ब्रह्मसूत्रभाष्यम्/C03/S02/A033
पालकत्वाधिकरणम्
सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह-
ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ 22-345 ॥
उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति ।
‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति ।
च शब्दात् स्मृतिश्च ।
इति ब्रह्माण्डे ॥ 22 ॥‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः’