Brahmasutra
(समन्वयाध्यायः) प्रथमाध्यायः
प्रथमः पादः
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
तच्चोक्तं स्कान्दे –
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥
चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।
यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥
सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।
मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥
इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।
सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ॥
शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।
एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥
ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।
ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥ इत्यादि ।
तमेव समन्वयं प्रकटयति ‘आनन्दमयोऽभ्यासात्’ इत्यादिना समस्तेनाध्यायेन प्रायेण । प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्वयः प्रदर्श्यतेऽस्मिन् पादे ।
नान्यथा तददृष्टेः ।
‘ब्रह्मजिज्ञासा कर्तव्या’ इत्युक्तम् । तच्च ब्रह्म ‘ब्रह्म पुच्छं प्रतिष्ठा’(तै.उ.२.५.२) इत्यानन्दमयावयवरूपं प्रतीयते ।
न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह –
द्वितीयः पादः
लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयति अस्मिन् पादे प्राधान्येन ।
‘ब्रह्म ततमम्’(ऐ.आ.२.४.३) इति सर्वगतत्वमुक्तं विष्णोः ।
तच्च ‘तस्यैतस्यासावादित्यो रसः’(ऐ.आ.३.२.३) इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।
तृतीयः पादः
चतुर्थः पादः
(अविरोधाध्यायः) द्वितीयोऽध्यायः॥
प्रथमः पादः
द्वितीयः पादः
‘इतरेषां चानुपलब्धेः’(ब्र.सू.२.१.२) इति सामान्यनिराकरणं समयानां कृतम्। विशेषतो निराकरोत्यस्मिन् पादे ।
अचेतनप्रवृत्तिमतं प्रथमतो निराकरोति –
तृतीयः पादः
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोत्यनेन पादेन।
चतुर्थः पादः
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।
‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः प्रतीयते(श्रूयते) ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’(मुण्डक.उ.२.१.३ इति च ।
अत उच्यते –
(साधनाध्यायः) तृतीयाध्यायः॥
प्रथमः पादः
साधनविचारोऽयमध्यायः । वैराग्यार्थे(य) गत्यादिनिरूपणा प्रथमपादे।
भूतबन्धो हि बन्धः- ‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति च वाराहे ।
तच्च मरणे भवति-
भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् ।
भूतानां सम्प्रयोगश्च जनिरित्येव पण्डितैः॥’ इति च भारते ॥
अतः किं साधनैः? इत्यत आह-
द्वितीयः पादः
भक्तिरस्मिन् पाद उच्यते। भक्त्यर्थं भगवन्महिमोक्तिः।
तृतीयः पादः
उपासनाऽस्मिन् पाद उच्यते। सर्वपरिज्ञानं प्रथमत उच्यते-
चतुर्थः पादः
ज्ञानसामर्थ्यमस्मिन् पाद उच्यते –
(फलाध्यायः) चतुर्थाध्यायः ॥
प्रथमः पादः
फलं निगद्यतेऽस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन् पादे ।
नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमथ उच्यते ।
प्रायिकत्वाच्चाऽध्यायानां पादानां च न विरोधः ।
द्वितीयः पादः
देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पाद उच्यते –
तृतीयः पादः
मार्गो गम्यं चास्मिन् पाद उच्यते –
चतुर्थः पादः
भोगमाहास्मिन् पादे-