ब्रह्मसूत्रभाष्यम्/C02/S03/A037
पृथगुपदेशाधिकरणम्
‘तत्वमसि’ ,’अहं ब्रह्मास्मि’ इत्यादिषु जीवस्य परेणाभेदः प्रतीयते ।‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘द्वा सुपर्णा’ इत्यादिषु भेदः। अत उच्यते-
ॐ पृथगुपदेशात् ॐ ॥ 28-246 ॥
‘बिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णाः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवा-भिवाञ्छेत्’
इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ॥ 28 ॥
ॐ तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ 29-247 ॥
ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपमतोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते‘सर्वं खल्विदं ब्रह्म’ इति भविष्यत्पर्वणि च –
‘भिन्ना जीवाः परो भिन्नस्तथापि ज्ञानरूपतः ।
प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’ इति॥ 29 ॥