ब्रह्मसूत्रभाष्यम्/C02/S03/A028
अबधिकरणम्
ॐ आपः ॐ ॥ 11-229 ॥
‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजत तदिदं सर्वम्’ इति श्रुतेः, ‘अग्नेरापः’ इत्युक्तेऽपि ब्रह्मण एवाबादिसृष्टिः ।
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इत्यादि च ।
इति भविष्यत्पुराणे॥‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः ।
इतरेषां तु सत्ताद्या यत एव तदाज्ञया’
वामने च-
‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।
एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ इति ॥
घर्मात् स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥ 11 ॥