Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C2P3

From Anandamakaranda
Revision as of 01:36, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

न्यायसुधा — अध्यायः 2, पादः 3

न्यायसुधा

विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।

॥ अथ वियदधिकरणम् ॥

१सु०- न वियदश्रुतेरित्यादि पादप्रतिपाद्यं साङ्गतिकं दर्शयति अथेति ।

अनु०- अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥

प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन, वैदिकानां वचनानां परस्परं अविरोधं विरोधाभावं, दर्शयती ति प्रतिपाद्यकथनम् । अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम् अशेषेति । अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः । करिष्यन् इत्यध्यायोपक्रमसमयापेक्षया ।

सूत्रकृता खलु सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयोऽयमध्याय आरब्धः, वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एवेत्यतः तदपाकरणमिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गतिं दर्शयितुम् अथ इत्युक्तम्, अवसरप्राप्तौ, प्राधान्यात् युक्तिविरोधपरिहारस्य प्राथम्ये, तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति, श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति ।

नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् । तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम् अधिदैवेति । अधिदैवानि अव्यक्ताद्यभिमानिदेवताः, अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि ।

२सु०- इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते तथाऽपि विषयभेदाद्भेदो भविष्यति; इहाधिदैवादिविषयवाक्यानां, चतुर्थे त्वध्यात्मविषयाणामिति । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः, अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेः इति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति ।

ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः; मिथो विरुद्धानां प्रामाण्यानिश्चयात् तत्प्रामाण्यनिश्चयार्थ इति चेन्न, एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्त्वव्याघातादिति । उच्यते । ब्रह्मणोऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा, न च तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति; अतोऽधिदैवादिवस्तुतत्त्वावधारणार्थ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तं स्वरूपनिर्णयायैवेति ।

अनु०- स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥

ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् । नाद्यः, वैयर्थ्यात्, तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः, वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादि त्यत उक्तम् अमितद्युतिरिति । सर्वज्ञ इत्यर्थः ।

३सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्गृह्याह अनुभूतीति ।

अनु०-अनूभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं ततः साम्यं द्वारवैयर्थ्यमेव च । दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता । लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा । उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः । व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः । गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्त शास्त्रसिद्धिर्विपर्ययः ॥ विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।
न्यायसुधा

४सु०-

ब्र०सू०-ॐ न वियदश्रुतेः ॐ ॥

अत्राधिकरणे अनादिर्वाऽयमाकाश इत्यादिश्रुतीनां गौणत्वम् आत्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम, अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह प्रकृतिरिति ।

अनु०- प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः । महदाद्याश्च जायन्ते

प्रकृतिः अचेतना, पुरुषः जीवः, तदभिमानिनः प्रकृत्याद्यभिमानिनः । महदाद्या इति महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह जायन्त इति ।

अयमभिसन्धिः । न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम्, प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः , यावद्विकारन्तु विभागो लोकवदि त्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात्, अन्यथा तेषामनैकान्तिकत्वापातात्; नाप्यविगीतजन्मानः, श्रुतिविगानस्य दर्शितत्वात्; न चाधिकरणान्तरं तत्परमस्ति; तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् ।

मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासाय अधिकरणान्तरारम्भ इति ।

५सु०- इह आकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमि ति केचिदास्थिताः । तत् निराकरिष्यन् स्वमतं तावदाह पराधीनेति ।

अनु०- पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम्

आत्मन आकाशः सम्भूतः स इदं सर्वमसृजते त्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यत् इह अधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी, विशिष्टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो, विद्वान् जात इति, घटः संयुक्तो जातो, विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव ।

ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः)रतापत्तिः, परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः, अतो विवादाभावाद्व्यर्थोऽयमारम्भः । यथा न व्यर्थस्तथा आचार्य एव विवादविषयं स्पष्टयिष्यति ।

अत्र इदं सर्वं ससर्जे ति श्रु(त्याद्युदा)त्युदाहारणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति ।

६सु०- परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः, आकाशशब्देन किं विवक्षितं परेषां, (किं) वैशेषिकादिवदवकाशमात्रमुत बाह्यानामिव मूर्ताभावः ।

आद्यं दूषयति अवकाशमात्रमिति ।

अनु०- अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ॥

अन्यथा पराधीनविशेषाप्तिर्जन्मे त्यनङ्गीकृत्य अभूत्वाभवनं जन्मे त्यङ्गीकारे अवकाशमात्रमाकाश इति चाङ्गीकारे, कथम् असौ उत्पद्यते; तस्योत्पत्तिर्नोपपद्यत इति यावत् ।

६असु०- सोपादाना हि स(र्वा)र्वसृष्टिर्दृष्टा, न चाकाशोत्पत्तावुपादानमस्ति ।

न च ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे (निष्टङ्कितम्) निर्दिष्टम् ।

यस्य चोत्पत्तिस्तस्य प्रागभावेन भाव्यम्; न चाकाशस्य प्रागभावः सम्भवति अनुपपन्नप्रतीतिकत्वात् ।

अभावो हि प्रतीयमानः अस्यात्रे ति प्रतीयते न तु निराश्रयः । न चाकाशाभावस्याश्रयप्रतीतिरुपपद्यते, यदेवेहेति निर्दिश्यते तस्यैवाकाशत्वात् । उपादानाश्रिताभाववादेऽपि तदभावान्नाभावप्रतीत्युपपत्तिः, तथा च श्रुतिः । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपी ति ।

अनवकाशरूपं ब्रह्मैवाकाशस्य पूर्वावस्था प्रागभावश्चोच्यत इत्यपि ब्रह्मणोऽनुपादानत्वेन प्रत्युक्तम् ।

प्रतियोग्याश्रय एवाभावाश्रयः, न चाकाशस्याश्रयोऽस्ती ति तदभावोऽपि निराश्रयोऽस्त्विति चेन्न निराश्रयत्वे कार्यत्वानुपपत्तेः ।

किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतः तदभावोऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते ।

प्रकृतिराकाशस्य कारणमिति कश्चित्, तन्मते प्रकृतेरजन्मप्रसङ्गः । अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते, तदाऽसम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति ।

७सु०- द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते, उत अनङ्गीकृत्य । प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा, सर्वस्य वा विवक्षिता । नाद्यः, तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति यदीति ।

अनु०- यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥

सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगन्तव्यः स्यात्, अत्यन्तसतो जन्मासम्भवात् । यदि च सृष्टेः पूर्वं प्रलये अनाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते तर्हि किं तदा मूर्तनिबिडं जगदङ्गीक्रियते ।

एतदेव स्पष्टयति मूर्तेति ।

अनु०-मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत्

यदि उक्तलक्षणाकाशाभावः प्रलये भवेत ् तदा मूर्तसम्पूर्णता भवेदेव; अभावाभावस्य भावानतिरेकात्, तद्व्याप्तत्वाद्वा । चशब्दोऽनुक्तसमुच्चयार्थः सृष्ट्युत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः ।

मूर्तद्रव्याभाव एवाकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति मूर्तद्रव्याणीति ।

अनु०-मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥

तदभावश्चेति चार्थः । यो मूर्तद्रव्याणि तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव । यस्मात्तानि सर्वदा आकाशे स्थितानि तेनेति योजना ।

८सु०- इदमुक्तं भवति । एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत् तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः ।

किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते ।

अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वाऽत्यन्ताभावः अथवाऽन्योन्याभावः । न प्रथमद्वितीयौ, सृष्ट्युत्तरकाले निराकाशत्वप्रसङ्गात्, प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः । न तृतीयः, क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः ।

न चतुर्थः, घटान्योन्याभावो हि पटः तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्, तर्हि उत्पततः पतत्रिणः केन संसर्गो त(य)दभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति ।

तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम् ।

९सु०- अस्त्वेवं परकृतमपव्याख्यानम्; कस्तर्ह्याकाशशब्दार्थः, का च तस्य पराधीनविशेषाप्तिरित्यत आह अत इति ।

अनु०- अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥

परकयव्याख्यानस्यायुक्तत्वादित्यर्थः । तद्देवो भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् । अत्र आत्मन आकाश इत्यादिश्रुतौ । देहोत्पत्त्या इति पराधीनविशेषा(वा)प्तेर्विवरणम् ।

वाक्यद्वयमेतदित्यतोऽत्रेति श्रुत्येति च युज्यते ।

श्रुतेर्विषयान्तरं चाह भूतमपीति ।

अनु०-भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यते

भूतमपि आकाशशब्दोक्तं, तच्च घटादिवत् उत्पद्यते, इति श्रुत्याऽभिधीयत इति सम्बन्धः । कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम् असितमिति रूपित्वादित्यर्थः, तथा च श्रुतिः आकाशो नीलिमोदेती ति । तथा सति चाक्षुषत्वप्रसङ्ग इत्यत उक्तं दिव्येति । तु शब्देनानुद्भूतत्वविशेषं सूचयति ।

इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाद्यम् उत अस्मदादीन् प्रति । आद्ये त्विष्टापादनम्, दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः । तत्रानुद्भूतादिकल्पने अत्रापि तत्समानं श्रुतिप्रामाण्यादिति ।

१०सु०- नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्य अत्र पुनः तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह अव्याकृतमिति ।

अनु०- अव्याकृतं हि गगनं साक्षिगोचरम् । प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्

यतः अव्याकृतं एव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः ।

तस्यानुत्पत्तौ हेत्वन्तरमप्याह नित्यं हि तदिति ।

न चैतदसिद्धम्, विनाशकारणाभावात् । न हि किरणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न, तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम्, आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति, कस्यानुत्पत्तिरुच्यत इत्यत उक्तम् साक्षीति । तत्कथमित्यत आह प्रदेश इति ।

नन्वेतदेव भूताकाशमिति चेन्न, रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् ।

किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽप्याकाशद्वैतमवगमयति, व्यवस्थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । न च प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् ।

ननु सूत्रकृतैव गौण्यसम्भवादि त्युक्तम् । सत्यम्, व्याख्यातं तद्भाष्यकृता, विवृतं चास्माभिः ।

११सु०- नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूत् आकाशः सम्भूत इति विरोधः, इदं सर्वमसृजते त्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न; तस्य अभूत्वाभवनलक्षणोत्पत्त्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह तथाऽपीति ।

अनु०- तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् । खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥

मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः । यदनादित्वेनोक्तं तत् एव खम् इत्यर्थः । इदं सर्वमसृजते ति श्रुतिवाक्यं श्रुतिशब्दः ।

१२सु०- एवं श्रौता(सौत्रा)काशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्याति प्रकृतिरिति ।

अनु०- प्रकृतिः पुरुषः काल इत्येते च समस्तशः । ईशाधीनविशेषेण जन्मा इत्येव शब्दिताः ॥

इत्येते च एतदादयश्च । ईश्वराधीनविशेषेणैव नाभूत्वाभावित्वेनेत्यर्थः ।

कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाह कालेति ।

अनु०- कालप्रवाह एवैको नित्यो न तु विशेषवान्

विशेषवान् क्षणलवादिरूपः । उपपादितं चैतत् प्रागेव ।

१३सु०- प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम्, तत्र कस्य कदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति पुरुषेति ।

अनु०-पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता

यस्मात् पुरुषादीनां रमा अभिमानिनी । सा च एकैव देहदेह्यादिभेदरहिता । तत् तस्मात् साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता न तु विनायकाद्यभिमानिवद्देहोत्पत्तिमतीत्यर्थः ।

यद्यपि भगवत्या इच्छाऽपि नित्या तथाऽपि (तदीय)व्यक्तिरूपस्येश्वरा(परा)धीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् ।

१४सु०- प्रकृतेः पराधीनविशेषावाप्तिं विवृणोति प्रधानमिति ।

अनु०-प्रधानं विकृतेरपि

प्रधानमपि विकृतेः ईश्वराधीनायाः कारणात् इदं सर्वमसृजते त्यादौ सृष्टमित्युदितमित्यर्थः । यथोक्तं विकारोऽव्यक्तजन्म ही ति ।

पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयति पुमांस इति ।

अनु०- पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥

कालप्रवाहस्य प्रवाहिजन्म, महदादीनां चोपचयावाप्तिर्विशेषलाभः, इति स्पष्टत्वा(न्नात्रो)न्नोक्तम् ।

एतेन ज्ञोऽत एव , तथा प्राणाः इत्यादिकमपि व्याख्यातं वेदितव्यम् ॥

न्यायसुधा

ब्र०सू०- ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥

१५सु०- अतीताधिकरणे वियदादिविषयाणां उत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः । इदानीं तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्य इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोर्नित्यत्वाभिधानात्, आकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेः, मुख्यैवानुत्पत्तिरि त्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम् । तत्र कदृशी वायौ श्रुतीनां व्यवस्था यया अधिकाशङ्कापरिहारः स्यादित्यतः तां दर्शयति एवमिति ।

अनु०- एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् । पराधीनविशेषेण जनिमानेव शब्दितः ॥

यथा वियदनादि जन्मवच्चोक्तम एवम् इत्यर्थः । प्रतिभातपरावरः शरीराभावेऽपि प्रातिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतः तस्मात् नित्यसम इति शब्दितः । शरीरोत्पत्तिकारणात् पराधीनविशेषेण इत्येतयोर्हेतुहेतुमद्भावः । एव शब्दस्य पराधीनविशेषेणैवेत्यन्वयः । मुख्यवायुः इत्यनेन भूतप्रकरणेऽपि न भूतवायुविषयमिदं सूत्रम्, तत्राधिकाशङ्काभावात्, अत एव नावान्तराभिमानिविषयम्; किन्नाम तत्परमाभिमानिविषयमेवेति सूचयति ।

स्वरूपातिरिक्तस्य प्रातिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः ।

१६सु०- यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिः न अभूत्वाभवनमि ति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरति नैवेति ।

अनु०- नैव किञ्चित्ततो जन्मवर्जितं परमादृते । पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कर्त्यते । रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्य

इति सिद्धमिति शेषः । एतच्च जन्मनः पराधीनविशेषलाभ(स्वरूप)त्व एवाङ्गीकृते सिद्ध्यति, न त्वभूत्वाभवनरूपत्व इत्यर्थः ।

नन्वव्याकृताकाशस्य अभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिर्जन्मशब्दार्थः, अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत् को दोषः, बाधकभावाभावाभ्याम् अनेकार्थत्वकल्पनाविरोधादित्यत आह स्थूलतेति ।

उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः स्थूलताभवः । अत एव पूर्वशब्दविलोपश्च पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः । उदाहृतं चैतत् प्रकृत्यधिकरणे ।

अभूत्वाभवनं यदि जन्मेति कर्त्यत इत्युक्ते असदनुवादः स्यात्, परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात्, अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम् । तर्हि रमाया जीव चैतन्यस्यापि प्रधानस्य वेदस्य च एवंविधं जन्म नैवास्ति इत्यतः परमेश्वरादृते सर्वं जनिमदिति न सिद्ध्येत्; तथा च इदं सर्वमसृजते त्यादिप्रतिज्ञाहानिः, आत्मा वा इत्यादिशब्दविरोधो, विभक्तत्वहेतोरनैकान्त्यं च स्यात् इति वाक्यशेषः ।

एष चेतनया युक्तो जीव इत्यभिधीयते इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते, तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं चैतन्यस्य इत्युक्तम् । न हि क्षीरं दधि जातमि तिवदिदं द्रव्यं रमादित्वेन परि(णतमि)वृत्तमित्यत्र प्रमाणमस्ति; किन्तु द्वावेतौ नित्यमुक्तौ नित्यौ सर्वगतौ , अजो नित्यः , अजामेकां , यावद्ब्रह्म विष्ठितं तावती वागि त्यादिश्रुतिभ्योऽनादित्वमेवावगतम् ।

१७सु०- ननु वेदस्य कदृशी पराधीनविशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह वेदस्यापीति ।

अनु०- वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषोऽस्ति

नियतविशिष्टानुपूर्वीकत्वेनार्थबोधकत्वशक्त्याविर्भावो व्यक्तिः ।

कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते ।

महदादिसूक्ष्मरूपनित्यता च श्रुत्या(दिप्र)पि प्रसिद्धा ।

अतोऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरति तस्मादिति ।

अनु०- तस्मात्तद्वशतैव हि । उत्पत्तिरत्र कथिता ॥

तद्वशता परमेश्वरवशत्वविशेषलाभः । अत्र श्रुतिसूत्रयोः ॥

न्यायसुधा

ब्र०सू०-ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥

१८सु०- असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायामिदमाशङ्क्यते । सदजायते त्यादिश्रुतेर्ब्रह्मणोऽपि जन्मास्ति, न च श्रुत्यादिविरोधः । स्वरूपोत्पत्त्यभावेऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद् गगनपवनवत् इति । तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् । एतच्चायुक्तमिवाभाति, असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात्, तस्य च परेणाप्यङ्गीकृतत्वात् ॥

नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः । सत्यम्, तथाऽपि तत्र हेतोरनभिधानादयुक्तमेव ॥ नन्वनुपपत्तेरित्युक्तम् । सत्यम्, किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति; न चैतत् सर्वथाऽप्युत्पत्त्यभावमुपपादयितुमलम्, कारणविशेषप्रतिषेधात् । मैवम्, प्रसक्तकारणनिरासात्, अन्यस्याप्रसङ्गात्, कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरिति हेतुं प्रकारान्तरेण व्याचक्षाणः सूत्रार्थमाह स्वतन्त्रत्वादिति ।

अनु०- स्वतन्त्रत्वात्परमात्मनः । नैवोत्पत्तिः कथमपि

कथमपीति । स्वरूपतो विशेषतश्चेत्यर्थः ।

कुतः परमात्मनः स्वातन्त्र्यमिति चेन्मैवम्, किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किं वा अतोऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते । नाद्यः, अनवस्थितेरसम्भवाच्च । द्वितीयं प्रत्याह नेति ।

अनु०- न स्वतन्त्रं ततोऽपरम् ॥

प्रमाणाभावात् । भावे वा तदेवास्माभिः परमात्मतयाऽङ्गीकरिष्यत इति भावः ।

न्यायसुधा

१९सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता, इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते, सतो गुणादेरसम्भवो नोपपद्यते प्रतिज्ञाहान्यादिनाऽनुपपत्तेरि ति ।

तदसत्, वियत्पदेनैव सर्वस्योपलक्षणात्, अभ्यधिकाशङ्काभावाच्च । वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम्, विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन्न; सङ्गतिरेषा नाभ्यधिका शङ्का । रूपादीनामुत्पत्त्यश्रवणादिति चेन्न, प्रतिज्ञादिभ्यस्तदवगतेः । सङ्कोचस्तत्र कल्प्यत इति चेन्न, बाधकानुपन्यासादिति ।

२०सु०- अन्ये त्वेवं व्याकुर्वते ब्रह्मण एवासम्भवो न तु तद्व्यतिरिक्तस्य, प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपत्तेरि ति । एतदप्यसत्, पूर्वेणैवास्यार्थस्य लब्धत्वात् । वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न, प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः, समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् । अन्यथाऽतिदेशेऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यात् । इत्युक्त एव सूत्रार्थः ।

एतदेव ज्ञापयितुं भगवता आचार्येण प्रागेव नैव किञ्चिदि त्युपसंहृतम् ॥

ब्र०सू०- ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥

२१सु०- अत्र योगिनां स्वरूपेणैवानेकत्वमुपपाद्यते । तस्य च अविरोधश्चन्दनवत् इत्युक्तार्थोपपादकतया सङ्गतौ स्थितायां असम्भवस्तु सतोऽनुपपत्तेः इति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टे अच्छेद्यस्यापीति ।

अनु०- अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः । कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥

भोगांश्च इति सम्बन्धः । ऐक्यमेव इति एवशब्दान्वयः । ऐक्यं एकरूपत्वम्, स्वरूपैक्यस्य विभागेऽपि सत्त्वात् । सर्वमीशवशम् । तथा च स एव स्वतन्त्र इति वाक्यशेषः ।

२२सु०- नन्वन्यैश्छेत्तुमशक्यं छित्त्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिः तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम्, कार्यस्य कारणशक्तिं विनाऽनुपपत्तेः । सर्वं जगदीशवशमि ति तु कथमित्यत आह अविभागमिति ।

अनु०-अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥

यथा लोके किञ्चिदद्भुतं कार्यं कृतवतः तथाभूतेऽन्यत्रापि कार्यशक्तिः सम्भाव्यते तथा अत्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः ।

नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते न तु तस्याः परमेश्वरायत्तत्वम् । तत्कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आह इति हीति । तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति । सोऽचिन्त्यः परमो गरीयान् , अचिन्त्ययेशशक्त्यैव ह्येकोऽवयवविवर्जितः । आत्मानं बहुधा कृत्वा क्रडते योगसम्पदे ति सूत्रोपात्ताभ्यां श्रुतिस्मृतिभ्यां यस्मादेवम् अभिधीयते, तस्मात् सूत्रेणाप्येवमेवमभिधीयते; प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति ॥

न्यायसुधा

ब्र०सू०-ॐ पृथगुपदेशात् ॐ ॥

२३सु०- अत्र जीवात्मनः परमात्मना आत्यन्तिको भेदः समर्थ्यते ।

स्यादेतत् । यथा हि प्रत्यक्षादिप्रमा(णैरव)णावधृत(देवदत्त)सिंह(देवदत्त)भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणेऽपि न सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति किन्नाम गौण एवायं प्रयोग इत्यध्यवस्यति तथा अथातो ब्रह्मजिज्ञासा इत्यादिभिः व्यतिरेको गन्धवत् इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात् तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम्, किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत्, अतः प्रापकाभावान्नेदमधिकरणमारम्भणीयमि त्यतोऽधिकाशङ्कां दर्शयन् पूर्वपक्षयति एवं स्थितेऽपीति ।

अनु०- एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥

एवम् अतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चिते अपि इत्यर्थः । स्मृतिभिश्चेति चार्थः, अनुमानबलाच्चेति वा सम्बन्धः ।

एतदुक्तं भवति । यद्यपि भेदः प्राक् समर्थितः तथापि जीवः परमात्मना अभिन्न एव । तद्योऽहं सोऽसौ योऽसौ सोऽहम् , तत्त्वमसि , अहं ब्रह्मास्मी त्यादिश्रुतेः । अहं हरिः सर्वमिदं जनार्दनो नान्यत् ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ती त्यादिस्मृतेश्च । न चैताः श्रुतयः स्मृतयश्च गौणार्था योज्याः; उपक्रमादिबलेन तात्पर्यावधारणात्, बलवद्बाधकाभावाच्च । उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयाऽपि सम्भवन्ति । तथा चानुमानम् विमतो भेदो मिथ्या भेदत्वाच्चन्द्रवदि ति ।

न च अस्मिन्नस्य च तद्योगं शास्ति इति मुक्तावपि भेदोक्तिर्बाधिका, तस्या अवान्तरविषयत्वोपपत्तेः । न च परममुक्तौ भेदे प्रमाणमस्ति, यत्र त्वस्य सर्वमात्मैवाभूत् । विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । आविमुक्तेस्तु भेदः स्याज्जीवस्य परमस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावत इत्यादिश्रुतिस्मृतयोऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद्वादिनो वदन्ति । अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति ।

२४सु०- एवं पूर्वपक्षयित्वा सिद्धान्तयत् सूत्रं व्याचष्टे न तदिति ।

अनु०- न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते

तत् जीवस्य परमात्मैक्यम्, न युक्तम्, किन्तु पृथगेव जीवात्मपरमात्मानौ । कुतः, यतो विष्णुः जीवाज्जीवश्च विष्णोः भिन्नोऽचिन्त्यः परमो जीवसङ्घादि त्यादिश्रुति(स्मृति)भिः पृथगेव अभिधीयते, तस्मादित्यर्थः ।

नन्वेताः श्रुतिस्मृतयोऽविद्याकल्पितभेदविषयतयाऽन्यथासिद्धाः न तात्त्विकभेदसिद्ध्यै प्रभवन्तीत्युक्तमिति चेत् मा त्वरिष्ठाः, निराकरिष्यामः श्रुत्यादेः अतत्त्वावेदकत्वम् इत्याशयवानकल्पितभेदविषयां श्रुतिमुदाहरति प्रज्ञेति ।

अनु०-प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते

एष ब्रह्मैष प्रजापतिरिन्द्र इत्यादिना विश्वप्रपञ्चमनूद्य सर्वं तत्प्रज्ञानेत्रमिति तस्य प्रज्ञाख्याब्रह्मनेतृकत्वमभिधाय नेतृनेतव्यभावस्य कल्पितत्वादि त्याशङ्कानिवृत्त्यर्थं प्रज्ञानेत्रोऽलोक इति श्रुत्या मुक्तौ अपि जीवपरयोः भेदोऽभिधीयते । अलोको मुक्तोऽपि प्रज्ञानेत्रो ब्रह्मनेतृक इति । नीयतेऽनेनेति नेत्रम्, दाम्नीत्यादिसूत्रात् । प्रज्ञा च ब्रह्म, प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मे ति वाक्यशेषात् ।

न चात्र लोक इति पदं छेद्यम्, जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिप्रसङ्गात् । न च नेतृनेतव्ययोरभेदः क्वचिदस्ति । न चावान्तरमुक्तिविषयेयं श्रुतिः, तत्र लोकातीतताऽयोगात्, देहेन्द्रियादिवैकल्यं खल्वलोकत्वम् । परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुमर्हति अतिप्रसङ्गादिति ।

२५सु०- ननु मु(क्तौ भेदाभावेने)क्तावभेदेऽनेकाः श्रुतयः स्मृतयश्च सन्ति, तत्कथमेकाकिनीयं श्रुतिः मुक्तौ भेदसाधनायालमित्यतो बह्वीः श्रुतिस्मृतीरत्रोदाहरति एतमिति ।

अनु०- एतमानन्दमित्यन्या परमं साम्यमित्यपि

एतदानन्दमय मात्मानमुपसंक्रम्ये त्यन्या श्रुतिः मुक्तस्य परस्माद्भेदमाह, सामीप्यप्राप्तेरभिधानात् । न चेयमवान्तरमुक्तिः, अस्माल्लोकात्प्रेत्ये ति विदेहत्ववचनात् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती त्यपि श्रुतिः मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे, साम्यस्य भेदसमानाश्रयत्वात् । पुण्यपापाञ्जनाख्याविद्याविधूननाभिधानादस्यापि परममुक्तिविषयत्वं ज्ञायते ।

अनु०- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥

इदं ज्ञानमि ति भगवद्वाक्येऽपि मम साधर्म्यमागता इति भेदो ज्ञायते, सर्गप्रलययोरप्युपजननव्यथाऽभावोक्त्या परममुक्तित्वं च ।

अनु०- उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ।

तत्र पर्येति जक्षंश्च क्रडन्नपि सदा सुखी ॥

उपसम्पद्यत इत्यनेन परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति जक्षन्क्रडन्रममाण इत्येतां श्रुतिमर्थतोऽनुवदति ।

अत्रापि सामीप्यप्राप्त्यादिना भेदोऽवगम्यते, अस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यत इत्युक्त्या परममोक्षत्वं च ।

अनु०- आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् । इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः । शाखां शाखां महानद्यः संयान्ति परितः स्रवाः । धानापूपा मांसकामाः सदा पायसकर्दमाः । यस्मिन्नग्निमुखा देवाः सेन्द्रा सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः । निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥

शाखां शाखामि ति महाभारतवाक्ये भेदावभासः स्फुट एव । तस्य च परममोक्षविषयताप्रदर्शनार्थम् आचक्ष्वे त्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम् ।

इत्युक्ते प्रजापतिनेति पृष्टे । तस्य मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति ।

तस्य वेतसस्य शाखां शाखां आश्रित्य; धानापूपवत्यः, मांसकामवत्यः; अर्शआदिभ्योऽच् । पायसं कर्दमस्थानीयं यासां ताः तथोक्ताः ।

यस्मिन् लोके । ईजिरे यजन्ते च । तदक्षरं परमं ब्रह्म ।

तत्रैव परमेश्वरान्तर एव ।

अनु०- भेददृष्ट्याभिमानेन निस्सङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥

भेददृष्ट्ये ति भागवतवाक्यस्यायमर्थः । आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः । स , जीवेश्वरादिभेदज्ञानेन, अभिमानेन ईश्वरबहुमानेन, निवृत्तकर्मणा च, जगत्कर्तृत्वात् सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्य मुक्तः सन् प्रविश्य पुनः काला ख्यपरमेश्वरमूर्त्या सृष्टिकाले जाते सत्यगुणव्यतिरेके सत्त्वादिगुणविक्रियाहीने विष्णुलोके, पूर्ववत् सर्वमुक्ताधिपतिः जायत इति ।

अत्र तु भेदः स्फुट एव । हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम् ।

अनु०- ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा

ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्व इति मन्त्रस्यायमर्थः,

मुक्तिस्थाने त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्वानास्ते ऋचः पुष्टाः कुर्वन्नास्ते, त्वो ब्रह्मा शक्वरीषु ऋक्ष्वारूढं गायत्रं साम गायति, त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति , त्वो ब्रह्मा यज्ञस्य विष्णोः मात्राम् अंशमेव विमिमीते ध्यायतीति ।

अत्रापि भेदः स्फुट एवावभासते, ब्रह्मबाहुल्यश्रवणात् परममोक्षत्वं च । न चास्य ऋत्विग्विषयत्वम्, ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात्, चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात् । चशब्दो वाक्यशेषसमुच्चये ।

परेण प्रेरिताः सदे त्यनेन स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिमृज्य ब्रह्मणा(ऽभि)पश्यती त्यादिश्रुतीः, यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिता इत्यादिस्मृतीश्चोपादत्ते ।

अनु०-यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि

यत्काम इत्यनेन न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिरुपादीयते । मुक्तो यद्यत्कामयते तत ् तद्वस्तु तत्कर्म सृजते । कथम् । यत्सृजते तत् अस्मादात्मन एव परमेश्वरानुग्रहद्वारैवेत्यर्थः । अद्धैवेति ह्येवशब्दार्थः । अत्रेश्वरात् जीवस्य भेदः स्पष्ट एव, कर्माक्षयवचनात् परममुक्तित्वं च ।

अनु०-सहैव ब्रह्मणा कामान् भुङ्क्तेनिस्तीर्णतद्गुणः

सहैवे त्यनेन सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते ति श्रुतिमुपादत्ते । ब्रह्मणा ब्रह्मात्मकतया सर्वान् कामान् सह यौगपद्येन भुङ्क्त इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च ॥

निस्तीर्णे त्यनेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवती ति श्रुतिर्गृह्यते । तदा सर्वान् शोकांस् तीर्णो मुक्तो हृदयस्य ब्रह्मणः शेषभूतो भवतीत्यर्थः । हृदयनत्वाद् हृदयं ब्रह्म । तद्गुणा हृद्गुणा दुःखाद्याः । अत्र सर्वशोकतरणात्परममुक्तित्वमवगम्यते ।

अनु०- दुःखादींश्च परित्यज्य

दुःखादींश्च परित्यज्ये त्यनेन ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन् कदाचने त्यादि(कं) ब्रह्मवैवर्तवाक्यं गृह्यते । अत्र बहुवचनेन भेदो, दुःखाद्यभावेन परममुक्तित्वं चाव(सीयते)भासते ।

अनु०-जगद्व्यापारवर्जितः । भुङ्क्ते भोगान् सदैवोच्चान्

जगद्व्यापारे त्यनेन स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जत इति वाराहवचनं गृह्यते । अत्र चैश्वर्यमर्यादया भेदो गम्यते ।

स्वपक्षसाधनमुपसंहरति इत्यादीति ।

अनु०-इत्याद्यागममानतः । मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । जीवेशयोः

मुक्तस्य परब्रह्मण इति शेषः ।

२६सु०- इदानीं परपक्षं निराकरिष्यन् यदुक्तं श्रुतिभिश्चानुमाबलादि ति श्रुतिसाचिव्येन अनुमानम्, तत्तावन्निराकर्तुमुपक्रमते नानुमा चेति ।

अनु०-नानुमा च तदभेदं प्रमापयेत्

च शब्दः स्वपक्षसाधनपरपक्षनि(रसन)राससमुच्चयार्थः । प्रमापयेत् प्रमितं कुर्यात् । यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् । तथा च श्रुतिस्मृती चेति चार्थः ।

२७सु०- तत्कथमित्यतोऽनुमानं तावदनुवदति मिथ्यैवेति ।

अनु०- मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत्

भेदो मिथ्ये त्येतावत्युक्ते चन्द्रभेदादिना सिद्धसाधनं स्यादित्यतो विमत इत्युक्तम् । जीवब्रह्मणोर्भेद इति यावत् । स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोर्व्यभिचारः शङ्कनीय इति ज्ञापनार्थं वा, यावान् कश्चिद्विमतो भेदः स सर्वोऽपीति । भेदग्रहणं (वि)स्पष्टार्थम् । साध्यावधारणेनासिद्ध्याद्याभासोद्धारं सूचयति । भेदमिथ्यात्वसिद्धावभेद एव वास्तवः सिद्ध्यतीति भावः ।

२८सु०- दूषयितुं पृच्छति साध्येति ।

अनु०-साध्यधर्मोऽयं सन्नसन्वा न वोभयम्

अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः ।

सन्नि ति स्वमतानुसारेण । ननु मिथ्यात्वं सच्चेत्तद्यस्य तदपि सत्स्यात्; न हि सम्भवति नास्ति धर्मी, धर्मश्चास्ती ति, तथा च वैपरी(त्यमेव)त्यम् । मैवम् । मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते । तथा च मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिकोऽत्यन्ताभावः सन्नित्यर्थः । न चात्र कोऽपि विरोधः ।

असन्वे ति माध्यमिकमतानुरोधेन । न हि प्रतिवादिन्याश्वासोऽस्ति, येनासौ स्वमतमतिप(ती)त्य न वदेदिति निश्चिनुमः ।

उभयं न वे ति प्रतिवादिमतानुसारेण । सदसद्विलक्षण इत्यर्थः ।

ननु सदसत्त्वमपि जैनादिरीत्या कुतो न विकल्पितम् । सदादिपक्षदूषणसाम्यादिति ब्रूमः ।

यद्वोभयं (वेति) चेति तृतीयः पक्षः । नेति चतुर्थः, उभयं न वेत्यर्थः ।

२९सु०- आद्यं दूषयति यदीति ।

अनु०- यदि सन्नपसिद्धान्तः

यदि अयं साध्यधर्मः सन् इत्युच्यते तदा मायावादिनः अपसिद्धान्तः स्यात् । न हि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वेऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात्, ब्रह्मणो निर्विकल्पकत्वात् ।

द्वितीये दोषमाह स एवेति ।

अनु०-स एवासन्नितीरिते

अपसिद्धान्त एव । मिथ्यात्वस्यासत्त्वे (अपि) सत्त्वमेव जीवब्रह्मभेदस्य स्यात् । न चासत् प्रमाणविषय इति तेषां पक्षः । अनेन सदसत्त्वपक्षोऽपि निरस्तो वेदितव्यः । अन्तिममपाकरोति नोभयं चेदिति ।

अनु०- नोभयं चेन्न सिद्धं तत्

तत् उभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वेऽन्यत्र वा क्वापि न सिद्धम् ।

३०सु०- नन्वनेन किमुक्तं स्यात् । अप्रसिद्धविशेषणत्वमिति चेन्न; सदसद्वैलक्षण्यस्य पक्षविशेषणत्वाभावात्; मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तम्, तद्धर्म एव सदसद्वैलक्षण्यम् ।

न च विमतं बुद्धिमत्कर्तृपूर्वकमितिवद्विशेषणविशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम्, वैषम्यात् । यद्धि व्यापककोटिनिविष्टं विवादपदं च, तस्य प्रसिद्धताऽवश्यम्भाविनी, अन्यथा व्याप्तिग्रहणपक्ष(त्व)योरसम्भवात् । अस्ति च बुद्धिमत्त्वस्यापि व्यापककोटि(टौ) निवेशादि न तु सदसद्वैलक्षण्यस्येति ।

उच्यते । यो ह्यर्थः प्रमाणसाध्यः स सम्भावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः, इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यं प्रकारत्रयस्यापसिद्धान्तपराहतत्वात्, चतुर्थस्याप्रामाणिकत्वात्; न ह्यप्रामाणिकेन प्रकारेण प्रकारवत्किञ्चिद्भवति । अतो व्यापकानुपलब्धिबाधितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमि ति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः ।

अनेनैवाभिप्रायेण टीकाऽपि नेतव्येति ।

३१सु०- दूषणान्तरमाह इति मानस्येति ।

अनु०- इति मानस्य दूषणम्

मीयत इति मानम्, कृत्यल्युटो बहुलमिति वचनात् । मिथ्याशब्दार्थं विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः । तथा हि । किं मिथ्येत्यसत्त्वमुच्यते, किंवाऽनिर्वाच्यत्वम् । आद्येऽपसिद्धान्तः, द्वितीयेऽप्रसिद्धविशेषणता पक्षस्येति । सत्त्वाभावो मिथ्यापदार्थ इति चेन्न । तस्यैवासत्त्व(शब्दार्थ)पदार्थत्वेनापसिद्धान्तानिस्तारादिति ।

३२सु०- दोषान्तरमाह इतीति । मानस्य लिङ्गस्य । भेदत्वहेतुरपि सन्नसन्वा सदसन्वा अनिर्वाच्यो वेति विकल्प्याद्येऽद्वैतवादिनोऽसिद्धिः, दृष्टान्तश्च साधनविकलः; द्वितीयतृतीययोर्द्वयोरपि; चतुर्थे द्वैतवादिनः इति दूषणम् अभिधातव्यमित्यर्थः । न च सदसदादौ भेदत्वसामान्यमस्ति, येन धूमवत्त्ववदयं हेतुः स्यात् ।

३३सु०- जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदि त्यादावनुमानान्तरेऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याह इति मानस्येति ।

३३असु०- यद्वाऽद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशति इतीति ।

३४सु०- न सिद्धं तदि त्ययुक्तम्; पक्षीकृते भेदे वा, प्रपञ्चे वा, अविद्यायां वा, शुक्तिरजतादौ वा, अनिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वात् इत्यत आह न चेति ।

अनु०-न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित्

यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदा अन्तर शब्दो विशेषवचनः । यदा तु मिथ्याशब्दा(र्थं)र्थविक(ल्प्य दू)ल्पेन दूषणाभिधानं तदाऽन्यन्मानं मानान्तरम् । एतत् अनिर्वाच्यत्वम् । क्वचित् इत्युक्तस्थलेषु ।

३५सु०- तत्कथमिति चेदित्थम् । कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षं वा प्रमाणमुच्यते, अनुमानं वा, आगमो वा, अर्थापत्तिर्वा, उपमानं वा, अभावो वेति मनसि विकल्पान्निधाय पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोति अनुमानेन चेदिति ।

अनु०- अनुमानेन चेत्सैव ह्यनवस्था भविष्यति

विमतमनिर्वाच्यं बाध्यत्वादि त्या द्यनुमानेन शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते चेदनवस्था भविष्यति । कथम् । सैव हि अप्रसिद्धविशेषणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः ।

यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् ।

३६सु०- आगममपाकरोति न चेति ।

अनु०- न चागमस्तदर्थोऽस्ति

तदर्थः अनिर्वचनीयार्थः, अनुपलम्भादिति भावः ।

ननु कथं नास्ति, नासदासीन्नोसदासीत्तदानीमि त्यागमस्य विद्यमानत्वादित्यत आह नासदिति ।

अनु०- नासदासीन्न तद्वदेत् ॥

इत्यागम इति शेषः । तत् अनिर्वाच्यं वस्तु । अयं भावः । पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थो नापरः, अन्यथाऽर्थापत्त्यादेरप्यागमान्तर्भावप्रसङ्गात् । अत्र च प्रलये सदाद्यभावमात्रं वाक्यात्प्रतीयते, न पुनरनिर्वाच्यं वस्तु; ततो नायमागमोऽनिर्वाच्यार्थ इति ।

३७सु०- मा भूदयमागमोऽनिर्वचनीयार्थः, तथाऽप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति । तथा हि । अत्र तावत् प्रलये सदसदभावः प्रतिपाद्यते, तत्सामर्थ्यात् तदा विद्यमानस्यार्थस्य सत्त्वासत्त्वप्रतिषेधावगतौ परिशेषादनिर्वाच्यत्वावगतेः । न च तदा वस्तुमात्राभावः, पुनः सृष्ट्यनुपपत्तेः । अभावस्याङ्गीकार्यत्वाच्च ।

परिशेषश्चार्थापत्तिरनुमानं वेत्याशङ्कते परिशेषादिति ।

अनु०-परिशेषादनिर्वाच्यं यदि सिद्ध्येत्

परिशेषादनिर्वाच्यं वस्तु सिद्ध्येत् इति यदि उच्यत इति सम्बन्धः ।

अत्र ब्रूमः । भवेदिदं यद्यत्र सदसच्छब्दौ प्रतीतार्थौ स्याताम्; न चैवम्, प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात्, न सत्तन्नासदुच्यत इत्यादौ तत्र प्रयोगात् । कुत एतदिति चेत् प्रतीतार्थत्वेऽनिष्टप्रसङ्गादित्याशयवानाह परात्मन इति ।

अनु०- परात्मनः । अनिर्वाच्यत्वमेव स्यात्

तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन एव अनिर्वाच्यत्वं स्यादित्यर्थः ।

कुत इत्यत आह परिशिष्टो हीति ।

अनु०- परिशिष्टो ह्यसौ तदा

सदसत्प्रतिषेधसामर्थ्यात् सर्वकार्य(प्र)लयेऽवशिष्टस्य खल्वनिर्वाच्यत्वमेवेष्टव्यम् । असौ परमात्मा, यस्मात्, तदा प्रलयवेलायाम् अलीनतयाऽवशिष्टः, तस्मात् तस्यानिर्वाच्यत्वं भवेदिति ।

३७असु०- न च वाच्यं यद्यपि प्रलये परमात्मा विद्यत एव, तथाऽपि तम आसीदि त्यादिसन्निहितवाक्यात् तमोऽविद्याख्यं बुद्धिसन्निहितमिति तदुपरक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एव अनिर्वाच्यतामाधास्यती ति, आनीदवातमि ति वाक्येन ब्रह्मणोऽपि बुद्धिसन्निधानात् । सत्यं ज्ञानमि ति तस्य सत्यत्वावगमादपवाद इति चेन्न, आसीदि ति तमसोऽपि सत्त्वावगमादपवादः स्यात् । सांव्यावहारिकं सत्त्वं तदिति चेत्, ब्रह्मणोऽपि तथा किन्न स्यात् ।

किञ्चास्मिन्व्याख्याने तदानीमिति व्यर्थं, सदा तमसोऽनिर्वाच्यत्वात् । अन्यपरं वाक्यमिति चेत्, तथाऽपि असन्नासीदि ति व्यर्थमेव । प्राप्त्यभावात् ।

३८सु०- न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । त इमे सत्याः कामा अनृता पिधाना इत्याद्यागमस्तर्ह्यज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आह न चेति ।

अनु०- न चान्य आगमस्तत्र

तत्र अनिर्वाच्येऽर्थे, मानमि ति शेषः ।

अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात् कथं नेत्यतोऽनिर्वाच्यत्वं निर्वक्ति सदसदिति ।

अनु०- सदसत्प्रतियोगिनि

सदसती प्रतियोगिनी यस्य तत्तथोक्तम् ।

यन्न सन्नाप्यसत्तद्ध्यनिर्वाच्यम् । न चात्र तत्प्रतिपादकः शब्दोऽस्ति, अनृतादिशब्दस्य त्वन्यथा व्याख्यानादिति ।

३९सु०- प्रत्यक्षं प्रतिक्षिपति न चेति ।

अनु०-न च प्रत्यक्षमत्रास्ति

न हि इदमनिर्वाच्यमि ति कश्चिल्लौकिकः परीक्षको वा चक्षुरादिनेक्षते । बाधोत्तरकालं मिथ्यैव रजतं प्रत्यभादि त्यनुवादात् कथं नेक्षत इति चेन्न, मिथ्याशब्दस्यासदर्थत्वात् ।

४०सु०- अर्थापत्तिमपाकरोति न चेति ।

अनु०- न चार्थापत्तिरिष्यते

अनुमानात्पृथक् प्रामाणिकैरिति शेषः ।

अनुमानं चाप्रसिद्धविशेषणतया निरस्तमिति भावः ।

४१सु०- किञ्च नास्त्यसावनुपपद्यमानोऽर्थो येन कस्यचिदर्थस्य अनिर्वाच्यतापत्तिः स्यात् ।

अथ मतम् यदि वियदादिविश्वं वा शुक्तिरजतादिकं वा सत्स्यात् तदा न बाध्येत, सतो बाधायोगात्, न हि (संश्चिदात्मा) सन्नात्मा बाध्यते । यदि वाऽसत्स्यात् तर्हि न प्रतीयेत, असतः प्रतीत्ययोगात्, नहि नरि ृङ्गं भाति गवीव । अतो बाधप्रतीत्योरनुपपत्त्या अनिर्वाच्यत्वं गम्यत इत्यत आह बाधेति ।

अनु०-बाधायोगात् सत इति

अर्थापत्तिर्नेष्यते इति वर्तते । एकदेशोत्कीर्तनेनोक्तं सर्वमुपात्तं वेदितव्यम् । सतो बाधायोगादि त्याद्युक्तार्थापत्तिर्नानिर्वाच्यत्वं गमयितुमलमित्यर्थः । वियदादेः सत्त्वे शुक्तिरजतादेश्चासत्त्वेऽनुपपत्त्यभावादिति भावः ।

ननु यदि वियदादिकं सत्स्यात् तदा बाधो न स्यादि त्युक्तमित्यत आह बाधाभावत इति ।

अनु०- बाधाभावत एव हि । इष्टापत्तिः

वियदादेर्विश्वस्य बाधाभावत एव, सत्त्वे बाधो न स्यादितीष्टापादनमेतत् । नेह नानाऽस्ती ति श्रौतनिषेधात्मा बाधोऽस्तीति चेन्न, तस्य प्रा(ङ्निषि)गेव निषिद्धत्वात् । तदिदमाह हि शब्देन ।

अनेनाक्षेपकासिद्धिश्चोक्ता भवति ।

४२सु०- विमतं बाध्यं दृश्यत्वाद् भ्रान्तिवदि ति वियदादौ बाधः प्रमित, इत्यत आह न हीति ।

अनु०-न हि भ्रान्तावपि बाधोऽवगम्यते

तस्माद् दृष्टान्तः साध्यविकल इत्यर्थः ।

४२असु०- कथमिति चेत् । वक्तव्यं (हि क) तर्हि कस्य बाध इति, किं ज्ञानस्योत विषयस्य ।

नाद्यः, अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र स्वभावभङ्गुरेऽभावात्, अन्यथा प्रमितेरपि तत्प्रसङ्गात्, परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच्च ।

द्वितीयं प्रतिषेधति विषयस्येति ।

अनु०-विषयस्य कुतो बाधो

न कुतोऽपीत्यर्थः ।

४२आसु०- कुतो नेति चेत् । विषयः कोऽभिमतः; किं शुक्त्यादिः किंवा रजतादिः । आद्ये हेतुमाह विद्यमानं हीति ।

अनु०- विद्यमानं हि बाध्यते

न हि भ्रान्तावित्य तो मण्डूकप्लुत्या नेत्यनुवर्तते । विद्यमान ं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं न हि बाध्यते । तथा सत्यात्मनोऽपि बाधप्रसङ्गादिति भावः ।

द्वितीये (युक्तिमा)हेतुमाह विद्यमानं हीति । यत्पूर्वं विद्यमानं तदेव केनचिन्नाश्यते (न त्ववि) नाविद्यमानम्, शुक्तिरजतादिकं चाविद्यमानमि ति तस्य नाश्यत्वायोगात् तद्विषयो बाधः सुतरामयुक्त इति ।

४२इसु०- असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाह न हीति ।

अनु०-न हि वन्ध्यासुतो बा(व)ध्यो यज्ञदत्तो हि बा(व)ध्यते

अयमत्र प्रयोगः । शुक्तिरजतं न नाश्यमसत्त्वात्; यदसत् तन्न नाश्यं यथा वन्ध्यासुतः, यद्वा यन्नाश्यं न तदसत् यथा यज्ञदत्त इति ।

४३सु०- स्यादेतत्, बाधानभ्युपगमे लौकिकवैदिकव्यवहारविरोधोऽपसिद्धान्तश्च स्यादित्यतः सर्वथाऽङ्गीकर्तव्ये बाधे तद्दृष्टान्तेन वियदादेरपि बाधायोगात् सत्त्वानुपपत्तिरित्यत आह बाधेति ।

अनु०- बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते

क्वेत्याक्षेपे ।

इदमुक्तं भवति । सत्यमङ्गीक्रियत एव बाधोऽस्माभिः, किन्त्वन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणः । स तु भ्रान्ताविव वियदादावप्यस्त्येव, क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणावगमात्, अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्राङ्निरस्तत्वात्, तत्साधने सिद्धसाधनता स्यात् । न च तेन वियदादौ सत्त्वप्रतिक्षेपः सम्भवति, यत् सत् तत् न बाध्यत इति व्याप्तेरनवगतत्वात्, स(तोऽप्या)त्यस्याप्यात्मनोऽन्याकारेण विदितस्य सम्यग्विज्ञानगोचरत्वस्योभयसिद्धत्वात् ।

न चार्थापत्तेः पृथक् प्रमाणत्वे किं व्याप्त्येति वाच्यम् । न हि वयमनुपपद्यमानस्यार्थस्योपपादकेनार्थेन व्याप्तेरभावं चोदयामः, किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन; न हि बाध एवानुपपद्यमानोऽर्थः, किन्तु प्रतीतत्वे सति बाधः; तस्य चान्यथाऽनुपपत्तिं व्युत्पादयता सर्वथाऽसत्त्वे बाधो न स्यादि ति प्रसङ्गो वा बाधात् सन्न भवती त्यनुमानं वा वाच्यम्, तदुभयं च व्याप्त्यपेक्षमेव । यदा तु प्रमाणद्वयविरोधोऽर्थापत्तिः तदा स्पष्ट एव व्याप्त्यभावो दोष इति ।

ननु बाधायोगादि ति पञ्चमी किमर्था । उच्यते । सतो बाधायोगात् बाध्यमानमिदं न सत् इति अनुमाने व्याप्तिरेषा क्व दृश्यत इति व्याख्यायते । यद्वाऽस्मदभिमतबाधाभ्युपगमे बाधायोगात् सत इत्यादिकं नोपपद्यत इति नञोऽनुवृत्त्या व्याख्या । कुत इत्याशङ्कायां व्याप्तिः इत्यादिकं व्याख्येयम् ।

४४सु०- एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शुक्तिरजतादौ वियदादौ च बाधस्यासिद्धिरभिहिता, इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छति कश्चेति ।

अनु०- कश्चायं बाध उद्दिष्टो

यः अयं वियदादेः शुक्तिरजतादेश्च सत्त्वाभावसिद्ध्यर्थं बाध उद्दिष्टोऽयं कः । किं (वि)ज्ञानेन विनाशः, किंवा निवृत्तिः, यद्वा नासीन्नास्ति न भविष्यती ति कालत्रयसत्तानिषेध इति भावः ।

४४असु०- ननु विनाशनिवृत्त्योः को भेदः । उच्यते ।

केचित् खलु मायावादिनो वदन्ति, अधिष्ठानयाथात्म्यज्ञानेन सविलासाऽविद्या विनश्यति, यावन्ति ज्ञानानि तावत्यो ह्यविद्या इति, तन्मतरीत्या विनाश इत्युक्तम् ॥

अपरे तु एकैवाविद्या, तदवस्थाविशेषा एव रजताद्युपादानानि भवन्ती ति मन्वाना अधिष्ठानतत्त्वज्ञानेन, सहकार्यैरविद्या तिरोधत्त इति; तत्समयानुसारेण निवृत्तिरिति ।

यद्वा अविद्याया विद्यया विनाशो भवति, कार्यं तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम् । तदुभयानुसारेणेदं कल्पद्वयम् ।

अथवाऽलौकिकरजतोत्पादवादिनां मतमनुसृत्य विनाश इति । मायावादिनां तु मतमनुरुद्ध्य निवृत्तिरिति ।

यदि वा, विनाश इति मायावादिनां मतम् । विवेकाग्रहात्प्रवृत्तस्य विवेकग्रहे सति निवृत्तिरिति प्राभाकरमतमिति ।

४५सु०- आद्यं दूषयति न हीति ।

अनु०- न हि नाशोऽसतो भवेत्

असत इत्युपलक्षणम् । असदेव रजतं प्रत्यभादि त्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम् । न च असतः शशविषाणवत् वि नाशः सम्भवति । स्वरूपनिवृत्तिर्हि विनाशः । न चासतः स्वरूपमस्ति, व्याघातात् । नापि वियदादेर्विनाशः सम्भवति, नित्यत्वात् । घटादेरपि मुद्गराभिघातादिनैव विनाशो नाधिष्ठानतत्त्वज्ञानेने ति पूर्वोक्तं स्मारयितुमेतदुक्तमिति हि शब्दः ।

४६सु०- द्वितीयं निराकरोति निवृत्तिश्चेति ।

अनु०- निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते

तिरोभावादिरूपा निवृत्तिः खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत्, सद्धर्मश्चाविर्भावः, शुक्तिरजतादिकं चासदित्युक्तम् । अतः अप्रवृत्तस्य तस्य निवृत्तिश्च कथमेवोपपद्यते ।

यद्वा अविद्यया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते । न च शुक्तिरजतादिकमविद्योपादानकं असत्त्वात् । अतः अप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते ।

एतेन वियदादावपि बाधासिद्धिरुक्ता वेदितव्या ।

प्राभाकरं प्रति रजतार्थिताऽभावादिना अप्रवृत्तस्य पुरुषस्य निवृत्तिः नोपपद्यत इति तत्राव्याप्तेर्नेदं बाधलक्षणमिति व्याख्येयम् ।

४७सु०- तृतीयं दूषयितुमनुवदति नासीदिति ।

अनु०- नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधः

यदेतावन्तं कालं प्रत्यभात् तत् नासीत् न अस्ति न भविष्यतीति त्रैकालिकसत्त्वनिषेधरूप ज्ञान विषयता (यदि) बाध इत्यर्थः ।

यद्यप्येवंविधं ज्ञानं बाध इति वक्तव्यं तथाऽपि तस्य रजतादिसम्बन्धिताज्ञापनार्थं ज्ञानमेयते त्युक्तम् ।

दूषयति तदेति ।

अनु०-तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः

यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेश्चाङ्गीक्रियते तदा असद्वैलक्षण्यमुररीकुर्वता तेनैव पुनरसत्त्वमङ्गीकृतं स्यात् । सत्ताविरहव्यतिरेकेण शशविषाणादीनामप्यसत्त्वस्यानिरूपणात्, अपसिद्धान्तप्रसङ्गान्नायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः ।

असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम् ।

४८सु०- (ननु) यदुक्तं शुक्तिरजतादेरसत्त्वान्न विनाशादिलक्षणो बाधः सम्भवतीति तद(सत्)सिद्धम्, विमतं नासत् प्रतीयमानत्वात्, यत्प्रतीयते तन्न असत् यथा पटः, यच्च असत् न तत् प्रतीयते यथा शशविषाणमि ति प्रमाणेन असत्त्वविरहस्य निश्चितत्वात् ।

अत एवासत्त्वेऽनुपपत्त्यभावादर्थापत्तेरन्यथैवोपपत्तिरित्यपि प्रत्युक्तम्, प्रतीतेरेवानुपपत्तेः ।

यच्चोक्तं त्रैकालिकसत्त्वनिषेधे असत्त्वाङ्गीकारप्रसङ्ग इति तदप्यसत्, प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः ।

यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति तच्चायुक्तम्, निरुपाख्यत्वमसत्त्वमिति निरूपणात् इति चेन्न, असतः प्रतीत्यभावे खल्विदं सर्वं स्यात्, न चैवम्, असतः प्रतीतिं निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाह प्रतीतिरिति ।

अनु०- प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम्

वदन् इत्युपलक्षणम्, जानन्नित्यपि द्रष्टव्यम् ।

असतः प्रतीतिः न अस्ति इति निषेधं कुर्वता कुतः असतः प्रतीतिरङ्गीकार्या इत्यत आह निषेधो हीति ।

अनु०- निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते

प्रतीतिर्नासत इति किमसतः प्रतीतिर्निषिध्यते किंवा प्रतीतेरसद्विषयत्वम्; आद्ये प्रतिषेधविषयतया, द्वितीये प्रतिषेध्यनिविष्टतया, अवश्यमसतः प्रतीतिरङ्गीकरणीया; तस्मात् कथञ्चित् उक्तप्रकारद्वयेन अप्रतीतस्य सम्बन्धी निषेधो नोपपद्यते । न ह्यप्रतीते भूतले घटे वा, भूतले घटो नास्ती ति प्रतिषेधो दृष्टः ।

तदनेन विमतोऽसत्प्रतीतिमांस्तत्सम्बन्धिनिषेधकर्तृत्वात् तद्व्यवहर्तृत्वाद्वा सम्मतवदि ति प्रमाणं सूचितं भवति । अवश्यं च प्रामाणिकं परीक्षकेणाभ्युपगन्तव्यम् ।

मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वाऽनेन सूचित इति ।

४९सु०- एवमर्थापत्तिं निरस्योपमानं च निरस्यति न चेति ।

अनु०-न चोपमा भवेदत्र

अत्र अनिर्वचनीयार्थसद्भावे, प्रमाणमिति शेषः । तस्याः सादृश्यादिनियतविषयत्वादीति भावः ।

५०सु०- अभावमपाकरोति प्रत्यक्षादिति ।

अनु०- प्रत्यक्षात्सत्त्वमेव च

वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्त्वासत्त्वयोरभावसिद्धावनिर्वचनीयार्थसिद्धिरिति वक्तव्यम् । न च तद्युक्तम्; यतो वियदादौ प्रत्यक्षात्सत्त्वमेव निश्चीयते, च शब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते । प्रत्यक्षं विपरीतमनुपलम्भश्चासिद्ध इत्यर्थः ।

५१सु०- एवमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दूषणमाह प्रत्यक्षादिति । प्रत्यक्षेण गगनादौ सत्त्वमेव शुक्तिरजतादौ त्वसत्त्वमेव निश्चीयते । सद्गगनम् , अस्ति मेऽज्ञानम् , असदेव रजतं प्रत्यभादि ति सर्वलोकसाक्षिणः साक्षात्कारिप्रत्ययस्य दुरपह्नवत्वात् । अतस्तदनिर्वाच्यतायामाशङ्क्यमानान्यनुमानादीनि प्रत्यक्षापहृतविषयाणीति नोभयं चेन्न सिद्धं तदि ति युक्तम् ।

यद्वा जीवश्वरयोर्भेदो मिथ्या भेदत्वादि त्याद्यनुमानस्य दूषणान्तरमाह प्रत्यक्षादिति । जीवेश्वरभेदस्यावधार्यत इति शेषः । ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः ।

५२सु०- स्यादेतत् । ईश्वरस्तावन्न प्रत्यक्षसिद्धः, शास्त्रयोनित्वस्याभ्युपगतत्वात्; नापि सर्वे जीवाः, परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्यानभ्युपगमात् । न चाप्रत्यक्षवस्तुभेदः प्रत्यक्षसिद्धो दूरे तत्सत्यत्वमित्यत आह शास्त्रेति ।

अनु०-शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते

ईयते प्रत्यक्षेणेति शेषः । उक्तं तावन्नैक एव भेदोऽनेकत्र व्यासज्य वर्तते किन्त्वेकप्रतियोगिकोऽपरधर्मिक इति; तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते, प्रतियोगिनस्त्ववगममात्रं, तथा लोके दर्शनात् । तत्रेश्वरस्यात्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वेऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण ज्ञातुं शक्यत एव, स्वात्मनः प्रत्यक्षत्वात्, परेशानस्य च शास्त्रेणावगतत्वात् । यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विज्ञायि तत्प्रतियोगिकः स्वात्मनो भेदः, शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमुक्तमिति ।

५३सु०- तथाऽपि कथमनुमानस्य कालात्ययापदिष्टत्वं, भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादि त्यत आह अनुभूतीति ।

अनु०- अनुभूतिविरोधेन कथमेकत्वमुच्यते

अत्र अनुभूति शब्देन साक्षी गृह्यते । उच्यते अनुमीयते । परार्थानुमानप्रयोगस्य वचनात्मकत्वात् उच्यत इत्युक्तम्, अनुमानेनेत्यध्याहारो वा ।

एतदुक्तं भवति । साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्टम्; तच्चानुमानतः प्रबलमेव, तत्स्वरूपप्रामाण्ययोर्धर्मिकोटिनिविष्टस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात् । अतः तद्विरोधेन कारणेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति ।

५४सु०- अस्तु साक्षिप्रत्यक्षं अनुमानात्प्रबलं, तस्य ईश्वरात्स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितं, येनानुमानं बाधितविषयं स्यात् इत्यत आह किञ्चिदिति ।

अनु०- किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते । सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ॥

उपलक्षणमेतत्, अल्पज्ञोऽल्पशक्तिश्चे त्यपि पूर्वार्धे ग्राह्यम्, तथा सर्वकर्ता निर्दुःख इत्यपरार्धे । अनुभूयते स्वात्मेति शेषः । श्रुतः यः सर्वज्ञः , पराऽस्य शक्तिः , स हि सर्वस्य कर्ता , निरनिष्ट , इत्यादौ इति शेषः ।

अयमभिसन्धिः । यो हि यमर्थमव(धि)गम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात् तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम् । यद्यपि भेदः प्रत्यक्षसिद्धः तथाऽपि प्रतियोगिनो वैधर्म्य दर्शनं प्रत्यक्षसाचिव्यमाचरतीति न दोषः, दृष्टं हि रत्नतत्त्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यम्, तदिहापि शास्त्रावगतसार्वज्ञादिमदीश्वरः पुरुषः स्वात्मानं तद्विरुद्धाल्पज्ञत्वादिधर्मवन्तं साक्षिणाऽनुभवंस्ततः स्वात्मनो भेदं कथं नाध्यक्षीकुर्यादिति ।

अस्त्वेकस्य जीवस्येश्वराद्भेदः साक्षिसिद्धः । तथाऽपि तं विहायान्यत्रेश्वरभेदानुमाने न प्रत्यक्षबाध इत्यत उक्तं सर्वैरेवेति । एकप्रत्यक्षबाधाभावेऽपि तत्तत्प्रत्यक्षबाधो दुष्परिहर इति भावः ।

५५सु०- ननु जीवं पक्षीकृत्येश्वराभेदसाधने भवेदयं प्रत्यक्षविरोधः, न चैवमनुमीयते, किन्त्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आह अनुभूताद्धीति ।

अनु०- अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम्

ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या । न च प्रत्यक्षादिना स सिद्ध्यतीति श्रुतिरेव ताहिका ग्राह्या । एषा (हि) च धर्मिप्रमाणभूता यः सर्वज्ञ इत्यादिका श्रुतिः अमुम् ईश्वरम् अल्पज्ञत्वादिना अनुभूतात् जीवात् भेदेन वदति । तस्मात् प्रत्यक्षबाधाभावेऽप्युपजीव्यश्रुतिविरोधेन कालात्ययापदिष्टता दुष्परिहरैव । सदावगताल्पज्ञत्वादिमज्जीवस्वरूपं प्रति सार्वज्ञादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिः ततस्तं भिन्नमेव प्रतिपादयति, अनुभवस्यापलपितुमशक्यत्वात् ।

अनेनैवोभयपक्षीकारोऽपि परास्तः, उपजीव्यप्रत्यक्षश्रुतिबाधितत्वादिति ।

५६सु०- एवमनुमानं निराकृत्येदानीं तद्योऽहमि त्यादिश्रुतिं निराकरोति उपजीव्येति ।

अनु०- उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ॥

तु शब्दो विशेषार्थः; दुष्टं ह्यनुमानमप्रमा(णमेव भ)णं भवति, श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति । ऐक्यं जीवेश्वरयोः ।

श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात्, तच्च भेदग्राहकमित्युक्तम्, इत्युपजीव्यविरोधः । यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत्, तच्च भेदग्राहकमित्युक्तत्वात्, उपजीव्यविरोध एव । यदि चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यम्, इत्युपजीव्यप्रमाणविरोधः स्फुट एव ।

यद्यप्येतत्सर्वं प्रथमसूत्र एवोक्तम् । तथाऽपि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः ।

५७सु०- ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम्, येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम् ।

उच्यते । इह हि भेदाभेदविषययोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाऽप्रामाण्यमेव वा, एकस्य प्रामाण्यमपरस्याप्रामाण्यं वा, तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्याप्रामाण्यं वा, उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवन्ति । तत्र न तावत्प्रथमः; विरुद्धयोः प्रामाण्यानुपपत्तेः, उपपत्तौ वा वस्तुनो द्वैरूप्यापत्तेः, भ्रान्तिबाधव्यवस्थाऽभावप्रसङ्गाच्च । न च भेदाभेदाभ्यामुपपत्तिः, निराकरिष्यमाणत्वात्, असार्वत्रिकत्वाच्च । न चानैकान्तवादेन निस्तारः, द्वयोरपि सावधारणत्वासम्भवात् ॥

नापि द्वितीयः वस्तुनो निस्स्वभावत्वापत्तेः । न चानिर्वाच्यतास्वीकारेण निर्वाहः । ब्रह्मण्यपि सम्भवादि ति पक्षद्वयम् अतिस्फुटदोषत्वात् अनिराकृत्य तृतीयं दूषयति अप्रामाण्यमिति ।

अनु०- अप्रामाण्यं यदा भेदवाचकस्य भविष्यति । स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ॥

भेदवाचकस्य आगमस्येत्युपलक्षणम्, भेदग्राहिणः प्रत्यक्षस्ये त्यपि द्रष्टव्यम् । एवं तदा स एव इत्यत्रापि व्याख्यातव्यम् । धर्मिणः जीवस्येश्वरस्य च । इति शब्दोऽध्याहार्यः । कथं बोध्य इति शेषः ।

इदमुक्तं भवति । यद्यज्ञानादिविशिष्टस्य जीवस्य सार्वज्ञादिविशिष्टस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाऽप्रमाणं स्यात् तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात्, निर्विषयत्वात्; तथा च कस्य विरोधात् प्रत्यक्षादेरप्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः । अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम्, न पुनरेवमेव, अलौकिकप्रकारस्य बोधानङ्गत्वात् । तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात् परिशेषतश्चतुर्थप्रकार एव च सिद्ध्यतीति ।

५८सु०- भवेदेवोपजीवकादुपजीव्यं बलवत् तद्विरोधे चोपजीवकस्याप्रामाण्यम्, किन्नामास्ति तत्र विशेषः; अनेकप्रकारो ह्युपजीव्योपजीवकभावः; क्वचिद्धर्मिग्राहक(तयेति)त्वेन, क्वचित्साध्यग्राहकतया, क्वचित्तहणोपयुक्ततया, क्वापि स्वरूपग्रहणेन, कुत्रचित्प्रामाण्योपपादनेन, क्वचिद्व्याप्त्याद्यङ्गप्रतिपादकत्वेनेति । तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवकं बाध्यत एव, आश्रयादिहीनस्योत्थानविरहापत्तेः । यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति, तदा नायं न्यायः; तत्र चोपजीवकेनैवोपजीव्यस्य बाधः, निषेधार्थमेव तेन तदुपजीवनात्; दृष्टं हीदं रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वम् ।

तदिहापि यदुक्तम् अभेदप्रमाणयोरनुमानागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमि ति तदयुक्तम्, प्रत्यक्षागमयोरनुमानागमौ प्रति निषेध्यसमर्पकतयोपजीव्यत्वात् । भेदनिषेधो हि न तत्प्राप्तिं विना सम्भवति, तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचितम्, इत्यतो यः सर्वज्ञ इत्यादेरागमस्य तावदप्रामाण्यमपाकरोति अप्रामाण्यमिति ।

भेदवाचकस्य भेदकसार्वज्ञादिविशिष्टपरमात्मप्रतिपादकस्यागमस्य ।

एतदुक्तं भवति । समुत्थानवता खल्वनुमानेनागमेन वा विरोधिना यः सर्वज्ञ इत्याद्यागमस्याप्रामाण्यमेष्टव्यम् । अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम्, दूरे तद्बाधनम्, परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात् । निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति ।

नन्वेवं तर्हि नेदं रजतमि ति ज्ञानविरोधेन इदं रजतमि ति ज्ञानस्याप्रामाण्यं न स्यात् । न न स्यात् । न हि नेदं रजतमि ति ज्ञानं रजतताविशिष्टं वस्तु धर्मीकृत्योत्पद्यते किन्तु स्वरूपमात्रम् । सर्वमपि हि, ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्ययः । (धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः । विपर्ययं प्रकारे तु वदन्ति रजतादिके इति सायनशिक्षाभाष्ये वार्तिकसारवचनम् । अत्रापि तृतीयाध्याये चतुर्थपादे तथाऽन्येप्याहुः सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति ।) । तदत्रापि इदं रजतमि ति ज्ञानमिदमंशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तेन बाधकप्रत्ययेन विरोधात्, रजतांशे पूर्वज्ञानस्याप्रामाण्यं युज्यत एव ।

५९सु०- नन्वनेनैव न्यायेनाभेदानुमानागमविरोधेन यः सर्वज्ञ इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम् । इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्रमुपजीव्यानुमानागमाभ्यां सार्वज्ञादिभेदकधर्मवैशिष्ट्यांशेऽप्रमाणीकरिष्यते; तथा च यद्धर्मिग्राहकं न तद्विरोधोऽनुमानादेः, यच्च विरोधि न तद्धर्मिप्रमाणमि त्यत आह यदिति ।

अनु०-यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत्

यत् श्रुतिवाक्यं ब्रह्म स्वरूपग्रह णार्थं मानम् अङ्गीक्रियते, तद्धर्मे सार्वज्ञादिधर्मवैशिष्ट्याकारे कथं न मानं भवेत् ।

अयमभिसन्धिः । शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्ट्यांशे त्वप्रमाणमिति युक्तम्, वैशिष्ट्यांशस्य बाधकप्रमाणविरुद्धत्वात्, इदमाकारस्योत्तरत्राप्यनुवृत्तेः, इदं न रजतमि ति बाधकज्ञानमुत्पद्यते न पुनः नेदं, न रजतं चे ति । न चायमत्र न्यायः, स्वरूपवद्विशिष्टांशेऽपि बाधकाभावात्; न चाभेदानुमानागमौ बाधकौ, अन्योन्याश्रयत्वात्, बाधितत्वेन श्रुतेरप्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेर्बाधकत्वं, सति च तस्मिंस्तद्विरोधिन्याः श्रुतेरप्रामाण्यमिति ।

कथं चानुमानादेः श्रुतिबाधकत्वम् । न तावद्विरोधित्वमात्रेण, वैपरीत्यस्यापि सुवचत्वात्; नापि विरोध्युत्तरज्ञानत्वेन, शुक्तिरियमिति ज्ञानानन्तरं रजतमिदमिति ज्ञानस्य दर्शनात्; अनुत्तरविरोधिज्ञानं बाधकमिदं तु सोत्तरमित्यपि न, कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात्; किन्तु यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति । न चैवमत्रास्तीति ।

६०सु०- न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः किं तर्हीत्यत आह एकेति ।

अनु०- एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥

एकविधमेवेदं यः सर्वज्ञ इत्यादिश्रुतिजनितं विज्ञानं, न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं, विशिष्टाकारे त्वप्रमाणमि त्यनेकविधम्; इत्येवं परीक्षासहकृतसाक्षिरूप विज्ञप्त्या ऽपीदं ज्ञान द्वयं धर्मधर्मिद्वयगर्भं विशिष्टाकारं प्रत्यपि मानं भवत्येव । वक्ष्यते चायमर्थः प्रपञ्चेन ।

यद्वा द्वयं प्रतीतिद्वयं स्वरूपवद्धर्मेऽपीति योज्यम् ।

६१सु०- अथवा यः सर्वज्ञ इत्यादिश्रुतेर्ब्रह्मस्वरूपमात्रे प्रामाण्यमप्रामाण्यं तु सार्वज्ञादिविशिष्टाकार इति वदतः कोऽभिप्रायः; किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणमप्रमाणं चेति; किंवा ज्ञानद्वयमेतत्, तत्रैकं प्रमाणमपरं चाप्रमाणमिति ।

आद्यं दूषयति यदिति । पूर्व एवाभिप्रायः ।

द्वितीयं निराकरोति एकेति । एकमेवेदं विज्ञानमिति साक्षि विज्ञप्त्या नानेकत्वं कल्प्यमिति शेषः । अन्यथा स्तम्भोऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः । तथा च सामानाधिकरण्यं न केनापि ज्ञायेत ।

६२सु०- अस्तु वेदं ज्ञानद्वयं, तथापि नैकस्याप्रामाण्यं वक्तुं शक्यते, स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याह द्वयमिति । ज्ञानद्वयमपीत्यर्थः । धर्मज्ञानमपीति (च) वक्तव्ये द्वयमि ति वचनं न्यायसाम्यसूचनार्थम् ।

६३सु०- एवं बाधाभावपरीक्षितत्वसाम्येऽपि श्रौतमेकं ज्ञानद्वयं वाऽङ्गीकृत्यांशतः प्रामाण्याप्रामाण्ये वदतोऽतिप्रसङ्गमाह न चेदिति । तत् श्रौतं ज्ञानं, द्वयं विशिष्टाकारं प्रति, प्रमाणं न चेत्, तदा अत्र विषये एकं स्वरूपांशं प्रति अपि प्रमाणं न भवेत्, अविशेषात् । तथा च पुनरनाश्रययोरनुमानागमयोरनुत्थानमेव ।

यद्वा तत् विज्ञानम् अत्र विषये एकं विशिष्टाकारं प्रति प्रमाणं न चेत् तदा द्वयं प्रति अपि नो भवेत्, विशिष्टाकारवत् स्वरूपेऽपि प्रमाणं न भवेत्, अविशेषादिति यावत् ।

ज्ञानद्वयाङ्गीकारवादे तु अत्र ज्ञानद्वये तत् विशिष्टविषयं ज्ञानं प्रमाणं न चेत् तर्हि ज्ञान द्वयमपि प्रमाणं न भवेत्, विशिष्टज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यादविशेषादिति ।

६४सु०- एवमभेदानुमानागमौ प्रति यः सर्वज्ञ इति श्रुतेर्निषेध्यसमर्पकत्वेनोपजीव्यत्वं प्रत्युक्तम् । तथाऽपि नानुमानागमयोरुपजीव्यप्रमाणविरोधोऽस्ति, यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात् । न हि सार्वज्ञादिविशिष्टाकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति । ततो विरुद्धाकारस्यानुपयोगितयाऽनुपजीवनादुपजीव्यस्य च स्वरूपमात्रस्याविरोधित्वान्नोपजीव्यप्रमाणविरोधोऽनुमानादेः, प्रमाणविरोधस्तु कथञ्चित्स्यादि त्याशङ्कां परिहरन्नुपसंहरति धर्मीति ।

अनु०- धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम्

तु शब्दो विशेषार्थः, प्रमाणमात्रविरोधाद्व्यवच्छिनत्ति । धर्मिग्राहिण्या श्रुत्या विरोधः । मानस्य अभेदप्रमाणस्यानुमानागमरूपस्य ।

अयमाशयः । परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोधः इति वक्तव्यम् । परमाणुग्राहकेण प्रमाणेन निरवयवतयैव तेषां सिद्धत्वादिति चेन्न, तत्रापि परमाणुत्वस्यानुपयोगिनोऽनुपजीव्यत्वं किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात् ।

नैवं युक्तम्, निरवयवत्वादिना विना परमाणोर्धर्मीकरणासम्भवात् । स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत्, समं प्रकृतेऽपि । न हि ब्रह्मापि सार्वज्ञादिना विना शक्यं धर्मीकर्तुम्, स्वरूपमात्रधर्मीकरणे सिद्धसाधनात् । आरोपितेन सार्वज्ञादिना व्यावृत्तस्य धर्मीकरणे को दोषः, योऽयं स्थाणुः स पुरुष इतिवदिति चेन्न, आरोपितेन निरवयवत्वादिना व्यावृत्तस्य तत्रापि धर्मीकरणसम्भवात् । निरवयवत्वादिग्राहकं प्रमाणतयाऽवधृतम्, नारोपितं इति चेत्; तुल्यमत्रापि, श्रुतेरपि प्रामाण्यनिश्चयात् । तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्टस्यैव यथा धर्मीकरणं तथाऽत्रापि सार्वज्ञादिना पारमार्थिकेनैव विशिष्टस्यैव धर्मीकरणमित्यतो धर्मिग्राहिविरोधो दुष्परिहर इति ।

६५सु०- स्यादेतत् । यथा खल्वभेदप्रमाणयोरनुमानागमयोरुपजीव्यविरोधान्नाभेदसाधकत्वं तथोदाहृताया भिन्नोऽचिन्त्य इत्यादिभेदश्रुतेरप्युपजीव्यविरोधान्न भेदसाधकत्वं सम्भवति । तादात्म्यप्रतियोगिकः प्रतिषेधो हि भेदो नाम, न चाप्राप्ते तादात्म्ये तत्प्रतिषेधबोधनं युक्तमि त्यभेदप्रापकं प्रमाणमुपजीव्य प्रवृत्ता भेदश्रुतिः कथं नोपजीव्यविरुद्धा ॥ किञ्च निर्भेदं स्वरूपमाश्रित्य तस्य भेदो बोधनीयः, तथा च कथं नोपजीव्यविरोधः । यथोक्तम् अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा । तथा चाद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात् इत्यत आह नेति ।

अनु०-नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात्

हि शब्दो युक्तिसूचकः, अभेद इति ताहकम् । अत्र क्वचिदिति । धर्मित्वादावित्यर्थः ।

तदयमर्थः । भेदश्रुतेर्हि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत्, जीवेश्वरस्वरूपस्यैव धर्मित्वात्; नापि स्वरूपप्रामाण्यग्राहकत्वेन, प्रत्यक्षेणैव तत्सिद्धेः; अतो निषेध्यप्रापकतयैवेति वक्तव्यम् । न च तद्विरोधोऽप्रामाण्यमावहति, निषेधशास्त्रापलापप्रसङ्गात् ।

न च प्रमाणप्राप्तस्यायं प्रतिषेधः, किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव ॥

यदपि निर्भेदं स्वरूपमादाय भेदो बोद्धव्य इति, तत्रापि न ययोर्भेदो बोधनीयः तयोरभेद आश्रयणीयः, किन्तु स्वगताभेदं वस्तु धर्मितयोपादाय तस्यान्यतो भेदो बोध्यते ॥ अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणाद्बलाद्युक्तं भेदसाधकत्वमिति शेषः ।

६६सु०- किञ्च तिष्ठतु तावत् यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम्, तथाऽप्यभेदानुमानागमबाधकत्वं भवेदेव; इयं खलु श्रुतिः सार्वज्ञादिविशिष्टमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते, अनुमानागमौ तु सापेक्षौ, सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यात् इत्याशयवानाह नोपजीव्यो हीति ।

अत्र भेदाभेदप्रमाणयोर्मध्ये । भेदश्रुतेः भेदकधर्मविशिष्टधर्मिश्रुतेः । अभेद इत्यभेदप्रमाणम्, अनपेक्षत्वोपलक्षणमेतत्, अतो बलादभेदप्रमाणबाधकत्वमि ति शेषः ।

६७सु०- स्यादेतत्, यः सर्वज्ञ इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्टं ब्रह्म प्रतिपादयति, किन्त्वनुवदत्येव; अतो नानुमानादेस्तद्बाध इत्यत आह न चेति ।

अनु०- न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित्

उपेयं ज्ञेयम् । तत् इति सार्वज्ञाद्युपेतम् । क्वचित् इति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति ।

न तावत् सार्वज्ञादिविशिष्टं ब्रह्म श्रुतिव्यतिरिक्तप्रमाणगम्यम्, शास्त्रैकयोनित्वस्य समर्थितत्वात्; नापि भ्रान्तिप्रतिपन्नम्, क्वचित्प्रमितस्यैवान्यत्रारोपात्, न च प्रमाणेन भ्रान्त्या वाऽप्राप्तस्यानुवादः सम्भवति; अतो नेयं श्रुतिरनुवादिनी, किन्नाम प्रतिपादयत्येवोक्तरूपं ब्रह्मेति ।

ननु तथाऽपि नोपजीव्यप्रमाणविरोधोऽनुमानादेः । श्रुत्युपजीवने हि स स्यात् । न चैवम्, तद्व्यतिरिक्तप्रमाणोपजीवनादि त्यत आह न चेति । वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्योऽपि क्वचिद्देशे प्रत्यक्षेणानुमानेन वाऽवगम्यते, प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्कालेऽनुमानेन गम्यते; न चैवं ब्रह्म क्वचिन्मानान्तरोपेयम्, येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यात् ।

६८सु०- अस्तु वा ब्रह्म प्रमाणान्तरवेद्यं तथाऽप्यभेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः, श्रुतिवत् तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादि त्यभिप्रायवानाह येनेति ।

अनु०-येन मानेन चोपेयं भेदस्तेनावगम्यते

उपेयं ब्रह्मेति शेषः ।

तत्कथमित्यत आह स(सा)र्वज्ञेति ।

अनु०- सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥

धर्मादिकं कस्यचित्प्रत्यक्षं प्रमेयत्वात् घटवदि त्यादिकया सा(स)र्वज्ञसाधकया अनुमया सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत् । एव इति प्रत्यक्षं व्यावर्तयति । कथञ्चन इत्यभ्युपगमवादोऽयमिति सूचयति । सर्वज्ञत्वे त्युपलक्षणम् । तयैवे त्यन्वयः । ईश्वरे तावत्प्रत्यक्षं शङ्कार्हमेव न भवति; अतोऽनुमानमेव वक्तव्यम्, प्रतिपक्षादिना पराहतस्यापि तस्य कथञ्चिच्छङ्कार्हत्वात् ।

अनुमानं च किञ्चित्केनचिद्विशिष्टमेव प्रतिपादयति, न तु निष्कृष्टं वस्तु । न च जीवादिसाधारणधर्मविशिष्टार्थसिद्धावीश्वरः सिद्ध्यति, तस्माद्भेदकधर्मवैशिष्ट्येेनैव तत्सिद्धिर्वक्तव्या । तथा चानुमानादेरुपजीव्यविरोधो वज्रलेपायितः ॥ यद्यप्यनुमानं स्वतः श्रुतितो दुर्बलं तथाऽपि उपजीव्यतया बाधकं भवत्येवेति ।

६९सु०- तदनेनेश्वरग्राहिकायाः श्रुतेर्भेदकधर्मविशिष्टे तस्मिन्प्रामाण्यमुपपादितम्, इदानीं जीवग्राहकस्य प्रत्यक्षस्येश्वरभेदक(वि)धर्मिणि जीवे प्रामाण्यं समर्थ्यते । तथा हि । भवतु श्रुतिरदुःखित्वसार्वज्ञादिमदीश्वरे प्रमाणम्, तथाऽपि नाभेदानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम् । दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यान्न चैवम्, अहं दुःखी त्यादेरनुभवस्य मिथ्यानुभवत्वात् । अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्ति । न च भ्रान्तिप्रतिपन्नेन भेदकेन (भ्रान्तिप्रतिपन्नभेदकेन) वस्तु भिद्यते इति अत आह नेति ।

अनु०- न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत्

क्वापीति सर्वथेत्यर्थः । भवेदेतद्यदि अहं दुःखी त्याद्यनुभवो मिथ्यानुभवः स्यात्, न च तथा, अपि तु प्रमाणमेव । यद्यपि दुःखादिकमन्तःकरणगतं, तथाऽपि स्वरूपेण सदेव; जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव, अल्पशक्तित्वपारतन्त्र्यादिकं तु स्वरूपगतमेवेत्याशयः ।

७०सु०- कुत इत्यत आह न हीति ।

अनु०- न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु

तु शब्दोऽवधारणे, न एवेति सम्बन्धः । असञ्जातबाधभ्रमेषु व्यभिचारपरिहाराय क्वचिद् इत्युक्तम् । न हि कदाचित् कुत्रचित् कश्चित् नाहं दुःखी किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितया आत्मानममनि(षी)षमि ति बाधकप्रत्ययवान् दृश्यत इत्यर्थः ।

ननु विमुक्तश्च विमुच्यते तत्त्वमसी त्यादिश्रुतिरेवास्यानुभवस्य बाधिकाऽस्तीति कथं न दुःखानुभूतिर्भ्रान्तिः, अत्र हि दुःखाद्युपप्लवरहितमेवास्यात्मनस्तात्त्विकं रूपमिति प्रतिपाद्यते; इत्यत आह यदीति ।

अनु०- यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥

अवसीयते श्रुतिमाश्रित्येति शेषः । केन कारणेन । भ्रान्तिः स्वरूपतोऽर्थतश्च । गम्यते अभ्युपगम्यते, अनुभवमाश्रित्ये ति शेषः ।

इदमुक्तं भवति । भवेदेषा श्रुतिरस्यानुभवस्य बाधिका यदि निश्चितप्रमाणभावा भवेत्; न च तथा, धर्मिग्राहकानुभवविरोधेनास्माभिः तदप्रामाण्यस्य प्रतिपाद्यमानत्वात् । परस्य च तत्परिहारायाद्यापि समुद्यतत्वात् । तथा च सति श्रुतिप्रामाण्यनिश्चयेऽनुभवस्य भ्रान्तित्वं, तस्मिंश्च सति श्रुतिप्रामाण्यनिश्चय इति परस्पराश्रयत्वप्रसङ्गः ।

नन्वनुभवविरोधेन श्रुत्यप्रामाण्याभिधानेऽपि समानमेतत् । न समानम्; अनुभवस्यानपेक्षत्वात्, श्रुतेस्तदपेक्षत्वात्, अन्यथा सर्वत्र धर्मिग्राहकविरोधोच्छेदाप(त्ते)त्तिरिति ।

ननु तर्हि नेदं रजतमि त्यस्यापि रजतमिदमि ति ज्ञानं प्रति बाधकत्वमयुक्तं स्यात् । न स्यात्, नेदं रजतमि ति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात्, इदं रजतमि ति ज्ञानस्य तदभावात् । परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपगमात्, उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात् । प्रामाण्यसन्देहे खलु न्यायानुसरणम्, निश्चिते तु प्रामाण्ये किमनेन ।

वक्ष्यति चैतदाचार्यः ।

७१सु०- एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते श्रुतीति ।

अनु०-श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ॥

स्वरूपमर्थश्च इति विवक्षाभेदेन प्रामाण्यमेवोक्तम्; जीवस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपम् अस्याः श्रुतेः सोऽर्थः, इत्युभयत्र फलतोऽर्थभेदाभावात् । एतदेव हि प्रामाण्यमपि । मानेन साक्षिणा ।

परिहरति तच्चेदिति ।

अनु०-तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः

त इत्यव्ययं तृतीयार्थे । ते मत इत्यध्याहारो वा । किं किन्निमित्तम् । दुःखानुभवे भ्रम इति दुःखानुभवस्य भ्रमत्वमिति (इति) यावत्, अङ्गीक्रियत इति शेषः ॥ तत् साक्षिलक्षणं मानं दुःखानुभव विषये भ्रमः कुतोऽङ्गीक्रियत इति वा ।

एतदुक्तं भवति । साक्षिणा श्रुतिप्रामाण्यं निश्चितमिति न परेणाङ्गीकर्तुं शक्यते, तथा सति तत्प्रामाण्यस्य अङ्गीकर्तव्यत्वप्रसङ्गात् । इष्यते तदिति चेन्न, तथा सति अहं दुःखी ति दुःखादिविषयोऽपि स एवेति तत्रापि तस्य प्रामाण्यमेव ग्राह्यं स्यान्न भ्रमत्वम्; न चेत् श्रुतिप्रामाण्यग्रहणेऽपि भ्रमः स्यादिति ।

७२सु०- नन्वेकत्र प्रामाण्ये विषयान्तरेऽपि प्रामाण्येन भाव्यं, तत्राप्रामाण्ये चान्यत्रापि अप्रामाण्येन भवितव्यमि ति कुत एतत्, मा हि भूदेकस्य नियम इत्यत आह न चेति ।

अनु०- न च बाधविशेषोऽस्ति यदबाधितमेव तत्

भवेदेवैकस्यापि क्वचित्प्रामाण्ये परत्राप्रामाण्यम्, कारणविशेषात् । स चोत्पत्तौ दोषो ज्ञप्तौ बाधः । दोषोऽपि बाधोन्नेय एव, यथोक्तं बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथे ति, ततो बाध एव विशेषः । न च दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषोऽस्ति येनासौ श्रुतिप्रामाण्ये प्रमाणभूतोऽपि दुःखादौ भ्रमः स्यात् ॥

यत् यस्मादेवं, तत् तस्मात्, श्रुतिप्रामाण्यमिव, तत् आत्मनो दुःखित्वादिकमपि अबाधितमेव सत्यमेवाङ्गीकार्यमिति । यद्वा यदि अस्मादेवं (तत्) तस्मात् किं दुःखानुभवे भ्रम इति पूर्वे(णैव)ण सम्बन्धः ।

७३सु०- नन्वेतत् श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव, न चोभयत्र प्रामाण्यं साक्षिणो युक्तम्, परस्परविरोधात्; तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्राह्यम्, श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात्; अतो मिथ्यैव दुःखित्वादिकमिति चेन्न; दुःखादावपि सजातीयविजातीयसंवादरूपपरीक्षासद्भावात् । एवं तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आह अबाधितमेवेति ।

तद् दुःखं सत्यमेवेत्यवधारयतोऽयमभिसन्धिः । सत्यम् । श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव, न चैकत्रापि बाधकमस्ति इत्युभयत्रापि प्रमाणं साक्षी । न च विरोधः, औतसत्तामन्तरेणापि श्रुतिप्रामाण्यसत्तायाः सम्भवात्; न ह्यपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्यनिश्चये (साक्षिणः) साचिव्यमाचरन्ति, किन्तु प्रामाण्यमात्रनिश्चयो । उपक्रमाद्यास्तु तत्र तत्राभासीकृता एव । न च दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवोऽस्ति; न च दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधोऽस्ति, विषयान्तरेऽपि तस्य सम्भवात् । अतः सत्यमेव दुःखादिकमिति ।

७४सु०- श्रुतिरनुभवस्य बाधिका न भवति, किन्तु धर्मिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम् । न केवलं धर्मिग्राहकतयाऽनुभव(स्य)प्राबल्यम्, किन्नाम श्रुतिस्वरूपप्रामाण्यग्राहकत्वेनापीत्याशयवानाह श्रुतीति । अर्थ इति अर्थवत्त्वं, प्रामाण्यमिति यावत् । स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेतसिद्धये प्रयोक्तव्या नान्यथा, श्रुतिस्वरूपं तत्प्रामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन । यद्यपि श्रुतिस्वरूपं श्रोत्रवेद्यं तथाऽपि श्रोत्रजनिततद्वृत्तिप्रामाण्यं यावन्न साक्षिणा गृह्यते तावन्न तत् सिद्ध्यतीत्यतः श्रुतिस्वरूपावसायोऽपि साक्षिण्येवायतते ।

यद्वा श्रुतिशब्दे(नै)न तज्जनितं ज्ञानमुच्यते । तत्र पृच्छामः । तस्य साक्षिणः प्रामाण्यं भवताऽप्यभ्युपगतं न वेति । नेति पक्षे श्रुतिस्वरूपाद्यसिद्धेर्न तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम् । आद्यं दूषयति तच्चेदिति । तत् साक्षि(स्व)रूपं प्रमाणं त्वया गृहीतं चेत् तदा दुःखानुभवस्य भ्रमत्वं किं (कथं) न कथञ्चित् । श्रुतिविरोधेन खलु तदुच्यते, सा तु स्वरूपप्रामाण्यग्राहकतयोपजीव्येनानुभवेन बाधिता कथं तद्बाधनाय प्रभवतीति ।

स्यादेतत् । श्रुतिस्वरूपप्रामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते, दुःखादौ तु विषयान्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते, तत्कथमुक्तदोष इत्यत आह न चेति । बाधस्य बाधकत्वेन अभिमतायाः श्रुतेः विशेषो बाध्यतयाऽभिमतात्साक्षिणोऽतिशयो नास्ति । अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति । शिष्टं स्पष्टम् ।

७५सु०- किञ्च अहं दुःखी त्यादिसाक्षिणो भ्रमत्वं वदन् प्रष्टव्यः, किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते उत क्वचित्प्रामाण्यमपि ।

आद्ये दोषमाह श्रुतिस्वरूपमिति । मानेन साक्षिणैव । तथा च तस्य भ्रान्तित्वे तन्न सिद्ध्येदिति भावः । परमार्थतो मा सैत्सीदिति च न वाच्यम्, तत्त्वावेदकत्वस्याङ्गीकृतत्वात् ।

अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाह तच्चेदिति । एकत्र प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकर्तव्यमित्येतत् कुत इत्यतोऽविशेषादित्याह न चेति । पूर्ववत् व्याख्यानम् ।

७६सु०- एवं साक्षिणः प्रमाणान्तरसाधारणरूपता(त्व)मुपेत्य बाधकाभावेन अहं दुःखी त्यादेर्भ्रमत्वं नोपपद्यत इत्युक्तम् ।

इदानीं साक्षिणो यथार्थत्वनियमाच्च न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते, किं बाधकगवेषणादिने त्याशयवान् साक्षिणो यथार्थत्वनियमं विपक्षे बाधकेन समर्थयते बाध इति ।

अनु०-बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते

अनुभूते साक्षिप्रतीतेऽर्थे यदि बाधः प्रवर्तेत, साक्षी यदि कुत्रचिदयथार्थः स्यादिति यावत् । अयथात्वर्थस्य बाधोन्नेयत्वादेवमुक्तम् । तदा कथं स्तम्भोऽयं , कुम्भोऽयमि ति पदार्थानां निर्णय ईयते उपेयते ।

एतदेव प्रपञ्चयति कोऽपीति ।

अनु०- कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना

भ्रमवादिना साक्षिणः क्वचिद्भ्रमत्वं वदता । (यदि) साक्षी क्वचिदयथार्थः स्यात् तदा पदार्थनिर्णयो न स्यादित्यर्थः । यथाऽऽहुरन्येऽपि ज्ञानस्य व्यभिचारित्वे विश्वासः किन्निबन्धन इति ।

७७सु०- ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते, तच्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते । निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संशयपदवेदनीयं जन्यते, तद्विलक्षणया च सामग्रया अवधारणज्ञानम् । तत्र कः साक्षिणो याथार्थ्यनियमस्योपयोगः, किञ्च तदभावेनापनेष्यते ।

उच्यते । न स्तम्भोऽयमि त्येकाकारप्रतिनियतं ज्ञानं इह (हि) निर्णयादिशब्दैरभिधीयते, अपि तर्हि तदनन्तरभावी वस्तुतथात्वाश्वासः । तथा हि; वक्तारो भवन्ति, स्तम्भ इति (च) प्रतीयते, भवति चायं स्तम्भ इति वा वस्तुतत्त्वं तु न विद्म इति वेति । तत्कस्य हेतोः । एकाकारप्रतिनियतेष्वपि ज्ञानेषु केषाञ्चिद्भ्रमत्वस्य केषाञ्चिदभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेऽप्ये(ष्वे)काकारनियते ज्ञाने वस्तुतथात्वविश्वासायोगात् ।

७८सु०- भवतु वस्तुतथात्वाश्वासो वस्तुदर्शनपृष्ठभावी निर्णयः, सोऽपि तस्य दर्शनस्य भ्रमत्वाभ्रमत्वनिर्णयमेवापेक्षते यदि ज्ञानं भ्रमः स्यात् तदा वस्त्वतथाभूतमित्यवसीयते, यदि त्वभ्रमः तदा तथाभूतमि ति । एवञ्च किं साक्षिणो याथार्थ्यनियमेनोपनीयते, किञ्च तस्य भ्रमत्वेनापनीयत इत्यत आह भ्रमत्वमिति ।

अनु०- भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् । एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥

सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयायत्तो वस्तुनिर्णय इति । सैव तत्र प्रत्ययेषु एकस्य स्तम्भादौ पुरुषादिप्रत्ययस्य भ्रमता (अ)परस्य स्तम्भादिप्रत्ययस्य अभ्रमता च कुतो निर्णेतव्या न कुतोऽपि । कुतो यदा यतः । प्रत्ययानां भ्रमत्वमभ्रमत्वं च, अनुभवोपगं साक्षिणैवाध्यवसेयमिति ।

७९सु०- स्यादेतत्, करणदोषबाधकप्रत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति, तत्कथं तदनवधारणमित्याशङ्कां परिहरन्नुक्तमर्थं स्पष्टमाचष्टे भ्रमत्वमिति ।

अनु०-भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा । स चेत्साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ॥

प्रत्ययानां भ्रमत्वमभ्रमत्वं तदवधारणोपयुक्तं च सर्वं करणदोषादिकं साक्षिणा निश्चेयम्, अनिश्चितस्य भ्रमत्वाद्यवधारणाप्रसङ्गात् । स चेत् साक्षी, क्वचित् विषये, दुष्टः अयथार्थः, स्यात्, तदा कथं कारणदोषादेर्भ्रमत्वादेर्वस्तुतथात्वादेर्वा निर्णय ईयते ।

एतदुक्तं भवति । प्रत्ययानां भ्रमत्वावधारणं का(क)रणदोषाद्यायत्तं, तथाऽपि साक्षिणो याथार्थ्यनियमाभावे न सिद्ध्येत् । न हि तत्स्वरूपेणोपयुक्तम्, अतिप्रसङ्गात्, किन्तु निश्चितमेव; तन्निश्चयश्च साक्षात् परम्परया वा साक्षिण्यायतते; स हि का(क)रणदोषादिकं स्वयमेव (वा) ताहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति । ततश्च तस्य क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या न निर्णयः स्यात् । अभ्रमत्वनिश्चयस्तु न संवादाधीनः, तथा सत्यनवस्थादिदोषाः प्रादूष्युरित्युक्तम्; किन्तु केवलसाक्षिण्यायत्तः; विपर्ययशङ्कानिरासे तु संवादस्यानुप्रवेशः ।

न च संवादोऽप्यनिश्चितोऽङ्गम्, तन्निश्चयश्च साक्ष्यधीन एव, तस्य च क्वचिदयथार्थत्वे तदुभयनिर्णयोऽपि न भवेदिति ।

८०सु०- ननु साक्षिणो यथार्थत्वनियमेऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते । न हि याथार्थ्यं स्वरूपेणैवोपयुक्तम्, अतिप्रसङ्गात्, किन्तु निश्चितमेव । न च तन्निश्चयोपायोऽस्ति । अतस्तदनिश्चयात् का(क)रणदोषादेर्भ्रमत्वादेः स्तम्भत्वादेरनिश्चय एवे त्यत आह विशेषा इति ।

अनु०- विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः

विशिष्यन्ते एतैरिति विशेषाः का(क)रणदोषादयः, साक्षिप्रत्यक्षगोचरा एवेति सम्बन्धः । साक्षियाथार्थ्यस्य साक्षिणैव उ(निश्चयो)पपत्तेः । अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथाऽनुपपत्तिसिद्धत्वादिति भावः ।

८१सु०- यदि साक्षी क्वचिद्व्यभिचरेत् तदा तेन अविश्वसनीयेन का(क)रणदोषादिनिश्चयो न स्यात्, तदभावे च प्रत्ययानां भ्रमत्वादि न निश्चीयेत, तथा च वस्तुनिर्णयो न स्यात्, कारणाभावे कार्या(कार्योदया)योगादित्युक्तम् । तत्र मा भूदेतत्सर्वमिति चेन्न । तथा सति हानोपादानादिसर्वव्यवहारविलोपप्रसङ्गात् । कथम् । सर्वव्यवहाराणामेतत्कार्यत्वादित्याह ऊरीकृत्य चेति ।

अनु०- ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते

निश्चित्येत्यर्थः । चो ऽवधारणे । तान् सर्वान् का(क)रणदोषा(दी)न् ऊरीकृत्य व्यवहारः प्रवर्तत इति गौणं समानकर्तृकत्वम् ।

यद्वा ऊरीकृत्य कारणतयोपादाय कारणीकृत्वेति व्याख्येयम् । तथा हि इदं रजतमि ति भ्रान्त्या प्रवृत्तः, का(क)रणदोषं बाधकप्रत्ययं (चा)वावधार्य, तस्य ज्ञानस्य भ्रमत्वं निश्चित्य, नेदं रजतं, किन्तु शुक्तिरेवे ति वस्तु व्यवस्थाप्य, जहाति । तथा जलमेतदि ति प्रतीत्य, तस्य प्रत्ययस्यापातत एवान्यथात्वशङ्कायां, संवादं निवेश्य, तत्स्वरूपप्रामाण्ये गृहीत्वा, (च) अभ्रमत्वं निश्चित्य, जलमेतद्भवत्येवे त्यवधार्य, तदुपादत्त इति ।

८२सु०- ननु नायमस्ति नियमो यदुक्तरीत्या अर्थतथात्वाध्यवसायपूर्वक एव व्यवहार इति, तत्सन्देहादिनाऽपि(दपि) व्यवहारदर्शनात्; इत्यत आह साक्षिण इति ।

अनु०- साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते

व्यवसायी निश्शङ्कोऽविसंवा(दिव्य)दी च व्यवहारः अस्माभिरुक्तरीत्या साक्षिणः कार्यः अभिधीयते, न तु व्यवहारमात्रम् । न च विशिष्टो व्यवहारोऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति ।

अस्तु व्यवहारविलोपः, किन्नश्छिन्नमि त्याशङ्कां परिहरन्नुक्तप्रसङ्गानां विपर्ययपर्यवसानमाह तस्मादिति ।

अनु०- तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकस्सदाऽङ्गीकार्य एव न ः ॥

यस्मात् साक्षिणः क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या का(क)रणदोषाद्यनिश्चयप्रसङ्गेन ज्ञानानां भ्रमत्वाभ्रमत्वनिर्धारणाभावप्रसक्त्या अर्थतथात्वातथात्वनिर्णयाभावानुषङ्गेण निश्शङ्कोऽविसंवादी व्यवहारो लुप्येत, न च तल्लोपोऽङ्गीकर्तुं शक्यः, सर्वलोकप्रसिद्धत्वात्, तथाविधस्य (च) लौकिकैः परीक्षकैश्चोल्लङ्घनायोगात्, प्रमितार्थाननुमतावुन्मत्तत्वप्रसङ्गात्, तस्मात् सर्वलोकप्रसिद्धस्य निश्शङ्कस्याविसंवादिनो व्यवहारस्य कार्यभूतस्य सिद्धये वस्तुतथात्वातथात्वनिश्चयः कारण(करणी)भूतः अङ्गीकार्यः । तत्सिद्धये का(क)रणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयः अङ्गीकार्यः । तत्सिद्धये (च) साक्षिणो विश्वसनीयत्वं, तत्सिद्धये च साक्षी सदा निर्दोषो यथार्थ एव नः परीक्षकाणाम् अङ्गीकार्य इति ।

नन्वेवं तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थत्वनियमोऽस्त्वित्यत आह एक एवेति । एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनेति भावः ।

किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आह शुद्ध इति ।

अनु०-शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम्

दुःखित्वं तेन प्रतीतं जीवस्ये ति शेषः ।

ततश्च किमित्यत आह उपजीव्येति ।

अनु०- उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि

श्रुत्यनुमानयोः उपजीव्यप्रमाणं तत् तस्मात् भेदग्राहकं भेदप्रमापकम् । तथ• च उपजीव्यविरोधादभेदश्रुत्यादेरप्रामाण्यमिति भावः ।

ततोऽपि किमित्यतः सूत्रार्थमुपसंहरति अत इति ।

अनु०- अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः

श्रुतिः भिन्नोऽचिन्त्य इत्यादिका । सामर्थ्यम् अप्रति(सत्प्रति)पक्षत्वम् ।

८३सु०- यद्येवं जीवेश्वरयोर्भेद एव पारमार्थिको व्यवस्थितः तदा तत्त्वमसी त्याद्यद्वैतश्रुतीनाम् अहं हरिरि त्यादिस्मृतीनां च का गतिः; न हि तासामनुमानवत् सर्वथा अप्रामाण्यं युक्तम्, अपौरुषेयत्वेनाप्तोक्तत्वेन च तत्कारणाभावादि त्याशङ्कापरिहाराय सूत्रम्-

ब्र०सू०-ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥

तद्व्याचष्टे तथाऽपीति ।

अनु०- तथाऽपि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः । सारस्स्वरूपमस्यापि मुक्तावप्यवशिष्यते । अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥

यद्यपि जीवब्रह्मणोर्भेद एव तथाऽप्यभेदवत् इति सम्बन्धः । तु शब्दो विशेषार्थः, तं च वक्ष्यामः । तत्सदृशाः परमात्मगुणसदृशाः । सार इत्यनुवादेन स्वरूपमिति व्याख्यानम् । अस्य जीवस्य । कुतः । मुक्तावपि कैवल्येऽपि अवशिष्यते यतः । अभेदवत् अभेदमिव तत्र तस्येव इत्यत्रोपसङ्ख्येयमेतत् । शिष्टप्रयोगात् ।

८३असु०- यद्वा अभेद इति तत्प्रतिपादकमुपलक्ष्यते, अत एवेति सम्बन्धः । एताः परोदाहृताः । हीति मुख्ये बाधकं सूचयति । अत एवे त्यस्यैव विवरणं सादृश्येति । सादृश्यमेवाभेदः सादृश्याभेदः । सिंहो देवदत्त इत्यादिवद्गौणोऽयं व्यपदेश इति वाक्यार्थः ।

८३आसु०- औतवादिभिः खलु तत्त्वम्पदयोर्विरुद्धस्वार्थैकदेशत्यागेनैकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम्, ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम्; तात्पर्यलिङ्गानि च तत्र तत्रान्यथा नीतानि ।

८४सु०- उपलक्षणं चैतत् सौत्रमभेदागमव्याख्यानम् इत्याशयवान् उक्तानुवादेन अर्थान्तरमप्याह सादृश्याच्चेति ।

अनु०-सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपि चाभिदाम् ।

आहुरीशेन जीवस्य

प्रधानत्वादपि इत्यन्वयः । आहुः श्रुतयः, पौराणानि (च) वाक्यानी ति वर्तते । उक्तानुवादः प्रतिपत्तिसौकर्यार्थः । प्रधानत्वं वैशिष्ट्यम् । तत्त्वमसीत्यादिव्यपदेशः सादृश्याद्गौण इत्युक्तम् । नान्योऽतोऽस्ति द्रष्टे त्यादि निर्देशस्तु स्वातन्त्र्यप्राधान्याभ्यां लाक्षणिकः । द्रष्टृपदेन तत्रारोपितवैशिष्ट्यं स्वातन्त्र्यं चोपलक्ष्यते । तथा च द्रष्टा विशिष्टः स्वतन्त्राश्चान्यो नास्ति इत्यर्थः सम्पद्यते ।

यद्वा तत्त्वमसीत्यादिनिर्देशोऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते । तथा हि; तच्छब्देन तदीये स्वातन्त्र्यप्राधान्ये लक्ष्येते, पुनस्ताभ्यां तद्विषयता लक्ष्यते; ततश्च तत्प्रधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति ।

एतदप्युपलक्षणम् । अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र द्रष्टव्यम् ।

स्यादेतत् । तुशब्दो हि सौत्रोऽवधारणार्थः तेन च सादृश्यातिरिक्तोऽर्थो निवर्त्यते, तत्कथमर्थान्तरवर्णनमित्यतोऽन्यथा व्याचष्टे नेति ।

अनु०- न स्वरूपाभिदां क्वचित्

क्वचित् प्रदेशे । स्वरूपाभिदां नाहुरिति तुशब्दार्थः, न तु प्राधान्यादिनिवृत्तिरिति ।

अस्त्वेवं जीवस्य ब्रह्मैक्यं, मुक्तस्य तत्कथं व्याख्येयम् । न च तदप्युक्तन्यायेनेति युक्तम्, तथा सति यत्र त्वस्ये त्यादिविशेषोक्त्यनुपपत्तेरित्यत आह स्थानैक्यमिति ।

अनु०- स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते

ईशेने ति वर्तते । न केवलमुक्तनिमित्तत्रयं, किन्नामैतन्निमित्तद्वयं विशिष्यते; अतो विशेषेणाभेदोक्तिरुपपद्यते । तत्र स्थानैक्येन ऐक्यव्यपदेशो लाक्षणिकः, स्थानगतस्यैकस्य स्थानिषु प्रयोगात् । ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा, विषयैक्यान्मत्यैक्यं ततश्च मतिमतामिति ।

८५सु०- किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तं तत्संसारिण्यनभिव्यक्तं मुक्ते तु व्यक्तमि ति तदभिप्रायेणापि विशेषतोऽभेदोक्तिर्युक्तेत्याशयवानाह सादृश्यं चेति ।

अनु०-सादृश्यं च विशेषेण

मुक्तस्येशेने ति वर्तते ।

ननु सादृश्यादिकं जडेष्वपि विद्यते, तत्कथं तेषां सर्वं खल्विदं ब्रह्म , भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्चे त्यादौ क्वचिदेव परमात्मैक्यव्यपदेशो न पुनर्जीववत् प्राचुर्येणेत्यत आह जडानामिति ।

अनु०- जडानां द्वयमेव तु

तत्प्रधानकं तत्तन्त्रत्वमेव । जडानां तु इति सम्बन्धः ।

सादृश्यस्यापि तृतीयस्य विद्यमानत्वात् कथं द्वयमेव इत्यत आह भवेदिति ।

अनु०-भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना

जडानामिति वर्तते । सत्यमस्ति सादृश्यं, किन्तु तत्सत्त्वा(त्ता)दिनैव, न तु जीववदानन्दादिना; अतो द्वयस्यैव सत्त्वादुपपन्नाऽप्रचुरोक्तिः ।

नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति, केषाञ्चिज्जीवानामतद्रूपताभ्युपगमादिति चेन्मा भूत्; न हि जीवमात्रं प्रति तत्त्वमसीत्युच्यते, तस्य वेदानधिकारित्वात्; किन्तु मोक्षयोग्यं प्रतीत्यदोषः ।

अत्र स्थानैक्यं च क्षीराब्ध्यादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम् । जडाभेदव्याख्यानेन प्राज्ञवदिति दृष्टान्तोऽपि व्याख्यातो भवति ।

८६सु०- सूत्रे प्राज्ञवदित्युक्तम्, तस्या(यम)र्थः, प्राज्ञे यथाऽभेदव्यपदेशोऽमुख्यस्तथे ति । तत्र प्रतियोगिविशेषानुक्तेर्विज्ञानमानन्दं ब्रह्मेत्यादिरखिलोऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येनामुख्य इति ज्ञायेत, तन्मा विज्ञायीत्याशयवानाह ईशेति ।

अनु०- ईशरूपक्रियाणां च गुणानामपि सर्वशः ।

तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥

रूपाणि मत्स्यादीनि । क्रियाः सृष्ट्याद्याः । गुणाः ज्ञानादयः । सर्वश इति प्रत्येकं सम्बन्धः । तथा शब्दः समुच्चये । एव शब्दस्य मुख्यत इत्यनेनान्वयः । अवयवाः हस्ताद्याः । तत्स्वरूपैक्यम् ईश्वरस्वरूपेणै(पै)क्यं तत्प्रतिपादकं वाक्यमिति यावत् । मुख्यत एव व्याख्येयमिति शेषः । तु शब्दो जडव्यावृत्त्यर्थः । तथा च जडविशेष एवायं दृष्टान्त इति भावः । न चैवं साध्यसमत्वदोषः, जीवमात्राभेदवादिनं प्रति अस्याधिकरणस्यारब्धत्वादिति ।

कुत एतदिति चेत् (न), तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याह यथेति ।

अनु०- यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति । इति श्रुतेः

पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथा अधो (वि)धावति, एवं पारमेश्वरान् धर्मान् ततः पृथक् पश्यंस्तानेव तद्दर्शनं अन्वेव अविलम्बेन नरकं विधावती त्यर्थः ।

८७सु०- नन्वीश्वरधर्माणां भेदाभेदौ भवताम्, तथा चात्यन्ताभेदोक्तिरमुख्या; इति सौत्रो दृष्टान्तोऽसङ्कुचितवृत्तिर्भविष्यति, इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवतु इत्यत आह नोभयं चेति ।

अनु०- नोभयं च भेदाभेदाख्यमिष्यते

इष्यते सूत्रकृतेति शेषः । भेदाभेदौ नेष्यते इति वक्तव्ये भेदाभेदाख्यामुभयमि ति वचनं वक्ष्यमाणश्रुतिव्याख्यानानुसारेणेति ज्ञातव्यम् ।

कुतो नेष्यत इत्यत आह एकमेवेति ।

अनु०- एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥

एकम् अभिन्नम् । एकमपि घटादिकमवयवभेदवदुपलब्धमत एव इत्युक्तम् । अद्वितीयं समाधिकरहितम् । इह ब्रह्मणि किञ्चन गुणादिकमिति नाना भूतं नास्ति । यः तु इह ब्रह्मणि विद्यमानं गुणादिकं, नाना भिन्नं, इव शब्दादभिन्नं च पश्यति, स मृत्योः अनन्तरं मृत्युं नरकम् आप्नोति । इति श्रुताविवेत्यस्मा च्छब्दात् ।

उपलक्षणं चैतत्, एवशब्दाच्च, भेदाभेदनिराकृतिः कृता ज्ञायते । अतो नेष्यत इति योजना ।

इव शब्दप्रयोगात् कथमेतल्लभ्यत इत्यत आह इवेति ।

अनु०- इवोभये च सादृश्य इति वाक् शब्दनिर्णये ॥

उभये यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तत इत्यर्थः । अत्र च नानो(क्त्वा)क्त्या प्रयुक्त इवशब्दोऽनाना (सं)गृह्णातीति भेदाभेदाख्यमुभयं निराकृतं भवति । वाक् अस्ती ति शेषः । शब्दनिर्णयो नाम ग्रन्थविशेषः ॥

न्यायसुधा

ब्र०सू०- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥

८८सु०- केचिदिदमेवं व्याचक्षते । जीवः परमात्मनः अंशः । अंशत्वं च नारम्भकत्वम्, परमात्मनोऽनारब्धत्वात्; नापि खण्डत्वम्, अच्छेद्यत्वात्; न च प्रदेशत्वम्, प(घ)टादिवदनित्यत्वप्रसङ्गात्; किन्नाम भिन्नाभिन्नत्वम् । अत्र भेदः औपाधिकः अभेदस्तु स्वाभाविकः, उपाधिश्च अनाद्यनिर्वाच्याऽविद्येत्येके; अन्ये तु सत्यमेवान्तःकरणादिकमिति ॥

कुत एतत् । द्वा सुपर्णा , नित्यो नित्यानामि त्यादि नानाव्यपदेशात् । अन्यथा चापि तत्त्वमसि , अहं ब्रह्मास्मी त्याद्यभेदव्यपदेशात् । न चैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ, किन्तु सर्वेषाम्, यतो ब्रह्मदाशा ब्रह्मकितवा इति एके ब्रह्मणो दाशकितवादित्वमधीयत इत्यादि ।

तदिदमयुक्तम् । तथा हि । कोऽयमभेदः, किं मुख्य एवोतामुख्यः सादृश्यादिलक्षणः ।

आद्यं निराकरोति भेदस्येति ।

अनु०-भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः

मुक्तावपि इति सम्बन्धः । तत्पक्षः मुख्याभेदपक्षः ।

जीवस्यौपाधिक एव परमात्मनो भेदः । अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावः(वोवाच्यः) वाच्यः, तत्राविद्याया अन्तःकरणादेश्चाभावात् । न च तद्युज्यते, मुक्तावपि जीवब्रह्मभे(णोर्भे)दस्य प्रागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् । अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव ।

द्वितीयं निराचष्टे चेतनत्वादीति ।

अनु०-चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥

सादृश्यम् इत्युपलक्षणम्, तत्प्रधान(क)त्वाद्यपीति द्रष्टव्यम् । अभेदोऽङ्गीकृतश्चेत् कथं तत्पक्षनिग्रह इत्युक्तम् ? इत्यत आह नेति । क्वचिदिति । संसारे मुक्तौ वे(चे)त्यर्थः ।

८९सु०- न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः, किं तर्हि श्रुतिविरुद्धोऽपीत्याह न केनचिदिति ।

अनु०-न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा । इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ॥

भेदेन सहितोऽभेदो भेदाभेदः । क्वचिदपी ति सम्बन्धः । वा शब्दः समुच्चये । ऋतेयोगे द्वितीयाऽप्युपसङ्ख्यातव्या, श्रौतप्रयोगात् । अपि शब्दः समुच्चये । वा शब्दो विकल्पार्थः; स च व्यवस्थितो विकल्पः; समुदायमृते(न) केन चिद्भेदाभेदो(दोऽस्ति) नास्ति, स्वगुणादीन् विनाऽभेदो नास्तीति । केन चिदपीत्यन्वयः ।

एतेन जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ, न तु भेदोऽविद्याद्युपाधिनिबन्धनः, अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोध इति वदन् यादवप्रकाशोऽपि निरस्तः ।

क्वचित्केनचिदिति विशेषश्रुतिविरोधादिति ।

९०सु०- यद्येवं जीवब्रह्मणोर्न भेदाभेदौ कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह अभेदेति ।

अनु०-अभेदश्रुतयोंऽशत्वात्

उपलक्षणमेतत्, भेदश्रुतयश्चेत्यपि द्रष्टव्यम् । अंशत्वादेव हि उपपद्यन्त इति शेषः ।

अयमर्थः । जीवः परमात्मनोंऽश इति प्रतिज्ञातार्थे, नानाव्यपदेशादि ति पुत्रभ्रातृत्वादि नानाविधसम्बन्धव्यपदेशहेतुमभिधाय अन्यथा चापी त्यादिना अर्थापत्तिरप्युच्यते । तथा हि । जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद्विद्यन्ते, ताश्च जीवस्य ब्रह्मांशत्वादेव हि उपपद्यन्ते, नान्यथा । यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात् तदा अभेदश्रुतय उपरुध्येरन्, यदि वा ब्रह्माभिन्नः स्यात् तर्हि भेदश्रुतयो बाध्येरन् । न च भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम्, न केनचिदि त्युदाहृतश्रुतिविरोधात् । अतो भेदाभेदश्रुत्यन्यथाऽनुपपत्त्या जीवो ब्रह्मां(णों)शोऽङ्गीकार्य इत्येव सूत्रार्थ इति ।

एतदर्थं च न केनचिदि त्याद्येकवाक्यतया वा योज्यम्, यथोक्तं यतो भेदेन तस्या(य?)मभेदेन च गीयते । अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत इति ।

९१सु०- परमात्मांशत्वं चेदुपगतं जीवस्य कथं तर्हि न भेदाभेदाङ्गीकारः; प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात्, मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह सादृश्यं चेति ।

अनु०- सादृश्यं चांशताऽस्य तु

अस्य जीवस्य, परमेश्वरांशता तु, तत् सादृश्यम् । च शब्दात् तदधीनसत्तादिमत्त्वं चेत्यर्थः ।

एतेन पुंस्त्वादिवदि त्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् ।

यद्वा चशब्दोऽवधारणार्थः । सत्यम्, मत्स्यादिष्वभेदनिमित्तकोंऽशशब्दः, तथाऽपि मुख्यांशसादृश्यं तत्सत्तयैव, सत्तावत्त्वलक्षणमेव जीवस्यांशत्वं, गौणोऽयमंशशब्द इति यावत् ।

अंशशब्दस्यानेकार्थत्वं, तत्र मत्स्याद्याः स्वरूपांशा एव जीवाः भिन्नांशा एवे त्यत्र असम्भावनानिरासाय (मत्स्यादीनां स्वरूपांशत्वं जीवानां त्वतथाभूतांशत्वमि त्येतत् कुत इत्यतोऽत्र) आगमवाक्यं पठति अंशस्त्विति ।

अनु०-अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा

द्विविध एव न त्वेकविध एवेत्यन्वयः । किञ्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयम् । सामर्थ्यं सृष्ट्यादिकर्तृत्वादिलक्षणम् । स्वरूपं पूर्णानन्दादिकम् । स्थितिः सर्वगतत्वादिपरिमाणम् । स एव चेत् तत्सामर्थ्यादियुक्तश्चेदंशः तदासौ तत्स्वरूपांशो ज्ञातव्यः । प्रादुर्भावा इति तस्यैवोदाहरणम् । एवं जीवा यथे त्याद्यस्याप्युदाहरणं द्रष्टव्यम् ।

अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति ।

९२सु०- मत्स्यादीनां जीवानां च परमेश्वरांशत्वसाम्येऽपि नैकप्रकारता, किन्तु मत्स्याद्याः स्वरूपांशा एव, जीवा विभिन्नांशा एवे त्यत्र असम्भावनानिरासाय प्रकाशवदि ति सूत्रकृता दृष्टान्ता दत्ताः; ते चायुक्ता इव प्रतीयन्ते, उभयत्र भेदाभेदसाम्या(सद्भावा)दि त्याशङ्कानिरासार्थं(य) भाष्यम् अभिमानिदेवतापेक्षयैतदि ति । तदविस्पष्टमित्यतः सौत्रान् दृष्टान्तान् स्पष्टयति सूर्येति ।

अनु०-सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेवी

सूर्यमण्डलमान्यंशी सूर्यः तत्प्रकाशाभिमानवां स्तदंशश्चैक एव । यथे ति सर्वत्रान्वीयते । अथ शब्दः समुच्चये ।

बाह्योदस्या भिमान्यंशी वारिपः सप्तमाब्धे रभिमानी तदंशश्चैक एव ।

पृथिव्याः पञ्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता (देवता) धरादेवी मेर्वा(देर) द्यभिमानिनी देवताऽप्यं शरूपैकैव । मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु (प्र)सिद्धा इत्यत उक्तं कठिणत्वेनेति । यत्कठिनं(णं) सा पृथिवी ति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी । अवान्तराभिमानिनस्त्वन्ये इति ।

अनेन स्वरूपांशो निदर्शितः ।

दार्ष्टान्तिकं दर्शयति एवमेवेति ।

अनु०- एवमेवैको भगवान्विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥

भगवान् विष्णुः अंशी नानावताररूपेण स्थितः, अंश श्च एक एवेति योजना । अव्ययः सदा पूर्णगुण इत्यागामिसूत्रानुसारेणाभेदोपपादनम् ।

विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्टान्तिकं विवृणोति विण्मूत्रेति ।

अनु०- विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः । सूर्यादिभ्यस्तथैवार्यं संसारी परमात्पृथक् ॥

अपभ्रष्ट नामका देवता अंशरूपाः सूर्यादिभ्यः सूर्यवरुणपृथिवीभ्योंऽशिभ्यो व्युत्क्रमेण यथा पृथक् ।

९३सु०- जीवांशानामंशिनः परमेश्वरात् पृथक्तवं युक्तितः समर्थयितुं सूत्रम् अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदि ति । अत्रापि दृष्टान्तानामसङ्गतिमाशङ्क्याभिमानिविषयतया व्याख्याति देहेति ।

अनु०-देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्यास्सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैस्सदा । एवमेव पराद्विष्णोः पृथक् संसारिणो मताः । अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्येवमिष्यते ॥

पर देहगतदोषैः । देवतात्वं त्वन्तर्धानादिशक्तियोगः । चश(ब्दौ)ब्दो हेत्वोः समुच्चये । हि यस्मात्, अनुग्राह्याश्च, तैः सूर्यादिभिः, तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् । अनुग्राह्यश्चे त्यादौ यत इति शेषः । देहदोषलिप्तत्वादित्यपि ग्राह्यम् ।

नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं, न जीवांशानां परमेश्वराद्भेदं साधयितुमलमित्यत आह न त्विति ।

अनुग्राह्यत्वमि त्युपलक्षणम् । नेष्यते नैव ते जायन्ते इत्यादिश्रुतिबलेनेति शेषः ।

९४सु०- अत्रैव सूत्रम् असन्ततेश्चाव्यतिकर इति ।

ब्र०सू०-ॐ असन्ततेश्चाव्यतिकरः ॐ ॥

तज्जीवांशानां परमेश्वराद्भेदमेव साधयत् प्रतीयते, न तु मत्स्यादीनामभेदमपि । अत उ(तदु)पलक्षणत्वेन व्याचष्टे गुणैरिति ।

अनु०- गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्न च

मत्स्यादिरूपाणामिति वर्तते । मुख्याभेदोंऽशिना । अपरैः जीवैः, ईश्वरस्य, अभेदः न, च तेषामपरिपूर्णगुणत्वाच्चेति ।

अनुज्ञापरिहारावि त्येतदप्येवमुपलक्षणतया व्याख्येयम् । तदर्थं वा न तु मत्स्यादिरूपाणामि ति वाक्यं योज्यम् ।

९५सु०-

ब्र०सू०-ॐ आभास एव च ॐ ॥

एवमंशस्यापि जीवस्येश्वराद्भेदः प्रमाणैः समर्थितः । यस्त्वंशत्वादभेदं साधयेत् तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदाऽनैकान्तिकत्वमुक्तमेव, मुख्यांशत्वं चेद्धेतुस्तदाऽसिद्धिरिति प्रतिपादयत्, आभास एव चे ति सूत्रं व्याचष्टे अंशेति ।

अनु०- अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः

सर्वेऽपि जीवाः ।

जीवानामंशाभासत्वं श्रुत्यन्तरेण दृढयति यथेति ।

यथैषा पुरुषेच्छा या एतस्मिन्नेतदाततम्

तथा एतस्मिन् पुरुषोत्तमे एतत् जीवजातं आततम्, एतदेवास्य तदंशत्वमिति भावः ।

नन्वेतत् श्रुतिविरुद्धं पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवी त्यस्मिन्मन्त्रे अनन्तासनश्वेतद्वीपवैकुण्ठेषु द्युशब्दवाच्येष्ववस्थितरूपत्रयवद्भूतशब्दावाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानात्, इत्याशङ्क्य विशेषश्रुतिबलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह न त्विति ।

अनु०-न तु पुम्पादवत्पादा जीवा एते परात्मनः ।पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।एवं जगाद परमा श्रुतिर्नारायणं परम् ॥

पुम्पादवत् पुरुषस्यामृतपादत्रयमिव । कुतः, पूर्णाः । नारायणं प्रादुर्भावरूपम् । जीवांशेभ्यः परं विलक्षणम् । जगाद ।

९६सु०- अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम्, तत्र कदृशोऽत्र निर्णयो जात इत्यतस्तं बुद्ध्यारोहाय पिण्डीकृत्याह अक्षय इति ।

अनु०-अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः

देहादिक्षयरहित एव प्रलये स्थितः ।

अनेन असम्भवस्तु सतोऽनुपपत्तेः , नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः इत्यधिकरणतात्पर्यमुक्तं भवति ।

लक्ष्म्यावास इति । देव्या अपि प्रलयेऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति ।

वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति मुक्तैरिति ।

मुक्तैस्सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः

तथाऽपि सृष्टि(प्र)लयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तं तारतम्यगैरिति ।

विपर्ययेण तु क्रमोऽत इति सृष्टिक्रमविपर्ययेण (प्र)लये क्रमोऽभिहितः । कः तत्र सृष्टौ क्रम इत्यतस्तं दर्शयन् वियदधिकरणतात्पर्यमाह प्रकृतिरिति ।

अनु०-प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपते विष्णोर्विशेषावाप्तिमात्रतः । उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्माऽस्यां वासुदेवतः । सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः । ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥

तदभिमानिनी लक्ष्मीश्चै वमित्यर्थः । ततः तदनन्तरम् । प्राणनामा सङ्कर्षणात् । देव्यौ सरस्वतीभारत्यौ । प्रकृतिमानिनी प्रकृतिमानिन्यौ । सुपां सुलुगिति पूर्वसवर्णेति पूर्वसवर्णः । ततः प्रकृतिपुरुषाभ्याम् । ब्रह्मणः महत्तत्त्वरूपात् । ततः अहङ्कारात् । तत एव इन्द्रस्कन्दाभ्याम् । अन्ये तत्त्वाभिमानिनः ।

अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय तथा प्राणः इत्यादिना निर्णयः करिष्यत इत्यदोषः ।

सृष्टिप्रलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह तत्रेति ।

अनु०- तत्र पूर्वतनः श्रेयान् गुणैस्सर्वैस्समस्तशः

समस्तशः समस्तेषु । तेजोऽतः , तदभिध्यानात् इत्यादेस्तात्पर्यमाह तेभ्यश्चेति ।

अनु०- तेभ्यश्च भगवान् विष्णुः

श्रेयानि ति वर्तते । समस्तश इति पञ्चम्यन्तम्, अत्र वा सम्बध्यते ।

सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम्, परात्तु तच्छतेरि त्यादिना प्रकृत्तिश्च, तत्तात्पर्यमाह तदधीना इति ।

अनु०- तदधीना इमे सदा । जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च

इमे जन्माद्या मोक्षान्ता भावाः । एतेषामि ति वक्ष्यमाणमत्रापि सम्बध्यते द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसः । युवोरनाकावि ति यथा ।

मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह तदधीनत्वमिति ।

अनु०- तदधीनत्वमेतेषां नैव हीयते । मुक्तावपि

एतेषां ब्रह्मादीनाम् ।

परमप्रमेयमाह स एवेति ।

अनु०- स एवैकः स्वतन्त्रः पूर्णसद्गुणः

उपसंहरति इतीति ।

इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिन् गगनचरणः पर्यवसितः ॥

॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥