वृत्त्या परब्रह्मपरा, मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे काऽनुपपत्तिरिति ।

ननु एवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते । वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् । न चोक्तप्रयोजनानुपपत्तिः, अमुख्यया

वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न, सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह अर्थद्वयमिति ।

अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।

तदेव पठति कार्याणामिति ।

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥

योगानां परमां सिं परमं ते पदं विदुः ।

इति

वचसां वैदिकानाम् उत्तमं वाच्यम् । तदपेक्षयाऽन्यान्यमुख्यवाच्यानि ॥ कुत एतत् ।

योगानां योगवृत्तीनां परमां सिमि् । स््यिन्त्यस्मन्निति सिः । इन्द्रादयस्त्वपरम

सियः ॥ एतदपि कुतः । कार्याणां महदादीनां पूर्वं मुख्यं कारणम् । प्रकृत्यादीनि त्वमुख्यकारणानि । पदं स्वरूपम् । तस्मात् परमं विदुः ।

यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेण बलवती, तथापि विशेषज्ञानहेतुत्वा

द्योग एव बलीयानिति मत्वा स एव गृहीतः ।

तत्र साक्षादर्थद्वयस्यानुक्तत्वेऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसावोऽवगम्यते । अत एव प्राक् अभिप्रेत्य इत्युक्तम् ।

वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह बाुविति ।

बौु समारोहादुभयोर्योगरूढयोः ॥

त्यागे च कारणाभावादुभयार्थत्वमिष्यते ।

योग इति योगवृत्तिविषयः परमेश्वरः । रूढः प्रसिः प्रकृत्यादिः ।

अयमर्थः । अस्त तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बाुवारोहः । धियां च (तु) स्वत एव प्रामाण्यम्, अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे । न चात्रार्थद्वयाभ्युपगमे बाधकमस्त, येन बाुवारूढमपि त्यज्येत, अतो निरपवादप्रतीतिबलात् सर्वेषामपि शब्दानाम् उभयार्थत्वम् एष्टव्यमिति ।

एतदेव विवृणोति विपरीतेति ।

विपरीतप्रमाऽभावे पूर्वारोहस्तु कारणम् ॥

सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।

कारणं स्वीकारस्येति शेषः । सा विपरीतप्रमा । स स्वीकारकारणत्वेनोक्तोऽपि

पूर्वारोहः, व्यर्थः स्वीकारकारणं न भवति ॥ भ्रमो यथेति । प्रसिशुक्तिरजतादिविपर्ययो यथेत्यर्थः ।

यद्वा । अजादिपदानि द्व्यर्थानि, बाधकविधुरायां बौु तथारूढत्वादिति प्रतिज्ञा

हेतू कथितौ । अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे ॥ तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय

इति दृष्टान्तोक्तिरपि द्रष्टव्या ।

नन्वत्राजायाः कारणत्वमुच्यते, तच्च ब्रह्मलक्षणत्वेनोक्तम्, इत्यतो

बाधकाद् बाुवारूढमपि प्रधानं त्याज्यमिति चेन्न; निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन, जगदुपादानत्वस्य प्रधानेऽपि सत्त्वादस्य तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति अत इति ।

अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥

सा श्रुति अजामेकामित्यादिका ॥ , ॥

सु न सङ्ख्योपसङ्ग्रहात् इत्येतदपि प्रधानस्याशाब्दत्वप्रतिपादनार्थतया

व्याचक्षते (शां.भा.) । तथा हि । यस्मन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः । तमेव

मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् इत्यस्मन्मन्त्रे पञ्चपञ्चजना इति पञ्चसङ्ख्या

विषयापरा पञ्चसङ्ख्या श्रूयते, पञ्चशब्दद्वयदर्शनात् । त एते पञ्चपञ्चकाः पञ्चविंशतिः

सम्पद्यते । तथा च श्रुतिप्रसिया पञ्चविंशतिसङ्ख्यया तेषां स्मृतिप्रसिानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनां इत्यत्रोच्यते ।

न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्या । कस्मात् ।

नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्त, येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन् । न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्ख्या निविशन्ते ।

अतिरेकाच्च । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्ख्यायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्यापि पृथगुक्तिविरोधः ।

तस्मान्न प्रधानादीनां शाब्दत्वम् इति ।

अत्र वक्तव्यम् किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाऽप्रामाणिकत्यभिप्रायः, उत एतद्वाक्यं तत्परं न भवतीति । पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति ।

यत्तत्त्रगुणमव्यक्तं नित्यं सदसदात्मकम् ।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥

सदसदात्मकं कार्यकारणात्मकम् । अविशेषत्वादकार्यत्वात् प्रधानं विशेषवत्त्वात् कार्यत्वात् प्रकृति ं प्राहुः ।

न्यायसुधा

विशेषवदित्यस्य विवरणम् पञ्चभिरिति ।

पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।

एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥

इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।

पञ्चभिः महाभूतैः, पञ्चभिः तन्मात्राभिः, चतुर्भिः महदहङ्कारमनोबुभिः, दशभिः इन्द्रयैश्च, ब्रह्म पूरितम्, एतच्चतुर्विंशति कं गणं, प्रधानकार्यं, विदुः इति सूत्रकृतैव

ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः ॥

अनुवादोऽयमिति चेत् । किं प्रमितस्योत कल्पतस्य । आद्ये तत्प्रमाणैरेव सिस्तित्त्वानाम् । न द्वितीयः वैयर्थ्यात् । दूषणार्थमिति चेन्न तदभावात्, न हि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति ।

न द्वितीयः विरोधाभावात् ।

सु यदुक्तं नानाभावादिति, तदसत्, सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्तयनुपपत्तिप्रसङ्गात् । अथ तत्र भूतत्वादीनि सङ्ग्राहकाणि सन्त इति चेत्, तर्हि

तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रयत्वकर्मेन्द्रयत्वतदितरत्वानि (च) श्रुतावपि सन्तीति

समानम् । न चायमस्त नियमोऽन्तराले सङ्ग्राहकेण विना न सङ्ख्यानिवेशोऽस्तीति ।

पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः, व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च च इत्यादौ

व्यभिचारात् ।

यदपि अतिरेकाच्च इति, तदप्यसत्, पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् । आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः ।

सु किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिये साङ्ख्येन स्वशास्त्रे गृहीतत्वाद्वा

शङ्कितं, सम्भावितत्वाद्वा । न द्वावपि सम्भवतः, पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् ।

पञ्चजना इत्यस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बध्यते, विशेषणस्योपसर्जनेन सम्बन्धायोगात् । नापि जनशब्देन, पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् ।

असमासत्वेऽपि न तावत्पञ्चशब्देन सम्बन्धः, एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः । नापि जनशब्देन, निराकाङ्क्षत्वात् । कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः ।

ननु पञ्चजना इति समाहारद्विगुः । तस्य पञ्चेति विशेषणे पञ्चविंशतिः

सम्पद्यते । यथा पञ्चपञ्च(फ)पूल्यं इत्युक्ते पञ्चविंशति पूल्यो लभ्यन्त इति । मैवम् । तथा

सति पुङ्गिानुपपत्तेरित्यलम् ॥ ॥

कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् ॥

५सु प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते ।

तथा हि । जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम्, तत्र संशयः किमुपा

दानत्वेन उत निमित्तत्वेनेति । स ईक्षांचक्रे स प्राणमसृजत इतीक्षापूर्वककर्तृत्वश्रव

णादिना केवलं निमित्तत्वेनैवेति प्राप्तेऽभिधीयते प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।

न केवलं निमित्तकारणमेव ब्रह्म, किन्तु प्रकृतिः उपादानं च । कुतः; प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते ।

येनाश्रुतं श्रुतं भवति इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्चोपादानत्व एवोपपद्यते, कार्यस्योपादानाव्यतिरेकात् । न हि निमित्तकारणाव्यतिरेकः कार्यस्यास्त,

तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।

दृष्टान्ताश्च यथा सोम्यैकेन मृत्पण्डेन इत्यादय उपादानगोचरा आम्नायन्ते ।

यतो वा इमानि भूतानि इति पञ्चमी चोपादानत्वं गमयतीति । जनिकर्तुः प्रकृतिरिति विशेषस्मरणात्; अभिध्योपदेशाच्च, सोऽकामयत बहु स्यां प्रजायेय इत्यभिधानपूर्वकबहुभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते ।

साक्षाच्चोभयाम्नानात् । इतश्चोपादानं ब्रह्म, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात् । य ियस्मात्प्रभवति यस्मंश्च लीयते तत्तस्योपादानं प्रसिम्, यथा व्रीह्यादीनां पृथिवी(ति) । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः । आत्मकृतेः परिणामात्, तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादानं ब्रह्म ।

कथं पुनः पूर्वसिस्य क्रियमाणत्वम् । परिणामात् । पूर्वसिोऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् । परिणामादिति वा पृथक् सूत्रम्; सच्च त्यच्चाभवदित्यादिना

ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते, अतश्चोपादानं ब्रह्म । योनिश्च

हि गीयते, यूतयोनिम् इति योनिश्च ब्रह्म गीयते, योनिशब्दश्चोपादानवचनः समधिगतो लोके, अतश्चोपादानं ब्रह्मेति ।

तदेतन्निराकरोति न चेति ।

न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥

सु कुतो नोच्यत इति चेत् । प्रमाणान्तराविरुो हि सूत्रार्थो वर्णनीयः ।

उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुम् । परिणामिकारणं ह्युपादानमुच्यते, यथा घटरुचकादीनां मृत्सुवर्णादि । ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निष््यिते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह अविकार इति ।

अविकारः सदा शोु नित्य आत्मा सदा हरिः ।

सदैकरूपविज्ञानबल आनन्दरूपकः ॥

निर्विकारोऽक्षरः शोु निरातङ्कोऽजरोऽमरः ।

अविश्वो विश्वकर्ताऽजो यः परः सोऽभिधीयते ॥

निर्विकारमनौपम्यं सदैकरसमक्षयम् ।

ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥

इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।

सदाशब्दद्वयस्य अविकारः शु इत्याभ्यां सम्बन्धः । विकारो द्वेधा भवति, धर्मिणो धर्मस्य चेति । तत्र अविकारः सदा इत्याद्यस्य निषेधः । सदैकरूपेति द्वितीयस्य ।

एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः । उपमाविषय औपम्यम्, न औपम्यम् अनौपम्यम् । एकरसं स्वगतभेदवर्जितम्, प्रधानानन्दात्मकं वा । न विकारीति गम्यत

इति शेषः ।

युक्तिविरुं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह पराधीनेति ।

पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः ॥

क्षीरादिवद्विकारः स्यात्

विकारस्तावद् द्विविधो भवति, विशेषाप्तिर्विशेषिपरिवर्त(वृत्ति)श्चेति । तत्र विशेषाप्तिर्नाम धर्मिणस्तादवस्थ्ये सति धर्ममात्रपरिवृत्तिः । विशेषिपरिवर्त(वृत्ति)स्तु धर्मिस्वरूपस्यैव परिणामः । द्विविधोऽप्ययं पराधीनो भवति । प्रत्येकं च द्वेधा, अनिवर्त्योऽन्यथाभावोऽनिवर्त्यश्चेति । अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् । अन्यथा वाक्यस्यासामञ्जस्यं स्यात् ॥ क्षीरादिवदिति चतुर्णामुदाहरणम् । क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः ।

तत्रानिवर्त्यविशेषाप्तिर्यथा श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । केवलं श्यामत्वापगमेन पीतत्व

मुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् । न च पुनर्निवर्तते ।

निवर्त्यविशेषाप्तिर्यथा कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः । अत्रापि

हि धर्मिणस्तादवस्थ्यम् । कटक•दि)त्वापन्नेऽपि सुवर्णव्यवहारदर्शनात् । परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः । निवर्त्यश्चासौ पुनः कुण्डलीकर्तुं शक्यत्वात् ।

अनिवर्त्यो विशेषिपरिवर्तो यथा क्षीरस्य दधिभावः । अत्र हि न धर्मिणस्तादवस्थ्यम्, दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् । किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादि वशाद्दधिभूतम् ।

न च दधिभावनिवृत्त्या तत् क्षीरं भवति ।

निवर्त्यो धर्मिपरिवर्तो यथा शुल्बस्य तारत्वम् । अत्रापि न धर्मिणस्तादवस्थ्यम्, तारतायां शुल्बव्यवहारानुपलब्धेः । किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् । प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते ।

न च पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति ।

किमतो यद्येवम्भूतो विकार इत्यत आह नैवेति ।

नैव स स्यारेः क्वचित्र ॥

क्वचित् इति निमित्तसप्तमी ।

अयमाशयः । सकलोऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् । न चैव

मेवासौ क्वापि दृष्टः । तथात्वे वा सर्वदा स्यात् । न च ब्रह्मणो विकारनिमित्तं किञ्चिदस्त,

सदेव सोम्य इति प्राक् सृष्टेर्वस्त्वन्तरनिषेधात् । न च कालादिकमपि परेण प्रलयेऽभ्युप

गतम्, अभ्युपगमेऽपि पराधीनताऽऽपत्तेश्च ।

अस्तु जडेषु पराधीनो विकारः । चेतनं ब्रह्म तु स्वेच्छयैव जगदाकारेण विक्रियते । तदात्मानं स्वयमकुरुत इत्यादिश्रुतेरिति चेन्न प्रेक्षावतस्तस्य नानाविधानर्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः । न ह्युन्मत्तोऽप्यात्मनोऽनर्थरूपतामिच्छति दूरे प्रेक्षावान् ।

न च प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म, असर्वज्ञतापातात् । नायं प्रपञ्चो ब्रह्मणो

ऽनर्थरूप इति चेन्न दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात्र ।

न हि विवर्तवादिनामिव कल्पतोऽयं प्रपञ्चो भवताम्, सत्यत्वाभ्युपगमात् । दुःखादिमत्त्व

मनिष्टं न तु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात्;

ततश्च न मोक्षाय प्रवर्तेत ।

किञ्च ब्रह्मणोऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् । जीवस्य चेति चेत्,

स किं ब्रह्मणो भिन्नोऽभिन्नो वा । नाद्यः अपसिान्तात् । द्वितीये कथं ब्रह्मणो नानर्थः ।

भिन्नाभिन्न इति चेत् (न), अभेदेनानर्थप्रसङ्गात् । निराकरिष्यते चायं पक्षः अत एव चोपमा

इति । अपि च चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् । सर्वशक्तित्वादिति चेत् (न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः । न तर्कावसेयं

ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्ताऽत्रोपयुज्यते, किं नाम श्रुतिमात्रसिम् । श्रुतिश्चान्यानपेक्षमेव प्रपञ्च(त•पत्तिमाचष्ट इति चेन्न, तथा सति विचारशास्त्रानवतारप्रसङ्गात् ।

युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् । न चैवमत्रेत्युक्तम् । अतो

न सामान्यतो विकारित्वं ब्रह्मणो युज्यते, नापि विशेषतः ।

सु तथा हि । न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणोऽयमाकारपरिणामः प्रपञ्च

इति युक्तम्, अस्थूलत्वादिश्रुतिविरोधात् । स्वरूपापेक्षया तदुपपत्तिरिति चेत् (न) स्वरूप

एव स्थूलत्वादिजननात् । न हि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति । स्वभावापेक्षयाऽस्त्वति चेन्न, कालभेदेन स्थूलत्वादिभावाभाववतः अयं स्वभावः, अयं (न) त्वस्वभाव इति विवेकायोगात् । न हि ब्रह्मणः कारणान्तरात्प्रपञ्चतापत्तिं मन्यसे

येन सा न स्वभावः स्यात् । प्रपञ्चाकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात्, निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च । एकदेशपरिणामस्तु निराकरिष्यते ।

नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽऽपत्तिः, स्थतिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् । तस्याश्चानिवर्त्यत्वे न कदाऽपि ब्रह्मणोऽस्तत्वमित्येषा दिक् ।

अत्र कश्चित् अन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाीतः सूत्रतात्पर्यमाह परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म योऽव्यक्ते तिष्ठन् यस्याव्यक्तं शरीरम् इत्यादिश्रुतिसिम् ।

तथा च ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया(ऽङ्गीक्रि)गीयते । अतो नोक्तदोषः इति । तं प्रत्याह अपादानत्वमेवेति ।

अपादानत्वमेवास्य यद्युपादानतेष्यते ॥

अङ्गीकृतं तत्पतृवत्

एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणोऽपायावधित्वलक्षणमपादानत्वमिष्टं स्यात्, सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेन उपादानतयोदितत्वात् । एवम्भूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरपि अङ्गीकृतम् एवेति नात्रास्माकं प्रद्वेषः ।

सु ननूपादानत्वं चेद्ब्रह्मणोऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह

न त्वति ।

न तु विश्वात्मना भवः ॥

शुचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो न अस्माभिर(ङ्गीक्रिय)भ्युपगम्यते, अतस्तन्निराकरणमुपपन्नमि(मेवे)ति ।

अत्रायमभिसन्धः । यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि, तथाऽपि नैतेषां सूत्राणामर्थः । तथा हि । किमत्रास्य व्युत्पादनस्य प्रयोजनम् । न तावास्करस्येव निमित्तोपादानभेदनिराकरणम्, प्रधानस्योपादानतयाऽङ्गीकृतत्वात् । विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न, लोकविरोधात् । लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम्, न तु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः । लोके च विक्रियावदुपादान(मु)मित्युच्यते ।

अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम्, ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते । तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम्, तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे; तदाऽनवसरदुस्स्थत्वम्, अस्य समयपादे कर्तव्यत्वात् । करिष्यते च अन्यत्राभावात् इति । तस्मान्नेदं सूत्रतात्पर्यमिति ।

पितृवदित्युक्तं दृष्टान्तममृष्यमाणो ब्रह्मपरिणामवादी वदति पिता पुत्रस्य उपादानमेव अतो नायं दृष्टान्तो युक्तः इति; तत्राह न चेति ।

न चोर्णनाभिजनितृमातॄणां च विकारिता ॥

आद्यः चशब्दोऽवधारणे । द्वितीयः परोक्तानुवाद(क)ः । जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः, जनिता मन्त्र इति स्मरणात् ।

अत्र प्रकृतत्वात्पतृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति यद्ब्रह्मपरिणा(मि)मवादिनोक्तं, ब्रह्मणो जगत्कारणत्वे यथोर्णनाभिः सृजते (गृह्णते च), पिताऽहमस्य जगतो माता इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् । ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वादिति, यच्च योनिश्च हि गीयते इत्यत्रोक्तम्, यद्यपि योनिशब्दो योनिष्ठ इन्द्र निषदे अकारि इत्यादौ स्थानाद्यर्थः प्रतीयते । तथाऽपि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इति । उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति ।

न्यायसुधा

कुतो नेति चेत् । अत्र पित्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्त, पित्रादिचेतनः पुत्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा; पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति ।

चेतनत्वात्

आद्ये द्वयोश्चेतनत्वात्, उत्तरयोरन्यतरस्य । चतुर्थं त्वङ्गीकरोति तदन्नं हीति ।

तदन्नं हि कार्यरूपतया भवेत् ॥

तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् । तन्त्वादिकार्यरूपतया परिणतं भवेत् इत्यर्थः ।

एतदुक्तं भवति । पित्रादिदृष्टान्तानामयं खलु निष्कृष्टोऽर्थः, यत्पत्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति, पक्षान्तरस्यासम्भावितत्वात् ।

न चायमस्माकमनिष्टः; महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति, तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति ।

एतेनोर्णनाभ्यादीनां न विकारित्वं(ता) चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् ।

सु एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् । अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्त्वस्यैवोक्तत्वादपीत्याह अपादानतयेति ।

अपादानतया विश्वकर्तृत्वं बुपिूर्वकम् ॥

उक्तं भाविशाखायां ब्रह्मतर्के च सादरम् ।

विश्वकर्तृत्वमित्येवोक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते, तन्निवृत्त्यर्थमपादानतयेत्युक्तम् । अपादानत्वमित्यु(त्येवो)क्ते परस्य नानिष्टम्, उपादानस्याप्यपादानविशेषत्वेनोपादानत्वापादनत्वयोः अविरोधात् । अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते, अतो विश्वकर्तृत्वमित्युक्तम् । तथाऽपि बुपिूर्वकमिति व्यर्थम्, कर्तुर्बुमित्वनियमादिति । मैवम् । अशेषविशेषज्ञानस्य विवक्षितत्वात् ।

एतदुक्तं भवति । सकलकार्यक्रियाकारकफलविषयब््याुदिमानीश्वरो बाह्येन रूपेण अनुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमेऽवधिर्भवतीति ।

सादरत्वं दर्शयिष्यामः ।

तदेव वाक्यद्वयं क्रमेण पठति इच्छामात्रादिति ।

इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥

स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।

स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥

ससर्ज मातापितृवदूर्णनाभिवदेव वा ।

न तु परिणामितयेति मात्रार्थः । तत्र हेतुः अविकारस्येति । किं प्रयोजनोद्देशेनेत्यत उक्तम् स्वभाव इति । उपादानाभावात्कथमित्यत उक्तम् रज इति ।

येन प्रेरितं रजःशब्दोपलक्षितं गुणात्रयात्मकं प्रधानं जगदभवत् । अत्रोपपादनेनादरः प्रतीयते ।

स्वदेहात् सच्चिदानन्दाद्यात्मकादवधेः । अथवा स्वदेहात् प्रधानादुपादानात् । भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् । भुक्तपूर्वं सूक्ष्मावस्थोपादानकमिति वा । एवशब्देन न तु मृदादिवदित्याह । वाशब्दो दृष्टान्तसमुच्चये ।

स्वदेहादिति भुक्तपूर्वमिति च विवृणोति प्रधानमिति ।

प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥

एवशब्दोक्तस्योपपादनं निर्विकार इति । अत्रापि पूर्ववदादरो गम्यते ।

प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगास्सूचिताः । पितापुत्रौ नोपादानोपादेयभूतौ, चेतनत्वाद्देवदत्तयज्ञदत्तवत् । पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात् घटवत् । पुत्रादिचेतनो न पित्राद्यचेतनोपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति । सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् ।

द्वितीये तावद्व्याप्तिमुपपादयति न चेतनविकारः स्यादिति ।

न चेतनविकारःस्याद्यत्र क्वापि ह्यचेतनम् ।

यदि खलु यत्र क्वापि देशे काले वाऽचेतने चेतनविकारो दृष्टः स्यात् तदैव व्याप्तिर्भज्येत । न चैवमित्यर्थः । महदादिजगत् ब्रह्मकार्यमुपलब्धमिति चेन्न, अद्यापि असिेः । उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात् (च) ।

तृतीये व्याप्तिमुपपादयति नाचेतनेति ।

नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥

व्याख्यानं पूर्ववत् । एवं न चेतनविकारश्चेतनोऽप्युपलब्ध इत्याद्येऽपि व्याप्तिरुपपादनीया ।

अथवा महदादिकं न चेतनविकारः, अचेतनत्वात् घटवदिति युक्तयन्तरविरुं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधाय अस्य व्याप्तिमुपपादयति

न चेतनेति ।

ननु घटादयोऽपि ब्रह्मविकारा इति चेन्न, मृदादिविकारत्वस्य प्रमितत्वात् । परम्परयेति चेत्, एवं तर्हि न स्वयं चेतनविकाराः, किन्तु तत्कारणानीत्युक्तं स्यात् । तथा च कथं न दृष्टान्तता । तर्हि तत्कारणेषु व्यभिचार इति चेन्न, तेषामेव पक्षत्वात् । सुखदुःखादिष्वनैकान्तकत्वमिति चेन्न, तेषामन्तःकरणविकारत्वाभ्युपगमात् । एतेनैैतदपि प्रत्युक्तम् जगत्, अभिन्ननिमित्तोपादानम्, प्रेक्षापूर्वजनितकार्यत्वात् सुखादिवदिति, घटादिषु व्यभिचार•च्च)श्च । तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् ।

नन्वचेतनमपि जगत् चेतनविकारश्चेत् तदा को दोषः स्यात् । एवं तर्हि चेतनोऽप्यचेतनविकारः स्यात् । न चैतदस्तीत्याह नाचेतनेति ।

अयमभिसन्धः । यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हि तत्स्वरूपानुगतिमत्प्रसज्येत, कार्ये कारणस्वरूपानुगमदर्शनात् । घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः ।

न चैतदस्त । तस्मान्न महदादि(ः) ब्रह्मविकारः ॥ यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावोऽभ्युपगम्यते तदा चेतनोऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः ॥

न च एवमङ्गीकृतं परेण । तथा हि सति एक आत्मनः शरीरे भावात् इत्यत्र परस्य भूतचतुष्टयपरिणाम एवायं चेतनावान् काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादानेऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति ।

यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् ।

ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न, चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् ।

(यत्) अत्र परेणोक्तं दृश्यते हि लोके चेतनत्वेन प्रसिेभ्यः (अपि) पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन प्रसिेभ्यो गोमयादिभ्यो वृश्चिकादीनामिति, तदेतदयुक्तम्, केशनखादीनामचेतनाच्छरीरादेवोत्पत्तेः, गोमयाद् वृश्चिकशरीरस्यैव जन्मनो वक्ष्यमाणत्वादित्याशये(यवा)नाह (न चेतनेति) नाचेतनेति ।

अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह न चेति ।

न चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।

अपि चेति युक्तिसमुच्चये । विकृति (त)त्वे विकृतिदशायाम् अन्यस्यान्यरूपत्वम् अन्यविकारत्वं न दृश्यते । विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति

यावत् । अत्र दृष्टान्तमाह नेति ।

न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित् ॥

यस्य क्षीरस्य विकारो यद्दधि तस्मात् क्षीरादन्यता तस्य दध्नः केनापि क्वापि

न दृश्यत इत्यर्थः । एवमन्यतादर्शनस्य सिा विकारविकारिभावाद्व्यावृत्तिः । ततः किमित्यत आह सर्वज्ञादिति ।

सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।

हिशब्दो यस्मादित्यर्थे । तस्मान्न तयोर्विकारविकारिभाव इति शेषः । अयमत्र प्रयोगः । जगत्, ब्रह्मविकारो न भवति, ततोऽन्यत्वेनोपलभ्यमानत्वात् । यो यतोऽन्यत्वेनोपलभ्यते न स तद्विकारो, यथा घटः पटस्य । यश्च यद्विकारो नासौ ततोऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति ।

सु यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी, अन्योन्यमन्यत्वेनोपलभ्यमानत्वात्, घटपटवदिति प्रयोगः । न चायमसिो हेतुः, यः सर्वज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात्, ज्ञानकार्यस्य सर्वथाऽप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् । विरुधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम् सर्वज्ञादिति ।

ननु विकारविकारिणोर्भेदाभेदाभ्युपगमात् कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् । तर्हि दृष्टान्तः साधनविकलः, सर्वत्र मया भेदाभेदाभ्यां सङ्करस्याभ्युपगमात् । तत्कं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् । नाद्यः, मदभ्युपगमेन शुभेदस्यैव ग्राह्यत्वात् । न द्वितीयः असिेः ।

अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः ।

नन्वयमसिो हेतुः । जगत् ब्रह्मणाऽभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(त्)न्न । खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वर्णवदित्याभासमानयोगक्षेमत्वादित्याह अभेद इति ।

अभेदः सत्त्वमात्रेण स्यात्खर्वस्वर्णयोरपि ॥

यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः । खर्वम् अयः खर्परं वा ।

नन्वदमिष्टमेव, खर्वसुवर्णयोरभेदस्य मयाऽङ्गीकृतत्वादिति चेन्न; अभेदशब्देन भेदाभावस्य विवक्षितत्वात् ।

अत्र प्रमाणविरोध इति चेत्, जगत् ब्रह्मणोऽत्यन्तं भिद्यते, तत्स्वरूपानुगम(ति)शून्यत्वादिति त्वदनुमानस्यापि प्रमाणविरोध इति समं समाधानम् ।

अत्यन्तभेदो मम न क्वापीत्यप्रसिविशेषणतेति चेन्न, मोक्षाभावप्रसङ्गात् ।

तथा हि ज्ञानेन निवृत्तकर्मणा च मोक्षोऽभ्युपेयते, त(च्च)त्र ज्ञानमज्ञानमपि भवति, निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् । ज्ञानत्वादिना तावेऽज्ञानादेरपि (तावः) तथात्वं स्यात् । ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नम्, अज्ञानादिस्वरूपेण (तु) भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत्, तथाऽप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्य

त्वात् । एवं मोक्षोऽपि संसाराभिन्न इत्यमोक्षस्स्यात् । मोक्षात्मता(ना)सावेन मोक्षत्वे संसारोऽपि तथा स्यात् । यदि व(च•यमभेदोऽनुपलभ्यमानोऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति ।

सु ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामोऽयं प्रपञ्च इत्युक्तम्, तत्र किं सर्वस्वरूपानुगतिशून्यताऽभिप्रेता, उत किञ्चिदनुगमशून्यता । नाद्यः, सर्वानुगमाभावेऽपि घटादीनां मृदादिविकारत्वदर्शनात् । न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेः; इत्यत आह अभेद इति । अभेदो विकारविकारिभावः ।

ननु न सुवर्णगतं सत्त्वं खर्वेऽनुगतम्, तत्कथं (अयं) प्रसङ्गः । तत्कं ब्रह्मसत्त्वमेव वियदादीनाम् । ओत चेन्न, प्रमाणाभावात् । प्राणा वै सत्यं तेषामेष सत्यम् इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः । ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वेऽनुगता ।

अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् । ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्येऽवश्याभ्युपगन्तव्यः । अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् । अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः । न च सन्मात्रस्वभावं सुवर्णम्, येन खर्वं तद्विकारः स्यात् । किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति । एवं तर्हि जगदपि कथं ब्रह्मपरिणामः

स्यात् । न हि सन्मात्रस्वभावं ब्रह्म, किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात्, न च विज्ञानानन्दाद्यनुगमः प्रपञ्चेऽस्तीति समम् ।

ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न, सत्कार्यवादभङ्गप्रसङ्गात् । किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते, माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत इति न दोषः । अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः ।

एतेन प्रधानस्य जगदुपादानत्वेऽप्ययं समानो दोष इति निरस्तम् ।

सु अथ मतम् । द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं

चेति । तत्राद्येन रूपेण निमित्तम्, द्वितीयेनोपादानम् । अतो न कश्चिदुक्तो दोषः । तथा

हि । यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् । निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधोऽपि, सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमेऽपि न दोषः, सदनुगमस्य विद्यमानत्वात् । अन्यत्वदर्शनं च न वि•्युते, यतो यस्मादन्यत्वमुपलभ्यते सर्वज्ञात् तन्निमित्तमेव नोपादानम्, यच्चोपादानं सद्रूपं न तस्मोदेनोपलभ्यत इत्याशङ्क्याह भागेनेति ।

भागेन परिणामश्च•गयोर्भेद एव हि ।

यदि ब्रह्मणः सागेन परिणामः चिागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्; तयोर्भागयोरभेदो भेदाभेदौ वा । न तावदभेदः, द्वयोरपि परिणामित्वादिप्राप्त्या भागद्वयकल्पनावैयर्थ्यात् । नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् । भेदोऽभेदकार्यं निरुणीति चेत्, किं तर्ह्यप्रयोजकेनाभेदेन । तस्म•गयोरत्यन्तभेद एवाङ्गीकरणीयः ।

ततः किमित्यत आह यो भाग इति ।

यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥

परस्परमत्यन्तभिन्ने द्वे वस्तुनी । तत्रैकं निर्विकारं जगन्निमित्तमेव । अपरं तु परिणामि जगदुपादानमेव, इत्यङ्गीकारे न ईश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चित् विवादः । निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् । विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति ।

अत्र यो भाग इति पराभ्युपगमेनोक्तम् । स्वमतेन तु यद्वस्त्वति ज्ञातव्यम् । न हि भागिनं विना भागः सम्भवति । नापि विकार्यविकारिणोः कश्चिागी विद्यते ।

सु नन्वस्त विवादविषयः । निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् ।

किमिदं ब्रह्मत्वम् । (किं) ब्रह्मनामवत्त्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् ।

आद्यं दूषयति भिन्नानामिति ।

भिन्नानां समुदायस्य नाम ब्रह्मेति त(चे)वेत् ।

तवेत् इत्यभ्युपगममाह । ततश्चायमर्थः । यद्यर्थे न विवादोऽस्त तदाऽनारम्भणीयमेवाधिकरणम्, शब्दमात्रे परेण विवादाकरणात् । करणेऽप्यशब्दशास्त्रत्वादिति ।

द्वितीयेऽपि विवेक्तव्यम् । किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि । उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति । नाद्यः, एकमेवाद्वितीयमित्यादि श्रुतिविरोधात् । द्वितीयेऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं, सङ्ख्या वा संयोगो वा । सर्वत्रापि दोषमाह ब्रह्मेति ।

ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥

तदेति । मनसि स्थतानां विकल्पतानां पक्षाणां (वा) अङ्गीकारे । क्वचित् पक्षे । हिशब्देनानुपपत्तेः प्रसितामाह । अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् । न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्त, तदुपादानत्वादेरसम्भवात् ।

अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् । अत्र ब्रह्मोपादानता इत्युपलक्षणम्, ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् ।

स्यादेतत् । कालात्ययापदिष्टमेतदनुमानजातम् । यतो वा इमानि भूतानि जायन्ते, आत्मन आकाशः सम्भूतः, जन्माद्यस्य यतः इत्यादिविरोधात् । जनिकर्तुः प्रकृतिः इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते । तथा चैवोदाहृतम्, ृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायत इति । प्रसिश्चात्रोपादानोपादेयभाव इति । तदिदमसङ्गतम् । पञ्चमीबलात्कल उपादानत्वं सिषाधयिषितम् । न चेदं सूत्रमुपादाने पञ्चम्या विधायकम् ।

अथ मतम् । अपादाने तावत्पञ्चमी विहिता । अपादाने पञ्चमीति । उपादानं चापादानविशेषः, जनिकर्तुः प्रकृतिरिति स्मरणात् । ततोऽपादाने विहिता पञ्चम्युपादानेऽपि भविष्यति । न चैवं सति पञ्चम्या नियमेनोपादानत्वसिःि, विशेषस्मरणस्य ग्राह्यत्वादित्यत आह ृङ्गादिति ।

न्यायसुधा

ङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।

वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥

तथाशब्दो द्वितीयोदाहरणेन सम्ब््यते । एवमाद्येषु उदाहरणेषु ृङ्गादीनां शरादीन्प्रति अपादानत्वमिष्यते । पञ्चम्यर्थतयेति शेषः । उपलक्षणं चैतत्, सूत्रे चेत्यपि ज्ञातव्यम् ।

एतदुक्तं भवति । भवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां (च) परपरिकल्पतोऽर्थो भवेत् । न चैवम् । किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति । उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव, पञ्चमीप्रतिपाद्य

मिति ।

सु एतदेव प्रपञ्चयति उपादानेति ।

उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।

अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥

यद्यप्यत्र ृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते, तथा अपि याऽत्र अपादानता अपायावधित्वलक्षणाऽस्त सा एव ब्रह्मणो दृष्टान्तो भवेत् । पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः । अयमभिप्रायः । ृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन च अपायावधितया कारकं भवति, तस्मन्नसत्येकदेशान्तरस्योपादानताऽनुपपत्तेः । मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थतेनैवांशेना अङ्कुरोपादानम्, तथाऽपि

न तुषविकलानामुप्ता(मंशा)नामङ्कुरजनकताऽस्त । तत्रावधिभाग एवापादनं पञ्चमीवाच्यश्च । तद्दृष्टान्तेन ब्रह्मणोऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति,

न तूपादानत्वमिति ।

ननु कथं तर्हि प्रकृतेर्महान्मतोऽहङ्कार इत्यादिप्रयोगः । तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः । यत्र सर्वस्यापि परिणामः तत्र कथम् । न प्रयोक्तव्यैव तत्र पञ्चमी, न हि क्षीराद्दधि जातमिति प्रयुञ्जते, किन्तु

क्षीरमेव दधि जातमिति । यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति ।

अथ मन्येत । ृङ्गमेव शरोपादानम्, न तु केचिदवयवा उपादानं केचित्तदवधय इति विभागः, तथा सति ृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः । यदि चेयं पञ्चम्युपादाने यदि वाऽवधौ तथाऽपि ृङ्गावयवादिति वक्तव्यम् । न च तर्हि अवधित्वमेवास्तु इति वाच्यम्, निरुपादानोत्पत्तिप्रसङ्गात् । अतः ृङ्गस्यैवोपादानत्वात् तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति । तत्राह न हीति ।

न ह्युपादानतैवात्र

अत्र ृङ्गादौ उपादानते(तैवे)ति न वक्तव्यम्, अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् । अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः ।

कथं तर्हि ृङ्गादिति प्रयोग इत्यत आह बाह्यावयवेति ।

बाह्यावयवगौरवात् ।

बाह्याः शराकारेण परिणतेभ्योऽन्ये येऽवधिभूतअवयवाः तेषां गौरवात्

बहुत्वात् ।

एतदुक्तं भवति । कतिपयावयवेषु परिणतेषु बहूनामवशिष्टत्वेन ृङ्गान्तरोत्पत्त्या ृङ्गबुमिात्रोत्पत्त्या वा ृङ्गशब्दोपपत्तिरिति ।

सु ननु कुतः सूत्रादेरर्थान्तरकल्पना । शब्दार्थविरोधादिति ब्रूमः । उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम्, अपादीयते परित्यज्यते कार्यमनेनेत्यपादानम् इति स्फुटो विप्रतिषेधः ।

किञ्च भाष्यकारेणायमपि योगः शक्योऽवक्तुमिति प्रत्याचक्षाणेन अयमेव सूत्रार्थः

सूचितः । यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसंज्ञां विदध्यात्, कथं

तर्हि ध्रुवमपायेऽपादानमित्यनेनैव गतार्थतामाह । न ह्युपादानस्यापाये ध्रुवत्वमस्त । तस्मादुपादानसंसृष्टस्यैवावधिभागस्यापादानसंज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते । तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् । अन्यथा प्रागवधेरपादानसंज्ञोक्ता, अत्र तूपादानस्य । न ह्यवधिरुपादानमित्येकोऽर्थ इत्यवक्ष्यन् । अतस्तेषामपि सम्मतोऽयमर्थ इति गम्यते ।

अस्तु वोपादानेऽपि पञ्चमी । तथाऽपि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते, अनेकार्थत्वात् ।

विशेषस्मरणादित्युक्तमिति चेत् । किमिदं विशेषस्मरणम् । जनिधातुग्रहणेनेति चेत्, तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् । कुतश्च यत इति पञ्चमीत्यवधृतम्, तसेः सार्वविभक्तिकत्वात् । आत्मन आकाश इत्यनेन एकार्थत्वादिति चेन्न, तस्याः पञ्चम्यां भुवः प्रभव इति विशेषावि(वक्षि)हिताभिव्यक्तयवधितार्थत्वात् । तया चैवोदाहृतम् हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यर्थ इत्यास्तां विस्तरः ।

अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति, तदसत्,

शरादिषु व्यभिचारात्, शरादयो हि ृङ्गाद्युपादानाः ततो भेदेनोपलभ्यन्त; इत्यतो गूढाभिसन्धराह ृङ्गादिति ।

एवमाद्येषु स्थलेषु शरादीन्प्रति ृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते, न पुनरुपादानत्वम्, अतो विपक्षत्वाभावोदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति ।

ननु कथमुच्यते ृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति, तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादानोत्पत्तिः प्रसज्येतेत्यतोऽभिसन्धमुद्घाटयति उपादानेति ।

ृङ्गादेरुक्तरूपापादानत्वेऽपि । न च शरादीनां निरुपादानत्वोक्तिप्रसङ्गः, कतिपयानां ृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् । न चैवमनैकान्त्यतादवस्थ्यम् । यद्यप्यत्र ृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते, तथाऽप्यत्र ृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत्, तत एव शरादीनां भेदोपलम्भात् । न तूपादानभागः, ततस्तदभावात् ।

एतदुक्तं भवति । ृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः, केचिन्निमित्तभूताः । तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम्, तेषां सपक्षप्रविष्टत्वात् ।

ये तूपादानभूतास्तेषां विपक्षप्रवेशेऽपि न तत्र हेतुवृत्तिरिति कुतोऽनैकान्त्यमिति ॥

यस्तु वैयात्यान्मन्यते, नात्रापादानताऽस्त । किन्तूपादानत्वमेव केवलम्, तथा चानैकान्तकत्वमिति, स प्रष्टव्यः, किमत्राविनष्ट एव ृङ्गावयव्युपादानमित्यभिप्रायः, कि•वा ृङ्गेऽविनष्टे तदवयवाः सर्वेऽपीति, उत नष्टे ृङ्गे तदवयवाः सर्वेऽपीति ।

नाद्य इत्याह न हीति । अत्र ृङ्गे । तथात्वे सुवर्णवच्छरे ृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः ।

न द्वितीय इत्याह न हीति । अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति

न युक्तम्, तथा सति ृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति ।

न तृतीय इत्याह न हीति । अत्र सर्वेष्वपि ृङ्गावयवेषु ृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते, अतो नानैकान्त्यमिति हिशब्दः । कुतो न युज्यत इत्यत आह बाह्येति । कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात्, अपरिणतस्याप्युपादानत्वेऽतिप्रसङ्गात् ।

ननु ृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि ृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् । समाधानं पूर्ववत् ।

सु मा भेूदोपलम्भस्यात्र व्यभिचारः । तथाऽपि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति । अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह

न चेति ।

न चाचेतनतस्तत्र चेतनस्य समुवः ॥

तत्र गोमयादेर्वृश्चिकादिजन्मनि ।

नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिम्, अन्यथा पूर्वकर्माभावे जन्मनोऽप्यसम्भवात् । मध्ये कथञ्चित्सम्भवेऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः । तत्कथं निर्दलमिदमाशङ्कितम् । सत्यम् । तथाऽपि परेण स्वग्रन्थे निवेशितत्वात् ।

अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह उपादानतयेति ।

उपादानतया पूर्वेणैव सम्बन्धः ।

न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात्, किन्तूपादानतया, तस्यैव प्रकृतत्वात् ।

यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् । येन व्यवहारोपपत्तिरिति पृच्छति किं तर्हीति । उत्तरमाह अपादानमिति ।

किं तर्ह्यपादानं ह्यचेतनम् ।

अस्य वृश्चिकादिशब्दाभिधेयस्य । प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः ।

नन्वेकदेशेनोपादानत्वमभ्युपगतमिति । सत्यम्, तच्छरीरापेक्षया; इत्युक्तम् कार्यदेहगतस्येति ।

कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥

गोमयाद्युपादानकदेहगतस्येत्यर्थः ।

अयमत्र समुदायार्थः । वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च । तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति । चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव, देहहेतुत्वात्, तत्रैव चास्य प्रादुर्भावात् । अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः । अपगमने तु अवधित्वेनापादानमेव, अतो नोक्तनियमभङ्ग इति ।

एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यस्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वात् परिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे सच्चेति ।

सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।

सच्च त्यच्चाभवत् निरुक्त• चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्तराशिद्वयात्मकविश्वभाव उच्यत इति नास्त । कुतो नेत्यत आह तत्सृष्ट्वेति ।

तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सितिः ॥

स इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् ।

एतदुक्तं भवति । नेदं सत्त्यदादिभवनं विश्वो(श्वस्यो)त्पादनम्, विश्वोत्पत्त्युत्तरकालीनत्वात् । या क्रिया यदुत्तरकालीना, नासावसौ । यथा भुक्तवा चरतीत्युक्तं चरणं

न पूर्वकालीनं भोजनमस्त । अनुपपन्नार्थं चान्यथा वाक्यमापद्येत, न हि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तवति ।

यद्वा विश्वं सत्त्यदादिशब्दार्थतयाऽत्र न विवक्षितम्, तवनात्पूर्वकालीनोत्पत्तिकत्व•ेजनवदित्यादि प्रयोक्तव्यम् ।

कस्तर्हि श्रुत्यर्थ इत्यत आह सत्त्वादिति ।

न्यायसुधा

सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।

आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥

सत्ततेर्यातनाच्चैव ह्यप्राप्यत्वाच्च दुर्जनैः ।

नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥

जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।

जगावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते । तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्त । न हि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगोऽस्त । नापि ततः पूर्वकालीनता ॥ किञ्चैवं सति प्रसिविरोधः, सत्त्यदादिशब्दानां द्वे वा व ब्रह्मणो रूपे इत्यादौ मूर्तामूर्तवाचितया प्रसित्वात्, इत्यतो जगद्गतेन रूपेणेत्युक्तम् । यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः, तथाऽपि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्त व्यवस्था । तथा च मूर्तामूर्तजगद्गतेन रूपेण ब्रह्म सदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बध्यते । परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति ।

सु सत्त्वादुत्तमत्वात् सत् । ततेर्व्याप्तेः त्यत् । तनु विस्तार इत्यस्माद् ड्यत्प्रत्ययः । वैदिकत्वान्निरुक्तम् । निश्चयेनोक्तं हि निरुक्तम् । न हि वेदादृतेऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते । सम्यग्वक्तुमशक्यत्वतः अनिरुक्तम् । यद्यपि निश्चयेनोक्तं

न भवतीत्यनिरुक्तम्, तथाऽपि निरुक्तमित्यनेन विरोधात् सम्यक् कार्त्स्न्येन वक्तुमशक्यत्वत इत्युक्तम् ।

ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते । न । प्रकृतपरित्यागप्रसङ्गात् । वेदेन निरुक्तमिति (हि) प्रकृतम् ॥ किञ्चोक्तेः शब्दधर्मत्वात् प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम्, स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् । महिमाधिक्यं चात्र लभ्यत इति ।

जगदाश्रयत्वात् निलयनम् । निश्चितमयन्ते प्रवर्तन्तेऽस्मन्निति । रो ल इति योगविभागात्वम् । निपूर्वस्य ली(ङ्)श्लेषण इत्यस्य वाऽधिकरणे ल्युटि कृते रूपमेतत् । स्वाश्रयत्वात् अनिलयनम् । न विद्यते स्वातिरिक्तं निलयनं यस्येति ।

ज्ञानत्वाद्विशेषज्ञानरूपत्वात् विज्ञानम् । दुर्विदत्वतो दुर्ज्ञेयत्वात् अविज्ञानम् ।

न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति ।

सत्ततेः सम्यग्व्याप्तेर्यातनाद्यतनं प्रति हेतुत्वाच्च सत्यम् । तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् । तेन सच्छब्दस्य बहुव्रीहिः ॥ यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् । ततः कर्मधारयः । अयस्मायदीनि छन्दसीति भसंज्ञाश्रयणाज्जश्त्वाभावः ।

दुर्जनैरप्राप्यत्वादेवानृतञ्च, न तु मिथ्यात्वात् । यद्यपि ऋतं प्राप्तं नेत्यनृतम्, तथाऽपि ब्रह्मविदाप्नोति परम् इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् ॥ हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिंि द्योतयति ।

नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् ॥ अत्र नित्यत्वत इत्येकं व्याख्यानम्, नित्यसत्यशब्दयोरैकार्थ्यस्य वक्ष्यमाणत्वात् । सत् साधुगुणाः, सावे साधुभावे चेति वचनात्, तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् । पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः ॥ तस्य यन्तृरूपत्वात् यम् । यम उपरम इति धातोः (इत्यतो) डः । भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् ।

अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम् सदेति । प्रत्येकं चास्य सम्बन्धः ।

सु तर्हि कथमभवदिति प्रयोग इत्यत आह व्यक्तिरिति ।

व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥

भवेदभवदि(त्याद्यः प्र)त्यस्मात्प्रयोगश्चात्र युज्यते ।

उक्तगुणानां सदादिशब्दोक्त•नां)धर्माणाम् । व्यक्तिः प्रतीतिः । नृणाम् उपदेष्टृपुरुषापेक्षया सृष्टौ सत्यामेव भवेत् हि यस्मात् (अस्मात्) कारणात् ।

अत्र च नित्यगुणेऽपि ब्रह्मणि सदादिकमभवदिति प्रयोगो युज्यते । ततश्चायं श्रुत्यर्थः सम्पद्यते । तत् ब्रह्म, मूर्तामूर्तात्मकं विश्वं सृष्ट्वा, तत्प्रेरकत्वेन नानारूपैः तदेव विश्वं प्रविश्य, प्राक् सृष्टेरुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रयवतामभावादप्रतीतगुणकं सत्, अथेदानीमुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रयवत्त्वे सति प्रतीतसत्त्वादिगुणम् अभवदिति ॥ तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति । यथोक्तम् सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः इति ।

सु ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति ।

तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥

निर्विकार एव अशेषकर्ता इति सम्बन्धः । द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति । परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा । अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः ।

कस्तर्हि तदर्थ इत्यत आह शब्दैरिति ।

शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।

इत्यर्थोऽस्येति शेषः । अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात् नासङ्गतिरित्यपि सूचितम् ।

सु ननु वक्तव्यार्थस्यावशिष्टत्वात् कथमुपसंहारः क्रियते । तथा हि । प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् । सत्यम् । विवर्तनिराकरणेन निराकरिष्यते ॥ तर्हि अभिध्योपदेशाच्चेत्यत्रोक्तं बहु स्यां प्रजायेयेति वाक्यं दूषणीयमिति चेन्न । अस्यापि

सच्च त्यच्चेति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह बहु स्यामिति ।

बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥

तस्यैव निर्विकारस्यैव । उक्तमार्गेणेत्यस्य (एव) विवरणं तत्तद्गतेन रूपेणेति ।

तत्तद्गतेन रूपेण

तत्तदनन्तपदार्थप्रेरकानन्तरूपैः बहु स्यामिति, सोऽकामयतेत्यस्याः श्रुतेरर्थ

इत्यर्थः ।

एवं तर्हि स इदं सर्वमसृजतेत्युत्तरवाक्यमसङ्गतं स्यात्, न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते । न हि ईश्वरः अस्वतन्त्रः अपत्यकामो वेत्यत आह तदर्थमिति ।

तदर्थं ह्यसृजज्जगत् ॥

तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं, नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत् तावत् असृजत्, ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः ।

अनेनैव तदात्मानं स्वयमकुरुतेति श्रुतिर्व्याख्याता वेदितव्या । न ह्यत्रात्मानं प्रपञ्चात्मनाऽकुरुतेति श्रूयते । उभयाम्नानं च ऊर्णनाभिदृष्टान्तोक्तयैव निरस्तम् । न ह्यूर्णनाभेरुत्पद्यमानस्य, तस्मन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम्, किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् ।

योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति ॥

न्यायसुधा

अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति ।

यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥

दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।

ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादेऽपि

समम्, अत उक्तम् अविकृतमेवेति । अविकृतत्वं कुत इत्यत उक्तम् एकमिति । अद्वितीयम्, निरवयवं चेत्यर्थः ।

तथा हि । किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः, किं वा परतः ॥ नाद्यः, क्वाप्यदर्शनात् । यदपि क्षीरवीत्युदाहृतम्, तत् कालादेर्विद्यमानत्वादयुक्तम् । स्वेच्छयैवेति चेन्न, प्रयोजनाभावात् । स्वभावोऽयमिति चेन्न, प्रेक्षावत्त्वहानेः ॥ न द्वितीयः, अद्वितीय

त्वात् । न च निरवयवं क्वापि परिणतं दृष्टम् । आकाशं संयोगादिमदुपलब्धमिति चेन्न, द्रव्याकारणपरिणामस्य प्रकृतत्वात् । परमाण्वादयस्तु स्वरूपेणैव न सिा इति ।

अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तम् मृषेति । मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते । यथा रज्जुरविकृतैव

मृषा भुजङ्गाद्याकारेणाभासते तथैवेति । तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तम् मन्ददृष्ट्यैवेति । मन्दा भवति दृष्टिः यया सा मन्ददृष्टिः तया माययेत्यर्थः ।

अथवाऽसम्भवपरिहारार्थमुक्तम् मन्ददृष्ट्यैवेति । मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तस्तयेत्यर्थः । भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तम् मृषेति । तदेतन्मथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति ।

सु एतदुक्तं भवति । प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते । उपादानत्वं च न परिणामितया । अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव । अतो नोक्तदोष इति ।

दूषयितुमुपक्रमते कथ्यत इति । यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् । तच्च नेति नञनुवृत्तिर्वा कर्तव्या । कुतो नेत्यतो विकल्पेन पृच्छति सेति ।

सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ॥

विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्ट्याश्रयप्रश्नोऽनुपपन्न इत्यत उक्तम्

सेति । एकस्य तत्त्वाप्रच्युतस्य पूर्वविपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः । मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं

भवतीति भावः । तस्यैव, यदवष्टम्भो विश्वो विवर्त इत्यर्थः । ततोऽन्यगा जीवगते

त्यर्थः । किंशब्दस्योभयतः सम्बन्धः ।

मायावादिनो हि केचित् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणं, जीवाश्च प्रत्येकमविद्याऽनुबाः, इत्यपरे । मायाऽविद्याप्रतिबिम्बतं ब्रह्म जगत्कारणम्, विशुं च ब्रह्मामृतत्वालम्बनं, जीवाश्चाविद्याऽनुबा इत्यन्ये । जीवा एव स्वविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्त, सादृश्याच्च प्रपञ्चैकतावभासः, अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके ।

तत्र अवान्तरभेदमविवक्षित्वा द्वेधैव विकल्पतम् । इह जीवगेति अनुक्तवा ततोऽन्यगेति वदता स जीवः किं ब्रह्मणोऽन्यो(ऽनन्यो वा) न वा इत्यपि विकल्पः सूचितः । तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति ब्रह्मणश्चेदिति ।

ब्रह्मणश्चेत्क्व सार्वज्ञम्

यदि ब्रह्मणो वि(श्व)भ्रमस्तदा, भ्रमस्य विशेषाज्ञानपूर्वकत्वात् तदपि ब्रह्मणोऽङ्गीकरणीयम्; तथा च तस्य सार्वज्ञ्यं न स्यात् ।

यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् । न तावज्जीवे, अनुभवविरोधात् । नापि जडे, ज्ञानमात्रासम्भवात् । तथा च यः सर्वज्ञः इत्यादिश्रुतिवैयर्थ्यं स्यात् ।

ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न, यादृशतादृशस्यापि विशेषाज्ञानविरोधित्वात्; अन्यथा शुक्तिज्ञानवतोऽपि तदज्ञानं न वि•्येुतेति भ्रमानुच्छेदप्रसङ्गः ।

उपलक्षणं चैतत् । ब्रह्मणो विशेषाभावात् तदनवभासनिमित्तो भ्रमो नोपपद्यते । स्वरूपं तु स्वप्रकाशतया सिम् । असित्वे वा (च) सुतरां विभ्रमानुपपत्तिः, अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् ।

द्वितीयस्याद्यं दूषयति अन्यगा चेदिति ।

अन्यगा चेत्स्वतोऽन्यता ।

यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तकल्पतत्वायोगात् जीवब्रह्मणोः अन्यता स्वाभाविकत्यापन्नम् । ततश्चापसिान्त इति ।

नन्वस्तु जीवब्रह्मभेदो वास्तवः, अनात्मप्रपञ्चोऽस्तु भ्रान्तकल्पतो ब्रह्मणीत्यत आह नेति ।

नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥

यद्यपि नैवं मायावादिनो मन्यन्ते, तथाऽपि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः ।

न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पतत्वम् । किन्तु देहयोगरहितस्येन्द्रयाभावात् पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रयं तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम् । न हि सुखादिवद्रजतादिवद्वाऽस्य प्रपञ्चस्य साक्षिमात्रसित्वं परो मन्यते, देहेन्द्रयाणामप्युत्पत्तिमत्त्वात् । तत्कारणं च स्वत इत्यङ्गीकरणीयम् ।

सु अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रयाणां च अभ्रान्तकल्पतत्वम्, द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात्; तदतिरिक्तस्तु प्रपञ्चोऽस्तु भ्रान्तकल्पत इत्यत आह देहिन इति ।

देहिनः कारणयुता देहाश्च यदि न भ्रमात् ।

किं भ्रान्तकल्पतं तत्र

कारणशब्देन ज्ञानकारणानामिन्द्रयाणां देहेन्द्रयकारणानां च ग्रहणम् । सिा इति

शेषः । किं आक्षेपे । तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा । अनन्तजीवसकारणकदेहेन्द्रयाति

रिक्तस्य प्रपञ्चस्याभावात् । विषयाणामपि देहेन्द्रयनिर्वाहार्थत्वादिति भावः ॥ तथा च

न केवलमपसिान्तः, प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः ।

सु ननु अन्यगा चेत्स्वतोऽन्यता इत्ययुक्तम् । जीवब्रह्मभेदस्यापि भ्रान्तसित्वात् । भ्रान्त्या ब्रह्मणो भिन्नस्य जीवस्य बाह्याध्यात्मकार्थभ्रम इति हि मन्यत इत्यत आह भेदोऽपीति ।

भेदोऽपि भ्रमजो यदि ॥

न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोः भेदोऽपि यदि भ्रमजः भ्रमसिः अङ्गीक्रियते । तदा अन्योन्याश्रयता स्यादिति सम्बन्धः ।

अत्र अन्योन्याश्रयताशब्देन चक्रकमुच्यते, तस्यापि बहुष्वन्योन्याश्रयत्वात् । कथमन्योन्याश्रयता इत्यत उक्तम् भ्रान्तेरिति ।

भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ।

भ्रान्तेः जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात्, तस्य अज्ञानस्य च भेदसापेक्षत्वात् ।

अज्ञानम् अनादित्वात् कथं भेदव्यपेक्षया स्यादित्यत उक्तम् नाज्ञानेति ।

नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥

यतः ब्रह्मव्यतिरिक्ताज्जीवादृते नाज्ञानकल्पकं किञ्चित् अस्त ।

सु एतदुक्तं भवति । जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिः, सा तावदज्ञानापेक्षा । भ्रान्तेः स्वरूपतो विषयतश्चाज्ञानकार्यत्वाङ्गीकारात् । यद्यपि भेदविषया भ्रान्तः साक्षिचैतन्यम्, तथाऽपि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते । तच्चाज्ञानं भेदसापेक्षम्, अनादित्वेऽपि भ्रान्तकल्पतत्वस्याङ्गीकृतत्वात्, अन्यथा सत्यतापातात् । भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् । भेदकल्पनया विना च जीवस्याभावात् ॥ न चाविद्यारोपो ब्रह्मण्येवेति युक्तम्, सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः । अतो भ्रमाज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति ।

अथवा भेदस्य भ्रान्तकल्पतत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् । व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् ।

अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः । इतरेतराश्रयादिदोषसाम्यात् । बीजाङ्कुरवददोष इति चेन्न, वैषम्यात् । व्यक्तिभेदेन हि तत्र अदोषत्वम् । न च जीवाविद्याव्यक्तिभेदोऽस्तीति ।

सु यदुक्तं नादेहयोगिन इत्यादि, तदनुपपन्नम्, देहादेरपि भ्रान्तकल्पतत्वात् ।

न च तत्र कारणाभावः, पूर्वदेहादेर्विद्यमानत्वात् । न चैवमनवस्था, अनादित्वादिति । मैवम् । आदिसर्गे देहादिदर्शनानुपपत्तेः । न ह्ययं साक्षिमात्रसिोऽर्थ इत्युक्तम् ।

किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तसित्वं प्रमितं स्यात्; अन्यथैवं सर्वत्रानवस्थापरिहारः प्रसज्येत । न चात्र प्रमाणमस्त । ननु कथं नास्त, नेह नाना इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह (इत्यत आह) भ्रमत्वे त्वति ।

भ्रमत्वे त्वयमुक्तिश्च तदन्तःपतनान्न हि ।

यद्वा सर्वोऽप्ययं प्रसङ्गो विपर्ययपर्यवसानहीनत्वादाभास एव, नेह नानेत्यादि

श्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तकल्पतत्वाभिधानात् इत्याशङ्क्येदमुदितम् । उपपत्त्यविरुो हि वेदार्थो ग्राह्यः, अन्यथा अन्धो मणिमविन्दत् इत्यादेरपि ग्रहणप्रसङ्गात्, विचारशास्त्रानारम्भप्रसङ्गाच्च । नेह नानेत्यादिवाक्यं चोपपत्तिविरुम् । तथा

हि । यदि वियदादिकं सर्वं भ्रमसिं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात्, भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति ॥ भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसि इति भ्रमत्व इत्युक्तम् ।

यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथाऽपि तत्राध्यात्मकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यविषय इति भेदः । अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति ।

ननु सर्वोऽप्ययं प्रपञ्चो भ्रान्तसिोऽपि व्यावहारिको भवत्येव । अत

स्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह व्यावहारिकतेति ।

व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥

चः तुअर्थः ॥ स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत् (तव) शक्याङ्गीकारा स्यात् । न चैवम् । यतोऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव

स्यात् । एतदुक्तं भवति । यदि प्रपञ्चो व्यावहारिकोऽङ्गीक्रियेत तर्ह्यबाध्योऽप्यङ्गीकर्तव्यः प्रसज्येत, न च तथाऽङ्गीक्रियते भवता, अतो न व्यावहारिकोऽप्यङ्गीकर्तुमुचित इति । सत्यत्वाङ्गीकारापादने त्वष्टापादनं स्यात्, परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात्; अतः अबाध्यत्व एव इत्युक्तम् ।

ननु शुक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवादनरूपव्यवहारविषयत्वाद्व्याप्तिहीनोऽयं तर्क इत्यत आह बाध्यमिति ।

बाध्यं नार्थक्रियाकारि

सत्यं बाध्यं शुक्तिरजतादिकम् अभिज्ञादिकं = व्यवहारविषय इति, तथाप्यर्थक्रियाकारि न भवति । न हि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रिया जायमाना दृष्टा । अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतं नाभिज्ञादिविषयत्वम्, श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् । अतो न तर्कस्याङ्गवैकल्यमिति ।

ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः, विज्ञातस्यान्यथा इत्युक्तत्वात्, शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति । मैवम्, निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् ।

सु ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात् व्याप्तिविकलस्तर्क इत्यत आह न चेति ।

न च स्वप्नोऽपि नो मृषा ।

स्वप्न इति स्वप्नावस्थोपलब्धोऽर्थः । नः अस्माकं बादरायणीयानां मते । तर्हि मम

मतेन व्याप्तिभङ्गोऽस्तु मया मृषात्वेनाङ्गीकृतत्वात् इति चेन्न, बादरायणीयेन तथाऽङ्गीकर्तुमशक्यत्वात् ।

ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह वासनेति ।

न्यायसुधा

वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥

तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वात्

इदं ज्ञायते यत्, न तस्य स्वप्नो मृषाऽभिमत इति । न हि कश्चिदविद्यमानस्य कारणं निरूपयेत् ।

किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिान्तः स्यात् । श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतोऽभिमतमित्याह स हीति ।

स हि कर्तेति वाक्याच्च

ननु कथं स्वप्नो न मृषा, मायामात्रमिति सूत्रकृतैव तन्मथ्यात्वस्य वक्ष्यमाणत्वात्; इत्यतो वाह वासनेति ।

न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो

न मृषा इत्यर्थः । यथा चैतत्तथा उपपादयिष्यते ।

तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् ।

न केवलं वक्ष्यमाणोपपत्तिवशात् मृषात्वं न सूत्रार्थः, किं तु श्रुतिवशाच्चेत्याह

स हीति ।

यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चात् अदृष्ट्यादिविरोधात् । नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् । न च प्रकारान्तरं सम्भवति । तत्कथं

न मृषा इत्यत आह वासनेति ।

नोपादानाभाव इति शेषः, न मृषा इति पूर्वेण वा सम्बन्धः ।

एवम् उपादानं निरूप्य निमित्तमुपपादयति स हीति । निमित्तं चेश्वरो ज्ञायते, इति शेषः । न मृषा इति पूर्वेणैव वा अन्वयः ।

ननु कथं तर्हि स्वप्नमायासरूपा इत्यादौ स्वप्नस्य भ्रान्तत्वोक्तिरित्यत आह जाग्रत्वमिति ।

जाग्रत्त्वमिति हि भ्रमः ।

इति शब्द आद्यर्थे, उेखार्थे वा । जाग्रदहमस्मीति द्रष्टुर्यत् जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा)द्दशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा; एवमादिप्रतिभासो भ्रमः । बाध्यत्वादिति हिशब्दार्थः । तदपेक्षया श्रुत्यादिवचनानीति भावः ।

सु ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते; तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते; अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह सर्पेति ।

सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥

ना भूदत्र सर्पः इतिवत् न सर्पज्ञानमभूत् इति बाधकानुदयात् । अभूदेवेत्यनु

वृत्तेश्च । भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः ।

कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह तदेवेति ।

तदेवार्थक्रियाकारि

एवशब्देन सर्पादिकं व्यावर्तयति ।

सत्यपि सर्पादौ, असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः; सति च (तस्मन्) तदुत्पत्तेः; ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् ।

तत्कार्यं तु अभिसर्पणदंशनादिकम् । मरणमपि धातुव्याकुलतानिमित्तकम् । सा च विषद्रव्येणेव भयादिनाऽपि भवति । इति न बाध्यस्य•पि) सर्पादेरर्थक्रियाकारित्वम् ।

सु ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छन्नम् । नाद्यः घटज्ञान

स्यापि ज्ञानत्वेन तदापत्तेः । द्वितीये न तावद्विषयो रज्ज्वादिः । रज्जुरियमित्यादिज्ञानस्यापि भयादिहेतुतापातात् । सर्पादिश्चेद्विशेषणतया, तस्यापि भयादिहेतुत्वं प्राप्तम् ।

अत्र कश्चिदाह नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् । न हि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्त, किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति । तदसत् । एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् । व्यावृत्तिबुजिनकत्वं हि व्यावर्तकत्वम् । तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यम् इति । तत्राह तादृशमिति । यादृशं सत्यसपर्ोेखि ज्ञानं, तादृशमित्यर्थः ।

सु सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्व्यावृत्तमनुभूयते । व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा । न च विषयो व्यावर्तकः, तस्यातर्मत्वात् । सम्बं हि व्यावर्तकं भवति, अन्यथाऽतिप्रसङ्गात् । विषयसम्बन्धो व्यावर्तकोऽस्त्वति चेन्न, तस्य संयोगादिरूपस्याभावात् । अतः कश्चिज्ज्ञानगत एव धर्मोऽभ्युपगन्तव्यः ॥ ॥ किञ्च विलक्षणसामग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाऽभ्युपगम्यते, एवमपरोक्षज्ञानेऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः ॥ अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते, न हि देवदत्तसम्बन्धतामात्रेण कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति ।

स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्रया जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः । अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति ।

सु तदेवं यत्रार्थक्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं

न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः; इत्युपसंहरति तदिति ।

तत्सदेवार्थकारकम् ।

नन्वर्थक्रियाकारित्वं यथा विपक्षान्मथ्याभूताद्व्यावृत्तम्, एवं सपक्षात् ब्रह्मणोऽपि व्यावृत्तत्वादसाधारणम् । न च ज्ञानस्य सत्यस्य अर्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह ब्रह्म त्वति ।

ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥

अङ्गीकृतं हि तेनैव

तेन मायावादिना एव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यम् अङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् । अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् ।

ननु मयाऽङ्गीक्रियमाणं ब्रह्मणोऽर्थक्रियाकारित्वं च न स्वाभाविकम्, किन्तु परत एव; मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् । अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह परत इति ।

अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः तत्, स्वतः परतो वाऽस्तु, किमनेन प्रकृतानुपयुक्तेन । न हि स्वतोऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् । अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयाऽसाधारण्य(ण)स्य वक्तुं शक्यत्वेन तङ्गः स्यात् ।

स्यादेतत् । ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थो दारुयन्त्रस्येव पराधीनमिति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति; किन्तु गगने मलिनतेव निष्क्रय

एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति । न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति ।

परतस्त्वे न च प्रमा ।

ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः । परतस्त्वे निरूपितरूपे । प्रमा प्रमाणम् ।

सु अयमत्राशयः ॥ ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा । न चेत्कथं लक्षणत्वेनोच्यते, कस्य च मायामयत्वमङ्गीक्रियते । प्रतीतत्वेऽपि न तावत्प्रत्यक्षानुमानाभ्याम्, तदगोचरत्वात् । अतः श्रुत्यैवेति वक्तव्यम् । तथा च कथं मायिकत्वम् । तत्कं श्रुतिप्रतीतं सर्वमेव सत्यम् । आ । बाधकाभावे तु तथैव ॥ न चैवं ब्रह्मणोऽर्थक्रियायाः

परतस्त्वे प्रमाणमस्त, यद्बाधकं भवेत् । बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत्, प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः । परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत ॥ सन्त निष्कलं निष्क्रयमित्यादिश्रुतयो बाधिका इति चेत् । एवं श्रुतिबलेन परस्त्वेऽर्थक्रियायाः स्वीकृते, तदभिधात्री स इदं सर्वमसृजतेत्यादि श्रुतिः न प्रमा स्यात्; प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् । किञ्चाविशेषात् निष्कलं निष्क्रयमिति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् ॥ अन्यदुत्तरत्र वक्ष्याम इति ।

नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि । आत्यन्तकाबाध्यत्वाभावेऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् । अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात् साधिका भविष्यति; इत्यत आह अमुख्येति ।

अमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः ॥

न हि सम्प्रतिपत्तिः स्यादतस्तष्ठतु सा(ऽ)प्रमा ।

सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे । ततश्च पुनरुक्तिदोषः

परिहृतो भवति । ति ष्ठतु न वक्तव्येति यावत् । सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः । यस्मात् सा श्रुतिः अप्रमा तस्मात् ति ष्ठतु इति वा । प्रपञ्चमिथ्यात्वं हि तदर्थः । न चासौ ब्रह्मस्वरूपम्, सोपाधिकत्वात् । ततोऽस्य बाध्यत्वमावश्यकम् । बाध्यार्थं चाप्रमाणमिति प्रसिमेव । बाध्यार्थत्वेऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वत्यत उक्तम् अमुख्येति । सत्यम् अबाध्यार्थम् । न हि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः ।

अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात् साधकत्वेन विप्रतिपन्ना श्रुतिः, तथाऽपि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः; इत्यत आह न हीति ।

न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥

तथात्वे स्वरूपासिकालातीतयोरप्युपन्यासः स्यात्, आरोपमात्रस्य तत्राऽपि सुलभत्वात्; इति भावः ।

स्यादेतत् । आस्तामियं प्रमाणसदसत्त्वचिन्ता, प्रमाणेनैव प्रमेयसिेः । अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाऽभावप्रसङ्गात् ॥ युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् ॥ न तावत्सत्यं

मां प्रति वक्तुमुचितम् मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽऽवेशः यत्र च क्रियाऽऽवेशो न तत्सत्यमिति । न च वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति, कथञ्चित्सुखादौ तस्य शक्योपन्यासत्वेऽपि बाह्यप्रपञ्चे तदयोगात् । बाह्यप्रमाणविषयो ह्यसौ, अन्यथाऽन्धबधिराद्यभावप्रसङ्गात् । स एव चात्र प्रकृत इति ॥ नाप्यसत्यम्, भवरिनङ्गीकृतत्वात् ॥ इत्यत आह साधकत्वमिति ।

साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।

सम्यक्सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥

सत्यस्य तु इति सम्बन्धः । सम्यग् इति मुख्यत एव, न त्वधिकरणसिान्त

त्वेन । हिशब्दः सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्यिोतकः । तत् इत्यव्ययम् । तेन साक्षिणा । विश्वविवर्तमतं न भवेत् । निराकुर्म इति यावत् । उपलक्षणं चैतत् । विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् । तथा च वक्ष्यते ।

न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता, किन्तु परकयरीत्यैव सर्वमुच्यते । तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाऽङ्गीकृतमित्युच्यत इत्यत आह यदीति ।

यदि नाङ्गीकृतं किञ्चिदनङ्गीकृतताऽपि हि ।

नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥

न विद्यतेऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः, तस्य भावः अनङ्गीकृतता । अनङ्गीकारित्वमित्यर्थः । इति शब्दद्वयं हेतौ ।

यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति, तदाऽसौ वक्तव्यः । सर्वथाऽनङ्गीकृतत्वम् आत्मनस्त्वयाऽङ्गीकृतं न वा । आद्ये(ऽपि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनोऽनङ्गीकर्तृताऽपि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः । तथा च असौ मूकः स्यात्, अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् । तथा च मौनमवलम्बमानस्य नास्मत् प्रति वादिता इति किमत्र वक्तव्यम् ।

सत्यमेतत् । वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतःसिे चिदात्मनि ब्रह्मतत्त्वे केवले भ•)रमवलम्ब्य चरितार्थाः सुखमास्महे । ये तु स्वपरिकल्पतसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्त तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति ॥ मैवम् । एवमपि परकयविचारव्यवस्थतेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् । अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् ।

अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे । तन्न । प्रमाणादिना

विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् । भवत्कल्पतव्यवस्थयैव व्याहतत्वादसाध्वी भवद्व्यवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुं तदसाध्वत्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् ।

एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत् । न । किं परकयव्यवस्थाया असाधुत्वं स्वयमवब््यु परं प्रति बोध्यतेऽनवब््यैुव वा । द्वितीये विप्रलम्भकत्वं स्यात् । विजिगीषुकथायामेवमेवेति चेत्, न, शिष्यस्यापि बोध्यत्वात् । आद्येऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोव्यम्, तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम्, प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् ।

तस्मात् सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् । तच्च प्रागेव निरस्तमिति ।

सु एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह विश्वमिति ।

न्यायसुधा

विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।

इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥

यथार्थत इत्यनेन कविर्मनीषी इति श्रुतिमुपादत्ते । व्यावहारिकसत्यतापराः श्रुतय

इति चेन्न, तत्सत्यमित्यस्या अपि तथात्वप्रसङ्गात् । श्रुत्यन्तरविरोधादिति चेदत्रापि असदेवेदमिति श्रुतिविरोधात् । अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न, सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् । निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरूपपुरुषार्थविरुं प्रपञ्चसत्यत्वमिति चेत्, तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुमिति समानम् । तत् प्रमाणाननुगुणमिति चेत्, सममेतदपीति वक्ष्यामः ।

अनुमानमपि प्रपञ्चसत्यतायामर्थक्रियाकारित्वं द्रष्टव्यम्, प्रागुक्ततर्कोपपादनेनैव अस्य उपपादित्वादिति ।

सु एवमागमानुमानाभ्यां सिे विश्वसत्यत्वे प्रत्यक्षमप्याह सत्यत्वमिति ।

सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।

चशब्दः प्रमाणसमुच्चये । न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्च इति वा । तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिसत्यत्वाः, स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेः इत्युक्तम् । अन्यथा विश्वस्य प्रकृतत्वात् तदेवात्रानुवर्तिष्यते किमनेन । साक्षीत्येवोक्ते साक्षिणोऽप्रामाण्यात् प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात्, तन्निवृत्त्यर्थं प्रत्यक्षेति उक्तम् । तथा च वक्ष्यते । प्रत्यक्षेत्येवोक्ते अतीन्द्रयार्थसत्यतायां न प्रमाणमुक्तं स्यात्, न च साक्षिणा विना बाह्यप्रत्यक्षमात्रेणैन्द्रयकाणामपि सत्यता स््यिति; इत्यतः साक्षीत्युक्तम् । उभयवादिसिं प्रमाणमस्मत्पक्षेऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात् साधितम् इत्याह । तथाऽपि तदुपपादनाय पुनरुपन्यासः ।

सु केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थषत । तदनुपपन्नम्, रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात्, अन्यथाऽऽत्मपवनयोरपि तत्प्रसङ्गात् । कथं तर्ह्येष प्रतिभास इति चेत् । साक्षिसिा

काशादिसम्बन्धतयेति ब्रूमः । दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभिचन्दनमित्यादिविशिष्टप्रत्ययः, परेषां च इह भूतले घटाभाव इति ।

अपर आह, आलोकमण्डलमाश्रित्यायं प्रत्यय इति । तदसत् । इहालोक

इत्यपि प्रत्ययदर्शनात् । सोऽपि तदवयवानाश्रित्येति चेन्न, लौकिकानामवयवाश्रयतया अवयविबेुरभावात् । न हि ते हस्तादिषु शरीरमिति व्यवहरन्त, किन्तु तदात्मकतयैव । किञ्चैवमपि नेहालोक इति इहालोकत्र्यणुकमिति च प्रत्ययो दुःसंपादः । प्रमाणान्तरोपनीतावयवमाश्रित्येति चेत्, एवं तर्हि तथाभूतमाकाशादिकमेवाश्रित्य इह पक्षी इत्यादिप्रत्ययः कुतो न समर्थनीयः, तथा च लौकिकानुभवोऽप्यनुसृतः स्यात् ।

तथाऽप्यनुमानवेद्यमाकाशमस्त्वति चेन्न, लिङ्गाभावात् ।

५सु अथ मतम् । शब्दस्तावत्प्रत्यक्षसिः । स च गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रयग्राह्यत्वाद् रूपवत् इति गुणत्वात् द्रव्याश्रितस्तद्वदेव इति सामान्यतो द्रव्यसिेः (द्रव्यसिौ) (द्रव्ये सिे) । शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात्, सुखादिवत् । स्पर्शव(द्विशेष)(गुण)त्वे तदनुपलम्भप्रसङ्गः । शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यतेऽप्राप्तो वा । अप्राप्तग्रहणेऽतिप्रसङ्गः । प्राप्तिस्तु शब्दश्रवसोः न सम्भवति । सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति, तस्यामूर्तस्य गत्यभा(तेरसम्भ)वात् । नापि शब्दस्यागमनेन । स हि

न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम्, गुणत्वात् । नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः, तदनुपलम्भात् । न च शब्दान्तरोत्पादपरम्परया, गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणेऽसमवायिकारणत्वात् । न च शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वाऽस्त । तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थतम् । नाप्यात्मगुणः, बाह्येन्द्रयप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायात् अहङ्कारेण विभक्तस्य ग्रहणाद्रूपादिवत् । न दिक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्च इति प्रसक्तप्रतिषेधे परिशेषादेभ्योऽतिरिक्तं द्रव्यं स््यिति । तदाकाशमिति ।

तदयं प्रमाणार्थः । शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपवदिति ।

सु तदिदमयुक्तं जातिबधिराणामाकाश•दि)प्रतिभासानुपपत्तिप्रसङ्गात् । ततश्च इहालोको नास्तीति प्रतीतिः न स्यात् । मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न, मूर्तान्तराभावेन अन्यथासित्वात् । मूर्ताभावस्याधिकरणेन भाव्यमिति चेत्, सत्यम्, तथाऽपि तस्याप्रतीतावाश्रयासिेः, प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः ।

किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा ?

नाद्यः । तस्य गुणत्वासिेः । न चोक्तानुमानात्तत्सःि, घटादीनामेकेन्द्रयग्राह्यत्वाभावेऽपि आत्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रयग्राह्यत्वेऽपि विरोधाभावात् । यदि (शब्दो) द्रव्यं स्यात् बाह्येन्द्रयग्राह्यो न स्यात्, निरवयवद्रव्यस्य बाह्येन्द्रयाग्राह्यत्वेन प्रतिबन्धादिति चेत् (न); निरवयवस्यापीन्द्रयग्राह्यत्ववद्बाह्येन्द्रयग्राह्यत्वे(ऽपि) बाधकाभावेन प्रतिबन्धानिश्चयात् ।

द्वितीये त्वाश्रयद्रव्यसिावपि नाकाशसिःि, पृथिव्यादिगुणत्वोपपत्तेः । प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् । प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् । पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति

चेत्, कुतस्तत्परिहरणीयम् । प्रमितत्वादिति चेत्, तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्व्याप्तिग्रहणसमये तद्व्यवच्छेदार्थं (अपि) विशेषणमुपादेयमेव । न च स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः । अनुपलब्धस्तु न प्रसज्यते, चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः । अमूर्तस्य तदनुपपत्तिस्तु आकाशस््यिुत्तरकालीनैव । श्रोत्रस्य चक्षुष

इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत्, अगत्वाग्राहित्वे दिङ्निश्चयोऽपि

न स्यात् । संशयादपि निश्चयो महीयान् (गरीयान्) । शङ्खाद्यवयवागमनेन वा सन्निकर्षोप

पत्तिः । न चोक्तदोषः, घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् ।

किञ्च वायुगुणत्वे हेतुद्वयमसिम्, तर्कश्चानुपपन्नः । नैवं युक्तम्, श्रोत्रस्य प्रतिनियतार्थग्राहकत्वेन बहिरिन्द्रयत्वात् । बहिरिन्द्रयस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् । शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न, प्रतिनियतार्थग्राहकशब्दस्येन्द्रयान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् । इन्द्रयान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिःि । बहिरिन्द्रयत्वेऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः, स्नेहग्राहके चक्षुषि व्यभिचारात् । श्रोत्रस्य वायवीयत्वेऽपि न बाधकं

पश्यामः, सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः ।

घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत्, अस्तु, बाध(क)सावे तु तत

एवान्या गतिर्भविष्यति । शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रयावेद्यत्वाद्गन्धवदिति चेन्न, विपक्षे बाधकाभावात् । अन्यथा पाकजरूपादयोऽपि न पार्थिवाः, घ्राणावेद्यत्वात् शब्दवदि(ति)त्यपि स्यात् ।

किञ्च आत्मगुणः कस्मान्न स्यात्, धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रयप्रत्यक्षत्वोपपत्तेः । अन्यथा प्रत्यक्षत्वेनाष्टद्रव्यातिरिक्तगुणोऽपि

न स्यात् । तत्सौ बाधः । असिावप्रसिविशेषणतेति चेन्न परिशेषानुमानेऽपि

साम्यात् ।

आत्मान्तरग्राह्यत्वस्य च कोऽर्थः । अनेकप्रतिपत्तृसाधारणत्वमिति चेन्न सन्दग्धासिेः । सन्तानानुमानेन मूलप्रत्यभिज्ञानान्नैव(ष) दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तकत्वं स्यात्, आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच्च ।

अपर आह, ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यत्वमिति । तदसिम् । आत्मन्यसमवायात्तत्सरिति चेन्न, तस्याप्यसिेः । अहङ्कारेण विभक्तस्य ग्रहणात् तत्सरिति चेन्न, पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात् सुखादिषु व्यभिचारात् । ग्रहणं प्रमितिरिति चेन्न, सन्दग्धासित्वात् ।

कालादिगुणो वा किं न स्यात् । प्रत्यक्षत्वादिति चेन्न, स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् । कालादीनां विशेषगुणवत्त्वे बाधकाभावात् । तद्विरहिततयैव तत्स(रि)ेर्नेति चेन्न, अन्यथा तत्सेर्वक्ष्यमाणत्वात् ।

सु किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् ।

परिशेषानुमानं तु अष्टद्रव्यातिरिक्तद्रव्याप्रसिेः अप्रसिविशेषणम् । प्रसिौ च अनुमानवैयर्थ्यम् । अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेन असाधारणता स्यात् । शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात् व्यतिरेकेण पृथिवीवत् इति प्रयोग इति चेत् (न); पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधनेऽबादीनां सपक्षत्वेन तत्रावृत्तेः असाधारण्यात्, समुदितसाधने पुनरप्रसिविशेषणत्वात् । अभावस्य साध्यत्वात् अभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्ष्यतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न; तथाऽपि प्रतिषेधमुखेन प्रतीतेरनिवारणात्, शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च । सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्च अधिकः, प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति ।

अस्तु वा शब्दगुणकाकाशसिरिनुमानात् । तथाप्यव्याकृताकाशसिःि साक्षिणैव । तत्साधकलिङ्गाभावात् ।

आकाशद्वैतं च वियदधिकरणे वक्ष्यते । जातिबधिराणामप्याकाशप्रतीतेर्नागमोऽपि

तत्र प्रमाणमिति साक्षिसिमेव गगनम् । तागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सि)तैव । अन्यत्स्वावसरे वक्ष्यामः ।

(ननु) अस्तु गगनादिकं साक्षिसिम्, न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं स््यिति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्; इत्यत आह साक्षिसिस्येति ।

साक्षिसिस्य न क्वापि बाध्यत्वं तददोषतः ॥

क्वापि काले, तस्य साक्षिणः अदोषत्वात् । औत्सर्गिकं हि प्रत्ययानां प्रामाण्यम्, अप्रामाण्यं तु दोषापवादात् । न च साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् । एवमेव अयथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् । अविद्यादोषसंसर्गात् साक्षिणः बाध्यार्थप्रतिभास(सि)त्वम् इति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात्, अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वात् इति ।

ननु तर्हीदमापन्नम् गगनादिस्वरूपं साक्षिसिम्, कालत्रयाबाध्यत्वं तु

तस्य साक्षिप्रामाण्यग्राहकेणेति, प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् । तथा च

सत्यत्वं गगनादेश्च, इत्ययुक्तमित्यत आह सर्वेति ।

न्यायसुधा

सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।

अबाध्यत्वं गगनादीनामिति शेषः । साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः ।

यद्वा गगनादिस्वरूपं साक्षिसिम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहण

द्वारा स््यितीत्युक्तम् । इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात् सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह सर्वकालेष्वति ।

ननु काल एव कुतः सिः, येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह कालो हीति ।

कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥

सुषुप्तौ हीन्द्रयाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः । अस्त तदाऽपि कालप्रतिभासः, एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थतस्य परामर्शदर्शनात् । न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् । अतः परिशेषात्साक्षिवेद्य एवेति गम्यते ।

अत्रायं प्रयोगः । कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मन्नसति प्रतीयते तत्ततोऽतिरिक्तप्रमाणवेद्यम् । यथाऽसति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति ।

॥ तत्राप्यादौ कालो हि साक्षिप्रत्यक्षः ॥

स्यादेतदेवम्, यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् । नैतदस्त, किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावोऽनुमीयत इत्यत आह अतीतेति ।

अतीतानागतौ कालावपि नासाक्षिगोचरौ ।

उत्थतस्य किं साक्षिणाऽतीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण । आद्ये सिं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् । द्वितीये त्वदमुपतिष्ठते असाक्षिगोचरौ = साक्षीतरप्रमाणविषयौ ।

अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम्, अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात् कथं त्रैकालिकाबाधभावः साक्षिणा प्रपञ्चस्य स््यितीत्यत आह अतीतेति । अपिपदेन साक्षिप्रतीत(प्रत्यक्ष•विति समाकृष्यते । कुत इत्यत आह नेति । साक्षीतरप्रमाणागोचरौ । प्रतीयेते च । तस्मात् साक्षिगोचरावित्यर्थः ।

तत्कथमेतदिति चेत् (न) । न तावत्प्रत्यक्षवेद्यः काल इत्युक्तम् । जातिबधिराणामपि प्रतिभासनात्, नागमवेद्योऽपि । अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्ततेऽन्यद्वा । नाद्य इत्याह पक्षीकर्तुमिति ।

पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥

कालस्यासिौ आश्रयास््यिा, सिौ सिसाधनत्वेन पक्षीकर्तुमशक्यत्व•त्)म् । द्वितीयेऽप्येतदेवोत्तरम् । पक्षीकर्तुमशक्यत्वादित्युपलक्षणम्, व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् । कालप्रतीतिमन्तरेणेति शेषः ।

तदेव प्रपञ्चयति तदेतदिति ।

तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।

साक्षिसिेन कालेन खचितं ह्येव वर्तते ॥

तस्मान्न तं विना किञ्चत्स्मर्तुं द्रष्टुमथापि वा ।

शक्यं

यस्मात् तदिति स्मृति गोचरमेतदिति दृश्यं वा सर्वम् अपि सक्षिसिेन कालेन खचितं सम्बम् एव वर्तते । तस्मात् तं कालं विना कालप्रतिभासं विना किञ्चित् व्याप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमपि वा न शक्यम् इत्यर्थः ।

इदमुक्तं भवति । अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनुमानम् । तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकरणम् ॥ स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते, अपि तु कालकलितमेव । तदिति हि स्मृतिरुत्पद्यते,

न पुना रूपमित्येव । तत्ता च पूर्वकालसम्बन्धतैव ॥ एवमनुभवोऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते, अनुमानादिजन्योऽप्यभूदिति वा भवतीति वा भविष्यतीति

वोदेति । एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धत्वातिरिक्तं किञ्चित् ॥ एतच्च सर्वानुभवसित्वान्नापलापमर्हति ॥ न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः, साक्षिसिविशेषणविशिष्टप्रत्ययोपपत्तेः ॥ तथा च व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचरयितुं शक्नुवन्त, तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति ।

ततः किमित्यत आह तदिति ।

तन्नित्यसिेर्हि नानुमावसरो भवेत् ॥

तस्य कालस्य नित्यसिेर्व्याप्त्यादिग्रहण एव साक्षिणा सित्वान्न कालानुमानस्यावसरो भवेत् । अनिश्चिते ह्यर्थे न्यायस्यावसरः । निश्चितविषयं तु सिसाधनत्वात्, परेषामाश्रयासिम्, अस्माकं त्वसङ्गतमिति ।

एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति तदेतदिति । तथा हि । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्ग इति परेषां भाष्यम् । तदेवं केचिद्व्याचक्षते अस्त तावत्स्थविरे परोऽयमिति प्रत्ययः, यूनि चापर इति । सोऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकर

प्रत्ययः । तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः । (त) एते षट्प्रत्ययाः कालस्य लिङ्गानि । कथम् । स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवक्ऌप्तेः । न हि द्रव्यादिकमेवैषामालम्बनम्, तत्प्रत्ययविलक्षणत्वादिति ।

एतदयुक्तम् । तथा हि । तदिति परमिति एतदपरमिति । युगपदादीनामुपलक्षणमेतत् । दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् । तत्सर्वं साक्षिसिेन कालेन खचितमेव वर्तते । तस्मात्तन्नित्यसिेः नानुमानावसरो भवेत् । तस्मादित्यस्यैव विवरणं

न तं विनेति । न शक्यं हीति सम्बन्धः ।

एतदुक्तं भवति । परापरादि(विषयाः) प्रत्ययास्तावत् कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् ।

तथा च लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात् कथं तेन तदनुमानम् । न हि दण्डज्ञानेन दण्डोऽनुमीयते ।

अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम्, विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते । तर्हि नेदं कालानुमानम्, किन्तु ज्ञानानुमानम् । तच्च सिसाधनम् । साक्षिसिकालविशिष्टप्रत्ययाभ्युपगमादिति ।

अथ वलीपलितकार्कश्यादिना कालसम्बन्धेऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति । मैवम् । शरीरावस्थया हि तस्य कालसम्बन्धोऽनुमीयते, यत्कञ्चिद्द्रव्यसम्बन्धो वा ।

५सु आद्ये किमस्मादनुमानात्प्राक्कालः सिोऽथवा नेति वाच्यम् । आद्ये तन्नित्यसिेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिेः । द्वितीये चाप्रसिविशेषणत्वान्नानुमानावसरो भवेत् ।

किञ्च वलीपलित(कार्कश्य•दिशरीरावस्थाकारणत्वेन कालानुमाने तन्नित्यसिेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपलितादिवैधुर्यदशायामपि सिेः नित्ये परमाणावपि सिेर्बाधितविषयत्वेन नानुमानावसरो भवेत् ।

अथ बहुकालसम्बन्धोऽनुमीयते । तन्न । बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्)वेन । नाद्यः, तत्सम्बन्धस्यापि नित्यसिेः । नेतरः (नोत्तरः) तस्य कालस्य नित्यसिेः । नित्यतयाऽङ्गीकृतत्वात् ॥

न द्वितीयः, तस्य नित्यसिेः सिसाधनत्वात् । अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न, परिशेषावधारणानुपपत्तेरिति ॥

अन्ये तु व्याचक्षते । बहुतरतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् । अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् । एकतपनप्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्टत्वमयौगपद्यम् । बहुक्रियाविशिष्टत्वं चिरत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैः कालोऽनुमीयते । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययो

त्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते, स्वरसतोऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात्, चन्दनसौरभवत् । परम्परासम्बन्धनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धत्वात्, पटसंसृष्ट(सम्बन्ध)नीलिमवत् । अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति ।

एतदप्यसत्, घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः । अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् । दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः ॥ अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न, अन्यसमवेतत्वस्यैव बाधकत्वात् । उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत्, तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् । स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत्, तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् । तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिेर्द्रव्यान्तरकल्पनां विना स्वभावादेव सिेः द्रव्यान्तरानुमानावसरो

न भवेदिति । तदनेन स्वरसतोऽप्रत्यासन्नत्वे सतीति विशेषणासिःि । विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति ।

ननु विषम उपन्यासः । भूतलाभावयोरस्त सान्निध्यम्, तेन सम्बन्धाभावेऽपि भविष्यति विशिष्टव्यवहारः, दर्शनस्य दुरपह्नवत्वात्, सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् । न च तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्त, ततो भवितव्यं मध्ये द्रव्यान्तरेणेति । मैवम् । विनाऽपि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् ।

किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः । अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम्, तच्च पृथिव्यादिकं किं न स्यात् । तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न, एकैकस्याव्यापकत्वेऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः । न च तरणिपिण्डान्तराले तानि न सन्त्यनुपलम्भादिति वाच्यम्, सूक्ष्माणां कल्पनीयत्वात् । न च विनिगमनायां कारणाभावः, संशयेऽपि परिशेषावधारणानुपपत्तेः, धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् ।

आकाशो वा किं न स्यात् । न स्यात्, विशेषगुणवत्त्वात् पृथिव्यादिवदिति

चेन्न, विशेषगुणवतोऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् । सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा, अतीन्द्रयशक्तिर्वा, सहकारिशक्तिर्वा । नाद्यः द्रव्यमात्रे प्रसङ्गात् । न द्वितीयः, अनभ्युपगमात् । तृतीेये(ऽपि) किं तद्व्यापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् ।

सु वयं तु ब्रूमः, व्यापकत्वमेव तदिति, अन्यथा मनसोऽपि तत्प्रसङ्गात् । व्यापकत्वस्य प्रयोजकतायामात्मनोऽपि तत्प्रसङ्ग इति चेन्न, तद्व्यापकत्वाभावस्य वक्ष्यमाणत्वात्, व्यापकत्वेऽप्यनिष्टाभावात् । क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् । तदेकस्येवानेकेषामपि समानम् । यद्याकाशं(ः) स्वसम्बन्धेनान्यगतं धर्मम् अन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत्, अविशेषादिति चेन्न, नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् । गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना । अन्यथा कालेऽपि समानः प्रसङ्गः ।

सु तत्स््यसिभ्यिाम् अनवसरदुःस्थत्वमिति चेन्न, भावानवबोधात् । विशिष्टप्रत्ययदर्शनानन्तरं हि बहवः पक्षाः प्राप्नुवन्त, किमयं स्वरसम्बन्धनिबन्धनः

किंवा अतिरिक्तसम्बन्धाधीन इति । द्वितीयेऽपि किं साक्षात्सम्बन्धोऽत्र निमित्तमुत द्रव्यान्तरकृत इति । उत्तरत्रापि तद्द्रव्यं प्रसिेष्वन्यतमं वा भवत्वन्यद्वेति । सर्वत्र

बाधकानि पर्यालोचयन् प्रसिद्रव्येषु यद्बाधकं पश्येत्तदप्रसिेऽपि कल्प्यमाने कथं नानुसन्दध्यात् । अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन् कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं (वा) रोचयत इत्यस्यार्थस्य विवक्षितत्वात् । पर(प्र)सित्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः ।

सु किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः । नाद्यः कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् । द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत्, अन्यथा जातिनिराकरणमपि न स्यादिति ।

अस्तु वाऽऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः; दिशस्तु स्यात् विशेषगुणशून्यत्वात्, व्यापकत्वाच्च । तस्याः संयोगोपनायकत्वेन सित्वान्नेति चेन्न, उभयोपनायकत्वेऽपि बाधकाभावात् । सहकारिभेदेन च व्यवस्थताव्यवस्थतप्रतीतिजनकत्वं कल्प्यतां लाघवादेव, अन्यथा कालेऽपि भेदकल्पनाप्रसङ्गादिति । तदिदमुक्तम्, तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिेनैव पृथिव्यादिना सिेर्नाप्रसिे द्रव्येऽनुमानावसरो भवेदिति ।

सु अन्ये तु परापरशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ) गतौ आचक्षते, तौ असमवायिकारणसंयोगाश्रयतया, निमित्तकारणापेक्षाबुसिम्पादकतया वा, कालमनुमापयत इति । तदप्युक्तन्यायेन निरस्तमिति ।

किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा, पर(त्व•परत्वे वा, यद्यालम्बनं तदा अस्तु कालानुमानम् । न चैतदस्त, कालभेदानामेव विशेषणतया प्रतीतेः । तथा

हि । परोऽयमित्यादि प्रयुक्तवन्तः, कोऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च, बहुकालीन(नोयमित्यादि) इति व्याचक्षाणा दृश्यन्ते । तत्र कालस्वरूपं साक्षिसिम् । तद्बहुत्वादि च क्वचित्साक्षिणा, क्वचिदनुमानादिना च ज्ञायत इति ॥ एतदप्युक्तम् तदेतदिति श्लोकाभ्याम् ॥ अनयैव दिशा दिशोऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् ।

त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः, विवादाध्यासितं कार्यं, विशेषगुणरहितद्रव्याभ्यां जन्यते, कार्यत्वात्, अन्तःकरणद्वयसंयोगवदिति ।

(ए)तद(प्य)युक्तम्, साध्ये बहुवचनप्रयोगे(क्षेपे)ऽतिप्रसङ्गात् । न च दृष्टान्ताभावः, अन्तःकरणगतबहुत्वस्य सत्त्वात् । न चान्तःकरणद्वयसंयोगे प्रमाणमस्त, मनो, मनसा संयुज्यते, मूर्तत्वाच्छरीरवदिति च आकालिके विद्युदादौ सन्दग्धव्यभिचारम् ।

सु अपर आह, परममहत्परिमाणं, द्रव्यचतुष्टयवृत्ति, परिमाणत्वादणुत्ववदिति । अत्र यदि आकाशात्म(गत)परिमाणपक्षीकारः तदा सिसाधनम्, आत्मनां बहुत्वात् । आत्मत्वेनैक्यमुपादाय प्रयोगेऽपि बाधः, परिमाणद्वयस्य द्रव्यचतुष्टयवृत्तित्वायोगात् । एकैकद्रव्यवृत्ति खलु परिमाणम् । अत एव न कालादिगतस्य पक्षीकारः । आश्रयासिश्चिाधिका ।

परममहत्परिमाणसामान्यं, विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तविषयजातित्वात्, अणुपरिमाणवृत्तिजातिवत् इति चानुपपन्नम् । परममहत्परिमाणसामान्यं हि परिमाणत्वं वा, तदवान्तरजातिर्वा । आद्ये मनःस््यिाऽप्यस्य सम्भवेनार्थान्तरता, सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिी च ।

न द्वितीयः, तस्याः (तस्य) निराकरिष्यमाणत्वात्, वर्णस््यिा अर्थान्तरत्वाच्च, अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गश्च ।

अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा साध्यपर्यवसान(सम्भव•दुभयसाधकत्वम् अस्य

न स्यात् । मा भूदिति चेन्न, अनेकपदवैयर्थ्यात् । अन्यतरसाधनेऽन्यतरेणार्थान्तरताप्रसङ्गात् । हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पवेन ।

गगनादेस्सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिमित्युक्तमर्थमुपसंहरन्ववृणोति अत इति ।

अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।

न विद्यते दोषः कारणं यस्य ज्ञानस्य, तेन प्रतीतस्य विषयीकृतस्य अदोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य, सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिम् । प्रामाण्यग्रहणादिनेति शेषः ।

अयम(त्रा)भिप्रायः । आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिाः । तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रयलिङ्गशब्दगम्याः । ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण । न चैवं घटोऽस्त घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्तयाद्व्याघाताच्चेति युक्तम्, घटोऽस्तीति देशकालविशेषसम्बन्धसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदार्थत्वात्, क्वापि व्याख्यानव्याख्येयभावात् । नास्तीत्यस्य च देशकालविशेषसम्बन्धसत्ताप्रतिषेधपरत्वात् ।

न हि सता सकलदेशकालसता भवितव्यमिति नियामकमस्त ॥ ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते । ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः । तथा च साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति । यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽऽवेदनलक्षणो बाधः स्यात्, कोऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति ।

यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहकोऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् । न च शुक्तिरजतादिज्ञानानां प्रामाण्यमेव

नास्त, किं साक्षिणा गृह्यताम् इति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात् किं साक्षिणा गृह्यत इत्यपि वक्तुं शक्यत्वात् । तस्मात्साक्षिणा प्रपञ्चसत्यतासििमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् । तथा चोक्तोऽतिप्रसङ्ग इत्यत उक्तम् अदोषेति ।

अयमर्थः । न साक्षी ज्ञानं गृह्णन् प्रमाणमेवैतदिति गृह्णाति, किन्तर्हि(तु) अदोषं चेत्प्रमाणं, सदोषमप्रमाणमिति व्यवस्थया । यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषाभावं निश्चित्य प्रामाण्यमवधारयति, दोषदर्शने त्वप्रामाण्यम् । प्रपञ्चप्रतीतेश्च प्रयत्नेनान्वष्यापि दोषमपश्यन् प्रामाण्यमेवावधारयतीति तत्सत्यत्वं साक्षिसिम् । न चैवं शुक्तिरजतादीनाम्, दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् ॥ ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव, कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् ।

सत्यम् । नासौ साक्षिरूपावधारणा । अपि तु मानसीति वक्ष्यामः । मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिरिति ।

ननु यदि परीक्षासहकृतः साक्षी ज्ञानप्रामाण्यं गृह्णीयात् तदाऽनवस्था स्यात् । परीक्षाऽपि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम्, नान्यथा, तथा च तत्रापि परीक्षान्तरमवतरणीयमिति ॥ किञ्च साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं

दुःस्थस्य न परप्रामाण्यावधारणसामर्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह परीक्षादेश्चेति ।

परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥

आदिपदेन साक्षी गृह्यते । चस्त्वर्थः । सत्यत्वं यथार्थत्वम् । तेन साक्षिणा एव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) । हिशब्दोऽस्यार्थस्यानुभवसित्वं द्योतयति, तस्मान्नानवस्थेतिहेतौ वा ।

सु एतदुक्तं भवति । दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा । सन्दग्धश्चार्थो न्यायविषयः । सन्देहश्चोभयकोटिप्रापकसावे भवति । एवं च यत्र यत्र दोषसम्भावनया तत्सन्देहः तत्र तत्रैव परीक्षापेक्षा नान्यत्र । न च सर्वत्र दोषसन्देहोऽस्त, साक्षिसिेऽर्थे तत्प्राप्त्यभावात्, अतो न तावत्परीक्षाऽनवस्था । तथा हि । अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति, पुरुषवचसामुभयथा दर्शनात् । तत एवार्थे सन्दहानः प्रत्यासीदन् रूपविशेषादिनाऽनुमिनोति पानीयमेतदिति । तत्रापि भवति संशयः, किमिदमनुमानमुताभासम्(स) इति, व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् । प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषेणानु

मायापि पूर्ववत्सन्दग्धे । पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र

संशेते । सुखादौ तदभावे च साक्षिसिे कदाऽप्यन्यथाभावाद्यनुपलम्भात् । न च प्रतीतत्वसामान्येन तत्रापि संशयः, विशेषनिष्ठस्य निश्चायकस्य सावात्, अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् । संशयाभावे च न तत्पूर्विका परीक्षेति कुतोऽनवस्था ॥ अत एव साक्षिप्रामाण्यावधारणे परीक्षाऽनवस्थाऽपि परिहृता । ग्राहकानवस्था तु नास्त्येव, साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् ।

एतावानत्र विशेषः । इन्द्रयलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति, किन्तु दोषाभावनिश्चयद्वारैव । दोषाभावं च न स्वयम् (एव) अवधारयितुमीष्टे, (अपि) किं तु परीक्षासहकृत

एव । परीक्षायां चेन्द्रयलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति । न च स्वात्मन्यनेन कदाऽप्यन्यथाभावोऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते । न चैवं परतः प्रामाण्यग्रहापत्तिः, परीक्षाया दोषशङ्कालक्षणबुदिोषनिरासमात्रकारणत्वात् । साक्षी हि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति । तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबा । अतो व्यवस्थयैव तत्स्पृशति, न त्ववधारणस्येष्टे । परीक्षया च प्रतिबन्धेऽपगते निजयैव शक्तया प्रामाण्यमवधारयति ॥ न चास्य व्युत्पादनस्याप्रामाण्येऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम्, वैषम्यात् । प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यतेऽवधारयितुम्, प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् । सहकारित्वे हि सर्वत्र तदपेक्षा स्यात्, तथा चानवस्थेत्युक्तम्, अन्यथा कारणत्वं व्याहन्येत । न च अप्रामाण्यं क्वापि परीक्षाऽनपेक्षेण साक्षिणा निश्चितचरम्, येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः, किन्तु सार्वत्रिकत्वात्कारणत्वमेव । प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिं सार्वत्रिकत्वमिति चेन्न, प्रतिबन्धकनिवृत्तावप्रामाण्यग्र(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः । एवं सति गौरवमिति चेन्न, विशेषावधारणाया अशक्यत्वस्यैव कल्पक

त्वात् । तथाऽपि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिःि शङ्क्यत इति

चेत् (न), प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिशिङ्कानिरासात्, अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् ॥ यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात् प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारेऽपि न कश्चिद्विरोध इति सङ्क्षेपः ॥ विस्तरस्तु स्वयम् (एव) आचार्येण वक्ष्यते ।

सु अथ मतम् । साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धबाधवैधुर्यरूपम् एव, न पुनः अस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम्; तत्कथं तेनात्यन्तकबाधाभावलक्षणं सत्यत्वं विश्वस्य स््यिेदित्यत आह अन्यथेति ।

अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।

अकस्माद्विनिवृत्ति(श्च)स्तु किं विश्वस्य न शङ्क्यते ॥

साक्षिणः सर्वथा बाधवैधुर्यलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणोऽपि प्रपञ्चवत् विनिवृत्तिः किं कस्मात् न शङ्क्यते । निवर्तकाभावात्, इत्यत उक्तम् अकस्मादिति ।

ननु च सत्यं ज्ञानं, तत्सत्यमित्यादिश्रुत्या, ब्रह्म न निवृत्तिमत्, अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात् प्रपञ्चारोपाद्यन्यथाऽनुपपत्त्या, ब्रह्मणः सत्यताऽवगमात् तन्नेत्यत उक्तम् श्रुतीति । एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्क्यतामित्यर्थः ।

एतदुक्तं भवति । प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तकं प्रामाण्यं साक्षी गृह्णाति, किन्तु तात्कालिकमेव इति वदन् वक्तव्यः साक्षिणः किमात्यन्तकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्त । आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तकं

न गृह्णीयात् । द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तकं प्रामाण्यं गृह्णीयात् । तथा च न ब्रह्मणोऽबाध्यत्वमात्यन्तकं स््यिेत् । ततश्च साधकबाधकप्रमाणाभावात् तस्यापि बाधः शङ्क्येत । एवं च तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् ॥ अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात् तदा नियामकं वाच्यमिति ।

ननु यदि ब्रह्म बाधार्हं स्यात् तर्हीयता कालेन कुतो न निवृत्तम्, तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्क्यत इति चेन्न, उक्तोत्तरत्वात् । अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तकप्रामाण्यासिेः । अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात्, व्यवस्थापकाभावात् ।

दूषणान्तरमाह इतःपूर्वमिति ।

इतःपूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।

तथाभावात् = निवृत्त्यभावात् । यदि ब्रह्मणो निवृत्तिः न शङ्क्यत इति सम्बन्धः । तर्हीत्यध्याहारः । गति ः निवृत्तिः, स्यादिति शेषः ।

अयमाशयः । इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्तोतानुमानम् । नाद्यः, सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् । न द्वितीयः,

तथा सति संसृतेरविद्यया निवृत्त्यभावप्रसङ्गात् । न हि इतःप्राङ् मूलाविद्या निवृत्ता, अन्यथा तस्यामेव व्यभिचारः स्यादिति ।

किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते, निवृत्तस्य निवृत्त्ययोगात्; अतो विरुता च ।

अन्यथेत्याद्यन्यथा व्याख्यायते । अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्क्यते । तथा च सर्वप्रवृत्तिविलयः स्यात्, परमेश्वरसञ्जिहीर्षाद्यभावात्; इत्यत उक्तम् अकस्मादिति ।

नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्त; विश्वविनाशो न निर्हेतुको विनाशत्वात् पटनाशवदित्यनुमानमपि, तत्कथमेवं शङ्क्यत इत्यत उक्तम् श्रुतीति । प्रमाणानां निवृत्तिर्नामात्यन्तकप्रामाण्याभावः । तात्पर्यं पूर्ववत् ।

ननु प्रागितो न प्रपञ्च(वि)लयोऽकस्मादभूत्, तत्कथमुत्तरत्रापि शङ्क्येत इत्यत (उक्तम्) आह इतःपूर्वमिति । किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं

न तविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति । नाद्यः, संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न द्वितीयः, संसारानिवृत्तिप्रसङ्गात् । तथा हि । विद्या संसारनिवृत्तिहेतुः, साऽप्यविद्यात्मकत्वात् संसृतिरेव, न च तस्या निवर्तकान्तरमस्त । तथा च अकस्मात् किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः । विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न, एवं तर्हि प्रपञ्चोऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् । अत एव न तृतीयोऽपीति ।

उक्तमेवार्थं विवृणोति वाक्येति ।

वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥

अथवा नो संसृतेर्गतिरित्ययुक्तम् । संसारगतेः श्रुत्यादिसित्वात्; तदस््यिा च हेतोर्विशेषणादित्यत आह वाक्येति । ब्रह्मणोऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्; तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्त

व्यम् । साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः, साक्षिणैवेति वक्तव्यम् ।

सु ततः किमिति चेत् । साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽऽत्यन्तकम् ।

आद्ये, न तेन ब्रह्माबाध्यत्वादिसिरिति नोक्तशङ्कानिवृत्तिः ।

न्यायसुधा

द्वितीये त्वाह तत्प्रामाण्यमिति ।

तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।

सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥

एवमक्षजमानत्वसिां विश्वस्य सत्यताम् ।

किमिति स्थापयेन्नायं

यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः । तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति, एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति । हिशब्दः परप्रसिद्यिोतकः । स्थैर्यमेव विवृणोति व्यभिचारं बाधम् अपोह्य निराकृत्यैवेति । न केवलं ब्रह्मसत्यत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तकमेवेत्यर्थः ।

अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः । स्थापयति आत्यन्तकमेव गृह्णातीत्यर्थः । अस्यैव विवरणम् एवमेवेति । इति शब्दोऽध्याहार्यः । सर्वकालेष्वपि इदम् एवमेव न कदाऽपि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति । यद्वा एवंशब्दः समुच्चये । साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयति आत्यन्तकं गृह्णाति । अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यात् अतिशयेन व्यभिचारमपोह्यैव स्थापयति इति । प्रामाण्या(त्यन्तकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दार्थः । एवमिति दार्ष्टान्तकोक्तिः । अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यम् आत्यन्तकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)त् अविशेषादिति समुदायार्थः ।

ननु गृह्णात्वात्यन्तकं प्रामाण्यमक्षजादीनां साक्षी, तस्य तथात्वं तु कुतः; ततश्च न विश्वसत्यतासिरित्यत आह निर्दोषेति ।

निर्दोषज्ञानशक्तितः ॥

साक्षिणो निर्दोषज्ञानरूपत्वशक्तया तथात्वमपि स््यिति । अन्यथा ब्रह्मसत्यत्वाद्यपि न स््यिेत् ।

यद्वा तत्सत्यमित्यादेरात्यन्तकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति । अयमर्थः । तत्सत्यमित्यादिज्ञानस्यात्यन्तकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् । ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावोऽयमिति चेत्, कथं तर्ह्यक्षजादेरपि आत्यन्तकं प्रामाण्यं न गृह्णीयात्, तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसावादिति ।

अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तकं ग्रहीतुं न शक्नोति,

किंवा क्वचिच्छक्तः क्वचिदशक्तः । आद्यस्योत्तरम् अन्यथेत्यादि । द्वितीयस्योत्तरम्

वाक्येति ।

स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम्, अविद्याकृतप्रपञ्चविषयत्वात्, शुक्तिकारजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत्, जीवाश्रितेति ब्रूमः । नन्वत्रापि दूषणमुक्तं स्वतोऽन्यतेति । नैतदस्त, तेदस्याप्याविद्यकत्वात् । न च चक्रकादिदोषः, प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसित्वात्, प्रमिते चार्थे तर्काणामवकाशाभावात् । न च कल्प्याभावदोषः, विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात्, तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम्, बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित; इत्यत आह एकेति ।

एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।

बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥

उच्यते ब्रह्मविवर्तवादिभिः; मृषा प्रमाणेन विना ।

एतदुक्तं भवति । स्यादपीदं कथञ्चित्, यदि विश्वस्यैकजीवाज्ञानकल्पतत्वं स्यात् । न चैतदस्त, प्रमाणाभावात् । श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात्, बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निर्मितत्वे श्रुत्यादिप्रमाणसावेन तद्विरुत्वाच्चेति ।

सु किञ्चैकजीवाज्ञानपरिकल्पतं जीवजडात्मकं समस्तमिति वदन् प्रष्टव्यः किमसावेको जीवस्त्वम् उतान्य इति ।

अन्यश्चेत्तदज्ञानकल्पतस्य तव बन्धमोक्षाभावाद्व्यर्थं पारिव्राज्यादिकम(मित्य•पद्येत ।

आद्येऽपि प्रतिवादिप्रमुखान् जीवान् पश्यसि न वा । प्रथमेऽपि (किं) सन्तीत्युत, न सन्तीति । आद्यं दूषयति परस्येति ।

परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।

परो नास्तीति वदति

यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति । स स्वात्मतस्कर

इति योजना । स्वात्मानमिव परमपि सत्यतया पश्यतः अहमेक एव सत्यो मदज्ञानकल्पताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुमित्यर्थः । न हि त्वदज्ञान(परि)कल्पतं समस्तमित्यत्र बलवत्प्रमाणमस्त, येन दर्शनमपि बाध्येत । न हि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वम् एवमेवाङ्गीक्रियते, किन्तु बलवत्प्रमाणबाधात् । अन्यथा प्रतिवाद्यज्ञानकल्पतस्त्वमिति कथं न स्याः, तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति ।

द्वितीयतृतीयौ निराचष्टे किमिति ।

किमित्युन्मत्तवद्वदेत् ॥

यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति; तदा किमित्युन्मत्तवद्वदेत् । न कथायां प्रविशेत्, न शास्त्रं विरचयेत् व्याकुर्याद्वा । अन्यथोन्मत्तवत् नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् ।

कुतो न वदेत्, येन वदन्नुन्मत्तपदवीमासादयेदित्यत आह पराभाव इति ।

पराभावेऽपि वाग्व्यर्था

वाचः परबोधनार्थत्वात् । पराभावे च तद्वैयर्थ्याद्व्यर्थ्यां वाचं न प्रयुञ्जीत । प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति ।

सत्यं पराभावे वचनमनर्थकम् । मयाऽपि किमपि नोच्यत इत्यत आह यदीति ।

यदि नैवोच्यते तदा ।

कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥

मया किमपि कदापि नैवोच्यत इति यदि उच्यते तदा स्वक्रियाविरोधिनः सकललोकावगतार्थापलापिनः तस्य तस्करस्य एव दण्ड एव उचितः न प्रत्युत्तरम् । परमार्थतो नोच्यत इत्युच्यत इति चेत्, तत्कं प्रतियोग्यभावे निश्चिते व्यवहारतोऽपि वदन्तः प्रेक्षावन्तो भवन्त, येनेदमुच्येतेति ।

सु प्राक् प्रपञ्चमिथ्यात्वसिये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः, इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुार्थव्याख्यानार्थमुत्तरो ग्रन्थः ।

अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता, इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते ।

न्यायसुधा

तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमतेऽर्थेऽनुपपत्तिमाह

प्रपञ्च इति ।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥

विकल्पो विनिवर्तेत कल्पतो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥

इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।

विश्वस्य सत्यतामाहुः

नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमतो वक्तव्यम् । सत्यम् । तथाऽप्येकजीवाज्ञानपरिकल्पतत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् । अस्यां च तदापाततः प्रतीयते, अनादिमायया सुप्तो यदा जीवः प्रब््युत इत्युक्तत्वात् । अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः ।

इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेत इति लिङ्प्रयोगद्वयं च । उपलक्षणं

चैतत् । विद्येत इत्यपि ग्राह्यम् । तथा केनचित् इति । सत्यताम् इत्युपलक्षणम्,

अनादितां चेति ग्राह्यम् । आहुः इत्यवगमयन्तीत्यर्थः । तथा च विश्वमिथ्यात्वपरतया

व्याख्याने तदनुपपत्तिरिति शेषः ।

यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सतं स्यात् तदा योऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते अज्ञानेन कल्पतो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् ।

यद्याद्यास्तुशब्दा विगतार्था विरुार्थाश्च । तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते । यदि पर्वतो निरग्न्थ्किो भवेत् तर्हि निर्धूमोऽपि स्यादिति यथा ।

प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याभ्यत इति परकयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम्, तत्स्पष्टीकुर्वन् विद्येतेत्यस्यार्थं तावदाह विद्येतेति ।

विद्येतोत्पत्तिमेव च ॥

इत्येतच्छब्दरूपम् उत्पत्तिमेव आह, न तु सत्तामिति प्रकृत्यर्थकथनम् । चशब्देन निवर्तेतेति विनाशमाह, न तु बाधमिति समुच्चिनोति ।

विद्यतेरुत्पत्त्यर्थत्वं कुत इत्यत आह विदेति ।

विदोत्पत्ताविति ह्यस्म•तोः

विदोत्पत्ताविति ह्यस्म•तोः । धातोः धातुव्याख्यानादित्यर्थः । विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः । धातोः इति षष्ठ्यन्तं वा । तस्य व्याख्यानादिति शेषः । मन्दानामप्रसिमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिमेवेति हि शब्द•र्थ)ः । तथाऽपि उत्पत्तिरेवेति कुतः, सत्ताऽत्र कुतो नेत्यत आह उत्पत्तिरेवेति ।

उत्पत्तिरेव हि ।

निवृत्तिव्याप्तियुक् प्रायः

अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात् प्रसङ्गोऽयमिति

ज्ञायते । प्रसङ्गश्च व्याप्तिमूलः । व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्क इति तक्षणात् ।

तथा च विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी । उत्पत्तिरेव निवृत्तिव्याप्तियुक्(क्ता), न सत्ता, अस्माकं व्यभिचारित्वात्,

परस्य विरुत्वात् । अतः प्रतीयमानान्वययोग्यताऽभावान्न सत्ता विद्यतेरर्थः, किन्तु

उत्पत्तिरेव, तद्योग्यत्वादिति । प्रध्वंसव्युदासाय प्राय इत्युक्तम्, उत्पत्तिर्निवृत्तियुगित्ययं

प्रायो बाहुल्यमित्यर्थः । तथा च भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं

भवति । एतेन अल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरपि निरस्ता वेदितव्या ।

ननूत्पत्तिर्नाम करणायत्तसत्तालाभः, न चाभावे सत्ताऽस्त; इत्यभावस्य प्रसक्तयभावात्प्राय इति व्यर्थम् । मैवम् । केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा । नाद्यः,

तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् । न द्वितीयः, अभावे तावस्यास्त्यभावोऽस्त

च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति ।

नन्वस्मन्नपि व्याख्याने नान्वययोग्यताऽस्त । तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि । तथा च प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत, न च विनश्यति, तस्मान्नोत्पद्यत इति वक्तव्यम्, न चैतद्युक्तम्, क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् । अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे प्रपञ्च इति ।

प्रपञ्चो भेदपञ्चकः ।

नायं प्रपञ्चशब्दो विश्वविस्तारवाची, येनोक्तदोषः स्यात् । किन्तु पञ्चानां वर्गः

पञ्चः, पञ्चद्दशतौ वर्गे वेति वाशब्देेन पञ्चशब्दस्यापि निपातनाङ्गीकारात् । प्रकृष्टः पञ्चः

प्रपञ्चः । प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति । सा च भेदसम्बन्धन एव पञ्चकस्योपपन्ना, वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते ब््यतेऽन्यथेत्यादेः । अतः प्रपञ्चो भेदपञ्चकः । स च जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतोऽनादिनित्य एवेति नोक्तदोषः ।

टीकाकारास्तु मन्यते भेदो नाम अन्योन्याभावः, स च अन्योन्यतादात्म्यापत्त्यैव निवर्तनीयः, प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च

कदाऽपि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति ।

अन्येऽप्याहुः, नित्ये च त्रयाणां सिरिति ।

सु प्रपञ्चशब्दो भेदपञ्चकवाचीत्येतत्कुत इति चेत्, परोक्तानुपपत्तेरेवेति ब्रूमः । समानार्थायाः श्रुतेश्चेत्याह जीवेति ।

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।

जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥

मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।

सोऽयं सत्यो ह्यनादिश्च

अत्र चशब्दाः तथाशब्दौ च अन्योन्यसमुच्चये । एवशब्दौ अभेदसाहित्यव्यवच्छेदार्थौ । एष भेदपञ्चकः प्रपञ्च उक्तः । प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः ।

सोऽयं सत्यो ह्यनादिश्च इत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते, तत्रानादित्वानङ्गीकारं बाधकम् सादिश्चेदिति ।

सादिश्चेन्नाशमाप्नुयात् ॥

अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति । सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम् द्वैतमिति ।

द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।

इति श्रुतेः

तेनाज्ञात इत्युक्तार्थं भवति । श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्व्याचष्टे मितमिति ।

मितं त्रातं मायाख्यहरिविद्यया ॥

माङ् माने, त्रैङ् पालन, इत्याभ्यां घञर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति । धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतच्, अुतमित्यादौ दृष्टः । विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयते इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् ।

औतं परमार्थत इत्येतद्व्याख्याति उत्तमोऽर्थ इति ।

उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ॥

तस्योपपादनम् तदन्यदिति । यतस्तस्मारेः अन्यत् किञ्चित् मध्यमं किञ्चित् अधमं तस्मादुत्तमोऽर्थो हरिरेवैक इति । विकल्पो विनिवर्तेतेत्येतत् प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् ।

सु इयमत्र योजना । अनादिमायया सुप्तो यदा जीवः प्रब््युते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा इति पूर्वश्लोकेऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं, तयैव परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् । तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिताः । प्रभोरिच्छया निगडादिना पुरुषे बे मुक्ते वा भेद(त्रय)दर्शनात् ।

प्राक् प्रभवस्सर्वभावानामिति भावशब्दोक्तानां जीवानां मिथो भेदोऽप्युक्तः । तत एवावरणानां जडानामपि मिथो भेदोऽर्थाभ्यते । तेषां च पञ्चानामपि भेदानाम् । अनादिमायया, अजमनिद्रम् इत्यादिविशेषणसामर्थ्यादिनाऽनादित्वमपि लब्धम् । तदेतत् पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् ।

तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति प्रपञ्च इति । यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् । न संशय इति व्याप्तेर्निश्चयमाह ।

एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह मायामात्रमिति । यस्मात् इदं प्रपञ्चशब्दोक्तं द्वैतम् उक्तरीत्या मायामात्रं तस्मात् सत्यम् । न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति, भ्रान्तत्वप्रसङ्गात्; नाप्यविद्यमानं केनापि रक्ष्यते । अत्र द्वयोर्भावो द्विता, तदीयो वर्गो द्वैतम्, सामान्ये नपुंसकम् । प्रपञ्चसम्बन्धस्तु प्रकरणाभ्यत इति ज्ञातव्यम् ।

तर्ह्यद्वैतस्सर्वभावानामित्यादि कथमुक्तमित्यत आह औतमिति । यदिदं परमेश्वरस्याद्वैतत्वं (च) विशेषणमुक्तं, न तत् द्वितीयवस्तुराहित्याभिप्रायेण, किन्तु परमार्थतः । ल्यब्लोपनिमित्ता पञ्चमी, उत्तममर्थमभिप्रेत्येति; सप्तम्यर्थे वा तसिः, उत्तमार्थविषय

इति ।

भेदसत्यताऽनङ्गीकारे बाधकं चाह विकल्प इति । विकल्पः प्रकृतो भेदः, यदि केनचित् अज्ञानादिना कल्पतः स्यात् तर्हि, चन्द्रभेदवत् निवर्तेत बाध्येत; न च बाध्यते,

तस्मान्न कल्पतः, किन्तु सत्य एवेति ।

उपसंहरति उपदेशादिति । तदेवम् उपदेशात् श्रुत्याद्यनुसारित्वात् अयम् एव सतां वादः यो भेदसत्यत्वादिविषयः । द्वैतं न विद्यत इति तु तत्त्वे अज्ञाते सति भवति । अतो दुर्वाद इति ।

अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टान्तानुपरोधादिति सूत्रार्थतया गृहीताम् उत तमादेशमप्राक्ष इत्यादिकां श्रुतिं व्याख्याति ।

तत्र परिणामवादिनो व्याख्यानम् उत तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति जगतो ब्रह्मपरिणामतया ततोऽनन्यत्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात्, कथं नु भगवः स आदेशो भवतीति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिं कारणात् कार्यस्यानन्यत्वं, तज्ज्ञानेन तज्ज्ञानं च दर्शयति यथा सोम्यैकेन मृत्पण्डेन

सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् । यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचाऽऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम् इति । यथैकमृत्पण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः । अनन्यत्वे कथं कार्यत्वमित्याशङ्क्य व्यवहारार्थमित्याह वाचाऽऽरम्भणमिति ( छां. उ.) । वाचेति षष्ठ्यर्थे तृतीया । वाग्ग्रहणं समस्तेन्द्रयव्यवहारोपलक्षणम् । विकारोऽभिधेयो घटादिः, नामधेयं तदभिधानम्, इति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात् परस्परं भेदो वास्तव इत्युक्तम् । एतैर्हेतुभिः परस्परं भेदश्चेत् कारणादपि तैरेव भेद इति पूर्वपक्षं निषेुमाह मृत्तिकेत्येव सत्यमिति । इति शब्दः प्रकारवचनः । यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम्, नाश्वमहिषादिवन्नैरपेक्ष्येणेति ।

विवर्तवादी तु व्याचष्टे । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते

यथा सोम्येति । एतदुक्तं भवति । एकेन मृत्पण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषात् विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् । वाचा केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति, न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्त । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यमिति एष ब्रह्मणो दृष्टान्त आम्नात इति ।

तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत् न तावद्वाक्यात् प्रतीयते, किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम्; अतस्तदेव प्रथमं व्याकुर्वन् वाचारम्भणशब्दार्थमाह वाचारब्धमिति ।

वाचारब्धं तु साङ्केत्यं नाम स्यात्

नन्वारम्भणशब्दो ल्युडन्तः । ल्युट् च भावे करणाधिकरणयोश्च विहितो

न कर्मणि । न च कृत्यल्युटो बहुलमिति कर्मणि ल्युट्, प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात्, न चारभ्यस्यारम्भणमिति युज्यते शब्द इति स्ववचनविरोधाच्च; तत्कथमारब्ध इति व्याख्यानमिति । मैवम् । भाव एवारम्भणशब्दस्याङ्गीकारात् । वाचा वागिन्द्रयेण आरम्भणम् उत्पादनं यस्येति तृतीयाया अलुक् । टापं चापि हलन्तानां यथा वाचा निशा दिशा इति वचनात्, वाचयाऽऽरम्भणं यस्येति वा बहुव्रीहिरयम् । तस्यार्थकथनं वाचारब्धमिति ।

तुशब्दोऽवधारणार्थ उत्तरत्र सम्बध्यते ।

वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह साङ्केत्येति । वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् । अवयवार्थकथनं तु वैशद्यार्थमेव । यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येऽपि दर्शनकरणत्वे चक्षुषा पश्यतीति नोक्तार्थता, तस्यां दशायामवयवार्थस्याविवक्षितत्वात्; तथा च वाचारम्भणशब्दोऽपि साङ्केतिकपर्याय इति ।

सु विकारशब्दार्थमाह विकृतमिति ।

विकृतं बहु ॥

अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति । विकृतत्वोपपादक

मर्थान्तरं चाह बह्विति । विविधः, कारः प्रकारो, विकारः । प्रकारप्रकारिणोरभेदाद्बह्वि

त्युक्तम् । बहुविधमित्यर्थः ।

नामधेयं मृत्तिकेत्येव सत्यमित्यस्यार्थमाह नित्यं त्वति ।

नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥

सत्यशब्दार्थो नित्यमिति । तुशब्दोऽवधारणे । आदिशब्देन लोहमण्यादेर्ग्रहणम् । यन्मृत्तिकेत्यादि संस्कृतं नामधेयम्, तदेव नित्यमिति सम्बन्धः । वैदिकमिति तदुपपादनम् ।

ततश्चैवं योजना । वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् । तत एवानित्यम् । कुतः, बहुविधत्वात्, पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् । मृत्तिकेत्यादि नामधेयं वैदिकत्वान्नित्यमनादि चेति । न च वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः, नामधेयविकारशब्दयोर्नियतलिङ्गत्वात्, वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात्, विशेषणानां च विशेष्यनिघ्नत्वात् । अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् ।

यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति; वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात्; विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना; तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति ।

सु ननु च साङ्केतिकनाम्नामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते; परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञानेऽवान्तरप्रकृतेऽस्माकमिव दृष्टान्ते (वो)चोपयोगाभावात् । अतोऽसङ्गतत्वान्नायं श्रुत्यर्थ इति । मैवम् । यद्यपि परस्येव नेदं दृष्टान्तोपपादकम्, तथाऽपि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते; यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति ।

प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ॥

विद्वानित्युच्यते सरिेवं नित्यपरात्मवित् ।

इदमुक्तं भवति । कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम्, अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात् संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञातं भवति, तज्ज्ञानेन यत्फलं विद्वद्व्यवहारगोचरत्वादिकं तवतीति यावत्; एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाभ्यते, तत्फलेऽन्तर्भवतीति ।

अत्र प्राकृताज्ञोऽपि इत्यनेन फलापेक्षयेदमिति सूचितं (भवति) ।

एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् । सत्यम् । न हि परेणापि तन्मुख्यं व्याख्यातुं शक्यम्, तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाऽभावप्रसङ्गात् ।

पामरा न हि विद्वानिति वदन्त, अतः सःि इत्युक्तम् ।

एवं नित्यपरात्मवित् इति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः ।

ननु सत्यशब्दः कथं नित्यार्थः, रूढेर्योगस्य चाभावादित्यतो योगं तावत् दर्शयति सदातनमिति ।

सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥

सत्यमिति इत्यावर्तनीयम् । सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्य

मुच्यत एव, न तूपचर्यत इति । बुधैः वैयाकरणैरिति निर्वचनमूलं सूचयति ।

सदाशब्दात्तत्र भव इत्यर्थे अव्ययात्त्यप् इति त्यप्प्रत्यये कृते सर्वस्य सोऽन्यतरस्यां दि इत्यत्र योगविभागात्सदाशब्दस्य सोऽन्यतरस्यां भवति । सदाशब्दावार्थे ततिा इति ड्यप्रत्ययो वोत्पाद्यः । दकारस्य च तकारः ।

इदानीं रूढिमपि दर्शयति प्रयोगश्चेति ।

प्रयोगश्चोत्तरत्रास्त

उत्तरत्र अष्टमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्च अस्त इति सम्बन्धः । तमेव प्रयोगं दर्शयितुं यदैनं जराऽवाप्नोति प्रध्वंसते वा किं ततोऽ(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमिति वाक्यमर्थतः पठति जरेति ।

जरा यद्येनमाप्नुयात् ।

देहः प्रध्वंसते चायं किं ततोऽस्याति(वि)शिष्यते ॥

हन्यते न वधेनायं जरया च न जीर्यते ।

एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥

यदा एनं देहं जरा अवाप्नोति प्रध्वंसते वाऽयं देहः, (तदा) ततः तत् अस्य देहस्य अन्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत् किमति शिष्यते किंवा पटादिवन्नश्यतीति पृष्टे; नास्य देहस्य जरयाऽयं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्तु एतद्ब्रह्म पूर्णत्वात् पुरं सत्यं नित्यमिति परिहारोऽभिधीयते । इति शब्दस्य पूर्वेणान्वयः ।

अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह नित्यत्व एव हीति । अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते, विनाशस्य प्रकृतत्वात् । तथ्यार्थतायामसङ्गतिः, अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः । एतदेव स्पष्टीकर्तुम् एतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् । पूर्वेणैव सम्बन्धः ।

सु ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत्, न, त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात्, जराद्युपेतानां देहानामसत्यत्वस्यासिेः, असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् ।

ननु तथाऽपि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते । शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः । तर्हि षडेते दृष्टान्ताः स्युः । एवमेवैतत् ।

तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् । मैवम्, तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् ।

तथाऽपि प्रतिशब्दं दृष्टान्तीकरणेऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न, मृत्पण्डादिदृष्टान्तत्रयोपादानेऽप्यस्य समानत्वात् । गहने प्रमेये त्रयोपादानं न दोषाय, किन्तु बुविैशद्यहेतुतया गुणायैवेति चेत्; समं प्रकृतेऽपीति ।

एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह वाचारम्भणमिति ।

न्यायसुधा

वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।

उक्तम् = उक्तिः, शब्द इति यावत् । वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः । तथा हि । किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते, किं वा योगम् । आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् । अथारभ्यत इत्यारम्भणमिति द्वितीयः, तथाऽपि कृद्योगे षष्ठ्यां प्राप्तायां तृतीयाङ्गीकारेऽश्रुतकल्पनम्, ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव । अस्मन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम्, वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेन अस्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न, यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्यानेऽश्रुतकल्पनमेवेति ।

दूषणान्तरमाह पुनरुक्तिरिति ।

पुनरुक्तिर्नामधेयम्

इतिशब्दोऽत्राध्याहार्यः, आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः । नामधेयम् इत्येतत् नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम्, तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् ।

अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानम्; तथाऽपि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधेयमिति पुनरुक्तिरेव, तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः ।

सु दोषान्तरमाह इतीत्यस्येति ।

इतीत्यस्य निरर्थता ॥

मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् । तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये

इति शब्दस्तु निरर्थक एव । स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ । न चात्रै(ते)वमादिष्वन्यतमेनार्थेन अर्थवान् ।

अस्माकं तु शब्दादर्थे सम्प्रत्यय इति मृत्तिकाऽर्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः ।

सु परिणामवादिनोऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात्, ल्युटः कर्मणि व्याख्यातत्वात्, वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वात्, अश्रुतकल्पनम्; नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात् पुनरुक्तिः, इति शब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम् ।

ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम्, तत्कथं निरर्थकता । उच्यते । कार्यकारणयोर्भेदाशङ्कानिरासार्थं हीदमुच्यते, तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति । स्वरूपसत्ता चेत् साध्याविशिष्टता, यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् । अथ सामान्यसत्ता; साऽनैकान्तक, न हि महिषसत्तया

सन्नश्वो महिषान्न भिद्यते । अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथाऽपि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव । विरुं च(चै)तत्, यद्यदधीनं तदेव तदिति । अतो विवक्षितसाधनानुपयोगित्वात् इतिशब्दस्य तन्मतेऽपि निरर्थकतैवेति ।

सु इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकयव्याख्यायां तावद्दोषमाह एक इति ।

सु इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकयव्याख्यायां तावद्दोषमाह एक इति ।

एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।

विकारित्वविवक्षायां

पदसमुच्चये प्रथमः चशब्दः । इति शब्दस्य प्रत्येकं सम्बन्धः । वैयर्थ्यं विगतार्थत्वं विरुार्थत्वं च । एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह । चशब्दस्य विवर्तविवक्षायां चेत्यर्थः ।

जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात्, लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात्, कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च विगतार्थत्वं स्यात् । सर्वमृण्मयादीनामेकमृत्पण्डादिविकारत्वाभावाद्विरुार्थता च स्यात् ।

आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मन्मृत्पण्डे नास्त, कुतः सर्वस्य । युक्तया समर्थ्यत इति चेत्, तर्हि विवादपदत्वेन दृष्टान्तताऽनुपपत्तिः । लौकिकपरीक्षकाणां यस्मन्नर्थे बुसिाम्यं स दृष्टान्त इति हि न्यायविदः । किन्तु घटादीनामबाधितप्रत्यक्षादिसित्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते ।

आरोपितत्वेऽपि नैकस्मन्सर्वमित्येकादिपदानां वैयर्थ्यमेव ।

नन्वेकेनेति परमकारणस्यैकत्वं, पिण्डेनेति कार्याभिमुख्यं, सर्वमिति कार्यनानात्वं विवक्षितम्; अतः कथं वैयर्थ्यमिति । मैवम् । दार्ष्टान्तकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् ।

सु अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्त, किन्त्वेकादिपदवैयर्थ्यमेव । इदं तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति; नखनिकृन्तनस्य अन्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात्; किम्वेकस्य सर्वं प्रतीत्याह न चेति ।

न चैकनखकृन्तनम् ।

सर्वं कार्ष्णायसं च स्यात्

सर्वं च इति द्वितीयचशब्दसम्बन्धः ।

यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा, किं तर्हि विवक्षितमित्यत आह अत

इति ।

अतः सादृश्य एव च ।

विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥

अर्थान्तरस्य दूषितत्वादित्यर्थः । चशब्दावितरेतरसमुच्चये । तुशब्देन नित्यत्वं

विशिनष्टि । नित्यत्वं प्राधान्योपपादकमेव, न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति । मृत्पण्डादिदृष्टान्तत्रयं सादृश्यविषयम्, वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् । वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात् किं पुनर्वचनेनेति चेन्न, ब््याुरोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम् उक्तेति । सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् । तथा मृत्पण्डादिदृष्टान्तानामवान्तरभेदोऽपीति ।

नन्वस्मन्नपि पक्षे सदेव सोम्येदमग्र आसीत् इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः । अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह प्राधान्येति ।

प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव(ष) विस्तरः ।

आदिपदेन प्रलयेऽवस्थानं, त्रिवृत्करणं, जीवरूपेण प्रवेशनमित्यादिकं गृह्यते । प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्ट्यादेः प्रतिपादक एष ग्रन्थविस्तरः प्रवृत्तोऽतः कथमसङ्गतिरिति । चशब्दोऽवधारणे, न तूपादानत्वादिप्रतिपत्त्यर्थमिति । न ह्युपादानं प्रेक्षापूर्वं कार्यं करोति, नाप्यधिष्ठानमध्यस्तम् । एष चेति वा सम्बन्धः । तेन अपागादग्न्थ्ेरग्न्थ्त्विम् इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति । तथा चोक्तं भाष्ये ।

विवर्तमतनिराकरणमुपसंहरति तस्मादिति ।

तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ॥

केनापि मार्गेणेति । ब्रह्माविद्यापक्षेण वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः । न भवेत् उपपन्नमित्यध्याहारः । ततः

किमित्यत आह तदिति ।

तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः ।

तत् = विवर्तमतम्, तस्मादिति वा । तस्यैव विवरणं असङ्ख्यातदोषेतं यस्मा

दिति । हेयमेव तत्, न तु तदुक्तरीत्या सूत्रार्थो ग्राह्यः ।

एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या ।

सु यद्युक्तातिरिक्तदोषाः सन्त, तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः, किमुपरमेण; इत्यत आह असङ्ख्यत्वेनेति ।

असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥

उपरम्यते

दोषाणाम् अतिबहुत्वेन कांश्चिदुक्तवा केषाञ्चिदुपलक्षणे(णत्वे) नैवोपरन्तव्यम् । उपलक्षणं चैतावताऽपि भवतीति उपरम्यते इति ।

सर्वेऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम् ग्रन्थेति । ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिः न स्यात्, तथा च कृतमप्यकृतं स्यादिति भयादपीत्यर्थः ॥

यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कदृशं तर्हि जन्मादिसूत्रेऽभिहितमित्यत आह तत इति ।

ततो विष्णुरिच्छापूर्वकमश्रमः ।

करोति पितृवद्विश्वं

परिणामादिवादस्य निरस्तत्वादित्यर्थः । पितृवदिच्छापूर्वकम् इति कर्तृत्वेन निमित्तत्वमभिप्रैति । विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम् अश्रम इति । तदुक्तमन्तर्याम्यधिकरणे । यद्वाऽश्रम इत्यनेनेदमभिप्रैति, अधिकं तु भेदनिर्देशादित्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते, न चोपादानादेः श्रमादिप्रसक्तिरस्त; अतोऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति ।

एवमस्मन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिमिुपसंहरति पूर्णेति ।

पूर्णाशेषगुणात्मकः ॥ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः ॥ ॥

पूर्णाः प्रत्येकं निरवधिकाः ।