Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C3P3

From Anandamakaranda
Revision as of 01:36, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

न्यायसुधा — अध्यायः 3, पादः 3

न्यायसुधा

अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥

अथ तृतीयाध्यायस्य तृतीयः पादः

१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह वैराग्यत इति ।

अनु०-वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् ।

मीमांसासाध्याद्वैराग्यात्प्रागेव भक्तेर्भाव्यत्वात् दार्ढ्य मित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयाऽपरोक्ष्यं भवेत् । इति तस्मात् ।

अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च

न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रेमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एवं चोक्तं भक्तिदार्ढ्यमिति । तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् । न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुप(त्प)द्यते । उपासनया च अतिदीर्घकालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति । यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।

२सु०- एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य विशिष्टचार्यसम्पदेत्यन्तेन ।

अनु०-युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं च प्रणुद्याशेषवाक्यगम् । अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः । विरोधं च निराकृत्य श्रुतीनां प्राणतत्त्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः । देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् । निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् । सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा

तत्र यतेतोपासनायैव इत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्व्याख्यातम् । अन्यत्सर्वमपि अथशब्दव्याख्यानम् । यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धं, तथाऽपि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात् सूत्रार्थानुवादः कृतः । अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः ।

विशिष्टाचार्यसम्पदेति सर्वत्रान्वयः ।

तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् ।

युक्तित इति ल्यब्लोपनिमित्ता पञ्चमी । वेदार्थविरोधियुक्तः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य ।

परान् वैष्णवसमयाद् अन्यान् साङ्ख्यादिसमयान् सामान्यतो (निराकृत्ये)निरस्येति द्वितीयपादस्य ।

परस्परविरोधञ्चेति तृतीयचतुर्थयोः ।

कथं तर्हि पादभेद इत्यतः अध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात् कारणात् श्रुतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति चतुर्थस्य विशेषो दर्शितः ।

अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्ये त्युक्तम् । आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते । न तथा बाह्याः ।

प्राणतत्त्वगानि त्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति ।

अनुरञ्जितः समीचीनः कृत इति यावत् ।

देहकर्तृत्वमि त्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान् भूत्वेत्यर्थः । अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् ।

अतिदुःखसाधनत्वं विज्ञाय । तदन्यत्र भगवतोऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य ।

अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायते अतः अधिकमि त्युक्तं अतीति च ।

तद्गुणाधिक्ये ति द्वितीयस्य ।

तद्वशत्वात् तद्वशत्वं विज्ञाय भक्तेः प्राक् सिद्धत्वात् दार्ढ्यम् इत्युक्तम् ।

न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्टे त्यभिहितमिति ।

३सु०- कथमयमथशब्दस्यार्थ इति चेत् । उच्यते । यद्यप्यथशब्दोऽनेकार्थः । तथाऽप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् । आनन्तर्यं न यतः कुतश्चिदभिधातव्यम् । वैयर्थ्यात् । किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् । तथाविधं च वेदार्थज्ञानादीति ।

किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् । न च तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् । सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव ।

यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्टयं पूर्ववृत्तमुक्तं तदस्मदुक्त एवान्तर्भवतीत्यविरुद्धम् । उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता ।

एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वेऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् । सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृदि्धरिति ।

४सु०- एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य) सङ्गतिमाह कर्तव्येति ।

अनु०-कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।

उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति । संशयशब्देनात्र विपर्ययोऽभिधीयते । मिथ्याज्ञानत्वसाम्यात् । संशये सति तत्परिहाराय जन्माद्यस्य यतः इत्याहेति शेषः । यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् । इत्याहेति वक्ष्यमाणेनैव (वा) सम्बन्धः ।

५सु०- प्रथमसूत्रे अतःशब्देन जिज्ञासाया मोक्षार्थत्वात् कथं पुनराशङ्का इत्यत आह अत इति ।

अनु०-अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः

अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदितेऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः । एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते । तत्रापि (हि) मोक्षः समासार्थतया व्याख्यातव्य एव । न तु विशेषेणोक्त इति चेन्न । प्रमाणविशेषानुक्तित इति व्याख्यानात् ।

एतदुक्तं भवति । मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदितेऽपि पुनराशङ्का भवत्येव । तत्र प्रमाणस्यानुक्तत्वादिति ।

६सु०- एवञ्चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् । न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्व्याचष्टे सृष्टीति ।

अनु०-सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः । इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत्

श्रुतत्वतोऽसौ मोक्षादिदाता । यतश्च मोक्षादिदाताऽसावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः । अयमभिसन्धिः । जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः । तथा च परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति । किञ्चात्र मोक्षदातृत्वं प्रधानम् । सृष्ट्यादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् । केवलव्यतिरेक चायं हेतुः । तस्य चासिदि्धपरिहाराय श्रुतत्वमभिहितमिति । कृत्यानां कर्तरि चेति व इति षष्ठी ।

७सु०- ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् । कर्तरि चेति तृजन्तेन षष्ठ्याः समासप्रतिषेधात् । तृन्नयं तच्छीलादौ विहितः । तेन च श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानमिति द्वितीयायाः समासः ।

८सु०- ज्ञानं रश्मय इव ज्ञानरश्मयः । व्याप्तज्ञानवदित्यर्थः । अपां तरतमो नाम कश्चन मुनिर्व्यासो बभूवे ति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषणोपादानम् ।

६सु०- जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह येनैवेति ।

अनु०-येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा

बन्धान्मोक्षो बन्धमोक्षः । पञ्चमीति योगविभागात् समासः । षष्ठीसमासो वा । येन प्रसन्नेनेति शेषः । गतो ज्ञातः । गत्यर्थानामवगत्यर्थत्वात् । चो यस्मादित्यर्थे । प्रसादमात्रस्य मोक्षसाधनत्वाभावात् सु शब्दः । अस्येशस्य जिज्ञासाऽस्य जीवस्य मुक्तिदा ।

एतदुक्तं भवति । जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता । किन्तु (सु)प्रसन्नो भगवानेव । स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति । उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया । तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् । प्रसन्न एव ददातीत्युत्कर्षज्ञानात् प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् । किं तत्र प्रमाणोपन्यासेन । अतो भगवज्जिज्ञासाया मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति ।

ननु स्थानान्तरेऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता । सत्यम् । सत्यां तस्यामियमपराऽत्रोक्तेति ।

१०सु०- तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठति मोक्षादीति ।

अनु०-मोक्षादिदत्वमीशस्य कथमेवावगम्यते । इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः

प्रधानं मोक्षदातृत्वं तत्साधनं सृष्ट्यादिकर्तृत्वं चेशस्यैवेति सम्बन्धः । कथमवगम्यते । न कथञ्चित् । अनुमानैस्तत्तदागमैश्चान्येषां तथाऽवगमादिति भावः । इति चेत्तत्रोक्तमिति शेषः । कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतः तद्व्याचष्टे शास्त्रगम्यो हीति । मोक्षग्रहणं सृष्ट्यादेरप्युपलक्षणम् । यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयोऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति ।

११सु०- मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः । परिशेषादित्याशयवान् प्रत्यक्षगम्यत्वं तावद्दूषयति प्रत्यक्षेति ।

अनु०-प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन । किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः

यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् । कथञ्चन तत्सेवादिना । तदा सर्वेऽपि युक्ताः स्युरित्यर्थः । मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैमुक्तैर्भाव्यमित्यत आह यस्मादिति ।

अनु०-यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् । धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः

यस्मात्पुरुषाद्धेतोः । अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति । न हि कोऽपि दुःखी दुःखं न जिहासति इति सम्भवति । प्रत्यक्षतः प्रत्यक्षगम्यात् । राजाद्यमिति सम्भावनयोक्तम् । दारिद्य्रदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा ।

अनुमानगम्यत्वं दूषयति अनुमेति ।

अनु०-अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि । दृष्यपूरुषवन्मोक्षदातृतां विनिवारयेत् । तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम्

यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः । अनुमैव पुरुषत्वादिका । अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः ।

आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान् परिशेषमुपसंहरति तदिति ।

तत्तस्मान्मोक्षदः पुरुषो केवलं ध्रुवं शास्त्रगम्य एव भवेदिति योजना ।

१२सु०- अस्त्वेवं तथाऽपि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति । तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति शास्त्रेति ।

अनु०-शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात्

मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति । किन्तु स एव कुत इत्यतः । सौत्रं हेतुं व्याख्याति मोक्षदो हीति ।

अनु०-मोक्षदो हि स्वतन्त्रः स्यात्

स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः । स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् । यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः । परतन्त्रो मोक्षदः किन्न स्यादिति चेत् । स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य । आद्ये दोषमाह परतन्त्र इति ।

अनु०-परतन्त्रः स्वयं सृतौ । वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।

परतन्त्र एव । केवलं परानपेक्षया । यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात् तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः । द्वितीयं दूषयति अन्येति ।

अनु०-अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि । तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः

एषोऽवान्तरेश्वरोऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणाऽननुसृतोऽसेवितोऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव । तथा लोके दर्शनादिति हिशब्दः । ततः किमित्यत आह अत इति ।

अनु०-अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः

तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः । तथा च भगवज्जिज्ञासाया अपरिहार्यत्वाद्व्यर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः ।

१३सु०- प्रकारान्तरेण हेतुं व्याचष्टे यमेवेति ।

अनु०-यमेवैष इति श्रुत्या तमेवेति च सादरम् ।शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः

अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते । तमेव चेति श्रुत्या । तमेवं विदित्वाऽति मृत्युमेती ति श्रुतिरनेनोपात्ता । नान्यः पन्था विद्यत इति वाक्यशेषेणादरो गम्यते । मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव । अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति । नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत् कुतः । प्रकारणादिपर्यालोचनया तदवधारणात् । तदिदमुक्तं वेदवादिभिरिति ।

अत्र श्रुत्यन्तरमाह य एनमिति ।

अनु०-य एनं विदुरमृता

य एनं विदुरमृतास्ते भवन्ती ति च श्रुत्येति पूर्वेण सम्बन्धः । मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् । अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आह इत्युक्त इति ।

अनु०- इत्युक्तस्तु समुद्रगः

य एनं विदुरि ति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु यमन्तः समुद्रे कवयो वयन्ती ति समुद्रग उक्तः । तच्च हरेर्लिङ्गमित्यर्थः ।। प्रमाणान्तरमाह तदेवेति ।

अनु०-तदेव ब्रह्म परममिति श्रुत्याऽवधारितः

इत्युक्त इति वर्तते । तदेव ब्रह्म परमं कवीनामिति श्रुत्या ब्रह्मत्वेनावधारितः ।

एतदुक्तं भवति । एनमित्युक्ते ब्रह्मपदश्रवणात् तस्य च भगवान्नामत्वाद्भगवानेवायमिति ज्ञायते । यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव । न चैवमत्र शक्यते ग्रहीतुम् । तदेवेत्यवधारणविरोधात् । इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे । अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति । युक्तयन्तरमाह यत इति ।

अनु०-यतः प्रसूतेति ततः सृष्टिमाह

यतः प्रसूता जगतः प्रसूती ति श्रुतिः ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह । न च मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति । अतोऽप्ययं भगवानिति । एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् ।

१४सु०- द्वितीयं हेतुव्याख्यानमुपसंहरति तत इति ।

अनु०- ततो हरिः । शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते

मुख्यत इति मोक्षदत्वेनेति यावत् ।

१५सु०-विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहारार्थत्वेनापि सौत्रं हेतुं व्याचष्टे शास्त्रेति ।

अनु०-शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात्

अन्वय उपपत्त्यादिलिङ्गम् ।

यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणोऽवाच्यत्वमाशङ्क्य वाच्यत्वमीक्षत्यधिकरणे साध्यते । तदसङ्गतम् । प्राग्वाच्यताया अनुक्तत्वात् । शास्त्रयोनित्वस्य लक्षणादिनाऽपि सम्भवादित्यतोऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति समिति ।

अनु०-समिति ह्युपसर्गेण परमुख्यार्थतोच्यते

परममुख्यार्थतोच्यते । सङ्कोचे (प्रमाणा)कारणाभात् । ततः किमित्यत आह एवमिति ।

अनु०- अनु०-एवं परममुख्यार्थो नारायण इति श्रुतेः ।निर्धारणाय नाशब्दमिति वेदपतिर्जगौ

एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्य अर्थस्य निर्धारणाय इति सम्बन्धः । यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात् सङ्गतिसद्भावात् नाशब्दमिति जगौ इति वा ।

१६सु०- अत्राधिकरणे गतिसामान्यादि ति सूत्रम् । तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् । तस्येदानीं सङ्गतिमाह कथमिति ।

अनु०-कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम्

संशब्दो द्व्यर्थो मुख्यवृत्त्येति सर्ववेदानामिति च । तत्र द्वितीयार्थोऽत्राक्षिप्यते । अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् । संशब्दार्थाक्षेपसमाधानस्यैकत्वात् । उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः । कुतः । नृणां स्वल्पायुःप्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्य एव सम्भवेन सर्ववेदज्ञानासम्भवात् । वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह वेदा इति ।

अनु०-वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम्

अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते । आद्यो हिशब्दः श्रौतवैशब्दार्थः । द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति । अपिः समुच्चये । न केवलं पुरुषाः स्वल्पवेदविदः । किन्तु वेदा अप्यनन्ता इति । अनन्तता वेदानामिति शेषः । सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथाऽपि कथं समन्वयज्ञानमशक्यमित्यत आह अनन्तेति ।

अनु०-अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः । उत्तारणोपमा

स्वल्पशाखाविदामिति वर्तते । महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा । यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः । एतदुक्तं भवति । विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् । यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति ।

यथा सम्मतः । विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात् यो यदपेक्षयाऽल्पप्रज्ञादिमन्नासौ तद्वेत्ति यथा सम्मतः । वेदा वा नैतत्पुरुषवेद्याः । एतत्प्रज्ञाद्यतिक्रान्तत्वात् । यदेवं तदेवं तथा सम्मतमिति ।

आक्षेपमुपसंहरति इत्यस्मादिति ।

अनु०-इत्यस्मान्न ज्ञेयोऽत्र समन्वयः

अत्र विष्णौ । ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः ।

१७सु०- एतत्परिहारार्थत्वेन सूत्रमवतारयति इत्याशङ्केति ।

अनु०-इत्याशङ्काऽपनोदार्थं स आह करुणाकरः

आह गतिसामान्यादिति सूत्रमि ति शेषः । नन्वस्य सूत्रस्य कोऽर्थः । सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात् सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् । नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् । पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतोऽभिसन्धिमाह अशक्येति ।

अनु०-अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः । निर्णीयते मयैवायं रोमकूपलयोदिना

मदन्यैरिति शेषः । हि शब्देन परोपन्यस्तं प्रमाणमभ्युपैति । उत्तारणं पारगमनम् । उपक्रमादिभिर्निर्णयनमिति यावत् । उदमुदकमस्यास्तीत्युदी । भूमविवक्षायामिनिः । समुद्र इत्यर्थः । रोमकूपे लयोदौ यस्यासौ तथोक्तः । प्रलयसमुद्रसमानोऽपि वेदो मदीयज्ञानेऽन्तर्भवतीति भावः । एतदेव विवृणोति यद्यपीति ।

अनु०-यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम्

अव्याकृताकाशे परमाणुरिव मज्ज्ञानेऽन्तर्भवति । भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् । विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद् व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत ।।

अभिप्रायमुपसंहरति इतीति ।

अनु०-इति प्रकाशयन्विश्वपतिराह प्रमेयताम् । निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा

उक्तप्रकारेण निखिलस्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन् सूचयन् गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् । विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् । न हि पालनीयमविद्वान् पालको भवति । विश्वान्तर्गताश्च सर्वे वेदा इति ।

एतदुक्तं भवति सूत्रकारेण । सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयाज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम । आद्येऽपि किं विशेषतोऽथ सामान्यतोऽपि । आद्योऽभ्युपगम्यत एव । द्वितीये तु वक्ष्यामः । न तृतीयः । मम सर्वज्ञत्वेनासिद्ध्यादिप्राप्तेरिति ।

१८सु०- एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात् तदा पुनरनिर्णय एवेत्यत आह को नामेति ।

अनु०-को नाम गतिसामान्यमनन्तागमसम्पदः । ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम्

ज्ञानेन सूर्य इव ज्ञानसूर्यः । यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकः तथाऽयं ज्ञानेनेति । विना वातमि त्यादिप्रयोगदर्शनाद्विना योग इव ऋतेऽपि द्वितीया भवत्येव ।

इदमुक्तं भवति ।

किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् । उतापरः । नाद्यः । सर्वज्ञोक्तयोर्विरोधायोगात् । योगे वा सार्वज्ञानुपपत्तेः । द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वा प्रतारको वाऽसौ स्यादिति कथमनिर्णय इति ।

१९सु०- अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाह अन्योऽपीति ।

अनु०-अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु । जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः

अल्पमतिः अपि अन्यः तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन् अनुमितत्वेन अनन्तागमसम्पदो गतिसामान्यं ब्रूयात् इति योजना । यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयोऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः । अनेन गतिसामान्यानुमानादि ति सूत्रं व्याख्यातमिति । ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् । तदि्धतार्थोत्तरपदसमाहारे च इति सङ्ख्यातया उपसर्जनत्वात् । कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति । वर्गार्थौ वा चतुष्पञ्चशब्दौ । प्रपञ्चो यदि विद्येतेति यथा ।

२०सु०- इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् । न पूर्वम् । शङ्कानिरासाहेतुत्वात् । न हि सूत्रकारः सर्वज्ञत्वात् । सर्ववेदगतगतिसामान्यं वेत्तीत्येतावताऽन्येषां शङ्का निवर्तत इत्यत आह इति मुख्यतयेति ।

अनु०-इति मुख्यतयाऽशेषगतिसामान्यवित्प्रभुः । प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते

इति प्रतिजज्ञ इति सम्बन्धः । मुख्यतये त्यनुमानादिना विना अशेषवेदगतिसामान्यवित् । देवानाम् इत्युत्तमाधिकारिणाम् । अपिः पदार्थे । शङ्केत्यर्थः । मधुनोऽपि स्यादिति यथा । पूर्यते निवार्यते । ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिणस्तेषां तदीयप्रतिज्ञामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् । अन्यान्प्रति तु द्वितीयम् । तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः ।

२१सु०- नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्तत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह अत इति ।

अनु०-अतो निखिलवेदानां सिद्ध एव समन्वयः । इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम्

अतीतप्रबन्धेनेत्यर्थः । पृथग् विस्तरेणाध्यायशेषेणेति शेषः ।

२२सु०-तत्र प्रथमपादे अन्यत्रप्रसिद्धानां शब्दानां समन्वयोऽभिधीयते । द्वितीयेऽन्यत्रप्रसिद्धानां लिङ्गात्मकानाम् । तृतीये तत्रान्यत्रप्रसिद्धानामुभयरूपाणाम् । चतुर्थेऽन्यत्रैव प्रसिद्धानामिति उक्तम् ।

२तमेतं क्रममुपपादयन्नाह तत्रेति ।

अनु०-तत्र प्रथमतोऽन्यत्रप्रसिद्धानां समन्वयः । शब्दानां वाच्य एवात्र महामल-लेशभङ्गवत्

तत्र प्रथमाध्याये, प्रथमतः प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ । महामल्लेशभङ्गेन तुल्यं वर्तत इति तथा । यथाऽनेकेषु मल्लेषु प्रत्यर्थितयाऽवस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल-लानामेवादौ भङ्गो विहितस्तथेत्यर्थः । उभयत्रप्रसिद्धानां हि शब्दानां समन्वयेऽन्यत्रप्रसिदि्धनिवारणमात्रे यत्नो विधेयः । अन्यत्रप्रसिद्धानां तु भगवति प्रसिदि्धरप्युपपादनीयेति । ततः एतेषां प्राधान्यम् । लिङ्गात्मकाश्च धर्मवचना व्यवधानेनान्यबुदि्धं जनयन्ति । नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति ।

२३सु०- यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात् तदा चतुर्थपादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतोऽपि प्राधान्यात् प्राथम्यं भवेत् । अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिदि्धर्बलीयसीत्यत आह इत इति ।

अनु०-इतोऽप्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु

तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वेऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः । तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् । कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः । तमेवापवादहेतुं दर्शयति महासमन्वय इति ।

अनु०-महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि । ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् । दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।

तर्हि न वक्तव्य एव निरधिकारिकत्वात् । न हि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति । नैकाधिकारिकं शास्त्रमित्यतः अन्य इत्याद्युक्तम् । सर्वाधिकारिसाधारणमर्थमादावभिधाय असाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य । तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति । दुर्गमत्वाच्चेति हेत्वन्तरम् । प्रथमं बुद्धावनारोहादित्यर्थः । एतदुक्तं भवति । ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता । तथाऽप्यस्मदादीनामीषदधिकारोऽस्त्येव । न च मन्दानामसौ समन्वयः प्रथमं बुदि्धमधिरोहति । साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुदि्धः क्रमेण तत्राप्यवतरतीति । ततः किमित्यत आह अत इति ।

अनु०-अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु । प्रवृत्तः प्रथमं देवः

प्राधान्यादतिप्राधान्यस्योपपादितत्वाच्चेत्यर्थः । तु शब्दोऽवधारणे ।

२४सु०- तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाह तत्रेति ।

अनु०- तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात्

तत्र समन्वयप्रपञ्चने । प्रथममित्यनुवर्तते । सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः । अतो माङ्गलिक आचार्यस्तच्छब्दसमन्वयमादावाहेति ।

अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह देवतेति ।

अनु०-देवतान्तरगास्सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा

देवताः खलु जडेभ्यो मुख्याः । अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः । सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण । कथम् । शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् ।

तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति । येन विष्णुमेव इत्यवधार्यत इत्यत आह तत्सङ्गादिति ।

अनु०- तत्सङ्गादुपचारतः । अन्यदेवान्वदन्तीह विशेषगुणवक्तृतः ।।४४४ विष्णुमेव परं ब्रूयुः

उपचारप्रकारश्च प्रागेव विवृतः । अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यात् इत्यत आह इहेति । इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान् वदन्ति । ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः । इह देवतान्तरे । तथा नेति शेषः । यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः । रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् । उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह एवमिति ।

अनु०-एवमन्येऽप्यशेषतः

विष्णुमेव परं ब्रूयुरिति वर्तते ।

२५सु०- अन्यत्रप्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात् कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन् प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह इत्यन्यत्रेति ।

अनु०-इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशोषतः । ज्ञाते समन्वये धिष्णौ लिङ्गैर्ह्येष समन्वयः । तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् । आह

समानन्यायसञ्चारविषयत्वादिति भावः । ज्ञाते प्रथमपादेन । शङ्का जायत इति शेषः । कथं (इति) । प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयोऽभिहितः । लिङ्गानां चान्यगतत्वं प्रतीयते । ततश्च विरुद्धत्वात् तैः प्रतीतः समन्वयः सम्यङ् न स्यादेव । न हि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते । इति शब्दः शङ्कासमाप्तौ । तत्परिहाराय अन्यत्रप्रसिद्धानामशेषलिङ्गानाम् । आह द्वितीयपादे ।

नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः । न चैवम् । किन्तु यान्युक्तानि न तानि विचार्यन्ते । यानि च विचार्यन्ते न तान्युक्तानि । उच्यते । सर्वश्रुतिगताः सर्वेऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः । तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः । अत एवाशेषत इत्युक्तं प्राक् ।

२६सु०- तृतीयपादस्य प्रथमद्वितीयाभ्यां सङ्गतिमाह उभयेति ।

अनु०-उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्यर्थम्

भगवत्तदितरविषयत्वम् । अतोऽन्यत्रप्रसिद्धानां भगवत्परत्वस्य समर्थनात् । लिङ्गात्मकानां च शब्दानाम् ।

नन्वन्यवाचित्वनिरासोऽपि तत्रैव नेतर इत्यादिना विहित एव । तत्कथं शङ्कोदयः । मैवम् ।

अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः । शक्तिस्तूभयत्र स्यादेव । तर्हि त एव पुनर्विचार्याः । सत्यम् । तेष्वेव यत्र यत्र विचारप्राप्तिस्ते विचार्यन्ते । यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तान्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् । तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः । इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः । इत्याहेति वक्ष्यमाणेन वा सम्बन्धः । कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह उभयत्रेति ।

अनु०- उभयत्र प्रतीतितः । शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव

हरौ तदितरत्र च । प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः । कुत इत्यत आह यदिति ।

अनु०-यन्नैवान्यत्र मुख्यतः । शब्दा लिङ्गानि च

यद्यस्माद्वर्तन्त इति शेषः । एतदपि कुत इत्यत आह यत इति ।

अनु०-यतो नैवान्यत्र स्वतन्त्रता

स्वतन्त्रता अस्तीति शेषः । स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति ।

अनु०-अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः । यतोऽतो

नन्वन्येषामस्वतन्त्रत्वात् तेषु मुख्यतः शब्दप्र वृत्तिहेतो र्गुणादेरभावात् मुख्यतः शब्दा न वर्तन्त इति चेत् । मा वर्तिषत ।

तथाऽपि विशेषतः समन्वयो हरावेवेत्येतत् कुत इत्यत आह अत इति । इतरस्य मुख्यार्थत्वाभावादित्यर्थः ।

भाव्यं खलु शब्दस्य मुख्यार्थेन । अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः । तथा च द्वयोः प्रसक्तयोः एकस्य मुख्यार्थत्वानुपपत्तौ इतरस्य मुख्यार्थत्वम् आवश्यकमेव । यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।

अनु०- यदधीनास्ते शब्दार्थत्वमुपागताः ।अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ।अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः । इत्याह

ते भगवतोऽन्ये पदार्था भगवदपेक्षया अत्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दार्थत्वमुपगताः स भगवानेव ईशो निरवधिकशब्दप्रवृत्तिनिमित्तवान् । स्वतन्त्रतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः । इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि । भगवति तु निरवधिकान्यपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति । श्रुत्यादिपरिचयवदि्भः । यो यदधीनः शब्दार्थः सोऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः । अयो यथाऽग्न्यधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपागतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्योऽग्नौ तु मुख्यस्तथेत्यर्थः । अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः । इत्याह तृतीयपादेनेति शेषः ।

२७सु०- चतुर्थपादस्य सङ्गतिं करोति एवं चेति ।

अनु०- एवं च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते । विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेत्

एवं चे त्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धेऽपीति । अशेष शब्दानां नारायणे समन्वयो न युज्यते । यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः । कथम् । यतोऽवरादिशब्दवाच्यत्वे भगवतोऽवरत्वादेर्दोषस्य प्राप्तिर्भवेत् । तस्याश्च सर्वप्रमाणविरोधात् । कर्मक्रमादिविरोधाच्चेति । इति चेत् तत्र प्रतिविहितं सूत्रकारेणेति शेषः ।

कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति ।

अनु०- अवरत्वादि द्विविधं ह्युपलभ्यते

अवरादिशब्दप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः । हि शब्दस्तेषां प्रसिदि्धं द्योतयति । कथं द्विविधमित्यत आह परस्येति ।

अनु०-परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् । अन्योऽवरत्वानुभवी

स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावेऽपीति प्रदर्शनार्थम् । परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः । तस्य प्रमितत्वदर्शनं यथेति । परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत् तथेत्यर्थः । अवरत्वानुभवी अन्योऽवरशब्दार्थः । अवरत्वादिमत्त्वम् अपरं निमित्तमिति यावत् । एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् । ततः किं प्रकृत इत्यत आह तयोरिति ।

अनु०-तयोः पूर्वोऽस्ति केशवे

तयोः प्रवृत्तिहेत्वोर्मध्ये । तेनावरादिशब्दवाच्यत्वं चेति शेषः । कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह द्वितीय इति ।

अनु०-द्वितीयो जीव एवास्ति

जीव इति जडस्याप्युपलक्षणम् । तथा च सतीश्वरत्वहानिः स्यादित्यर्थः । अधिकरणफलमाह स्वातन्त्र्यादिति ।

अनु०- स्वातन्त्र्यान्नैव दूषणम् । हरेः

परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति । एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।

२८सु०- प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह एवमिति ।

अनु०- एवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात्समन्वयता यतः । अतोऽशेषविरोधानां कृतेशेन निराकृतिः

सर्वशब्दार्थविवरणम् अशेषेणेति । उक्ते सति द्वितीयेऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः । विरोधहीनस्यैव समन्वयस्य ।

२९सु०-तृतीयाध्यायस्य सङ्गतिमाह समन्वयेति ।

अनु०- समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये

तदर्थयोरध्याययोरुपलक्षणमेतत् । वस्तुनिर्णये ब्रह्मनिर्णये । किं मया कार्यमिति ।

अनु०-किं मया कार्यमित्येव स्याद्बुदि्धरधिकारिणः

अयमर्थः । यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् । कृतश्चासौ । तथाऽपि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति । बुदि्धः स्यादिति । फलविषये कुत एवं बुदि्धर्न स्यादिति चेत् स्यादेव । किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात् तद्विषयैवादौ स्यात् । तदिदमुक्तम् एवशब्देन । तदर्थं तृतीयोऽध्यायः प्रवृत्त इति शेषः ।

३०सु०- तद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोति तत्रेति ।

अनु०-तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ । उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि

तत्र तृतीयेऽध्याये । भक्तिविधानार्थं भक्तयुत्पादनार्थं वैराग्यार्थमिति यावत् । अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च । उक्तायां प्रथमपादेन । अशेषगुणोच्चये परमेश्वरस्य प्रोक्ते द्वितीयेन । उपासनाऽस्मिन्पादे वक्तव्यावसरप्राप्ता । ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यमस्येत्यत आह नित्यमिति । यस्मादुपासना नित्यमादरेण कर्तव्या । आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् । आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः । इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः ।

३१सु०- एवं तर्ह्युपासनैव विचारणीया । सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आह सेति ।

अनु०-सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव

या वक्तव्यतयाऽवसरप्राप्ता सा चोपासना द्विविधैव । न त्वेकरूपैव । कथम् । एका शास्त्राभ्यासस्वरूपिणी । परा च ध्यानरूपा । अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः । तथाऽप्ययं क्रमः कुतः । ध्यानस्य शास्त्राभ्याससाध्यत्वात् । तदिदमुक्तं परेति । ध्यानसमाध्योरनतिभिन्नत्वाद्ध्यानशब्देन समाधिरपि गृह्यते । धारणाप्रत्याहारप्राणायामाऽऽसनयमनियमानामपि उपासनाभेदानां सत्त्वात् कथं द्वैविध्यमित्यत आह तदङ्गमिति ।

अनु०- तदङ्गं धारणादिकम्

तस्य ध्यानस्याङ्गमेव न तु स्वतन्त्रमुपासनम् । योगशास्त्रे चैतत् स्पष्टमवगन्तव्यम् । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । ब्रह्मसाक्षात्कारहेतुत्वात् । चित्तवृत्तिनिरोधा(कत्वा)च्च । यच्चोक्तम् । अथवा सततं शास्त्रविमर्शेन भविष्यती ति ।

३२सु०- किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति । तत्राह तथेति ।

अनु०-तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धैव विस्तराच्छतिपूर्वकम्

तथा तस्मादवसरप्राप्तत्वात् । अस्मिन्नेवेति सम्बन्धः । उपासनमेवेति च (वा) । तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति । तथा हि । किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे । नाद्यः । गतार्थत्वात् । द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः ।

सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न । प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति । अद्धा उपयुक्तप्रमेयेण सह । अत एव विस्तरात् ।

अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति । श्रुतिग्रहणमुपलक्षणम् । अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।

३३सु०- एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तः सिद्धान्तयुक्तश्च सङ्ग्रहेणाह पृथग्दृष्टिरित्यादिना ।

अनु०-पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलेपो नानोक्तिराशुता । विभ्रमोऽपाकृतिर्लिङ्गमनवस्था विशेषिता । अप्रयोजनता चातिप्रसङ्गो दूरसंश्रयः । विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ । पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शितालापौ गुणसाम्यं पृथग्दृशिः । अगम्यवर्त्मसन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशोषदृशिः क्रिया । युक्तयः पूर्वपक्षस्थास्सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः । फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्ति क्रिया सन्धिः प्रमाणबलमानतिः । कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता । संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः । सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिशिष्टिरनूनता । अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयोऽव्याहताः सदा ।

अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।।

।। इति न्यायमालास्थलानि ।।

न्यायसुधा

।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।

ब्र०सू०- ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।

३४सु०- अत्र ध्यानोपासनार्थिभिः किं स्वस्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किंवा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितं सर्ववेदान्तप्रत्ययमिति । तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे यथाशक्तति ।

अनु०-यथाशक्तयखिलान्वेदान्विज्ञायोपासनं भवेत्

विज्ञायावस्थितस्येत्यध्याहारात् समानकर्तृकतासिदि्धः । उपासनं कुर्वाणो भवेदिति वा । उपासनं कुर्वीतेति वा । भवेदित्यस्योत्तरवाक्येऽन्वयः । अत्र यथाशक्तयखिलान्वेदान्विजानीयादित्येव वक्तव्यम् । तथाऽप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दर्शयितुमेवमुक्तम् । ततश्च परेत्युक्तं विवृतं भवति ।

३५सु०- यथाश्रुत एवार्थोऽस्तु किं विशेषणेनेत्यत आह तत्रेति ।

अनु०-तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि । तदन्येषां यथायोगमखिलज्ञप्तिरिष्यते

तत्रोपासकेषु यस्मात् सम्यग् अखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्तयेवाखिलज्ञप्तिरेष्टव्या । एतदुक्तं भवति । सर्वाधिकारिसाधारणं तावदिदं सूत्रम् । चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् । संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च । न च सर्वेषां सर्ववेदविज्ञानं सम्भवति । वेदानामनन्तत्वात् । अल्पप्रज्ञादिमत्त्वाच्च पुंसाम् । ततो युक्तमुक्तमिति ।

यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽर्थोऽभिहितः । यस्मादेवमेवोपपन्नं भवेदिति । ततः कस्य कदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् । हि शब्दः प्रसिद्धौ । योगो योग्यता । ज्ञप्ति र्ज्ञप्तिशक्तिः ।

३६सु०- उपासनायोग्यतासम्पत्तये खल्वत्र सर्वविज्ञानमुच्यते । न चाल्पवेदज्ञस्य सा भवति सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येदि त्यादिश्रुतेः । अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः । अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि । तथाऽपि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह तावतेति ।

अनु०-तावतोपासने योग्यो भवेदेवाखिलः पुमान्

यथाशक्ति विज्ञानमात्रेण । अयमभिसन्धिः । ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । ध्येयाज्ञाने ध्यानायोगादिति चेत् । तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् । सत्यम् ।

तथाऽप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात् सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न । गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् । अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः । ततः श्रुतिर्यथाशक्तत्येव व्याख्येयेति ।

३७सु०- यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति महत्त्वस्येति ।

अनु०-महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद । किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः । इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।

महत्त्वस्य परं पारं विदित्वा इति सर्ववेदज्ञत्वमुच्यते । वेदेन विना भगवन्महत्त्वस्य ज्ञातुमशक्यत्वात् । स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् । समानन्यायत्वात् । नास्त्येवेति नियमनिषेधः । यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।

यथायोग्येति कथम् । अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् । सत्यम् । यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः । यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।

३८सु०- नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते । न तु यथाशक्तिज्ञानम् । अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह आत्मेति ।

अनु०-आत्मज्ञानानुरूपत्वं यथाशक्तिविचारणात्

अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव । अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः । सर्वज्ञाननियमे निराकृते किन्त्वि त्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् । न त्वात्मज्ञानम् । न हि परज्ञानं प्राङ् निराकृतम् । तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।

३९सु०- कुतः सर्ववेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् । तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातव्यमित्यतो युक्तयन्तरमाह सूत्रकारः-

ब्र०सू०- ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॐ ।।

तत्र हीत्यन्तं व्याचष्टे वेद इति ।

अनु०-वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते

अनेन वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मने ति स्मृतिमुपादत्ते । स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन स्वाध्यायोऽध्येतव्य इति श्रुतिम् । अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे ।

एतदुक्तं भवति । स्वाध्यायस्य स्वाध्यायविधेः तथात्वेन सामान्यतः सर्ववेदा

ध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् । अध्ययनस्यार्थज्ञानपर्यन्ततास्थितेः । स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः । न च वाच्यं शाखाभेदस्य प्रसिद्ध्या स्वाध्यायपदमपि तथैव व्याख्येयमिति । स्मृत्यनुरोधेनैव श्रुतिव्याख्यानस्य न्याय्यत्वात् । स्मृतौ च कृत्स्नपददर्शनात् । शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।

४०सु०- ननु श्रुत्यनन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः । उच्यते । आकाङ्क्षाक्रमेण सूत्रम् । व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः । श्रुतिस्मृतिबलादेव यथाशक्ति सर्वविज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते । भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।

४१सु०- आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । न ह्यत्र स्वर्गकामो यजेतेतिवत् कश्चिन्नियोज्यः श्रूयते ।

नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।

न चाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।

अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय इत्याचार्यकरणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानेन अध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।

किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।

उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । न चैवम् । अध्यापनस्य जीविकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । योऽनधीत्य द्विजो वेदानि त्यकरणे प्रत्यवायश्रवणात् ।

न च नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्याध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यापनीय इति चेत् । तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् । यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् । अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् । अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।

४२सु०- समाचारेधिकाराच्च इत्येतद्व्याचष्टे अद्यापीति ।

ब्र०सू०- ॐ समाचारेऽधिकाराच्च ॐ ।।

अनु०-अद्यापि तेन देवाद्याः ृण्वते मन्वते सदा ।ध्यायन्ति च यथायोगं

यतः सर्वविज्ञानमावश्यकम्, तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च । अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति । यथोयोगं यथाशक्तति प्रत्येकं विशेषणम् । ृण्वत इत्यात्मनेपद उक्तम् । समाचाराच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात् कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारेऽधिकाराच्चेत्युक्तम् ।

४३सु०- यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह तथाऽपीति ।

अनु०-तथाऽप्यावस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वदैव हि

यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथाऽपि, वस्तु परब्रह्मादिकम् । निर्णयो यथार्थः परोक्षो निश्चयः । प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः । वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हि शब्दार्थः ।

४४सु०-वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् । निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्य अवधारयितुम् अशक्यत्वादित्यत आह मतीति ।

अनु०-मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।वेत्ति तस्योक्तमार्गेण कुर्वतः स्यादि्ध दर्शनम्

मतिः मननं श्रुतिः श्रवणम् । उत्तमः शिष्ययोग्यताभिज्ञः । कुर्वतः श्रवणादिकम् । दर्शनं ब्रह्मसाक्षात्कारः । एतदुक्तं भवति । ब्रह्मदर्शनार्थं हि श्रवणादिकम् । न च तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् । किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति । अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति । यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति ।

४५सु०- देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् । स्यादि्ध दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् । देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् । यथोक्तं नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः इत्यादि । न च प्राप्तसाध्यः साधनमनुतिष्ठतीत्यत आह श्रवणमिति ।

अनु०-श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या(प्त्यै)

दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना । एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह अन्यस्येति ।

अनु०-अन्यस्यैतानि दृष्टये

अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति । यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थानि । ततः पराणि तु मोक्षार्थानि । यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि । तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः । दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् । समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामत्रोपोद्बलनाय कृतमिति नासङ्गतम् । विशेषानन्दं तु वक्ष्यामः ।

४६सु०- शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् । तादृशस्य गुरोर्दुर्लभत्वेन श्रवणाद्यभावापत्तेः । लभ्यमानोऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन । तथा चान्योन्याश्रय इत्यत आह यदीति ।

अनु०-यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत्

द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च । तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् । तत्र निर्णीतस्य श्रवणादिकं समाचरेत् । सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् । इदमुक्तं भवति । मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः । अमुख्यादपि गुरोस्तदुपपत्तेः । तत्र मुख्यवदमुख्यस्य अतिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव ।

न च निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याऽभिप्रायो दुरधिगम इति वाच्यम् । सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् । एवं च अमुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति ।

४७सु०- सर्वज्ञस्य गुरोः । श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेन अमुख्येन श्रवणादिना । सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह श्रवणादीति ।

अनु०-श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्

सन्ति तावत् सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः । तत्र च सर्वज्ञो गुरुरङ्गम् । तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।

नन्वेताः श्रुतय एवानुपपन्नार्थाः । अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् । न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह अतीति ।

अनु०-अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत्

परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् । अयमभिप्रायः । यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नास्तथा प्रकृतेऽपीति ।

४८सु०- निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह अभाव इति ।

अनु०-अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । ृणुयात्

निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात् सर्वदा ृणुयात् । मन्वीत च । न हि गुणालाभे मुख्यपरित्यागो युक्त इति भावः । वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः । तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः । द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदाऽसच्छास्त्राणामिति प्रतीतिः स्यात् । अतः सच्छास्त्राण्येवेत्युक्तम् । यादृशतादृशात् ृणुयादित्यनेनातिप्रसक्तौ सत्यामाह यदीति ।

अनु०-यदि सज्ज्ञानप्राचुर्यमुपलभ्यते

यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः ृणुयात् । न त्वधमात् । वैयर्थ्यात् । न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।

४९सु०- स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह महद्भ््य इति ।

अनु०-महद्भ््यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात्

स्वतो महद्भ््यो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्तयादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति । तादृश एव ह्यादरमुत्पादयन् व्याख्याति । सादरमेव च श्रवणादिकं फलायालम् । संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् । एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भ््यो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव । तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।

५०सु०- स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह स्वत इति ।

अनु०- स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।ब्रूयादपि च शिष्येभ्यः

अपिचा वितरेतरयोगे । श्रुताऽऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात् तेऽपि श्रवणादिफलं प्रसुवाते ।

सम्यक् श्रवणादिरहितो व्याचक्षाणाः स्खलनेन प्रत्यवेयात् । तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह सदिति ।

अनु०-सत्सिद्धान्तमहापयन्

ब्रूयात् इति सम्बन्धः । प्राणाणिकतयाऽभिमतोऽर्थः सिद्धान्तः । न तु प्रामाणिक एवेति नियमः । तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः । केषाञ्चित्तदनित्यत्वमिति न स्यात् । द्वयोः प्रामाणिकत्वायोगात् । अयं तु न तथा । अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् । स्वार्थिको णिच् । अजहदित्यर्थः ।

यद्वा शिष्यैरहापयन् । सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः । क्षुद्रस्खलितं त्वल्पीयस एव । न च तावता महाप्रयोजनव्याख्यानत्यागः । तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।

५१सु०- कोऽसौ सत्सिद्धान्तो यो न हातव्यः । द्विविधः सत्सिद्धान्तः परापरभेदात् । प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च । तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह अशेषेति ।

अनु०-अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः

अन्यत् तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते । निर्णीयत इति निर्णयः । सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः । साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः ।। आनुषङ्गिकं परसिद्धान्तमाह स्वतन्त्रत्वमिति ।

अनु०-स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः

स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् । तस्य विष्णोः । द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बध्यते । सर्वतो भेदश्चेति । प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम् ।

नन्वेतदप्यसम्भवस्तु सतो नात्माऽश्रुतेः पृथगुपदेशादित्यादिनाऽभिहितमेव । तत्कथमानुषङ्गिकः सिद्धान्तः । सत्यम् । तथाऽपि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः । स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् । इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।

५२सु०- कथमस्यार्थस्यानुषङ्गिकत्वमित्यत आह अदोषत्वस्येति ।

अनु०-अदोषत्वस्य सिद्ध्यर्थं

विष्णोरदोषत्वस्य सिद्ध्यर्थमङ्गीकार्योऽयमर्थ इति शेषः । उपलक्षणमेतत् । अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् । अनेन कथं तत्सिदि्धरित्यत आह यदिति ।

अनु०- यदभेदे तदन्वयः

यस्माज्जगताऽभेदे विष्णोर्दोषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः । अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् । तदन्वय इति च गुणपूर्त्याद्यभावस्यापि । अन्यत्तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात् तदर्थमाह तत्तन्त्रत्वं चेति ।

अनु०-तत्तन्त्रत्वं च मुक्तानामपि

च शब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः । अङ्गीकार्यमिति शेषः । किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाऽप्युपपत्तेरित्यत आह तदिति ।

अनु०- तद्गुणपूर्तये

न हि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्ध्यति । न च तदन्तरेण गुणपूर्तिर्भवतीति । स्यादेतत् । यदि मुक्ताः परमात्मनो भिन्नाः स्युः । न च तथा । तत्किं तत्तन्त्रत्वेनेत्यत आह मुक्तानामपीति ।

अनु०-मुक्तानामपि भेदश्च

परमात्मनः अत्यन्तभेदश्च अङ्गीकार्यः । अनेन तस्य भेदश्च सर्वतः इत्येतदपि विवृतं भवति । किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति न हीति ।

अनु०- न हि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित्

मुक्तानां परमात्मनाऽभेदो भवत्, न तावत् प्राग्भिन्नानाम् । भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् । न केवलमदर्शनं किं तर्हीत्यत आह तस्येति ।

अनु०- तस्याप्यभावोऽनुभवोपगः

भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि । ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् । तथैवास्त्वित्यत आह पूर्वेति ।

अनु०-पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।

समर्थितं तावद् दुःखादिरूपोऽयं संसारः सत्य इति । ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् । इतिशब्दो हेतौ । सम्यक् स्थितिः सत्सिद्धान्त आनुषङ्गिकः पर इति शेषः ।

५३सु०- नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह भेदेति ।

अनु०-भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः

भेदेन सहितोऽभेदो भेदाभेदः । विप्रतिषिद्धं चानधिकरणवाची ति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत् तर्हि किमजागलस्तनायितेनाभेदेनेति । इदानीमपरं सिद्धान्तमाह निर्दोषत्वमिति ।

अनु०-निर्दोषत्वं रमायाश्च

तथा परमेश्वरवद्रमायाश्च निर्दोषत्वम् । यथोक्तं कामादितरत्र तत्र चायतनादिभ्यः , समना चासृत्युपक्रमादमृतत्वं चानुपोष्ये ति ।। निर्दोषत्वमित्युक्तया पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति ।

अनु०- तदनन्तरता तथा

परमेश्वरानन्तरता तदधीनतेति यावत् । यद्वाऽनेनापरसिद्धान्तान्तरमाह एकस्माद्भगवत एवावरत्वमिति । तदप्युक्तम् अस्यैव चोपपत्तेरूष्मे ति । सिद्धान्तान्तरमाह ब्रह्मेति ।

अनु०-ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । सत्सिद्धान्त इति ज्ञेयो

मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्टानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् । कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति ।

अनु०-निर्णीतो हरिणा स्वयम्

हरिणा सूत्रकारेण स्वयं साक्षा न्निर्णीतो न तु बलात् सूत्रार्थतया कल्पितः । तच्च तत्र तत्र दर्शितमेव ।

५४सु०- सत्सिद्धान्तमहापयन्नित्युक्तम् । तद्धानौ को दोष इत्यत आह एतदिति ।

अनु०-एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम्

ज्ञानं सदित्यर्थः । विरोधि ज्ञानमेव हि । अस्य त्यागः । अन्धाय भवतीति शेषः । केवलमिति न कदाऽपि न सुखायेत्यर्थः । कुत एतदित्यत आह अन्धमिति ।

अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम्

अनेन अन्धन्तमः प्रविशन्ति योऽविद्यामुपासत इति श्रुतिमुपादत्ते । उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते । अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव । अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे । तथा च वक्ष्यामः ।

५५सु०- ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः । प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह इत्येवेत्यादिना सादरमित्यन्तेन ।

अनु०-इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् । मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि । ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः । प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्

इत्येवेत्युक्त प्रकारावधारणम् । एतमेवार्थमिति प्रकृतधर्म्यवधारणम् । तेन व्यत्यासमपि वारयति । अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।

अथ शब्दः समुच्चये । अखिलमिति जीवजननादिवाक्यानामप्युपादानार्थम् । मूलरामायणमेवे त्यवान्तररामायणानां व्युदासः ।

अखिला इति बहुवचनविषयविवरणार्थम् ।

इतरपुराणानां पाशुपतादिमूलत्वेन अप्रामाण्यात् वैष्णवानी त्युक्तम् ।

पराविति अर्वाचीनसाङ्ख्ययोगव्यावृत्तये । तयोरप्रमाणत्वात् । मीमांसा त्रिविधा ।

शब्दसागरः प्रकाशयतीति सम्बन्धः ।

युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव । न त्वाभासाः । प्रत्यक्षं च प्रकाशयति । एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।

कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तम् उत्तममिति । कर्मादेरुत्तानार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः ।

वेदादीनामन्यथाव्याख्यानं वारयति अन्यावकाशरहितमिति ।

अनु०-अन्यावकाशरहितं प्रकाशयति सादरम्

क्रियाविशेषणमेतत् । सादरमिति तत्र तात्पर्यसद्भावमाचष्टे । एतदर्थं(र्थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।

५६सु०- सत्सिद्धान्तमहापयन् सच्छास्त्राण्येव सर्वदा ृणुयात् इत्युक्तम् । तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा षृणुयादित्येतद्विवृणोति एतदेव चेति ।

अनु०-एतदेव च सच्छास्त्रं दुश्शास्त्रं तु ततःपरम् ।सच्छास्त्रमभ्यसेन्नित्यं दुश्शास्त्रं तु परित्यजेत्

एतत् वेदादिकम् । ततःपरं तद्विरुद्धं तदुदासीनं च । ऋगाद्या भारतं चैवेत्याद्यागमोऽत्र स्फुट एव । दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेत् इति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेयतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् । अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् । स्फुटानि च आचार्येण अन्यत्र अत्रार्थे वाक्यान्युदाहृतानि ।

५७सु०- सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् । निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः । अन्यथा तद्वैयर्थ्यादित्यत आह असंशयेनेति ।

अनु०-असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्

संशय शब्देन विपर्ययोऽपि लक्ष्यते । निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् । एतदुक्तं भवति । सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति । किं तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये । अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् । वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् । न चाविदितस्यानुचिन्तनं सम्भवतीति । तद्वेदनार्थं श्रवणमभ्यर्थनीयम् । श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्टव्यमिति ।

५७असु०- अन्ये पुनर्मन्यन्ते । श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् । मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते । असम्भावनाविपरीतभावनाख्यचित्तविप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्टम् । मननादिकं च प्रतिबन्धं निवर्तयतीति । तदसत् । शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् । ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च । न च विशेषहेतुरस्ति । येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः । प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।

अथ मतम् । दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् । न च तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् । शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।

अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न । वैपरीत्यस्यापि सुवचत्वात् । तथाऽपि कुतो विनिगमनमिति चेत् । क्वचिद्बहुलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद्दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः । धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् । वैषम्यात् । प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः । न तथाऽन्यः ।।

अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् । नान्यस्य । तथा हि विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्, सुखादिज्ञानवत् । अपरोक्षत्वं वेदान्तवाक्याजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत् इति ।

न च विवादाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्टोमादिवाक्यवदिति युक्तम् । दशमस्त्वमसीत्यादौ व्यभिचारात् । श्रूयते च तद्धास्य विजिज्ञौ तमसः पारं दर्शयती त्युपदेशमात्रादेवापरोक्षप्रमितिजन्म । अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।

५८सु०- अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति तदसङ्गतम् । दशत्वसङ्ख्या खल्वपेक्षाबुदि्धजन्या तद्व्यङ्ग्या वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् ।

अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् ।

ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।

अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।

शब्दस्यैवम्भाव इति चेत् । तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्य अपरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । न हि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति ।

५९सु०- एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।

यच्चापरोक्षत्वमित्यादि । तज्ज्योतिष्टोमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् । ज्योतिष्टोमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् । सममेतद्वेदान्तवाक्येष्वपि । संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगात् वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न । ज्ञाननिवर्त्यताया निरस्तत्वात् ।

चित्तैकाग्रयरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च । मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् । तत्किं शब्दस्योपलब्धम् । यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न । श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् । चित्तैकाग्रयस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् । साऽप्यपक्वमनोविषयेति स्यात् ।

६०सु०- किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् । तद्धास्य विजिज्ञावि त्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः । परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा । स्पष्टं हि स्मृतयो वदन्ति श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनमि ति, ृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्व च न बाध्यते इति च ।

एतेन धर्मादिवाक्येऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् । अत एव प्रत्यक्षलक्षणे विशेषणप्रक्षेपोऽपि निरस्तः । निर्निबन्धनत्वात् ।

६१सु०- ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे तज्जनयतीति मन्यन्ते ते प्रष्टव्याः । प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा । नाद्यः । गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् । द्वितीयेऽपि विरम्यव्यापारापत्तिः । ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।

६२सु०- यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् । पुरुषशक्तनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः । न च तथाऽस्त्विति वाच्यम् । तत्साध्यस्य ज्ञानस्यैकविध्यत्वेन वैयर्थ्यप्रसङ्गात् । न च वाच्यं ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात् तत्तज्ज्ञानान्यपि तारतम्यवन्तीति । तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् । न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह सम्यगिति ।

अनु०-साम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्

विषमं विपरीतम् । ज्ञानमेव विज्ञानम् । ततो न पुनरुक्तिर्विरोधश्च । तारतम्यादिति तारतम्येनोपेतमित्यर्थः । सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं विवृणोति सम्यक् चेति ।

सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम्

सम्यग् इत्यव्ययं समीचीनादित्यर्थः । च शब्दोऽनुक्तसमुच्चयार्थः । मध्यमात् सम्यग्ज्ञानात् तथाविधं सुखं भवेत् । अल्पाच्च सम्यग्ज्ञानादल्पम् । एवमधिकान्मिथ्याज्ञानात् अधिकं दुःखमित्यादि । अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते । यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् । तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम् । न बन्धप्रध्वंसमात्रं मोक्षं किन्तु सुखमपि । तस्य च तारतम्यमुपपद्यत इति भावः ।

६२असु०- अधिकरणार्थमुपसंहरति अत इति ।

अनु०-अतो यथात्मशक्तयैव श्रवणं मननं तथा ।

नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् । यथाऽऽत्मशक्तयैवेति कथम् ।

उच्यते । यथेति भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बध्यते । सादृश्यार्थं वा । आत्मशक्तयैव श्रवणं मननं चाचरेत् । न तु सर्वशाखाविषयम् । नापि स्वस्वशाखामात्रविषयम् । यथा च श्रवणं मननं चात्मशक्तयैव । निदिध्यासनमपि तथाऽऽचरेत् । तच्च श्रवणं मननं च कृत्वा कुर्वन् वेति । यद्वा यथाऽऽत्मशक्तत्यव्ययीभावात्पर आशब्दः सम्यग्वाची । श्रवणमित्यादिना सम्बध्यते ।

अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते । अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।

।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।

न्यायसुधा

।। अथ उपसंहाराधिकरणम् ।।

ब्र०सू०- ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।

६३सु०- अत्र सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मा उपास्य इत्युक्तम् । इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह कृत्वेति ।

अनु०-कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ।

श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।

।। इति उपसंहाराधिकरणम् ।।

न्यायसुधा

।। अथ अनुबन्धाद्यधिकरणम् ।।

ब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।

६४सु०- योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्तयादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्तयादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च द्वेषाच्चैद्यादयो नृपाः , वैरेण यन्नृपतय इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेण इति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्तयादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे विषयेष्वित्यादिना ।

अनु०-विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते । इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति

विषयसेवनात् । शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति । मिथः समुच्चये च शब्दः । हि शब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।

एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र (व्या)आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।

यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति । तत्सत्यम् । तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । न च भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । न च तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्तयाद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।

६५सु०- यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति ।

अनु०-दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते

ते विष्णुभक्तयभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेषु अनादिसम्बन्धाः सन्त्येव । तेन कारणेन तेषां मोक्षो न जायते ।

एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् ।

श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति ।

६६सु०- स्यादेतत् । सन्ति केचित् संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः । तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह सर्व इति ।

अनु०-सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः

उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते भगवद्भक्तयभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव । रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति । चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन । अतो बालादिषूदाराणां तेषामभावादभावाभिमानः । स्तन्यादिकामादेष्वपि दर्शनात् । तथा चागमः । गर्भे बाल्येऽप्यपौष्कल्यादित्यादिः । तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।

६७सु०- अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । न च ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम् । तत्कथमित्यत आह ऋजूनामिति ।

अनु०-ऋजूनामेक एवास्ति परमोत्साहवर्जनम्

ऋजूनाम् अपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।

६८सु०- प्रकारान्तरेण विरोधं परिहरति स इति ।

अनु०-स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुध्यते

स परमोत्साहवर्जनं नाम दोषः । यद्यपि महोद्यमाभावो दोष एव हेयत्वात् । तथाऽपि

न रागादिरिव भावरूपः । नापि गुणाभावरूपः । किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुध्यते ।

६९सु०- किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति ।

अनु०-अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।तारतम्येन कर्तव्या पुरुषार्थमभीप्सता

इदं च सर्वयमोपलक्षणाम् । पुरुषार्थं मोक्षम् । अयमत्र सङ्क्षेेपः । विष्णुभक्तयभावाद्या विषयसंर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना । तथा च विष्णुभक्तयादिकं कार्यमिति सिद्ध्यति । भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति ।

७०सु०- विष्णौ पराऽन्यत्र तारतम्येनेत्युक्तं विवृणोति स्वादर इति ।

अनु०-स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता

आदरः स्नेहः । स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः । अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः । ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः । एवं तेषाम् आधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम् । वासुदेवे तु निरतिशयः । शुभं ध्यानादिकम् । एतच्चोपपादयिष्यते ।

७१सु०- सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् । अयं तु कथमित्यपेक्षायामाह नेति ।

अनु०-न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत्

तं विष्ण्वाद्यादरम् । न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च । स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह समेष्विति ।

समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।

कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः

कर्तव्य इति वर्तते । तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या । यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः । ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः । ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् । विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् । एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षातिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः । अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।

७२सु०- दोषपरित्यागेऽप्यस्ति विशेषः । रागादयो हि संसारमातन्वते । विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह तदिति ।

अनु०-तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।इत्याह सच्छ्रुतिः

तत् प्रसिद्धम् । न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् । विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः । उभयोः भेदाभेदयोः ।

७३सु०- स्वपक्षसाधनमुपसंहरति तेनेति ।

अनु०-तेन सम्प्रोक्तगुणसंयुतः ।उपासीत हरिं दृष्ट्वा मुक्तिस्तैनेव जायते

प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिः गुणैः औः संयुतः । तेनैव तथाविधेनैवोपासनेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिः जायते ।

७४सु०- इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति द्वेषादिति ।

अनु०-द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत्

तस्मादन्यथा व्याख्यातव्यमिति भावः । तत्प्रकारं च वक्ष्यति । किं तच्छतिवाक्यमित्यतो मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुरि त्येतदर्थतः पठति रिपव इति ।

अनु०-रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ।हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च

रामो रमणं तदस्यास्तीति रामी भगवान् रामस्तस्मान्निष्क्रान्तः तस्य विमुखा निरामिण इत्यर्थः । अत एव तस्य रिपवः । अभिद्रोहपद इत्यस्यैव व्याख्यानम् अन्धेतमसीति ।

नित्यं स्थिता भवन्तीति शेषोक्तिः । अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तः तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मावोचः । न ह्यस्मच्छ्रवणवान् दुःखमर्हतीति योजना सूचिता भवति । इदं च वायुं प्रति विद्यादेवताया वचनम् । तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।

७५सु०- कथमेतच्छतिविरोध इत्यत आह इत्यादीति ।

अनु०-इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते

स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति हिरण्यकशिपुश्चेति ।

अनु०-हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ।यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।निन्दां भगवतः ृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ।अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परम्भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्मणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः

विविक्षुर्वेशनसम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्ख्यानमिति वचनात् । श्वा मुमूर्षतीति यथा । अत्यगात्तमः । मम पिता मह्यं मन्निमित्तं त्वामनिन्दत् । मयि मद्विषये च अघवान् अपराधवान् । तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् । निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव । नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।

ततः स्थानात् । निन्दां ृण्वतो यदाधःपातस्तदा निन्दकस्य किमु ।

मानुषीं मनुष्यसदृशीम् ।

ये मां अवजानन्ति ते मोघाशादिमन्तो भवन्ति । तेषां सुखलेशोऽपि न भवति । आत्मपरदेहेषु प्रेरकत्वेन स्थितम् । संसरन्त्यत्रेति संसारा देहाः । तस्य विवरणमासुरीष्वेवेत्यादि । लोको जनः तस्यान्तश्चण्डालादिः तत्पर्यन्तस्य ।

कथमेतत्स्मृतिविरोध इत्यत आह इत्यादीति ।

अनु०-इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।

ज्ञायत इति शेषः । तमोऽपि निरुत्थानमिति तु शब्दः ।

अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।

।। इति अनुबन्धाद्यधिकरणम् ।।

न्यायसुधा

।। अथ विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।

७६सु०- यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाऽप्युपासनस्वरूपावगमे सत्येव तत्सार्थक्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् । तथा हि । न भगवदुपासनं कर्तव्यम् वैयर्थ्यात् । न च साक्षात्कारार्थम् । तस्यापि व्यर्थत्वात् । न च मोक्षप्रयोजनोऽसाविति वाच्यम् । चार्वाकदिशा मोक्षस्यैवाभावात् । भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते । यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि । तथाऽपि मोक्षतत्साधनविषयदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः । तत्र चार्वाकमतं तावदनुवदति नैवेति ।

अनु०-नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।

एव शब्दः स्वरूपनिषेधद्योतनार्थः । अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि

ज्ञायेत । तस्मादुपासनं व्यर्थमिति शेषः ।

७७सु०- तर्हि कः पुरुषार्थोऽस्तीत्यत आह भोग इति ।

अनु०-भोगः

स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः । भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह शरीरेति ।

अनु०- शरीरपर्यन्तं

शरीरपातपर्यन्तमित्यर्थः । कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह भस्मीभाव इति ।

अनु०-भस्मीभावस्ततो भवेत् । इति

ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् ।

इदमुक्तं भवति । शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ । आत्मा च न शरीरातिरिक्तोऽस्ति । शरीरं च पातोत्तरकालं नश्यत्येव । ततः कस्य तौ स्यातामिति । इति प्राहुरिति सम्बन्धः । शङ्कासमाप्तौ वेतिशब्दः ।

७७असु०- तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति तदिति ।

अनु०-तत्केन मानेन दृष्टं

मोक्षो नैवास्तीति वाक्यार्थं परामृशति केन मानेनेति । प्रत्यक्षेण वा तदितरेण वेत्यर्थः । दृष्टमवगतम् । द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति ।

अनु०-प्रत्यक्षवादिना

प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता । पूर्वेण सम्बन्धः ।

आद्यं निराकरोति न हीति ।

अनु०-न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते

अनुमानादिकं तावत्परस्य मानं न भवति । यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् । मोक्षो हि नाम परमानन्दावाप्तिविशिष्टात्यन्तिक दुःखनिवृत्तिः । तदभावश्चैवमवगन्तव्यः । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेति । न च पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हि शब्दार्थः ।

७८सु०- मा भूत् प्रमाणाभावेन मोक्षाभावनिश्चयः । तत्सद्भावनिश्चयोऽपि दुर्घट एव । प्रमाणाभावात् । तावत् तत्र प्रत्यक्षं प्रमाणम् । परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् । स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणेक्ष्यते ।

नापि प्रत्यक्षादन्यत् । तत्प्रामाण्यासिद्धेः । ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति । मैवम् । प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः ।

७९सु०- ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राह घटत इति ।

अनु०-घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा

यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते । तथाऽपि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव । तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः । ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठ्या भवितव्यं कथं तृतीया । शेषविवक्षायां षष्ठी विहिता । न चात्र शेषविवक्षेति चेन्न । अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् । उच्यते । हेतावेषा तृतीया । न कर्तरि करणे वा । महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् । इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति । यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते । कथम् । यतो महीयसा पुरुषेणेक्ष्यते मोक्ष इति वदाम इति योजना । अथवा क्रियमाणेति पदाध्याहारे न दोषः ।

८०सु०- एवं तर्हि मयाऽपि वक्तुं शक्यत एव । यद्यपि परपुरुषवर्ती मोक्षाभावोऽस्मदादीनां न प्रत्यक्षः । तथाऽपि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव । तदवगमश्च अस्माकं तद्वाक्येन भविष्यतीति । तथा च सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह नेतीति ।

अनु०-नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते

कस्मिन्नपि पुरुषे वर्तमानोऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः । महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः । महत्त्वमिह बहुप्रकारमपेक्षितम् । इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति । तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते । कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् ।

८१सु०- कुत इत्यत आह साधयन्निति ।

अनु०-साधयन् सर्वसामान्यं कथमेव विशेषवान्

धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयल्लोकायताचार्यः कथमेवेतरेभ्योऽतिशयवान् भवति । न कथञ्चित् । एतदुक्तं भवति । पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् । अन्यथेतरेषामपि तत्प्रसङ्गात् । न चासावस्ति । तपसा योगेन वा जनितो धर्मविशेषस्तथा । स चेतरेषामिव स्वात्मनोऽपि नास्तीति तेनैव साधितम् । अतः कारणाभावादितरवत् तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते । तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव । भूतपरिणामविशेष एवातिशयोऽस्त्विति चेत् । स किं प्रत्यक्षोऽप्रत्यक्षो वा । नाद्यः । अनुपलम्भात् । यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् । अन्यथाऽतिप्रसक्तेः । न द्वितीयः । अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति ।

८२सु०- यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि । नास्त्येवासौ महीयान् पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत । प्रमाणाभावादिति । तथा च पुनरनिश्चय एवेत्यत आह दृश्यन्त इति ।

अनु०-दृश्यन्ते पुरुषा लोके परापरविदोऽपि च । अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः । प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः । ज्ञानविज्ञानपारज्ञा

न केवलमेक इति भावः । लोके अस्मिन्नेव भूमण्डले । ते च वसिष्ठादयः । तेषां महीयस्त्वमाह ज्ञानविज्ञानपारज्ञा इति । अत्र विषयिभ्यां विषयावुपलक्ष्येते । सामान्यविशेषाकारपारज्ञाः । न केवलं वर्तमानाशेषविदः किन्नाम परावरविदोऽपि । तत्किमनुमानादिना नेत्याह अपरोक्षदृशश्चेति ।

अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति । योगनिष्ठाजनितविशिष्टादृष्टेन दिव्यदृष्टयः । किं तेनैव नेत्याह प्रत्यक्षमिति ।

योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तत्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः । वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्ट्या परपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्तेऽतो न मोक्षानिश्चय इति । अस्मदादिभिरनुपलब्धत्वात् ते सन्तीत्यत आह निषिध्यन्त इति ।

अनु०-निषिध्यन्ते कथं नृभिः

नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवदि्भरिति सूचयति । न हि ते वणिग्वीथ्यां वर्तन्ते । येन युष्माभिरुपलभ्येरन् । अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः ।

८३सु०- ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः । तेषां महीयस्त्वं तु कुत इत्यत आह दृश्यते चेति ।

अनु०-दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम्

न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते । कथम् । अतिमहौजसाम् । एतदुक्तं भवति । दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि । तानि च महैश्वर्यकार्याणि । न च कार्याणि विना कारणैर्भवितुमर्हन्ति । महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिदि्धरिति ।

८४सु०- ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् । तद्वाक्यादिति चेन्न । तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह यदीति ।

अनु०-यदि तेऽपि निषिध्यन्ते किं नोक्तिस्ते निषिध्यते

विप्रलम्भो हि प्रयोजनमूलो भवति । न च तेषां प्रयोजनानुसन्धानं सम्भवति । आप्तसमस्तैश्वर्यत्वात् । प्रयोजनान्तरस्य चाप्रमितत्वात् । एवम्भूता अपि ते योगिनो यदि विप्रलम्भका इति निषिध्यन्ते । तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् । तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते । साऽपि विप्रलम्भमूलेति कल्पयित्वा अनादरणीया स्यात् । अविशेषादिति यावत् ।

एतेनैतदपि निरस्तम् । विप्रकर्षवशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहाम्त्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतोऽवगन्तव्यम् । इतिहासपुराणेभ्य इति चेन्न । तेषामप्रमाणत्वादिति । दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् । न च तत्र प्रमाणमस्ति । वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति ।

८५सु०- न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते । प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत् समं प्रकृतेऽपीत्याह यदुक्तेति ।

अनु०-यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते

यैः योगिभिः उक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेन उपलभ्यते तेऽपीति पूर्वेणान्वयः । कथमित्यत आह वरादयोऽपीति ।

अनु०-वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि

तैर्योगिभिर्दत्ता वराः शापाश्च सदा अव्यभिचारेण सत्या भवन्ति । हि यस्मात् तस्मादिति पूर्वेणैव सम्बन्धः । ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति ।

स्यादेतत् । प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् । अतीन्द्रिये तु मोक्षादौ कथमिति । एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु । अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् ।

अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत् तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् । तेनातीन्द्रियार्थविषयेऽपि तत्र विश्वसिमः । लोके तथोपलम्भादिति । तदिदं प्रकृतेऽपि समानम् । तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन ।

८६सु०- एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् । हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति अप्रामाण्यमिति ।

अनु०-अप्रामाण्यं तदुक्तेश्च वृथावाचाऽवसीयते

हेतुसमुच्चये चशब्दः । वृथावाचेति भावप्रधानो निर्देशः । वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् । तदर्थं वाग्ग्रहणम् । कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह न हीति ।

अनु०-न हि प्रयोजनं किञ्चित्परलोकनिवारणात्

परलोकस्य मोक्षादेर्निवारणात् । नास्तित्वप्रतिपादनाल-लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव । तथा हि । तदुक्तेरदृष्टं वा प्रयोजनं स्याद् दृष्टं वा । न तावददृष्टम् । परलोकनिवारणात् । अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा । नाद्यः । स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् । न द्वितीयः । देहात्मवादिनाऽस्यात्मनः परलोकस्य देहान्तरस्य निवारणात् । नापि दृष्टम् । प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति ।

८७सु०- वैदिकानां धर्माधर्मव्यवस्थापकैर्वचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति । यद्यप्युपकारो न स्वरूपेण प्रयोजनम् । नाप्यदृष्टहेतुत्वेन । तथाऽप्युपकर्तारं प्रत्युपकुर्वन्त्येव । विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् । तत्कथं वृथात्वमित्यत आह वृथा वाचमिति ।

अनु०-वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम्

अत्र वृथावाचमिति साध्यनिर्देशः । एवमपि वृथावाक्तवं न परिहार्यमिति । अदृष्टप्रयोजनरहितवाचमिति वा । यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात् तदा तं प्रति तस्य किम् उत्तरम् । न किञ्चित् ।

एतदुक्तं भवति । न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितोऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदाऽस्य का प्रतिक्रिया । उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् । उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव । सा तु तेनैव निश्शेषिता । अतो नास्त्येव आचार्यस्य प्रयोजनम् । प्रत्युत स्वजीवनहानिलक्षणोऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहाराय परस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः । महताऽनर्थेनाक्रान्तोऽल्पीयान्कामोपभोगोऽनर्थ एवेति ।

८८सु०- अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च । तथाऽप्यप्रामाण्यं कुत इत्यत आह स्वेति ।

अनु०-स्वजीवनविरोधाय वदन् किन्नाम बुदि्धमान्

स्वशब्दः परेषामप्युपलक्षकः । व्यर्थं चेति शेषः । व्यर्थानर्थहेतुवाक्तवेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते । ततस्तद्वचनस्याप्रामाण्यमिति शेषः । उक्तश्चायमर्थः प्रयोजनाधिकरणे ।

८९सु०- उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह प्रामाण्य इति ।

अनु०-प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः । यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन्

(अत्र) प्रामाण्य शब्देनाप्तत्वमुच्यते । किं इत्याक्षेपे । अपि शब्दो गर्हायाम् । स्वे त्युपलक्षणम् । दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य । च शब्दो विशेषणसमुच्चये । देवोक्ती त्यतीन्द्रियान्तरस्याप्युपलक्षणम् । स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।

यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्च अतीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात् किं, न स्यादेव । किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।

९०सु०- एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिना अत्यन्तासम्भावितवञ्चकत्वात् प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न) तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्ध्यतीत्युक्तम् ।

इदानीं वेदेनापि तं सिषाधयिषुः तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वात् वेदस्य अप्रामाण्यमुच्यते । उत वाक्यत्वात् उन्मत्तवाक्यवत् ।

अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ (वा) बाधितत्वादिति विकल्प्य आद्येऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं निराचष्टे अत इति ।

अनु०-अतः प्रत्यक्षगम्यत्वाद्वेदमात्रस्य च स्फुटम्

वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः । प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात् । प्रमाणसमुच्चये च शब्दः । वेदेन च मोक्षसिदि्धरिति । अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् । ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति । मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि । फलविसंवादोऽपि वेदस्य दृश्यत इति चेन्न । तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् । तदिदमुक्तं स्फुटमिति ।

आद्ये द्वितीयं दूषयति यदीति ।

अनु०-यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत्

यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वम्, अप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत् । अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् । यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदा अस्मत्सुखादिविषयस्य प्रत्यक्षस्य अप्रामाण्यं भवेदेवेति । यद्यपि योगिप्रत्यक्षसंवा(दोऽस्ति तथा)दः प्रागुक्तस्तथाऽपि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् । स्यादेतत् । प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आह यद्यक्षजस्येति ।

अनु०-यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत्

यदि संवादेन विना अक्षजस्य स्वत एव प्रमाणत्वं स्यात् तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत् । अविशेषाद्भवेदेव ।

९१सु०- द्वितीयं निराकरोति यद्यागमस्येति । यदि वाक्यत्वमात्रेणोेन्मत्तवाक्यवत् आगमस्य न मानत्वमित्युच्यते । तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत् स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् । निर्दोषत्वात् स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह यद्यक्षजस्येति । यदि निर्दोषत्वात् स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात् तर्ह्यागमस्यापि तत एव कथं न भवेत् । न ह्यपौरुषेयस्य सदोषता सम्भवति । वेद इत्युपक्रमात् तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् ।

९२सु०- तृतीयं निराकरोति लोकेति ।

अनु०-लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्ध्यति

उन्मत्तादिवाक्यात् । विशेषो वेदस्य । अव्यभिचारेण बाधराहित्येन । न हि वैदिकोऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयाऽवकाशं लभेत ।

एतेन चतुर्थोऽपि निरस्तः ।

९३सु०- तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवता योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात् सम्मतवदित्यनुमानमपि सूचितम् । अनुमानप्रामाण्यं च प्रागेव समर्थितम् ।

९४सु०- अपरे पुनरनुमिमते । दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति । तदसत् । सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् । नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात् समर्थयिष्यमाणत्वाच्च । तद्व्यतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् । पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च । सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न । सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् । कालक्षणसन्ताने व्यभिचाराच्च ।

किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् । आद्ये सिद्धसाधनता । मोक्षमनङ्गीकुर्वताऽपि दुःखानां विनाशिताऽभ्युपगमात् । अत एवात्यन्तमित्युक्तमिति चेत् । कोऽस्यार्थः । किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति । उत निःशेषतयोच्छिद्यन्त इति ।

अथवा तत्र दुःखान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनताऽनिस्तारात् । सर्वेषामपि दुःखानां परेण अनित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि दुःखं सावयवद्रव्यम् । येन सशेषमुच्छिद्यत इति शङ्क्येत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । न हि दीपज्वालासन्ततिरेवमुच्छिद्यते । तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् । न द्वितीयः । दुःखधर्मो हि जातिर्वा तदन्यो वा । आद्येऽपसिद्धान्तः । जातेर्नित्यत्वाङ्गीकारात् । न द्वितीयः । आश्रयासिद्धेः । गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् । अङ्गीकारेऽप्यर्थान्तरता स्यात् । न हि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिदि्धरिति ।

९५सु०- आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात् महाप्रलयावस्थायामाकाशवदिति चासत् । सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् । असिद्धेश्च । जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् । तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् । जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।

आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । तथा सति हेतोरसिदि्धप्रसङ्गात् । जातित्वं हेतुरिति चेन्न । पूर्वानुमानदोषापरिहारात् । घटत्वादावनैकान्तिकत्वाच्च ।

अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् । विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न दोष इति चेन्न । कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् । तत्त्यागेऽप्यर्थान्तरत्वात् । अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।

९६सु०- एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्टव्यतिरेक्यनुमानपि निरस्तम् । अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः ।

९७सु०- इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति अस्तीति ।

अनु०-अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च

यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः । अङ्गीकृतश्चेत् मोक्षसद्भावः तदा तत्साधनमपि किञ्चिदङ्गीकार्यमेव । तथा च का विप्रतिपत्तिरित्याशयवान् पृच्छति अपीति । किं तर्हीत्यर्थः । उत्तरमाह धर्मेणेति । लभ्यत इत्याहुः ।

अपिचा वितरेतरसमुच्चये । यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनाः तथापि तद्विशेषे विप्रतिपद्यन्ते । यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः । सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् । यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् ।

धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते । अतो विप्रतिपत्त्यनन्तरं दर्शयति प्रामाण्यमिति ।

अनु०-प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने । तद्वाक्यात् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च

जिन आप्तोऽस्खलितवाक्त्वादित्याद्यनुमायाः । चशब्दाज्जिनदर्शिनां वाक्यस्य च । तद्वाक्यात् । जिनवाक्यात् । इति च जैनाः प्राहुः । अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिदि्धमाहुः । न तु स्वतःप्रमाणाद्वेदादित्याशयः । मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न । साधनज्ञापकस्यापि साधनत्वात् ।

धर्मज्ञानस्वरूपेऽपि विप्रतिपत्तिं दर्शयति धर्म इति ।

अनु०-धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् । इति जैनाः

अहिंसा परा प्रधानभूता यस्मिन् स तथोक्तः । एतदस्माकमपि सम्मतमित्यत उक्तम् अन्यो हिंसासहितो यज्ञादिः न धर्म इति । आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् । यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् । अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते ।

९८सु०- दूषयति कथमिति ।

अनु०- कथं तत्स्यात्प्रमाणमनुमानतः

तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् । अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः ।

कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति ।

अनु०-विषयान्प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।प्रत्यक्षशब्दानुसारादनुमेति प्रकर्तिता । आसमन्ताद्गमयति धर्माधर्मौ परं पदम् ।यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः

विषयान् निर्दोषान् प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्टमिन्द्रियम् । जातावेकवचनम् । यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतः तेन अदोषेण सन्निकृष्टमदुष्टं तत्प्रत्यक्षमित्यर्थः ।

अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम् । तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत ।

यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् । तथाऽपि योग्यतया विषयाणां सम्बन्ध इति हिशब्देन आचष्टे ।

प्रत्यक्षशब्दानुसारात् प्रत्यक्षागमानुसारेणैव मानत्वात् । अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च । प्रकर्तिताऽनुमेति शेषः । याऽनुमा प्रसिद्धा साऽस्मान्निमित्तादनुमेति प्रकर्तिता । यद्यप्यनुसृता माऽनुमा तथाऽपि सामर्थ्यात् प्रत्यक्षादिसम्बन्धः । अनुमानमूलाऽनुमाऽप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।

आ इत्यनुवादेन समन्तादिति व्याख्यानम् । सम्यक् चेत्यपि ग्राह्यम् । गमयति ज्ञापयति । करणे कर्तृत्वोपचारः । ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि भावे वा अपो विधानात् अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् । यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च । तु शब्दोऽवधारणे । तेनैवेति सम्बध्यते ।

यद्यप्या सम्यक् समन्तात् सर्वं गम्यते अनेनेत्यागमः । तथाऽपि प्रत्यक्षानुमानावगतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् । तस्य विवरणं धर्मेत्यादि । य आगमः प्रसिद्धोऽसौ ।

९९सु०- निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् । न च निर्वचनलभ्योऽर्थोऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः । व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह एतेनेति ।

अनु०-एतेन कारणेनैव तत्तन्मानत्वमिष्यते

तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः । प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् । न तु निर्वचनमात्रलभ्योऽर्थ इत्यर्थः । कुत इत्यत आह स्वरूपं हीति ।

अनु०-स्वरूपं हि तदेतेषाम्

तत् निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियत्वादिकम् एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः । लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति । एतदपि कुत इत्यत आह अन्यथेति ।

अनु०- अन्यथाऽसिदि्धमानतः

अन्यथाऽसिदि्धश्च तन्मानं च । प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः । तथा चोक्तम् ।

१००सु०- ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह अत इति ।

अनु०-अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत्

अनुमे त्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते । चापि शब्दावितरेतरसमुच्चये । दर्शयेत् प्रतिपादयेत् ।

इदमुक्तं भवति । जिनवाक्याद्धर्मादिसिदि्धरिति वदता किं प्रमाणमुक्तं भवति । आगम इति चेन्न । सम्यक् प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् । जिनवाक्यस्य च तदसिद्धेः । जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा । द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत् सम्यक्तवं दुर्लभम् । आद्ये प्रत्यक्षेणानुमानेन वाऽवगतौ तदनधिगतार्थतासम्भवः । वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्तवमेव ।

१०१सु०- एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तोऽस्खलितवाक्तवादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् । तथा हि । आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव । वाक्यान्तरमूलत्वेऽपि तथा । न च प्रत्यक्षं मूलम् । विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् । न चाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते । अतोऽस्खलितवाक्तवाद्यनुमानमूलमित्येव वक्तव्यम् ।

न चैतदनुमानम् । प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् । न चैतत् प्रकृते अस्ति । आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः । आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिदि्धः । तत्त्वज्ञानादिलक्षणा खलु आप्तिः । तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् । विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् । धर्मादेश्चाक्षाविषयत्वात् । तथात्वे वाऽन्येषामपि तदधिगतिप्राप्तेः । अत एव नानुमानजन्यम् । वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव । एवमविप्रलिप्साऽपि दुरधिगमा ।

अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्टम् । आप्तेरुक्तविधया बाधितत्वात् । अन्येषामप्रत्यक्षेऽर्थेऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न । पुरुषत्वादिना सत्प्रतिपक्षत्वात् । अस्खलितवाक्तवं च क्वचिद्वा प्रकृते वा सर्वत्र वा । नाद्यः । यः क्वचिदस्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् । न द्वितीयः । निर्धारणोपायाभावात् । फलप्राप्त्यनुमेयं खल्वेतत् । अत एव न तृतीयोऽपि ।

यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् । औषधादिना सम्भवदन्यथासिद्धं च । न चायं मन्वादिवाक्येष्वपि प्रसङ्गः । अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् । यद्वै किञ्चन मनुरवदत्तद्भेषजमि त्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च । अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिदि्धरित्यसदिति ।

१०२सु०- न केवलं जिनस्यास्खलितवाक्तवं निश्चायकाभावादसिद्धम् । किन्तु स्खलनदर्शनादपीत्याशयेनाह स्वरूप इति ।

अनु०-स्वरूपे पुद्गलस्योक्ता दोषाः

विषयसप्तमीयम् । अपुद्गलशब्देन नञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा । उक्ताः एवं चात्मा कार्त्स्न्यम् इत्यादिना । अयमर्थः । जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् । तत्प्राग्दूषितमिति स्खलितवागसाविति । यद्यपि सप्तभङ्गिनयोऽपि तदुक्तो दूषितस्तथाऽपि मोक्षसाधनं यात्पुद्गलदर्शनमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः । ननु एतदपि पूर्ववाक्येन सिद्धम् । सत्यम् । प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः ।

१०३सु०- प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयति आनन्दमेवेति ।

अनु०- आनन्दमेव च ।न मन्यते पुद्गलं स

अत्रापि अपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते । तत्त्वविद आत्मानम् आनन्दमेव आनन्देन अत्यन्ताभिन्नं मन्यन्ते । स जिनस्तमानन्दमेव न मन्यते । भिन्नत्वादिना सप्तप्रकारं ब्रवीति । तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् । अतश्च स्खलितवागसाविति भावः ।

१०४सु०- इतश्च तथेत्याह दुःखेति ।

अनु०- दुःखाभावः सुखं त्विति

तु शब्द आत्मव्यावृत्त्यर्थः । इति शब्दो हेतौ । पूर्वेणैव सम्बन्धः । यस्मादात्मा भावः । सुखं तु दुःखाभावः । न च विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः । तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते । तच्चायुक्तमित्यतः स्खलितवागसौ । कुतस्तदयुक्तमित्यत आह मात्रेति ।

अनु०-मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात्

मीयन्त इति मात्राः शब्दाद्या विषयाः । भोगोऽनुभवः । उपलक्षणं चैतत् । विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् । सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात् सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः । सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः ।

यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्टप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् । यदि सुखं निरतिशयं स्यात् तदा प्रेक्षावतां विषयभोगातिरेकोपादानं व्यर्थं स्यात् । दृश्यते च तदिति ।

१०५सु०- ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् । तद् यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते । न च प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्टे । विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् । विषयभोगसाध्यत्वाद् दुःखाभावस्येत्यत आह सुखस्येति ।

अनु०-सुखस्याभावता केन

भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् । यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् । सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः । एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह न चेति ।

अनु०-न च स्यात्किं विपर्ययः

यदि निर्निबन्धनमेव सुखतारतम्यदर्शनादेरौपाधिकत्वं कल्प्यते । तदा सुखं भावरूपं दुःखं तदभावः । तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् । सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपर्ययश्च किन्न स्यात् । स्यादेव । अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात् स्वाभाविकतारतम्ययोर्भावत्वमङ्गीकर्तव्यमिति ।

१०६सु०- सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणासद्भावात् कथं सुखस्याभावता केनेत्युक्तमिति चेत् । किमेवंवादिनो मते कश्चिद्भावो विद्यते । उत सर्वेऽप्यभावाः । आद्ये दोषमाह यदीति ।

अनु०-यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः

वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावोऽपि स्यात् ।

तर्हि तस्य सुखस्यैवाभावता कुतः । अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् । अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः ।

ननु सर्वेऽपि पदार्था अभावा भवन्त्येवेति नोक्तो दोषः । यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक्प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् । तथाऽप्यन्योन्याभावत्वं युज्यत एव । घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः । न चान्योन्याभावो धर्मिणोऽन्योऽस्ति । अतो घट एव पटाद्यन्योन्याभावः । एवं पटादयोऽपीति द्वितीयं शङ्कते यदि सर्वेऽपीति ।

अनु०-यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति

सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः ।

उत्तरमाह भावतेति ।

अनु०- भावता ।अभावाभावतैव स्यात्किन्नश्छिन्नं तदा भवेत्

तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नः अस्माकं किं छिन्नं भवेत् । न

किमपि । कथम् । यतः अभावाभावता भावता एव स्यात् । इदमुक्तं भवति । सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् । अथवाऽन्योन्याभावत्वम् । उत सामान्यम् । आद्ये प्रागुक्तदोषापरिहारः । द्वितीयतृतीययोः सिद्धसाधनम् । अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् । न च भावत्वाङ्गीकारविरोधः । सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः । अभावाभावश्च भाव एव । एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणादि्ध । आत्मनोऽपि तथात्वादिति ।

१०७सु०- अभावाभावता भावतैव स्यादित्युक्तम् । तदुपपादयितुं भावाभावस्वरूपं तावदाह भावत्वमिति ।

अनु०-भावत्वं विधिरूपत्वं निषेधत्वमभावता

भावत्वं नाम विधिरूपत्वम् अभावत्वं नाम निषेधत्वमिति योजना । शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः । अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् । ततः किमित्यत आह निषेधस्येति ।

अनु०-निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत्

यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् । स च विधिरेव भवेत् । दर्शनबलात् । दृष्टो हि नेयङुवङ्स्थानावि ति निषेधस्यास्त्रीति निषेधो विधिः । वक्ष्यते चैतत् । विधिश्च भाव एवेत्युक्तम् । तस्मादभावाभावता भावतैवेति युक्तम् ।

१०८सु०- एवं तर्हि द्रव्यादयो भावाः प्रागभावादयोऽभावा इत्यन्यत्रोक्तनियमो न स्यात् । घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति प्रथमेति ।

अनु०-प्रथमप्रतिपत्तिस्तु भावाभावनियामिका

कृतव्याख्यानमेतत् ।

१०९सु०- एवं जिनस्य स्खलितवाक्तवप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् । युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोति न चेति ।

अनु०-न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित्

आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात् पटवदिति शेषः । अस्य व्याप्तिमुपपादयति क्वचिदिति । नेति वर्तते । मोक्षदमिति च । तच्च भावप्रधानम् । न हि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् । येन व्याप्तिर्न स्यात् । कर्मणस्तथात्वं निराकरिष्यते । ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव ।

आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति अस्वातन्त्र्यादिति ।

अनु०-अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि

ज्ञात आत्माऽपि सुखदो मोक्षदो न भवति । कुतः पुद्गलस्यात्मनोऽस्वातन्त्र्यात् । हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति । अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते । आत्मनः सुखमात्रदानं नोपपद्यते । किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् ।

११०सु०- पक्षद्वयं हेत्वन्तरेण निराकरोति न हीति ।

अनु०-न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते

आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् । जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् । ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् । तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् । यद्वाऽऽत्मा दुःखं निवर्तयितुमशक्तः । दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तने शक्तो यथा दरिद्रो दारिद्र्यनिवर्तने इति तात्पर्यार्थः । दुःखित्वोक्तयाऽस्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति ।

१११सु०- स्यादेतत् । नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति । किन्तु प्रकाशोऽन्धकारमिव विरोधाद् दुःखं निवर्तयति । तत्र किमचैतन्यं करिष्यति । स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्क्याह यदीति ।

अनु०-यदि पुद्गलविज्ञानाद् अदुःखी स्यात् कथञ्चन । देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा

कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन । तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव । एतदुक्तं भवति । प्रकाशः खल्वन्धकारविरोधित्वात् तन्निवर्तयन् उत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन । विलम्बे विरोधस्यैवानिर्वाहात् । तथाऽत्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात् तन्निवर्त्य आत्मानं मुक्तं कुर्यात् । तर्हि जिनादयः तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः । न चैवम् । देहादिमत्त्वेनोपलम्भात् । तथाविधानां च दुःखादेरवर्जनादिति । इष्टापत्तिनिरासाय सदेत्याद्युक्तम् ।

अयमत्र प्रयोगः । दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात् सम्मतवदिति ।

किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् । ज्ञानानां क्षणिकत्वदर्शनात् । तथा च यदनन्तरं मोक्षोऽभिलष्यते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात् प्रथमादिज्ञानवत् । अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति ।

११२सु०- ननु भवदि्भरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते । तत्रापि समानमिदं दूषणमित्यत आह ईशेति ।

अनु०-ईशक्ऌप्त्यनुसारेण स्यात्कालादीशवादिनः

ईशवादिनः मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः

स्यात् ।

अयमभिसन्धिः । न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे । किन्नाम प्रसन्नः परमेश्वर एव । ज्ञानं तु प्रसादत्वान्मोक्षसाधनमिति गीयते । स च चेतनः कामपि कालकल्पनां करोति । अस्मिन्समयेऽमुं मुक्तं करिष्यामीति । तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः । यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति । आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति । स तदनुसारेण तस्माद्गां लभते तथैवेति ।

११३सु०- एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे कर्मेति ।

अनु०-कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित्

कर्मणो हेतुत्वं कर्महेतुत्वं मोक्षं प्रति । यद्वा कर्महेतुत्वमिति बहुव्रीहिः । मोक्षस्येति

शेषः । तुशब्दोऽवधारणे । नैवेति सम्बन्धः । निश्चैतन्यात् कर्मणः । विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात् पटवदित्यर्थः । व्याप्तिमुपपादयति न हीति । नेत्युभयत्र सम्बध्यते । न हि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् । येनात्र व्याप्तिर्न स्यादित्यर्थः ।

११४सु०- नन्वचेतनत्वेऽपि विशिष्टं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् । किम् आमोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि । नाद्यः । क्रियाणामनेकत्वदर्शनात् । प्रतिक्रियं कर्मोत्पत्तेः । एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽऽपद्येत । अभ्युपगम्यैकत्वं बाधकमाह अशेषेति ।

अनु०-अशेषदुःखविलये नेदानीं कारणं यथा । तथोत्तरं न चैव स्यात्

यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्म अशेषदुःखविलये मोक्षस्य कारणं न भवति । तथोत्तरकालं विवक्षितकालेऽपि मोक्षकारणं न स्यात् । कर्मत्वादिति शेषः । एकस्यापि कर्मणः कालभेदेन भेदात् पक्षसपक्षत्वं युज्यते । विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति ।

द्वितायेऽपि बाधकं प्रमाणमाह अशेषेति । अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते । उत्तरमित्यन्तिमा । अन्यत् समानम् । न चान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति । तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् । न च पूर्वसहकृतस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् । इयत्ताभावेनानियतकारणकत्वापत्तेः । न हि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वाऽपव्रज्यत इति नियमः प्रमाणवान् । न च जैनैरिष्यते । जिनानां विषमकालत्वाभ्युपगमात् ।

११५सु०- आभासोद्धारं करोति दृष्टीति ।

अनु०- दृष्टिपूर्वाऽनुमा यतः

यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती । ततः अनुमा न त्वाभास इत्यर्थः ।

यदुक्तमीशक्ऌप्त्यनुसारेणेति तदसत् । ज्ञानादीश्वरप्रसादः ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न । श्रुतेः सद्भावात् । तत्प्रामाण्यस्य साधितत्वात् ।

आभासानुद्धरन्नेव (वा)चानुमानमप्याह दृष्टीति ।

अनु०-शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।तयैव बन्धहानिः स्यादिति किन्नाम दूषणम्

शक्तस्यान्यस्य विज्ञानं विशिष्टज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् । तत्प्रीतिजनकं इति यदि अनुमीयते । यदि च तया तत्प्रीत्या एव बन्धहानिः स्यादिति अनुमीयते । तदा किन्नाम दूषणम् । न किमपि । कुतः । यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः । अर्थमात्रमिदमुक्तम् ।

एषा तु प्रयोगप्रक्रिया । संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात् राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् । यश्चासौ पुरुषः स एवेश्वरः । विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् । कर्मादिना भवन्नीश्वरप्रसादोऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः ।

यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानं तत्प्रीतिजनकं गुणोत्कर्षादिज्ञानत्वात् सम्मतवत् । न चेश्वरासिद्ध्या दोषः । प्रथमानुमानेन तस्य सिद्धत्वात् । तदिदमुक्तं शक्तस्यान्यस्येति ।

११६सु०- नन्तेतद्विपरीतमपि मयाऽनुमीयते । ततः सात्प्रतिपक्षतेति चेत् । किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति । आद्ये दोषमाह स्वज्ञानादिति ।

अनु०-स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित्

दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् । तथा च व्याप्त्यभाव इति भावः । द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः । परप्रसादनिरपेक्षैव काचिद् बन्धहानिः दृश्यते । तत्र भवतामपि व्यभिचार इति चेन्न । पक्षतुल्यत्वात् सर्वाऽप्यनिष्टनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः ।

११७सु०- यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् । कर्मणः प्रतिबन्धकस्य सद्भावात् । न हि प्रतिबन्धकवशात् कार्यमकुर्वाणो हेतुरहेतुर्भवति । अतिप्रसङ्गात् । अनेकविधं खलु कर्म । तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् । तथाप्यायुरादिकारणमस्त्येवेति चेत् ।

स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाक्षने इत्येषोऽर्थः प्रमितो भवेत् । न चैवम् । एवमेव कल्पनेऽतिप्रसङ्ग इत्याशयवान् धर्मादिस्वरूपे तावत्

प्रमाणं नास्तीत्याह अहिंसायाश्चेति ।

अनु०-अहिंसायाश्च धर्मत्वं केन मानेन गम्यते

च शब्दो ज्ञानसङ्ग्रहार्थः । यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः । ज्ञानविशेषस्य चोपलक्षणम् । जिनवाक्येेनावगम्यत इति चेन्न । तत्प्रामाण्यसाधकाभावस्योक्तत्वात् ।

११८सु०- सत्प्रतिपक्षं च जिनवाक्यमित्याह हिंसाया एवेति ।

अनु०-हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम्

अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् । जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्युक्ते किमुत्तरं स्यान्न किमपि । तथा च न धर्मनिश्चयः स्यात् । भिन्नकाचार्यो नाप्त इति चेत् । जिनोऽपि कथमाप्तः । (सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् । भिन्नकाचार्येऽपि तुल्यमेतत् । अप्रामाणिकास्तत्र ते गुणा इति चेत् । जिनेऽपि किं प्रमाणसिद्धाः । जिनदर्शिनां वचनेन तेषां तत्र सिदि्धरिति चेन्न । समानमन्यत्रापि । भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् । जिनदर्शिनोऽपि कुतो न तथेति ।

११८असु०- इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति ।

अनु०-धर्मस्य सुखहेतुत्वमपि केनावगम्यते

सुखं मोक्षः । जिनवाक्येनावसीयत इति वदतः पूर्ववत् सत्प्रतिपक्षतेत्याह हत्याया इति ।

अनु०-हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते

मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः । हनस्त चेत्यत्र सुपीति नानुवर्तते । ब्रह्महत्यादयस्तु षष्ठीसमासाः । अतो हत्येति साधुः । सन्ति खल्वक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती त्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति ।

११९सु०- अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति न चेति ।

अनु०-न च शून्यपरिज्ञानाच्छून्यभावनयाऽपि च ।मोक्षः कथं च न भवेत्

शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानात् । तथैव शून्यभावया शून्यध्यानेन । अपिचावन्योन्यसमुच्चये । मोक्षो न भवेदिति सम्बन्धः । कथं च नेत्यनेनेदमाचष्टे । शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात् तयैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति । यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन । नाद्यः । अचेतनत्वात् पटवत् । न द्वितीयः । शून्यस्य प्रसादगुणानङ्गीकारात् । अन्यथा शून्यत्वव्याघातादिति ।

१२०सु०- स्यादेतत् । बन्धस्तावत्संवृतिनामकाज्ञाननिमित्तोऽध्यासः । संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते । ततस्तन्मूलो बन्धाध्यासोऽपीति किमचेतनत्वादिकं करिष्यति । न च एवम्भावनावैयर्थ्यम् । असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति । मैवम् । बन्धस्याध्यस्तताया निरस्तत्वात् । अङ्गीकृत्य दोषमाह यदीति ।

अनु०- यदीदानीं कथं न सः ।

शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते । शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् । तदैव भवितव्यमित्याशयः । न हि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बोऽस्ति ।

अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण । असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् । ते किं संवृतिकार्ये न वा । द्वितीये शून्यवदनिवृत्तिरेव । आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः । अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् । संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् । पश्चादपि कथं निवृत्तिः ।

१२१सु०- ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथाऽस्मन्मतेऽपि किं

न स्यादित्यतो वैषम्यमाह परेति ।

अनु०-परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विलम्बः किं कृतो भवेत्

अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते । लोके तथा दर्शनात् । मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वात् बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किं निबन्धनो भवेत् । प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकार्यत्वेन ज्ञानविरोधित्वात् । न हि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बोऽस्ति ।

१२२सु०- परप्रसादानपेक्षेष्वपि कार्येषु विलम्बोऽस्ति । त्रिवृन्मूलाभ्यवहरणादौ कृतेऽपि विरेचनादेर्विलम्बदर्शनात् । तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति । तत्राह अन्यत्रापीति ।

अनु०-अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः

मोक्षादन्यत्र । एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः । कुतोऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आह अन्यथेति ।

अनु०-अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते

ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत् तदा तस्य सद्भावात् कार्यं विरेकादिकं कस्मान्नोपजायते । उपजायेतैव । कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते । न (चादृष्टवै) च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या ।

न च धर्मवैकल्यं कल्पयितुं युक्तम् । उत्तरकालमपि कार्यानुदयप्रसङ्गात् । न हि तन्मध्ये कश्चिद्धर्मोऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् । केयं वृत्तिर्नाम । किं कार्यकरणमुत सहकारिसाहित्यम् । नाद्यः । करणमेव कुतो नास्तीति विचार्यमाणत्वात् । द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते । औषधस्य शरीराशयव्याप्त्यभावात् कार्यानुदय इति चेन्न । तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति ।

१२३सु०- किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वाऽन्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् । न तु बौद्धेनेत्याशयवानाह कारणे सतीति ।

अनु०-कारणे सति कार्यस्य भावः सुनियतोऽस्य हि

अस्य बौद्धस्य मते कारणे सति कार्यस्य उत्पादः सुनियतः न त्वन्येषामिवाप्रतिबद्धकारणसामग्रयां सत्याम् । समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः । अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् ।

१२४सु०- विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति ।

अनु०-विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् । विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित्

द्वितैव द्वैतम् । स्वार्थिकोऽण् । न द्वैतमद्वैतम् । विज्ञानस्याद्वैतं विज्ञानाद्वैतम् । विज्ञानमेकमेव तत्त्वं न ततोऽन्यदस्तीति वेदनात् । विज्ञानभावनात् विज्ञानाद्वैतध्यानात् । आद्यश्चशब्दो वादिसमुच्चये । द्वितीयः साधनसमुच्चये । एव शब्दो नैव घटत इत्याद्यः सम्बध्यते । द्वितीयस्तु साधननियमार्थः । विज्ञानवादिन इति तेनै(ताभ्या)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः । सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः ।

यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना । कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, न तु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।

१२५सु०- वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे अन्तरिति ।

अनु०-अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् । भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते

शरीरान्तःस्थितस्य ज्ञानस्य । उपलक्षणमेतत् । विज्ञानवेदनासंज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् । उक्तमार्गेण क्षणिकत्वेन ।

न मुच्यते पुरुषः । कुतोऽत्रार्थे मानाभावात् । अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्ताः ।

१२६सु०- एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्ख्योक्तं मोक्षसाधनं तावदनुवदति प्रकृतेरिति ।

अनु०-प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् । इति साङ्ख्याः

प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्ख्याः प्राहुः । दूषयति न चेति ।

अनु०-न चैतस्मिन्मानम्

एतस्मिंश्चार्थे मानं नास्ति । कथं नास्ति । य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परमि त्याद्यागमानां सत्त्वादित्यत उक्तम् ईशाप्रसादत इति ।

अनु०-ईशाप्रसादतः

ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः । अयमभिसन्धिः । भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् । किन्तु भगवत्प्रसादसाधनत्वेन । प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते । विरक्तस्य भक्तयादिद्वारा भगवत्प्रसाद इति । तदर्थानि चैतानि वाक्यानि । निरीश्वरेण तु साङ्ख्येन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते । न च तस्मिन्विशेषे प्रमाणमस्तीति ।

नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत् प्रतिपादयन्ति । न च पारम्पर्यकल्पने कारणमस्ति । अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह श्रुतय इति ।

अनु०-श्रुतयः स्मृतयश्चैव यदेशस्य प्रसादतः ।वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत्

यस्य प्रसादादित्याद्याः श्रुतयः । अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः । एव शब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः । यदा यस्मात् । नियमात् साधनान्तरव्यवच्छेदेन । नापरेण । स एवैक इति वचनात् । तं प्रसादम् । भवेत् मुक्तिः । बलवद्बाधकसद्भावात् लाङ्गलेन वयं जीवाम इतिवत् पारम्पर्यपरत्वमेव तेषां वाक्यानां युक्तमिति भावः ।

१२७सु०- वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति कणादेति ।

अनु०-कणादयोगाक्षपादा अपि

योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते । अनुपपन्नभाषिण इति शेषः । न केवलं साङ्ख्याद्या इत्यपेरर्थः ।

१२८सु०- नन्वेते त्रयोऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते । तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् । तथाऽपि न साक्षात् । किन्तु धर्मद्वारैव । अन्यथा यतोऽभ्युदयनिःश्रेयससिदि्धः स धर्म इति सूत्रविरोधात् ।

न च धर्मोऽपि साक्षान्मोक्षहेतुः । अपि त्वीश्वरप्रसादसहकृत एव । यथोक्तम् । तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति । स्पष्टं च तुष्टेर्मोचयतो बद्धानतुष्टेर्बध्नतः पुनः । कारागारमिदं विश्वं यस्य वन्दे तमीश्वरमि ति ।

१२९सु०- पतञ्जलिस्तु स्पष्टमाचष्टे तपःस्वाध्यायेश्वरप्रणिधानादिक्रियायोग इत्यादि ।

१३०सु०- अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याह । तथाऽपि प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव । आत्मशरीरेन्द्रियार्थबुदि्धमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् । आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् । किन्नाम परमेश्वरप्रसादोपेतमेव । स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते इति सम्प्रदायविद्वचनात् ।

अथ कथमनुपपन्नभाषिण इत्यत आह ईशस्येति ।

अनु०- ईशस्य प्रसादतः । मुक्तिं ब्रुवाणा अप्याहुः

ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतोऽतोऽनुपपन्नभाषिण इत्यर्थः ।

१३१सु०- तथा हि । यद्यपि वैशेषिकैरीश्वरप्रसादोऽङ्गीकृतस्तथाऽपि धर्मसहकारित्वेनैव । ईश्वरचोदनाभिव्यक्तादिति वचनात् ।

एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह ।

नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः । द्वितीयसूत्रे तथैव व्युत्पादितत्वात् ।

श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् । भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते । सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृगि त्याद्याः । अतः कथं नानुपपन्नवादिन इति ।

१३२सु०- इतश्चानुपपन्नभाषिण इत्याह भोगादेव चेति ।

अनु०-भोगादेव च कर्मणाम् । क्षयं प्राहुः

वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते । किन्तु समाधिमहिम्नाऽपरिमितदेहव्यूहनिर्माणोनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुरतोऽप्यनुपपन्नभाषिण इत्यर्थः ।

नन्वेतदसङ्गतम् । मोक्षसाधनविचारस्य प्रस्तुतत्वादिति । मैवम् । विद्याकामकर्मादिलक्षणो हि बन्धः । अतस्तन्निवृत्तिर्मोक्ष इति कथं कर्मक्षयो न मोक्षः । वक्ष्यति च । कर्मक्षयस्तथोत्क्रान्तिरित्यादि । अतो मोक्षसाधनविषयैवेयं चिन्तेति ।

१३४सु०- तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतोऽस्यार्थस्याप्रामाणिकत्वादित्याह कुतश्चेति ।

अनु०-कुतश्चैतत्प्रसन्ने जगदीश्वरे

ज्ञानिनोऽपि कर्मणां फलभोगेनैव क्षय इत्येतत् कुत एव प्रमाणात् प्रतिपत्तव्यम् ।

न कुतश्चित् । अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसंज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह प्रसन्न इति । कुत एतदिति वर्तते । ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः । भगवानपि कथमदत्तफलकर्मक्षयस्येष्ट इति न शङ्कनीयम् । तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति ।

१३५सु०- सम्भावितमेवैतन्न तु प्रमितम् । तत्कथमन्यथैवोपपत्तिरित्यत आह भिद्यत इति ।

अनु०-भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे । इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः

हृदयग्रन्थिः अविद्या । परा अप्यवरा यस्मात् स परावरः । आत्मन्याततगुणे जगदी श्वरे । आद्यं कठश्रुतिवचनम् । द्वितीयं भागवतवचनम् । आदि पदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते । अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति ।

१३६सु०- नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते न तु दर्शनेनेति । ततो भोगेनेति व्याख्यानेऽपि न विरोध इति चेन्न । तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् । दृष्ट एवेत्येवशब्दविरोधाच्च । भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च ।

१३७सु०- अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते । बहुतरत्वाद्विषमविपाकसमयत्वाच्च । ज्ञानी तु समाधिसामर्थ्यात् कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत् कुत एषा कल्पना । उक्तार्थापत्त्यैवेति चेन्न । अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः । तत्स्थितौ च वचनानाम् अन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः ।

वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न । अवधारणादिना निरवकाशस्योक्तत्वात् । भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिरि त्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च । अत एव नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी त्यादिसामान्यवचनमज्ञानिविषयम् । ज्ञानिनामपि प्रारब्धकर्मविषयम् ।

आत्मनो वै शरीराणि बहूनि मनुजाधिप । प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत् । भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिवे त्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् । विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् ।

अत एव ज्ञानादेवाशेषकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलब्धेरि त्यनवकाशं चोद्यम् ।

१३८सु०- विमतं कर्म फलभोगविनाश्यं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् । प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः । कृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं नाम । पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् । तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः ।

पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेत् । तथाऽपि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः । क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेन्न । ज्ञानस्यैव क्षयहेतोः सत्त्वेनासिद्धेः । ज्ञानं न कर्मक्षयहेतुतया विहितमिति चेत् । तत्किं विधिरेव हेतुत्वं गमयति । तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् । आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् । समं प्रकृतेऽपि । न ह्यत्र कश्चिद्विरोधोऽस्तीत्युक्तम् । अलौकिकत्वं तूभयत्रापि समानम् ।

१३९सु०- किञ्चास्मिन्मते न कदाऽपि कर्मक्षयः । भोगकालेऽपि पुनः करणात् । न करोतीति चासम्भावितम् । न हि कश्चित्क्षणमपी त्युक्तत्वात् । क्रियमाणाऽपि प्रवृत्तिर्नादृष्टजननीति चेन्न । श्रुतिस्मृतिविरोधात् । ज्ञानिनां ज्ञानसामर्थ्यात् तथेत्यन्यविषयं श्रुत्यादिकम् । तद्यथा पुष्करपलाशे , ब्रह्मण्याधाय कर्माणी त्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् । प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते । रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् । यथोक्तम् ।

न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्ये ति । मैवम् । प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् ।

१४०सु०- पाशुपताद्युक्तं मोक्षसाधनं निराकरोति न चेति ।

अनु०-न च पाशुपताद्युक्तशिवादीनामनुग्रहात्

पाशुपत शब्देन चतुर्विधा अपि गृह्यन्ते । आदि पदेन स्कन्दसौरादयः । द्वितीयेनादिपदेन स्कन्दादयः । अनुग्रहात् मोक्षो भवतीति शेषः ।

ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् । असामर्थ्येन समासानुपपत्तेः । तथा सति पाशुपताद्युक्तादिति स्यात् । अत एव मोक्षस्य विशेषणम् । तथा सति पाशुपताद्युक्त इति भवेत् । शिवादिविशेषणत्वे तु वैयर्थ्यमिति ।

उच्यते । अस्तु तावदनुग्रहविशेषणम् । तत्र शिवादीनामनुग्रह इति समास एव । षष्ठ्या आक्रोश इति षष्ठ्या अलुक् । ज्ञात्वा शिवं शान्तिमत्यन्तमेती त्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् । यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव । यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति । मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च ।

उत्तरेषां प्रसादेन नीचानां नान्यथा भवेदि त्यादिवाक्यविरोधपरिहाराय पाशुताद्युक्तेत्यनुग्रहो विशेषितः । अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः । न तु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति ।

यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् । सुपां सुलुगिति पञ्चम्या लुक् ।

यद्वा प्रथमाया लुक् । मोक्षस्य चेदं विशेषणम् । तत्र वादिनिर्देशप्रयोजनं व्यक्तमेव । यद्वाऽस्तु यथाश्रुतं शिवादीनामेव । ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव । अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः ।

१४१सु०- कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह नान्य इति ।

अनु०-नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ

तमेवमि ति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकृतपुरुषज्ञानतोऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति ।

१४२सु०- ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुः तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रोऽयमुदाहृतः । पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते । नान्य इति च न विरुद्धम् । साधनवत् साधनस्य परित्यागेऽपि फलानुदयादिति चेत् । किमेतत्पुरुषशब्दस्य विष्णौ शक्तयभावात् कल्प्यते । तात्पर्यज्ञापकाभावाद्वा बाधकसद्भावाद्वा ।

नाद्यः । नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह सर्व इति ।

अनु०-सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ

न केवलं पुरुषज्ञानतोऽमृतत्वमुक्तम् । किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः । विद्युतः पुरुषादित्युक्तोऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तम् अब्धिशय इति । अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन् पुरुषे अब्धिशयत्वस्य श्रवणात् । महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वागमात् ।

१४३सु०- इतश्चायं नारायणो न पशुरित्याह न तस्येति ।

अनु०-न तस्येशे कश्चन तस्य नाम महद्यशः । इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ । विश्वतः परमां नित्यं विश्वं नारायणं हरिम् । इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः

तस्य पुरुषस्य । ईशे ईष्टे । व्यत्ययो बहुलमिति वचनात् । अधीगर्थदयेषां कर्मणीति षष्ठी । महदिति यशश्चेति तस्य पुरुषस्य नाम । श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः । परमश्चासावश्चेति परमास्तं परमाम् । लिङ्गव्यत्ययेन परममिति वा । विश्वं पूर्णम् । नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्तया समोऽपि विनिवारितः । न हि सर्वाधिकस्य समो युज्यते ।

१४४सु०- ततः किमित्यत आह समेति ।

अनु०-समाधिकस्य राहित्यान्नोपचारपुमानसौ

समाधिकस्येति द्वन्द्वैक्यवद्भावः । असौ नारायणानुवाकोक्तः । उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः । नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् ।

१४५सु०- अधिपतिराहित्यसर्वाधिकत्वयोस्ततोऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयोऽयं पुरुषशब्दः । किन्तु नारायणादिनाम्नाऽब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु । न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्ध्यति । प्रयोगस्यामुख्यया वृत्त्याऽप्युपपत्तेरित्यत आह समेति । असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव । कुतः । मुख्यासम्भवे ह्युपचारः कल्प्यते । पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् । तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति ।

१४६सु०- अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथाऽपि पुरुषसूक्ते ज्ञापकाभावात् तत्परत्वं नास्तीति द्वितीयं निराकरोति पुरुष एवेति ।

अनु०-पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ।मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः

यद्भूतं यञ्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव । पुरुषाधीनमेव । यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति । अमुक्ताधिपतिरिति यावत् । तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः । संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात् तदा प्रेक्षावान्न मोचयेत् । अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह । तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते ।

१४७सु०- ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र स(र्वत्व)र्वात्मकत्वमेवोदितम् । तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राह अमृतेति ।

अनु०-अमृतेशानवचनात् सर्वस्येशानतोदिता

ईशानेति भावप्रधानो निर्देशः । उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात् पूर्वार्धेऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या । न तु सर्वत्वम् । न हि कोऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति । नापि युज्यते । अभिन्नस्य पश्चाद्भेदादर्शनात् ।

१४८सु०- हेत्वन्तरमाह यदीति ।

अनु०-यदि सर्वत्वमुदितमुतेश इति तद्वृथा

पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात् तत्तर्ह्युत्तरार्धेऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् । तत्कथमित्यत आह उतशब्द इति ।

अनु०-उतशब्दो वदेदेष हीशत्वस्य समुच्चयम्

उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् । अर्थान्तरस्यासम्भवात् । न च द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्ति । तस्मादुतशब्दो वृथैवेति ।

१४९सु०- युक्त्यन्तरमाह पुरुषेणैवेति ।

अनु०-पुरुषेणैवेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति

पुरुष एवेदं सर्वमि ति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः । व्याप्तं वशीकृतम् ।

एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् ।

१५०सु०- इतश्च सर्वेशत्वमेव पूर्वार्धार्थो न तु सर्वत्वमित्याह एतावानिति ।

अनु०-एतावानस्य महिमेति महिम्नो वचो हि तत्

इति वचनादिति शेषः । अस्य पुरुषस्यैतावान् महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदम् इत्येतत् पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते । ततश्च महिमप्रतिपादकं यथा स्यात् तथा व्याख्येयम् । न च सर्वात्मत्वं महिमा । अपकर्षहेतुत्वात् । किन्तु सर्वाधिपत्यमेव । न च तदतिरिक्त(क्तं)महिम्नो वचनम् । सङ्कोचे कारणाभावात् ।

१५१सु०- इतोऽप्येतदेवमित्याह सोऽमृतस्येति ।

अनु०-सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च । उतामृतस्येश इति विधत्ते मुक्तिगेशताम्

इति भागवतवचनादिति शेषः । अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः । विधत्ते श्रुतिः । अयमर्थः । उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रतिजानीते श्रुतिरिति ज्ञायते । पुरुषसूक्तव्याख्यानप्रसङ्गे सोऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् । अत एव अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशान इति व्याख्यानमयुक्तम् । भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् । देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् । अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् । अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् । सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्व्याख्यान एव युज्यते । पूर्वार्धेऽमुक्ताधिपत्यं विहितम् । उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति ।

परकयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।

१५२सु०- एतेन पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् । न हि विष्णोः सर्वात्मकत्वं भवदि्भरप्यभ्युपगम्यते । पशोस्तु देहायोगवशाद् भूतत्वादिकं युज्यत इति तृतीयपक्षोऽपि निरस्तः ।

१५३सु०- उपसंहरति अत इति ।

अनु०-अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः

परिज्ञानात् परिज्ञानोदितात्प्रसादात् । अन्यतः शिवादीनामनुग्रहात् ।

१५४सु०- पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते । तदप्यनुपपन्नमित्याह तद्यथेति ।

अनु०-तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत्

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्त इति श्रुतेः । इष्टकेषीकामालानां चिततूलभारिष्वि ति ह्रस्वता श्रुतित्वान्न भवति । प्रोतं प्रविष्टम् । प्रदूयेत परितप्तं भवेद् भस्मीभवेत् । इति तन्निदर्शनं यथा । अस्य ज्ञानिनः । प्रदूयन्ते विनश्यन्तीत्यर्थः । चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः । तत एव विष्णुपरिज्ञानादेव ।

१५५सु०- नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते न तु ज्ञानेन विनाश इति विवक्षितोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति ।

अनु०-यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा

यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते, तथाऽपि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात् किं कल्पनीयमिति न ज्ञायते अतो वाक्यान्तरं पठति सर्वेति

अनु०-सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते

धर्मानवैष्णवान्काम्यार्थांश्च । शरणप्राप्तिश्च सर्वोत्तमत्वविज्ञानपूर्वमि त्यादिनाऽन्यत्र भगवत्पादैरेव व्याख्याता । ततः प्रसन्नोऽहम् । मा शुचः । न शोचिष्यसि मुक्तो भविष्यसि । आदिपदेन गतसङ्गस्य मुक्तस्ये त्यादेः सङ्ग्रहः । भगवद्वाक्यैश्चेति सम्बन्धः । तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।

१५६सु०- भाट्टानां मोक्षसाधनमनुवदति नित्येति ।

अनु०-नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।मुच्यते संसृतेश्च

नित्यं नाम यदकरणे प्रत्यवायः, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते । यथा सन्ध्यावन्दनादि । नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते । यथा पितृश्राद्धादि । अन्यत् काम्यं निषिद्धं च । तत्र यत्करणे फलकरणे न प्रत्यवायः । कामनानिमित्तं तत्काम्यम् । यथा ज्योतिष्टोमादि । प्रतिषिद्धं निषिद्धम् । यथा ब्रह्महत्यादि । उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः ।

अयमाशयः । सुखदुःखतत्कारणरूपो हि संसारः । स च कर्मनिमित्त एव । नित्यनैमित्तिकयोरकरणे त्वधर्मप्रचयेन दुःखतत्साधनावाप्तिरस्य भवति । निषिद्धकरणेऽपि तथा । काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते । मुमुक्षुस्तु नित्यं नैमित्तिकं च नियमेन करोति । परित्यजति च निषिद्धमिति न दुरितोपचयः । काम्यमपि परित्यजतीति न धर्मोपचयः ।

एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति । यथोक्तम् । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया इति । न च पञ्चमी कर्मविधाऽस्ति । यत्करणेऽकरणे वा धर्माधर्मोदयः स्यादिति ।

१५७सु०- निराकरोति एतदपीति ।

अनु०- एतदप्येतेन निराकृतम्

एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन । अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव । चरन्ति देव विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्या इत्यादिश्रुतेः ।

नापि निषिद्धाकरणं सम्भावितम् । प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् । प्रायश्चित्तात् तत्क्षय इति चेन्न । प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् । पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव । अनन्तत्वादित्यलम् ।

१५८सु०- नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आह विद्यैवेति ।

अनु०-विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट्

विद्यैव तु निर्धारणादि ति सूत्रेण । स्वयमेव न त्वर्थतः । वाजसनेयिनोऽधीयते । षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चित इत्यादि । तत्र संशयः । किमेतेऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति । क्रियामयस्याग्नेः प्रकरणात् तद्विषय एवायमुपदेश इति प्राप्तेऽभिधीयते । विद्यात्मका एवैतेऽग्नयो न क्रियाशेषभूताः । ते हैते विद्याचित एवेति निर्धारणात् इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति । विफलत्वादस्याश्चिन्तायाः । पक्षद्वयेऽप्यभ्युदय एव ह्यस्य प्रयोजनम् ।

यस्तु नित्यानित्यवस्तुविवेकाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति ।

१५९सु०- एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति विनेति ।

अनु०-विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः । नान्यः पन्था इति ह्येव निवारयति सादरम्

संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति । आनन्दवृदि्धस्तु कर्मसापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः । यद्वक्ष्यति सहकारित्वेन चेति । अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्तवा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् । इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति । तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्तवा पुनर्नान्यः पन्था इति वचनादादरोऽवगम्यते । न च समुच्चयनियमे किमपि प्रमाणमस्ति । अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् । यथाऽन्नं मधुसंयुक्तं मधु चान्नेन संयुक्तम् । एवं तपश्च विद्या च संयुक्ते भेषजं महदि त्यादीनां परोक्षज्ञानविषयत्वात् । अपरोक्षज्ञानविषयत्वेऽप्यानन्दवृद्ध्यर्थत्वात् ।

१६०सु०- मायावादिनो वदन्ति । द्विविधो मोक्षः परापरभेदात् । तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः । परस्त्वविद्याऽस्तमये सत्यद्वैतब्रह्मावस्थानरूपः । प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् । परस्य त्वेकत्वज्ञानमिति । तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति ।

अनु०-अन्यथोपासनमपि तमेवमिति वादिनी ।निवारयत्यादरेण

एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति । न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् । तमित्यनेन यथार्थज्ञानं लब्धमेव । सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः । तथाऽपि यदेवमिति वदति तदाऽऽदरसूचनार्थमिति । परममोक्षविषयेयं श्रुतिरस्तु । अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति ।

अनु०-न प्रतीक इति प्रभुः

न प्रतीके न हि सः इति सूत्रकारोऽन्यथोपासनस्य सर्वथाऽप्यकर्तव्यत्वं वक्ष्यति । अतो न तत्पुरुषार्थलेशहेतुः ।

१६१सु०- सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह अन्धमिति ।

अनु०-अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत्

पुरुषार्थसाधनमिति शेषः । श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता ।

१६१असु०- इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति न चेति ।

अनु०-न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते

चोऽवधारणे । एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते । कुतः । उक्तन्यायेन तमेवं विद्वानि ति सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय नान्यः पन्था इति साधनान्तराभावस्योक्तत्वात् । पुरुष एवेदं सर्वमि त्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न । उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् । तद्यो यो देवानां प्रत्यबुध्यत इत्यादिश्रुतयस्तु तद्गुणसारत्वादि त्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति ।

१६२सु०- किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादि त्युक्तन्यायेन सिद्धम् । मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् ।

१६३सु०- अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् । किन्तु अविद्याविरोधित्वेन । विरोधिनाऽद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति । तथा च साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति ।

अङ्गीक्रियते च जीवन्मुक्तिः । ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न । संस्कारस्याविद्याकार्यत्वेऽवस्थानानुपपत्तेः । न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् । अन्यथा सत्यत्वप्रसङ्गः । ज्ञानोदयेऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात् सर्वदा(ऽनिवृ)नुवृत्तौ न कदाऽपि द्वैतदर्शननिवृत्तिः स्यात् । असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव ।

एतेन प्रारब्धकर्मवशाद् द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् ।

ज्ञानेन निवृत्ताऽप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते । तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न । आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् । एतेन अविद्यालेशावस्थानपक्षोऽपि प्रतिक्षिप्तः । लेशश्च पटस्य तन्तुरिवावयवो वा स्यात् प्रदेशो वा धर्मो वा । नाद्यः । अकार्यत्वादविद्यायाः । न द्वितीयः । प्रदेशानङ्गीकारात् । प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च । न तृतीयः । धर्मिणोऽपगमे धर्मानपगमानुपपत्तेः ।

१६४सु०- अथ मतम् । संसारमूलकारणभूताऽविद्या यद्यप्येकैव । तथाऽपि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजनकाभासहेतुतयाऽनुवर्तते । प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति । तदयुक्तम् । अस्याः कल्पनायाः निष्प्रमाणकत्वात् ।

इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न । अत्र पारमेश्वरशक्तिप्रतिपादनात् । ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् । तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरि ति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न तु अनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ।

किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा । आद्ये कथं

न निवर्तते । द्वितीये ज्ञानेन न निवर्तेत । तथा च सत्यः स्यात् । कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् । अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।

१६५सु०- अथ मन्यसे । ज्ञानमेवाविद्यालेशस्य निवर्तकम् । किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति । फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति । तदप्ययुक्तम् । निरुपादानकर्मावस्थानानुपपत्तेः । स एवाविद्यालेशः कर्मोपादानमिति चेन्न । कर्मावस्थानेऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः । उत्पत्त्यादाविवावस्थानेऽपि तस्य दोषत्वात् ।

किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति । ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् । ज्ञप्तौ तु भवत्येव । जीवन्मुक्तयन्यथाऽनुपपत्त्यैवैषोऽर्थः कल्प्यत इति चेन्न । परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति ।

१६६सु०- अधिकरणार्थमुपसंहरति इति सर्वमिति ।

अनु०-इति सर्वं प्रतिज्ञाय सर्वैस्तर्कैः सदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः

नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् । किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवान् अप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव न तु सोऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति । युक्तमिति शेषः । स्वयोग्यत एव न तु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः । प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।

१६७सु०- स्वयोग्यत इत्युक्तम् । तामेव योग्यतां विवृणोति ब्रह्मेति ।

अनु०-ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ।

ब्रह्मैवेति सम्बन्धः । सर्वैः वेदोदितैः । च शब्दः क्रियाद्रव्यसमुच्चयार्थः । हरिमुपासीतेति वर्तते । वेदोक्तसमस्तगुणक्रियोपेततयाऽनन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः । चस्त्वर्थः । सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते । सकलवेदोक्तगुणोपेततयाऽनन्तरूपं हरिमुपास्ते । त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः । गुणसामान्यतः समस्तरूपाण्युपास्ते । गुणान् क्रियांश्च सङ्कोचयतीत्यर्थः । परे शक्रादयः । द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव ।

एतेन समान एवं चाभेदादि त्यधिकरणतात्पर्यमुक्तं भवति । विद्यैव तु निर्धारणात् इत्यतःपूर्वमेवेदमधिकरणम् । तत्कुतो व्यत्यासेन व्याख्यानम् ।

उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथा हि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।।

।। इति विद्याधिकरणम् ।।

न्यायसुधा

।। अथ यावदधिकाराधिकरणम् ।।

ब्र०सू०- ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।

१६८सु०- एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविशेषस्य कारणत्वानभिधानात् । मुक्तावित्युक्तया संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे अधिकारेति ।

अनु०-अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां

अधिकारो योग्यता । अत्र सामान्योक्तया मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह मोक्षे चेति ।

अनु०- मोक्षे चैव विशेषतः

च स्त्वर्थः । विशेषस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते । मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्तयादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।

१६९सु०- एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्-

ब्र०सू०- ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ।। इति ।

एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात् । अतो व्याख्याति नेति ।

अनु०-न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।आभासत्वात्परेषां तदवराणां च सर्वशः

तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः समस्तश इति । उत्तमेभ्य इत्यस्य विवरणम् आभासत्वादिति । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना । एतदेव विवृण्वन् दृष्टान्तं व्याख्याति यत इति ।

अनु०-यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन

गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।

१७०सु०- चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते । विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते । आधिकारिणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः । न तदैव मुक्तिः । तथा श्रुत्यादिषु दर्शनात् । सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदाऽपि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् । ब्रह्मविदां न मोक्षाभावरूपो विरोधः । कुतः । सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् । यद्यपि क्षीयन्ते चास्य कर्माणी ति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितस्तथाऽपि तस्य तावदेव चिरमिति विशेषवचनात् प्रारब्धकर्मणामवशेषो गम्यते । एतदुक्तं भवति । अप्रारब्धानि कर्माणि निवर्तन्ते । प्रारब्धस्य तु भोगेनैव क्षयः । अतस्तत्फलभूतेऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।

मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तोऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।

१७१सु०- तत्राद्यं मतं निराकरोति न चेति ।

अनु०-न च संसारिदेवानां कालेयत्तापरे इमे ।सूत्रे

संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह हीति ।

अनु०-ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।अनारब्धस्य भोगेन त्वितरे इति चोदितः

यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथ अनारब्धकार्ये एव तु पूर्वे तदवधेरि ति सूत्रेण, भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह पौनरुक्त्येनेति ।

अनु०-पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ।

एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात् प्रपञ्च्यप्रपञ्चनभावाद्वा न पौनरुक्तयमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तम् इति निश्चय इति ।।

।। इति यावदधिकाराधिकरणम् ।।

न्यायसुधा

।। अथ इयदामननाधिकरणम् ।।

ब्र०सू०- ।। ॐ इयदामननात् ॐ ।।

१७२सु०- येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति ।

अनु०-उषास्स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।उत्तरोत्तरतस्त्वेते गुणैस्सर्वैश्च मुक्तिगाः

उषा अश्विनोर्भार्या । स्वाहा अग्नेर्भार्या । पर्जन्यो मित्रश्च आदित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः ।

१७३सु०- अधिकसद्भावशङ्कानिरासायैतेषां समानान्तरावस्थितांश्चाह सूर्येत्यादिना ।

अनु०-सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ।सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।पर्जन्यवद्वारुणी च तथा संज्ञा च रोहिणी ।धार्मी च मित्रवत्त्वेव प्रावही परिकर्तिता ।मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ।भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ।कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ।वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।च्यवनोचथ्यवैन्याश्च शशिबिन्दुश्च हैहयः ।तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ।तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः

तथेति शेषः । सूर्यधर्मौ सोमसमानौ ।

मन्वादयः पञ्चानिरुद्धसमानाः ।

मनुरत्र स्वायम्भुवो विवक्षितः ।

तारा बृहस्पतिभार्या । चस्त्वर्थः ।

मित्रेण तुल्यं वर्तत इति मित्रवत् । शतरूपा स्वायम्भुवस्य पत्नी सोमवत् । सूर्यधर्मावित्यत्रैवेयं वक्तव्या । सत्यम् । पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात् पृथगुक्तिः ।

प्रसूतिर्दक्षपत्नी वह्निवत् । विराडनिरुद्धभार्या पर्जन्यवत् ।

वरुणस्येयं वारुणी । पुंयोगे तु वरुणानीति स्यात् । इन्द्रवरुणेति स्मरणात् ।

संज्ञा सूर्यभार्या ।

रोहिणी सोमभार्या । धर्मस्येयं धार्मी ।

वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।

प्रवहस्येयं प्रावही तु मित्रवदेव प्रकीर्तिता ।

अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।

एते चत्वारः परस्परं समा मित्रादधमाः । पर्जन्यादुत्तमा इत्यर्थः । भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।

ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये । परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः । तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वरुणादधमोऽग्नेरुत्तम इत्यर्थः । तथा च दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव । प्रायग्रहणेनेषन्न्यूनः ।

सुपर्णी गरुडभार्या ।

विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मरीच्याद्यैः समानः ।

वैवस्वतो वैवस्वतादवराः । तेऽश्विभ्यां पश्चात् पर्जन्यादुत्तमाः ।

च्यवनाद्याश्च तद्वत् । एकादशमनुसमानाः ।

अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति । मुक्तावपि विप्रत्वादेर्भावात् ।

अत्र च्यवनोचथ्यौ विप्रौ । अन्ये राजन्याः प्रियव्रतोऽपि तत् अवरमनुवदेव ।

तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।

पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।

तदन्ये उक्तेभ्योऽन्ये तु देवाः ततः शतान्तर्गतदेवताभ्योऽवराः । अवरमनुसमाना इत्यर्थः ।

१७४सु०- ननु महालक्ष्मीः प्राणादप्युत्तमाऽस्ति । तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह एतेभ्य इति ।

अनु०-एतेभ्योऽभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ।तत्समो नास्ति परमो हरिरेव न चापरः ।संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।तदेतदखिलं

यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका । तयाऽपि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते । तस्याः समो नास्तीति स्वरूपकथनम् ।

एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।

परमो हरिरेव न चापर इत्यनेन व्यतिहारो विशिंषन्ति हीतरवत् सैव हि सत्यादयः इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।

१७५सु०- ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषाः स्वाहेत्यादिना चतुर्दशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह प्राण इति ।

अनु०- प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो ..।

तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्यः । परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।

१७६सु०- अयमत्र सङ्ग्रहः ।

पुष्करो नाम सर्वावरो देवः । कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः । कलाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यत इत्यन्यत्रोक्तत्वात् ।

ततश्शनैश्चरोऽधिकः । पृथिव्यात्मा शनिश्चे ति वचनात् ।

तत उषाः (उपा) । ततो बुधः । उदकात्मको बुधश्चेति वचनात् ।

ततः स्वाहा ।

ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् ।

तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च । प्रियव्रतो गयश्चैव कर्मदेवसमौ मतावि त्यन्यत्रोक्तत्वात् । ततोऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च । विष्वक्सेनो वायुजः खेन तुल्य इति वचनात् ।

ततो मित्रो निर्ऋतिस्तारा प्रावहीति च ।

ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।

ततोऽग्निर्भृगुः प्रसूतिश्च ।

ततो नारदः ।

ततो वरुणः ।

ततश्चन्द्रसूर्यधर्माः शतरूपा च ।

ततः प्रवहः ।

ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।

तत आहङ्कारिकः प्राणः ।

तत इन्द्रकामौ ।

तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।

ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् । अन्यत्रोक्तत्वात् ।

ततो रुद्रात्मकत्वाच्छेषश्च ।

ततो भारती तदात्मकत्वात्सरस्वती च ।

ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।

ततो महालक्ष्मीः ।

ततो भगवानिति ।। ३३२१ ।।

।। इति इयदामननाधिकरणम् ।।

न्यायसुधा

।। अथ दर्शनभेदाधिकरणम् ।।

ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।

१७७सु०- एतद्व्याख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति दृष्टिरपीति ।

अनु०-दृष्टिरपि योग्यानुसारतः

नानाविधेति शेषः ।।

।। इति दर्शनभेदाधिकरणम् ।।

न्यायसुधा

।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

ब्र०सू०- ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।

१७८सु०- अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह सम्यगिति ।

अनु०-सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम्

न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु प्रज्ञान्तरपृथक्तववदि ति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।।

ब्र०सू०- ॐ लिङ्गभूयस्त्वात्तदि्ध बलीयस्तदपि ॐ ।।

अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् ।

तच्च प्रदानशब्दार्थान्तर्गतमेव । न हि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति । मुख्यतः श्रवणाद्यपेक्षयाऽतिशयेन ।

अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।

लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात् तां निवारयितुं तदपीत्युक्तम् । तद्व्याख्याति श्रवणादि चेति ।

अनु०-श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ।

कुत इत्यत आह नान्यथेति । अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।

।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

न्यायसुधा

।। अथ पूर्वविकल्पाधिकरणम् ।।

ब्र०सू०- ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।

१७९सु०- किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्योऽपि स्वीकर्तुं शक्यत इति संशये गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेदि ति गुरुपरित्यागे दोषस्मरणात् प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते । स हीनसमोत्तमेषु किं विषय इति न ज्ञायते । दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति गुणाधिकमिति ।

अनु०-गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित्

क्वचित्प्रयोजनविशेषेऽपि । दोषस्मरणं तद्विषयमिति भावः ।

एवं तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह विपर्ययस्त्विति ।

अनु०-विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता

अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः । अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् । तदिदमुक्तं शुभमिच्छतेति ।

१८०सु०- एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात् । सत्यम् । प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः । तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह सम इति ।

अनु०-समे विकल्प एव स्यात्

पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् ।

न तु नियमः । सम एवेति वा सम्बन्धः ।

दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह पूर्वेति ।

अनु०- पूर्वानुज्ञा च सर्वथा

समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या । विनाऽनुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।

१८२सु०- पूर्वानुज्ञा च इत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासाय आह तदुत्तमेति ।

अनु०-तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते

तदिति पूर्वप्राप्तस्य परामर्शः । तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।

१८३सु०- गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् । तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति ।

अनु०-गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती ।देवता भगवान्विष्णुः सर्वेषामविशेषतः

येषां तेषामिति विशेषं विहाय सर्वेषामेव । ततः किमित्यत आह तदिति ।

अनु०-तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन

न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः । मुक्तिः इति ज्ञानादेरुपलक्षणम् ।

१८४सु०- साधारणगुरुमुक्तवाऽसाधारणानाह स्वोत्तमास्त्विति ।

अनु०-स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः

क्रमेणैवेति साक्षादुत्तमो गुरुस्ततोऽप्युत्तमो गुरुतर इत्यादि । एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः ।

१८५सु०- नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्टृत्वं हि गुरुत्वम् । न च सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति ।

अनु०-उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।

इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।

।। इति पूर्वविकल्पाधिकरणम् ।।

न्यायसुधा

।। अथ ताद्विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।

१८६सु०- भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा । यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् । तत्र भाष्यम् । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति । तत्र प्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः स्यात् तां निवारयितुमाह साधनेभ्य इति ।

अनु०-साधनेभ्योऽधिका भक्तिः

मोक्षसाधनेभ्यो ज्ञानादिभ्यः । एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह नैवेति ।

अनु०-नैवान्यत्तादृशं क्वचित् ।

क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोऽन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।

१८७सु०- भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति । अत आह भक्तिश्चेति ।

अनु०-भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम् ।

हरावेव मुख्या सर्वाधिका न तथाऽन्यत्र । अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः । तदियत्तामाह स्वाधिकेति ।

अनु०-स्वाधिकत्वेन सर्वत्र स्वोत्तमेषु क्रमेण च

साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या । अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः । यद्यप्येषोऽर्थः प्रागुक्तस्तथाऽपि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।

१८८सु०- भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् । फलप्राप्तौ साधननिवृत्तिदर्शनात् । तन्निवृत्त्यर्थमाह अनुवर्तते चेति ।

अनु०-अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी

प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति । तदेतत् अस्तीत्यनुक्तवाऽनुवर्तत इति वदता सूचितम् । तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह आनन्दरूपिणीति । प्राक्कर्तव्यतया प्रकृता । अतः साधनरूपा । मुक्तौ तु स्वभावभूताविर्भूता फलरूपैव ।

पादार्थमुपसंहरति तदिति ।

अनु०-तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

तृतीयाध्यायस्य तृतीयः पादः ।।

भक्तिपूर्वा । एवमिति योग्यतादेः परामर्शः । गुणैरुपेतस्य हरेः ।। ३३३४ ।।

१८९सु०-

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ।।

।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।

अथ तृतीयाध्यायस्य चतुर्थः पादः