Jump to content

Anuvyakhyana/Moola

From Anandamakaranda
Revision as of 19:28, 17 June 2026 by Vaishnavi (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
अनुव्याख्यानम् — मूलम्

प्रथमाध्यायः

प्रथमः पादः

ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥


अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।सूक्तोपनिषदाद्युक्तं ‘जन्माद्यस्य’ इति लक्ष्यते ॥89॥


एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ।शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥


उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥


ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥


एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥


............ देवानां तत्र शक्तताम् ।आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥


चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥


.............अध्यात्ममन्वयव्यतिरेकतः ॥246॥


नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥


.........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥


द्वितीयः पादः

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ॥ १ ॥चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ।तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ॥1॥


अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता ।इति चेत् स विशेषोऽपि क्रियाशक्त्यात्मना स्थिरः ॥6॥


........ द्वित्वं चैकस्य युज्यते ।यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥


अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः ।रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥


रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥


गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥


तृतीयः पादः

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।श्रुतिर्वक्त्यखिलेशत्वात् .............॥


...............भूमा विष्णुः सुखाधिकः ॥2॥


अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥3॥


लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह ॥7॥


तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ॥15॥


चतुर्थः पादः

दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥


जातमोतं हरौ यस्माज्ज्योतिः, षः प्राणरूपतः ॥12॥


स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ।विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥


द्वितीयोध्यायः

प्रथमः पादः

आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥


........ नित्यत्वात् पुरुषोद्भवैः ।उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥13॥


तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ॥62॥


अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥68॥


नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ॥86॥


...... कथं च तदनन्यता ।जगतस्त्वविकारत्व उक्तन्यायेन साधिते ॥89॥


अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥96॥


तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥101॥


सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥104॥


वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ॥112॥


यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ॥113॥


द्वितीयः पादः

चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥


साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥


चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥


सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥


अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् ।तत्प्रेरणेऽप्यशक्तत्वात् स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥49॥


नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥


वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥


अपरः शून्यमखिलं मनोवाचामगोचरम् ।निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥


ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥


आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥


सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥


निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥


तृतीयः पादः

प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः(देवास्तदभिमानिनः) ॥9॥


एवं प्रलयकालेऽपि प्रतिभातपरावरः ।मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥


...... स्वतन्त्रत्वात् परात्मनः ॥24॥


अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥


एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥


भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥


चतुर्थः पादः

तृतीयाध्यायस्य

प्रथमः पादः

द्वितीयः पादः

वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥


सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ॥107॥


सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा ।जीवं नयति देवेशः नान्यः कर्ताऽस्य कश्चन ॥108॥


न स्थानतोभेदतोऽप्यस्य भेदः कश्चित् परेशितुः ।सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥


यत आभासतामेव श्रुतिरस्य वदत्यलम् ।‘‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’’ ॥121॥


प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ॥163॥


..... सृष्टिनाशौ तदधीनावितीरिते ।स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ॥166॥


अव्यक्तोऽपि स्वशक्यैव भक्तानां दृश्यते हरिः ॥167॥


तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥168॥


.... ते चाखलिवलिक्षणाः ।सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ॥209॥


स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥


तृतीयः पादः

यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् ।तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मणः एव हि ॥68॥


कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥97॥


विषयेषु च संसर्गात् शाश्वतस्य च संशयात् ।मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते ॥98॥


नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥122॥


अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥187॥


उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ॥192॥


..... दृष्टिरिति योग्यानुसारतः ॥203॥


सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।


श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥204॥


गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् ।विपर्ययस्तु कर्तव्यः सर्वथा शुभ(मुक्ति)मिच्छता ॥205॥


साधनेभ्योऽधिका भक्तिर्नैवान्यत् तादृशं क्वचित् ॥209॥


चतुर्थः पादः

विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् ।गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥


अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥


स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ।अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ॥255॥


ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः ।‘मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोचनम् ॥271॥


चतुर्थाध्यायस्य

प्रथमः पादः

‘आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ।विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते’ ॥11॥


प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥


ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥


तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥


द्वितीयः पादः

प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या ।यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोऽपि ॥130॥


तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥


तृतीयः पादः

सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ।उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥


चतुर्थः पादः

अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥