Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C4P2

From Anandamakaranda
Revision as of 01:37, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

न्यायसुधा — अध्यायः 4, पादः 2

न्यायसुधा

अथ चतुर्थाध्यायस्य द्वितीयः पादः

१सु०- द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यं देवानां मोक्ष उत्क्रान्तश्चास्मन्पाद उच्यत इति । तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तभ्यां सम्बध्यते तदा देवेभ्योऽन्येषां सशरी-राणामेवावस्थानमिति प्राप्नोति । अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चन्तनीयः । अचिन्तने वा कारणं वाच्यम् । यदि च मोक्षेणैव सम्बध्यते तदा देवानां मोक्ष इतरेषामुत्क्रान्तश्चेत्युक्तं भवति । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । तथा च प्रथमपादे कर्मनाशाख्यं फलमस्मन्पादे उच्यत इति यथा सामान्येनोक्तं तथाऽत्राप्युत्क्रान्तरस्मन्पाद उच्यत इति वक्तव्यम् । किमनेन विभा-गे(नेत्य)न कृतं स्यादित्यत आह देवानां चेति ।

अनु०- देवानां च मनुष्याणामेतावत् सममेव हि ।

उत्क्रान्तमार्गौ देवानां न प्रायेण भविष्यतः ।।

यदतीतपादे चिन्ततं कर्मनाशाख्यं फलमेतावत् देवानां मनुष्याणां च सममेव । कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् । मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति । तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् । एतत्पादप्रतिपाद्या देहात् उत्क्रान्तः तृतीयपादप्रतिपाद्यो-ऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतः अतो विभागेनोक्तिर्युक्तेति । अनेन मार्गो गम्यं चास्मन्पाद उच्यत इत्येताष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति । स्फुटं चैतद्वक्ष्यति । उत्क्रान्तमार्गश्च विमुक्तगम्यमिति ।

२सु०- भवत्वदं प्रतिपाद्यं एत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात् पादचतुष्टयस्यापि सङ्गतिमाह कर्मेति ।

अनु०-कर्मक्षयस्तथोत्क्रान्तर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रो(क्तं)क्तः क्रमात्पादेषु चोदि(तं)तः ।।

तथाशब्दः समुच्चये । उत्क्रान्तशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च । इतिशब्दो भोग इत्यतः परो (परं) योज्यः । क्वचित्पाठः प्रोक्तमि-त्युदितमिति च तत्र यथास्थान एव इतिशब्दः । आद्ये मोक्षानुवादेन फलचतुष्टयात्मकत्वं विधेयम् । द्वितीये तु विपर्ययेण । क्रमादित्येतदावर्तनीयम् ।

ततश्चायमर्थः । फलं खल्वत्राध्याये निरूपणीयम् । फलं च मोक्षः । स च कर्मक्षयादि-चतुष्टयात्मकः । आत्यन्तकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावात् । कर्मक्षयादयश्च क्रमावन्त । ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तः उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः ततो भोग इति । तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्य-लक्षणा च सङ्गतिरिति ।

३सु०- देवानां मार्गो नास्तीत्युक्तम् । तत्कं यत्र स्थतास्तत्रैव मुक्ता भवन्तीत्यत आह स्रष्टृष्वेवेति ।

अनु०-स्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ।

देवानां मार्ग उद्दिष्टो

क्वचिदस्रष्टृष्वपीति चशब्दः, तथा च न्यायविवरणे । ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः । तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह नेति ।

नार्चिरादिः

देवानां देहादुत्क्रमो नास्तीत्युक्तम् । तत्कुतः । सदेहानामेवावस्थानप्रसक्तेरित्यत आह

न चेति ।

न चोत्क्रमः ।

अत एवेत्युपस्कर्तव्यम् । चशब्देन सदेहानामवस्थानं समुच्चिनोति ।

एतदेव विवृणोति स्रष्टु(स्त्वति)रिति ।

स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।

यतः सृज्यस्य देवस्य नैवोत्क्रान्तस्ततो भवेत् ।।

देहः चेतनाधिष्ठित एव । तत्र स्रष्टरि । उत्क्रान्तः शरीरात् । चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः । स्रष्टृषु लये निमित्तं स्रष्टुर्ग्रासभूतस्येति । देहस्त्वति सम्बन्धः ।

४सु०- देवनामर्चिरादिमार्गो नास्तीस्त्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्समित्याशयवान् तदनुवादेन युक्तयन्तरमाह लयाच्चेति ।

अनु०-लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।

कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः ।

देवतामुक्तेः प्रागेवेत्यर्थः । अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठ्यौ । सर्वेषामपि भवेत् अर्चिरादिरिति शेषः । स्वत(कं) उत्तरं विशतामित्युक्तानुवादः । ननु प्रायेणेत्युक्तत्वात् कदाचिद्देवानामुत्क्रान्तमार्गावङ्गीकार्यौ । तत्रोक्तयुक्तिविरोध इत्यत आह जातानामिति ।

जातानां मानुषे लोके देवानां तु कदाचन ।

उत्क्रान्तमार्गौ भवतो न तदा मुक्तिरिष्यते ।।

यद्यपि भवतस्तथाऽपि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव । अतो नोक्तयुक्ति-विरोधः । एतदुक्तं भवति । उत्क्रान्तमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । न तु मुक्तिकालीनौ उत्क्रान्तमार्गौ । तस्य च व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इति ।

५सु०- किं देवानामेव ब्रह्मणा सह मुक्तिः । अन्येषामपीति ब्रूमः । तर्हि भेजे खगेन्द्र-ध्वजपादमूलमित्यादिविरोध इत्यत आह अन्येषामपीति ।

अनु०-अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।

सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ।।

साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा । प्राप्यावस्थतानामपीति योज्यम् । तमिति वैकुण्ठादिस्थलम् । छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ् आर्धधातुकत्वाूयादिति

साधु । इतीश्वराशीरिति वा । अस्मन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं च अनेनोच्यत इति ।

६सु०- इति शास्त्रस्य निर्णय इत्युक्तमेव विवृणोति क्ष्मेति ।

अनु०-क्ष्माम्भोनलानिलवियन्मनइन्द्रयार्थ-

भूतादिभिः परिवृत्तः प्रतिसंजिघृक्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा

कालं परं स्वमनुभूय परः स्वयम्भूः ।।

एवं परेत्य भागवन्तमनुप्रविष्टा

ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं

ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ।।

भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।

परमं मोक्षमायान्त लिङ्गभेदेन योगिनः ।

प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।

आनन्दव्यक्तिमायान्त पूर्णां लिङ्गस्य भङ्गतः ।

इति श्रुतिपुराणोक्ति(णादि)बलाद्विज्ञायते च तत् ।।

भूतानामादिः भूतादिः । क्ष्माऽऽदिपदैः पञ्चानां महाभूतानां, मनसो, दशानामिन्द्रयाणां, पञ्चानां विषयाणां, भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा उच्यन्ते । अव्याकृतं परमेश्वरम् । यर्हि यदा । गुणत्रयस्यात्माभिमानी । परं परसङ्ख्योपेतम् । परः क्ष्मा-दिभ्यः । एवं तदा । भगवन्तमिति तदीयं लोकम् । अगताभिमानाः अगतजीवभावाः । परमं मोक्षमित्यस्यैव विवरणं लिङ्गभङ्गेनेति । इत्थम्भूतलक्षणे तृतीया । यद्वा । लिङ्गभङ्गेन निमित्तेन परमं मोक्षमानन्दाविर्भावमायान्तीति व्याख्येयम् । तच्चेति चशब्देन स्रष्टृष्वेवेत्युक्तं समुच्चिनोति । श्रुत्यादिकं भाष्योदाहृतं ग्राह्यम् ।

७सु०- ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादो-दितो भोगः किमसाधारणः । किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाह भोग-स्त्वति ।

अनु०- भोगस्तु सर्वदेवानां नरादीनां च विद्यते ।

असाधारण्ये प्रमाणाभावादिति भावः । अस्मन् प्रथमभाष्ये देवानां मोक्ष इति प्रथम-निर्देशः कृतः तस्य तात्पर्यमाह तत्रेति ।

तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।

उच्यते

तत्र द्वितीयपादे । प्रथममिति शेषः । उत्तरोत्तरतः उत्तरोत्तरेषु । अतः प्रथममसौ निर्दिष्ट इति ।

८सु०- नन्वयुक्तमेतत् । वाङ्मनसीत्यादिसूत्रेषु देवानामश्रवणात् । अथ वागादिशब्दा-स्तदभिमानिनामुपलक्षका इति मतं तदा, सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम् । यद्वा वाचका एवेति पक्षः तथाऽपि प्रसिशब्दपरित्यागेन अप्रसिपदप्रयोगे प्रयोजनं वक्तव्य-मेवेत्यत आह देहेति ।

अनु०-देहगानां च वृत्तीनामेवमेव तु ।

बाह्यतत्त्वव्यावृत्त्यर्थं देहगानामित्युक्तम् । वर्तते देह एताभिरिति वृत्तयो जडा वागाद्याः यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिप्रयोग इति भावः । वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति ।

९सु०- भवेदेवं पादार्थः सङ्गतिश्च । यदि भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्ट-कर्माणः, स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमेण वा परित्यक्तदेहाः, स्वोचितेनार्चिरादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयो-ऽत्यन्तनिवृत्तानिष्टाः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः, स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान्दव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरा-वर्तन्त, इत्येतन्मोक्षस्वरूपं कर्मक्षयस्तथोत्क्रान्तरित्यादिनोक्तं निश्चतं स्यात् । न चैवम् । तैस्तैः वादिभिरन्यथामोक्षस्वरूपस्य वर्णितत्वात् । विप्रतिपत्तौ च संशयस्य ध्रुवत्वादित्यत आह तत्रेति ।

अनु०-तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाऽऽश्रयात् ।

नाना वदन्त

तत्र । तथा सति, सूत्रकारेणोक्तलक्षणे मोक्षे श्रुत्यादिप्रमाणैरुपपादिते सति । वादिनस्तु प्रतिभाश्रयात् स्वोत्प्रेक्षामात्रेण नाना वदन्त । अतः प्रमाणमूलत्वादस्याप्रमाणमूलानाम् उत्प्रेक्षामात्रयोनीनां वादानां च साम्याभावान्न संशयावकाशः ।

१०सु०- ननु यदि तथा तथा प्रमाणानि सन्त तर्हि तत्तद्वादिनां तादृशानि ज्ञानानि कुतो

न जायन्ते । प्रमाणाभासैर्विमोहितास्त इति चेत् । तत्त्वज्ञाभिमता अपि कुतस्तैर्न विमूढाः । दोषदर्शनादिति चेत् । इतरेऽपि कुतो न दोषान् पश्यन्त प्रमाणैः तत्त्वज्ञानोदयोऽपि समान इत्यतो मूलकारणमाह पुंसां हीति ।

अनु०- पुंसां हि मतयो गुणभेदतः ।

पृथक् पृथक् प्रजायन्ते

गुणभेदः गुणविशेषः । हिशब्देन ज्ञानं कर्म च कर्तेत्यादिप्रमाणप्रसिंि द्योतयति । एतद्विशदयति तमसैवेति ।

तमसैवान्यथा मतिः ।

रजसा मिश्रबुत्विं सत्त्वेनैव यथा मतिः ।।

मिश्रज्ञानेऽन्यथात्वं सम्यक्तवं चास्तीत्यतोऽन्यथैवेत्युक्तम् । यथेति भिन्नं पदं सम्य-ग्वाची । तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्याभासानां दोषानाच्छाद्य विपरीतज्ञान(मुत्पा)-मप्युत्पादयतीत्यादि द्रष्टव्यम् ।

११सु०- सम्यग्ज्ञानं सत्त्वगुणेन भवतीत्युक्तम् । तस्य मुक्तेषु तावदपवादमाह गुणेति ।

अनु०- गुणातीता विमुक्तानां मतिः शुचितिर्यतः ।

सम्यगेवाथ नित्या च

यद्यपि विमुक्तानां मतिः सम्यगेव अथापि गुणातीता सत्त्वजन्या न भवति । कुतः शुचितिः नित्या च यतः । जडं हि कुतश्चज्जायते न चेतनम् । तथाऽनित्यमेव न नित्यम् । दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्तवं तर्हि कथमित्यतः शेुत्युक्तम् । स्वाभाविकदोष-रहितेत्यर्थः ।

स्वरूपोपाधिगतदोषनिबन्धनं हि दैत्यानां ज्ञानानामसम्यक्तवम् । करणनिमित्तो ज्ञानानां विषयनियमो वैशद्यभेदश्च । तत्र यदि मुक्तानां ज्ञानं तर्हि निर्विषयं वा स्यात् सर्वविषयं वा । एवं वैशद्येऽपीति । तत्राह तत्तदिति ।

तत्तन्माहात्म्ययोगतः ।

बहुला चातिविशदा

तेषां तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण (बहुल) बहुलार्थविषयिण्यतिविशदा च ।

१२सु०- श्रीदेव्यामप्युक्तस्यापवादमाह स्पष्टा चेति ।

अनु०-स्पष्टा चैव श्रियो मतिः ।

महाशुचितित्वेन

श्रियो मतिश्च सम्यक्तवेऽपि गुणातीतेति सम्बन्धः । महाशुचितित्वेनेति पूर्ववदेव तत्र हेतुः । महच्छब्देन कदाऽपि (बाह्य)दोषसम्बन्धो नास्तीत्युच्यते । स्पष्टैवेति भुक्तमतेरप्यति-शयेन विशदेत्यर्थः । एतदपि पूर्ववद्व्याख्येयम् ।

भगवज्ज्ञानेऽप्यपवादमाह ततोऽपीति ।

ततोऽप्यतिमहाचितिः ।

अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।

नित्यमेकप्रकारा च नारायणमतिः परा ।

सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।

निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ।।

नारायणमतिश्च सम्यक्तवेऽपि परा गुणेभ्य इति शेषः । तत्र पूर्ववदेव हेतुः । ततः श्रियोऽप्यतिशयेन महाशुचितिः । विशिष्यन्त इति विशेषाः पदार्थाः । अशेषाणामुरूणा-मनन्तानां विशेषाणां दृशिः विषयीकारिणी । अतिस्पष्टतयाऽशेषपदार्थविषयेत्येतदपि बहुला चातिविशदेतिवद्व्याख्येयम् । दृशिः साक्षात्कार इति वा । नित्यमेकप्रकारेत्युत्पत्तिविनाश-रहितेत्ययमपि गुणातीतत्वे हेतुः । केचिदेकमेवेश्वरज्ञानमित्यास्थताः । अपरे त्वनेकानीति । तद्विवेकार्थमुक्तं निरन्तरा निर्भेदेति । तर्हि किं तेषु तेषु पदार्थेषु ज्ञातेषु विक्रियते नेत्याह नित्यमविकारिण्येवेति । कथं तर्हि तत्तद्विषयीकरणमित्यत उक्तं सूर्येति । यथा सूर्यप्रभा स्वयं निर्विकाराऽपि तान् तान् प्राप्तान् विषयान् प्रकाशयति तथेयमपीत्यर्थः । अत्र च विशेष एव निर्वाहकः । अत एवैकेत्यनुक्तवा निरन्तरेत्युक्तम् । निर्लेपा वीतदोषा चेति शुत्वव्याख्यानम् । लेपः कर्मसम्बन्धः । महच्छब्दव्याख्यानं पूर्ववत् । यद्वा नित्यमेवेति तदर्थमत्रापि योज्यम् । परा स्वतन्त्रेत्यतिशब्दस्य व्याख्यानत्वेनापि व्याख्येयम् । अत एव तत्तन्त्रत्वाच्चेति वक्ष्यति ।

१३सु०- एतानि विशेषणानि लक्ष्मीज्ञानेऽप्यतिदिशति विशेषानिति ।

अनु०-विशेषांस्तद्गतांस्त्यक्तवा प्रायस्तक्षणा श्रियः ।

तद्गतान् भगवद्गतान् तानि लक्षणानि यस्याः सा तथोक्ता । श्रियः मतिः प्रतिपत्तव्येति शेषः । भगवद्गताशेषविशेषविषयीकारित्वं विहाय अन्यधर्मवती ज्ञातव्येत्यर्थः । प्राय इत्युक्तस्य तात्पर्यमाह तथैवेति ।

तथैव स्पष्टताभावात् तत्तन्त्रत्वात्तु केवलम् ।

न तादृशी

यथा भगवन्मतेर्निरतिशयस्पष्टत्वं तथैव । केवलं तत्तन्त्रत्वात् भगवन्मात्राधीनत्वात् । अत्र केवलमिति स्वरूपकथनम् । पराधीनत्वादित्येव हेतुः । तादृशी भगवन्मतिसदृशी । अतः प्राय इत्युक्तमिति भावः ।

१४सु०- लक्ष्मीमतिविशेषणानि मुक्तब्रह्ममतावतिदिशति ब्रह्मणस्त्वति ।

अनु०- ब्रह्मणस्तु प्रायेणैवं श्रियो यथा ।

ब्रह्मणस्तु मतिः श्रियो यथैवं प्रायः । तथा वैशद्याद्यभावात् प्राय इत्युक्तम् । केवल-मित्युक्तयभावाच्च । अत एव तत्र तदुक्तम् । ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह मुक्तानां त्वति ।

मुक्तानां तु तदन्येषां समुद्रतरलोपमा ।

विशेषबलेन वृह्रिासवतीत्यर्थः । यथोक्तं अवृह्रिासरूपत्वमित्यादि । मुक्तग्रहणस्य तात्पर्यमाह अग्नीति ।

अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।

अग्निज्वालाया अग्नेरिव संसारिणां दृशः अन्तःकरणात् भव उत्पत्तिरेव स्यात् न तु व्यक्तिमात्रम् ।

१५सु०- भवत्वेवं ज्ञानानां गुणनिमित्तं नानाविधत्वम् । प्रकृते तु किमित्यत आह एवंविधेष्वति ।

अनु०-एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ।

ज्ञानेष्वेवंविधेषु सत्सु मुष्टदृष्टयोऽपहृतसम्यग्ज्ञानाः । सम्यग्ज्ञानाभावेऽन्यथादृक्तवमपि नोपपद्यते । अधिष्ठानसामान्यज्ञानस्य भ्रान्त्युपयोगित्वादित्यत उक्तम् खद्योतेति ।

खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।।

वदन्त वादिनो मोक्षं नानामतसमाश्रयात् ।

यथा अन्धतमसे खद्योता अपि भयहेतवः तथा विपर्ययबहुलं अल्पं सम्यग्ज्ञानमपि तामसमेव । यथोक्तम् । अतत्त्वार्थवदल्पं चेति । नानामतसमाश्रयात् नाना वदन्तीति योजना । ज्ञानानां गुणवशादनेकविधत्वोपपत्तेस्तमसाऽऽवृता वादिनः प्रमाणावधीरणात् सम्यग्ज्ञान-विकला आभासादरणादधिष्ठानसामान्यज्ञानवत्त्वाच्च विपरीतज्ञानिनो मोक्षं नानाविधमाचक्षत इत्यर्थः । कारणैकत्वान्मथ्याज्ञानेनाप्येकविधेन भाव्यमिति चेन्न । सहकारिवैचित्र्याद्वैचित्र्यो-पपत्तेः । तदिदमुक्तं नानामतसमाश्रयादिति । मतानां च प्रवाहेणानादित्वमुक्तम् । मूलकारणे तमोगुणेऽपि वैचित्र्याच्च । अत एवोक्तं गुणभेदत इति ।

१६सु०- समधिगतमेतत् नानाविधेषु मोक्षवादेष्वेकः प्रमाणमूलोऽन्ये मिथ्याज्ञानमूला इति । न तु विशेषोऽतः पुनः संशय एवेत्यतः परमतानां सर्वेषां हेयत्वं दिदर्शयिषुरादौ ताव-ज्जिनोदितं मोक्षस्वरूपमनुवदति आश्रित्येति ।

अनु०-आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।

तत्र तेषु वादिषु । वेदप्रामाण्या(स्य)नङ्गीकारात् अतितामसीम् इत्युक्तम् । किमाहेत्यत आह ज्ञानादिति ।

ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ।

ज्ञानात् केषाञ्चित्कर्मणां क्षयो भवति । केषाञ्चिोगात् । ततः कर्मक्षयात् पक्षिणः पञ्जरादिव आत्मनो देहात् मोक्षो भवेत् । देहावस्थानस्य कर्मनिमित्तत्वात् । ततः कथं वर्तत इत्यत आह पञ्जरेति ।

पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।

नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ।

इति

यथा पञ्जरोन्मुक्तः खग ऊर्ध्वं व्रजति एवमेव ऊर्ध्वं व्रजति । अयं तु विशेषः । अलोकाकाशो गोचरो यस्य स तथोक्तः । नित्यमेवेति च । देहपरिमाणस्यात्मनो देहाभावे परिमाणाभावप्राप्तौ उक्तं हस्तपादवानिति । चरमदेहस्य यः सन्निवेशः तथाभूत इत्यर्थः । इत्याहेति सम्बन्धः ।

अनूदितं दूषयति तदिति ।

तत्केन मानेन मोक्षरूपं प्रदर्श्यते ।।

प्रदर्श्यते परं प्रति जिनेन । यद्यप्यनन्तचतुष्टयावाप्तिर्मुक्तस्योच्यते जिनेन । तथाऽपि सा सम्प्रतिपन्नत्वान्नानूदिता नापि दूषिता ।

१७सु०- कथमुक्तमोक्षस्वरूपमप्रामाणिकमिति चेत् । न तावदत्र प्रत्यक्षमस्त नापि आगमः । तदीयागमस्य अस्माभिरनङ्गीकारात् । वेदादेश्च परेणानङ्गीकृतत्वात् । अतः केवलं किञ्चिदनुमानं वक्तव्यं तत्राह गतिरिति ।

अनु०- गतिरूर्ध्वा च दुःखेता गतित्व•ैकिक यथा ।

इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।

चशब्दोऽनुक्तसमुच्चयार्थः । तेन विप्रतिपन्नेति प्रतिज्ञायां स््यिति । हेतौ च चेतना-श्रितेति । तेनाचेतनगतौ बाधो, देवदत्तगतौ सिार्थत्वं, अचेतनगतौ व्यभिचारश्च न सम्भवति । दुःखेनेता प्राप्ता दुःखेता । प्राप्तिश्च न साध्यसाध्यनभावलक्षणा । तथा सति देवदत्तस्य सुखा-र्थायां मन्दगतौ व्यभिचारापातात् । दूरत्वस्य चानियतत्वात् । तीव्रत्वस्याप्यपरिनिष्ठितत्वात् । किं तर्हि समानकालीनेन दुःखेन सहैकाधिकरणत्वलक्षणा । कदाचित् देवदत्तः दुःखेन विनापि गच्छति तत्र व्यभिचार इति चेन्न । देवदत्तस्य कदाऽपि निर्दुःखताया अनङ्गीकारात् । आध्या-त्मकादिष्वन्यतमेन महताऽल्पेन वाऽयं खलु सदा संवलितः । चेतनाशब्देन जाग्रतोऽभिधानान्न सुप्तगतौ व्यभिचारः । सुखार्थाऽपि गतिरल्पं दुःखमुत्पादयतीत्यभ्युपगम्य दुःखसाधनत्वं वा साध्यम् । लौकिक देवदत्तादिगतिः । इति च प्रत्यनुमाने केनचिदुक्ते, एकं च तच्छरणं चैकशरणं अनुमानमेकशरणं यस्यासौ तथोक्तः । अन्यथा पूर्वकालैकेत्येकशब्दस्य पूर्व-निपातः स्यात् ।

१८सु०- प्रत्यनुमानस्योत्तरं शङ्कते अनूर्ध्वेति ।

अनु०-अनूर्ध्वगतिता तत्र यद्युपाधिः

तत्र देवदत्तगतेर्दुःखेतत्वे अनूर्ध्वताविशिष्टं गतित्वं प्रयोजकं न गतित्वमात्रमिति यदि ब्रूयादित्यर्थः । पक्षेतरोऽयं कस्माच्छङ्कित इति चे(त्)न्न । लक्षणसम्पत्तौ तदुपाधित्वस्योक्त-त्वात् । निराकरोति खगस्येति ।

खगस्य च ।

दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।।

तदा वदाम इत्यादावुपस्कर्तव्यम् । खगस्य पारावतादेः दूरोर्ध्वगमने च दुःखमस्तीति हेतोः स उपाधिः साध्यानुगः साध्यव्यापको न भवतीत्यतोऽनुपाधिः ।

इदमुक्तं भवति । किमयं केवलसाध्यव्यापकोऽभिमतः किं वा साधनावच्छन्नसाध्य-व्यापकः । न प्रथमः । अधर्मे साध्यसावेऽप्यनूर्ध्वताविशिष्टगतित्वस्याभावेन साध्याव्यापक-त्वात् । न द्वितीयः । खगस्य दूरोर्ध्वगतौ गतित्वावच्छन्ने दुःखेतत्वे सत्यप्यनूर्ध्वगतित्वस्य अभावात् । अनेनोर्ध्वगतित्वाभावोऽनूर्ध्वगतित्वं केवलसाध्ये उपाधिरित्यपि प्रत्युक्तमिति । दूरग्रहणं खगस्य दुःखं व्यञ्जयितुम् । तदा हि तस्मन् दुःखकार्याणि दृश्यन्ते । प्रत्यागमनसमय-वर्तिदुःखकार्याणि तानीति चेन्न । ऊर्ध्वं गच्छत्येव तद्दर्शनात् ।

१९सु०- मा भूदयमुपाधिः शरीरवृत्तित्वं तु भविष्यति । देवदत्तगतौ यद्दुःखेतत्त्वं तत्र

न गतित्वं प्रयोजकं किं नाम शरीरवृत्तित्वम् । न चेदं साध्याव्यापकम् । यद्दुःखेतं तच्छरीरि-वृत्तीत्यस्य व्यभिचारादर्शनादित्यतः सर्वोपाधिसाधारणं दूषणमाह प्रतिसाधनेति ।

अनु०-प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।

उपाधिः

जिनोक्तानुमानानां प्रतिसाधनं खल्वस्माभिरुपन्यस्तम् । प्रतिसाधनरूपस्य अनुमानस्य चोपाधिः न दूषणम् । अतोऽत्रोपाध्याुवनमेवासङ्गतं किं तद्दूषणगवेषणेन । पूर्वोपाधेस्त्वङ्गी-कारेण दूषणमभिहितमिति । कुतो नेत्यत आह प्रतिरूपं हीति ।

प्रतिरूपं हि साधनं तन्न चापरम् ।

यदुपाधिर्नाम दूषणं तत्प्रतिरूपं साधनं न त्वनैकान्त्यादिकम् । हिशब्दो यस्मादित्यर्थे ।

एतदुक्तं भवति । उपाधिस्तावत्प्रतिपक्षोन्नायकः नेतरथा दूषणम् । ततः प्रतिपक्ष-स्योपाधिमाुवयता प्रतिपक्ष एवोावितो भवति । प्रतिपक्षश्च साधनाय प्रवृत्तं प्रतिबध्नाति

न पुनः किञ्चित् साधयति । प्रथमेनैव प्रतिबत्वात् । अतः प्रतिपक्षस्य प्रतिपक्षोऽकिञ्चित्कर-त्वान्न दूषणम् । अत एवोपाधिरपीति ।

२०सु०- ननु पक्षादिप्रविभागोत्तरकालमुपाधिः प्रतिपक्षस्योन्नायको भवत्येव । प्राक्

तु ततोऽव्याप्तेरुन्नायकः । अतः तदपेक्षया शरीर(रि)वृत्तित्वमुपाधिर्भवतु इत्यतः अभ्युपगम्य दूषयति अथापीति ।

अनु०-अथाऽपि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ।

यदि कयाचिद्विवक्षया प्रतिपक्षस्यापि उपाधिरुच्यते तथाऽपि सशरीरत्वं शरीरेण सह वर्तमानत्वं शरीरसमानाश्रयत्वं शरीर(रि)वृत्तित्वमिति यावत् । न केवलमनूर्ध्वगतित्वमिति चशब्दः । अत्र अस्मदुक्तानुमाने । वैशब्दोऽवधारणे । कुतो न भवेदित्यत आह गतित्वमिति ।

गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।

यत्र गतित्वं विशिष्टं तत्र देहित्वं देहेन सम्बन्धः पूर्वोक्तः देहिवृत्तित्वमिति यावत् ।

इति प्रकारेण शरीर(रि)वृत्तित्वं साधनानुगं साधनस्य विशिष्टगतित्वस्य व्यापकं यत् यस्मादित्यर्थः ।

२१सु०- स्यादेतत् । यत्कञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गात् मुक्तानां गतिः पक्षीकर-णीया । तस्या दुःखेतत्वसाधने भवतामपसिान्तः स्यात् । भवरिपि मुक्तानां निर्दुःखत्व-स्याभ्युपगतत्वात् । तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम् । अन्यथा तत्र व्यभिचारापत्तेः । ततोऽप्यपसिान्त एव । शरीर(रि)वृत्तित्वस्य साधनव्याप-कताऽङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम् । ततश्चापसिान्त एवेत्यत आह आगमेति ।

अनु०-आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ।

नापसिान्तता दोषः

यतः वेदादिकमागममनुसृत्य मोक्षस्वरूपानुमाने अतिप्रसङ्गोऽयं अस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि कस्मान्नानुमिनुया इति । ततः कारणादपसिा-न्ततादोषो न भवति । प्रसङ्गेऽप्यपसिान्तमाुवयन्तं बोधयितुमाह प्रसङ्ग इति ।

प्रसङ्गे यदि सा भवेत् ।

तदैवातिप्रसङ्गः स्यात्

सा अपसिान्तता । भवेत् दोष इति शेषः । कथमतिप्रसङ्ग इत्यत आह नेति ।

न प्रसङ्गः क्वचिवेत् ।

इतिशब्दोऽत्र अन्तेऽध्याहार्यः । सर्वेष्वपि प्रसङ्गेष्वपसिान्तस्य कथञ्चिदाुवयितुं शक्यत्वादिति भावः । एतेन मुक्तानां सततोर्ध्वगतिः सिा चेत् बाधः, अन्यथा आश्रयासि-िरित्यपि परास्तम् । परसिाश्रये प्रतिपक्षस्य प्रसञ्जनात् ।

२२सु०- उपाध्यन्तरमाशङ्कते लोकेति ।

अनु०- लोकाकाशगतित्वं चेदुपाधिः

अत्र लोकाकाशसम्बन्धत्वमेव उपाधिः । साध्यव्यापकत्वात् । गतित्वं तु स्वरूप-कथनम् । दूषयति साधनेति ।

साधनानुगः ।

सोऽपीत्युक्ते वदेत् किं स

या गतिः सा लोकाकाशसम्बन्धनीति सोऽप्युपाधिः साधनमनुगच्छति व्याप्नोति । मुक्तगतावुपाधेरभावान्नेति चेन्न । तत्रापि गतित्वेन तत्साधनात् । एतेन शरीरिवृत्तित्वस्यापि साधनव्यापकत्वं समर्थितं वेदितव्यम् । तदिदमुक्तं इत्युक्ते वदेत् किं स इति । स्वाभिमते

मोक्षे प्रमाणमुपदर्शयन् उपसंहरति तस्मादिति ।

तस्माद्वेदोदितो भवेत् ।

मोक्षः

जिनोक्ते मोक्षस्वरूपे प्रमाणाभावात् ।

२३सु०- उक्तदोषातिदेशेेन बौोक्तमपि मोक्षं दूषयति एवमिति ।

अनु०- एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।

चकार सौगतमतं मोहायैव चकार यत् ।

असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।

अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ।।

यथा अप्रामाणिकत्वाज्जैनमतं न ग्राह्यम्, एवं तन्मतं सौगतमतमपि क्वचिद् ग्राह्यं न भवति । ननु परमाप्तेन बुरूपेण(पिणा) विष्णुना कृतमिदं कथं न ग्राह्यमित्यत उक्तं स्वयमिति । यद्यपि सौगतमतं स्वयं विष्णुश्चकार तथाऽपि न ग्राह्यमिति सम्बन्धः । ईश इति करणपाटव-मभ्युपैति । अशेषवित् इति तत्त्वज्ञानम् । अभ्युपगमे कारणं प्रमाणप्रसिंि हिशब्देनाह । तर्हि कुतो न ग्राह्यमित्यत उक्तं मोहायैवेति । यद्यस्मादसुराणां मोहायैव तच्चकार । अतोऽसुराधि-कारत्वान्न ग्राह्यम् । अधिक्रियन्तेऽस्मन्नित्यधिकारः । असुराणामधिकारोऽसुराधिकारः, तस्य भावः तत्त्वं, तस्मात् । असुराः कुतो मोहनीया इत्यत उक्तम् अयोग्यानामिति । वेदमार्ग इति पूर्वेणोत्तरेण च सम्बध्यते । एतदुक्तं भवति । यद्यपि भगवान् बुः पटुकरणः तत्त्वज्ञानवांश्च श्रुत्यादिसिः । ग्रन्थकरणादेव विवक्षुश्च । नैतावताऽप्याप्तः । विप्रलम्भकत्वात् । यथोक्तम् ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बोु नाम्ना जिनसुतः ककटेषु भविष्यतीति । अतस्तदुक्तं मोक्षस्वरूपं हेयमेवेति ।

२४सु०- एवं सामान्यतो दूषितं बौमतं विशेषतो निराकर्तुं तेदानाह चतुरिति ।

अनु०-चतुष्प्रकारं तच्चोक्तं

व्याख्यातृमतिभेदादिति भावः । कथमित्यत आह शून्यमिति ।

शून्यं विज्ञानमेकलम् ।

अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ।

इति

एकलम् अद्वितीयं शून्यमेव तत्त्वमित्येकं मतम् । एकं विज्ञानमेव तत्त्वमित्यपरम् । अनुमेयं बहिस्तत्त्वं ज्ञानव्यतिरिक्तं यस्मंस्तत्तथोक्तम् । अस्त्येव ज्ञानव्यतिरिक्तमपि तत्त्वं किं तु तत् अनुमेयमिति सौत्रान्तकमतमन्यदित्यर्थः । तथाशब्दः समुच्चयार्थः । प्रत्यक्षं बाह्यगं यस्मंस्तद्वैभाषिकमतं चैकमित्येवं चतुष्प्रकारमिति । एतेषु शून्यवादिनोऽतितामसाः । प्रमित-सकलवस्त्वपलापात् । ततो ज्यायांसो विज्ञानवादिनः । रूपाद्यपलापेऽपि विज्ञानमात्राङ्गी-कारात् । ततः सौत्रान्तका बाह्यार्थाभ्युपगमात् । तस्य चानुमेयत्वाभ्युपगमेन वैभाषिकेभ्यः कष्टाः । ततो वैभाषिकाः । बाह्यार्थमभ्युपगम्य तस्य यथायथं प्रत्यक्षादिगम्यताऽभ्युपगमा-दित्येतज्ज्ञापयितुमनेन क्रमेणोद्देशः कृतः ।

२५सु०- तत्र शून्यवाद्युक्तं मोक्षमनुवदति तत्रेति ।

अनु०- तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।

ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ।।

तेषु चतुर्षु । ये शून्यमेव तत्त्वं वदन्त ते मायिना यथाभूतं मोक्षं आचक्षते तादृशमेव

ब्रूयुः । इयांस्तु विशेषः । मायिनो वेदः प्रमाणमित्यभिमानात् परमं साम्यमुपैति, सोऽश्नुते सर्वान् कामानित्यादेर्वेदाच्छङ्कमानास्तस्यान्यथाव्याख्यानं विधाय स्वाभिमतं मोक्षं प्रतिपाद-यन्त । शून्यवादिनस्तु वेदप्रामाण्यानभ्युपगमादुच्छृङ्खलमेवेति । तदिदमुक्तं निःशङ्कमिति । अज्ञानेति तमोगुणो लक्ष्यते । अज्ञानकारणत्वात् । प्रमादमोहौ तमसो भवतोऽज्ञानमेव चेति वचनात् । तेन मोहिताः ।

२६सु०- एवं सामान्येनोक्तं स्पष्टमाचष्टे न किञ्चिदिति ।

अनु०-न किञ्चिन्मुक्तयवस्थायामात्माऽऽत्मीयमथापि वा ।

किञ्चित् इत्यस्यैव विवरणम् । आत्माऽप्यथवाऽऽत्मीयमिति । आत्मेति (वि)ज्ञान-मुच्यते । आत्मीयमिति ज्ञेयम् । तदुभयमपि मोक्षे नास्त ।

२७सु०-शून्यवादोऽपि द्विविधः । एकात्मवादोऽनेकात्मवादश्चेति । तत्र प्रथम एव मुख्य-सिान्तः । मन्दानां तु बाुवारोहाय तु द्वितीयोऽवतारितः । तदुभयसाधारणमुक्तवा विशेषं विवक्षुरादावाद्यमाह एकस्मन्निति ।

एकस्मन्संसृतेर्मुक्ते न किञ्चिदवशिष्यते ।

किञ्चित् चेतनमचेतनं च । एकमुक्तौ कुत एतदित्यत आह तदिति ।

तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।

दृश्यते संसृतोर्ध्वंसे निर्विशेषैव शून्यता ।

तस्यैकस्यैवात्मनः संवृत्याऽज्ञानेनैवायं परिदृश्यमानः चेतनाचेतनात्मकः, भिद्यत इति भेदः पदार्थसमूहो, दृश्यते । न तु परमार्थो नाप्यनेकाज्ञानकल्पतः । अतस्तस्यैकस्यैवात्मनः संवृतेर्ध्वंसे जाते सति शून्यतैव पारमार्थिक (अव)विशिष्यत इति युक्तमेवेति । निर्विशेषेति शून्यस्य स्वरूपसङ्कीर्तनम् । संवृतेर्ध्वंस एव मोक्ष इति वक्ष्यति । निर्विशेषत्वमेव विवृणोति

न सत्त्वमिति ।

न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।

न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ।।

सत्त्वं परसामान्यादिरूपम् । असत्त्वं अभावप्रतियोगित्वम् । किंबहुना कश्चनापि विशेषो

न विद्यते ।

२८सु०- ननु मोक्षस्तावदसन्न भवति । सदा संसारापत्तेः । अतः सता मोक्षेण सविशेषं शून्यमित्यत आह निर्विशेषमिति ।

अनु०-निर्विशेषं स्वयं भातं निर्लेपमजरामरम् ।

शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ।

अशेषदोषरहितं मनोवाचामगोचरम् ।

मोक्ष इत्युच्यतेऽसःि

शून्यं तत्त्वमेवासमर्िोक्ष इत्युच्यते । न तु शून्यातिरिक्तो मोक्षोऽस्त । अतो न तेन सविशेषत्वम् । तर्हि सर्वदा मोक्षभावाच्छून्यभावनादेर्वैयर्थ्यमित्यतो निर्विशेषमित्याद्युक्तम् । स्वयम्भातमित्यस्यैव विवरणं मनोवाचामगोचरमिति । निर्लेपं धर्माधर्मरहितं अजरं च तत् अमरं च अजरामरम् । सम्बाधो वस्त्वन्तरोपमर्दः । असम्बाधमद्वितीयमिति यावत् । दोषाः कामादयः । न, केवलं शून्यं, मोक्षः किन्तु नानासंवृतिवर्जितत्वाद्युपलक्षितम् । उपलक्षण-निष्पत्तये च भावनाद्युपयोग इति ।

२९सु०- अज्ञाननिवृत्त्याद्युपलक्षितं शून्यमेव मोक्ष इत्येतत्कुत इत्यत आह नानेति ।

अनु०- नानासंवृतिदूषितम् ।

संसृत्यवस्था विज्ञेया

नानासंवृतिभिर्दूषितं शून्यमेव संसारावस्था विज्ञेया यतोऽतस्तद्विपरीतं शून्यमेव मोक्ष इति युक्तम् ।

एतदुक्तं भवति । शून्यं तत्त्वं स्वतो निर्विशेषमेकमेव । तस्य परमसूक्ष्मस्य वाङ्मनसा-ऽतीतस्य स्वप्रकाशस्यावरणविक्षेपाद्यनेकशक्तिमत्या मूलसंवृत्या कर्तृत्वभोक्तृत्वशक्तिमदह-ङ्कारोपाधिवशात् किञ्चित्स्थूलता जायते, ततः सद्द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते । ततो मनोवचनगोचरत्वे जाते विधिनिषेधगोचरत्वेन सलेपत्वम् । रागादिदोषसंसर्गश्च । ततो देहेन्द्रयान्तःकरणविषयसम्बन्धे स्थूलतरता भवति । ततो ममकारवतो दुःखादिमत्त्वे स्थूल-तमत्त्वमित्येवं संवृत्या तत्कार्यत्वात्संवृतिसंज्ञकैरहङ्कारादिभिश्च संवलितं शून्यमेव संसारः । भावनाप्रकर्षादिना मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विलीने तदुपलक्षितं शून्यमेव

मोक्ष इति ।

शून्यमेव चेन्मोक्षः संसारश्च । तदा मोक्षसंसारशब्दयोः पर्यायत्वमित्यादिकमापद्यते इत्येतदपि चोद्यमनेनैव परिहृतमित्याशयवानाह संवृत्यैवेति ।

संवृत्यैव विशिष्यते ।

स्थतया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ।।

यद्यपि शून्यमेव संसारो मोक्षश्च । तथाऽपि संसृतिरिति मोक्ष इत्यपि विशिष्यत एव । कथम् । स्थतया च ध्वस्तया च संवृत्यैव । उपलक्षणभेदादर्थभेदे सति न शब्दपर्यायत्वा-दिकमिति भावः ।

३०सु०- एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयति केचिदिति ।

अनु०-केचित्तेष्वन्यथा प्राहुः

तेषु शून्यवादिषु । अन्यथा एकात्मवादिमतात् । कथमित्यत आह संवृत्यैवेति ।

संवृत्यैव त्वनेकधा ।

अवच्छन्नं महाशून्यं नानापुद्गलशब्दतम् ।

तुशब्देनैकात्मवादं स्वाभाविकानेकात्मवादमुपाधिकृतानेकात्मवादं च व्यावर्तयति । संवृत्या नानाभूतया संवृत्या अवच्छन्नमेव न तु स्वभावतः । संवृतेस्तत्कृतावच्छेदानां मिथ्या-त्वान्नानापुद्गलशब्दतमित्युक्तं भवतीति शेषः ।

ततः किमित्यत आह यस्येति ।

यस्य शून्यैकरसताज्ञानात् सा त्वपगच्छति ।

स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ।

संवृत्या यस्त्ववच्छन्नो दुःखान्यनुभवत्यलम् ।

इति

तत्रानेकेष्वात्मसु यस्यात्मनस्तु शून्यैकरसताज्ञानात् शून्याद्वितीयताज्ञानात् सा संवृतिरपगच्छति मूलसंवृतिर्व्यावृत्ता भवति । अन्या नश्यति । स पुद्गलत्वात् कर्तृत्वादिरूपात् निर्मुक्तो महाशून्यत्वम् इष्यतीव । यस्तु संवृत्या अवच्छन्न आत्मा स पुद्गलभावेन दुःखानि अलं परमार्थब््यैुव अनुभवति । इति प्राहुरिति सम्बन्धः ।

३१सु०- शून्यवाद्यभिमतमोक्षनिरासेन मायावाद्यभिमतोऽपि निरस्तो भविष्यति इति आशयेन यदुक्तं मायिनो यथेति सिान्तसाम्यं तदुपपादयति (इत्ये)एवमिति ।

अनु०- एवं मायिनश्चाहुरेकजीवत्ववादिनः ।

बहुजीवमताश्चेति

एकजीवत्ववादिनो बहुजीवमताश्चेति द्विविधमायिनश्च एवं द्विविधशून्यवादिवदेव मोक्षस्वरूपमाहुः । एको जीवो यस्मोके स तथोक्तः तस्य भावस्तत्त्वं तद्वदन्तीति एक-जीवत्ववादिनः । बहवो जीवा यस्मन् तत् तथोक्तं बहुजीवमतं येषां ते बहुजीवमताः ।

ननु शून्यवादिनः संवृतिनिबन्धनः संसारस्तन्निवृत्तिश्च इत्याचक्षते । मायावादिनस्तु मायाहेतुकोऽयं संसारस्तन्निवृत्तिश्च मोक्ष इति । अतो वौषम्यमित्यत आह मायेति ।

माया तेषां तु संवृतिः ।

या शून्यवाद्यभ्युपगता संवृतिः सैव तेषां मायिनां माया । अनाद्यनिर्वाच्यत्वलक्षणस्य आवरणविक्षेपादेः कार्यस्य चैकत्वादिति भावः । शून्यवादिनः शून्यं तत्त्वमाहुर्मायावादिनस्तु ब्रह्म । अतोऽस्त वैषम्यमित्यत आह निर्विशेषत्वेति ।

निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा ।

शून्यं ब्रह्मेति च एतयोः भिदा नो विद्यते । कुतः निर्विशेषत्वस्य वाचैव द्वाभ्यां द्वयो-र्निर्विशेषत्वेनोक्तत्वात् । वैधर्म्यं खलु वस्तुनो भेदकम् । तच्चात्र नास्तीति द्वयोरपि सम्मतम् । अतः शब्दभेदमात्रं न वस्तुभेद इति ।

३२सु०- अथ मतम् । सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्मैवेति श्रुत्यैव सत्यादि-लक्षणं ब्रह्म सर्वतो व्यावर्तितं तत्कथं शून्यं ब्रह्मेति नो भिदेत्युच्यते इति । सत्यम् । सदादि-लक्षणैर्ब्रह्म श्रुत्या सर्वतो व्यावर्तितमिति । तत्तु मायावादिमते नोपपद्यत इत्याशयवान् आह सदिति ।

अनु०-सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः ।

सदादिकं च किं एव न किमपीत्यर्थः । तथा हि । सदादिकं किं ब्रह्मस्वरूपमुतान्यत् ।

आद्ये न लक्ष्यलक्षणभावः । अनेकपदवैयर्थ्यं च । न द्वितीयः । अखण्डवादित्वात् । यथा भवतां सत्यत्वादिकं ब्रह्मस्वरूपमपि तक्षणं तथा ममापि किं न स्यादिति चेन्न । अस्माभिः विशेष-शक्तया तन्निर्वाहाङ्गीकारात् । परेण तु कुतो निर्वाह्यमेतत् । मयापि विशेषोऽङ्गीक्रियत इति चेत्

न । अखण्डवादित्वात् ।

३३सु०- यद्यपि सत्यादिपदप्रतिपाद्यवस्तुनि न भेदः । तथाऽपि व्यावर्त्यानामसत्त्वा-दीनामस्त्येव । अतस्तद्व्यावृत्तिप्रयोजनानि तद्वाचीनि वाऽनेकानि पदानि ब्रह्मणि वर्तन्त इति अभ्युपगमात् कथमस्मन्मते श्रुत्यर्थानिर्वाह इत्यत आह व्यावर्त्येति ।

अनु०-व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ।

व्यावर्त्यमात्रभेदस्तु इत्येकदेशोत्कर्तनेन सकलमप्युक्तमुपलक्षयति । एषा प्रक्रिया समस्ता शून्यवादिनः अपि मतेऽस्त्येवातो नैतयाऽपि ब्रह्मशून्ययोर्भेदो वक्तुं शक्यते । शून्य-वादिनः अपि विद्यत इति किमापादनेनोच्यते । नेत्याह अनृतादेरिति ।

अनृतादेरपोहं तु स्वयमेव हि मन्यते ।

सत्यादिपदार्थत्वेन शून्यविशेषणत्वेन चेति शेषः । मन्यते शून्यवादी । अपोहपदार्थ-वादिनो बौा इति प्रसिमेवेति हिशब्देनाह । जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदिति प्रसिं च ।

आस्तां तावत् ब्रह्मशून्ययोर्विशेषप्रतिपादनं निर्विशेषयोः । विशेषोऽस्तीति प्रतिज्ञैव तावदेषा नाङ्गं धत्ते । व्याहतत्वादिति भावेनाह निर्विशेषत्वत इति ।

निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ।

नैव प्रतिज्ञातुं शक्यत इति शेषः ।

३४सु०- ननु मायावादिना वेदस्य प्रामाण्यं स्वतःप्रामाण्यं नित्यत्वं चाङ्गीकृत्य वेद-वाक्यनिर्वाहोऽयं कृतः । शून्यवादी तु वेदप्रामाण्यमेव नाङ्गीकुरुते । तत्कथमुक्तं व्यावर्त्य-

मात्रेति । तत्राह प्रामाण्यादीति ।

अनु०-प्रामाण्यादि च वेदस्य फलतः सममेव हि ।

शब्दमात्रेण विषमम् । अर्थस्तु द्वयोरपि सम एव । तस्माद्वाक्यार्थनिर्वाहोऽपि सम इत्युक्तमुपपन्नम् । वेदवाक्यपुरस्कारस्तु मायावादिनां छद्ममात्रं प्रमेयं तु समानमेवेति भावः ।

कथं फलतः समानमित्यत आह अतत्त्वावेदकमिति ।

अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ।

वेद इति वर्तते । सर्वमपि प्रमाणम् इति वा । तेन मायावादिना । कथ्यते अविद्याव-द्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेत्यादाविति शेषः । अतत्त्वावेदकत्वेऽङ्गीकृतेऽपि कुतः सममित्यत आह अतत्त्वावेदकत्वमिति ।

अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ।

यत् यस्मात् सतां विदुषाम् । नानाविधानि लक्षणानि प्रणयन्तोऽपि परीक्षका अतत्त्वा-वेदकव्यावृत्तये प्रयतन्त एव । अनुभूतिः प्रमाणमिति वदताऽप्यतत्त्वावेदकाभावाभिमानेनैव

न प्रयत्नः कृतः । न पुनरतत्त्वावेदकस्यापि प्रामाण्याभिप्रायेण । अतो मायावादिनाऽभ्युपगतं वेदप्रामाण्यं नाम अप्रामाण्यमेव प्रामाण्याभावे च तत्स्वतस्त्वं दूरोत्सारितम् । नित्यत्वव्युत्पा-दनं च व्यर्थमेवेति ।

३५सु०- नन्वतत्त्वावेदकत्वेऽपि यस्य विषयो ब्रह्मज्ञानात् प्रागेव बाध्यते तदप्रमाणम् । यस्य तु विषयो ब्रह्मज्ञानेनैव बाध्यः तदतत्त्वावेदकं प्रमाणमिति विभागः । वेदविषयस्तु ब्रह्म-ज्ञानेनैव बाध्यते । अतः तस्य प्रामाण्यमित्याशयेनाशङ्कते दीर्घेति ।

अनु०-दीर्घभ्रान्तकरी चेत्स्यादतत्त्वावेदकप्रमा ।

या दीर्घभ्रान्तकरी सा अतत्त्वावेदकप्रमेति यदि मतं स्यादित्यर्थः । किमिदं लोकवृत्त-मनुसृत्योच्यते । किं वा स्वसङ्केतमात्रेण । आद्ये दोषमाह रज्ज्वति ।

रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।

स्यादागमस्यानिवर्त्यमाहामोहप्रदत्वतः ।

आगमस्य वेदस्य । कुतः । अल्पेन कालेनानिवर्त्यत्वाद्यो महान्मोहस्तत्प्रदत्वतः । अप्रामाण्ये विशेषाभावेऽपि तेतुकानर्थातिशयाभिप्रायेणाधिक्यादित्युक्तमिति भावः । द्वितीये अतिप्रसङ्गमाह तलेति ।

तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।

तलमिन्द्रनीलं तस्य नैल्यमिव नैल्यं तलनैल्यम् । आदिपदार्थं स्वयमेव भ•ष्यकृद्विवृ-णोति छत्रेति ।

छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ।

आकाश इति वर्तते । मानतां व्रजेदिति सर्वत्र सम्बध्यते । अल्पकालानिवर्त्यभ्रान्त-हेतोः प्रामाण्यसङ्केतं कुर्वता एतेषामपि प्रामाण्यसङ्केतः करणीयोऽविशेषात् । ब्रह्मज्ञाननिवर्त्य-विषयत्वमाश्रित्यायं सङ्केतः क्रियते न त्वल्पकालानिवर्त्यभ्रान्तहेतुत्वमिति चेत् । (न) ब्रह्मज्ञान-निवर्त्यविषयत्वोक्तयाऽप्यस्यैवार्थस्य मायावादिना विवक्षितत्वात् । अन्यथा न खलु नाग

इति नग इति वा पदात् कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्त भ्रान्ता इति वर्णदैर्घ्यादिज्ञानं कथमुदाहरेत् ।

३६सु०- किञ्चैवंविधं वेदप्रामाण्यं शून्यवादिनाऽप्यङ्गीकृतमेवेति कुतोऽयं विशेषः ।

न सर्वस्यापि वेदस्य मायावादिनाऽतत्त्वावेदकत्वमुच्यते किं नाम विधिप्रतिषेधविषयस्य । अद्वितीयं तत्त्वं प्रतिपादयतस्तत्त्वमसीत्यादेर्महावाक्यस्य निर्विशेषं सच्चिदानन्दात्मकं तत्पदार्थं प्रतिपादयतो यत्तदद्द्रेश्यमग्राह्यं सत्यं ज्ञानमित्यादेरवान्तरवाक्यस्य च तत्त्वावेदकत्वमङ्गी-क्रियत एव, न चैवं शून्यवादिना; इत्यतः कथं साम्यमित्यतः शून्यवादिनाऽप्येवमेवाङ्गीक्रियते । तत्त्वावेदकत्वं हि न विषयविसंवादाभावातिरिक्तं किञ्चिदस्त । वाक्यद्वयार्थस्य चाविसंवादः शून्यवादिनाऽप्यङ्गी(कृत)क्रियत एवेत्याशयवान् महावाक्यार्थाङ्गीकारं तावद्दर्शयति निर्भेदत्वं त्वति ।

अनु०-निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।

तेन शून्यवादिना अपि, सदा इत्यनेन स्वयमेव नास्मदापादनेनेति सूचयति ।

३७सु०- अवान्तरवाक्यार्थाङ्गीकारोऽपि द्वयोः समान इति दर्शयन् निर्विशेषत्वं तावत् उभयसम्मतमित्याह सत्त्वेति ।

अनु०- सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ।

तत्त्वस्येति शेषः । उभयोर्मायावादिशून्यवादिनोर्मतः सम्मतः । सत्यत्वमपि शून्य-वादिना अङ्गीक्रियत इत्याशयेन शून्यं नाम असत्तस्य सत्त्वं कथमित्यत आह न हीति ।

न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।

सत्प्रतियोगित्वं सद्विरोधित्वमसत्त्वम् । तेन च शून्यवादिनाऽपि । निर्विशेषत्वाभि-प्रायेण शून्यमित्युच्यते नासत्त्वाभिप्रायेण । तत्त्वमित्यङ्गीकारादिति भावः । आनन्दताऽपि शून्यवादिना अभ्युपगम्यत इति वक्तुं मायावाद्यभ्युपगतानन्दतां तावदनुवदति न चेति ।

न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ।

मायिना

दुःखविरोधित्वमेवानन्दत्वं न तु धर्मरूपं किमपीत्यर्थः । हिशब्देनानृतजडविरोधी-त्यादितत्प्रसिंि सूचयति । ततः किमित्यत आह शून्येति ।

शून्यपक्षेऽपि

तत्समानमिति शेषः । जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदित्यादितद्वचनात् । ज्ञानत्वाङ्गीकारं दर्शयति ज्ञानमिति ।

ज्ञानं जाड्यविरोधि च ।

ज्ञानं च जाड्यविरोधिस्वरूपमेवोच्यते मायिना । तच्छून्यवादिनोऽपि समानमित्यर्थः ।

परि०- निर्विशेषत्वमिति । निर्विशेषमवान्तरवाक्यार्थ इत्युक्तेरिति भावः । मूले असत्त्वपदेनाभाव-प्रतियोगित्वग्रह इति भावः ।। इत्यादितत्प्रसिमिति । अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुम् । अतिनिकटमविक्रियं मुरारेः परमपदं प्रणयादभीष्टवीमीति भाष्यकारीयमुरारिशतकगतश्लोकोऽयम् । शून्यपक्षेऽपि कुतस्तत्सममित्यतः स्वयं हेतुमाह जाड्येति । तत इत्यनुवादः । व्यावर्तकाभावादिति व्याख्या ।।

३८सु०- स्यादेतत् । मायावादिना ब्रह्मणो निर्विशेषत्वादिकमङ्गीक्रियते शून्यवादिना तु शून्यस्य । तत्कथं साम्यमित्यतो मैवम् । ब्रह्मशून्ययोर्भेदाभावस्योक्तत्वादित्याह धर्मा इति ।

अनु०-धर्माः केऽपि न सन्त्येव को विशेषस्ततस्तयोः ।

ततः व्यावर्तकाभावात् तयोः ब्रह्मशून्ययोः को विशेषः किंकृतो भेदः स्यात् । ननूक्तविधमद्वैततत्त्वं सूत्रकारस्य सिान्त एव । तत्कथं दूषणाय तदनुवादः क्रियत इत्यत

आह एतादृशानामिति ।

एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।

स्वपक्षसाधनेनैव

शून्यपक्षसदृशपक्षाणाम् । कथम् । तद्विरुस्य स्वपक्षस्य साधनेनैवार्थात् । एतदुक्तं भवति । नाद्वैतं सूत्रकारस्य सिान्तः । तेन तस्य दूषितत्वात् । पृथगुपदेशादित्यादिना तद्विरु•र्थस्य साधितत्वात् । न हि तस्य दुष्टतामननुसन्दधत्तद्विरुं साधयतीति सम्भवतीति ।

न केवलमर्थाद्दूषणं कृतं किन्तु नाभाव उपलब्धेरित्याद्युक्तितोऽपीत्याह नाभाव इति ।

नाभाव इति चोक्तितः ।

३९सु०- एवं सप्रभेदं शून्यवाद्यभिमतं मोक्षमनूद्य साधारणदोषेण तावद् दूषयन् यः शून्यवादिना प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिन (भाविन) इत्यात्मविनाशो मोक्ष

उक्तः, तं दूषयति आत्मेति ।

अनु०-आत्माऽभावे पुमर्थः कः

मोक्ष इति वक्ष्यमाणं सिंहावलोकनन्यायेनेहा(नेनेहा)पि सम्बध्यते । आत्मनोऽभावे विनाशे सति मोक्षः कः किंसम्बन्धी पुमर्थः । एतदुक्तं भवति । आत्मविनाशलक्षणो मोक्षः किमात्मनः फलम्, उत अनात्मनः । नाद्यः । तस्याभावात् । न हि फलिनोऽभावे फलमुपपद्यते । धर्मादिषु तथा दर्शनात् । न द्वितीयः । आत्मनाशेऽनात्मनोऽप्यभावात् । भावेऽप्यपुरुषार्थत्व-प्रसङ्गात् । अनात्मनस्तेनोपकाराभावाच्चेति ।

नन्वात्मन एवायम् । धर्मादिवदभ्युदयत्वाभावादसमानकालताऽप्युपपद्यत इत्यत आह आत्मेति । मोक्षः कः पुमर्थः पुमर्थो न भवेदित्यर्थः ।

तत्र हेतुमाह इष्टस्येति ।

इष्टस्यात्माऽवधिर्यतः ।

इष्टोत्कर्षपरम्परायाः पर्यन्तो यतः सर्वमात्मार्थतयेष्टम् । आत्मा त्वनन्यार्थतया । इष्ट-मात्रस्य वित्तादेर्विनाशं पुरुषो नार्थयते, किमुतेष्टतमस्यात्मनः ।

४०सु०- यद्वाऽऽत्माभावे सति मोक्षः कः पुमर्थः किमिष्टावाप्तिरूपोऽथानिष्टनिवृत्तिरूप इत्यर्थः । नाद्यः । तत्र हेतुः इष्टस्येति । सर्वस्याप्यात्मेतरस्येष्टस्यात्माऽवधिराश्रयो यतः । आत्मार्थं हि सर्वमिष्टम् । स चेन्न स्यात् तदा कस्यायं पुरुषार्थः स्यादित्यर्थः । न द्वितीयः । तत्र हेतुः इष्टस्येति । अनिष्टनिवृत्तिरपि पुरुषार्थो भवन्ती तदा स्याद्यदीष्टं न विहन्यात् । तद्विघातेऽपि वा यदि महतोऽनिष्टस्य विघातिनी स्यात् । तथा लोके दर्शनात् । न हि कश्चन्महदिष्टं विनाश्य अल्पानिष्टनिवृत्तिं कुर्वाणः प्रेक्षावानुपलभ्यते । आत्मा च सर्वतोऽपीष्टतमः । तद्विघातेन भवन्त्यनिष्टनिवृत्तिः कथं पुरुषार्थो भवेत् । रोगादिपीडिता उद्बन्धनादिना आत्मविनाशं कुर्वन्तो दृश्यन्त इति चेन्न । रोगाद्यायतनदेहपरित्यागेनात्मानं निर्दुःखीकर्तुमेव तेषां प्रवृत्तेः । निर्दुःखो भूयासमिति हि सर्वस्याशीः । न तु न भूयासमिति । देहात्मविवेकज्ञानविधुरास्त्वात्मनाशायैव प्रयतन्त इति चेन्न । तेषामप्रेक्षावत्त्वेनात्रानुदाहार्यत्वात् । उपपादितं चैतत् । यत्पशवोऽपि देहात्मविवेकज्ञानवन्त इति ।

४१सु०- ननु दुःखात्यन्तनिवृत्तिस्तावदवश्यमेष्टव्या । सा च कारणनिवृत्त्यैव भवति नान्यथा । कारणं च दुःखस्यात्मैव । अधर्मार्जनादाधारत्वाच्च । तत्कथमात्मनाशेन शून्यभावा-पत्तिर्नेष्यत इति चेत् । मैवम् । न ह्यात्मैव दुःखकारणम् । किन्तु जागर एव भावात्सुप्ताव-भावादन्वयव्यतिरेकाभ्यां शरीरेन्द्रयविषयवेदनादिकमपि । ततो ज्ञानभोगाभ्यां कर्मणि क्षीणे निर्बीजस्य देहादेरनुत्पादे सामग्रीवैकल्येन दुःखानुत्पादस्य सम्भवात् किमात्मनाशकल्पनया । कुतो विनिगमनमिति चेत् । सर्वस्याप्यात्मार्थत्वात् । आत्मनश्चात्यन्ताभ्यर्हितत्वादिति ब्रूमः । विप्रकृष्टव्ययेन हि साध्यासिौ सन्निकृष्टव्ययं प्रेक्षावन्तः कुर्वन्त । तस्मात् आत्मार्थे पृथिवीं त्यजेदिति न्यायेन दुःखं जिहासताऽऽत्मावधिकस्यैव कारणस्य मोक्ष एष्टव्यो न त्वात्मनो-ऽपीति युक्तमुत्पश्यामः । तदेतत्सूचयन्वपक्षे बाधकमाह यदीति ।

अनु०-यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता ।

यद्यस्मदभिमतप्रकारेण आत्मावधिर्मोक्षो न भवेत् । आत्मव्यतिरिक्तानां दुःखकारणानां देहादीनामेव निवृत्तिः आत्मनस्तु स्वरूपेणावस्थानमिति पक्षो यदि न स्यादित्यर्थः । आत्म-नोऽपि शून्यतापत्तिर्यदि स्यादिति यावत् । तदा घटशून्यताऽपि देवदत्तस्य मोक्षः स्यात् । तथा

च साधनानुष्ठानवैयर्थ्यम् । घटशून्यतायाः पारिव्राज्यादिकारणानपेक्षत्वात् ।

४२सु०- ननु कुतोऽयं प्रसङ्गोऽविशेषादिति चेन्न । आत्मशून्यता घटशून्यतेति भवरिेव विशेषस्योक्तत्वादित्यत आह कल्पतत्वादिति ।

अनु०-कल्पतत्वाद्विशेषाणां

न खलु अत्र शून्यताशब्देन अभावोऽभिधीयते । भावार्थप्रतियोगित्वं भावत्वं वा न

तत्त्वतः । यस्येत्यभिधानात् किन्तु (वि)नष्ट आत्मा घटश्च । तौ चाप्रामाणिकौ । न च तथाविधयोर्विशेषाः प्रामाणिकाः सम्भवन्त । न हि तुरगृङ्गं शशृङ्गं च व्यावर्तकधर्मवती इति सम्भवतः । तस्मादात्मशून्यता घटशून्यतेति व्यवहर्तृभिः केवलं व्यवहारार्थं विशेषाः कल्पता इत्यङ्गीकार्यम् । तथा च नाविशेषोऽसि इति ।

दूषणातिदेशार्थं प्राक् तत्साम्यमुपपादितम् । अतः शून्यवादिनां दूषणं मायावादिना-मतिदिशति मायिनोऽपीति ।

मायिनोऽपि समं हि तत् ।

तदित्यात्मभाव इत्यादिनोक्तं समस्तं परामृशति ।

४३सु०- स्यादेतत् । नात्मनाशो मायावादिनोच्यते । येनेष्टनाशादपुरुषार्थत्वं मोक्षस्य स्यात् । नापि शून्यताऽऽपत्तिः । यतो घटशून्यताऽपि मुक्तिर्भवेत् । किं नाम जीवभावापगमेन ब्रह्मभावाविर्भावः । ब्रह्म च परमानन्दात्मकमिति भवत्येव तावः पुरुषार्थ इति ।

मैवम् । कोऽयं जीवभावो नाम कश्च ब्रह्मभावः । यद्यविद्याकामकर्मादिबत्वं जीवत्वं परमानन्दभोक्तृत्वं च ब्रह्मत्वमित्यभिधीयते तदाऽनुज्ञया वर्तामहे । न चैवं परस्य पन्थाः । यदेतत्कर्तृत्वभोक्तृत्वशक्तयुपेतं साकारं देहादिव्यतिरिक्तं रूपमहमिति साक्षिसिं तदपगमस्य परेणेष्टत्वात् । इदमेव च रूपं परमेष्टमनुभूयत इति कथं नोक्तदोषः । आनन्दरूपतोपपादनाय परेणाप्यस्यैव रूपस्य परमप्रेमास्पदताया उपपादितत्वात् । न ह्येतस्माद्रूपाद्विविक्तं किमपि निराकारं रूपमनुसन्धाय मा न भूयं भूयासमिति लोक आशास्ते । चक्षुषी निमील्य तथेति वदतस्तु कः प्रतिमः । संवलितरूपे तदप्यस्तीत्यत इयमाशीरिति चासत् । तस्य सर्वथा-ऽप्यबुस्थित्वात् । आशासनं च साकारमेव । निराकारस्य तदनुपपत्तेः । न चान्यस्या-न्यस्मन्निरुपाधिकः प्रेमा सम्भवतीतीदमेवेष्टतमम् । एवं तर्हि देहादिसहितत्वस्यापीष्टत्वात् तन्नाशेन भवतामपि मोक्षस्य अपुरुषार्थत्वं स्यादिति चेन्न । परमेष्टलाभहेतोरल्पेष्टनाशस्यापि पुरुषार्थत्वेन लोके दृष्टत्वात् ।

ब्रह्मभावश्च न शून्यभावाद्यित इत्युपपादितम् । आनन्दरूपता च वाङ्मात्रमित्युक्तमेव ।

किञ्च आनन्दत्वमपि न पुरुषार्थः । न हि कश्चदानन्दो भूयासमित्याशास्ते । किन्तु तमनुभूयासमिति । न चानुभाव्यत्वं परेणेष्यते । अनुभवितुरन्यस्याभावात् । स्वस्मन्कर्मकर्तृ-भावानभ्युपगमात् ।

अपि चानन्दत्वं प्राक् सिमिति न पुरुषेणार्थनीयम् । प्रागविद्यावृतं न प्रकाशते पश्चा-दविद्यावरणापगमे प्रकाशतेऽतो नैवमिति चेन्न । प्रागपि स्वरूपस्य स्वयंप्रकाशमानताऽभ्युप-गमात् । तन्मात्रस्य चानन्दस्याप्रकाशानुपपत्तेः । प्रकाशमानोऽप्यानन्दो न विशदः प्रकाशत इति चेन्न । निर्विशेषत्वात् । वैशद्यावैशद्ययोश्च विशेषनिबन्धनत्वात् । य िसह विशेषैः प्रकाशते तद्विशदमुच्यते । यत्तु साधारणधर्मैः सह तदविशदमिति । अविद्यावरणापगमे प्रकाशत इति च कोऽर्थः । किं प्रतीयत इति उत प्रत्येतीति । नोभावपि । अनङ्गीकारात् । प्रदीपः प्रकाश इति कोऽर्थ इति चेत् । भास्वररूपवान् वर्तत इति न किञ्चिदेतत् । तदिदं सूचितं हिशब्देन ।

४४सु०- ननु निर्विशेषां शून्यतां मोक्षमाचक्ष्महे । तल्प्रत्ययोऽपि हि व्यवहारार्थमेव उपादीयते न तु कमपि धर्मं प्रतिपादयति । घटशून्यता तु सविशेषा घटेन विशेषितत्वात् । तत्कथमतिप्रसङ्ग इति चेन्न । विवक्षिताया अपि शून्यताया एवमेवात्मशून्यतेत्यात्मना विशे-षितत्वेन सविशेषत्वदर्शनात् अमोक्षत्वप्रसङ्गात् । अथैवमात्मशून्यताया विशेषे दृश्यमानेऽपि केनचिदभिसन्धना निर्विशेषतोच्यते तत्राह दृश्यमान इति ।

अनु०-दृश्यमाने विशेषेऽपि यदि चेदविशेषता ।

घटाभावेऽविशेषः स्यात् पाश्चात्यश्चेदनागतः ।

मोक्षत्वेनाभिमतस्य शून्यभावस्येति शेषः । चेच्छब्दः स्यादित्यर्थे । भावशब्दः कर्तृ-साधनः । एवं तर्हि घटशून्यताऽपि तेनैवाभिसन्धना निर्विशेषा स्यादित्यतिप्रसङ्गतादवस्थ्य-मिति । पूर्वपक्षिणोऽभिसन्धमुद्घाटयति पाश्चात्यश्चेदिति । आत्मशून्यभावः । पाश्चात्यो विशेष-रहित इति चेदित्यर्थः । पाश्चात्यत्वं चात्र व्यवहारापेक्षया ।

ततश्चैतदुक्तं भवति । इदानीं निरूपणसमये व्यवहारार्थं कल्पतेनैव विशेषेणात्मशून्य-भावः सविशेष इवाभाति । अक्रियमाणे तु निरूपणे स्वरूपेण निर्विशेष एवेति । सिान्तनो-ऽभिसन्धमुद्घाटयति अनागत इति । एवं तर्हि घटशून्यभावोऽपि निरूपण एव सविशेषो दृश्यते । निरूपणमनागतोऽप्राप्तस्तु निर्विशेष एवेत्यस्माभिरपि शक्यते वक्तुमित्यर्थः ।

४५सु०- किञ्चोक्तरूपे शून्यवादिमायावादिभ्यामुत्प्रेक्षिते मोक्षे न किञ्चित् प्रमाणमस्त । तथा हि । न तावदत्र प्रत्यक्षं प्रमाणम् । प्रत्यक्षाविषयत्वादस्यार्थस्य । नाप्यागमः । वेदाद्यागमस्य शून्यवादिना प्रमाणत्वेनानभ्युपगमात् । तदीयागमस्यास्माभिरनङ्गीकृतत्वात् । मायावादिनं प्रति तु वक्ष्यामः । तस्मादात्मशून्यता पुरुषार्थो दुःखनिवृत्त्युपयोगित्वाच्छरीरादिशून्यतावदित्यनु-मानमेव वक्तव्यम् । यथोक्तम् । न तैर्विना दुःखहेतुरात्मा चेत्तेऽपि तादृशाः । निर्दोषं द्वयमप्येवं वैराग्यं च द्वयोस्तत इति । तदिदं सत्प्रतिपक्षतया नानुमानमित्याह न मोक्ष इति ।

अनु०-न मोक्षो विमतो यस्माददेहो घटशून्यता ।

यथेत्युक्ते वदेत्कं स योऽनुमामात्रमानकः ।

विमतः शून्यभावो ब्रह्मभावो वा न मोक्ष इति प्रतिज्ञा । यस्मात् ओह इति हेतुः ओह-त्वादिति । घटशून्यता यथेति दृष्टान्तः । योऽनुमामात्रमानकः स इत्युक्ते किं वदेत् इत्यनेनोक्त-विधया प्रमाणान्तराभावं तत एव स्वानुमानस्याबाधितविषयत्वं च सूचयति ।

४६सु०- अत्राह मायावादी । नेदं प्रत्यनुमानं मानम् । विदेहावस्थैव मोक्ष इति श्रुति-सावेन कालातीतत्वात् । किञ्च श्रुत्यैव ब्रह्मभावाविर्भावो मोक्ष इत्युक्तत्वात् किमनुमानेनेति । तत्राह न चेति ।

अनु०-न च मायी वदेदत्र

अत्र अनुमानविषये श्रुतिमालम्ब्य दूषणं न वदेत् । तथाऽत्र स्वाभिमते मोक्षे श्रुतिं प्रमाणं नैव वदेत् इत्यर्थः । कुत इत्यत आह पूर्वेति ।

पूर्वोक्तेनैव वर्त्मना ।

अमानत्वात् श्रुतेस्तस्य

तस्य मायावादिनो मते श्रुतेरमानत्वात् । कथम् । प्रामाण्यादि च वेदस्येत्यादिना पूर्वोक्तेनैव वर्त्मना । ननु न सर्वो वेदोऽतत्त्वावेदकः किन्तु विधिनिषेधात्मक एव । अतथा-भूतास्तु वेदान्तास्तत्त्वावेदका इति चेन्न । सर्वधर्मोज्खतस्यास्य किं शास्त्रेणाधिगम्यत इत्या-दिना पूर्वोक्तेनैव वर्त्मना अत्र तत्त्वे श्रुतेरमानत्वात् ।

४७सु०- अस्तु वा कथञ्चित् श्रुतिः प्रमाणम् । तथाऽपि नास्मदनुमानस्य तद्बाध इत्याह

न चेति ।

अनु०-न चादेहत्ववादिनी ।

श्रुतिः काचित्

मुक्ताविति शेषः । तथा तदभिमतमोक्षवादिनीत्यपि ग्राह्यम् । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इत्यादिश्रुतिसावात् कथमदेहत्ववादिना श्रुतिर्नास्तीत्युच्यत इत्यत आह ओहत्वमिति ।

ओहत्वमप्राकृतशरीरता ।

यदस्यां श्रुतौ ओहत्वं उच्यते तत्प्राकृतशरीरराहित्यमेव । न तु सर्वथाऽप्यदेहत्वम् । प्राकृतशब्देन जडमुपलक्ष्यते । तद्राहित्यं च चतुर्थपादोदितप्रकारेण ज्ञातव्यम् । एवं ब्रह्म वेद ब्रह्मैव भवतीत्यादिश्रुतिराशङ्क्य व्याख्यातव्या च ।

अशरीरत्वश्रुतेः कुतोऽर्थसङ्कोचः क्रियत इत्यत आह मोक्ष इति ।

मोक्षे भोगं यतो ब्रूते जक्षन् क्रडन्निति श्रुतिः ।

स तत्र पर्येति जक्षन्क्रडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वेति श्रुति-र्मोक्षे स्त्र्यादिभोगं ब्रूते । न च अशरीरस्यासौ सम्भवतीत्यतः सङ्कोच इत्यर्थः ।

४८सु०- परकयानुमानस्य प्रतिपक्षान्तरमाह निर्दुःखत्वादिति ।

अनु०- निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।

अनुमा दूषणं किं स्याद्वादिनोः शून्यमायिनोः ।।

तच्छून्यत्वं ब्रह्मत्वं वा मोक्षो न भवति निर्दुःखत्वात् प्रतिपन्नं घटशून्यत्वं यथेति चानुमायाः किं दूषणं स्यात् न किमपि । शून्यशब्देन तदङ्गीकारवान् लक्ष्यते । शू(न्यं च मा)न्यश्च मायी चेति द्वन्द्वः । यद्वा शून्यं च माया चेति द्वन्द्वः । ते विद्येते ययोरिति व्रीह्यादिलक्षण इनिः । तत्र च तदन्तविधिरिष्यते ।

४९सु०- प्रतिपक्षान्तरमाह दुःखमिति ।

अनु०-दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ।

मोक्ष इति शून्यं ब्रह्म चोच्यते । प्रतिवादिभ्यां तथाऽभ्युपगतत्वात् । स मोक्षो दुःखात्मा स्यात् दुःखादभिन्नत्वात् । दुःखप्रतियोगिकभेद(रहितत्वा)शून्यत्वात् प्रसिदुःखवत् इत्यर्थः । शून्यब्रह्मणोर्दुःखत्वे तावापत्तिः न पुरुषार्थ इति स््यिति । अपिशाब्दः प्रतिपक्षान्तरसमु-च्चयार्थः । असंशयमिति व्याप्तेर्निश्चतत्वमाचष्टे ।

दुःखप्रतियोगिकभेदाभावः कुत इत्यत आह भेद इति ।

भेदे सद्द्वैततैव स्यात्

दुःखात् शून्यब्रह्मणोरिति शेषः । तथा चापसिान्त इति भावः ।

५०सु०- किञ्च दुःखापायस्यात्मनाशेन विना देहादिनाशेनापि सम्भवादन्यथासिश्चि अनुमानस्य । शरीरादिशून्यताऽपि न दुःखध्वंसोपयोगित्वात् पुरुषार्थः । किं नाम आत्मनो निर्दुःखतां प्रति हेतुत्वात् । न हि दुःखं नश्यत्वति कश्चदाशास्ते । अपि तर्हि निर्दुःखः स्याम्

इति ।

ननु शून्यभावो ब्रह्मभावो वा भवतां सिश्चेदपसिान्तः, न चेदाश्रयासिरिति चेन्न । परानुमानेऽप्यात्मशून्यताया असित्वेन आश्रयासिेः । इयांस्तु विशेषः । यत्परप्रसिमिात्रेण प्रतिपक्षः सम्भवतीति ।

ननु भोगश्रुतिः सगुणमुक्तिविषयास्त्वति चेन्न । परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि-निष्पद्यत इत्युक्तिविरोधात् । निर्दुःखत्वान्मोक्षो न भवतीति विरुमिति चेत् । परमेष्टस्य आत्मनो नाशः पुरुषार्थ इति कथं न विरुम् ।

अथ सतो दुःखोदे सद्द्वैतता स्यात् । दुःखं तु मिथ्येति चेन्न । अनुभवविरोधादेरुक्त-त्वात् ।

बहुजीववादिनं प्रति नान्तमानुमानमिति न कुचोद्यावकाशः ।

तदेतत्सर्वमभिसन्धायोपसंहरति इत्यादीति ।

अनु०-इत्याद्यमितदोषतः ।

हेयं मायामतेनैव सह शून्यमतं बुधैः ।।

सहैवेति सम्बन्धः ।

५१सु०- विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशति एवमिति ।

अनु०- एवं विज्ञानवादोऽपि

शून्यवादिमायावाद्यभितमोक्षवत् विज्ञानवाद्यभिप्रेतोऽपि मोक्षो हेय इत्यर्थः । ननु विज्ञानवादिनो विज्ञानं तत्त्वमाहुः तस्यापि क्षणिकत्वं स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रका-शत्वं च । न चैवं पूर्वकावित्यतो वैषम्यात् कथमतिदेश इत्यत आह ज्ञानेति ।

ज्ञानमात्रविशेषतः ।

तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।

औततामतं साक्षादुक्तदोषस्ततो भवेत् ।।

ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः । तं इति द्वितीयार्थे तसिः । यस्मात् ज्ञान-मात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादोऽपि औततामतं ज्ञात-व्यम् । न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावः औतता । तस्या मतम् औततामतम् । ततः कारणात् उक्तदोषः अपि समो भवेत् ।

इदमुक्तं भवति । अस्तु विज्ञानवादस्य पूर्वस्मात् कश्चद्विशेषः । तथाऽपि स प्रकृता-नुपयोगित्वान्नादरणीयः । मोक्षस्वरूपं तु प्रकृतं समानम् । प्रतिपन्नं जीवभावं विहाय द्वितीय-विज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाऽप्यङ्गीकृतत्वात् । अतो युक्त एवातिदेश इति । यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादोऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति । न कश्चद्विज्ञानवादस्य पूर्वाभ्यां विशेषः । ज्ञानमिति विशेषस्य शब्दमात्र-त्वेन हेयत्वात् । न हि ज्ञानत्वं नाम धर्मोऽभ्युपगम्यते परेण । भङ्गुरत्वादिकं तु तेनैव कल्पत-मित्युक्तत्वोयमेव । न तु वस्तुतो मतभेदहेतुः । यथोक्तं तत्र सन्ततिभेदश्चेत्यादि अतो युक्तो-ऽतिदेश इति । अतिदेशप्रकारस्तु स्पष्ट एव ।

५२सु०- अनुमानान्तरमपि तन्निरासार्थमाह काल इति ।

अनु०- कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ।

एतयानुमया रोधान्न तादृङ्मोक्षरूपता ।।

मोक्षकालोऽद्वितीयज्ञानवान्न भवतीत्यर्थः । प्रतिपन्नवत् वर्तमानकालवत् । रोधात् विरोधात् । तादृक् मोक्षरूपं यस्यात्मनोऽसौ तादृङ्मोक्षरूपः तस्य भावः तत्ता । ज्ञानाति-

रिक्तस्य कल्पतत्वात् वर्तमानकालोऽपि केवलज्ञानीति चेन्न । मुक्तिसंसारयोरविशेषापत्तेः । यस्तु विशेषोऽङ्गीक्रियते तदभाव एवानेन साध्यते ।

५३सु०- ज्ञानव्यतिरिक्तं किमपि नास्तीति मते कालोऽपि नास्त्येव । अतः किमाश्रया अनुमानप्रवृत्तिरित्यत आह यदीति ।

अनु०-यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ।

किं वक्ष्यति

आह विज्ञानवादी । तदा कदा कालो नेति प्रश्ने परेण कृते सति किमुत्तरमसौ वक्ष्यति । निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात् कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः । मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशङ्क्याह यदेति ।

यदावस्थां वदेत् सा पक्षतां व्रजेत् ।

वदेत् कालाभावाधिकरणत्वेनेति शेषः । तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्रजेत् । पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते । मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः ।

एवं तर्हि कालत्वादिति हेतुः स्वरूपासिः स्यादित्यत आह अवस्थात्वादिति ।

अनु०-अवस्थात्वादिति ह्येव हेतुः

यदाऽवस्था पक्षीक्रियते तदा अवस्थात्वादित्येव हि हेतुः उच्यते न कालत्वादित्यतो नोक्तदोषः ।

५४सु०- एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषोऽपीति वाच्यम् । प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत् । मैवम् । कालाभावस्यावस्था-मधिकरणं वदता न किञ्चिदात्महितमाचरितम् । अनुमानान्तरविरोधस्यापरिहार्यत्वात् । न हि प्रतिवादिनिग्रहमात्रेण विरुं तत्त्वं व्यवतिष्ठते । मा हि भूत् कस्मंश्चदनुमाने सद्दूषणद्वयेन दूषितेऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति प्रदर्शनार्थमेवानुमानान्तर-मुपन्यस्तम् । वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाह साऽपीति ।

अनु०- साऽपि कदेति च ।

पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।

मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षावस्थाऽपि कदेति केनचित् पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल एव वक्तव्यः । न ह्येवं कदाऽपि

न प्रष्टव्यमिति नियामकमस्त । ततः कालस्य सर्वथाऽपरिहार्यत्वात् अकालत्वं कालाभावो

न भवेत् । तथा च तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति ।

५५सु०- ननु कालाभावादाश्रयासिमाद्यानुमानम् । यदत्रोक्तं कदेति तदसत् । प्रति-योग्यधिकरणमेव ह्यभावस्याधिकरणम् । न च कालस्य कालोऽधिकरणम् । येन तदभावः कालाधिकरणः स्यात् । अतः कदेति प्रश्न एवानुपपन्नः । किमुत्तरेणेति चेति । एवं तर्हि काल-विशेषमधिकरणत्वेनानुपादाय कालं निषेधता सामान्यनिषेध एव कृतः स्यात् । ततः किमित्यत आह नेति ।

अनु०- न काल इति सामान्यनिषेधे कालगप्रमा ।

निरुण

किालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिं स्यात् । तथा च कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी (निरु)विरुण ि। स हि पूर्वोत्तरकोटि-रहिततया कालसावं गृह्णातीति । न केवलमयं साक्षिविरोधो विज्ञानवादिनः किं नाम पूर्वाभ्यां सह त्रयाणां चेत्याह समश्चेति ।

समश्चायं त्रयाणामुक्तवादिनाम् ।

उक्ताः प्रत्युक्ताः ।

परि०- प्रतियोग्यधिकरणमेव ह्यभावस्याधिकरणमिति । पूर्वोत्तरकालभेदेनेति भावः ।। न चेति । आत्माश्रयापत्तेरिति भावः । ननु साक्षी मुक्तौ कालसत्त्वं कथं गृह्णाति येन तद्विरोध इत्यत आह स हीति । उक्त-वादिनामित्यत्रोक्तपदार्थमाह उक्ताः प्रत्युक्ता इति । निरस्तवादिनामित्यर्थः ।

५६सु०- ननु कथं शून्यवादिमायावादिनोरयं साक्षिविरोधः । ताभ्यां कालाभावस्यान-भ्युपगतत्वात् । यथा हि लोकेऽनेकेषु मायामयान् गजतुरगादीन् पश्यत्सु यस्य कारणविशेषेण माया अपगच्छति स एव तान्न पश्यति अन्ये तु पश्यन्त्येव । तथा द्वैतदर्शनकारणमज्ञानं यस्या-पगतं स एव तन्न पश्यति । अन्येषां तु कालादिप्रपञ्चदर्शनमनुवर्तत एवेति खलु ताभ्यामभ्युपेत-मित्यत आह एकेति ।

अनु०-एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।

कुपिता

सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम् । न च तयोरस्माभिः साक्षिविरोधोऽभिहितः । किं तर्ह्येकमुक्तिरेव सर्वमुक्तिः एकस्मन्मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा कुपिता विरोधिनी भवत्येव ।

५७सु०- शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम् । कालाभावाभ्युप-गमेऽपीदानीं तस्याप्रस्तुतत्वादित्यत आह कालमिति ।

अनु०-कालमाधाय द्वैतमेवोपपादयेत् ।

इयं प्रमेति वर्तते । आधाय उपपाद्य । अयमभिसन्धः । अद्वितीयस्य शून्यस्य ब्रह्मणो वाऽवस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते । तत्र वयं ब्रूमः । कालसावा-न्नाद्वैतत्वमुपपद्यत इति । तत्र परः कालोऽपि नास्तीति वदति तदा साक्षिविरोधोऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतो, न त्वाश्रयासिप्रिसङ्गेनेति ।

५८सु०- वादित्रयसाधारणमनुमानान्तरमाह विमत इति ।

अनु०-विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ।

इति चान्याऽनुमैकत्वं जीवस्य विनिवारयेत् ।।

कालः प्रपञ्चवान् इत्युक्ते सिसाधनता स्यात् । अतो विमत इत्युक्तम् । मोक्षकाल इत्यर्थः । तस्य स्पष्टीकरणाय काल इत्युक्तम् । कालाभावस्यानुपदमेव निरस्तत्वान्नाश्रया-सिःि । प्रपञ्चो वियदादिः प्रतिपन्नः वर्तमानकालः । पूर्वोक्तमेवेदं कृतः पुनरुच्यत इत्याशङ्का-निरासायोक्तम् अन्याऽनुमा चेति । यद्यपि द्वयोर्धर्म्यादिकं प्रयोजनं च समानम् । तथाऽपि पूर्वमद्वैतनिषेधमुखेन प्रवृत्तम् । इदं तु प्रपञ्चविधिमुखेनेति भेदः । जीवस्य मुक्तस्य ।

५९सु०- उक्तातिदेशेनाद्वैतमतान्तराणि दूषयति कालेति ।

अनु०-कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।

निराकृतानि

यद्यदनुविं प्रतीयते तत्तत्रारोपितम् । यथेदमाकारे रजतम् । कालानुविं च समस्तं प्रतिभाति । तस्मात्तत्रैवारोपितम् । स एव परमार्थः । अतस्तन्मात्रावस्थानं मुक्तिरिति कालै-कत्ववादिनः । एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः । यथा न सोऽस्त प्रत्ययो लोके

यः शब्दानुगमादृते । अनुविमिव ज्ञानं सर्वं शब्देन गम्यत इति । शैवैकदेशिनः स्वागम-माश्रित्येश्वरैकत्वमाहुः ।

कथं निराकृतानीत्यत आह तेषां चेति ।

तेषां च समत्वात् पक्षदोषयोः ।

तेषां शून्यवादिप्रभृतीनां एतेषां पक्षस्तावत् समान एव । शून्यादिशब्दभेदस्याप्रयो-जकत्वात् । प्रतिपन्नस्वरूपजीवविनाशादेः सर्वैरभ्युपगतत्वात् । अतः परमेष्टनाशेनापुरुषार्थत्व-मित्यादिदोषोऽपि समान एवेति । अनुमानं तु प्रत्यक्षविरोधादिना दुष्टमेव । तथाऽऽगमोऽपीति स्फुटत्वान्नोक्तम् ।

६०सु०- वैभाषिकसौत्रान्तकाभिमतं मोक्षं निरूपयति ज्ञानमिति ।

अनु०- ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ।

बौाभ्यामपराभ्यां तु

एवशब्देन विषयसम्बन्धं व्यावर्तयति । इष्यते मुक्तौ । अयमर्थः । ज्ञानमेवात्मा । तच्च ज्ञानं स्वभावेनैव भङ्गुरम् । अत एव क्षणिकम् । तत्सन्तानस्तु नित्यः । तस्य अनादिवासना-वशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वासनायामुत्सन्नायां यो विषयो-पप्लवं विना शुस्यैवोदयः स मोक्षः इत्युभयसमानम् । सौत्रान्तकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति ।

६१सु०-निराकरोति तत्रापीति ।

तत्राप्युक्तानुमा रिपुः ।

विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तनकालवदित्यादि-रुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यर्थः ।

६२सु०- अनुमानान्तरमाह मोक्ष इति ।

अनु०-मोक्षो न शुविज्ञानसन्तानी कालगत्वतः ।

प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।।

शुविज्ञानसन्तानी(ति) निर्विषयचित्सन्तानसम्बन्धी । कालगत्वतः कालसम्ब-न्धत्वात् । प्रतिपन्नः संसारः । तदुत्तरं तत्पक्षस्य दूषणम् । अप्रामाणिकश्चायं मोक्षः । पूर्ववत् प्रत्यक्षागमयोरभावात् केवलानुमानानि वाच्यानि । तत्राह अनुमानानीति ।

अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।

निषिान्युक्तभङ्ग्यैव

उक्तभङ्ग्यैव प्रतिसाधनसम्बन्धेन । श्रुतिविरुत्वेन कालात्ययापदिष्टानि चेति भावेन आह श्रुतयश्चेति ।

श्रुतयश्चास्मदुक्तिगाः ।

उच्यत इत्युक्तिः अस्मदुक्तिं गच्छन्त प्रतिपादयन्तीति अस्मदुक्तिगाः । अस्मदभि-मतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः । श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति ।

६३सु०- साङ्ख्याद्यभिमतं मोक्षमनुवदति साङ्ख्येति ।

अनु०- साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च निःसुखम् ।

आद्यग्रहणेन वैशेषिका उच्यन्ते । यथा पूर्वेऽनुपपन्नभाषिणस्तथैतेऽपीति ज्ञापनार्थ-श्चशब्दः । कुत एवं प्राहुरित्यत आह इच्छेति ।

इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।

तत्राहुः

तत्र मुक्तौ इच्छाद्वेषप्रयत्नादेरपि लयमाहुः । सुप्तिप्रलयवैलक्षण्यं दर्शयितुं सर्वात्मना इत्युक्तम् । निवृत्तजातीयस्य तस्मन्नेवात्मनि पुनरनुत्पादः सर्वात्मना लयः । आदिपदेन बु-िदुःखधर्माधर्माणां शरीरेन्द्रयाणां च ग्रहणम् ।

६४सु०- ततश्चायमाशयः । न तावन्मुक्तस्य सुखमनादीत्युपपद्यते । संसारेऽपि तत्प्रति-भासप्रसङ्गात् प्रतिभासत एवेति चेन्न । प्रतिभासमानस्यानादितायां साधनोपादानवैयर्थ्यापत्तेः ।

अव्यक्तत्वात् संसारे न प्रतिभासते व्यक्तत्वात् तु मुक्तौ प्रतिभासत इति चेन्न । अव्यक्तिर्हि प्रतिभासाभावो व्यक्तिश्च प्रतिभासः । ततश्चाप्रतिभासान्न प्रतिभासते प्रतिभासनाच्च प्रतिभासत इत्युक्तं स्यात् । किञ्च प्रतीतिकारणान्तःकरणसावे संसारे न प्रतीयते । मुक्तौ तु तदपगमे प्रतीयत इति सुभाषितम् । आवृतत्वान्न प्रतीयत इति चेन्न । मूर्तत्वाभावेनावरणानुप-पत्तेः । तदनिरूपणाच्च । सुखमिव तत्प्रतीतिरप्यनादिश्चेत्कमावरणकृत्यम् । विषयविषयिभावः प्रतिबध्यत इति चेन्न । निर्विषयायाः प्रतीतेरनुपपत्तेः । सुखतत्प्रतीत्योरनादितायां प्रमितायामेव चैषा कल्पना युक्ता । न च तत्र प्रमाणं पश्यामः । ततः सुखस्य तत्प्रतीतेश्च मुक्तावुत्पत्तिरेव वक्तव्या । साऽपि न सम्भवति । कारणाभावात् । शरीरे सति तदाश्रयेन्द्रयसावः, तैरर्था-लोचनं, ततः पूर्वानुभूतसारूप्येणेष्टानिष्टसाधनत्वानुमानं, तस्मादिच्छाद्वेषौ ताभ्यां प्रयत्नः, ततश्चेष्टसाधनोपादानं, अनिष्टसाधनहानं च, ततः सुखोत्पादः, तदनन्तरं तत्प्रतीतिरित्येष दृष्ट-कारणक्रमः । अदृष्टं च सर्वत्र विजयते । न चैष कारणप्रवाहो मुक्तावस्त । तत्सावे दुःख-स्यापि प्रसङ्गेन मुक्तत्वव्याघातात् ।

तस्मात् सुखरहित एव मोक्षः ।

६५सु०- कथमयं पुरुषार्थ इति चेत् शरीरं षडिन्द्रयाणि षड्विषयाः षड्बुयः सुखं दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः । दुःखनिवृत्तिः पुरुषार्थ एव न भवति । तदीयपुरुषार्थत्वस्य सोपाधिकत्वात् । सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते न तु स एव पुरुषस्य समीहित इति चेत् (न) । विपर्ययस्यापि सावात् । भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते । क्वचिद् दुःखनिवृत्त्यभावेऽपि सुखस्येष्यमाणत्वादिति चेन्न । दुःखनिवृत्तेरपि क्वचित् सुखाभावेऽपीष्यमाणत्वात् । दुःखनिवृत्तौ सत्यां सुखमेव भविष्यती-त्यभिसन्धस्तावदस्तीति चेत् । सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सावात् । तस्माद्यद्यपि दुःखाभावे सुखं सुखे च दुःखभावो नियतः । तथाऽपि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः । इच्छाया असङ्कीर्णविषयत्वादिति ।

६६सु०- भवति दुःखहानिः पुरुषार्थः किं त्वनुभूयमानतया । न हि विषादिजन्यमोहा-वस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तः प्रवर्तन्ते । तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेन्न । पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद्विषशस्त्रोद्बन्धनादावपि प्रवृत्तिदर्शनात् । प्रेक्षावन्तो नैवं कुर्वन्तीति चेन्न । पुरुषार्थत्वाविरोधात् । न हि परदारेषु शास्त्र-निषेधाङ्कुशवारिताः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः । अपि त्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः । तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान् प्रवर्तत इति न ते प्रवर्तन्ते । इयमेव हि प्रेक्षा यत्पुरुषार्थेऽपि शास्त्रलोकविरोधपरामर्शः । स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात् पुरुषार्थतायाः । अत एव यत्र लोकशास्त्राविरोधस्तत्र व्याध्यादिपरिपीडिताः प्रयागवारिपातानशनादिनाऽपि देहं त्यजन्तः प्रेक्षावन्तोऽपि दृश्यन्ते ।

न क्वचिद् दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते । अपि तु दुःखं हास्यामीति । अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितं, दुःखनिवृत्तिसत्ताऽपि वा । आद्यश्चेत्तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव । समाधिभावा(वधिव)दात्यन्तक दुःखनिवृत्तिरप्यनागता-ऽवर्तमानाऽप्यचिरमनुभूयत एव । द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्व-प्रसङ्गः । सर्वदाऽननुभूयमानत्वात् । तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः । निवृत्तेः सर्वदा तादवस्थ्यात् ।

तस्मात् सुखरहितो मोक्षः पुरुषार्थ इति ।

६७सु०- निराकरोति नैतदिति ।

अनु०-नैतदप्यत्र शोभनं

अत्र मुक्तौ । एतत् सुखराहित्यमतम् अपि न शोभनम् । कुत इत्यत आह श्रुतय इति ।

श्रुतयो यतः ।

महानन्दं च भोगं च नियमेन वदन्त हि ।

अत्रेति वर्तते । भोगं तदनुभवम् । नियमेन अविगानेन । हीति श्रुतीनां प्रसितामाचष्टे । ताश्चोदाहरिष्यन्ते ।

६८सु०- ननु अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति मुक्तस्य दुःखवत् सुखस्यापि हानिः श्रूयते । तथा न प्रेत्य संज्ञाऽस्तीति ज्ञानाभावश्च । तत्कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद्व्याचष्टे प्राकृतेति ।

अनु०-प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ।।

अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तानिरेव प्रियास्पृष्टिरितिशब्देन प्रतिपाद्यते । न तु सर्वथा सुखाभावः ।

६९सु०-एवं तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या । विशेषाभावात् । तथा च मोक्षे दुःखसाव(प्राप्तिरि)प्रसक्तिरित्यत आह अप्रियमिति ।

अप्रियं प्रतिकूलं तदविशेषेण शब्दतम् ।

यस्मात् सकलमप्यप्रियं (दुःखं) प्रतिकूलं मुमुक्षोरनपेक्षितम् । तत् तस्मात् अप्रियम्

अत्र अविशेषेण शब्दतम् ।

एतदुक्तं भवति । सर्वात्मनाऽनिष्टनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम् । दुःखं तु यादृशतादृशमप्यनिष्टमेव । अतो न तद्विभागेन व्याख्यातुं युक्तमिति ।

यद्वा । येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात् तदा तदपि विभागेन व्याख्यातव्यं भवेत् । न चैवम् । सामस्त्येन प्रियहानिरनिष्टा । अनिष्टप्राप्तौ च मोक्षस्यापुरुषार्थत्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते । तथा च वक्ष्यामः । न च सामस्त्येन दुःखहानिरनिष्टा । सर्वस्यापि दुःखस्यानिष्टत्वेन तानेरिष्टत्वात् । तर्हि सर्वस्यापि सुखस्येष्टत्वात् प्राकृतसुख-हानिरपि नाङ्गीकरणीया इति चेन्न । तस्य दुःखानुषक्तत्वेन विषसंपृक्तमधुवदनिष्टपक्षनिक्षेपा-दिति भावः ।

७०सु०- इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याह नास्तीति ।

अनु०-नास्त ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।

अप्राकृते दुःखे सति तद्व्यावृत्तये प्राकृतमिति विशेषणीयं स्यात् । सतो मुक्तियोग्यस्य । जीवस्य अप्राकृतं दुःखं नास्त प्रमाणाभावात् । अतो व्यर्थं विशेषणमिति । कुत्रचित् श्रुतौ स्मृतौ चोक्तमिति शेषः ।

७१सु०-एवं तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात् तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्त-मित्यत आह प्रियमिति ।

प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।

बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः इति श्रुतिवाक्यादस्य सतो जीवस्य प्रियं स्वरूपमेव इत्यवगम्यते । स्वरूपं चाप्राकृतम् । अतस्तद्व्यवच्छेदाय विशेषणप्रक्षेपेण व्याख्यानं युज्यते ।

(एतेन) अनेन सुखस्योत्पत्तिमत्त्वे यो दोषोऽभिहितः सोऽनङ्गीकारपरास्तो वेदितव्यः । स्वरूपत्वेनानादित्वस्योक्तत्वात् । यदत्रोक्तं तदप्यसत् । आवृताः सन्तो व्यज्यन्त इति श्रुत-त्वात् । आवरणं च मायाऽविद्यादिसमाख्याता प्रकृतिरेव । न च विशदश्रुतिसिेऽर्थे काचि-दनुपपत्तिः । ज्ञानस्य स्वरूपत्वेनानादित्वेऽप्यविद्यया विषयविषयिभावः प्रतिबध्यते । न चोक्त-दोषः । आत्मस्वरूपादौ तस्याप्रतिबत्वात् ।

७२सु०- उक्तमर्थं सङ्क्षिप्याह हेयत्वादिति ।

अनु०-हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ।

न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।।

अप्रियस्य दुःखस्य हेयत्वादेवेति एवशब्देन सर्वथेति सूचयति । अशरीरं वाव सन्तम् इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते । कुतः प्रियहानेरनिष्टत्वतः । किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः । अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्त-व्यम् । तत्र हेतुरप्रियस्य सर्वथा हेयत्वादिति । उपलक्षणं चैतत् । सतो जीवस्य अप्राकृत-दुःखाभावाच्चेत्यपि द्रष्टव्यम् ।

७३सु०-ननु सज्जीवस्याप्यप्रियं स्वरूपभूतमप्राकृतमस्त । तत्कथमेतदित्यत आह अप्रियस्येति ।

अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ।

असुराश्च न मोक्षयोग्या इति भावः । तां श्रुतिमर्थतः पठति असुरा इति ।

असुरा नैवमेवं च नैवं च खिलमानुषाः ।

इति

अनेन नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा । नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिमुपादत्ते । नित्यत्वोक्तया स्वरूपत्वं सिम् । वृत्तीनामनित्यत्वात् । परमात्मा परमेश्वरः । सज्जीव इति वा । नैवमिति । एतद्विरुस्वभावा इत्यर्थः । एवमनेवं चेति । उभयस्वभाव इत्यर्थः । असुरा नैवं, अखिलमानुषा एवं च नैवं चेति योजना । इति श्रुतमिति सम्बन्धः ।

७४सु०- अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषेऽवस्थाप्यत इत्याशङ्काऽपि परिहृता । नियामकस्य सूचितत्वात् । तदेव नियामकं विस्पष्टमाचष्टे आत्मेति ।

अनु०-आत्मप्रियहानाय को यतेत च बुमिान् ।

आत्मा च तत्प्रयं चेति आत्मप्रियम् । आत्मनः प्रियमिति वा । तदिच्छति चेति

चशब्दः ।

यदि प्रियास्पृष्टिरविशिष्टा स्यात् तदा न कश्चत् प्रेक्षावान् मोक्षमिच्छेत् । नापि तदर्थं प्रयतेत । यद्यपि द्वेषवशात् परकयसुखहानादाविच्छादिकं सम्भवति । तथाऽपि न कश्चद् बुमिान् आत्मनः सुखहानमिच्छति । तदर्थं प्रयतते वा । वृत्तिरूपसुखस्यानिष्टभूयिष्ठत्वात् तत्त्या(गेच्छा)गायेच्छादिकं युज्यते । स्वरूपसुखं तु निष्कण्टकं कस्मात् त्याज्यम् । न च तन्नास्त, श्रुतिसित्वात् । कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः । न चात्मसुखस्य कारणमस्त । अशक्यं चात्मसुखहानम् । न चाशक्यविषयेच्छाप्रयत्नौ बुमितः सम्भवतः । आत्महानं खलु विनाशलक्षणमनुत्पादलक्षणं च न सम्भवति, नित्यत्वात् । नापि वियोगलक्षणं, परेषां मते विभुत्वात् । अस्माकं स्वात्मनि क्रियाविरोधात् । नाप्यज्ञानलक्षणं स्वप्रकाशत्वात् ।

तदेवं बाधकसावात् प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया । तथा च अशरीरं वाव सन्तम् इति श्रुत्युक्तोपपत्तिः श्लिष्यत इति ।

७५सु०- एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्याति संज्ञेति ।

अनु०-संज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।

श्रुतिर्वक्तति वक्ष्यमाणमत्रापि सम्बध्यते । न प्रेत्य संज्ञाऽस्तीत्यपि श्रुतिरस्य मुक्त-स्यामुक्तज्ञेयता नास्तीत्येव वक्ति । न तु मुक्तो न जानातीति । एको हिशब्द एवार्थः । द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्तयनतिक्रमं सूचयति ।

तथा हि । प्रेत्य मरणानन्तरं संज्ञा ज्ञानं नास्तीति तावच्छ्रौतोऽर्थः । तत्र प्रकरणवशात् प्रेत्येत्येतन्मरणविशेषमोक्षानन्तरमिति व्याख्येयम् । ज्ञानं तु मुक्तसम्बन्ध प्रतिषिध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः । अतः तत्कर्मकस्यैव ज्ञानस्य अयं प्रतिषेधो विज्ञा-यते । सर्वथाऽज्ञे(यतायां चा)यानां चासत्त्वं प्रसज्यत इत्यमुक्तज्ञेयतानिषेध इति कल्प्यते । अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्य अयं प्रतिषेधः । नारदादिभिरापरोक्ष्येणास्मदादिभिश्च शास्त्रेण तज्ज्ञानात् । अत एव संशब्दप्रयोग इति ।।

७६सु०- ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्य अयं प्रतिषेधो न तु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आह धर्मेति ।

अनु०-धर्मानुच्छत्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ।

यतः कारणात् अयमात्मानुच्छत्तिधर्मेति उत्तरश्रुतिः अस्य मुक्तात्मनो धर्मानु-च्छत्तिमेव वक्ति । न विद्यते उच्छत्तिर्येषां ते तथोक्ताः । अनुच्छत्तयो धर्मा यस्यासावनु-च्छत्तिधर्मेति । तस्मादेवं व्याख्यात इति ।

७७सु०- स्यादेतत् । अनुच्छत्तिधर्मेत्येतत् सङ्ख्यादिधर्माणामनुच्छत्तिं वक्तत्यपि शक्यते वक्तुम् । यद्वा उच्छत्तेरभावोऽनुच्छत्तिः सा धर्मो यस्यासावनुच्छत्तिधर्मेति । तत्कथ-मेतन्नियामकमित्याशङ्कानिरासाय आदित एव वाक्यं व्याचष्टे आशङ्क्येति ।

अनु०-आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।

भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।

इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।।

विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्त विज्ञानमूर्तिरयमात्माऽनादिरपि चरमे जन्मन्येतेभ्यो भूतेभ्यः समुत्थाय भूतात्मकशरीरोत्पत्ति-निमित्तमेवोत्पन्नव्यवहारविषयो भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्योऽपि विनश्यति । विनष्टव्यवहार(गोचरो भ)विषयो भवति । अपव्रज्यत इति यावत् । ततः प्रेत्य मोक्षानन्तरमस्य मुक्तस्य संज्ञा ज्ञानं नास्तीत्यविशदं याज्ञवल्क्यवाक्यं श्रुत्वा अस्य मुक्तस्य ज्ञानहानिमाशङ्क्य अनेन वाक्येन मुक्तो न जानातीत्युच्यत इति मत्वा मैत्रेय्या अत्रैव मा भवान् मोहान्तमापिपदिति वाक्येन भवान् मां प्रति यदाह मुक्तो न जानातीति तन्मोहकमेवेत्यर्थ-मुक्तवत्या चोदित इति शेषः ।

याज्ञवल्क्यो न वा ओऽहं मोहं ब्रवीमीत्यनेन ज्ञानोपदेशाय प्रवृत्तोऽहं परमप्रियायै ते मोहं न वदामीति प्रतिज्ञामुक्तवा कथमित्याशङ्कायामविनाशी वा ओऽयमात्मेत्यात्मस्वरूप-स्यानाशमूचिवान् ।

यद्वा आशङ्क्येति णिजन्त््याप् । याज्ञवल्क्यः सम्मुग्धेन वचसाऽस्य•) मैत्रेय्या ज्ञान-हानिमाशङ्क्योचिवानिति योजना ।

तस्यास्तथा शङ्का जातेत्यत्र किं मानमित्यत्रोक्तं मोहमाह मां भवानित्युक्तवत्या हीति वचनलिङ्गेनाशङ्का(व)गम्यत इत्यर्थः । अयमर्थः स्पष्ट एव श्रुताविति द्वितीयो हिशब्दः ।

७८सु०- ज्ञानविनाशवचनं मोहकमित्याक्षेपे स्वरूपानाशोऽसङ्गतः कथमुक्त इत्यत आह ज्ञानरूपस्येति ।

अनु०- ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ।

इति

यत् यस्मात् ज्ञानरूपः तावदात्मा तस्य च विज्ञाननाशः नाम तन्नाश एव । न च आत्मनाशोऽस्त । तथा सति मुक्तेरपुरुषार्थत्वप्रसङ्गात् । अतो न ज्ञाननाशोऽस्त । अत एव

न मद्वचनं तदर्थम् । किं त्वमुक्तानां मुक्तविषये संज्ञा नास्त, मुक्तानामेव वा वृत्तिरूपा संज्ञा नास्तीत्यादिरेव मद्वचनार्थ इत्यभिप्रायवान् स्वरूपानाशमूचिवानिति सम्बन्धः ।

७९सु०-अस्त्वेवं सङ्गतिः तथाऽपि ज्ञानं न नश्यतीति साक्षादनुक्तवा एवं वचनं किमर्थमित्यत आह शून्येति ।

शून्यमतोच्छत्त्यै

न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः किन्तु परी(क्षायां)क्षया । अत एव न प्रेत्य ज्ञायत इति विशदमनुक्तवा शङ्कोत्पादनाय न प्रेत्य संज्ञाऽस्तीति साधारणं वाक्यमाह । परीक्षा च स्वानभिमतनिरासरूपा । अत एवमुत्तरे दत्ते शून्यमतस्यात्मनाशलक्षणस्य निरासो-ऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान् ।

८०सु०- यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छत्तिधर्मेत्येतद्व्याचष्टे पुनरिति ।

अनु०- पुनरानन्दपूर्वकान् ।

धर्मानाहाप्यनुच्छन्नान्

स्वरूपानाशमुक्तवा पुनः अपि मुक्तस्य आनन्दपूर्वकान् धर्माननुच्छन्नान् आह याज्ञ-वल्क्यः । स्वरूपानाशोक्तयैव धर्मानुच्छत्तिसिौ पुनरुक्तिरियमित्यत उक्तम् आनन्दपूर्वका-निति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम् । अतः स्वरूपानाशोक्तया विज्ञानाविनाश एव सुज्ञानो नानन्दाद्यविनाशः । अतस्तेऽपि विज्ञान-वत् आत्मस्वरूपभूता एव नोच्छद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति ।

८१सु०- तात्पर्यान्तरं सूचयति तार्किकैरिति ।

अनु०- तार्किकैर्विनिवारितान् ।

उक्तमेतत्परीक्षायां प्रवृत्तो याज्ञवल्क्य इति । अतः स्वरूपाविनाशमङ्गीकृत्य ये तार्किका बुसिुखादीन् धर्मान् मुक्तस्य विनिवारयन्त तेऽप्यसमीचीनवादिन इति ज्ञानायेदं वाक्यमिति

न पौनरुक्तयदोषः ।

ननु स्वरूपाविनाशोक्तया धर्माविनाशोऽपि सि एव । सत्यम् । स्वमतरीत्या तत् । तार्किकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते । अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्म-स्वरूपत्वोपपादनेन । आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेन अनुच्छत्तिरेवोक्तेति ।

इदमत्राकूतम् । अनुच्छत्तिधर्मेति यदि सङ्ख्यादिधर्माणामनुच्छत्तिरुक्ता स्यात् तदा असङ्गतमिदं वाक्यम् आपद्येत । ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्ख्याद्यविनाशकथनस्य सङ्गत्यदर्शनात् । यदि च स्वरूपाविनाशोऽनेनोक्त इति स्यात् तदा तस्य पूर्ववाक्येनैवोक्तत्वात् पुनरुक्तिदोषः स्यात् । अस्मत्पक्षे त्वस्त सर्वेषां वाक्यानामुक्तरीत्या साफल्यम् । तस्मात् ज्ञानानन्दादिगुणानामेवानुच्छत्तिमाह इदं वाक्यमिति गम्यते । तद्बलाच्च न प्रेत्य संज्ञाऽस्ती-त्येतदपि उक्तार्थमेवेति ।

८२सु०- इतश्चैतदुक्तार्थमेवेत्याह मात्रेति ।

अनु०-मात्रासंसर्गमप्याह तथा

यथा धर्मानुच्छत्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गम् उप-भोगलक्षणं अपि अस्य आह मात्रासंसर्गस्त्वस्य भवतीति वाक्येन । ततो न ज्ञानविलोपो व्याख्यातुं शक्यते । नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तम् माध्यन्दनश्रुतिरिति ।

माध्यन्दनश्रुतिः ।

मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दनश्रुत्योः समानम् । इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्त तथाऽपि माध्यन्दनश्रुतावस्त्येवेति ।

८३सु०- इतोऽपि संज्ञा नास्तीति वाक्यं उक्तार्थमेवेत्याह आचिक्षेपेति ।

अनु०- आचिक्षेप मतं तच्च यस्मन्न विषयादनम् ।

श्रुतिरिति वक्ष्यति । यत्र हि द्वैतमिव भवतीत्यादिरुत्तरा श्रुतिः यस्मन्मते मुक्तस्य

न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमः तन्मतं आचिक्षेप निन्दतवतीति । ततश्च

न तद्वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति । न हि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा तदभावनिन्दा वा उपपद्यते । कथमाचिक्षेपेति चेत् । उच्यते । यत्र यदि, द्वैतं भवति तत् तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्तवा यत्र यदि, तु, अस्यात्मनोऽपेक्षितं सर्वं आत्मैवाभूत् स्वव्यतिरिक्तं न स्यात् । तत् तर्हि केन साधनेन कम्

अर्थं पश्येत् । न केनापि किञ्चिदित्यनिष्टप्रसङ्गोऽभिधीयते ।

८४सु०- एवं तर्हि यदि मुक्तौ द्वैतं न स्यात् तदा रूपदर्शनादिकं भवेदिति तर्कितं भवति । तथा च द्वैताभावमतमनया आक्षिप्तं, न विषयभोगाभावमतमित्यत आह घ्राणादीति ।

अनु०- घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।

घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः । केन कमिति करणस्य कर्मणश्चोक्तत्वात् । तुशब्दो विशेषार्थः । हृदा अभिप्रायेण । पूर्वेणैव सम्बन्धः ।

सत्यमेतत् शून्यमतं तार्किकमतं च निराकृत्य औतमतमनया श्रुत्या निराक्रियत इति । तच्च विषयभोगाभावप्रसञ्जनेन । प्रसञ्जनीयं तवति यदनिष्टम् । अतोऽद्वैतमते घ्राणादिभोगाभावं प्रसञ्जयन्ती श्रुतिः तस्यानिष्टत्वमभिप्रैतीति गम्यते । अनिष्टं च तदुच्यते यदप्रामाणिकं प्रमाण-विरुं च । अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति ।

८५सु०- भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात् । न चैवम् । अपि तर्हि वस्तुस्थतिकथनमेतत् । तथा हि । अयमात्मा अवि-नाशी अत एव अनुच्छत्तिः तस्य धर्मः । मुक्तौ मात्राभिरसंसर्गः तस्य भवति । कुतः । यत्र हि संसारे द्वैतमिव भवति तत्तत्रेतर पश्यतीत्यादि । यत्र तु मुक्तावस्य सर्वमात्मैवाभूत् स्वव्यतिरिक्तं किमपि नास्त तत्र केन कं पश्येन्न केनापि न किमपीत्यद्वैतिनः । तत्राह येनेति ।

अनु०- येनेदमखिलं वेद विज्ञातारं स्वमेव च ।

केन तं च विजानीयादित्यनिष्टं च सर्वथा ।।

येनेदमखिलं वेद तं च केन विजानीयात् विज्ञातारं च केन विजानीयादित्यनेन येनेदं सर्वं विजानाति तं च केन विजानीयात् विज्ञातारमरे केन विजानीयादिति वाक्यद्वयमुपादत्ते । विज्ञातारमित्येतत् स्वमेवेति व्याचष्टे । प्रथमवाक्यविषयं तूत्तरत्र वक्ष्यति । इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च ।

एतदुक्तं भवति । अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते । तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्टः, न वास्तवः । ततस्तत्प्रसङ्गकथनमेवेति ज्ञायते । तत्साहचर्यात् केन कं पश्येदित्यादिकमपि प्रसञ्जनमेव, न वस्तुस्थतिकथनमिति ज्ञातव्यमिति ।

८६सु०- नन्वीश्वरस्तावत् सर्वथाऽप्यविज्ञेय एव । यतो वाच इत्यादिश्रुतेः । जीवात्मा च न स्वविज्ञानी । एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुत्वात् । अतः परमेश्वरज्ञाना-भावः स्वज्ञानाभावश्च कथमनिष्ट इत्यतः परमेश्वरस्य सर्वथाऽप्यविज्ञेयत्वं तावन्निराकरोति नेति ।

अनु०- नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ।

अत्र अखिलज्ञापक इत्यनेन येनेदमिति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः । प्रागव्याख्यातत्वात् । विष्णुं विनैतद्वाक्यार्थस्यासम्भवात् । हिशब्दस्तावदर्थे । विष्णुः नियमेन सर्वथाऽपि अज्ञेय इति तावन्न भवति । कुत इत्यत आह तदिति ।

तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।

सर्वे वेदा इत्यादेरिति शेषः । विष्णोः सर्वथाऽप्यज्ञेयत्वेऽखिलवैयर्थ्यप्रसङ्गात् यतो वाच इत्यादिकमन्यथा व्याख्येयमिति भावः ।

८७सु०- एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयति प्रत्यक्षमिति ।

अनु०- प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ।

न स्वविज्ञानितायां च विरोधः कश्चनेयते ।।

क्रियाविशेषणमेतत् । आत्मविज्ञानं च अविरोधश्चेति द्वन्द्वः । अविरोधश्च प्रसङ्गादात्मा विज्ञान एव । तयोरनुभवः । स च प्रत्यक्षरूपः तस्मात् । अपिपदेन श्रुत्यादिग्रहणम् । स्वविज्ञा-नितायां जीवस्य कश्चन विरोधो नेयते । न काऽप्यनुपपत्तिः प्रतीयते । आत्मविज्ञानानुभव-स्तावत् मामहं जानामीति साक्षिरूपः प्रसि एव । यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते । किं त्वनुपलम्भसनाथेन साक्षिणाऽनुपपत्त्यभाव एव साक्षात्क्रयते । तथा तदविशिष्टे मामहं जानामीति ज्ञानेऽपि । श्रुतयोऽपि अहमित्येव यो वेद्य इत्याद्याः । यदि च आत्मा न स्वात्मानं जानीयात् तदा ममेदमिष्टसाधनमित्यादिज्ञानाभावात् तथाविधेच्छाप्रयत्नयोरप्य-भावात् सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः । स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति ।

८८सु०- छिदादिषु कर्तृकर्मणोर्भेददर्शनात् तदेकत्वाभ्युपगमो विरु इति यदुक्तं तन्निराकरोति कर्तृकर्मेति ।

अनु०- कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ।

कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् ।।

एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः । नित्यानुभवः उक्तसाक्ष्य-नुभवः । पदम् आस्पदम् । प्रकृत इति शेषः ।

अयमाशयः । उक्तमेतङ्गिपादे । यत्कर्तृकर्मणोर्भेद इत्यौत्सर्गिकोऽयं न्यायः । अपवादे सत्यभेदोऽपि भवतीति । अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः । किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते । यथा अङ्गुल्यगे्रण अङ्गुल्यग्रस्पर्शने । यथा वाऽसिधारयाऽसिधाराच्छेदन इति ।

८९सु०- अस्त्वेवमीश्वरस्य ज्ञेयत्वं, जीवस्य च स्वज्ञानित्वम् । तथाऽपि मुक्तौ तज्ज्ञाना-भावः कथमनिष्ट इति चेत् । उच्यते । नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदेति श्रुतौ सुप्तस्य स्वज्ञानमीश्वरज्ञानं च नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते । अतस्तदभावः प्रमाणविरु इति कथं नानिष्टः । न केवलमेवमनिष्टप्रकरणा-द्विषयभोगाभावस्यानिष्टत्वं गम्यते किन्तु विषयभोगस्यापि श्रुतिसित्वाच्चेत्याह स इति ।

अनु०- सोऽश्नुते सर्वकामांश्च कामान्नी कामरूप्यथ ।

इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्त हि ।।

अथ मुक्तेरनन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बध्यते । उक्तमेवार्थं मुक्तस्य विषयभोग-सावम् । अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति ।

९०सु०- स्यादेतत् । यत्र हि द्वैतमिव भवतीति इवशब्देन द्वैताभावः प्रतिपाद्यते तत्कथं द्वैताभावे अनिष्टप्रसङ्गाभिधानमेतदित्यत आह अस्वातन्त्र्यादिति ।

अनु०- अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ।

द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् । न तु द्वैताभावमभिप्रेत्य । कुतः । क्वचित् अभिधानादाविवशब्दस्याभाववाचिताऽनुक्तेरित्यर्थः । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम् ।

इवशब्दस्याभावार्थत्वे बाधकं चाह आत्मैवेति ।

आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।

इवशब्दस्याभावार्थत्वे द्वैतमिव भवतीत्यस्य द्वैतं नास्तीत्यर्थः स्यात् । यत्र त्वस्य सर्वमात्मैवाभूदित्यस्य तावद् द्वैताभावोऽर्थः स्फुट एव । ततस्तस्मादस्य विशेषो न भवेत् । तथा च द्वैताभावे इतर इतरं पश्येत् । द्वैताभावे केन कं पश्येदिति वाक्यद्वयार्थः प्रसज्येत । ततश्च उन्मत्तवाक्यता श्रुतेरापद्यत इति ।

नन्ववशब्दस्यास्वातन्त्र्यवाचित्वं कुत इत्यत आह अस्वातन्त्र्येति ।

अस्वातन्त्र्योपमाभेदभेदेष्वव उदीरितः ।

शब्दतत्त्व इति प्रोक्तं

अभेदभेदेति प्रतियोगिद्वयोपलक्षणम् । इवान्त एकस्मन्नुक्ते तत्प्रतियोगी द्वितीयोऽपि लभ्यत इत्यर्थः ।

नन्वस्माकमुपमायामेवेवशब्दः । द्वैताभावस्त्वर्थसिः । यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावोऽवगम्यत इति चेत् । तर्हि द्वैतसदृशं किं तदिति वाच्यम् । कल्पतं द्वैत-मिति चेन्न । तस्य सत्ताभावेन भवतीत्यनुपपत्तेः । भवनमपि तस्य काल्पनिकमिति चेत् । एवं तर्हि यदि द्वैतदर्शनं स्यादिति स्यात् । तथा च इतर इतरं पश्यतीत्येतदपि तदेवेति न हेतुहेतु-मावोऽवकल्पत इति ।

९१सु०- न प्रेत्य संज्ञाऽस्तीति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्य अवि-नाशीत्यादिवाक्यान्य(प्य)न्यथा व्याकुर्वतो बाधकमाह मैत्रेयीति ।

अनु०-मैत्रेय्युक्तोत्तरं च किम् ।

न प्रेत्य संज्ञाऽस्तीति वाक्यं श्रुत्वा मैत्रैय्योक्तम् अत्रैव मा भवानित्यादि । तत्ताव-न्नाहृदयं निर्दलाक्षेपकरणेऽसुज्ञत्वप्रसङ्गात् । ततः प्रज्ञानघन इत्यात्मनो ज्ञानस्वरूपत्वमभि-धाय इदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः । अपुरुषार्थत्वप्रसङ्गो वा । यथोक्तं संज्ञानाशो यदि भवेत्कं मुक्तया नः प्रयोजनम् । मोहं मां प्रापयामास भवानत्रेति चोदितः इति । अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत । न ह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति ।

९२सु०- एवं साङ्ख्यनैयायिकाद्यभिमतस्य मोक्षस्य अप्रामाणिकत्वमभिधाय; यदुक्तं मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत्प्रपञ्चयति सुखादीति ।

अनु०- सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ।

सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः । तुशब्दः स्वपक्षाद्विशिनष्टि । परस्य आपाद्यमानो दोषः स्वमते नास्तीत्याशयः । मुक्तेरिति सम्बन्धमात्रे षष्ठी । किमाक्षेपे । चशब्दो-ऽप्रामाणिकत्वेन समुच्चयार्थः । प्रयुज्यते प्रवर्त्यते पुरुषोऽनेनेति प्रयोजनम् । मुक्तेः प्रयोजनं किमिति । मुक्तयर्थे पुरुषं प्रवर्तयत्कमपि नास्तीत्यर्थः ।

९३सु०- द्विविधं प्रयोजनम् । इष्टावाप्तिरनिष्टनिवृत्तिश्च । तत्र यद्यपि मुक्तिरिष्टप्राप्तिरूपा

न भवति तथाऽप्यनिष्टनिवृत्तिरूपा भवत्येव । अतः पुरुषेणार्थ्यत इत्याशङ्कते यदीति ।

अनु०-यद्यर्थो दुःखहानिः स्यात्

दुःखहानिरूपा मुक्तिः पुरुषस्य अर्थः अर्थनीयः स्यात् इति यदि ब्रूषे । अत्रोच्यते ।

भवति अनिष्टनिवृत्तिः पुरुषार्थः । मुक्तिश्च समस्तदुःखहानिस्तथाऽपि न पुरुषार्थः कथमित्यत आह अनर्थ इति ।

अनर्थः सुखनाशनम् ।

सुखनाशरूपः अनर्थः अपि अस्त यतः ।

इदमुक्तं भवति । केवलस्य दुःखस्यात्यन्तक निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत् सुखस्याप्यात्यन्तक निवृत्तिरिति कथं पुरुषार्थः । अनिष्टनिवृत्त्याशया प्रवृत्तौ इष्टनिवृत्तिभिया निवृत्त्यापत्तेः । दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च ।

९४सु०-यदत्रोक्तं यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यते इति, तदिदमसङ्गतम् । न हि वयं दुःखस्योपादेयत्वमुपपादयामः । किन्तु सम-व्ययफलत्वेन विनिगमने कारणाभावात् न प्रवृत्त्युपपत्तिरिति ब्रूमः । यथोक्तम् असत्यानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः इति । अङ्गीकृत्यैव समव्ययफलत्वमुक्तम् । वस्तुतस्तु आयादपि व्ययो गरीयानित्याह तयोश्चेति ।

तयोश्च दुःखहाना िसुखनाशोऽधिको भवेत् ।

सुखदुःखहानयोर्मध्ये । न हि राजादयो राज्याद्यपगमे दुःखहानेन सुखहानव्यथां समा-दधति । ततो निवृत्तिरेव मुक्तेरिति भावः ।

९५सु०- यत्र निवर्तमानं दुःखमल्पीयः । सुखं तु महत्तत्रैवमेतत् । इह तु महद्दुःखं निवर्तते सुखं त्वल्पीयस्तत्कथं न पुरुषार्थत्वम् । यथोक्तम् । यस्तु घनतरदुःख(तिमिर)निरन्तरात् संसारकान्तारात् सुखखद्योतिकासु द्योतमानास्वपि बिभेति, तं प्रत्ययं निरस्ततस्करतया सुगमो मार्ग उप(दिश्यत)दर्शित इति । तत्राह प्राप्यापीति ।

अनु०- प्राप्याऽपि दुःखं सुमहत्सुखलेशाप्तये जनः ।

यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ।।

यतो जाङ्घिकादिर्जनः सुमहद्दुःखं प्राप्यापि सुखलेशाप्तये यतते । तस्मादल्पस्यापि सुखस्य हानौ महतोऽपि दुःखस्य मोक्षाय कः पुमान् यतेत न कोऽपि । अभ्युपगमवादश्चायम् ।

न हि सांसारिकसुखस्य दुःखापेक्षयाऽल्पत्वं प्रमितम् । कस्मंश्चन जन्मनि अयं (दरिद्रो)(दुर्भगो) दुःखितो भवति कस्मंश्चत् सार्वभौमः कदाचिन्नरकमनुभवति कदाचित् स्वर्गम् । या च मोक्ष-शास्त्रेषु सांसारिकसुखनिन्दा सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्य अल्पत्वाभि-प्रायेणेति ।

९६सु०- महादुःखहानादल्पं सुखं गरीय इत्येतत् प्रकारान्तरेणोपपादयति अल्पाच्चेति ।

अनु०- अल्पाच्च सुखनाशा िबिभेत्यतितरां जनः ।

महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ।।

(हानस्या)नाशस्याल्पत्वं प्रतियोग्यल्पत्वनिमित्तम् । अल्पस्यापि सुखस्य (हानादि)-नाशादिति यावत् । सुखनाशनिवृत्तय इति । प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः । उदा-हरणानि तु लोके स्पष्टान्येव, कथं तर्हि मधुविषसंपृक्तान्न(भोजन)परित्याग इति चेत् । बहुतर-सुखहानिप्राप्तेरिति ब्रूमः । अन्यथा परेणापि व्यवस्थायाः कर्तव्यत्वात् ।

९७सु०- स्यादेतत् । द्विविधाः पुरुषाः रागिणो वीतरागाश्च । तत्र रागिणः सुखार्थं दुःख-मप्यनुभवन्त । ते हि मधुविषसंपृक्तमप्यन्नं मधुतया आपातरमणीयं विषविषङ्गासंयोगात् तु

मारयतु मा वा मीमरदुप(भुञ्ज्महे)युंक्ष्महे तावदापातसुखं को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते । वीतरागास्तु आ(यति)पत्तिम् आलोचयन्तः स्वर्गमपि कुपितभोगिफणा-मण्डलच्छायाप्रतिममित्यपजहतीत्यत आह न चेति ।

अनु०-न च रागनिमित्तं तत्

यदेतदुक्तं, प्राप्यापीत्यादि तत् रागनिमित्तम् । मुमुक्षवस्तु वीतरागाः तस्मात् सुख-मनादृत्य दुःखध्वंसायैव यतन्त इति, तच्च नेत्यर्थः । कुत इत्यत आह वीतेति ।

वीतरागा अपि स्फुटम् ।

नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ।।

स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिमित्यर्थः । अञ्जसा इति श्रवणादल्पाय सुखरूपार्थायेति योज्यम् । यस्मादिति वक्ष्यमाणमिहापि सम्बध्यते ।। एतत्कुत इत्यत आह याुदीति ।

याुदिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।

सुखार्थायेति वर्तते । नारदाद्या इति च । आदिपदेन दूरगमनादिसाध्यं स्वयंवरदर्शनं च गृह्यते । एतदपि कुत इत्यत आह यदेति ।

यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ।

अपि नैवाजहुर्युरसात्ते नारदादयः ।

इति स्कान्दवचः

नैवाजहुः युदर्शनं युरसात् युदर्शननिमित्तात् सुखात् कारणात् । यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः । यस्मादिति अत्रापि सम्बध्यते ।

९८सु०- इदमत्र आकूतम् । अत्र रागशब्देन किं सुखेच्छाऽभिप्रेता । उत लक्षणया

अविवेकः । आद्ये सत्यमेतत् । किन्तु मुमुक्षवोऽपि रागिण एव । रागिणां कथं मुक्तिरिति चेत् द्वेषिणामपि कथम् । दुःखद्वेषा िते दुःखं जहति । अस्थाने द्वेषो बन्धक इति चेत् । रागोऽपि तथेति समानम् । किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः । न दुःखद्वेषोऽसौ किन्तु निर्वेद एवेति चेत् । तर्हि न सुखरागोऽसौ अपि तु श्रैवेति वदामः । द्वितीये तु नारदादयो निदर्शनम् । तेऽपि तदा अविवेकिन इति चेत् । कथमेतद्विज्ञातं लौकिकवैदि(कलो)कोत्तरप्रज्ञेनेति ।

न च रागेत्यादिनोक्तमुपसंहरति तस्मादिति ।

अनु०- तस्मात्सुखाभावाय को यतेत् ।

वीतरागोऽपीति शेषः ।

९९सु०- एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गोऽभिहितः । इदानीं तु दुःखाभावोऽपि नोपपद्यत इत्याह विमत इति ।

अनु०- विमतो दुःखयुग् यस्माच्चेतनः सन्त्सुखोख्खतः ।

प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ।।

मुक्तत्वेन पराभ्युपगतोऽत्र पक्षः । दुःखयुग् इत्यापाद्यम् । यस्माच्चेतनः सन्त्सुखो-ख्खत इत्यापादकम् । घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम् । अत्र चेतन इत्यात्म-त्वोपलक्षणमिति नापादकासिःि । स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोख्खित इति । ईश्वर-स्यापि सुखसाधनान्न तत्र व्यभिचारः । प्रतिपन्नो नारक यथा । एवशब्दः प्रतिज्ञया सम्बध्यते ।

न चेयं साधनानुमा येन बाधादिकस्यावसरः किन्तु प्रसङ्गानुमैव । तदिदमाह इत्यनुमा केन वार्यत इति । यदि मुक्तः सुखी न स्यात् तदा अनात्मा वा दुःखी वा स्यात् सम्मतवदित्यादयोऽपि अतिप्रसङ्गा द्रष्टव्याः ।

१००सु०- यदुक्तं प्राक् श्रुतयो यत इति तदिदानीं प्रपञ्चयति सर्वेति ।

अनु०- सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।

मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ।।

तथाशब्दः समुच्चये । तानि श्रुत्यादीन्युदाहरति स इति ।

सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।

निर्गुणे ब्रह्मणि मयि धारयन्वशदं मनः ।

परमानन्दमाप्नोति यत्र कामोऽवसीयते ।

न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।

न वेदसदृशं वाक्यं न वर्णोङ्कारसम्मतः ।

यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।

कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।।

अनेन सोऽनानन्दाद्विमुक्तः आनन्दी भवतीति श्रुतिमुपादत्ते । आनन्दस्य स्वभाव-सित्वात् भवतीति कथमित्यतः स्फुटमित्युक्तम् । अनानन्दात् दुःखात् । निर्गुण इति भागवते भगवद्वाक्यम् । यत्र परमानन्दे प्राप्ते का(मस्तृष्णाऽव)मः स्पृहा अवसीयते अवसानं गच्छति ।

न विष्णुसदृशं इत्येतदपि पुराणवाक्यम् । यत्र लोके । आनन्दादिशब्दाः सुखविशेषाणां वाचकाः । कामस्य कामाः इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुर्विति वायुं प्रति

प्रार्थनम् । श्रुृणुपृकृवृभ्यः छन्दसि श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम् ।

उदाहृतानां श्रुत्यादीनां फलमुपसंहरति इति श्रुतीति ।

इति श्रुतिपुराणानि तत्र तत्र वदन्त हि ।

अतो मोक्षे सुखाभाव इति यत्कञ्चिदेव हि ।।

तत्र तत्र प्रदेशे वदन्त मुक्तस्य सुखम् । आद्यो हिशब्दो यस्मादित्यर्थे । द्वितीयः

प्रसिौ । यत्कञ्चिदेव फल्ग्वत्यर्थः ।

१०१सु०- यच्च साङ्ख्यादिभिरुक्तं सुखाभावोपपादनाय शरीरादिराहित्यं मुक्तस्य, तत्स्वरूपसुखस्योक्तत्वात् वैयर्थ्येन अपास्तम् । असिं च तदित्याशयेनाह शिर इति ।

अनु०- शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ।

न केवलं सुखाद्यभाव इति चशब्दः । जीवन्मुक्तौ शिरःकरादिभावो न परममुक्ता-वित्यतः क्वचित् इत्युक्तम् । कुत इत्यत आह श्रुतयश्चेति ।

श्रुतयश्च पुराणानि मानमत्र बहूनि च ।

शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावं अत्र इति परामृशति । अन्त्यश्चो यस्मा-दित्यर्थे । सन्तीति शेषः । अशरीरत्वादेर्गतिश्चोक्तेति च चार्थः ।

१०२सु०- तत्र तावत् स्फुटार्थत्वात् पुराणमादावुदाहरति न वर्तत इति ।

अनु०- न वर्तते यत्र रजस्तमस्तयोः

सत्त्वं च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरे-

रनुव्रता यत्र सुरासुरार्चिताः ।।

श्यामावदाताः शतपत्रलोचनाः

पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मषन्मणि-

प्रवेकनिष्काभरणाः सुवर्चसः ।।

प्रवालवैडूर्यमृणालवर्चसां

परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते

लसद्विमानावलिभिर्महात्मनाम् ।।

विद्योतमानप्रमदोत्तमाभिः

सविद्युदभ्रावलिभिर्यथा नभः ।

श्रीर्यत्र रूपिण्युरुगायपादयोः

करोति मानं बहुधा विभूतिभिः ।।

ऋचां त्वः पोषमास्ते पुपुष्वान्

गायत्रं त्वो गायति शक्वरीषु ।

ब्रह्मा त्वो वदति जातविद्यां

यज्ञस्य मात्रां विमिमीत उ त्वः ।।

यत्र लोके । सत्त्वशब्दोऽनेकार्थः । क्वचित् प्रकृतिपरिणामविशेषस्य वाचकः । क्वचित् साधुत्वस्य । तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति । अतस्तयो रज-स्तमसोर्मिश्रं सहचरितमित्युक्तम् । रज आदिप्रकरणात् ज्ञास्यत इति चेत् । श्रुत्यभावे प्रकरणा-द्यन्वेषणात् । रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्य-कृ(ता भावाविकाराः)तो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम् । हरेरनुव्रता यत्र वर्तन्ते । असुराः साधवः सन्त ।। अवदाता निर्मलाः । सुपेशसः सुरूपाः । उन्मषन्मणिप्रवेकनिष्काभरणाः रश्ममद्रत्नप्रवरहाराभरणाः । रुक् प्रभा । वर्चो बलम् । हरेरनुव्रता इत्यनेन सम्बन्धः । यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते । केचित् प्रवालवर्चस इत्यादि । परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः । यद्वा, परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनि-रुत्पाद्यः । विद्योतमानाः प्रमदोत्तमाः यासु विमानावलिषु तास्तथोक्तास्ताभिः । यद्वा, विद्योत-मानाभिः प्रमदोत्तमाभिः भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना । प्रमदोत्तमाः विद्युतः । विमानावलयः अभ्रावलयः । रूपिणी प्रत्यक्षा । मानं पूजा । बहुधा स्थताभिः विभूतिभिः स्वमूर्तिभिः ।। एवम्भूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः ।

कामान्नरूपी चरति

कामान्नरूपी चरतीत्यनेन कामरूप्यनुसञ्चरन्निति श्रुतिमुपादत्ते ।

उदाहृतवाक्यानां फलमाह इति पूर्वेति ।

इति पूर्व-

श्रुत्या पुराणोक्तिभिरप्यदोषः ।

देहः स्वरूपात्मक एव तेषां

मुक्तिं गतानामपि चेयते हि ।।

इत्येषा पूर्वा यस्याः सा तथोक्ता । देहित्वे दुःखादिप्रसक्तया मुक्तत्वव्याघात इत्यत

उक्तम् अदोष इति ।। दोषाहेतुः कथमित्यत उक्तं स्वरूपात्मक एवेति । जीवस्वरूपमेवात्मा स्वरूपं यस्यासौ तथोक्तः । किं जीवन्मुक्तानामित्यत उक्तं तेषामपि च मुक्तिं गतानामिति । पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते । न वर्तते इत्यत्र च प्रकृत्याद्यभावोक्तया परममुक्तित्वं, देहस्य च स्वरूपत्वं, तत एवादोषत्वम् । श्रुतावृगुच्चारणादिना देहित्वम् ।

१०३सु०- अत्र अनुमानमप्याह शिर इति ।

अनु०- शिरःकराद्यैरपि मुक्तिभाजो

युक्ता यतस्ते पुरुषा इदानीम् ।

यथेति पूर्वा अनुमाश्च जीव-

स्वरूपमङ्गादिकमाव(प)यन्त ।।

यतस्ते पुरुषा इत्यात्मत्वादित्यर्थः ।। इदानीं यथेति । अस्मदादिवदित्यर्थः । ईश्वरादीनां पक्षतुल्यत्वान्न दोषः । पूर्वग्रहणेन, मुक्तिर्देहिनिष्ठा जीवावस्थात्वात् संसारवदित्यस्य ग्रहणम् । जीवस्वरूपं मुक्तजीवस्वरूपम् । अङ्गं शरीरम् । आदिपदेनेन्द्रयाणि । आवयन्तीति करणे कर्तृत्वोपचारः । आपयन्तीति क्वचित् पाठः ।

१०४सु०- एवं साङ्ख्यादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणाऽत्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति नेति ।

अनु०- न ब्रह्मरूपत्वममुष्यदेहिनो

मुक्तावपि स्यात् प्रमया कथञ्चित् ।

कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः । श्रुतीनां प्रागन्यथाव्याख्यातत्वात् । यद्वा कथञ्चित् केनापि साधनेन न स्यात् कुतः । प्रमया मुक्तावपि भेदे प्रमाणसावादित्यर्थः । तत्प्रमाणं पठति स इति ।

स ब्रह्मणा सहितोऽशेषभोगान्

भुङ्क्ते तथोपेत्य सुखार्णवं तम् ।।

यत्तत्परं ज्योतिरुपेत्य जीवो

निजस्वरूपत्वमवाप्य कामान् ।

भुङ्क्ते स देवः पुरुषोत्तमोऽज

आत्मेति चोक्तो गुणपूर्तिहेतोः ।।

सेतुः स देवोऽखिलमुक्तिभाजा-

मुतामृतस्येष्ट इहेशिता यत् ।।

अनेन सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चतेति श्रुतिमुपादत्ते । तथाशब्दः श्रुतिसमुच्चये । उपेत्य इत्यनेन एतमानन्दमयमात्मानमुपसंक्रम्येति । उपेत्य तथाऽशेषभोगान्

भुङ्क्ते इति वा । यत्तदित्यनेन परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन्क्रडन्रममाणः, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति श्रुतिद्वयम् । यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता । पराक्रान्तं चात्र सूत्रकृतैव अन्यार्थश्च परामर्श इति । गुणपूर्तिहेतोः इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् । सेतुरित्यनेन अमृतस्यैष सेतुरिति । उतेत्यनेन उतामृतत्वस्येशानो यदन्नेनातिरोहतीति ।

उदाहृतवाक्यफलं दर्शयति इत्यादीति ।

इत्यादिवाक्यैर्भगवद्वशः सन्

भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ।।

इति ज्ञायत इति शेषः । भगवद्वश इत्युपलक्षणम् । तत्समीपं प्राप्त इत्यपि ग्राह्यम् । औतिनो भोगं मन्यन्त इत्यतः सोऽप्यत्र वर्णितः ।

१०५सु०- अत्रानुमानमप्याह कालोऽपीति ।

अनु०- कालोप्यसौ नैक्ययुतः परेण

जीवस्य कालो यत एष यद्वत् ।

इत्यादिका अप्यनुमाः प्रमाणं

मुक्तौ च जीवस्य परत्वरोधे ।।

असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः । कालो यतः कालत्वात् । एष यद्वत् संसारकालवत् । अनुमा अपि । मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्त, किं तत् अनुमा इति योजना । ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्त । तेषा-मैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयम् । ये तु प्राग्भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदमाहुः तान्प्रत्यैक्यादिशब्दोऽत्यन्ताभेदपरो व्याख्येयः । तथा च न दृष्टान्तदोषः । जीवशब्दश्च निष्कृष्ट-व्यक्तिविषयो वर्णनीयः । अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति ।

स्वकयमादिपदं व्याकुर्वन्ननुमानान्तरमाह कथं चेति ।

कथं च यः पूर्वमसौ न पश्चात्

भवेत्स एवेत्यपि युक्तिमेति ।

यो जीवः पूर्वं संसारे असौ परमात्मा न भवति, असौ पश्चात् मुक्तौ स परमात्मैव भवेदित्येतत् कथं युक्तिमेति । अनुपपन्नमित्यर्थः । अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम् । अत एव स एवेत्यवधारणम् । प्रयोगस्तु प्रागेव दर्शितः । अपिशब्दोऽनुमानसमुच्चये । अस्य व्याप्तिमुपपादयति यत इति ।

यतो न दृष्टं यदभून्न पूर्वं

पश्चात्तदासेति कुतश्च किञ्चित् ।।

यतः कारणात् यत्कञ्चित् घटादिकं वस्तु पूर्वं यत् घटादिकं नाभूत् । येन सता वस्त्व-न्तरेणैकभूतं न भवतीति यावत् । तत् पश्चात् कुतश्चत् कारणात् तदास तेनैक्यमापन्नमित्येतन्न दृष्टम् । न च दृश्यते नापि द्रक्ष्यते । तस्मादिति पूर्वेण सम्बन्धः । एतेन अदधिभूतस्य क्षीरस्य पश्चाद्दधिभावदर्शनात् व्यभिचार इत्यसङ्गतम् ।

१०६सु०- एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नभिन्नो जीवः तस्य संसारे भेद एव व्यक्तः अभेदस्तु अविद्यादिना आवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतं अधुना निराकरोति न चेति ।

अनु०- न चैव मुक्तेन हरेः पृथक्तव-

मैक्यं तथा स्यादिति युक्तिमेति ।

तथाशब्दः समुच्चये । इति च मतं युक्तिं नैवैतीति सम्बन्धः । कुतः । उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् । अनुमानस्य चाद्यस्यास्मान्प्रत्यसिव्याप्तिकत्वात् । द्वितीयस्य चातूतस्य तावनिरासहेतोः सिसाधनत्वादित्यतोऽनुमानान्तरमाह यत इति ।

यतो न कुत्रापि भिदाभिदा च

दृष्टा चितश्चेतनया कुतश्चत् ।

यतः कारणात् चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चत् प्रमाणात् न दृष्टा इत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वात् देवदत्तयज्ञदत्तवत् । ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वात् यज्ञदत्तवदित्याद्यनुमानं सूचितम् ।

१०७सु०- मोक्षवादार्थमुपसंहरति इत्थमिति ।

अनु०- इत्थं मतानि भ्रमजानि

इत्थं उक्तप्रकारेण जैनादिमतानि भ्रमजानि । उपलक्षणमेतत् । कानिचिद्विप्रलम्भजानि इत्यपि ज्ञेयम् । तस्मोयानीति शेषः । ननु वक्तॄणां क्वचिद्भ्रमः सम्भवत्येव । को दोष इत्यत आह यस्मादिति ।

यस्मा-

न्मोक्षं समुद्देश्यमपि भ्रमेण ।

विदुर्न सम्यक्

मतानां प्रणेतार इति शेषः । अप्राकरणिकं प्रसक्तानुप्रसक्तयागतमर्थं कथञ्चिदन्यथा जानन्तोऽपि नातीव निन्द्या भवन्त । एते तु प्रधानेन उद्देश्यमपि मोक्षं सम्यङ् न विदुः । किन्तु भ्रमेण वैपरीत्येन विदुः । तस्मात् तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः ।

न च अतिसूक्ष्मप्रमेये अज्ञानविपर्ययौ एतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाह यदपीति ।

यदपीह लौकिकाः

सुखं मम स्या िसदेति जानते ।।

यत् यस्मात् इह प्राणिषु लौकिका वैदिकबुरिहिता अपि, मे सदा सुखं स्यात् इति स्वोद्देश्यं जानते हि । न तु वयमेव न भूयास्मेत्यादि । अतस्तेभ्योऽप्येते मन्दा इति । तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम् ।।

१०८सु०- इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिान्तयुक्तर्विवक्षुः प्रसङ्गात् सिंहाव-लोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मन्पादे चाह औदार्यमिति ।

अनु०-औदार्यमुच्चावचशक्तिरात्म-

स्वरूपदार्ढ्यं च निजस्वभावः ।

स्वातन्त्र्यमापूर्णविशेषयोग्यता

विरोधहानिश्च चतुर्थपादे ।।

चतुर्थपादे तृतीयाध्यायस्य । पूर्वपक्षयुक्तय इति शेषः ।

व्यवस्थतिस्त्वविशेषस्थतिश्च

निषेधसामान्यविधिक्रियाणाम् ।

विभक्तता चात्वरयैव सि-ि

र्विपक्षसम्प्राप्तिवि(नि)रोधहेतवः ।।

विपक्षसम्प्राप्तिकृतां निरोधाः । पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तनां निवारका हेतवः ।

विपक्षसम्प्राप्तिविरुहेतव इति क्वचित्पाठः । तत्र सम्प्राप्तिशब्दः करणसाधनः ।

सुशक्यता शश्वदतिप्रसि-ि

र्विवेकविन्यासविचारसंज्ञाः ।

नानाप्रवृत्तिः कृतकृत्यता च

विपक्षतर्काः समतीतपादे ।।

समतीतपादे निरन्तरातीतपादे ।

महाफलत्वं प्रविविक्तता च

सन्धग्रहः साधनमाप्तकृत्यम् ।

विशेषकार्यं कृतिसंस्थतिश्च

सुयुक्तयो निर्णयगाः स्वपक्षे ।।

स्वपक्षे सिान्तविषये । निर्णयगाः निर्णयहेतवः सुयुक्तयः ।

व्यामिश्रता कार्यकरत्वमर्थ-

क्ऌप्तिः सुदार्ढ्यं परतन्त्रता च ।

समानधर्मः कृतशेषता च

लोकोपमा पूर्वमतानुसाराः ।।

पूर्वमतानुसाराः युक्तयो अस्मन्पादे अनुस्रियन्त एताभिरिति अनुसाराः ।

विशेषसाम्यश्रुतिराढ्यता च

समानलोपो महिमा विशेषः ।

कृतार्थता शश्वदनुप्रवृत्तिः

सिान्तनिर्णीतिविशिष्टहेतवः ।।

सिान्तनिर्णीतेः विशिष्टहेतवः ।

।। इति न्यायमालास्थलानि ।।

न्यायसुधा

।। अथ अनेकलयाधिकरणम् ।।

ब्र०सू०- ॐ नैकस्मन्दर्शयतो हि ॐ ।।

१०९सु०- अत्र अग्नौ सर्वे देवा विलीयन्ते, भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रति-पत्त्या किमग्नावेकस्मन् सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्वति संशये अग्नावेकस्मन्नेव सर्वेषां देवानां लयः । अग्निश्रुतेर्निरवकाशत्वात् । भूतश्रुतेस्तु सावकाशत्वात् । एकस्मन्नग्नौ सर्वेषां च लये अग्नेश्च वायौ वायोराकाशे सति भूतेष्वति बहुवचनोपपत्तेरिति प्राप्ते सिा-न्ततम् । नैकस्मन्नग्नौ सर्वेषां देवानां लयः । किन्तु पञ्चस्वपि भूतेषु । कुतः । पृथिव्यामृभवो विलीयन्ते, वरुणेऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते (मृत्यवः) ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्त इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति ।

अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते । पृथिव्यादिसङ्गीर्तनेन भूत(प्रकर)कारणात् । सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीतेऽयं श्रुतिः । भूतेषु तच्छतेरित्युपक्रमात् । ततोऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय

आह प्रधानेति ।

अनु०- प्रधानवायुस्त्वह वायुनामा

भूतेष्वति प्रोक्तगतोऽपि युक्तया ।

तुशब्दोऽवधारणे । इह श्रुतौ भूतेष्वति प्रोक्तगतोऽपि इति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतोऽपीति । यद्वा, भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतोऽपीति । कुतः । युक्तया उत्तमानामिन्द्रादीना-मधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति ।

यस्माच्छतौ पवते चेति भूरि

प्रोक्तो

यस्मात् कारणात् सा वा एषा देवता अनादिर्योऽयं पवत इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरि भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्वह वायुनामेति सम्बन्धः । यद्वा एष वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरिति श्रुतिरत्र विवक्षिता । तत्र भूरि स्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति ।

यतो भूतमानी च सोऽपि ।

न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद् भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात् प्रधानवायुरेवेह वायुनामेति ।

उक्तमेव प्रपञ्चयति महामानीति ।

महामानी त्वल्पमानी च यस्मा-

त्तच्छब्देनाप्युच्यते तेन सोऽपि ।।

महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् । यथा समस्तराष्ट्राधिपती

राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवति एवं सर्वाभिमानी प्रधानवायुः अल्पस्य वायो-र्भूतस्याभिमानी भवेदेव । तच्छब्देन भूतशब्देन । न केवलं वायुशब्देनेत्यपेरर्थः ।।

।। इति अनेकलयाधिकरणम् ।। ४-२-५ ।।

न्यायसुधा

।। अथ परा(लया)धिकरणम् ।।

ब्र०सू०- ॐ तानि परे तथा ह्याह ॐ ।।

११०सु०- अस्यार्थः । तानि भूताभिमानिप्रभृतीनि दैवानि परे परमात्मनि लीयन्ते तथा ह्याह श्रुतिरिति । अत्र सर्वेषां देवानां परमात्मनि साक्षायः प्रतीयते । तत्परिहाराय भाष्यं प्राण-द्वारेणेति । तत्रापि प्राणे सर्वेषां साक्षायः प्रतीयते । अतो विस्पष्टं व्याचष्टे तस्मन्निति ।

अनु०- तस्मयं यान्त भूतान्यशेष-

क्रमाविरोधेन स एव विष्णौ ।

अशेषक्रमाविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य । भूतानि भूतादीनि दैवानि तस्मन् प्रधानवायौ लयं यान्त । स एव विष्णौ लयं याति । यश्च वायाविन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयोऽभिहितः सोऽपि न साक्षादित्याह इन्द्रादीनामिति ।

इन्द्रादीनां तत्र लयः क्रमं तु

प्रोक्तं विशेषादनुसृत्य नान्यत् ।।

तत्र प्रधानवायौ । विशेषादिति तृतीयार्थे पञ्चमी । विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः । न त्वन्यद्व्याख्यानं साक्षात् तत्र लय इति । विशेषवाक्यविरोधादिति भावः ।

१११सु०- तमेव क्रमं सङ्क्षेपेण तावदाह तस्मादिति ।

अनु०-तस्मादशेषा गिरिजां प्रविश्य

तयैव रुद्रं सह तेन वाणीम् ।

तया पतिं प्राप्य सहैव तेन

लयं हरौ यान्त समस्तजीवाः ।।

विशेषप्रमाणस्य सर्वथा अनुसर्तव्यत्वादिति भावः । अत्र गिरिजाशब्दो वारुणी-सौपर्णीपरो व्याख्येयः । तथा रुद्रशब्दः शेषगरुडपरः । तथा च वक्ष्यति । तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः । समस्तजीवा इत्यस्यैव विवरणं अशेषा इति । यद्वा, रुद्रं प्रविशन्ती-त्यध्याहारेण व्याख्येयम् । अस्यैव विवरणं उत्तरवाक्यजातम् ।

११२सु०- तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते ।

इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च । तत्र शेषमार्गमादावाह सोमस्त्वति ।

अनु०- सोमस्तु वारीशयुतोऽनिरुं

विशत्यसौ काममसौ तु वारुणीम् ।

सा शेषदेवं स गिरं च सैव

वायुं विशत्यञ्ज इतीह निर्णयः ।।

वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्टये सोमस्य भूतेष्वपां वायुप्रवेशे निर्णयः । प्राग्गरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिपदार्थका इति प्रतीतिं वारयितुमाह उमेति ।

उमागिरीशावपि भारतीरा-

विति स्म वाग्वेदगता ब्रवीति ।

अहीन्द्रपत्नीमहिपं विरिञ्च-

पत्नीं विरिञ्चं च विमुक्तिकाले ।।

उमागिरीशाविति भारतीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तं विमुक्तिकाल इति । विमुक्तिप्रतिपादनावसरे । एतेन उमादीनां चतुर्णामिह जन्मनि मुक्तयभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति ।

त एव यत्तत्पदमाप्नुवन्त

यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदं उत्तरकल्पे प्राप्नुवन्त तस्मादिति पूर्वेण सम्बन्धः । अनेन उमात्वादीनां वारुणीत्वादीनां च एकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति । प्रसिपदत्यागेन अप्रसिपदप्रयोगे किं प्रयोजनमित्यत आह तत्काल इति ।

तत्काल एतान् समुपास्य जीवाः ।

ब्रह्मत्वकाले प्रविशन्त चैता-

निति स्म वाक् तादृशतामुपैति ।।

तत्काले उमात्वादिकाले । एतान् उमादीन् देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक् वेदवाणी । तादृशताम् उमादिशब्दवत्ताम् ।

एतदुक्तं भवति । यो यस्मन्नतिपरिचयवान् तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्तेऽपि तदभिज्ञाः तं प्रति तं पूर्वनाम्नैव व्यवहरन्तीति लोके सुप्रसिम् । तथाऽत्रापि प्रयोग इति किं प्रयोजनान्वेषणेनेति ।

११३सु०- इदानीं गरुडमार्गमाह सूर्य इति ।

अनु०-सूर्योऽग्नियुक्तो गुरुमाप्य तेन

शक्रं सहैतेन सुपर्णपत्नीम् ।

तया सुपर्णं सह तेन वाणीं

ब्रह्माणमेतद्गत एव याति ।।

अग्नियुक्त इत्यनेन अग्नेः सूर्ये लय इत्युच्यते । अनेन अग्निरिन्द्र इति श्रुतिः परम्परा-पेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेन इन्द्रादिष्वन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति ।

नन्वेतत् इन्द्र उमायामुमा रुद्रे विलीयत इति श्रुतिविरुम् । उमारुद्रशब्दयोः स्वार्थ-परित्यागेऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह इन्द्रेति ।

इन्द्रप्रवेशस्तु यदोच्यतेऽत्र

तदा ह्युमेत्येव सुपर्णपत्नी ।

उक्ता सुपर्णश्च गिरीशनाम्ना

ततो विरोधश्च न कश्चनात्र ।।

यदातदाशब्दावधिकरणमात्रस्योपलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न््नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलव-च्छतिसित्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः ।

११४सु०- अधुना तानि पर इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति ।

अनु०- भृग्वादयो दक्षमवाप्य तेन

प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।

विशन्त ये मनवो राजमुख्या

मनुं प्रविश्यात्र गता महेन्द्रम् ।।

सुपर्णपत्न््नयाः सुपर्णे लयः सि एव । इन्द्रपर्यन्तमेव वक्तव्यो अधिकवचनमुक्तदार्ढ्या-र्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते ।

भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यः, तमाह आकाश इति ।

आकाश उर्वी च गुरुं प्रविश्य

तेनैव यातः पुरुहूतदेवम् ।

सनादयो यतयः काममेव

विशन्त शिष्टा अपि हव्यवाहम् ।।

वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । अमुख्याभिमानिनस्तु शक्रं मरुद्गणा इति लयो वक्ष्यते ।। सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्टा उक्तेभ्यः ।

एतेन अग्नौ सर्वे देवा विलीयन्त इत्यस्य विषयो दर्शितः ।

अस्यापवादमाह वर्णाश्रमेति ।

वर्णाश्रमाचाररता मनुष्या

धर्मं मनुं सोऽपि समेति काले ।

तमेव सर्वे पितरः सुरानुगाः

सर्वे कुबेरं स च सोममेव ।।

एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्माश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वाय-म्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरः तं धर्ममेव संयान्त । सर्वे सुरानुगा गन्धर्वाद्याः कुबेरम् ।

उपसंहरति विमुक्तति ।

विमुक्तिकाले प्रविशन्त्यभीक्ष्णं

भोगांश्च तद्देहगताः प्रभुञ्जते ।

एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रवि-

शन्त किं तर्हीत्यत आह अभीक्ष्णमिति । आविष्टग्रहवदित्यर्थः । किमनेन प्रवेशेनेत्यत आह आनन्देति ।

आनन्दसुव्यक्तिरमुत्र तेषां

भवति

अमुत्र उत्तमेषु प्रवेशेन ।

परि०- सुपर्णपत्नी विशन्तीत्यत्र विशन्तीति पदस्य महेन्द्रमित्यत्राप्यन्वय इति भावेनाह इत्युभयत्र सम्बध्यत इति । भूतचतुष्टयस्य लय उक्तः वायुभूतस्य लयो वक्तव्य इत्यत आह वायुभूतस्येति ।। प्रधानेति । तस्य तु लयः प्रागुक्त इति भावः ।। लय एवेति । न तूत्क्रान्तरित्यर्थः ।

११५सु०- प्रविष्टानां पुनर्निर्गमोऽस्त न वेति शङ्कायामाह अतश्चेति ।

अतश्चेष्टत एव निर्गताः ।

क्रडन्त

अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः । इष्टम् इच्छा । नपुंसके भावे क्तः । निर्गतानां पुनः प्रवेशोऽस्त न वेत्यत आह भूयश्चेति ।

भूयश्च समाविशन्त

तानेव

तान् पूर्वप्रविष्टानेव ।

नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह सायुज्यमिति ।

सायुज्यमिदं वदन्त ।।

वदन्त पुराणादीनि । सयुजां भावो हि सायुज्यम् । किं इदं सायुज्यं सर्वेषामस्त । नेति ब्रूमः । तर्हि सायुज्यहीनानां कदृशी वृत्तिरित्यत आह सायुज्येति ।

सायुज्यहीनास्तु लये तु सर्वे

प्रोक्तेन मार्गेण विशन्त सृष्टौ ।

बहिश्च निर्यान्त

लये तु लय एव । विशन्त उत्तमान् । बहिः तेभ्यः । एतत्सायुज्यभाजामपि समानमिति नेत्याह तत इति ।

ततोऽन्यदापि

सायुज्यभाजां भवति प्रवेशः ।।

ततः लयकालात् ।

११६सु०- नन्वेतत्सर्वं कुतः प्रमाणात् प्रतिपत्तव्यमित्यत आह उक्तमिति ।

अनु०-उक्तं समस्तं परमश्रुतौ हि

प्रोक्तं च

अस्यास्मय इत्युक्तं समस्तम् । परमश्रुतिश्च विस्तरभयान्न पठिता । चशब्द उत्तर-वाक्येन सम्बध्यते । प्रमाणान्तरमाह सर्गेति ।

सर्गक्रमतो विपर्ययः ।

मुक्तौ

मुक्तौ सर्गक्रमतो विपर्यय इति । यो यस्माज्जातः तस्य तस्मन् मुक्तिरिति तावदङ्गी-करणीयमित्यर्थः । एतच्च अपवादाभावे सतीति ज्ञेयम् । तथा च न्यायविवरणे । कुत एतदित्यत आह लय इति ।

लये यद्वत्

साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः । एतदपि कुत इत्यत आह

अथो इति ।

अथो लयश्च

विपर्ययेणेत्यवदद्गिरां प्रभुः ।

अथोशब्दः अर्थान्तरे । विपर्ययेणा सर्गक्रममपेक्ष्य । अवदत् उपपादितवान् । गिरां वेदवाचां प्रभुः सूत्रकारः । यथा विपर्ययेण तु क्रमोऽत उपपद्यते चेति ।

लये सृष्टिक्रमतो विपर्ययश्चेत् मुक्तौ तथा भाव्यमित्यत्र किं नियामकमित्यत आह

लय इति ।

लयो यतो मुक्तिरियं सुराणां

यतः कारणात् सुराणां लयः एव इयं मुक्तिः न मनुष्याणामिव प्रागेव देहादुत्क्रान्तः । तस्मादुक्तं युक्तम् । सामान्यविशेषभावान्न साध्याविशिष्टतादोषः । सर्गश्च उक्तानुगुण एव श्रुत्यादिसि इति भावः ।

ननु प्राङ् मुक्तानां भोगादिकं समर्थितम् । इदानीं तूच्यते लय एव मुक्तिरिति । तत्कथं पूर्वापरविरोधो न भवतीत्यत आह भोग इति ।

भोगो विशेषेण च

विशेषेण देवपदादप्यतिशयेन । देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वाऽपीति भावः । अत एव प्रागियमित्युक्तम् ।

केचित्तु विमतो लयः सृष्टितो विपरीतक्रमवान् लये विपरीतक्रमसत्त्वादिति पूर्वत्र प्रयोगोऽभिमतः । तथा च

लये विपरीतक्रमसत्त्वायो विपरीतक्रमवानित्युक्तं स्यात् एवं च साध्याविशेषः लयसामान्यगतेन विपरीतक्रमेण लयविशेषसुरलयमुक्तौ साध्यत इति न दोष इत्यर्थः इत्याहुः । ननु सृष्टिक्रमो (यदि) भवदुक्तलयक्रमात् क्वचिदन्यथा-ऽप्यस्तु न हि जनकजन्ययोरानुपूर्वीनियमे नियामकमस्तीत्यत आह सर्गश्चेति । तस्मादशेषा इत्यादिना येन क्रमेण लय उक्तः तद्विपरीतक्रमो नियमेन श्रुत्यादिसिो न क्वचिदन्यथा अस्तीत्यर्थः ।। प्राङ्मुक्तानामिति । भोगांश्च तद्देहगताः प्रभुञ्जते इत्यत्रेत्यर्थः । यथेष्टतो निर्गत्यादिः आदिपदार्थः । ननु लये विपरीतक्रमश्चेत् मुक्तावपि तथा भाव्यमित्येतत् कुतः । तथात्वे मनुष्याणामपि तथा स्यादिति भावेन शङ्कितस्य किमुत्तरमित्यत आह देहहानीति ।। अत एवेति । सुरलयरूपा मुक्तिरेव लयाविशिष्टेत्यभिमतत्वादेवेत्यर्थः ।

११७सु०- भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्ख्येयमित्यत आह यमिति ।

अनु०- यं वदिष्यति ।

यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः । प्रमाणान्तरं चाह उक्तश्चेति ।

उक्तश्च बिम्बप्रतिबिम्बभावः

पैङ्गिश्रुतावुक्तलयानुसारतः ।

बिम्बप्रतिबिम्बभावः देवानां उक्तलयानुसारतः इति । यस्मन् यस्य अस्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः । ततः किमित्यत आह बिम्ब इति ।

बिम्बे लयो यन्नियतश्च मुक्तौ

चिदात्मनां तद्वशता च सर्वदा ।।

मोक्षानन्तरमपि सर्वदा । एतदुत्तरत्रोपयोगि । प्रसङ्गादिहोक्तम् । यद्यस्मान् मुक्तौ प्रति-बिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिः, तानि चान्यत्र पठितानि, तस्मादुक्तं युक्तमिति ।

११८सु०- यदुक्तं सर्वेषां भूतानां प्राणे लयस्तस्य विष्णाविति तदसत् । प्राणस्तेजसि तेजः परस्यां देवतायामिति श्रुतिविरोधात् । बिम्बे प्रतिबिम्बस्य लय इति चासत् । न हि प्राणस्तेजोभूतस्य प्रतिबिम्ब इत्यत आह तेजोऽभिधामिति ।

अनु०-तेजोऽभिधां तु श्रियमाप्य विष्णु-

मग्रे ततः पुत्रतयैव वायुः ।

आप्तः प्रसूतः पुनरेव विष्णुं

प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति ।।

वायुः प्रलये तेजोऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः । सृष्टिकाले जातेऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः । पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति ।

इदमुक्तं भवति । तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः । एवं तर्हि विलीनो हि प्रकृतौ संसारमेतीति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न । इष्टत्वात् । हिरण्यगर्भत्वेन पुनर्जनना-ङ्गीकारात् । एवमपि ब्रह्मविदो मुक्तयभावप्रसङ्ग इति चेन्न । हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारा-दिति । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम् ।

मुक्तानां स्वस्वोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् । नैतावदेव । किन्तु भगव-त्प्रवेशोऽप्यस्त । उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव । आनन्दस्तु स्वरूपभूत इत्याह सर्वेऽपीति ।

सर्वेऽपि ते मुक्तगणा अमन्द्र-

सान्द्रं निजानन्दमशेषतोऽपि ।

भुञ्जन्त एवासत ईशदेहे

लयेऽथ सर्गे बहिरेव यान्त ।।

सर्वेऽपीत्युक्ते देवानां प्रकृतत्वात् त एवेति प्रतीतिं वारयितुम् अशेषतोऽपीत्युक्तम् । भुञ्जन्तः अनुभवन्तः ।

११९सु०- शिष्टा हव्यवाहमित्यस्यापवादान्तरमाह प्रयातीति ।

अनु०-प्रयाति धर्मं निर्ऋतिस्तु शक्रं

मरुद्गणाः पारिषदास्तथैव ।

सर्वेऽनिरुं पृतनाधिपाद्याः

निर्ऋतिस्तु धर्मं प्रयाति । मरुद्गणाः शक्रं प्रयान्त । तथाशब्दः समुच्चये । पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुं प्रयान्त । देहलयार्थमिति शेषः । अनिरुस्य तु कामे लय उक्त एवेत्येवार्थः । अत्र प्रमाणमाह तुरेति ।

तुरश्रुतिर्हीत्थम्

अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् ।

१२०सु०- पादार्थमुपसंहरति इयमिति ।

अनु०- इयं विमुक्तिः ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ।।

देवादीनां देहलयरूपा विमुक्तिः उक्तेति ।।

इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते

चतुर्थाध्यायस्य द्वितीयः पादः सम्पूर्णः ।।

सु०-

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते-

रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ

चतुर्थेऽध्यायेऽत्रोत्क्रमणचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य द्वितीयः पादः ।।

न्यायसुधा

अथ चतुर्थाध्यायस्य तृतीयः पादः

१सु०- मार्गो गम्यं चास्मन्पाद उच्यत इति भाष्यम् । तत्प्राक् प्रसङ्गाद्विवृतमपीह अवसरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति ।

अनु०-उत्क्रान्तमार्गश्च विमुक्तगम्यं

पादोदितं

ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवोकगमनार्थः । गम्यमपि तेषामेवेति प्रतीतिनिरासाय उक्तं विमुक्तेति । ये कर्मणो देहाच्च विमुक्ताः तेषां सर्वेषामपि गम्यम् । इदमुभयमेतत्पादोदितम् ।

२सु०- अत्राधिकरणेषु पूर्वपक्षयुक्तः सिान्तयुक्तश्चाह सुक्रमेति ।

अनु०- सुक्रमविक्रमौ च ।

सान्तानिकप्राप्तिरभीष्टता च

सौकर्यमित्यन्यमतस्य तर्काः ।

विशेषसम्प्राप्तिरुरुत्वमाप्तिः

क्रमानुरागः कथितानुवृत्तिः ।

सिान्तनिर्णीतिकराः

अन्यमतस्येति जातावेकवचनम् । सिान्तनिर्णीतिकरास्तर्का इति शेषः ।

सु०-

ब्र०सू०-ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च

दोषात्तत्क्रतुश्च ॐ ।।

३सु०-विमुक्तगम्यं प्रतिपादयितुम् इदं सूत्रम् । ताष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन् प्रतीकशब्दार्थं तावदाह प्रतीकमिति ।

अनु०-प्रतीकं

देहादिकं

आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् । यद्यपि सूत्रे अप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिम् । तथाऽपि अस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वात् अभावस्य भावपूर्वकत्वाच्च परिशेषसिमेवार्थमादावाह तद्गतमिति ।

तद्गतमेव ये नराः ।

उपासते ते पुरतः समाप्नुयु-

र्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।

प्राप्स्यन्त

प्रतीकगतमेव विष्णुम् । ते प्रतीकालम्बनाः । पुरतः प्राक् प्रलयकालात् । अस्मात् ब्रह्मणः । मतिं भगवज्ज्ञानविशेषम् । प्राप्स्यन्त प्रलये । इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति ।

अतोऽन्येऽपि तमाप्य तस्मा-

रिं गता मुक्तिभाजः परान्ते ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ।।

प्रतीकालम्बनेभ्यः अन्ये व्याप्तोपासका अप्रतीकालम्बनाः । प्रथमतः तं विष्णुं आप्य अपि परान्तकाले । तस्माद्विष्णोः तं ब्रह्माणं आप्य हरिं गता भवन्तीति ।।

इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते चतुर्थाध्यायस्य तृतीयः पादः ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते-

रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ

चतुर्थाध्याये(र्चिःप्रभृति)स्मन् गमनचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः सम्पूर्णः ।।