माण्डूक्योपनिषत् - मन्त्राः

  1. अत्रैते श्लोका भवन्ति । बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥
  2. अत्रैते श्लोकाः भवन्ति ।निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ २ ॥
  3. ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥ सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥
  4. सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म । सोयमात्मा चतुष्पात् ॥ २ ॥
  5. स्वप्नस्थानोऽन्तप्रज्ञः । सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
  6. अकारो नयते विश्वमुकारश्चापि तैजसम् ।मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिरिति ॥ ८ ॥
  7. अत्रैते श्लोकाः भवन्ति ।विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ ४ ॥
  8. अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते ।अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ॥ ८ ॥
  9. अन्यथागृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ७ ॥
  10. अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैतः ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १ ॥
  11. अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ।स मुनिर्नेतरो जन इति ॥ ७ ॥
  12. इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥
  13. एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी । एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
  14. ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः ।ओङ्कारं पादशो ज्ञात्वा न किंिचदपि चिन्तयेत् ॥ २ ॥
  15. कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥
  16. जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥
  17. तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ ५ ॥
  18. त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् ।स पूज्यस्सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ ७ ॥
  19. त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥
  20. दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥
  21. द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ ५ ॥
  22. नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥ ४ ॥
  23. नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १ ॥
  24. प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ ६ ॥
  25. प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतम् ।अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ ४ ॥
  26. प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ९ ॥
  27. प्रभवः सर्वभावानां सतामिति विनिश्चयः ।सर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक् ॥ १२ ॥
  28. भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥
  29. मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ ६ ॥
  30. यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥
  31. युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ ३ ॥
  32. विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १० ॥
  33. विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥
  34. विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक् ।आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥
  35. सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ ५ ॥
  36. सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति । य एवं वेद ॥ ३ ॥
  37. सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ॥ जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद् वा । आप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ॥ १ ॥
  38. स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥
  39. स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ६ ॥
  40. स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा । उत्कर्षादुभयत्वात् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति । य एवं वेद ॥ २ ॥