Anuvyakhyana/Vyakhya/Nyayasudha/C3P3
न्यायसुधा — अध्यायः 3, पादः 3
अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥
अथ तृतीयाध्यायस्य तृतीयः पादः
१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह वैराग्यत इति ।
मीमांसासाध्याद्वैराग्यात्प्रागेव भक्तेर्भाव्यत्वात् दार्ढ्य मित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयाऽपरोक्ष्यं भवेत् । इति तस्मात् ।
अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च
न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रेमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एवं चोक्तं भक्तिदार्ढ्यमिति । तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् । न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुप(त्प)द्यते । उपासनया च अतिदीर्घकालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति । यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।
२सु०- एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य विशिष्टचार्यसम्पदेत्यन्तेन ।
तत्र यतेतोपासनायैव इत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्व्याख्यातम् । अन्यत्सर्वमपि अथशब्दव्याख्यानम् । यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धं, तथाऽपि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात् सूत्रार्थानुवादः कृतः । अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः ।
विशिष्टाचार्यसम्पदेति सर्वत्रान्वयः ।
तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् ।
युक्तित इति ल्यब्लोपनिमित्ता पञ्चमी । वेदार्थविरोधियुक्तः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य ।
परान् वैष्णवसमयाद् अन्यान् साङ्ख्यादिसमयान् सामान्यतो (निराकृत्ये)निरस्येति द्वितीयपादस्य ।
परस्परविरोधञ्चेति तृतीयचतुर्थयोः ।
कथं तर्हि पादभेद इत्यतः अध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात् कारणात् श्रुतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति चतुर्थस्य विशेषो दर्शितः ।
अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्ये त्युक्तम् । आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते । न तथा बाह्याः ।
प्राणतत्त्वगानि त्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति ।
अनुरञ्जितः समीचीनः कृत इति यावत् ।
देहकर्तृत्वमि त्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान् भूत्वेत्यर्थः । अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् ।
अतिदुःखसाधनत्वं विज्ञाय । तदन्यत्र भगवतोऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य ।
अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायते अतः अधिकमि त्युक्तं अतीति च ।
तद्गुणाधिक्ये ति द्वितीयस्य ।
तद्वशत्वात् तद्वशत्वं विज्ञाय भक्तेः प्राक् सिद्धत्वात् दार्ढ्यम् इत्युक्तम् ।
न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्टे त्यभिहितमिति ।
३सु०- कथमयमथशब्दस्यार्थ इति चेत् । उच्यते । यद्यप्यथशब्दोऽनेकार्थः । तथाऽप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् । आनन्तर्यं न यतः कुतश्चिदभिधातव्यम् । वैयर्थ्यात् । किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् । तथाविधं च वेदार्थज्ञानादीति ।
किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् । न च तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् । सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव ।
यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्टयं पूर्ववृत्तमुक्तं तदस्मदुक्त एवान्तर्भवतीत्यविरुद्धम् । उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता ।
एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वेऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् । सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृदि्धरिति ।
४सु०- एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य) सङ्गतिमाह कर्तव्येति ।
उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति । संशयशब्देनात्र विपर्ययोऽभिधीयते । मिथ्याज्ञानत्वसाम्यात् । संशये सति तत्परिहाराय जन्माद्यस्य यतः इत्याहेति शेषः । यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् । इत्याहेति वक्ष्यमाणेनैव (वा) सम्बन्धः ।
५सु०- प्रथमसूत्रे अतःशब्देन जिज्ञासाया मोक्षार्थत्वात् कथं पुनराशङ्का इत्यत आह अत इति ।
अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदितेऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः । एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते । तत्रापि (हि) मोक्षः समासार्थतया व्याख्यातव्य एव । न तु विशेषेणोक्त इति चेन्न । प्रमाणविशेषानुक्तित इति व्याख्यानात् ।
एतदुक्तं भवति । मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदितेऽपि पुनराशङ्का भवत्येव । तत्र प्रमाणस्यानुक्तत्वादिति ।
६सु०- एवञ्चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् । न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्व्याचष्टे सृष्टीति ।
श्रुतत्वतोऽसौ मोक्षादिदाता । यतश्च मोक्षादिदाताऽसावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः । अयमभिसन्धिः । जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः । तथा च परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति । किञ्चात्र मोक्षदातृत्वं प्रधानम् । सृष्ट्यादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् । केवलव्यतिरेक चायं हेतुः । तस्य चासिदि्धपरिहाराय श्रुतत्वमभिहितमिति । कृत्यानां कर्तरि चेति व इति षष्ठी ।
७सु०- ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् । कर्तरि चेति तृजन्तेन षष्ठ्याः समासप्रतिषेधात् । तृन्नयं तच्छीलादौ विहितः । तेन च श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानमिति द्वितीयायाः समासः ।
८सु०- ज्ञानं रश्मय इव ज्ञानरश्मयः । व्याप्तज्ञानवदित्यर्थः । अपां तरतमो नाम कश्चन मुनिर्व्यासो बभूवे ति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषणोपादानम् ।
६सु०- जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह येनैवेति ।
बन्धान्मोक्षो बन्धमोक्षः । पञ्चमीति योगविभागात् समासः । षष्ठीसमासो वा । येन प्रसन्नेनेति शेषः । गतो ज्ञातः । गत्यर्थानामवगत्यर्थत्वात् । चो यस्मादित्यर्थे । प्रसादमात्रस्य मोक्षसाधनत्वाभावात् सु शब्दः । अस्येशस्य जिज्ञासाऽस्य जीवस्य मुक्तिदा ।
एतदुक्तं भवति । जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता । किन्तु (सु)प्रसन्नो भगवानेव । स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति । उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया । तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् । प्रसन्न एव ददातीत्युत्कर्षज्ञानात् प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् । किं तत्र प्रमाणोपन्यासेन । अतो भगवज्जिज्ञासाया मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति ।
ननु स्थानान्तरेऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता । सत्यम् । सत्यां तस्यामियमपराऽत्रोक्तेति ।
१०सु०- तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठति मोक्षादीति ।
प्रधानं मोक्षदातृत्वं तत्साधनं सृष्ट्यादिकर्तृत्वं चेशस्यैवेति सम्बन्धः । कथमवगम्यते । न कथञ्चित् । अनुमानैस्तत्तदागमैश्चान्येषां तथाऽवगमादिति भावः । इति चेत्तत्रोक्तमिति शेषः । कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतः तद्व्याचष्टे शास्त्रगम्यो हीति । मोक्षग्रहणं सृष्ट्यादेरप्युपलक्षणम् । यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयोऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति ।
११सु०- मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः । परिशेषादित्याशयवान् प्रत्यक्षगम्यत्वं तावद्दूषयति प्रत्यक्षेति ।
यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् । कथञ्चन तत्सेवादिना । तदा सर्वेऽपि युक्ताः स्युरित्यर्थः । मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैमुक्तैर्भाव्यमित्यत आह यस्मादिति ।
यस्मात्पुरुषाद्धेतोः । अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति । न हि कोऽपि दुःखी दुःखं न जिहासति इति सम्भवति । प्रत्यक्षतः प्रत्यक्षगम्यात् । राजाद्यमिति सम्भावनयोक्तम् । दारिद्य्रदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा ।
अनुमानगम्यत्वं दूषयति अनुमेति ।
यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः । अनुमैव पुरुषत्वादिका । अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः ।
आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान् परिशेषमुपसंहरति तदिति ।
तत्तस्मान्मोक्षदः पुरुषो केवलं ध्रुवं शास्त्रगम्य एव भवेदिति योजना ।
१२सु०- अस्त्वेवं तथाऽपि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति । तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति शास्त्रेति ।
मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति । किन्तु स एव कुत इत्यतः । सौत्रं हेतुं व्याख्याति मोक्षदो हीति ।
स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः । स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् । यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः । परतन्त्रो मोक्षदः किन्न स्यादिति चेत् । स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य । आद्ये दोषमाह परतन्त्र इति ।
परतन्त्र एव । केवलं परानपेक्षया । यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात् तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः । द्वितीयं दूषयति अन्येति ।
एषोऽवान्तरेश्वरोऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणाऽननुसृतोऽसेवितोऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव । तथा लोके दर्शनादिति हिशब्दः । ततः किमित्यत आह अत इति ।
तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः । तथा च भगवज्जिज्ञासाया अपरिहार्यत्वाद्व्यर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः ।
१३सु०- प्रकारान्तरेण हेतुं व्याचष्टे यमेवेति ।
अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते । तमेव चेति श्रुत्या । तमेवं विदित्वाऽति मृत्युमेती ति श्रुतिरनेनोपात्ता । नान्यः पन्था विद्यत इति वाक्यशेषेणादरो गम्यते । मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव । अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति । नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत् कुतः । प्रकारणादिपर्यालोचनया तदवधारणात् । तदिदमुक्तं वेदवादिभिरिति ।
अत्र श्रुत्यन्तरमाह य एनमिति ।
य एनं विदुरमृतास्ते भवन्ती ति च श्रुत्येति पूर्वेण सम्बन्धः । मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् । अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आह इत्युक्त इति ।
य एनं विदुरि ति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु यमन्तः समुद्रे कवयो वयन्ती ति समुद्रग उक्तः । तच्च हरेर्लिङ्गमित्यर्थः ।। प्रमाणान्तरमाह तदेवेति ।
इत्युक्त इति वर्तते । तदेव ब्रह्म परमं कवीनामिति श्रुत्या ब्रह्मत्वेनावधारितः ।
एतदुक्तं भवति । एनमित्युक्ते ब्रह्मपदश्रवणात् तस्य च भगवान्नामत्वाद्भगवानेवायमिति ज्ञायते । यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव । न चैवमत्र शक्यते ग्रहीतुम् । तदेवेत्यवधारणविरोधात् । इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे । अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति । युक्तयन्तरमाह यत इति ।
यतः प्रसूता जगतः प्रसूती ति श्रुतिः ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह । न च मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति । अतोऽप्ययं भगवानिति । एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् ।
१४सु०- द्वितीयं हेतुव्याख्यानमुपसंहरति तत इति ।
मुख्यत इति मोक्षदत्वेनेति यावत् ।
१५सु०-विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहारार्थत्वेनापि सौत्रं हेतुं व्याचष्टे शास्त्रेति ।
अन्वय उपपत्त्यादिलिङ्गम् ।
यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणोऽवाच्यत्वमाशङ्क्य वाच्यत्वमीक्षत्यधिकरणे साध्यते । तदसङ्गतम् । प्राग्वाच्यताया अनुक्तत्वात् । शास्त्रयोनित्वस्य लक्षणादिनाऽपि सम्भवादित्यतोऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति समिति ।
परममुख्यार्थतोच्यते । सङ्कोचे (प्रमाणा)कारणाभात् । ततः किमित्यत आह एवमिति ।
एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्य अर्थस्य निर्धारणाय इति सम्बन्धः । यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात् सङ्गतिसद्भावात् नाशब्दमिति जगौ इति वा ।
१६सु०- अत्राधिकरणे गतिसामान्यादि ति सूत्रम् । तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् । तस्येदानीं सङ्गतिमाह कथमिति ।
संशब्दो द्व्यर्थो मुख्यवृत्त्येति सर्ववेदानामिति च । तत्र द्वितीयार्थोऽत्राक्षिप्यते । अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् । संशब्दार्थाक्षेपसमाधानस्यैकत्वात् । उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः । कुतः । नृणां स्वल्पायुःप्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्य एव सम्भवेन सर्ववेदज्ञानासम्भवात् । वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह वेदा इति ।
अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते । आद्यो हिशब्दः श्रौतवैशब्दार्थः । द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति । अपिः समुच्चये । न केवलं पुरुषाः स्वल्पवेदविदः । किन्तु वेदा अप्यनन्ता इति । अनन्तता वेदानामिति शेषः । सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथाऽपि कथं समन्वयज्ञानमशक्यमित्यत आह अनन्तेति ।
स्वल्पशाखाविदामिति वर्तते । महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा । यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः । एतदुक्तं भवति । विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् । यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति ।
यथा सम्मतः । विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात् यो यदपेक्षयाऽल्पप्रज्ञादिमन्नासौ तद्वेत्ति यथा सम्मतः । वेदा वा नैतत्पुरुषवेद्याः । एतत्प्रज्ञाद्यतिक्रान्तत्वात् । यदेवं तदेवं तथा सम्मतमिति ।
आक्षेपमुपसंहरति इत्यस्मादिति ।
अत्र विष्णौ । ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः ।
१७सु०- एतत्परिहारार्थत्वेन सूत्रमवतारयति इत्याशङ्केति ।
आह गतिसामान्यादिति सूत्रमि ति शेषः । नन्वस्य सूत्रस्य कोऽर्थः । सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात् सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् । नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् । पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतोऽभिसन्धिमाह अशक्येति ।
मदन्यैरिति शेषः । हि शब्देन परोपन्यस्तं प्रमाणमभ्युपैति । उत्तारणं पारगमनम् । उपक्रमादिभिर्निर्णयनमिति यावत् । उदमुदकमस्यास्तीत्युदी । भूमविवक्षायामिनिः । समुद्र इत्यर्थः । रोमकूपे लयोदौ यस्यासौ तथोक्तः । प्रलयसमुद्रसमानोऽपि वेदो मदीयज्ञानेऽन्तर्भवतीति भावः । एतदेव विवृणोति यद्यपीति ।
अव्याकृताकाशे परमाणुरिव मज्ज्ञानेऽन्तर्भवति । भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् । विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद् व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत ।।
अभिप्रायमुपसंहरति इतीति ।
उक्तप्रकारेण निखिलस्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन् सूचयन् गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् । विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् । न हि पालनीयमविद्वान् पालको भवति । विश्वान्तर्गताश्च सर्वे वेदा इति ।
एतदुक्तं भवति सूत्रकारेण । सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयाज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम । आद्येऽपि किं विशेषतोऽथ सामान्यतोऽपि । आद्योऽभ्युपगम्यत एव । द्वितीये तु वक्ष्यामः । न तृतीयः । मम सर्वज्ञत्वेनासिद्ध्यादिप्राप्तेरिति ।
१८सु०- एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात् तदा पुनरनिर्णय एवेत्यत आह को नामेति ।
ज्ञानेन सूर्य इव ज्ञानसूर्यः । यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकः तथाऽयं ज्ञानेनेति । विना वातमि त्यादिप्रयोगदर्शनाद्विना योग इव ऋतेऽपि द्वितीया भवत्येव ।
इदमुक्तं भवति ।
किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् । उतापरः । नाद्यः । सर्वज्ञोक्तयोर्विरोधायोगात् । योगे वा सार्वज्ञानुपपत्तेः । द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वा प्रतारको वाऽसौ स्यादिति कथमनिर्णय इति ।
१९सु०- अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाह अन्योऽपीति ।
अल्पमतिः अपि अन्यः तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन् अनुमितत्वेन अनन्तागमसम्पदो गतिसामान्यं ब्रूयात् इति योजना । यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयोऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः । अनेन गतिसामान्यानुमानादि ति सूत्रं व्याख्यातमिति । ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् । तदि्धतार्थोत्तरपदसमाहारे च इति सङ्ख्यातया उपसर्जनत्वात् । कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति । वर्गार्थौ वा चतुष्पञ्चशब्दौ । प्रपञ्चो यदि विद्येतेति यथा ।
२०सु०- इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् । न पूर्वम् । शङ्कानिरासाहेतुत्वात् । न हि सूत्रकारः सर्वज्ञत्वात् । सर्ववेदगतगतिसामान्यं वेत्तीत्येतावताऽन्येषां शङ्का निवर्तत इत्यत आह इति मुख्यतयेति ।
इति प्रतिजज्ञ इति सम्बन्धः । मुख्यतये त्यनुमानादिना विना अशेषवेदगतिसामान्यवित् । देवानाम् इत्युत्तमाधिकारिणाम् । अपिः पदार्थे । शङ्केत्यर्थः । मधुनोऽपि स्यादिति यथा । पूर्यते निवार्यते । ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिणस्तेषां तदीयप्रतिज्ञामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् । अन्यान्प्रति तु द्वितीयम् । तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः ।
२१सु०- नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्तत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह अत इति ।
अतीतप्रबन्धेनेत्यर्थः । पृथग् विस्तरेणाध्यायशेषेणेति शेषः ।
२२सु०-तत्र प्रथमपादे अन्यत्रप्रसिद्धानां शब्दानां समन्वयोऽभिधीयते । द्वितीयेऽन्यत्रप्रसिद्धानां लिङ्गात्मकानाम् । तृतीये तत्रान्यत्रप्रसिद्धानामुभयरूपाणाम् । चतुर्थेऽन्यत्रैव प्रसिद्धानामिति उक्तम् ।
२तमेतं क्रममुपपादयन्नाह तत्रेति ।
तत्र प्रथमाध्याये, प्रथमतः प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ । महामल्लेशभङ्गेन तुल्यं वर्तत इति तथा । यथाऽनेकेषु मल्लेषु प्रत्यर्थितयाऽवस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल-लानामेवादौ भङ्गो विहितस्तथेत्यर्थः । उभयत्रप्रसिद्धानां हि शब्दानां समन्वयेऽन्यत्रप्रसिदि्धनिवारणमात्रे यत्नो विधेयः । अन्यत्रप्रसिद्धानां तु भगवति प्रसिदि्धरप्युपपादनीयेति । ततः एतेषां प्राधान्यम् । लिङ्गात्मकाश्च धर्मवचना व्यवधानेनान्यबुदि्धं जनयन्ति । नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति ।
२३सु०- यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात् तदा चतुर्थपादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतोऽपि प्राधान्यात् प्राथम्यं भवेत् । अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिदि्धर्बलीयसीत्यत आह इत इति ।
तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वेऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः । तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् । कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः । तमेवापवादहेतुं दर्शयति महासमन्वय इति ।
तर्हि न वक्तव्य एव निरधिकारिकत्वात् । न हि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति । नैकाधिकारिकं शास्त्रमित्यतः अन्य इत्याद्युक्तम् । सर्वाधिकारिसाधारणमर्थमादावभिधाय असाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य । तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति । दुर्गमत्वाच्चेति हेत्वन्तरम् । प्रथमं बुद्धावनारोहादित्यर्थः । एतदुक्तं भवति । ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता । तथाऽप्यस्मदादीनामीषदधिकारोऽस्त्येव । न च मन्दानामसौ समन्वयः प्रथमं बुदि्धमधिरोहति । साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुदि्धः क्रमेण तत्राप्यवतरतीति । ततः किमित्यत आह अत इति ।
प्राधान्यादतिप्राधान्यस्योपपादितत्वाच्चेत्यर्थः । तु शब्दोऽवधारणे ।
२४सु०- तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाह तत्रेति ।
तत्र समन्वयप्रपञ्चने । प्रथममित्यनुवर्तते । सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः । अतो माङ्गलिक आचार्यस्तच्छब्दसमन्वयमादावाहेति ।
अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह देवतेति ।
देवताः खलु जडेभ्यो मुख्याः । अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः । सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण । कथम् । शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् ।
तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति । येन विष्णुमेव इत्यवधार्यत इत्यत आह तत्सङ्गादिति ।
उपचारप्रकारश्च प्रागेव विवृतः । अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यात् इत्यत आह इहेति । इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान् वदन्ति । ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः । इह देवतान्तरे । तथा नेति शेषः । यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः । रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् । उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह एवमिति ।
विष्णुमेव परं ब्रूयुरिति वर्तते ।
२५सु०- अन्यत्रप्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात् कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन् प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह इत्यन्यत्रेति ।
समानन्यायसञ्चारविषयत्वादिति भावः । ज्ञाते प्रथमपादेन । शङ्का जायत इति शेषः । कथं (इति) । प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयोऽभिहितः । लिङ्गानां चान्यगतत्वं प्रतीयते । ततश्च विरुद्धत्वात् तैः प्रतीतः समन्वयः सम्यङ् न स्यादेव । न हि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते । इति शब्दः शङ्कासमाप्तौ । तत्परिहाराय अन्यत्रप्रसिद्धानामशेषलिङ्गानाम् । आह द्वितीयपादे ।
नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः । न चैवम् । किन्तु यान्युक्तानि न तानि विचार्यन्ते । यानि च विचार्यन्ते न तान्युक्तानि । उच्यते । सर्वश्रुतिगताः सर्वेऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः । तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः । अत एवाशेषत इत्युक्तं प्राक् ।
२६सु०- तृतीयपादस्य प्रथमद्वितीयाभ्यां सङ्गतिमाह उभयेति ।
भगवत्तदितरविषयत्वम् । अतोऽन्यत्रप्रसिद्धानां भगवत्परत्वस्य समर्थनात् । लिङ्गात्मकानां च शब्दानाम् ।
नन्वन्यवाचित्वनिरासोऽपि तत्रैव नेतर इत्यादिना विहित एव । तत्कथं शङ्कोदयः । मैवम् ।
अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः । शक्तिस्तूभयत्र स्यादेव । तर्हि त एव पुनर्विचार्याः । सत्यम् । तेष्वेव यत्र यत्र विचारप्राप्तिस्ते विचार्यन्ते । यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तान्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् । तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः । इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः । इत्याहेति वक्ष्यमाणेन वा सम्बन्धः । कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह उभयत्रेति ।
हरौ तदितरत्र च । प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः । कुत इत्यत आह यदिति ।
यद्यस्माद्वर्तन्त इति शेषः । एतदपि कुत इत्यत आह यत इति ।
स्वतन्त्रता अस्तीति शेषः । स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति ।
नन्वन्येषामस्वतन्त्रत्वात् तेषु मुख्यतः शब्दप्र वृत्तिहेतो र्गुणादेरभावात् मुख्यतः शब्दा न वर्तन्त इति चेत् । मा वर्तिषत ।
तथाऽपि विशेषतः समन्वयो हरावेवेत्येतत् कुत इत्यत आह अत इति । इतरस्य मुख्यार्थत्वाभावादित्यर्थः ।
भाव्यं खलु शब्दस्य मुख्यार्थेन । अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः । तथा च द्वयोः प्रसक्तयोः एकस्य मुख्यार्थत्वानुपपत्तौ इतरस्य मुख्यार्थत्वम् आवश्यकमेव । यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।
ते भगवतोऽन्ये पदार्था भगवदपेक्षया अत्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दार्थत्वमुपगताः स भगवानेव ईशो निरवधिकशब्दप्रवृत्तिनिमित्तवान् । स्वतन्त्रतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः । इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि । भगवति तु निरवधिकान्यपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति । श्रुत्यादिपरिचयवदि्भः । यो यदधीनः शब्दार्थः सोऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः । अयो यथाऽग्न्यधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपागतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्योऽग्नौ तु मुख्यस्तथेत्यर्थः । अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः । इत्याह तृतीयपादेनेति शेषः ।
२७सु०- चतुर्थपादस्य सङ्गतिं करोति एवं चेति ।
एवं चे त्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धेऽपीति । अशेष शब्दानां नारायणे समन्वयो न युज्यते । यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः । कथम् । यतोऽवरादिशब्दवाच्यत्वे भगवतोऽवरत्वादेर्दोषस्य प्राप्तिर्भवेत् । तस्याश्च सर्वप्रमाणविरोधात् । कर्मक्रमादिविरोधाच्चेति । इति चेत् तत्र प्रतिविहितं सूत्रकारेणेति शेषः ।
कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति ।
अवरादिशब्दप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः । हि शब्दस्तेषां प्रसिदि्धं द्योतयति । कथं द्विविधमित्यत आह परस्येति ।
स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावेऽपीति प्रदर्शनार्थम् । परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः । तस्य प्रमितत्वदर्शनं यथेति । परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत् तथेत्यर्थः । अवरत्वानुभवी अन्योऽवरशब्दार्थः । अवरत्वादिमत्त्वम् अपरं निमित्तमिति यावत् । एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् । ततः किं प्रकृत इत्यत आह तयोरिति ।
तयोः प्रवृत्तिहेत्वोर्मध्ये । तेनावरादिशब्दवाच्यत्वं चेति शेषः । कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह द्वितीय इति ।
जीव इति जडस्याप्युपलक्षणम् । तथा च सतीश्वरत्वहानिः स्यादित्यर्थः । अधिकरणफलमाह स्वातन्त्र्यादिति ।
परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति । एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।
२८सु०- प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह एवमिति ।
सर्वशब्दार्थविवरणम् अशेषेणेति । उक्ते सति द्वितीयेऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः । विरोधहीनस्यैव समन्वयस्य ।
२९सु०-तृतीयाध्यायस्य सङ्गतिमाह समन्वयेति ।
तदर्थयोरध्याययोरुपलक्षणमेतत् । वस्तुनिर्णये ब्रह्मनिर्णये । किं मया कार्यमिति ।
अयमर्थः । यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् । कृतश्चासौ । तथाऽपि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति । बुदि्धः स्यादिति । फलविषये कुत एवं बुदि्धर्न स्यादिति चेत् स्यादेव । किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात् तद्विषयैवादौ स्यात् । तदिदमुक्तम् एवशब्देन । तदर्थं तृतीयोऽध्यायः प्रवृत्त इति शेषः ।
३०सु०- तद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोति तत्रेति ।
तत्र तृतीयेऽध्याये । भक्तिविधानार्थं भक्तयुत्पादनार्थं वैराग्यार्थमिति यावत् । अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च । उक्तायां प्रथमपादेन । अशेषगुणोच्चये परमेश्वरस्य प्रोक्ते द्वितीयेन । उपासनाऽस्मिन्पादे वक्तव्यावसरप्राप्ता । ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यमस्येत्यत आह नित्यमिति । यस्मादुपासना नित्यमादरेण कर्तव्या । आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् । आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः । इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः ।
३१सु०- एवं तर्ह्युपासनैव विचारणीया । सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आह सेति ।
या वक्तव्यतयाऽवसरप्राप्ता सा चोपासना द्विविधैव । न त्वेकरूपैव । कथम् । एका शास्त्राभ्यासस्वरूपिणी । परा च ध्यानरूपा । अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः । तथाऽप्ययं क्रमः कुतः । ध्यानस्य शास्त्राभ्याससाध्यत्वात् । तदिदमुक्तं परेति । ध्यानसमाध्योरनतिभिन्नत्वाद्ध्यानशब्देन समाधिरपि गृह्यते । धारणाप्रत्याहारप्राणायामाऽऽसनयमनियमानामपि उपासनाभेदानां सत्त्वात् कथं द्वैविध्यमित्यत आह तदङ्गमिति ।
तस्य ध्यानस्याङ्गमेव न तु स्वतन्त्रमुपासनम् । योगशास्त्रे चैतत् स्पष्टमवगन्तव्यम् । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । ब्रह्मसाक्षात्कारहेतुत्वात् । चित्तवृत्तिनिरोधा(कत्वा)च्च । यच्चोक्तम् । अथवा सततं शास्त्रविमर्शेन भविष्यती ति ।
३२सु०- किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति । तत्राह तथेति ।
तथा तस्मादवसरप्राप्तत्वात् । अस्मिन्नेवेति सम्बन्धः । उपासनमेवेति च (वा) । तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति । तथा हि । किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे । नाद्यः । गतार्थत्वात् । द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः ।
सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न । प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति । अद्धा उपयुक्तप्रमेयेण सह । अत एव विस्तरात् ।
अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति । श्रुतिग्रहणमुपलक्षणम् । अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।
३३सु०- एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तः सिद्धान्तयुक्तश्च सङ्ग्रहेणाह पृथग्दृष्टिरित्यादिना ।
अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।।
।। इति न्यायमालास्थलानि ।।
।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।
ब्र०सू०- ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।
३४सु०- अत्र ध्यानोपासनार्थिभिः किं स्वस्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किंवा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितं सर्ववेदान्तप्रत्ययमिति । तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे यथाशक्तति ।
विज्ञायावस्थितस्येत्यध्याहारात् समानकर्तृकतासिदि्धः । उपासनं कुर्वाणो भवेदिति वा । उपासनं कुर्वीतेति वा । भवेदित्यस्योत्तरवाक्येऽन्वयः । अत्र यथाशक्तयखिलान्वेदान्विजानीयादित्येव वक्तव्यम् । तथाऽप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दर्शयितुमेवमुक्तम् । ततश्च परेत्युक्तं विवृतं भवति ।
३५सु०- यथाश्रुत एवार्थोऽस्तु किं विशेषणेनेत्यत आह तत्रेति ।
तत्रोपासकेषु यस्मात् सम्यग् अखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्तयेवाखिलज्ञप्तिरेष्टव्या । एतदुक्तं भवति । सर्वाधिकारिसाधारणं तावदिदं सूत्रम् । चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् । संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च । न च सर्वेषां सर्ववेदविज्ञानं सम्भवति । वेदानामनन्तत्वात् । अल्पप्रज्ञादिमत्त्वाच्च पुंसाम् । ततो युक्तमुक्तमिति ।
यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽर्थोऽभिहितः । यस्मादेवमेवोपपन्नं भवेदिति । ततः कस्य कदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् । हि शब्दः प्रसिद्धौ । योगो योग्यता । ज्ञप्ति र्ज्ञप्तिशक्तिः ।
३६सु०- उपासनायोग्यतासम्पत्तये खल्वत्र सर्वविज्ञानमुच्यते । न चाल्पवेदज्ञस्य सा भवति सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येदि त्यादिश्रुतेः । अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः । अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि । तथाऽपि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह तावतेति ।
यथाशक्ति विज्ञानमात्रेण । अयमभिसन्धिः । ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । ध्येयाज्ञाने ध्यानायोगादिति चेत् । तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् । सत्यम् ।
तथाऽप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात् सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न । गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् । अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः । ततः श्रुतिर्यथाशक्तत्येव व्याख्येयेति ।
३७सु०- यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति महत्त्वस्येति ।
महत्त्वस्य परं पारं विदित्वा इति सर्ववेदज्ञत्वमुच्यते । वेदेन विना भगवन्महत्त्वस्य ज्ञातुमशक्यत्वात् । स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् । समानन्यायत्वात् । नास्त्येवेति नियमनिषेधः । यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।
यथायोग्येति कथम् । अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् । सत्यम् । यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः । यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।
३८सु०- नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते । न तु यथाशक्तिज्ञानम् । अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह आत्मेति ।
अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव । अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः । सर्वज्ञाननियमे निराकृते किन्त्वि त्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् । न त्वात्मज्ञानम् । न हि परज्ञानं प्राङ् निराकृतम् । तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।
३९सु०- कुतः सर्ववेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् । तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातव्यमित्यतो युक्तयन्तरमाह सूत्रकारः-
ब्र०सू०- ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॐ ।।
तत्र हीत्यन्तं व्याचष्टे वेद इति ।
अनेन वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मने ति स्मृतिमुपादत्ते । स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन स्वाध्यायोऽध्येतव्य इति श्रुतिम् । अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे ।
एतदुक्तं भवति । स्वाध्यायस्य स्वाध्यायविधेः तथात्वेन सामान्यतः सर्ववेदा
ध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् । अध्ययनस्यार्थज्ञानपर्यन्ततास्थितेः । स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः । न च वाच्यं शाखाभेदस्य प्रसिद्ध्या स्वाध्यायपदमपि तथैव व्याख्येयमिति । स्मृत्यनुरोधेनैव श्रुतिव्याख्यानस्य न्याय्यत्वात् । स्मृतौ च कृत्स्नपददर्शनात् । शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।
४०सु०- ननु श्रुत्यनन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः । उच्यते । आकाङ्क्षाक्रमेण सूत्रम् । व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः । श्रुतिस्मृतिबलादेव यथाशक्ति सर्वविज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते । भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।
४१सु०- आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । न ह्यत्र स्वर्गकामो यजेतेतिवत् कश्चिन्नियोज्यः श्रूयते ।
नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।
न चाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।
अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय इत्याचार्यकरणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानेन अध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।
किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।
उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । न चैवम् । अध्यापनस्य जीविकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । योऽनधीत्य द्विजो वेदानि त्यकरणे प्रत्यवायश्रवणात् ।
न च नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्याध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यापनीय इति चेत् । तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् । यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् । अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् । अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।
४२सु०- समाचारेधिकाराच्च इत्येतद्व्याचष्टे अद्यापीति ।
ब्र०सू०- ॐ समाचारेऽधिकाराच्च ॐ ।।
यतः सर्वविज्ञानमावश्यकम्, तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च । अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति । यथोयोगं यथाशक्तति प्रत्येकं विशेषणम् । ृण्वत इत्यात्मनेपद उक्तम् । समाचाराच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात् कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारेऽधिकाराच्चेत्युक्तम् ।
४३सु०- यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह तथाऽपीति ।
यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथाऽपि, वस्तु परब्रह्मादिकम् । निर्णयो यथार्थः परोक्षो निश्चयः । प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः । वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हि शब्दार्थः ।
४४सु०-वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् । निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्य अवधारयितुम् अशक्यत्वादित्यत आह मतीति ।
मतिः मननं श्रुतिः श्रवणम् । उत्तमः शिष्ययोग्यताभिज्ञः । कुर्वतः श्रवणादिकम् । दर्शनं ब्रह्मसाक्षात्कारः । एतदुक्तं भवति । ब्रह्मदर्शनार्थं हि श्रवणादिकम् । न च तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् । किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति । अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति । यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति ।
४५सु०- देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् । स्यादि्ध दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् । देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् । यथोक्तं नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः इत्यादि । न च प्राप्तसाध्यः साधनमनुतिष्ठतीत्यत आह श्रवणमिति ।
दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना । एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह अन्यस्येति ।
अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति । यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थानि । ततः पराणि तु मोक्षार्थानि । यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि । तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः । दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् । समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामत्रोपोद्बलनाय कृतमिति नासङ्गतम् । विशेषानन्दं तु वक्ष्यामः ।
४६सु०- शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् । तादृशस्य गुरोर्दुर्लभत्वेन श्रवणाद्यभावापत्तेः । लभ्यमानोऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन । तथा चान्योन्याश्रय इत्यत आह यदीति ।
द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च । तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् । तत्र निर्णीतस्य श्रवणादिकं समाचरेत् । सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् । इदमुक्तं भवति । मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः । अमुख्यादपि गुरोस्तदुपपत्तेः । तत्र मुख्यवदमुख्यस्य अतिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव ।
न च निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याऽभिप्रायो दुरधिगम इति वाच्यम् । सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् । एवं च अमुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति ।
४७सु०- सर्वज्ञस्य गुरोः । श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेन अमुख्येन श्रवणादिना । सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह श्रवणादीति ।
सन्ति तावत् सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः । तत्र च सर्वज्ञो गुरुरङ्गम् । तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।
नन्वेताः श्रुतय एवानुपपन्नार्थाः । अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् । न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह अतीति ।
परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् । अयमभिप्रायः । यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नास्तथा प्रकृतेऽपीति ।
४८सु०- निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह अभाव इति ।
निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात् सर्वदा ृणुयात् । मन्वीत च । न हि गुणालाभे मुख्यपरित्यागो युक्त इति भावः । वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः । तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः । द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदाऽसच्छास्त्राणामिति प्रतीतिः स्यात् । अतः सच्छास्त्राण्येवेत्युक्तम् । यादृशतादृशात् ृणुयादित्यनेनातिप्रसक्तौ सत्यामाह यदीति ।
यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः ृणुयात् । न त्वधमात् । वैयर्थ्यात् । न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।
४९सु०- स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह महद्भ््य इति ।
स्वतो महद्भ््यो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्तयादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति । तादृश एव ह्यादरमुत्पादयन् व्याख्याति । सादरमेव च श्रवणादिकं फलायालम् । संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् । एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भ््यो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव । तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।
५०सु०- स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह स्वत इति ।
अपिचा वितरेतरयोगे । श्रुताऽऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात् तेऽपि श्रवणादिफलं प्रसुवाते ।
सम्यक् श्रवणादिरहितो व्याचक्षाणाः स्खलनेन प्रत्यवेयात् । तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह सदिति ।
ब्रूयात् इति सम्बन्धः । प्राणाणिकतयाऽभिमतोऽर्थः सिद्धान्तः । न तु प्रामाणिक एवेति नियमः । तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः । केषाञ्चित्तदनित्यत्वमिति न स्यात् । द्वयोः प्रामाणिकत्वायोगात् । अयं तु न तथा । अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् । स्वार्थिको णिच् । अजहदित्यर्थः ।
यद्वा शिष्यैरहापयन् । सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः । क्षुद्रस्खलितं त्वल्पीयस एव । न च तावता महाप्रयोजनव्याख्यानत्यागः । तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।
५१सु०- कोऽसौ सत्सिद्धान्तो यो न हातव्यः । द्विविधः सत्सिद्धान्तः परापरभेदात् । प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च । तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह अशेषेति ।
अन्यत् तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते । निर्णीयत इति निर्णयः । सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः । साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः ।। आनुषङ्गिकं परसिद्धान्तमाह स्वतन्त्रत्वमिति ।
स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् । तस्य विष्णोः । द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बध्यते । सर्वतो भेदश्चेति । प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम् ।
नन्वेतदप्यसम्भवस्तु सतो नात्माऽश्रुतेः पृथगुपदेशादित्यादिनाऽभिहितमेव । तत्कथमानुषङ्गिकः सिद्धान्तः । सत्यम् । तथाऽपि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः । स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् । इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।
५२सु०- कथमस्यार्थस्यानुषङ्गिकत्वमित्यत आह अदोषत्वस्येति ।
विष्णोरदोषत्वस्य सिद्ध्यर्थमङ्गीकार्योऽयमर्थ इति शेषः । उपलक्षणमेतत् । अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् । अनेन कथं तत्सिदि्धरित्यत आह यदिति ।
यस्माज्जगताऽभेदे विष्णोर्दोषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः । अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् । तदन्वय इति च गुणपूर्त्याद्यभावस्यापि । अन्यत्तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात् तदर्थमाह तत्तन्त्रत्वं चेति ।
च शब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः । अङ्गीकार्यमिति शेषः । किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाऽप्युपपत्तेरित्यत आह तदिति ।
न हि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्ध्यति । न च तदन्तरेण गुणपूर्तिर्भवतीति । स्यादेतत् । यदि मुक्ताः परमात्मनो भिन्नाः स्युः । न च तथा । तत्किं तत्तन्त्रत्वेनेत्यत आह मुक्तानामपीति ।
परमात्मनः अत्यन्तभेदश्च अङ्गीकार्यः । अनेन तस्य भेदश्च सर्वतः इत्येतदपि विवृतं भवति । किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति न हीति ।
मुक्तानां परमात्मनाऽभेदो भवत्, न तावत् प्राग्भिन्नानाम् । भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् । न केवलमदर्शनं किं तर्हीत्यत आह तस्येति ।
भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि । ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् । तथैवास्त्वित्यत आह पूर्वेति ।
समर्थितं तावद् दुःखादिरूपोऽयं संसारः सत्य इति । ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् । इतिशब्दो हेतौ । सम्यक् स्थितिः सत्सिद्धान्त आनुषङ्गिकः पर इति शेषः ।
५३सु०- नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह भेदेति ।
भेदेन सहितोऽभेदो भेदाभेदः । विप्रतिषिद्धं चानधिकरणवाची ति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत् तर्हि किमजागलस्तनायितेनाभेदेनेति । इदानीमपरं सिद्धान्तमाह निर्दोषत्वमिति ।
तथा परमेश्वरवद्रमायाश्च निर्दोषत्वम् । यथोक्तं कामादितरत्र तत्र चायतनादिभ्यः , समना चासृत्युपक्रमादमृतत्वं चानुपोष्ये ति ।। निर्दोषत्वमित्युक्तया पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति ।
परमेश्वरानन्तरता तदधीनतेति यावत् । यद्वाऽनेनापरसिद्धान्तान्तरमाह एकस्माद्भगवत एवावरत्वमिति । तदप्युक्तम् अस्यैव चोपपत्तेरूष्मे ति । सिद्धान्तान्तरमाह ब्रह्मेति ।
मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्टानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् । कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति ।
हरिणा सूत्रकारेण स्वयं साक्षा न्निर्णीतो न तु बलात् सूत्रार्थतया कल्पितः । तच्च तत्र तत्र दर्शितमेव ।
५४सु०- सत्सिद्धान्तमहापयन्नित्युक्तम् । तद्धानौ को दोष इत्यत आह एतदिति ।
ज्ञानं सदित्यर्थः । विरोधि ज्ञानमेव हि । अस्य त्यागः । अन्धाय भवतीति शेषः । केवलमिति न कदाऽपि न सुखायेत्यर्थः । कुत एतदित्यत आह अन्धमिति ।
अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम्
अनेन अन्धन्तमः प्रविशन्ति योऽविद्यामुपासत इति श्रुतिमुपादत्ते । उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते । अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव । अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे । तथा च वक्ष्यामः ।
५५सु०- ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः । प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह इत्येवेत्यादिना सादरमित्यन्तेन ।
इत्येवेत्युक्त प्रकारावधारणम् । एतमेवार्थमिति प्रकृतधर्म्यवधारणम् । तेन व्यत्यासमपि वारयति । अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।
अथ शब्दः समुच्चये । अखिलमिति जीवजननादिवाक्यानामप्युपादानार्थम् । मूलरामायणमेवे त्यवान्तररामायणानां व्युदासः ।
अखिला इति बहुवचनविषयविवरणार्थम् ।
इतरपुराणानां पाशुपतादिमूलत्वेन अप्रामाण्यात् वैष्णवानी त्युक्तम् ।
पराविति अर्वाचीनसाङ्ख्ययोगव्यावृत्तये । तयोरप्रमाणत्वात् । मीमांसा त्रिविधा ।
शब्दसागरः प्रकाशयतीति सम्बन्धः ।
युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव । न त्वाभासाः । प्रत्यक्षं च प्रकाशयति । एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।
कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तम् उत्तममिति । कर्मादेरुत्तानार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः ।
वेदादीनामन्यथाव्याख्यानं वारयति अन्यावकाशरहितमिति ।
क्रियाविशेषणमेतत् । सादरमिति तत्र तात्पर्यसद्भावमाचष्टे । एतदर्थं(र्थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।
५६सु०- सत्सिद्धान्तमहापयन् सच्छास्त्राण्येव सर्वदा ृणुयात् इत्युक्तम् । तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा षृणुयादित्येतद्विवृणोति एतदेव चेति ।
एतत् वेदादिकम् । ततःपरं तद्विरुद्धं तदुदासीनं च । ऋगाद्या भारतं चैवेत्याद्यागमोऽत्र स्फुट एव । दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेत् इति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेयतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् । अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् । स्फुटानि च आचार्येण अन्यत्र अत्रार्थे वाक्यान्युदाहृतानि ।
५७सु०- सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् । निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः । अन्यथा तद्वैयर्थ्यादित्यत आह असंशयेनेति ।
संशय शब्देन विपर्ययोऽपि लक्ष्यते । निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् । एतदुक्तं भवति । सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति । किं तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये । अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् । वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् । न चाविदितस्यानुचिन्तनं सम्भवतीति । तद्वेदनार्थं श्रवणमभ्यर्थनीयम् । श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्टव्यमिति ।
५७असु०- अन्ये पुनर्मन्यन्ते । श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् । मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते । असम्भावनाविपरीतभावनाख्यचित्तविप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्टम् । मननादिकं च प्रतिबन्धं निवर्तयतीति । तदसत् । शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् । ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च । न च विशेषहेतुरस्ति । येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः । प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।
अथ मतम् । दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् । न च तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् । शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।
अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न । वैपरीत्यस्यापि सुवचत्वात् । तथाऽपि कुतो विनिगमनमिति चेत् । क्वचिद्बहुलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद्दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः । धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् । वैषम्यात् । प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः । न तथाऽन्यः ।।
अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् । नान्यस्य । तथा हि विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्, सुखादिज्ञानवत् । अपरोक्षत्वं वेदान्तवाक्याजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत् इति ।
न च विवादाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्टोमादिवाक्यवदिति युक्तम् । दशमस्त्वमसीत्यादौ व्यभिचारात् । श्रूयते च तद्धास्य विजिज्ञौ तमसः पारं दर्शयती त्युपदेशमात्रादेवापरोक्षप्रमितिजन्म । अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।
५८सु०- अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति तदसङ्गतम् । दशत्वसङ्ख्या खल्वपेक्षाबुदि्धजन्या तद्व्यङ्ग्या वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् ।
अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् ।
ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।
अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।
शब्दस्यैवम्भाव इति चेत् । तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्य अपरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । न हि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति ।
५९सु०- एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।
यच्चापरोक्षत्वमित्यादि । तज्ज्योतिष्टोमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् । ज्योतिष्टोमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् । सममेतद्वेदान्तवाक्येष्वपि । संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगात् वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न । ज्ञाननिवर्त्यताया निरस्तत्वात् ।
चित्तैकाग्रयरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च । मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् । तत्किं शब्दस्योपलब्धम् । यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न । श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् । चित्तैकाग्रयस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् । साऽप्यपक्वमनोविषयेति स्यात् ।
६०सु०- किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् । तद्धास्य विजिज्ञावि त्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः । परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा । स्पष्टं हि स्मृतयो वदन्ति श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनमि ति, ृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्व च न बाध्यते इति च ।
एतेन धर्मादिवाक्येऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् । अत एव प्रत्यक्षलक्षणे विशेषणप्रक्षेपोऽपि निरस्तः । निर्निबन्धनत्वात् ।
६१सु०- ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे तज्जनयतीति मन्यन्ते ते प्रष्टव्याः । प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा । नाद्यः । गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् । द्वितीयेऽपि विरम्यव्यापारापत्तिः । ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।
६२सु०- यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् । पुरुषशक्तनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः । न च तथाऽस्त्विति वाच्यम् । तत्साध्यस्य ज्ञानस्यैकविध्यत्वेन वैयर्थ्यप्रसङ्गात् । न च वाच्यं ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात् तत्तज्ज्ञानान्यपि तारतम्यवन्तीति । तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् । न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह सम्यगिति ।
विषमं विपरीतम् । ज्ञानमेव विज्ञानम् । ततो न पुनरुक्तिर्विरोधश्च । तारतम्यादिति तारतम्येनोपेतमित्यर्थः । सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं विवृणोति सम्यक् चेति ।
सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम्
सम्यग् इत्यव्ययं समीचीनादित्यर्थः । च शब्दोऽनुक्तसमुच्चयार्थः । मध्यमात् सम्यग्ज्ञानात् तथाविधं सुखं भवेत् । अल्पाच्च सम्यग्ज्ञानादल्पम् । एवमधिकान्मिथ्याज्ञानात् अधिकं दुःखमित्यादि । अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते । यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् । तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम् । न बन्धप्रध्वंसमात्रं मोक्षं किन्तु सुखमपि । तस्य च तारतम्यमुपपद्यत इति भावः ।
६२असु०- अधिकरणार्थमुपसंहरति अत इति ।
नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् । यथाऽऽत्मशक्तयैवेति कथम् ।
उच्यते । यथेति भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बध्यते । सादृश्यार्थं वा । आत्मशक्तयैव श्रवणं मननं चाचरेत् । न तु सर्वशाखाविषयम् । नापि स्वस्वशाखामात्रविषयम् । यथा च श्रवणं मननं चात्मशक्तयैव । निदिध्यासनमपि तथाऽऽचरेत् । तच्च श्रवणं मननं च कृत्वा कुर्वन् वेति । यद्वा यथाऽऽत्मशक्तत्यव्ययीभावात्पर आशब्दः सम्यग्वाची । श्रवणमित्यादिना सम्बध्यते ।
अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते । अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।
।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।
।। अथ उपसंहाराधिकरणम् ।।
ब्र०सू०- ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।
६३सु०- अत्र सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मा उपास्य इत्युक्तम् । इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह कृत्वेति ।
श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।
।। इति उपसंहाराधिकरणम् ।।
।। अथ अनुबन्धाद्यधिकरणम् ।।
ब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।
६४सु०- योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्तयादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्तयादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च द्वेषाच्चैद्यादयो नृपाः , वैरेण यन्नृपतय इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेण इति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्तयादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे विषयेष्वित्यादिना ।
विषयसेवनात् । शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति । मिथः समुच्चये च शब्दः । हि शब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।
एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र (व्या)आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।
यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति । तत्सत्यम् । तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । न च भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । न च तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्तयाद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।
६५सु०- यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति ।
ते विष्णुभक्तयभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेषु अनादिसम्बन्धाः सन्त्येव । तेन कारणेन तेषां मोक्षो न जायते ।
एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् ।
श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति ।
६६सु०- स्यादेतत् । सन्ति केचित् संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः । तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह सर्व इति ।
उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते भगवद्भक्तयभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव । रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति । चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन । अतो बालादिषूदाराणां तेषामभावादभावाभिमानः । स्तन्यादिकामादेष्वपि दर्शनात् । तथा चागमः । गर्भे बाल्येऽप्यपौष्कल्यादित्यादिः । तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।
६७सु०- अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । न च ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम् । तत्कथमित्यत आह ऋजूनामिति ।
ऋजूनाम् अपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।
६८सु०- प्रकारान्तरेण विरोधं परिहरति स इति ।
स परमोत्साहवर्जनं नाम दोषः । यद्यपि महोद्यमाभावो दोष एव हेयत्वात् । तथाऽपि
न रागादिरिव भावरूपः । नापि गुणाभावरूपः । किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुध्यते ।
६९सु०- किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति ।
इदं च सर्वयमोपलक्षणाम् । पुरुषार्थं मोक्षम् । अयमत्र सङ्क्षेेपः । विष्णुभक्तयभावाद्या विषयसंर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना । तथा च विष्णुभक्तयादिकं कार्यमिति सिद्ध्यति । भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति ।
७०सु०- विष्णौ पराऽन्यत्र तारतम्येनेत्युक्तं विवृणोति स्वादर इति ।
आदरः स्नेहः । स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः । अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः । ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः । एवं तेषाम् आधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम् । वासुदेवे तु निरतिशयः । शुभं ध्यानादिकम् । एतच्चोपपादयिष्यते ।
७१सु०- सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् । अयं तु कथमित्यपेक्षायामाह नेति ।
तं विष्ण्वाद्यादरम् । न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च । स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह समेष्विति ।
समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः
कर्तव्य इति वर्तते । तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या । यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः । ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः । ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् । विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् । एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षातिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः । अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।
७२सु०- दोषपरित्यागेऽप्यस्ति विशेषः । रागादयो हि संसारमातन्वते । विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह तदिति ।
तत् प्रसिद्धम् । न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् । विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः । उभयोः भेदाभेदयोः ।
७३सु०- स्वपक्षसाधनमुपसंहरति तेनेति ।
प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिः गुणैः औः संयुतः । तेनैव तथाविधेनैवोपासनेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिः जायते ।
७४सु०- इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति द्वेषादिति ।
तस्मादन्यथा व्याख्यातव्यमिति भावः । तत्प्रकारं च वक्ष्यति । किं तच्छतिवाक्यमित्यतो मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुरि त्येतदर्थतः पठति रिपव इति ।
रामो रमणं तदस्यास्तीति रामी भगवान् रामस्तस्मान्निष्क्रान्तः तस्य विमुखा निरामिण इत्यर्थः । अत एव तस्य रिपवः । अभिद्रोहपद इत्यस्यैव व्याख्यानम् अन्धेतमसीति ।
नित्यं स्थिता भवन्तीति शेषोक्तिः । अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तः तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मावोचः । न ह्यस्मच्छ्रवणवान् दुःखमर्हतीति योजना सूचिता भवति । इदं च वायुं प्रति विद्यादेवताया वचनम् । तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।
७५सु०- कथमेतच्छतिविरोध इत्यत आह इत्यादीति ।
स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति हिरण्यकशिपुश्चेति ।
विविक्षुर्वेशनसम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्ख्यानमिति वचनात् । श्वा मुमूर्षतीति यथा । अत्यगात्तमः । मम पिता मह्यं मन्निमित्तं त्वामनिन्दत् । मयि मद्विषये च अघवान् अपराधवान् । तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् । निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव । नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।
ततः स्थानात् । निन्दां ृण्वतो यदाधःपातस्तदा निन्दकस्य किमु ।
मानुषीं मनुष्यसदृशीम् ।
ये मां अवजानन्ति ते मोघाशादिमन्तो भवन्ति । तेषां सुखलेशोऽपि न भवति । आत्मपरदेहेषु प्रेरकत्वेन स्थितम् । संसरन्त्यत्रेति संसारा देहाः । तस्य विवरणमासुरीष्वेवेत्यादि । लोको जनः तस्यान्तश्चण्डालादिः तत्पर्यन्तस्य ।
कथमेतत्स्मृतिविरोध इत्यत आह इत्यादीति ।
ज्ञायत इति शेषः । तमोऽपि निरुत्थानमिति तु शब्दः ।
अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।
।। इति अनुबन्धाद्यधिकरणम् ।।
।। अथ विद्याधिकरणम् ।।
ब्र०सू०- ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।
७६सु०- यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाऽप्युपासनस्वरूपावगमे सत्येव तत्सार्थक्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् । तथा हि । न भगवदुपासनं कर्तव्यम् वैयर्थ्यात् । न च साक्षात्कारार्थम् । तस्यापि व्यर्थत्वात् । न च मोक्षप्रयोजनोऽसाविति वाच्यम् । चार्वाकदिशा मोक्षस्यैवाभावात् । भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते । यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि । तथाऽपि मोक्षतत्साधनविषयदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः । तत्र चार्वाकमतं तावदनुवदति नैवेति ।
एव शब्दः स्वरूपनिषेधद्योतनार्थः । अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि
ज्ञायेत । तस्मादुपासनं व्यर्थमिति शेषः ।
७७सु०- तर्हि कः पुरुषार्थोऽस्तीत्यत आह भोग इति ।
स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः । भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह शरीरेति ।
शरीरपातपर्यन्तमित्यर्थः । कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह भस्मीभाव इति ।
ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् ।
इदमुक्तं भवति । शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ । आत्मा च न शरीरातिरिक्तोऽस्ति । शरीरं च पातोत्तरकालं नश्यत्येव । ततः कस्य तौ स्यातामिति । इति प्राहुरिति सम्बन्धः । शङ्कासमाप्तौ वेतिशब्दः ।
७७असु०- तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति तदिति ।
मोक्षो नैवास्तीति वाक्यार्थं परामृशति केन मानेनेति । प्रत्यक्षेण वा तदितरेण वेत्यर्थः । दृष्टमवगतम् । द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति ।
प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता । पूर्वेण सम्बन्धः ।
आद्यं निराकरोति न हीति ।
अनुमानादिकं तावत्परस्य मानं न भवति । यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् । मोक्षो हि नाम परमानन्दावाप्तिविशिष्टात्यन्तिक दुःखनिवृत्तिः । तदभावश्चैवमवगन्तव्यः । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेति । न च पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हि शब्दार्थः ।
७८सु०- मा भूत् प्रमाणाभावेन मोक्षाभावनिश्चयः । तत्सद्भावनिश्चयोऽपि दुर्घट एव । प्रमाणाभावात् । तावत् तत्र प्रत्यक्षं प्रमाणम् । परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् । स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणेक्ष्यते ।
नापि प्रत्यक्षादन्यत् । तत्प्रामाण्यासिद्धेः । ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति । मैवम् । प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः ।
७९सु०- ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राह घटत इति ।
यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते । तथाऽपि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव । तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः । ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठ्या भवितव्यं कथं तृतीया । शेषविवक्षायां षष्ठी विहिता । न चात्र शेषविवक्षेति चेन्न । अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् । उच्यते । हेतावेषा तृतीया । न कर्तरि करणे वा । महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् । इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति । यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते । कथम् । यतो महीयसा पुरुषेणेक्ष्यते मोक्ष इति वदाम इति योजना । अथवा क्रियमाणेति पदाध्याहारे न दोषः ।
८०सु०- एवं तर्हि मयाऽपि वक्तुं शक्यत एव । यद्यपि परपुरुषवर्ती मोक्षाभावोऽस्मदादीनां न प्रत्यक्षः । तथाऽपि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव । तदवगमश्च अस्माकं तद्वाक्येन भविष्यतीति । तथा च सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह नेतीति ।
कस्मिन्नपि पुरुषे वर्तमानोऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः । महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः । महत्त्वमिह बहुप्रकारमपेक्षितम् । इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति । तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते । कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् ।
८१सु०- कुत इत्यत आह साधयन्निति ।
धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयल्लोकायताचार्यः कथमेवेतरेभ्योऽतिशयवान् भवति । न कथञ्चित् । एतदुक्तं भवति । पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् । अन्यथेतरेषामपि तत्प्रसङ्गात् । न चासावस्ति । तपसा योगेन वा जनितो धर्मविशेषस्तथा । स चेतरेषामिव स्वात्मनोऽपि नास्तीति तेनैव साधितम् । अतः कारणाभावादितरवत् तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते । तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव । भूतपरिणामविशेष एवातिशयोऽस्त्विति चेत् । स किं प्रत्यक्षोऽप्रत्यक्षो वा । नाद्यः । अनुपलम्भात् । यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् । अन्यथाऽतिप्रसक्तेः । न द्वितीयः । अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति ।
८२सु०- यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि । नास्त्येवासौ महीयान् पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत । प्रमाणाभावादिति । तथा च पुनरनिश्चय एवेत्यत आह दृश्यन्त इति ।
न केवलमेक इति भावः । लोके अस्मिन्नेव भूमण्डले । ते च वसिष्ठादयः । तेषां महीयस्त्वमाह ज्ञानविज्ञानपारज्ञा इति । अत्र विषयिभ्यां विषयावुपलक्ष्येते । सामान्यविशेषाकारपारज्ञाः । न केवलं वर्तमानाशेषविदः किन्नाम परावरविदोऽपि । तत्किमनुमानादिना नेत्याह अपरोक्षदृशश्चेति ।
अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति । योगनिष्ठाजनितविशिष्टादृष्टेन दिव्यदृष्टयः । किं तेनैव नेत्याह प्रत्यक्षमिति ।
योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तत्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः । वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्ट्या परपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्तेऽतो न मोक्षानिश्चय इति । अस्मदादिभिरनुपलब्धत्वात् ते सन्तीत्यत आह निषिध्यन्त इति ।
नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवदि्भरिति सूचयति । न हि ते वणिग्वीथ्यां वर्तन्ते । येन युष्माभिरुपलभ्येरन् । अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः ।
८३सु०- ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः । तेषां महीयस्त्वं तु कुत इत्यत आह दृश्यते चेति ।
न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते । कथम् । अतिमहौजसाम् । एतदुक्तं भवति । दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि । तानि च महैश्वर्यकार्याणि । न च कार्याणि विना कारणैर्भवितुमर्हन्ति । महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिदि्धरिति ।
८४सु०- ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् । तद्वाक्यादिति चेन्न । तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह यदीति ।
विप्रलम्भो हि प्रयोजनमूलो भवति । न च तेषां प्रयोजनानुसन्धानं सम्भवति । आप्तसमस्तैश्वर्यत्वात् । प्रयोजनान्तरस्य चाप्रमितत्वात् । एवम्भूता अपि ते योगिनो यदि विप्रलम्भका इति निषिध्यन्ते । तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् । तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते । साऽपि विप्रलम्भमूलेति कल्पयित्वा अनादरणीया स्यात् । अविशेषादिति यावत् ।
एतेनैतदपि निरस्तम् । विप्रकर्षवशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहाम्त्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतोऽवगन्तव्यम् । इतिहासपुराणेभ्य इति चेन्न । तेषामप्रमाणत्वादिति । दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् । न च तत्र प्रमाणमस्ति । वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति ।
८५सु०- न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते । प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत् समं प्रकृतेऽपीत्याह यदुक्तेति ।
यैः योगिभिः उक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेन उपलभ्यते तेऽपीति पूर्वेणान्वयः । कथमित्यत आह वरादयोऽपीति ।
तैर्योगिभिर्दत्ता वराः शापाश्च सदा अव्यभिचारेण सत्या भवन्ति । हि यस्मात् तस्मादिति पूर्वेणैव सम्बन्धः । ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति ।
स्यादेतत् । प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् । अतीन्द्रिये तु मोक्षादौ कथमिति । एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु । अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् ।
अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत् तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् । तेनातीन्द्रियार्थविषयेऽपि तत्र विश्वसिमः । लोके तथोपलम्भादिति । तदिदं प्रकृतेऽपि समानम् । तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन ।
८६सु०- एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् । हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति अप्रामाण्यमिति ।
हेतुसमुच्चये चशब्दः । वृथावाचेति भावप्रधानो निर्देशः । वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् । तदर्थं वाग्ग्रहणम् । कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह न हीति ।
परलोकस्य मोक्षादेर्निवारणात् । नास्तित्वप्रतिपादनाल-लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव । तथा हि । तदुक्तेरदृष्टं वा प्रयोजनं स्याद् दृष्टं वा । न तावददृष्टम् । परलोकनिवारणात् । अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा । नाद्यः । स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् । न द्वितीयः । देहात्मवादिनाऽस्यात्मनः परलोकस्य देहान्तरस्य निवारणात् । नापि दृष्टम् । प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति ।
८७सु०- वैदिकानां धर्माधर्मव्यवस्थापकैर्वचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति । यद्यप्युपकारो न स्वरूपेण प्रयोजनम् । नाप्यदृष्टहेतुत्वेन । तथाऽप्युपकर्तारं प्रत्युपकुर्वन्त्येव । विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् । तत्कथं वृथात्वमित्यत आह वृथा वाचमिति ।
अत्र वृथावाचमिति साध्यनिर्देशः । एवमपि वृथावाक्तवं न परिहार्यमिति । अदृष्टप्रयोजनरहितवाचमिति वा । यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात् तदा तं प्रति तस्य किम् उत्तरम् । न किञ्चित् ।
एतदुक्तं भवति । न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितोऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदाऽस्य का प्रतिक्रिया । उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् । उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव । सा तु तेनैव निश्शेषिता । अतो नास्त्येव आचार्यस्य प्रयोजनम् । प्रत्युत स्वजीवनहानिलक्षणोऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहाराय परस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः । महताऽनर्थेनाक्रान्तोऽल्पीयान्कामोपभोगोऽनर्थ एवेति ।
८८सु०- अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च । तथाऽप्यप्रामाण्यं कुत इत्यत आह स्वेति ।
स्वशब्दः परेषामप्युपलक्षकः । व्यर्थं चेति शेषः । व्यर्थानर्थहेतुवाक्तवेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते । ततस्तद्वचनस्याप्रामाण्यमिति शेषः । उक्तश्चायमर्थः प्रयोजनाधिकरणे ।
८९सु०- उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह प्रामाण्य इति ।
(अत्र) प्रामाण्य शब्देनाप्तत्वमुच्यते । किं इत्याक्षेपे । अपि शब्दो गर्हायाम् । स्वे त्युपलक्षणम् । दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य । च शब्दो विशेषणसमुच्चये । देवोक्ती त्यतीन्द्रियान्तरस्याप्युपलक्षणम् । स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।
यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्च अतीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात् किं, न स्यादेव । किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।
९०सु०- एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिना अत्यन्तासम्भावितवञ्चकत्वात् प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न) तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्ध्यतीत्युक्तम् ।
इदानीं वेदेनापि तं सिषाधयिषुः तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वात् वेदस्य अप्रामाण्यमुच्यते । उत वाक्यत्वात् उन्मत्तवाक्यवत् ।
अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ (वा) बाधितत्वादिति विकल्प्य आद्येऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं निराचष्टे अत इति ।
वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः । प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात् । प्रमाणसमुच्चये च शब्दः । वेदेन च मोक्षसिदि्धरिति । अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् । ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति । मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि । फलविसंवादोऽपि वेदस्य दृश्यत इति चेन्न । तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् । तदिदमुक्तं स्फुटमिति ।
आद्ये द्वितीयं दूषयति यदीति ।
यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वम्, अप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत् । अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् । यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदा अस्मत्सुखादिविषयस्य प्रत्यक्षस्य अप्रामाण्यं भवेदेवेति । यद्यपि योगिप्रत्यक्षसंवा(दोऽस्ति तथा)दः प्रागुक्तस्तथाऽपि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् । स्यादेतत् । प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आह यद्यक्षजस्येति ।
यदि संवादेन विना अक्षजस्य स्वत एव प्रमाणत्वं स्यात् तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत् । अविशेषाद्भवेदेव ।
९१सु०- द्वितीयं निराकरोति यद्यागमस्येति । यदि वाक्यत्वमात्रेणोेन्मत्तवाक्यवत् आगमस्य न मानत्वमित्युच्यते । तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत् स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् । निर्दोषत्वात् स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह यद्यक्षजस्येति । यदि निर्दोषत्वात् स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात् तर्ह्यागमस्यापि तत एव कथं न भवेत् । न ह्यपौरुषेयस्य सदोषता सम्भवति । वेद इत्युपक्रमात् तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् ।
९२सु०- तृतीयं निराकरोति लोकेति ।
उन्मत्तादिवाक्यात् । विशेषो वेदस्य । अव्यभिचारेण बाधराहित्येन । न हि वैदिकोऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयाऽवकाशं लभेत ।
एतेन चतुर्थोऽपि निरस्तः ।
९३सु०- तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवता योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात् सम्मतवदित्यनुमानमपि सूचितम् । अनुमानप्रामाण्यं च प्रागेव समर्थितम् ।
९४सु०- अपरे पुनरनुमिमते । दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति । तदसत् । सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् । नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात् समर्थयिष्यमाणत्वाच्च । तद्व्यतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् । पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च । सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न । सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् । कालक्षणसन्ताने व्यभिचाराच्च ।
किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् । आद्ये सिद्धसाधनता । मोक्षमनङ्गीकुर्वताऽपि दुःखानां विनाशिताऽभ्युपगमात् । अत एवात्यन्तमित्युक्तमिति चेत् । कोऽस्यार्थः । किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति । उत निःशेषतयोच्छिद्यन्त इति ।
अथवा तत्र दुःखान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनताऽनिस्तारात् । सर्वेषामपि दुःखानां परेण अनित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि दुःखं सावयवद्रव्यम् । येन सशेषमुच्छिद्यत इति शङ्क्येत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । न हि दीपज्वालासन्ततिरेवमुच्छिद्यते । तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् । न द्वितीयः । दुःखधर्मो हि जातिर्वा तदन्यो वा । आद्येऽपसिद्धान्तः । जातेर्नित्यत्वाङ्गीकारात् । न द्वितीयः । आश्रयासिद्धेः । गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् । अङ्गीकारेऽप्यर्थान्तरता स्यात् । न हि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिदि्धरिति ।
९५सु०- आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात् महाप्रलयावस्थायामाकाशवदिति चासत् । सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् । असिद्धेश्च । जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् । तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् । जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।
आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । तथा सति हेतोरसिदि्धप्रसङ्गात् । जातित्वं हेतुरिति चेन्न । पूर्वानुमानदोषापरिहारात् । घटत्वादावनैकान्तिकत्वाच्च ।
अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् । विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न दोष इति चेन्न । कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् । तत्त्यागेऽप्यर्थान्तरत्वात् । अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।
९६सु०- एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्टव्यतिरेक्यनुमानपि निरस्तम् । अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः ।
९७सु०- इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति अस्तीति ।
यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः । अङ्गीकृतश्चेत् मोक्षसद्भावः तदा तत्साधनमपि किञ्चिदङ्गीकार्यमेव । तथा च का विप्रतिपत्तिरित्याशयवान् पृच्छति अपीति । किं तर्हीत्यर्थः । उत्तरमाह धर्मेणेति । लभ्यत इत्याहुः ।
अपिचा वितरेतरसमुच्चये । यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनाः तथापि तद्विशेषे विप्रतिपद्यन्ते । यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः । सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् । यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् ।
धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते । अतो विप्रतिपत्त्यनन्तरं दर्शयति प्रामाण्यमिति ।
जिन आप्तोऽस्खलितवाक्त्वादित्याद्यनुमायाः । चशब्दाज्जिनदर्शिनां वाक्यस्य च । तद्वाक्यात् । जिनवाक्यात् । इति च जैनाः प्राहुः । अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिदि्धमाहुः । न तु स्वतःप्रमाणाद्वेदादित्याशयः । मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न । साधनज्ञापकस्यापि साधनत्वात् ।
धर्मज्ञानस्वरूपेऽपि विप्रतिपत्तिं दर्शयति धर्म इति ।
अहिंसा परा प्रधानभूता यस्मिन् स तथोक्तः । एतदस्माकमपि सम्मतमित्यत उक्तम् अन्यो हिंसासहितो यज्ञादिः न धर्म इति । आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् । यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् । अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते ।
९८सु०- दूषयति कथमिति ।
तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् । अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः ।
कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति ।
विषयान् निर्दोषान् प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्टमिन्द्रियम् । जातावेकवचनम् । यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतः तेन अदोषेण सन्निकृष्टमदुष्टं तत्प्रत्यक्षमित्यर्थः ।
अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम् । तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत ।
यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् । तथाऽपि योग्यतया विषयाणां सम्बन्ध इति हिशब्देन आचष्टे ।
प्रत्यक्षशब्दानुसारात् प्रत्यक्षागमानुसारेणैव मानत्वात् । अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च । प्रकर्तिताऽनुमेति शेषः । याऽनुमा प्रसिद्धा साऽस्मान्निमित्तादनुमेति प्रकर्तिता । यद्यप्यनुसृता माऽनुमा तथाऽपि सामर्थ्यात् प्रत्यक्षादिसम्बन्धः । अनुमानमूलाऽनुमाऽप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।
आ इत्यनुवादेन समन्तादिति व्याख्यानम् । सम्यक् चेत्यपि ग्राह्यम् । गमयति ज्ञापयति । करणे कर्तृत्वोपचारः । ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि भावे वा अपो विधानात् अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् । यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च । तु शब्दोऽवधारणे । तेनैवेति सम्बध्यते ।
यद्यप्या सम्यक् समन्तात् सर्वं गम्यते अनेनेत्यागमः । तथाऽपि प्रत्यक्षानुमानावगतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् । तस्य विवरणं धर्मेत्यादि । य आगमः प्रसिद्धोऽसौ ।
९९सु०- निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् । न च निर्वचनलभ्योऽर्थोऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः । व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह एतेनेति ।
तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः । प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् । न तु निर्वचनमात्रलभ्योऽर्थ इत्यर्थः । कुत इत्यत आह स्वरूपं हीति ।
तत् निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियत्वादिकम् एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः । लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति । एतदपि कुत इत्यत आह अन्यथेति ।
अन्यथाऽसिदि्धश्च तन्मानं च । प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः । तथा चोक्तम् ।
१००सु०- ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह अत इति ।
अनुमे त्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते । चापि शब्दावितरेतरसमुच्चये । दर्शयेत् प्रतिपादयेत् ।
इदमुक्तं भवति । जिनवाक्याद्धर्मादिसिदि्धरिति वदता किं प्रमाणमुक्तं भवति । आगम इति चेन्न । सम्यक् प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् । जिनवाक्यस्य च तदसिद्धेः । जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा । द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत् सम्यक्तवं दुर्लभम् । आद्ये प्रत्यक्षेणानुमानेन वाऽवगतौ तदनधिगतार्थतासम्भवः । वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्तवमेव ।
१०१सु०- एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तोऽस्खलितवाक्तवादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् । तथा हि । आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव । वाक्यान्तरमूलत्वेऽपि तथा । न च प्रत्यक्षं मूलम् । विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् । न चाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते । अतोऽस्खलितवाक्तवाद्यनुमानमूलमित्येव वक्तव्यम् ।
न चैतदनुमानम् । प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् । न चैतत् प्रकृते अस्ति । आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः । आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिदि्धः । तत्त्वज्ञानादिलक्षणा खलु आप्तिः । तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् । विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् । धर्मादेश्चाक्षाविषयत्वात् । तथात्वे वाऽन्येषामपि तदधिगतिप्राप्तेः । अत एव नानुमानजन्यम् । वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव । एवमविप्रलिप्साऽपि दुरधिगमा ।
अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्टम् । आप्तेरुक्तविधया बाधितत्वात् । अन्येषामप्रत्यक्षेऽर्थेऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न । पुरुषत्वादिना सत्प्रतिपक्षत्वात् । अस्खलितवाक्तवं च क्वचिद्वा प्रकृते वा सर्वत्र वा । नाद्यः । यः क्वचिदस्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् । न द्वितीयः । निर्धारणोपायाभावात् । फलप्राप्त्यनुमेयं खल्वेतत् । अत एव न तृतीयोऽपि ।
यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् । औषधादिना सम्भवदन्यथासिद्धं च । न चायं मन्वादिवाक्येष्वपि प्रसङ्गः । अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् । यद्वै किञ्चन मनुरवदत्तद्भेषजमि त्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च । अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिदि्धरित्यसदिति ।
१०२सु०- न केवलं जिनस्यास्खलितवाक्तवं निश्चायकाभावादसिद्धम् । किन्तु स्खलनदर्शनादपीत्याशयेनाह स्वरूप इति ।
विषयसप्तमीयम् । अपुद्गलशब्देन नञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा । उक्ताः एवं चात्मा कार्त्स्न्यम् इत्यादिना । अयमर्थः । जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् । तत्प्राग्दूषितमिति स्खलितवागसाविति । यद्यपि सप्तभङ्गिनयोऽपि तदुक्तो दूषितस्तथाऽपि मोक्षसाधनं यात्पुद्गलदर्शनमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः । ननु एतदपि पूर्ववाक्येन सिद्धम् । सत्यम् । प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः ।
१०३सु०- प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयति आनन्दमेवेति ।
अत्रापि अपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते । तत्त्वविद आत्मानम् आनन्दमेव आनन्देन अत्यन्ताभिन्नं मन्यन्ते । स जिनस्तमानन्दमेव न मन्यते । भिन्नत्वादिना सप्तप्रकारं ब्रवीति । तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् । अतश्च स्खलितवागसाविति भावः ।
१०४सु०- इतश्च तथेत्याह दुःखेति ।
तु शब्द आत्मव्यावृत्त्यर्थः । इति शब्दो हेतौ । पूर्वेणैव सम्बन्धः । यस्मादात्मा भावः । सुखं तु दुःखाभावः । न च विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः । तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते । तच्चायुक्तमित्यतः स्खलितवागसौ । कुतस्तदयुक्तमित्यत आह मात्रेति ।
मीयन्त इति मात्राः शब्दाद्या विषयाः । भोगोऽनुभवः । उपलक्षणं चैतत् । विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् । सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात् सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः । सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः ।
यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्टप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् । यदि सुखं निरतिशयं स्यात् तदा प्रेक्षावतां विषयभोगातिरेकोपादानं व्यर्थं स्यात् । दृश्यते च तदिति ।
१०५सु०- ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् । तद् यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते । न च प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्टे । विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् । विषयभोगसाध्यत्वाद् दुःखाभावस्येत्यत आह सुखस्येति ।
भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् । यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् । सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः । एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह न चेति ।
यदि निर्निबन्धनमेव सुखतारतम्यदर्शनादेरौपाधिकत्वं कल्प्यते । तदा सुखं भावरूपं दुःखं तदभावः । तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् । सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपर्ययश्च किन्न स्यात् । स्यादेव । अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात् स्वाभाविकतारतम्ययोर्भावत्वमङ्गीकर्तव्यमिति ।
१०६सु०- सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणासद्भावात् कथं सुखस्याभावता केनेत्युक्तमिति चेत् । किमेवंवादिनो मते कश्चिद्भावो विद्यते । उत सर्वेऽप्यभावाः । आद्ये दोषमाह यदीति ।
वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावोऽपि स्यात् ।
तर्हि तस्य सुखस्यैवाभावता कुतः । अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् । अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः ।
ननु सर्वेऽपि पदार्था अभावा भवन्त्येवेति नोक्तो दोषः । यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक्प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् । तथाऽप्यन्योन्याभावत्वं युज्यत एव । घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः । न चान्योन्याभावो धर्मिणोऽन्योऽस्ति । अतो घट एव पटाद्यन्योन्याभावः । एवं पटादयोऽपीति द्वितीयं शङ्कते यदि सर्वेऽपीति ।
सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः ।
उत्तरमाह भावतेति ।
तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नः अस्माकं किं छिन्नं भवेत् । न
किमपि । कथम् । यतः अभावाभावता भावता एव स्यात् । इदमुक्तं भवति । सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् । अथवाऽन्योन्याभावत्वम् । उत सामान्यम् । आद्ये प्रागुक्तदोषापरिहारः । द्वितीयतृतीययोः सिद्धसाधनम् । अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् । न च भावत्वाङ्गीकारविरोधः । सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः । अभावाभावश्च भाव एव । एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणादि्ध । आत्मनोऽपि तथात्वादिति ।
१०७सु०- अभावाभावता भावतैव स्यादित्युक्तम् । तदुपपादयितुं भावाभावस्वरूपं तावदाह भावत्वमिति ।
भावत्वं नाम विधिरूपत्वम् अभावत्वं नाम निषेधत्वमिति योजना । शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः । अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् । ततः किमित्यत आह निषेधस्येति ।
यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् । स च विधिरेव भवेत् । दर्शनबलात् । दृष्टो हि नेयङुवङ्स्थानावि ति निषेधस्यास्त्रीति निषेधो विधिः । वक्ष्यते चैतत् । विधिश्च भाव एवेत्युक्तम् । तस्मादभावाभावता भावतैवेति युक्तम् ।
१०८सु०- एवं तर्हि द्रव्यादयो भावाः प्रागभावादयोऽभावा इत्यन्यत्रोक्तनियमो न स्यात् । घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति प्रथमेति ।
कृतव्याख्यानमेतत् ।
१०९सु०- एवं जिनस्य स्खलितवाक्तवप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् । युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोति न चेति ।
आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात् पटवदिति शेषः । अस्य व्याप्तिमुपपादयति क्वचिदिति । नेति वर्तते । मोक्षदमिति च । तच्च भावप्रधानम् । न हि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् । येन व्याप्तिर्न स्यात् । कर्मणस्तथात्वं निराकरिष्यते । ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव ।
आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति अस्वातन्त्र्यादिति ।
ज्ञात आत्माऽपि सुखदो मोक्षदो न भवति । कुतः पुद्गलस्यात्मनोऽस्वातन्त्र्यात् । हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति । अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते । आत्मनः सुखमात्रदानं नोपपद्यते । किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् ।
११०सु०- पक्षद्वयं हेत्वन्तरेण निराकरोति न हीति ।
आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् । जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् । ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् । तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् । यद्वाऽऽत्मा दुःखं निवर्तयितुमशक्तः । दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तने शक्तो यथा दरिद्रो दारिद्र्यनिवर्तने इति तात्पर्यार्थः । दुःखित्वोक्तयाऽस्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति ।
१११सु०- स्यादेतत् । नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति । किन्तु प्रकाशोऽन्धकारमिव विरोधाद् दुःखं निवर्तयति । तत्र किमचैतन्यं करिष्यति । स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्क्याह यदीति ।
कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन । तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव । एतदुक्तं भवति । प्रकाशः खल्वन्धकारविरोधित्वात् तन्निवर्तयन् उत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन । विलम्बे विरोधस्यैवानिर्वाहात् । तथाऽत्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात् तन्निवर्त्य आत्मानं मुक्तं कुर्यात् । तर्हि जिनादयः तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः । न चैवम् । देहादिमत्त्वेनोपलम्भात् । तथाविधानां च दुःखादेरवर्जनादिति । इष्टापत्तिनिरासाय सदेत्याद्युक्तम् ।
अयमत्र प्रयोगः । दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात् सम्मतवदिति ।
किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् । ज्ञानानां क्षणिकत्वदर्शनात् । तथा च यदनन्तरं मोक्षोऽभिलष्यते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात् प्रथमादिज्ञानवत् । अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति ।
११२सु०- ननु भवदि्भरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते । तत्रापि समानमिदं दूषणमित्यत आह ईशेति ।
ईशवादिनः मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः
स्यात् ।
अयमभिसन्धिः । न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे । किन्नाम प्रसन्नः परमेश्वर एव । ज्ञानं तु प्रसादत्वान्मोक्षसाधनमिति गीयते । स च चेतनः कामपि कालकल्पनां करोति । अस्मिन्समयेऽमुं मुक्तं करिष्यामीति । तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः । यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति । आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति । स तदनुसारेण तस्माद्गां लभते तथैवेति ।
११३सु०- एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे कर्मेति ।
कर्मणो हेतुत्वं कर्महेतुत्वं मोक्षं प्रति । यद्वा कर्महेतुत्वमिति बहुव्रीहिः । मोक्षस्येति
शेषः । तुशब्दोऽवधारणे । नैवेति सम्बन्धः । निश्चैतन्यात् कर्मणः । विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात् पटवदित्यर्थः । व्याप्तिमुपपादयति न हीति । नेत्युभयत्र सम्बध्यते । न हि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् । येनात्र व्याप्तिर्न स्यादित्यर्थः ।
११४सु०- नन्वचेतनत्वेऽपि विशिष्टं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् । किम् आमोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि । नाद्यः । क्रियाणामनेकत्वदर्शनात् । प्रतिक्रियं कर्मोत्पत्तेः । एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽऽपद्येत । अभ्युपगम्यैकत्वं बाधकमाह अशेषेति ।
यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्म अशेषदुःखविलये मोक्षस्य कारणं न भवति । तथोत्तरकालं विवक्षितकालेऽपि मोक्षकारणं न स्यात् । कर्मत्वादिति शेषः । एकस्यापि कर्मणः कालभेदेन भेदात् पक्षसपक्षत्वं युज्यते । विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति ।
द्वितायेऽपि बाधकं प्रमाणमाह अशेषेति । अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते । उत्तरमित्यन्तिमा । अन्यत् समानम् । न चान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति । तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् । न च पूर्वसहकृतस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् । इयत्ताभावेनानियतकारणकत्वापत्तेः । न हि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वाऽपव्रज्यत इति नियमः प्रमाणवान् । न च जैनैरिष्यते । जिनानां विषमकालत्वाभ्युपगमात् ।
११५सु०- आभासोद्धारं करोति दृष्टीति ।
यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती । ततः अनुमा न त्वाभास इत्यर्थः ।
यदुक्तमीशक्ऌप्त्यनुसारेणेति तदसत् । ज्ञानादीश्वरप्रसादः ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न । श्रुतेः सद्भावात् । तत्प्रामाण्यस्य साधितत्वात् ।
आभासानुद्धरन्नेव (वा)चानुमानमप्याह दृष्टीति ।
शक्तस्यान्यस्य विज्ञानं विशिष्टज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् । तत्प्रीतिजनकं इति यदि अनुमीयते । यदि च तया तत्प्रीत्या एव बन्धहानिः स्यादिति अनुमीयते । तदा किन्नाम दूषणम् । न किमपि । कुतः । यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः । अर्थमात्रमिदमुक्तम् ।
एषा तु प्रयोगप्रक्रिया । संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात् राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् । यश्चासौ पुरुषः स एवेश्वरः । विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् । कर्मादिना भवन्नीश्वरप्रसादोऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः ।
यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानं तत्प्रीतिजनकं गुणोत्कर्षादिज्ञानत्वात् सम्मतवत् । न चेश्वरासिद्ध्या दोषः । प्रथमानुमानेन तस्य सिद्धत्वात् । तदिदमुक्तं शक्तस्यान्यस्येति ।
११६सु०- नन्तेतद्विपरीतमपि मयाऽनुमीयते । ततः सात्प्रतिपक्षतेति चेत् । किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति । आद्ये दोषमाह स्वज्ञानादिति ।
दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् । तथा च व्याप्त्यभाव इति भावः । द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः । परप्रसादनिरपेक्षैव काचिद् बन्धहानिः दृश्यते । तत्र भवतामपि व्यभिचार इति चेन्न । पक्षतुल्यत्वात् सर्वाऽप्यनिष्टनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः ।
११७सु०- यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् । कर्मणः प्रतिबन्धकस्य सद्भावात् । न हि प्रतिबन्धकवशात् कार्यमकुर्वाणो हेतुरहेतुर्भवति । अतिप्रसङ्गात् । अनेकविधं खलु कर्म । तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् । तथाप्यायुरादिकारणमस्त्येवेति चेत् ।
स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाक्षने इत्येषोऽर्थः प्रमितो भवेत् । न चैवम् । एवमेव कल्पनेऽतिप्रसङ्ग इत्याशयवान् धर्मादिस्वरूपे तावत्
प्रमाणं नास्तीत्याह अहिंसायाश्चेति ।
च शब्दो ज्ञानसङ्ग्रहार्थः । यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः । ज्ञानविशेषस्य चोपलक्षणम् । जिनवाक्येेनावगम्यत इति चेन्न । तत्प्रामाण्यसाधकाभावस्योक्तत्वात् ।
११८सु०- सत्प्रतिपक्षं च जिनवाक्यमित्याह हिंसाया एवेति ।
अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् । जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्युक्ते किमुत्तरं स्यान्न किमपि । तथा च न धर्मनिश्चयः स्यात् । भिन्नकाचार्यो नाप्त इति चेत् । जिनोऽपि कथमाप्तः । (सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् । भिन्नकाचार्येऽपि तुल्यमेतत् । अप्रामाणिकास्तत्र ते गुणा इति चेत् । जिनेऽपि किं प्रमाणसिद्धाः । जिनदर्शिनां वचनेन तेषां तत्र सिदि्धरिति चेन्न । समानमन्यत्रापि । भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् । जिनदर्शिनोऽपि कुतो न तथेति ।
११८असु०- इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति ।
सुखं मोक्षः । जिनवाक्येनावसीयत इति वदतः पूर्ववत् सत्प्रतिपक्षतेत्याह हत्याया इति ।
मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः । हनस्त चेत्यत्र सुपीति नानुवर्तते । ब्रह्महत्यादयस्तु षष्ठीसमासाः । अतो हत्येति साधुः । सन्ति खल्वक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती त्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति ।
११९सु०- अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति न चेति ।
शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानात् । तथैव शून्यभावया शून्यध्यानेन । अपिचावन्योन्यसमुच्चये । मोक्षो न भवेदिति सम्बन्धः । कथं च नेत्यनेनेदमाचष्टे । शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात् तयैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति । यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन । नाद्यः । अचेतनत्वात् पटवत् । न द्वितीयः । शून्यस्य प्रसादगुणानङ्गीकारात् । अन्यथा शून्यत्वव्याघातादिति ।
१२०सु०- स्यादेतत् । बन्धस्तावत्संवृतिनामकाज्ञाननिमित्तोऽध्यासः । संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते । ततस्तन्मूलो बन्धाध्यासोऽपीति किमचेतनत्वादिकं करिष्यति । न च एवम्भावनावैयर्थ्यम् । असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति । मैवम् । बन्धस्याध्यस्तताया निरस्तत्वात् । अङ्गीकृत्य दोषमाह यदीति ।
शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते । शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् । तदैव भवितव्यमित्याशयः । न हि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बोऽस्ति ।
अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण । असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् । ते किं संवृतिकार्ये न वा । द्वितीये शून्यवदनिवृत्तिरेव । आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः । अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् । संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् । पश्चादपि कथं निवृत्तिः ।
१२१सु०- ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथाऽस्मन्मतेऽपि किं
न स्यादित्यतो वैषम्यमाह परेति ।
अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते । लोके तथा दर्शनात् । मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वात् बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किं निबन्धनो भवेत् । प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकार्यत्वेन ज्ञानविरोधित्वात् । न हि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बोऽस्ति ।
१२२सु०- परप्रसादानपेक्षेष्वपि कार्येषु विलम्बोऽस्ति । त्रिवृन्मूलाभ्यवहरणादौ कृतेऽपि विरेचनादेर्विलम्बदर्शनात् । तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति । तत्राह अन्यत्रापीति ।
मोक्षादन्यत्र । एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः । कुतोऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आह अन्यथेति ।
ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत् तदा तस्य सद्भावात् कार्यं विरेकादिकं कस्मान्नोपजायते । उपजायेतैव । कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते । न (चादृष्टवै) च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या ।
न च धर्मवैकल्यं कल्पयितुं युक्तम् । उत्तरकालमपि कार्यानुदयप्रसङ्गात् । न हि तन्मध्ये कश्चिद्धर्मोऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् । केयं वृत्तिर्नाम । किं कार्यकरणमुत सहकारिसाहित्यम् । नाद्यः । करणमेव कुतो नास्तीति विचार्यमाणत्वात् । द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते । औषधस्य शरीराशयव्याप्त्यभावात् कार्यानुदय इति चेन्न । तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति ।
१२३सु०- किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वाऽन्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् । न तु बौद्धेनेत्याशयवानाह कारणे सतीति ।
अस्य बौद्धस्य मते कारणे सति कार्यस्य उत्पादः सुनियतः न त्वन्येषामिवाप्रतिबद्धकारणसामग्रयां सत्याम् । समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः । अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् ।
१२४सु०- विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति ।
द्वितैव द्वैतम् । स्वार्थिकोऽण् । न द्वैतमद्वैतम् । विज्ञानस्याद्वैतं विज्ञानाद्वैतम् । विज्ञानमेकमेव तत्त्वं न ततोऽन्यदस्तीति वेदनात् । विज्ञानभावनात् विज्ञानाद्वैतध्यानात् । आद्यश्चशब्दो वादिसमुच्चये । द्वितीयः साधनसमुच्चये । एव शब्दो नैव घटत इत्याद्यः सम्बध्यते । द्वितीयस्तु साधननियमार्थः । विज्ञानवादिन इति तेनै(ताभ्या)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः । सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः ।
यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना । कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, न तु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।
१२५सु०- वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे अन्तरिति ।
शरीरान्तःस्थितस्य ज्ञानस्य । उपलक्षणमेतत् । विज्ञानवेदनासंज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् । उक्तमार्गेण क्षणिकत्वेन ।
न मुच्यते पुरुषः । कुतोऽत्रार्थे मानाभावात् । अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्ताः ।
१२६सु०- एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्ख्योक्तं मोक्षसाधनं तावदनुवदति प्रकृतेरिति ।
प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्ख्याः प्राहुः । दूषयति न चेति ।
एतस्मिंश्चार्थे मानं नास्ति । कथं नास्ति । य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परमि त्याद्यागमानां सत्त्वादित्यत उक्तम् ईशाप्रसादत इति ।
ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः । अयमभिसन्धिः । भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् । किन्तु भगवत्प्रसादसाधनत्वेन । प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते । विरक्तस्य भक्तयादिद्वारा भगवत्प्रसाद इति । तदर्थानि चैतानि वाक्यानि । निरीश्वरेण तु साङ्ख्येन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते । न च तस्मिन्विशेषे प्रमाणमस्तीति ।
नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत् प्रतिपादयन्ति । न च पारम्पर्यकल्पने कारणमस्ति । अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह श्रुतय इति ।
यस्य प्रसादादित्याद्याः श्रुतयः । अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः । एव शब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः । यदा यस्मात् । नियमात् साधनान्तरव्यवच्छेदेन । नापरेण । स एवैक इति वचनात् । तं प्रसादम् । भवेत् मुक्तिः । बलवद्बाधकसद्भावात् लाङ्गलेन वयं जीवाम इतिवत् पारम्पर्यपरत्वमेव तेषां वाक्यानां युक्तमिति भावः ।
१२७सु०- वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति कणादेति ।
योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते । अनुपपन्नभाषिण इति शेषः । न केवलं साङ्ख्याद्या इत्यपेरर्थः ।
१२८सु०- नन्वेते त्रयोऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते । तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् । तथाऽपि न साक्षात् । किन्तु धर्मद्वारैव । अन्यथा यतोऽभ्युदयनिःश्रेयससिदि्धः स धर्म इति सूत्रविरोधात् ।
न च धर्मोऽपि साक्षान्मोक्षहेतुः । अपि त्वीश्वरप्रसादसहकृत एव । यथोक्तम् । तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति । स्पष्टं च तुष्टेर्मोचयतो बद्धानतुष्टेर्बध्नतः पुनः । कारागारमिदं विश्वं यस्य वन्दे तमीश्वरमि ति ।
१२९सु०- पतञ्जलिस्तु स्पष्टमाचष्टे तपःस्वाध्यायेश्वरप्रणिधानादिक्रियायोग इत्यादि ।
१३०सु०- अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याह । तथाऽपि प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव । आत्मशरीरेन्द्रियार्थबुदि्धमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् । आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् । किन्नाम परमेश्वरप्रसादोपेतमेव । स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते इति सम्प्रदायविद्वचनात् ।
अथ कथमनुपपन्नभाषिण इत्यत आह ईशस्येति ।
ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतोऽतोऽनुपपन्नभाषिण इत्यर्थः ।
१३१सु०- तथा हि । यद्यपि वैशेषिकैरीश्वरप्रसादोऽङ्गीकृतस्तथाऽपि धर्मसहकारित्वेनैव । ईश्वरचोदनाभिव्यक्तादिति वचनात् ।
एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह ।
नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः । द्वितीयसूत्रे तथैव व्युत्पादितत्वात् ।
श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् । भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते । सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृगि त्याद्याः । अतः कथं नानुपपन्नवादिन इति ।
१३२सु०- इतश्चानुपपन्नभाषिण इत्याह भोगादेव चेति ।
वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते । किन्तु समाधिमहिम्नाऽपरिमितदेहव्यूहनिर्माणोनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुरतोऽप्यनुपपन्नभाषिण इत्यर्थः ।
नन्वेतदसङ्गतम् । मोक्षसाधनविचारस्य प्रस्तुतत्वादिति । मैवम् । विद्याकामकर्मादिलक्षणो हि बन्धः । अतस्तन्निवृत्तिर्मोक्ष इति कथं कर्मक्षयो न मोक्षः । वक्ष्यति च । कर्मक्षयस्तथोत्क्रान्तिरित्यादि । अतो मोक्षसाधनविषयैवेयं चिन्तेति ।
१३४सु०- तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतोऽस्यार्थस्याप्रामाणिकत्वादित्याह कुतश्चेति ।
ज्ञानिनोऽपि कर्मणां फलभोगेनैव क्षय इत्येतत् कुत एव प्रमाणात् प्रतिपत्तव्यम् ।
न कुतश्चित् । अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसंज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह प्रसन्न इति । कुत एतदिति वर्तते । ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः । भगवानपि कथमदत्तफलकर्मक्षयस्येष्ट इति न शङ्कनीयम् । तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति ।
१३५सु०- सम्भावितमेवैतन्न तु प्रमितम् । तत्कथमन्यथैवोपपत्तिरित्यत आह भिद्यत इति ।
हृदयग्रन्थिः अविद्या । परा अप्यवरा यस्मात् स परावरः । आत्मन्याततगुणे जगदी श्वरे । आद्यं कठश्रुतिवचनम् । द्वितीयं भागवतवचनम् । आदि पदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते । अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति ।
१३६सु०- नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते न तु दर्शनेनेति । ततो भोगेनेति व्याख्यानेऽपि न विरोध इति चेन्न । तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् । दृष्ट एवेत्येवशब्दविरोधाच्च । भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च ।
१३७सु०- अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते । बहुतरत्वाद्विषमविपाकसमयत्वाच्च । ज्ञानी तु समाधिसामर्थ्यात् कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत् कुत एषा कल्पना । उक्तार्थापत्त्यैवेति चेन्न । अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः । तत्स्थितौ च वचनानाम् अन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः ।
वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न । अवधारणादिना निरवकाशस्योक्तत्वात् । भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिरि त्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च । अत एव नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी त्यादिसामान्यवचनमज्ञानिविषयम् । ज्ञानिनामपि प्रारब्धकर्मविषयम् ।
आत्मनो वै शरीराणि बहूनि मनुजाधिप । प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत् । भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिवे त्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् । विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् ।
अत एव ज्ञानादेवाशेषकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलब्धेरि त्यनवकाशं चोद्यम् ।
१३८सु०- विमतं कर्म फलभोगविनाश्यं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् । प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः । कृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं नाम । पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् । तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः ।
पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेत् । तथाऽपि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः । क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेन्न । ज्ञानस्यैव क्षयहेतोः सत्त्वेनासिद्धेः । ज्ञानं न कर्मक्षयहेतुतया विहितमिति चेत् । तत्किं विधिरेव हेतुत्वं गमयति । तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् । आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् । समं प्रकृतेऽपि । न ह्यत्र कश्चिद्विरोधोऽस्तीत्युक्तम् । अलौकिकत्वं तूभयत्रापि समानम् ।
१३९सु०- किञ्चास्मिन्मते न कदाऽपि कर्मक्षयः । भोगकालेऽपि पुनः करणात् । न करोतीति चासम्भावितम् । न हि कश्चित्क्षणमपी त्युक्तत्वात् । क्रियमाणाऽपि प्रवृत्तिर्नादृष्टजननीति चेन्न । श्रुतिस्मृतिविरोधात् । ज्ञानिनां ज्ञानसामर्थ्यात् तथेत्यन्यविषयं श्रुत्यादिकम् । तद्यथा पुष्करपलाशे , ब्रह्मण्याधाय कर्माणी त्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् । प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते । रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् । यथोक्तम् ।
न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्ये ति । मैवम् । प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् ।
१४०सु०- पाशुपताद्युक्तं मोक्षसाधनं निराकरोति न चेति ।
पाशुपत शब्देन चतुर्विधा अपि गृह्यन्ते । आदि पदेन स्कन्दसौरादयः । द्वितीयेनादिपदेन स्कन्दादयः । अनुग्रहात् मोक्षो भवतीति शेषः ।
ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् । असामर्थ्येन समासानुपपत्तेः । तथा सति पाशुपताद्युक्तादिति स्यात् । अत एव मोक्षस्य विशेषणम् । तथा सति पाशुपताद्युक्त इति भवेत् । शिवादिविशेषणत्वे तु वैयर्थ्यमिति ।
उच्यते । अस्तु तावदनुग्रहविशेषणम् । तत्र शिवादीनामनुग्रह इति समास एव । षष्ठ्या आक्रोश इति षष्ठ्या अलुक् । ज्ञात्वा शिवं शान्तिमत्यन्तमेती त्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् । यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव । यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति । मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेदि त्यादिवाक्यविरोधपरिहाराय पाशुताद्युक्तेत्यनुग्रहो विशेषितः । अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः । न तु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति ।
यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् । सुपां सुलुगिति पञ्चम्या लुक् ।
यद्वा प्रथमाया लुक् । मोक्षस्य चेदं विशेषणम् । तत्र वादिनिर्देशप्रयोजनं व्यक्तमेव । यद्वाऽस्तु यथाश्रुतं शिवादीनामेव । ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव । अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः ।
१४१सु०- कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह नान्य इति ।
तमेवमि ति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकृतपुरुषज्ञानतोऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति ।
१४२सु०- ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुः तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रोऽयमुदाहृतः । पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते । नान्य इति च न विरुद्धम् । साधनवत् साधनस्य परित्यागेऽपि फलानुदयादिति चेत् । किमेतत्पुरुषशब्दस्य विष्णौ शक्तयभावात् कल्प्यते । तात्पर्यज्ञापकाभावाद्वा बाधकसद्भावाद्वा ।
नाद्यः । नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह सर्व इति ।
न केवलं पुरुषज्ञानतोऽमृतत्वमुक्तम् । किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः । विद्युतः पुरुषादित्युक्तोऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तम् अब्धिशय इति । अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन् पुरुषे अब्धिशयत्वस्य श्रवणात् । महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वागमात् ।
१४३सु०- इतश्चायं नारायणो न पशुरित्याह न तस्येति ।
तस्य पुरुषस्य । ईशे ईष्टे । व्यत्ययो बहुलमिति वचनात् । अधीगर्थदयेषां कर्मणीति षष्ठी । महदिति यशश्चेति तस्य पुरुषस्य नाम । श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः । परमश्चासावश्चेति परमास्तं परमाम् । लिङ्गव्यत्ययेन परममिति वा । विश्वं पूर्णम् । नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्तया समोऽपि विनिवारितः । न हि सर्वाधिकस्य समो युज्यते ।
१४४सु०- ततः किमित्यत आह समेति ।
समाधिकस्येति द्वन्द्वैक्यवद्भावः । असौ नारायणानुवाकोक्तः । उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः । नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् ।
१४५सु०- अधिपतिराहित्यसर्वाधिकत्वयोस्ततोऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयोऽयं पुरुषशब्दः । किन्तु नारायणादिनाम्नाऽब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु । न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्ध्यति । प्रयोगस्यामुख्यया वृत्त्याऽप्युपपत्तेरित्यत आह समेति । असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव । कुतः । मुख्यासम्भवे ह्युपचारः कल्प्यते । पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् । तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति ।
१४६सु०- अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथाऽपि पुरुषसूक्ते ज्ञापकाभावात् तत्परत्वं नास्तीति द्वितीयं निराकरोति पुरुष एवेति ।
यद्भूतं यञ्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव । पुरुषाधीनमेव । यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति । अमुक्ताधिपतिरिति यावत् । तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः । संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात् तदा प्रेक्षावान्न मोचयेत् । अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह । तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते ।
१४७सु०- ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र स(र्वत्व)र्वात्मकत्वमेवोदितम् । तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राह अमृतेति ।
ईशानेति भावप्रधानो निर्देशः । उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात् पूर्वार्धेऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या । न तु सर्वत्वम् । न हि कोऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति । नापि युज्यते । अभिन्नस्य पश्चाद्भेदादर्शनात् ।
१४८सु०- हेत्वन्तरमाह यदीति ।
पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात् तत्तर्ह्युत्तरार्धेऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् । तत्कथमित्यत आह उतशब्द इति ।
उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् । अर्थान्तरस्यासम्भवात् । न च द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्ति । तस्मादुतशब्दो वृथैवेति ।
१४९सु०- युक्त्यन्तरमाह पुरुषेणैवेति ।
पुरुष एवेदं सर्वमि ति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः । व्याप्तं वशीकृतम् ।
एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् ।
१५०सु०- इतश्च सर्वेशत्वमेव पूर्वार्धार्थो न तु सर्वत्वमित्याह एतावानिति ।
इति वचनादिति शेषः । अस्य पुरुषस्यैतावान् महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदम् इत्येतत् पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते । ततश्च महिमप्रतिपादकं यथा स्यात् तथा व्याख्येयम् । न च सर्वात्मत्वं महिमा । अपकर्षहेतुत्वात् । किन्तु सर्वाधिपत्यमेव । न च तदतिरिक्त(क्तं)महिम्नो वचनम् । सङ्कोचे कारणाभावात् ।
१५१सु०- इतोऽप्येतदेवमित्याह सोऽमृतस्येति ।
इति भागवतवचनादिति शेषः । अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः । विधत्ते श्रुतिः । अयमर्थः । उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रतिजानीते श्रुतिरिति ज्ञायते । पुरुषसूक्तव्याख्यानप्रसङ्गे सोऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् । अत एव अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशान इति व्याख्यानमयुक्तम् । भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् । देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् । अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् । अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् । सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्व्याख्यान एव युज्यते । पूर्वार्धेऽमुक्ताधिपत्यं विहितम् । उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति ।
परकयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।
१५२सु०- एतेन पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् । न हि विष्णोः सर्वात्मकत्वं भवदि्भरप्यभ्युपगम्यते । पशोस्तु देहायोगवशाद् भूतत्वादिकं युज्यत इति तृतीयपक्षोऽपि निरस्तः ।
१५३सु०- उपसंहरति अत इति ।
परिज्ञानात् परिज्ञानोदितात्प्रसादात् । अन्यतः शिवादीनामनुग्रहात् ।
१५४सु०- पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते । तदप्यनुपपन्नमित्याह तद्यथेति ।
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्त इति श्रुतेः । इष्टकेषीकामालानां चिततूलभारिष्वि ति ह्रस्वता श्रुतित्वान्न भवति । प्रोतं प्रविष्टम् । प्रदूयेत परितप्तं भवेद् भस्मीभवेत् । इति तन्निदर्शनं यथा । अस्य ज्ञानिनः । प्रदूयन्ते विनश्यन्तीत्यर्थः । चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः । तत एव विष्णुपरिज्ञानादेव ।
१५५सु०- नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते न तु ज्ञानेन विनाश इति विवक्षितोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति ।
यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते, तथाऽपि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात् किं कल्पनीयमिति न ज्ञायते अतो वाक्यान्तरं पठति सर्वेति
धर्मानवैष्णवान्काम्यार्थांश्च । शरणप्राप्तिश्च सर्वोत्तमत्वविज्ञानपूर्वमि त्यादिनाऽन्यत्र भगवत्पादैरेव व्याख्याता । ततः प्रसन्नोऽहम् । मा शुचः । न शोचिष्यसि मुक्तो भविष्यसि । आदिपदेन गतसङ्गस्य मुक्तस्ये त्यादेः सङ्ग्रहः । भगवद्वाक्यैश्चेति सम्बन्धः । तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।
१५६सु०- भाट्टानां मोक्षसाधनमनुवदति नित्येति ।
नित्यं नाम यदकरणे प्रत्यवायः, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते । यथा सन्ध्यावन्दनादि । नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते । यथा पितृश्राद्धादि । अन्यत् काम्यं निषिद्धं च । तत्र यत्करणे फलकरणे न प्रत्यवायः । कामनानिमित्तं तत्काम्यम् । यथा ज्योतिष्टोमादि । प्रतिषिद्धं निषिद्धम् । यथा ब्रह्महत्यादि । उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः ।
अयमाशयः । सुखदुःखतत्कारणरूपो हि संसारः । स च कर्मनिमित्त एव । नित्यनैमित्तिकयोरकरणे त्वधर्मप्रचयेन दुःखतत्साधनावाप्तिरस्य भवति । निषिद्धकरणेऽपि तथा । काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते । मुमुक्षुस्तु नित्यं नैमित्तिकं च नियमेन करोति । परित्यजति च निषिद्धमिति न दुरितोपचयः । काम्यमपि परित्यजतीति न धर्मोपचयः ।
एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति । यथोक्तम् । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया इति । न च पञ्चमी कर्मविधाऽस्ति । यत्करणेऽकरणे वा धर्माधर्मोदयः स्यादिति ।
१५७सु०- निराकरोति एतदपीति ।
एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन । अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव । चरन्ति देव विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्या इत्यादिश्रुतेः ।
नापि निषिद्धाकरणं सम्भावितम् । प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् । प्रायश्चित्तात् तत्क्षय इति चेन्न । प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् । पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव । अनन्तत्वादित्यलम् ।
१५८सु०- नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आह विद्यैवेति ।
विद्यैव तु निर्धारणादि ति सूत्रेण । स्वयमेव न त्वर्थतः । वाजसनेयिनोऽधीयते । षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चित इत्यादि । तत्र संशयः । किमेतेऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति । क्रियामयस्याग्नेः प्रकरणात् तद्विषय एवायमुपदेश इति प्राप्तेऽभिधीयते । विद्यात्मका एवैतेऽग्नयो न क्रियाशेषभूताः । ते हैते विद्याचित एवेति निर्धारणात् इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति । विफलत्वादस्याश्चिन्तायाः । पक्षद्वयेऽप्यभ्युदय एव ह्यस्य प्रयोजनम् ।
यस्तु नित्यानित्यवस्तुविवेकाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति ।
१५९सु०- एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति विनेति ।
संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति । आनन्दवृदि्धस्तु कर्मसापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः । यद्वक्ष्यति सहकारित्वेन चेति । अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्तवा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् । इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति । तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्तवा पुनर्नान्यः पन्था इति वचनादादरोऽवगम्यते । न च समुच्चयनियमे किमपि प्रमाणमस्ति । अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् । यथाऽन्नं मधुसंयुक्तं मधु चान्नेन संयुक्तम् । एवं तपश्च विद्या च संयुक्ते भेषजं महदि त्यादीनां परोक्षज्ञानविषयत्वात् । अपरोक्षज्ञानविषयत्वेऽप्यानन्दवृद्ध्यर्थत्वात् ।
१६०सु०- मायावादिनो वदन्ति । द्विविधो मोक्षः परापरभेदात् । तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः । परस्त्वविद्याऽस्तमये सत्यद्वैतब्रह्मावस्थानरूपः । प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् । परस्य त्वेकत्वज्ञानमिति । तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति ।
एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति । न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् । तमित्यनेन यथार्थज्ञानं लब्धमेव । सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः । तथाऽपि यदेवमिति वदति तदाऽऽदरसूचनार्थमिति । परममोक्षविषयेयं श्रुतिरस्तु । अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति ।
न प्रतीके न हि सः इति सूत्रकारोऽन्यथोपासनस्य सर्वथाऽप्यकर्तव्यत्वं वक्ष्यति । अतो न तत्पुरुषार्थलेशहेतुः ।
१६१सु०- सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह अन्धमिति ।
पुरुषार्थसाधनमिति शेषः । श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता ।
१६१असु०- इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति न चेति ।
चोऽवधारणे । एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते । कुतः । उक्तन्यायेन तमेवं विद्वानि ति सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय नान्यः पन्था इति साधनान्तराभावस्योक्तत्वात् । पुरुष एवेदं सर्वमि त्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न । उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् । तद्यो यो देवानां प्रत्यबुध्यत इत्यादिश्रुतयस्तु तद्गुणसारत्वादि त्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति ।
१६२सु०- किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादि त्युक्तन्यायेन सिद्धम् । मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् ।
१६३सु०- अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् । किन्तु अविद्याविरोधित्वेन । विरोधिनाऽद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति । तथा च साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति ।
अङ्गीक्रियते च जीवन्मुक्तिः । ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न । संस्कारस्याविद्याकार्यत्वेऽवस्थानानुपपत्तेः । न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् । अन्यथा सत्यत्वप्रसङ्गः । ज्ञानोदयेऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात् सर्वदा(ऽनिवृ)नुवृत्तौ न कदाऽपि द्वैतदर्शननिवृत्तिः स्यात् । असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव ।
एतेन प्रारब्धकर्मवशाद् द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् ।
ज्ञानेन निवृत्ताऽप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते । तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न । आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् । एतेन अविद्यालेशावस्थानपक्षोऽपि प्रतिक्षिप्तः । लेशश्च पटस्य तन्तुरिवावयवो वा स्यात् प्रदेशो वा धर्मो वा । नाद्यः । अकार्यत्वादविद्यायाः । न द्वितीयः । प्रदेशानङ्गीकारात् । प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च । न तृतीयः । धर्मिणोऽपगमे धर्मानपगमानुपपत्तेः ।
१६४सु०- अथ मतम् । संसारमूलकारणभूताऽविद्या यद्यप्येकैव । तथाऽपि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजनकाभासहेतुतयाऽनुवर्तते । प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति । तदयुक्तम् । अस्याः कल्पनायाः निष्प्रमाणकत्वात् ।
इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न । अत्र पारमेश्वरशक्तिप्रतिपादनात् । ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् । तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरि ति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न तु अनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ।
किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा । आद्ये कथं
न निवर्तते । द्वितीये ज्ञानेन न निवर्तेत । तथा च सत्यः स्यात् । कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् । अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।
१६५सु०- अथ मन्यसे । ज्ञानमेवाविद्यालेशस्य निवर्तकम् । किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति । फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति । तदप्ययुक्तम् । निरुपादानकर्मावस्थानानुपपत्तेः । स एवाविद्यालेशः कर्मोपादानमिति चेन्न । कर्मावस्थानेऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः । उत्पत्त्यादाविवावस्थानेऽपि तस्य दोषत्वात् ।
किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति । ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् । ज्ञप्तौ तु भवत्येव । जीवन्मुक्तयन्यथाऽनुपपत्त्यैवैषोऽर्थः कल्प्यत इति चेन्न । परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति ।
१६६सु०- अधिकरणार्थमुपसंहरति इति सर्वमिति ।
नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् । किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवान् अप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव न तु सोऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति । युक्तमिति शेषः । स्वयोग्यत एव न तु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः । प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।
१६७सु०- स्वयोग्यत इत्युक्तम् । तामेव योग्यतां विवृणोति ब्रह्मेति ।
ब्रह्मैवेति सम्बन्धः । सर्वैः वेदोदितैः । च शब्दः क्रियाद्रव्यसमुच्चयार्थः । हरिमुपासीतेति वर्तते । वेदोक्तसमस्तगुणक्रियोपेततयाऽनन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः । चस्त्वर्थः । सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते । सकलवेदोक्तगुणोपेततयाऽनन्तरूपं हरिमुपास्ते । त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः । गुणसामान्यतः समस्तरूपाण्युपास्ते । गुणान् क्रियांश्च सङ्कोचयतीत्यर्थः । परे शक्रादयः । द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव ।
एतेन समान एवं चाभेदादि त्यधिकरणतात्पर्यमुक्तं भवति । विद्यैव तु निर्धारणात् इत्यतःपूर्वमेवेदमधिकरणम् । तत्कुतो व्यत्यासेन व्याख्यानम् ।
उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथा हि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।।
।। इति विद्याधिकरणम् ।।
।। अथ यावदधिकाराधिकरणम् ।।
ब्र०सू०- ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।
१६८सु०- एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविशेषस्य कारणत्वानभिधानात् । मुक्तावित्युक्तया संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे अधिकारेति ।
अधिकारो योग्यता । अत्र सामान्योक्तया मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह मोक्षे चेति ।
च स्त्वर्थः । विशेषस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते । मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्तयादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।
१६९सु०- एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्-
ब्र०सू०- ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ।। इति ।
एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात् । अतो व्याख्याति नेति ।
तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः समस्तश इति । उत्तमेभ्य इत्यस्य विवरणम् आभासत्वादिति । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना । एतदेव विवृण्वन् दृष्टान्तं व्याख्याति यत इति ।
गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।
१७०सु०- चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते । विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते । आधिकारिणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः । न तदैव मुक्तिः । तथा श्रुत्यादिषु दर्शनात् । सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदाऽपि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् । ब्रह्मविदां न मोक्षाभावरूपो विरोधः । कुतः । सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् । यद्यपि क्षीयन्ते चास्य कर्माणी ति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितस्तथाऽपि तस्य तावदेव चिरमिति विशेषवचनात् प्रारब्धकर्मणामवशेषो गम्यते । एतदुक्तं भवति । अप्रारब्धानि कर्माणि निवर्तन्ते । प्रारब्धस्य तु भोगेनैव क्षयः । अतस्तत्फलभूतेऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।
मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तोऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।
१७१सु०- तत्राद्यं मतं निराकरोति न चेति ।
संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह हीति ।
यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथ अनारब्धकार्ये एव तु पूर्वे तदवधेरि ति सूत्रेण, भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह पौनरुक्त्येनेति ।
एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात् प्रपञ्च्यप्रपञ्चनभावाद्वा न पौनरुक्तयमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तम् इति निश्चय इति ।।
।। इति यावदधिकाराधिकरणम् ।।
।। अथ इयदामननाधिकरणम् ।।
ब्र०सू०- ।। ॐ इयदामननात् ॐ ।।
१७२सु०- येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति ।
उषा अश्विनोर्भार्या । स्वाहा अग्नेर्भार्या । पर्जन्यो मित्रश्च आदित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः ।
१७३सु०- अधिकसद्भावशङ्कानिरासायैतेषां समानान्तरावस्थितांश्चाह सूर्येत्यादिना ।
तथेति शेषः । सूर्यधर्मौ सोमसमानौ ।
मन्वादयः पञ्चानिरुद्धसमानाः ।
मनुरत्र स्वायम्भुवो विवक्षितः ।
तारा बृहस्पतिभार्या । चस्त्वर्थः ।
मित्रेण तुल्यं वर्तत इति मित्रवत् । शतरूपा स्वायम्भुवस्य पत्नी सोमवत् । सूर्यधर्मावित्यत्रैवेयं वक्तव्या । सत्यम् । पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात् पृथगुक्तिः ।
प्रसूतिर्दक्षपत्नी वह्निवत् । विराडनिरुद्धभार्या पर्जन्यवत् ।
वरुणस्येयं वारुणी । पुंयोगे तु वरुणानीति स्यात् । इन्द्रवरुणेति स्मरणात् ।
संज्ञा सूर्यभार्या ।
रोहिणी सोमभार्या । धर्मस्येयं धार्मी ।
वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।
प्रवहस्येयं प्रावही तु मित्रवदेव प्रकीर्तिता ।
अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।
एते चत्वारः परस्परं समा मित्रादधमाः । पर्जन्यादुत्तमा इत्यर्थः । भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।
ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये । परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः । तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वरुणादधमोऽग्नेरुत्तम इत्यर्थः । तथा च दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव । प्रायग्रहणेनेषन्न्यूनः ।
सुपर्णी गरुडभार्या ।
विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मरीच्याद्यैः समानः ।
वैवस्वतो वैवस्वतादवराः । तेऽश्विभ्यां पश्चात् पर्जन्यादुत्तमाः ।
च्यवनाद्याश्च तद्वत् । एकादशमनुसमानाः ।
अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति । मुक्तावपि विप्रत्वादेर्भावात् ।
अत्र च्यवनोचथ्यौ विप्रौ । अन्ये राजन्याः प्रियव्रतोऽपि तत् अवरमनुवदेव ।
तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।
पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।
तदन्ये उक्तेभ्योऽन्ये तु देवाः ततः शतान्तर्गतदेवताभ्योऽवराः । अवरमनुसमाना इत्यर्थः ।
१७४सु०- ननु महालक्ष्मीः प्राणादप्युत्तमाऽस्ति । तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह एतेभ्य इति ।
यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका । तयाऽपि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते । तस्याः समो नास्तीति स्वरूपकथनम् ।
एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।
परमो हरिरेव न चापर इत्यनेन व्यतिहारो विशिंषन्ति हीतरवत् सैव हि सत्यादयः इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।
१७५सु०- ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषाः स्वाहेत्यादिना चतुर्दशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह प्राण इति ।
तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्यः । परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।
१७६सु०- अयमत्र सङ्ग्रहः ।
पुष्करो नाम सर्वावरो देवः । कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः । कलाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यत इत्यन्यत्रोक्तत्वात् ।
ततश्शनैश्चरोऽधिकः । पृथिव्यात्मा शनिश्चे ति वचनात् ।
तत उषाः (उपा) । ततो बुधः । उदकात्मको बुधश्चेति वचनात् ।
ततः स्वाहा ।
ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् ।
तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च । प्रियव्रतो गयश्चैव कर्मदेवसमौ मतावि त्यन्यत्रोक्तत्वात् । ततोऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च । विष्वक्सेनो वायुजः खेन तुल्य इति वचनात् ।
ततो मित्रो निर्ऋतिस्तारा प्रावहीति च ।
ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।
ततोऽग्निर्भृगुः प्रसूतिश्च ।
ततो नारदः ।
ततो वरुणः ।
ततश्चन्द्रसूर्यधर्माः शतरूपा च ।
ततः प्रवहः ।
ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।
तत आहङ्कारिकः प्राणः ।
तत इन्द्रकामौ ।
तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।
ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् । अन्यत्रोक्तत्वात् ।
ततो रुद्रात्मकत्वाच्छेषश्च ।
ततो भारती तदात्मकत्वात्सरस्वती च ।
ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।
ततो महालक्ष्मीः ।
ततो भगवानिति ।। ३३२१ ।।
।। इति इयदामननाधिकरणम् ।।
।। अथ दर्शनभेदाधिकरणम् ।।
ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।
१७७सु०- एतद्व्याख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति दृष्टिरपीति ।
नानाविधेति शेषः ।।
।। इति दर्शनभेदाधिकरणम् ।।
।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।
ब्र०सू०- ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।
१७८सु०- अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह सम्यगिति ।
न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु प्रज्ञान्तरपृथक्तववदि ति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।।
ब्र०सू०- ॐ लिङ्गभूयस्त्वात्तदि्ध बलीयस्तदपि ॐ ।।
अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् ।
तच्च प्रदानशब्दार्थान्तर्गतमेव । न हि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति । मुख्यतः श्रवणाद्यपेक्षयाऽतिशयेन ।
अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।
लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात् तां निवारयितुं तदपीत्युक्तम् । तद्व्याख्याति श्रवणादि चेति ।
कुत इत्यत आह नान्यथेति । अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।
।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।
।। अथ पूर्वविकल्पाधिकरणम् ।।
ब्र०सू०- ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।
१७९सु०- किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्योऽपि स्वीकर्तुं शक्यत इति संशये गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेदि ति गुरुपरित्यागे दोषस्मरणात् प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते । स हीनसमोत्तमेषु किं विषय इति न ज्ञायते । दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति गुणाधिकमिति ।
क्वचित्प्रयोजनविशेषेऽपि । दोषस्मरणं तद्विषयमिति भावः ।
एवं तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह विपर्ययस्त्विति ।
अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः । अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् । तदिदमुक्तं शुभमिच्छतेति ।
१८०सु०- एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात् । सत्यम् । प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः । तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह सम इति ।
पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् ।
न तु नियमः । सम एवेति वा सम्बन्धः ।
दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह पूर्वेति ।
समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या । विनाऽनुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।
१८२सु०- पूर्वानुज्ञा च इत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासाय आह तदुत्तमेति ।
तदिति पूर्वप्राप्तस्य परामर्शः । तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।
१८३सु०- गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् । तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति ।
येषां तेषामिति विशेषं विहाय सर्वेषामेव । ततः किमित्यत आह तदिति ।
न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः । मुक्तिः इति ज्ञानादेरुपलक्षणम् ।
१८४सु०- साधारणगुरुमुक्तवाऽसाधारणानाह स्वोत्तमास्त्विति ।
क्रमेणैवेति साक्षादुत्तमो गुरुस्ततोऽप्युत्तमो गुरुतर इत्यादि । एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः ।
१८५सु०- नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्टृत्वं हि गुरुत्वम् । न च सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति ।
इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।
।। इति पूर्वविकल्पाधिकरणम् ।।
।। अथ ताद्विद्याधिकरणम् ।।
ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।
१८६सु०- भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा । यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् । तत्र भाष्यम् । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति । तत्र प्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः स्यात् तां निवारयितुमाह साधनेभ्य इति ।
मोक्षसाधनेभ्यो ज्ञानादिभ्यः । एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह नैवेति ।
क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोऽन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।
१८७सु०- भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति । अत आह भक्तिश्चेति ।
हरावेव मुख्या सर्वाधिका न तथाऽन्यत्र । अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः । तदियत्तामाह स्वाधिकेति ।
साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या । अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः । यद्यप्येषोऽर्थः प्रागुक्तस्तथाऽपि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।
१८८सु०- भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् । फलप्राप्तौ साधननिवृत्तिदर्शनात् । तन्निवृत्त्यर्थमाह अनुवर्तते चेति ।
प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति । तदेतत् अस्तीत्यनुक्तवाऽनुवर्तत इति वदता सूचितम् । तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह आनन्दरूपिणीति । प्राक्कर्तव्यतया प्रकृता । अतः साधनरूपा । मुक्तौ तु स्वभावभूताविर्भूता फलरूपैव ।
पादार्थमुपसंहरति तदिति ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने
तृतीयाध्यायस्य तृतीयः पादः ।।
भक्तिपूर्वा । एवमिति योग्यतादेः परामर्शः । गुणैरुपेतस्य हरेः ।। ३३३४ ।।
१८९सु०-
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ।।
।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।
अथ तृतीयाध्यायस्य चतुर्थः पादः