Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C1/P3

From Anandamakaranda
Revision as of 20:34, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

न्यायसुधा — अध्यायः 1, पादः 3

न्यायसुधा

तत्रान्यत्र प्रसिद्धानां(तत्रान्यत्र च सिद्धानां) लिङ्गानाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥

भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति ।

तत्रान्यत्र प्रसिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ।।

हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति । ननु पूर्वेण पादद्वयेन उक्ता सेत्यत उक्तम् पुनरिति । (ननु) तर्हि वैयर्थ्यमित्यत उक्तम्, तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति

पूर्वत्र त्वन्यत्रप्रसिद्धानामित्युक्तमेव । परमेश्वरे प्रसिद्धानि चेङ्गिनामानि किं समन्वयप्रतिपादनेन, सिद्धत्वादित्यत उक्तम्
स्वस्मिन्नेवेति , अन्ययोगव्यवच्छेदः प्रयोजनमिति भावः । तत्किमन्यत्र शब्दवृत्तिरेव नास्ति, न नास्ति, किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम् मुख्यत इति ।

एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम् विशेषादिति । परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति ।

एतदुक्तं भवति । ये शब्दाः लोकदृष्ट्या अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् । अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति ।

यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् । तथाऽप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् ।

न्यायसुधा

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्त्यखिलेशत्वात् .............॥

ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।

अत्र यस्मिन् द्यौः इत्यादिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम्- ॐ नानुमानमतच्छब्दात् ॐ, ॐ प्राणभृच्चेति । तत्र अतच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये । तदयुक्तमिव आभाति, असामर्थ्येन समासानुपपत्तेः । तत्र छन्दोवत्सूत्राणि भवन्ति इति वा, अकर्तरि च कारके इति ज्ञापकादसामर्थ्येऽपि क्वचित्समासो भवतीति वा, अर्थाभावे यदव्ययम् इत्यव्ययीभावो वेति समाधानमवधातव्यम् ।

अथवा तेभ्यः शिवादिभ्योऽन्यत् अतद् = ब्रह्म तस्य, शब्दोऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह- विष्णावेवेति ।

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्ति

रूढत्वात् प्रसिद्धत्वादित्यर्थः । न तु रूढिवृत्त्योपेतत्वादिति । महारूढियोगाभ्यां तस्य तत्र (प्र)वृत्तेः । तस्य चात्र श्रवणादिति शेषः ।। श्रुतिः यस्मिन्द्यौः इत्यादिका ।

अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि हेतुत्वं द्रष्टव्यम् ।

तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते ।

ननु तर्हि तच्छब्दादित्येवास्तु, तदिति च ब्रह्मपरामर्शो व्याख्यास्यते । मैवम् । अनेकार्थत्वे तच्छब्दोऽन्यार्थोऽपि सम्भवति, अतस्तस्यैव शब्दादिति वक्तव्यम् । तदर्थमतच्छब्दादि(त्युक्तम्)ति प्रयुक्तम् । अत एवाह- विष्णावेवेति ।।

न्यायसुधा

...............भूमा विष्णुः सुखाधिकः ॥2॥

इदं कश्चिद्व्याख्याति । भूमा परमात्मा । कुतः । संप्रसीदत्यत्रेति संप्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति ।

अपर आह- संप्रसादो जीवात्मा । तस्मादूर्ध्वमुपदेशादिति ।।

तदुभयमप्यसत्, प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात्, अतोऽध्युपदेशादित्येव हेतुः । ननु कथं तस्य परमात्मत्वसाधकता, अन्यत्रापि सम्भवादित्यतो व्याख्याति- अखिलेशत्वादिति ।

अखिलेशत्वद् भूमा विष्णुः सुखाधिकः ।।

अधिशब्दो हीश्वरवाची । तथा च विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति । न च एतद् असिद्धम् । नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति ।

ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात् व्यर्थमापन्नमिति चेन्न, हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे- सुखाधिक इति ।

प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम्, सम्यक् प्रसादः सम्प्रसादः । गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थोऽभिहितः । य(स्मात्तस्मा)तस्तस्मादिति शेषः ।।

न्यायसुधा

एतद्वै तदक्षरं गार्गीत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्-

ॐ अन्यभावव्यावृत्तेश्चेति ।

तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाऽपि अतो विरुद्धवदित्यादिना व्याख्यायते ।

तथा हि । नेदमक्षरं ब्रह्म, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमवागमनोऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्च नेत्यक्षरस्यास्थूलत्वादिश्रवणात् ।

न चैतद्ब्रह्मणः सम्भवति ।। अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात्, स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम्; न चोभयमेकत्र युज्यते, परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः ।

न चैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाऽणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः, घटादितुल्यत्वेनावक्तव्यत्वात्, उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । तथा च सर्वत्र प्रसिद्धोपदेशात्, अत्ता चराचरग्रहणात्, रूपोपन्यासाच्चेत्युक्तविरोधः स्यादिति ।

तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह- अत इति ।

।। ॐ अन्यभावव्यावृत्तेश्च ॐ ।।
अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।।ब्रह्मैव

यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवत् उक्तोभयविधविरुद्धार्थप्रतिपादकमिव, भातं प्रतीतम् अपि वाक्यं तत्त्वतो व्याख्याय हरौ योजनीयम् योजयितुं शक्यमिति योजना ।

यतोऽम्बरान्तधृत्यादिनाऽक्षरस्य विष्णुत्वं निश्चितम् अतो विरुद्धवातमपि वाक्य तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बध्यते ।

अथवा अत इत्यस्य पूर्वत्रैव(त्र) सम्बन्धः । यतः सुखाधिकोऽतो भूमा विष्णुरि(विष्णुरतो भूमे)ति विरुद्धवदिति प्रतिज्ञाया(यां) विरुद्धैरिति हेतुतया सम्बध्यते ।

एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वेऽस्थूलमित्यादिवाक्यस्यानवकाशः, अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । न चैवं सति परस्परविरोध इति वाच्यम्, विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति ।

विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम्, मे माता वन्ध्येतिवद् व्याहतत्वात् ।

यदि हि महत्त्वाणुत्वादीनि विरुद्धानि, कथं तर्हि तैर्युतमेकं स्यात्, विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः, सहावस्थानस्य अविरोधरूपत्वादित्याशङ्क्योक्तं विवृणोति- तानीति ।

तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ।।

विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् । तानि अस्थूलादिकानि अणुत्वमहत्त्वादिकानि लिङ्गानि तस्माद् ब्रह्मणः अन्यत्र सह असन्त्यपि गोविन्दे अविरोधेन एव सहैवेति यावत् सन्तीति ।

न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्यार्थः । गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति ।

अयमभिसन्धिः । अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् । किंवा विरुद्धत्वात् । नाद्यः, अणोरणीयान् इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् । द्वितीयेऽपि किं विरोधः प्रमाणेनाथ परस्परम् । न प्रथमः, विपरीतप्रमाणादर्शनात् । द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।

किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव ।

(आद्ये) आद्येऽपि किमेकदेशो नामावयवः, प्रदेशो (प्रदेशभेदो) वा । नाद्यः, अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्योऽन्त्येऽन्तर्भवति । द्वितीयोऽप्यभ्युपगमविरुद्धः, औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् ।

न द्वितीयः, भेरीसंयोगस्यापि तथात्वापत्तेः, तथा च सर्वत्र शब्दोपलब्धिप्रसङ्गात्, अतः परमाणुसंयोगार्थमाकाशोऽणुरभ्युपगन्तव्य इति व्यभिचारश्च ।

न द्वितीयः, परस्परविरोधासिद्धेः । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः, उत क्वचित्, किंवा विमतिपदादन्यत्र सर्वत्र । नाद्यः, ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः, आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात्, अन्यथा पृथिव्यादौ तदुभयं न स्यात् ।

न तृतीयः, नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् ।

किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम्, आकाशादीनां तदभावात्, अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमेऽतिप्रसङ्गाच्च; किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथा च भावाभावयोरन्यत्र सर्वत्र सहानवस्थितयोः कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृतेऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः ।

न चैवमतिप्रसङ्गः, प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न, प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति ।

एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वेऽपि न दोष इत्येवंपरतया सूत्रं व्याचष्टे अन्येति ।

अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ।।

ब्रह्मणोऽन्यानि वस्तूनि घटादीनि, तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च, तथाविधानां स्थौल्यादीनामभावं नारायणे अस्थूलमनणु इत्यादिश्रुतिर्वक्ति, न तु तस्य निःस्वभावत्वं, येनोक्त विरोधः स्यादित्यर्थः ।

कुत एवं श्रुतेरर्थसङ्कोचः क्रियते, निःस्वभावत्वमेवार्थः किं न स्यात्; इत्यत आह सर्वधर्मेति ।

सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुतास्तु(श्च) नेत्याद्याः प्रमाणं श्रुतिरत्र च ।।

अत्र = परमेश्वरस्य सस्वभावत्वे, न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहत्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसंकुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषयत्वादिदं व्याख्यानं स्वशब्देन विधाय, सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ।।

न्यायसुधा

अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति, परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम्, तदुभयसिद्ध््यर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति- लिङ्गमिति ।

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ।।बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ।।लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात्तथागतिः ।।समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ।। सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।

एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् ।

सूत्रसूचितान् सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह मुक्तेति ।

अनु० -मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।।

वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ।अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।।वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।अनामरूपता भेदस्योपजीव्यप्रमाणता ।।सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।

अत एव पूर्वं दृश्यन्त इत्युक्त्वाऽत्र प्रदर्शिता इत्युक्तम् ।

सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बध्यते; प्राणादाधिक्यं तथा सर्वत आधिक्यमिति, स्वभावस्य सर्वतो वैलक्षण्यं तथाऽम्बरान्तधृत्यादीति । प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते, तेनापहतपाप्मत्वादीनां ग्रहणम् । सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् । तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः । उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता । (ता) इति सिद्धान्तयुक्तयः ।

नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते । विषयाः, पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः । न च विषयादिना विनाऽधिकरणं सम्भवति । तत्कथमेतदिति चेत् । इत्थम् । तदुपर्यपि बादरायणः सम्भवात्, शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम्, किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम्, द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनार्थमित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयाद्यनुक्तिः ।

अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत ।

नन्वेतद्द्वयमत्र न विचारणीयम्, असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति, समन्वयलक्षणे प्रथमाध्यायेऽनन्तर्भावस्य भवरिेवोक्तत्वात्, अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् ।

उत्तराऽपि षोढा भवति । प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमाऽत्रास्ति, स्मारकाभावात् । न द्वितीया, विनैव तेन प्रकृतसिद्धेः । न तृतीया, समन्वयशेषेणावरुद्धत्वात् ।

न चतुर्थी, उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् । न पञ्चमी, पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी, पूर्वेण अनेनोत्तरेण चैकस्याजननात् ।। तस्मादिदं नेहावकाशमर्हति इत्यत आह- अधिकारश्चेति ।

अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।।

अन्तर्भावलक्षणसङ्गत्यभावेऽपि देवादीनां वेदविद्याधिकारः तदभावश्च शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ । प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः । न च प्रसक्तानुप्रसक्तचिन्तनेऽतिप्रसङ्गः, प्रयोजनभावाभावाभ्यां व्यवस्थानात् । प्रकृते च विश्वेदेवा उपासते इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति ।

ननु चिन्तिताविति कथम्, विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् ।

मैवम् । इतीमौ विषयावित्यध्याहारात् ।।

अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्, मध्वादिष्वसम्भवादनधिकारं जैमिनिः, ज्योतिषि भावाच्चेति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते, तान्प्रति वैदिकविधेरभावात् ।

आत्मानमुपासीत इत्यादिविधिरेव तान् विषयीकरोतीति चेन्न, विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः, किंवा क्वचित् । नाद्यः, सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते यदप्राप्तमननुष्ठितसाधनं च । न च सर्वोपासनादिफले देवानां कामः सम्भवति, मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात्, तस्य च तैः प्राप्तत्वात्, सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् । अत एव न द्वितीयः ।

किंच जैमिनिरप्येवं मन्यत इति ।

न्यायसुधा

एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकारे(र इति) इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् ॐ भावं तु बादरायणोऽस्ति हीति ।

।। ॐ भावं तु बादरायणोऽस्ति हि ॐ ।।

तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं, तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह तत्फलायेति ।

तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ।।विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।

तत् इति वसूनामेवैको भूत्वा इत्यादिश्रुतिप्रसिद्धं परामृशति । सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । उपासाया विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । तथा असिद्धेऽर्थे विधिः उपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतम् इति योज्यम् । तयोः मतयोः ।

ननु किं तदन्यत्फलं कथं च सर्वज्ञानामसिद्धोऽर्थः, येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह- मोक्ष इति ।

मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।।सर्वदा तेन देवानामपि युक्ता ह्युपासना ।

यच्च प्रकाशते, न तत् सर्वदा । तेन तदुभयार्थम् । हिशब्दो यस्मादित्यर्थे ।

ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम्, मैवम्, परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह नित्यमिति ।

नित्यं वृदि्धक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् । अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।।

पूर्णम् अशेषार्थविषयम् । तुशब्दोऽवधारणे, विष्णोरेवेति सम्बध्यते ।। स्पष्टातिस्पष्टविषयमिति , निरतिशयस्पष्टमित्यर्थः ।

ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता । सा च पूर्णमित्यनेनैव गता । मैवम् । अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् । तस्य चानुभवसिद्धत्वात् ।

ब्रह्मणः हिरण्यगर्भस्य । अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम्; अत्राप्येवेति सम्बध्यते, न तु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः ।

अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् । विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् ।

मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् ।

एतेन भावमिति सूत्रं व्याख्यातं भवति ।

अत्र च यावत्सेवा इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति ।

ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् । जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा । आद्ये कथमनधिकारं ब्रूयात् ।

द्वितीये तु कथं न विरोध इति चेन्न; भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम्, जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्ननिराकुर्वन्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह- इत्यादय इति ।

इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि । जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथा वदन् ।।

विद्येशमतमेतस्मान्नैव सर्विरुद्ध््यते ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ।।

मोक्ष इत्युक्तपरामर्शार्थ इति शब्दः । तुशब्दो विद्यापतेस्तु इति योज्यः । हृदि वर्तन्ते । तस्मादसौ विशदमवादीदिति शेषः । तत् देवतानधिकारादिकम् । तथेति सम्मुग्धमित्यर्थः । अस्याप्युपपादनाय नित्यमित्यादिपूर्ववाक्यमनुसन्धेयम् । विद्येशेति उपसंहारः ।

अयं न्यायोऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुम् इत्यादय इति जैमिन्याद्या इति सरिति चोक्तमिति ।।

९ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादोऽयं प्रथमविषये पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य तृतीयः पादः ।।