Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A035

From Anandamakaranda

उत्क्रान्त्यधिकरणम्

‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्वरूपा अनन्ताः’ इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते ।


ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ 20-238 ॥


हेतूनाम् सकाशादणुरेव ।


‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भो भवति स प्रसूयते स कर्म कुरुते’ इति पौष्यायणश्रुतेः॥ 20 ॥


तत्र स्वातन्त्र्य प्रतीतेः-


ॐ स्वात्मना चोत्तरयोः ॐ ॥ 21-239 ॥


‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते। तं वा एतमभिवदन्ति स्वात्मा’ इति। ‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गमयत्येष आगमयति। इत्युत्तरयोर्वाक्ययोः परमात्मनैवोत्क्रान्त्यादयः ॥ 21 ॥


ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॐ ॥ 22-240 ॥


‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च’ इति व्याप्तिश्रुतेर्नाणुर्जीव इति चेन्न ।


‘स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च । स बहुधेदमनुप्रविश्यात्मनोऽभिनयति । स आत्मा स आत्मानः स ईशः स विष्णुः स परः परोवरीयान्’ इति परमात्माधिकारत्वात् ।


‘एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः ।

एक एवोच्यते वेदैस्तावता नास्य भिन्नता’

इति भविष्यत्पुराणे ।


‘तदयं प्राणोऽधितिष्ठति। तदुक्तमृषिणाऽऽतेन यातम्’ इत्यादि च ॥ 22 ॥


ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ 23-241 ॥


‘एषो ह्यात्माऽध्युद्गतो मानशक्तेस्तथाऽप्यसौ प्रमितिं याति वेदैः । पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता’


इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च।



ॐ अविरोधश्चन्दनवत् ॐ ॥ 24-242 ॥


अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते।यथा हरिचन्दनविप्लुष एकदेशपतितायाः सर्वशरीरव्याप्तिः ।



ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॐ ॥ 25-243 ॥


सम्यगसम्यगवस्थानविशेषाद्युज्यते चन्दनस्येति चेन्न। ‘हृदि ह्येषा आत्मा’ इति जीवास्यापि तथाऽभ्युपगमात् ॥ 25 ॥


ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ 26-244 ॥


यथाऽऽलोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिः एवं चिद्गुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति वा । स्कान्दे च –


‘असम्यक् सम्यगिति च व्यवस्थाभेदतः सुराः। व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा॥


चिद्गुणस्य स्वरूपत्वात् तद्व्याप्तिश्चेति युज्यते। शक्तियोगात् सुराणां तु विविधा च व्यवस्थितिः’ इति ॥ 26 ॥