Jump to content

Anuvyakhyana

From Anandamakaranda
Revision as of 20:06, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
अनुव्याख्यानम्

प्रथमाध्यायः

प्रथमः पादः

प्रथमः पादः

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।

अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥

तमेव शास्त्रं प्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।

विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥

प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।

अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥

गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।

यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥

वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।

आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥

युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।

दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥6॥

अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।

स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥

तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।

सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥8॥












इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

द्वितीयः पादः







इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

तृतीयः पादः

तत्रान्यत्र प्रसिद्धानां(तत्रान्यत्र च सिद्धानां) लिङ्गानाम्नां पुनर्हरिः ।

विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥






इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

चतुर्थः पादः




इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ॥

द्वितीयोध्यायः

प्रथमः पादः

प्रथमः पादः

उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते ।

चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥

तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः ।

पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥

आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः(बलाद्भवाः) ।

सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥

इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।

एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥












इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

द्वितीयः पादः

स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥

एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति ।

इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ॥2॥

दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ।

अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥

न चोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ।

भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥

तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् ।

दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥

तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।

विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥

अनादिवासनायोगादसुराणां बहुत्वतः ।

दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥

तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।

सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥

इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।

चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥













इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

तृतीयः पादः

अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।

करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥

स्वरूपनिर्णयायैव वचनानां परस्परम् ।

पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥

अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।

एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥

दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।

प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥

लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।

तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥

उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने ।

नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥

व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।

मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥

गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।

अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥

विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।







इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

चतुर्थः पादः

श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।

यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥

करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ।

विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥

दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।

युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥

युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥3॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥

तृतीयाध्यायस्य

प्रथमः पादः

प्रथमः पादः

स्वाभाविकान्यथानामसहभावान्ययोक्तयः ॥1॥

अविशेषविशेषौ च सहभाIो विमिश्रता ।

विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥ 2 ॥

युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ ।

उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ॥3॥

योग्यता बलवत्त्वं च विभागः कारणाभवः ।

क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥

बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् ।

अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

द्वितीयः पादः

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।

स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥

गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।

नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥

अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।

अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥

विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् ।

अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥












इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

तृतीयः पादः

वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।

आपरोक्ष्यं भवेत् विष्णोरिति पादक्रमो भवेत् ॥1॥

युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।

परस्परविरोधं(धे) च प्रणुद्याशेषवाक्यगम् ॥2॥

अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः ।

बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः ॥3॥

विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान् ।

परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥4॥

देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।

विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥5॥

निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।

उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥6॥

सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।

यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥7॥

कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।

अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥8॥

सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।

यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः ॥9॥

इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ।

येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ॥10॥

सुप्रसन्नो भवेदीशो जिज्ञासाऽतोऽस्य मुक्तिदा ।

मोक्षादिदत्वमीशस्य कथमेवावगम्यते ॥11॥

इति चेच्छास्त्रयोनित्वात् शास्त्रगम्यो हि मोक्षदः ।

प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ॥12॥

किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ।

यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ॥13॥

धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ।

अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि ॥14॥

दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ।

तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥15॥

शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ।

मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ॥16॥

वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।

अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ॥17॥

तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः ।

अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ॥18॥

‘यमेवैष’ इति श्रुत्या ‘तमेवे’ति च सादरम् ।

शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥19॥

‘य एनं विदुरमृता’ इत्युक्तस्तु समुद्रगः ।

‘तदेव ब्रह्म परममि’ति श्रुत्यावधारितः ॥20॥

‘यतः प्रसूते’ति ततः सृष्टिमाह ततो हरिः ।

शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते ॥21॥

शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।

समिति ह्युपसर्गेन परमुख्यार्थतोच्यते ॥22॥

एवं परममुख्यार्थो नारायण इति श्रुतेः ।

निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥23॥

कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।

‘वेदा ह्यनन्ता’ इति हि श्रुतिराहाप्यनन्ताम् ॥24॥

अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ।

उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥25॥

इत्याशङ्कापनोदार्थं(इति शङ्कापनोदार्थं) स आह करुणाकरः ।

अशक्योत्तारणत्वेऽपि(अशक्योत्तरणत्वेऽपि) ह्यागमापारवारिधेः ॥26॥

निर्णीयते मयैवायं रोमकूपलयोदिना ।

यद्यप्यशेषवेदार्थो दुर्गमोऽखलिमानवैः ॥27॥

मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ।

इति प्रकाशयन् (वेद)विश्वपतिराह प्रमेयताम् ॥28॥

निखलिस्यापि वेदस्य गतिसामान्यमञ्जसा ।

को नाम गतिसामान्यमनन्तागमसम्पदः ॥29॥

ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् ।

अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ॥30॥

जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः ।

इति मुख्यतयाऽशेषगतिसामान्यवित् प्रभुः ॥31॥

प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ।

अतो निखलिवेदानां सिद्ध एव समन्वयः ॥32॥

इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम् ।

तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ॥33॥

शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ।

इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ॥34॥

महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ।

ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ॥35॥

दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।

अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ॥36॥

प्रवृत्तः प्रथमं देवः तत्रानन्दादयो गुणाः ।

ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥37॥

देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।

विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥38॥

अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।

विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥39॥

इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः ।

ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥40॥

तेषामन्यगतत्वे तु न स्यात् सम्यक्समन्वयः ।

इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥41॥

आह उभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।

इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥42॥

शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।

समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥43॥

शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।

अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥44॥

यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागतः ।

अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥45॥

अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।

मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥46॥

इत्याह एवं च शब्दानां नारायणसमन्वये ।

सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥47॥

विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् ।

इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥48॥

परस्यावरताहेतुर्यः स्वयं पर एव सन् ।

सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥49॥

अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।

द्वितीयो जीव एवास्ति स्वातन्त्र्यान्न तु(च) दूषणम् ॥50॥

हरेरेवमशेषेण सर्वशब्दसमन्वये ।

उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ॥51॥

अतोऽशेषविरोधानां कृतेशेन निराकृतिः ।

समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥52॥

किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ।

तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ॥53॥

उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।

वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥54॥

सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।

ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥55॥

तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः ।

आहोपासनमद्धैव विस्तरात् श्रुतिपूर्वकम् ॥56॥

पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।

विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥57॥

विभ्रमोपाकृतिर्लिङ्गमनवस्थाविशेषिता ।

अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥58॥

विशिष्टकारणं चेष्टां दृष्टवैरूप्यमुन्नतिः ।

अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥59॥

पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।

विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ॥60॥

अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।

शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥61॥

युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।

माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥62॥

फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।

यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥63॥

कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।

प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥64॥

संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।

विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥65॥

सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।

साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥66॥

अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः ।

सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥












इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

चतुर्थः पादः

एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।

अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥1॥

देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।

जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥2॥

सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः ।

बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥





इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ॥

चतुर्थाध्यायस्य

प्रथमः पादः

प्रथमः पादः

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।

विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥

नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।

चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥

आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि ।

उपदेशोऽतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥

‘लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ।

शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥4॥

सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः ।

तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥

दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।

पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥

उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।

सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥

सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।

अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥

ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः ।

अपश्यन् परमं विष्णुं तत्प्रसादैधिताः(तत्प्रसादेधिताः) सदा ॥9॥

इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते ।

आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥





इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

द्वितीयः पादः

देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥

उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥

फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ।

स्रष्टृष्वेव च(तु) सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥

देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः ।

स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥

यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ।

लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥

कथं मार्गो भवेत् तेषां विशतामुत्तरं(विशतामुत्तमं) स्वतः ।

जातानां मानुषे लोके देवानां तु(च) कदाचन ॥6॥

उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।

अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥

सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥

‘क्ष्माम्भोऽनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः(भाग.३.३२.९) ॥8॥

एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः(भाग.३.३२.१०) ॥9॥

‘भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।

परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः’ ॥10॥

‘प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।

आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः’ ॥11 ॥

इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।

भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥

तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।

उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥

तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।

नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥

पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः ।

रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥

गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः ।

सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥

बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः ।

महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ॥17॥

अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।

नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥

सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।

निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥

विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः ।

तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु(च) केवलम् ॥20॥

न तादृशी ब्रह्मणस्तु एवं श्रियो यथा ।

मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥

अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।

एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥

खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।

वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥

आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।

ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥

पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।

नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥

इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते(प्रदृश्यते) ।

गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥

इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।

अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥

दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।

प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥

उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् ।

अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥

गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।

आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ॥30॥

नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् ।

तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥

लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।

सोऽपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥

मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।

चकार सौगतमतं मोहायैव चकार यत् ॥33॥

असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।

अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥

चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।

अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥

इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।

ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥

न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा ।

एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥

तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।

दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥

न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।

न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥39॥

निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् ।

शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥

अशेषदोषरहितं मनोवाचामगोचरम् ।

मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिवर्जितम् ॥41॥

संसृत्यवस्था विज्ञेया(विज्ञेयं) संवृत्यैव विशिष्यते(विशेष्यते) ।

स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥

केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।

अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥

यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति ।

स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥

संवृत्त्या यस्त्ववच्छिन्नो(संवृत्याऽन्यस्त्ववच्छिन्नः) दुःखान्यनुभवत्यलम् ।

इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥

बहुजीवमताश्चेति माया तेषां तु संवृतिः ।

निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा(ब्रह्मैव तो भिदा) ॥46॥

सच्चित्यसुखादिकं चैव किं कुतोऽखण्डवादिनः ।

व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥

अनृतादेरपोहं तु स्वयमेव हि मन्यते ।

निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥

प्रामाण्यादि च वेदस्य फलतः सममेव हि ।

अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥

अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् ।

दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥

रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।

स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥

तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।

छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥

निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।

सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥

न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।

न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥

मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च ।

धर्माः केऽपि(धर्मास्तेऽपि) न सन्त्येव को विशेषस्ततस्तयोः ॥55॥

एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।

स्वपक्षसाधनेनैव ‘नाभाव’ इति चोक्तितः ॥56॥

आत्माभावे पुमर्थः क इष्टस्यात्माऽऽवधिर्यतः ।

यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥

कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ।

दृश्यमाने विशेषेऽपि यदि चेदविशेषता ॥58॥

घटाभावोऽविशेषः स्यात् पाश्चात्यश्चेदनागतः ।

न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥

यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः ।

न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥

अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी ।

श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥

मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ।

निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥

अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ।

दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ॥63॥

भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः ।

हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥

एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः ।

तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥

अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ।

कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥

एतयाऽनुमया रोधान्न तादृङ्मोक्षरूपता ।

यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥

किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् ।

अवस्थात्वादिति ह्येव हेतुः साऽपि कदेति च ॥68॥

पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।

न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥

निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् ।

एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥

कुपिता कालमाधाय द्वैतमेवोपपादयेत् ।

विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥

इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ।

कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥

निराकृतानि तेषां च समत्वात् पक्षदोषयोः ।

ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥

बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ।

मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ॥74॥

प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।

अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥

निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः ।

साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च(तु) निःसुखम् ॥76॥

इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।

तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥

महानन्दं च भोगं च नियमेन वदन्ति हि ।

प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥

अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ।

नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥

प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।

हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥

न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।

अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥

असुरा नैवमेवं च नैवं चाखलिमानुषाः ।

इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥

सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।

धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥

आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।

भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥

इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।

ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥

इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।

धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥

मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ।

आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥

घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।

येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥

केन तं च विजानीयादित्यनिष्टं हि सर्वथा ।

नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥

तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।

प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥

न स्वविज्ञानितायां च विरोधः कश्चनेष्यते ।

कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥

कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् ।

‘सोऽश्नुते सर्वकामांश्च’ ‘कामान्नी कामरूप्यथ’ ॥92॥

इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ।

अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥

आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।

‘अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः’ ॥94॥

शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ।

सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥

यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ।

तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥96॥

प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।

यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥

अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः ।

महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥

न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।

नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥

युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।

‘यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ॥100 ॥

अपि नैवाजहुर्युद्धरसात् ते नारदादयः’ ।

इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥

विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः ।

प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥

सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।

मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥

‘सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम्’ ।

‘निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥

परमानन्दमाप्नोति यत्र कामोऽवसीयते’(भाग.११.१५.१७) ।

‘न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥

न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः’ ।

‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥

कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ ।

इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥

अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ।

शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥

श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥

‘न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥110॥

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥

प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥

विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः ।

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’(भाग.२.९.१०-१३) ॥113॥

‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।

ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः’(ऋ.सं.१०.७१.११) ॥114॥

कामान्नरूपी चरतीतिपूर्व श्रुत्या पुराणोक्तिभिरप्यदोषः ।

देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥

शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।

यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति(आपयन्ति) ॥116॥

न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् ।

स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥

यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ।

भुङ्क्ते स देवः(दैवं) पुरुषोत्तमोऽजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥

सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ।

इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ॥119॥

कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।

इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥

कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति ।

यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥

न चैव मुक्तौ न(तु) हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ।

यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥

इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण ।

विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥

औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः ।

स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥

व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।

विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥125॥

सुशक्यता शश्वदतिप्रसिद्धिर्विवेक(प्रसिद्धिविवेक)विन्यासविचारसञ्ज्ञाः ।

नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥

महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।

विशेषकार्यं कृतिसंस्थितिश्च(कृतसंस्थितिश्च) सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥

व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च ।

समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥

विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः ।

कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥



तृतीयः पादः

तृतीयः पादः

उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥

सान्तनिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः ।

विशेषसमप्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥2॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

चतुर्थः पादः

अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥

समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षके ।

सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ॥2॥

विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ।


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥