Dwadasha/Moola
द्वादशस्तोत्रम् — मूलम्
← Dwadasha
प्रथमाध्यायः
वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।
नमामि निखिलाधीशकिरीटाघृष्टपीठवत् ।
जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।
उदरं चिन्त्यमीशस्य तनुत्वेप्यखलिम्भरम् ।
स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः ।
शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः ।
सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् ।
स्मरेत यामिनीनाथसहस्रामितकान्तिमत् ।
पूर्णानन्दसुखोद्भासि मन्दस्मितमधीशितुः ।
स्मरामि भवसन्तापहानिदामृतसागरम् ।
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः ।
द्वितीयोध्यायः
सुजनोदधिसंवृद्धिपूर्णचन्द्रो गुणार्णवः ।
रमाचकोरीविधवे दुष्टदर्पोदवह्नये ।
चिदचिद्भेदमखलिं विधायादाय भुञ्जते ।
अमन्दागुणसारोपि मन्दहासेन वीक्षितः ।
वशी वशे न कस्यापि योजितो विजिताखिलः ।
अगुणाय गुणोद्रेकस्वरूपायादिकारिणे ।
आदिदेवाय देवानां पतये सादितारये ।
अजाय जनयित्रेस्य विजिताखलिदानव ।
इन्दिरामन्दसान्द्राग्य्रकटाक्षप्रेक्षितात्मने ।
तृतीयोध्यायः
कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् ।
न ततोस्त्परं जगतीड्यतमं परमात् परतः पुरुषोत्तमतः ।
यततोपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति ।
श?ृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् ।
यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् ।
न कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः ।
व्यवहारभिदापि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् ।
चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा ।
आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा ।
चतुर्थोध्यायः
निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।
यदसुप्तिगतोपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम् ।
स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान् ।
परमोपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।
पञ्चमोध्यायः
वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त ।
अधिक बन्धं रन्धय बोधाच्छिन्धि पिधानं बन्धुरमद्धा ।
नारायणामल कारण वन्दे कारण कारण पूर्णवरेण्य ।
गोविन्द गोविन्द पुरन्दर वन्दे स्कन्दसुनन्दनवन्दितपाद ।
मधुसूदन दानवसादन वन्दे दैवतमोदित वेदितपाद ।
वामन वामन भामन वन्दे सामन सीमन सामन सानो ।
हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश ।
आनन्दतीर्थमुनीन्द्रकृता हरिगीतिरियं परमादरतः ।
षष्ठोध्यायः
मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य ।
सूकररूपक दानवशत्रो भूमिविधारक यज्ञवराङ्ग ।
वामन वामन माणववेष दैत्यवरान्तक कारणरूप ।
राघव राघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त ।
देवकिनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र ।
इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरिनाथ ।
चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण ।
दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे ।
आनन्दतीर्थमुनीन्द्रकृता हरिगाथा ।
सप्तमोध्यायः
विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः ।
ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्गलेशम् ।
धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् ।
षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् ।
शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् ।
शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं निहत्य निखलिं यदपाङ्गलेशम् ।
तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् ।
नागारिरुग्रबलपौरुष आप विष्णोर्वाहत्वमुत्तमजवो यदपाङ्गलेशम् ।
आनन्दतीर्थमुनिसन्मुखपङ्कजोत्थं साक्षाद्रमाहरिमनःप्रियमुत्तमार्थम् ।
अष्टमोध्यायः
वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् ।
सृष्टिसंहारलीलावलिासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ।
उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् ।
विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितिशेश्वरैश्चार्चितम् ।
अत्ययो यस्य केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः ।
पश्यतां दुःखसन्ताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् ।
अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि ।
अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोशेषदोषैः सदा पूर्तितः ।
धार्यते येन विश्वं सदाजादिकं वार्यतेशेषदुःखं निजध्यायिनाम् ।
सर्वपापानि यत्संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम् ।
अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यान्ति दुःखानि यन्नामतः ।
नन्दितीर्थोरुसन्नामिनो नन्दिनः सन्दधानाः सदानन्ददेवे मतिम् ।
नवमोध्यायः
अतिमत तमोगिरिसमितिविभेदन पितामहभूतिद गुणगणनलिय ।
विधिभवमुखसुरसततसुवन्दित रमामनोहर भव मम शरणम् ।
अगणितगुणगणमयशरीर हे विगतगुणेतर भव मम शरणम् ।
अपरिमितसुखनिधिविमलसुदेह हे विगतसुखेतर भव मम शरणम् ।
प्रचलितलयजलविहरणशाश्वत सुखमय मीन हे भव मम शरणम् ।
सुरदितिजसुबलवलिुलितमन्दरधर परकूर्म हे भव मम शरणम् ।
सगिरिवरधरातलवह सुसूकर परम विबोध हे भव मम शरणम् ।
अतिबलदितिसुतहृदयविभेदन जय नृहरेमल भव मम शरणम् ।
बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम् ।
अविजितकुनृपतिसमितिविखण्डन रमावर वीरप भव मम शरणम् ।
खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम् ।
सुललिततनुवर वरद महाबल यदुवर पार्थप भव मम शरणम् ।
दितिसुतमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरणम् ।
कलिमलहुतवह सुभग महोत्सव शरणद कल्कीश हे भव मम शरणम् ।
अखलिजनिवलिय परसुखकारण परपुरुषोत्तम भव मम शरणम् ।
इति तव नुतिवरसततरतेर्भव सुशरणमुरुसुखतीर्थमुनेर्भगवन् ।
दशमोध्यायः
अवनः श्रीपतिरप्रतिरधिकेशादिभवादे ।
सुरवन्द्याधिप सद्वर भरिताशेषगुणालम् ।
सकलध्वान्तविनाशक परमानन्दसुधाहो ।
त्रिजगत्पोत सदार्चितचरणाशापतिधातो ।
त्रिगुणातीत विधारक परितो देहि सुभक्तिम् ।
शरणं कारणभावन भव मे तात सदालम् ।
मरणप्राणद पालक जगदीशाव सुभक्तिम् ।
तरुणादित्यसवर्णकचरणाब्जामलकीर्ते ।
सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे ।
खजतूणीनिभपावनवरजङ्घमितशक्ते ।
इभहस्तप्रभशोभनपरमोरुस्थरमाले ।
असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते ।
शतमोदोद्भवसुन्दरवरपद्मोत्थितनाभे ।
जगदागूहकपल्लवसमकुक्षे शरणादे ।
जगदम्बामलसुन्दरगृलवक्षोवरयोगिन् ।
दितिजान्तप्रद चक्रदरगदायुग्वरबाहो ।
परमज्ञानमहानिधिवदनश्रीरमणेन्दो ।
निखिलाघौघविनाशक परसौख्यप्रददृष्टे ।
परमानन्दतीर्थमुनिराजो हरिगाथाम् ।
एकादशोध्यायः
उदीर्णमजरं दिव्यममृतस्यन्द्यधीशितुः ।
सर्ववेदपदोद्गीतमिन्दिरावासमुत्तमम् ।
सर्वदेवादिदेवस्य विदारितमहत्तमः ।
उदारमादरान्नित्यमनिन्द्यं सुन्दरीपतेः ।
इन्दीवरोदरनिभं सुपूर्णं वादिमोहदम् ।
दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् ।
दूराद् दूरतरं यत्तु तदेवान्तिकमन्तिकात् ।
पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः ।
आनन्दतीर्थमुनिना हरेरानन्दरूपिणः ।
द्वादशोध्यायः
आनन्द मुकुन्द अरविन्दनयन ।
सुन्दरीमन्दिर गोविन्द वन्दे ।
चन्द्रकमन्दिरनन्दक वन्दे ।
चन्द्रसुरेन्द्रसुवन्दित वन्दे ।
मन्दारस्यन्दकस्यन्दन वन्दे ।
वृन्दारकवृन्दसुवन्दित वन्दे ।
मन्दारस्यन्दितमन्दिर वन्दे ।
मन्दिरस्यन्दनस्यन्दक वन्दे ।
इन्दिरानन्दकसुन्दर वन्दे ।
आनन्दचन्द्रिकास्यन्दन वन्दे ।