स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥1॥
लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ १ ॥ मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन अवश्यमवगन्तव्यः इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः। इदं च अवान्तरभेदभिन्नस्य जगतो विज्ञानमपेक्षते, इति जगदपि तथाऽवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं, शास्त्रे विक्षिप्य प्रतिपादितम्, शिष्यहिततया संगृह्य प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः । ननु प्रकरणादौ किमपि मङ्गलं कस्मान्नानुष्ठितम्? न तावत्तदफलमेव, प्रेक्षावद्भिरनुष्ठितत्वात् । नापि प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलम् । नियमेन प्रारंभे तदनुष्ठानात् । उच्यते अनुष्ठितमेव भगवता मङ्गलम्, मानसादेरपि तस्य सम्भवात् । तच्च परमास्तिकत्वादनुमीयते ॥ यच्चायं स्वातन्त्र्यादिविशिष्टस्य विष्णोः आदितः एव सङ्कीर्तनं करोति । किं ततोऽन्यन्मङ्गलं नाम ? अन्यपरमपि तत् भक्त्या अनुष्ठितं स्वभावात् सम्पादयत्येव अखिलमङ्गलानीति ॥ इति ॥ तत्र तावत् तत्त्वं सामान्यतो विभागेन उद्दिशति स्वतन्त्रमिति । स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते । तत्वम् अनारोपितिम् । प्रमितिविषयः इति यावत् । तेन ‘तस्य भावः तत्वम्’ इत्यादिखण्डनानवकाशः। ननु शुक्तरजतादिकं कथं न तत्त्वम् ? न हि धर्मी वा रजतत्त्वं वा न प्रमेयम्, नापि तयोः सम्बन्धः । शुक्तिव्यक्तौ रजतत्त्वस्य स नास्ति इति चेत्, मा भूत् । न हि गृहे देवदत्तो नास्ति इत्येतावता न प्रमेय इति । स्यादिदम् आरोपितस्य अन्यत्र सत्तामभ्युपगच्छतां दूषणम्। अत्यन्तासदेव रजतं दोषवशात् शुक्तिकायाम् आरोप्यत इति वादे तु नायं दोषः। एतेन ‘भाविपाकरागः कुंभः श्यामतादशायां रक्तपित्तिना रक्ततया उपलभ्यमानः तत्त्वं स्यात्’ इत्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्य तथाभावाभावात्, धर्मिणः तथाभावाङ्गीकारादिति। तत् द्विविधम् । स्वतन्त्रमस्वतन्त्रञ्च इति इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रम् अस्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधम् इति प्रतीतिः स्यात् । स्वरूप-प्रमिति-प्रवृत्ति-लक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रम्। परापेक्षं अस्वतन्त्रम्। तदुपपादनायोक्तम् इष्यत इति । प्रामाणिकैः इति शेषः । तथाहि यदि तत्त्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । भ्रान्तिः सा इति चेत् न, बाधकाभावात् । न च निरधिष्ठाना भ्रान्तिरस्ति, नापि निरवधिको बाधः । नास्त्येव तत्त्वम् इत्यस्यार्थस्य प्रमितित्वाप्रमितत्त्वयोर्व्याघातश्च। यदि च एकमेव तत्त्वं तदा भेदोपलम्भविरोधः। तद्भ्रान्तितायाञ्च बाधकं वाच्यम् । तच्च अन्यत्र निरस्तम्। यदि वा सर्वमेव स्वतन्त्रं स्यात् तदा पारतन्त्र्यादिप्रतीतिविरोधः। नित्यसुखादिप्रसङ्गश्च। यदि वा परतन्त्रमेव तत्त्वं भवेत् तदा अनवस्थितेः असम्भवाच्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च। यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुम् । तथापि अस्य वैय्यर्थ्यात् अयमेव विभागो न्याय्यः । परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्रेयसाय भवति । तथा च प्रकरणान्ते वक्ष्यति । अन्यथा गङ्गावालुकापरिगणनवदिदं तत्त्वं अपार्थकं स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदात् द्विविधं तत्त्वम् । स्वतन्त्रतत्वस्य प्राधान्यात् तदेवादौ उद्दिष्टम् । उद्देशेनैव लक्षणं लब्धम् । अत एवादौ तन्निर्दिशति स्वतन्त्रेति । स्वतन्त्रो भगवान् विष्णुः... अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् ॥ अन्यत् अस्वतन्त्रम् इति शेषः । अथवा, द्वे तत्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रम् एका व्यक्तिरेव प्रसज्येत । तथा च प्रमाणविरोधो वक्ष्यमाणविभागविरोधश्च । अतः द्विविधमित्युक्तम् । ततश्च स्वतन्त्रमप्यनेकविधं स्यादित्यत इदमुक्तम् । अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यं अङ्गीकुर्वाणाः साङ्ख्यादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति । द्विविध मित्युक्त्या ‘परतन्त्रतत्त्वमवान्तरभेदवदिति सूचितम् । तत्कथम् ? तत्र आह भावेति । ......भावाभावौ द्विधेतरत् ॥ १ ॥ इतरत् स्वतन्त्रात् अस्वतन्त्रतत्वं द्विधा। कथम् । भावः अभावः च इति। अभावप्रतीतिः भावप्रतीत्यधीना नियमेन, इति प्राधान्यात् प्रथमं भावस्य उद्देशः। प्रथमप्रतीतौ ‘अस्ति’ इति उपलभ्यते यः सः भावः। यश्च प्रथमोपाब्धौ ‘नास्ति’ इति प्रतीयते सः अभावः। कुत एतत् ? स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ, रूपान्तरेण तु निषेधविधिरूपौ। तत्र आपातजायां संविदि स्वरूपमेव भासते, द्वितीयादिप्रतीतौ रूपान्तरम्, कार्यगम्यत्वात् सामग्रीभेदस्य। तथाच प्रतीतिः— अस्त्यत्र घटः स न शुक्ल इति । एवं नास्ति घटः अस्ति घटाभाव इति॥ ननु स्वतन्त्रतत्वं भावोऽभावोऽन्यद्वा, नाद्यद्वितीयौ । भावाभावयोः परतन्त्रप्रभेदत्वात्, न तृतीयः व्याघातात्। मैवम् । भावलक्षणाऽऽक्रान्तत्वात्। ‘‘परतन्त्रं भावाभावतया द्विधा एव, न पुनरेकविधम्, नापि त्रिविधम् ’ इत्येवं परो विभागः, न पुनः ‘परतन्त्रमेव भावाभावात्मकमिति। यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियताम् इति चेत्, नैवम् शङ्क्यम् । तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यम्। अन्यथा ‘‘द्विविधं तत्वं भावोऽभावश्च, भावोऽपि द्विविधः नित्योऽनित्यश्च, नित्योऽपि द्विविधः चेतनोऽचेतनश्च, चेतनोऽपि द्विविधः स्वतन्त्रोऽस्वतन्त्रश्च’’ इति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिः स्यात्, भगवद्व्यतिरिक्तस्य सर्वस्यापि अस्वातन्त्र्यप्रतीतिः न स्यात् । ‘अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यात्, इति सममेव’ इति चेत् न, पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात्। अभावादीनां नित्यत्वाद्यनुक्तिश्च समैव। तस्मात् यथान्यासमेवास्तु । अथ अस्वतन्त्रं चेतनत्वादिना एव विभज्यताम् । किं चेतनत्वादिना विभज्य भावाभावतया विभागः कर्तव्य उताऽयं न कर्तव्यः एव । नाद्यः । विशेषाभावात् । अभावस्य अचेतनत्वं एवं सति न उक्तं स्यात् इति चेत्, तथा सति चेतनस्य भावत्वमप्युक्तं स्यादिति समम् । तर्हि केन विशेषेणास्य प्राधान्यम् ? इति चेत्, वादिविप्रतिपत्तिभावाभावाभ्यां विशेषात् । अत एव न द्वितीयोऽपीति । ‘अभाव एव नास्तीति केचित् । तदसत्, ‘नास्ति’ इति प्रतीतेः दुरपह्नवत्वात् । ‘‘ ‘घटो नास्ति इति प्रतीतिः भूतलमात्रविषया’’ इति चेत्, ‘मात्र’ इति किम् ? भूतलमेव उच्यते उत अतिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रसङ्गः। अतिरिक्तोऽपि घटः चेत्, उक्तो दोषः । भावानन्तरं चेत् रूपवति घटे ‘गन्धो नास्ती’ति प्रतीतिप्रसङ्गः। ननु घटाभावः घटाभाववति भूतले सम्बध्यते उत घटवति । नाद्यः । आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः । विरोधात् । अतो वक्तव्यं ‘भूतलमात्रे’ति। तदेवास्तु ‘नास्तीति प्रतीतिविषय’ इति चेत् न । प्रश्न एव अयं विविच्यताम् । यदि अभावसम्बन्धात् प्राक् कीदृशं भूतलम् ? इति, यदि वा सम्बन्धसमये कीदृशं भूतलम् ? इति, यद्वा यदि अभावात् इदं विविच्येत तदा कादृशं नाम स्यात् इति । आद्ये ‘सघटम्’ इत्येव उत्तरम् । द्वितीये ‘घटाभाववत्’ इति । तृतीये यदि विवेको वस्तुकृतः तदा अभावस्य नष्टत्वात् । ‘घटवत्’ इति । यदि बुद्धिकृतः तदा ‘बुद्ध्या एव घटप्रसक्तिमत्’ इति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यात्। इति आस्तां विस्तरः । द्विधा इत्युक्त्या भावाभावतयोरवान्तरभेदोऽस्तीति सूचितम् ।