Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A025

From Anandamakaranda

मातरिश्वाधिकरणम्

‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’


ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ 08-226 ॥


एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरपि व्याख्याता ।


‘नित्यः परमनित्यश्च तथाऽनित्यः परस्तथा । चतुर्धैतज्जगत् सर्वं परानित्यं तु पार्थिवम्।


अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः । परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ।