ब्रह्मसूत्रभाष्यम्/C03/S03/A068
पूर्वविकल्पाधिकरणम्
ॐ पूर्वविकल्पःप्रकरणात् स्यात् क्रियामानसवत् ॐ ॥ 46-411 ॥
न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।
‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।
गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥
इति बृहत्तन्त्रे ॥समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् ।
ऋषभाद्यनुज्ञया चैष प्राप तस्माद्धि युज्यते’
‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि ।
कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥
इति महासंहितायाम् ॥ 46 ॥ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।
एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’
ॐ अतिदेशाच्च ॐ ॥ 47-412 ॥
‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतीदेशाच्च॥ 47 ॥