Anuvyakhyana/Vyakhya/Nyayasudha/C1/P2
न्यायसुधा — अध्यायः 1, पादः 2
द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति ।
लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वा आत्म शब्दः, निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।
नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव, यौगिकत्वात्, अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् । न च प्रकरणगतगुणलाभेन सार्थक्यम्, वचनवृत्त्यङ्गीकारवैफल्यात्, उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाऽप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः ।
वृत्तिः लक्षणादिरपि भवति, इत्यतः परे मुख्यार्थ इत्युक्तम्; तथा च मुख्यवृत्तिरिति लभ्यते । चिन्त्यते समर्थ्यते, अस्मिन्पाद इति शेषः ।
केचित् मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते, तदसदित्याशयवान् आह सर्वगत्वमिति ।
तु शब्दोऽवधारणे । एतमस्यामेतं दिवीत्यादिवाक्योक्तं सर्वगतत्वम् एवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते, न तु मनोमयत्वादिनोपास्यत्वमित्यर्थः । सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः ।
ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न, तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात्, चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः ।
ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि । उच्यते । हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः, यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्तेऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः ।
सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दर्शयति तत्रेति ।
प्रबोधनं कार्याभिमुखीकरणम् ।
तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो, येन तत्र तत्र तिष्ठति, इत्यत उक्तम् दूरतोऽपीति ।
यद्यपि स प्रभुः विष्णुः दूरतोऽपि तत्तच्छक्तिप्रबोधने अति शक्तः तथाऽपि केवलं लीलया तत्र तत्र स्थितस्तत्तच्छक्तीनां प्रबोधको भवतीति ज्ञापयितुं सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः ।
एतदुक्तं भवति । स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् ।
तदनुपपन्नम्, भगवतः सर्वगतत्वाभावात् । शास्त्रैकसमधिगम्यं खलु (हि) तत् । शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्क्योक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपाद्यत इति ।
अथवा न सर्वगतत्वं हरेरुपपादनीयम्, तस्यानन्दादिवत् स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्क्य न सर्वगतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम्, किं नाम तत्तच्छक्तिप्रेरकत्वेन । अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते ।
अथवा न सर्वगतत्वमत्र प्रतिपादनीयम्, अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्क्य तत्र सर्वगतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदोऽनेनोच्यते ।
अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेर्वक्ष्यमाणत्वात् नेदमारम्भणीयम् इत्याशङ्क्यात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे ।
अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थम् इत्याशङ्क्य तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वम् अत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति प्रतिपाद्यभेदमेतेनाह ।
अथवा सर्वगतत्वं नाम सर्वमूर्त(द्रव्य)संयोगित्वं (वा) परममहत्परिमाण(योगि)त्वं वा (सु)प्रसिद्धम्, तदत्र यदि साध्यं यात्तदाऽर्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता च इत्याशङ्क्य सर्वगतत्वमन्यथाऽनेन व्याचष्टे ।
७ तत्तच्छक्तिप्रबोधक इति कथम्, कर्तरि चेति समासप्रतिषेधात् । न, याजकादिभिश्चेति प्रतिप्रसवात् ।
यद्वा । प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः । शक्तीनां प्रबोधः शक्तिप्रबोधः । ततश्च अज्ञात ( इति कप्रत्यय इति ।
८ अत्र सूत्रम् कर्मकर्तृव्यपदेशाच्चेति ।
अस्यार्थः आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शारीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरोऽयं सर्वगतः, एकस्यां क्रियायां कर्मकर्त्रोः एकत्वायोगात् । न हि देवदत्तः छिदायां कर्ता कर्मापि भवतीति । तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति । नाद्यः, नियामकाभावेन व्याप्तेरनिश्चयात् ।
९ स्यादेतत् । क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् । परसमवेतक्रिया(जन्य)फलशालिकर्मेत्युच्यते । यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः । क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः । तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् । अतो लक्षणविरोधात् कर्मकर्त्रोर्भेदो नियत इति ।
मैवम् । यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात्, तथा च देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् ।
किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् । न हि तदभावे तत्र फलोत्पादः संभवति । मा भूदिति चेन्न, इच्छादीनां सकर्मकत्वव्याघातात्, तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(श्च•च्च । वर्तमानेऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते । तथा हि । न तावज्ज्ञातता, निराकरिष्यमाणत्वात्, इच्छादिना तदजननाच्च (इच्छादीनां तदजनकत्वाच्च) ।
नापि संस्कारादिकम्, तस्यात्मन्येवोत्पादात् ।
नापि व्यवहारः, व्याहारादि(व्याहरण)(व्यवहरणा)(व्यवहारा)रूपस्य तस्य कर्तृनिष्ठत्वात्, उपादानादिरूपस्योपेक्षणीयाव्याप्तेः । तस्मात् क्रियास्वातन्त्र्यं कर्तृत्वम्, तद्विषयत्वं (च) कर्मत्वमिति वाच्यम् ।
न च तयोः कमपि विरोधं पश्यामः; अन्यथा कर्मकर्ताऽपि दुर्लभः स्यात् ।
किं चास्ति तावत्कारकान्तरसमावेशः, कांस्यपात्र्या भुङ्क्ते, कांस्यपात्र्यां भुङ्क्त इत्यादिप्रयोगदर्शनात्; तथा कर्मकर्त्रोरपि समावेशे को विरोधः ।
० ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः । न च व्यभिचारो दृश्यते । तेन व्याप्तिनिश्चय इति ।
मैवम् । दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् ।
न च व्यभिचारादर्शनमपि, मामहं जानामीति तद्दर्शनात्, अन्यथा(ऽऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् । न च नित्यानुमेय एवात्मा, साक्षात्कारस्या(प्य)पह्नोतुमशक्यत्वात् ।
कश्चिदाह मानसप्रत्यक्षावसेयोऽयमात्मा । तथाऽपि कर्तृतैवास्य, न कर्मता; आत्मकर्तृकेऽहंप्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति, तत् कर्मतातिरिक्तानिरुक्तेः रिक्तमेव वचनम् ।
किं चाहमितिप्रत्ययः सकर्मको न वा । नेतिप(क्षे)क्षोऽनुभववि(रोधः)रुद्धः, जानातेः सदा सकर्मकत्वावभासाच्च । आद्ये किमस्य कर्मेति वक्तव्यम् । न तावदात्मातिरिक्तम्, घटादावहंप्रत्ययादर्शनात् । आत्मसम्बन्धि सुखादिकमिति चेन्न, तन्मात्र(स्य)कर्मतायामात्मासिदि्धप्रसङ्गात्, अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च ।
अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टं(ष्टः) कर्मेति चेत्, (न) आगतं तर्ह्यंशतः कर्मकर्त्रोः ऐक्यम् ।
किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतोऽहंप्रत्ययो नान्यकर्मक इत्यकर्मको वाऽऽत्मकर्मको वाऽभ्युपगन्तव्यः, गत्यन्तराभावात् ।
२ अपरस्तु (अपर आह) घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् । स्वप्रकाशतया स्वरूपम् । आश्रयतयाऽऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिदि्धरि(ति)त्याह । स प्रष्टव्यः । किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति । स्वकर्मकप्रकाशत्वमिति चेत् । तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । यत्स्वलक्षणमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकर्मभावमभ्युपैति । क्रिया हि कर्मकारकजन्येष्यते ।
न च जन्यजनकयोरेकतोचिता । अन्तर्भावितपूर्वापरभावित्वात्तस्याः । न च तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते । प्रकाशान्तरानपेक्षसि(द्धं)द्ध(दि्ध)त्वं स्वप्रकाशत्वमिति चेन्न । घटादेरपि स्वप्रकाशतापातात् । न हि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव । स्वातिरिक्तप्रकाशानपेक्षसिद्ध(दि्ध)त्वमिति चेन्न । स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् । प्रकाशानपेक्षसिद्धत्वमिति चेन्न । व्याघातात् । शशविषाणादेरपि (एवं) सिदि्धप्रसङ्गाच्च ।
स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न । स्वविषय एव (स्व)व्यवहारहेतुत्वदर्शनेनास्वविषयस्य स्वव्यवहारहेतुताऽनुपपत्तेः । तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् । गुणस्यापि समासविषयताऽङ्गीकारात् ।
किञ्चात्मा न चाक्षुषज्ञानेऽवभासते अरूपिद्रव्यत्वादाकाश•दि)वत् ।
अन्यथा रूपित्वप्रसङ्गः । कर्मतया प्रकाशे रूपोपयोग इति चेन्न । प्रकाशमानं कर्मतयैव
प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् । एतेनानुमाने(ऽपि) प्रयोजकान्तरशङ्का (परास्ता) निरस्ता ।
किं चात्मा यदि तदविषयोऽपि तत्र प्रकाशते हन्त तर्हि रूपज्ञाने रसोऽपि कस्मान्न प्रकाशते । अनाश्रयत्वादिति चेत् । तत् किं यावज्ज्ञानसम्बन्धि (तावत्) ज्ञाने प्रकाशते, किंवाऽऽश्रय एव ।। आद्ये चक्षुरादाव(पि)तिप्रसङ्गः(ङ्गात्) । द्वितीयेऽपि नियामकं वाच्यम् । न हि घटोऽयमित्यात्माऽवभासते । घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मकोऽन्य एव । आत्मसिदि्धस्तु कर्मतया(ऽपि) भविष्यतीति । एतेन स्वप्रकाशतयाऽऽत्मसिदि्धरपि परास्ता । स्वकर्मकप्रकाशवत्त्वतद्रूपत्वातिरिक्तायास्तस्या निरूपयितुमशक्यत्वात् ।
तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् ।
तथा च कथं हेतुत्वेनोपादानमित्यत आह कर्मेति ।
यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः, किं त्वौत्सर्गिक ।
न तु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः ।
ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह अभेदोऽपीति ।
यस्मात् कर्मकर्त्रोरुत्सर्गत एव भिदा, तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्व्यवच्छिनत्तीति विशेषोऽपवादः तस्मिन्सत्यभेदोऽपि स्यात् । तथा च मामहं जानामी(त्याद्यु)त्युपपन्नं भवति ।
यतश्चोत्सर्गोऽप्यपवादाभावे बली स्वसाध्यसाधने समर्थः, न चास्ति प्रकृतेऽपवादः, तस्मादत्र हेतुत्वेनोपादानमपि युज्यते । यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधोऽग्नीषोमीयपशुहिंसाविधिनाऽपोद्यते, भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् ।
नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं श(क्येत)क्यत एव; प्रमेयत्वस्यानित्यत्वेनौत्सर्गिक व्याप्तिः, अपवादेन त्व(च•काशादौ नित्यत्वम्, अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति, ततश्चानैकान्ति(को)कतोच्छेदः स्यात् ।
मैवम् । सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते (सति) विशेषविषयेणापवादो भव(विष्य)ति । ततश्च सर्वतः (सर्वत्र) प्रसक्ता बुदि्धस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति (च) । न च सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्या(प्र•प्तेः केनापि प्रमाणेन प्राप्तिरस्ति, किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सह (व्यव)स्थितमेवोपल(क्ष्य)भ्यत इति न तत्र (अपि) उत्स(र्गिका)र्गापवादन्यायस्यावकाशः ।
एवं तर्हि कर्मकर्तृभावोऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्या(या)यस्यावकाशः ।
मैवम् । प्रत्यक्प(क्तव)पराक्तवरूपो हि कर्तृकर्मभावः । स तावदापाततो विरोधोदेन घटनीयो (वा) विशेषेण वा । तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् ।
न च मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति, अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् ।। यथा चानुगतसामान्याभावेऽप्युत्सर्गापवादन्यायसंभवस्तथा वक्ष्यामः ।।
सोपाधिकसम्बन्धस्य साधनाङ्गताऽभाववत् सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् । वक्ष्यते चैतदिति ।
सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम्, तत्किं तन्मात्रमुतान्योप
लक्षणम् । आद्ये सूत्राणां विश्वतोमुखत्वहानिः, शास्त्रापर्यवसानं चापद्येत । द्वितीये तूपाधिर्वक्तव्यः, अन्यथाऽधिकरणान्तराभावप्रसङ्गात् इत्यतः प्रथमाधिकरणोपाधिं वदन् प्रसङ्गात्सर्वाधिकरणोपाधीनाह एतदिति ।
एतत् सर्वगतत्वं भावाभिधं सत्ताभिधम् । यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वेऽप्यनेनोपलक्ष्यन्त इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् ।
क्रिये च ते लिङ्गे च । ततः प्रथमाधिकरणात् परं द्वाभ्याम् अत्ता चराचरग्रहणात्, गुहां प्रविष्टावात्मानौ हि तद्दर्शनादित्येताभ्यामधिकरणाभ्यां चिन्त्येते ।
नन्वेकमधिकरणं व्यर्थम् । न व्यर्थम् । अ(भ्य)धिकाशङ्कया प्रत्यवस्थानात् ।
अन्तर उपपत्तेः इति अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति चाधिकरणद्वयेन क्रिया प्रधानक भावाख्यं लिङ्गमुच्यते प्रतिपाद्यते । अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् ।।
अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् ।
अदृश्यत्वादिगुणको धर्मोक्तेः इत्यत्रोक्तम् अदृश्यत्वादि लिङ्गम् अभावाख्यम् । परा परस्मिन् वैश्वानरः साधारणशब्दविशेषादित्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् । तर्हि पादान्तर्भावो न संभवतीत्यत उक्तं लिङ्गाधिकेति । लिङ्गान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति ।
यथा प्रथमपादेऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारोऽत्र न विरुध्यत इति ।
साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादानं चोपपद्यते । सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् ।।
अत्र यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था
वेद यत्र सः इति वाक्यमुदाहृत्य, अत्तारं केचिद् वृत्तिकारा विचारितवन्तः, तद्विहाय स यद्यदेवासृजत तत्तदत्तुमध्रियतेति वाक्यमुदाहृत्य अत्तारं व्यचीचरगवान् भाष्यकारः ।
कश्चात्र विशेषः । उच्यते । अत्र अत्तुमध्रियते, अत्ति इति च अत्ता साक्षात्प्रतीयते, तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः । अद(दि)धात्वनुगतिश्चात्र । न चोपलक्षिते नियमोऽस्ति ।
किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वाऽत्तीति कण्ठोक्तः, तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः ।
नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् । अस्ति प्रयोजनं चराचरग्रहणस्य । सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम्, अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति । तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः । किं नाम स तया वाचेत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् । तदेतदनेन द्योतयतीति ।
यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्तेऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाऽभिन्नमिति लक्षणसूत्रे प्रतिपादितम् ।
अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् । तथा चादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तम् । इति तदाक्षिपति अनित्यत्वादिति ।
तु शब्दः सर्वगतत्वादिव्यवच्छेदार्थः । सोऽपि चोद्यस्यात्रावकाशसंभावनार्थः ।
कथम् इत्याक्षेपे । कथमेव न कथञ्चिदपीत्यर्थः । स्वरूपता परमेश्वरस्वरूपता ।
परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम्, स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः, यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च यस्य विनाशकं न तस्यासौ विनाशक इति ।। क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् । तथा च नित्यानित्ययोः कथमभेदः स्यात्, विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात्, अन्यथा जगति भेदाभावप्रसङ्गात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः, तथाऽपि न क्रियाणामसौ युज्यत इति ।
८ परिहरति इति चेदिति ।
नेत्यध्याहारः । कुतः । न केवलमीश्वरः स्थिरोऽपि तु स तदीयो विशेषो धर्मोऽपि क्रियारूपः स्थिरो, यत इति शेषः । अत्र (तु) क्रिया स्थिरेत्येतावदेव वक्तव्यं, विशेष इति तु क्रियायाः परमेश्वरैक्येऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मताऽङ्गीकरणीयेति ज्ञापयितुम् । न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियाऽपि पारमेश्वरी स्थिरा यत इति वा योज्यम् ।
९ अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिदि्धरुक्ता । तथा हि । ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसावात्, अथवा तत्साधकप्रमाणाभावात् ।
२० नाद्यः । ईश्वरस्य तत्क्रियायाश्च (अतीन्द्रियत्वेन) अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् ।
२ लिङ्गाभावेनानुमानानुपपत्तेः । क्रियात्वं लिङ्गमिति चेत् (न), तत्किं धात्वर्थत्वम् परिस्पन्दत्वं वा । नाद्यः, ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् ।
न द्वितीयः, सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् । ईश्वरपरिस्पन्दपक्षीकारे त्वाश्रयासिदि्धः, परेण तस्यानङ्गीकृतत्वात्, अङ्गीकारेऽप्यनैकान्त्यम् ।
क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् । क्रियात्वस्यानित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च, कार्यत्वेन सोपाधिकत्वं च ।तस्यापि साधने बाधः । प्रमाणस्य वक्ष्यमाणत्वात् ।
२२ असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् । अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः, योग्यतया विशेषणेऽसिद्धेः, अन्यथा गगनादिना व्यभिचारात् । द्वितीये त्वसिदि्धः, आगमादिनोपलब्धेः ।।
एतेनावरणाद्यभावे सति कदाचिदेवोपलब्धिरपि प्रत्युक्ता । वर्णनित्यत्ववादेऽनैकान्त्याच्च ।
किंच नित्योऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः । व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न, सन्दिग्धविशेषणासिद्धेः ।
अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न, सर्वथाऽनुपलम्भस्यासिद्धत्वात् । न हीश्वरपरिस्पन्दक्रिया कदाऽपि न संयोगविभागलक्षणं फलं जनयतीति युज्यते, तथा सति परिस्पन्दत्वानुपपत्तेः । नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न, नित्यगुणादिना व्यभिचारात् । कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत्, तथाऽपि गगनादिना व्यभिचारः । कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न, कदाचिदिति विशेषणवैयर्थ्यात्, तत्परित्यागेऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः ।
किञ्च द्वितन्तुका(रम्भके)वयवे तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति । ततो द्वितन्तुकारम्भकसंयोगविनाशः । तन्नाशे द्वितन्तुकविनाशः । अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः । ततश्चोत्तरदेशसंयोगः । तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया । एवं च यथाऽनेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभ्यते न यावत्सत्त्वम्, तथा नित्यापि कदाचित्संयोगाद्यारभ्यतां को विरोधः ।
२ सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न, विशेष्यासिद्धेः, बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् । किञ्च वर्णनित्यत्वे स्फुटोऽस्य व्यभिचारः ।
२ नाप्यागमादीश्वरक्रियाऽनित्यतावगतिः । स हीश्वरक्रियाऽनित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा । आद्यस्तु नोपलभ्यते । द्वितीयस्तु स ऐक्षत सोऽकामयतेत्यादिना तुल्यः । तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति ।
२ अस्तु तर्हि नित्यत्वे बाधकसावादिति द्वितीयः पक्षः । तथा हि । यदि सृष्टिसमयेऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत, जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् । किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः ।।
अपि चेश्वरक्रिया संयोगविभागौ करोति न वा । नेति पक्षे क्रियात्वं व्याहन्येत । आद्येऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य । नाद्यः, स्वसत्ताया इदंप्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् । न द्वितीयः । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् । उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तेश्चेत्यत उक्तं शक्त्यात्मनेति ।
अयमर्थः । तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते, अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति । क्रिया शक्तयात्मना व्यक्तिशक्तिरूपेण कारणेनेति वा ।
ननु केयं शक्तेर्व्यक्तिर्नाम । न तावत्प्रतीतिः, ईश्वरापेक्षया नित्यसिदि्धत्वेनोक्तदोषानुषक्तेः, परापेक्षया कदाऽप्यभावात्, भावेऽपि कार्योत्पादस्य तदनपेक्षत्वात् ।
अत एव नावरणनिवृत्तिर्व्यक्तिरिति । मैवम्, व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् ।
२ तत्र यत्तावदुक्तम् । यदि सृष्टिसमयेऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति । तदसत् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् ।
यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् ।
यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् ।
किं चैवं पटसामग्रयाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् ।
ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् । नाद्यः, पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्रया विकलत्वात् । न द्वितीयः, पूर्वपटेन प्रतिबद्धत्वात् । तत्कथं पटोत्पत्तिसातत्यम् ।। सत्यम् । सममेतत्प्रकृतेऽपीति ।
यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्टम् । तत्र करोतीति ब्रूमः । कुर्वन्ती च विरम्यैव । न च तदनुपपत्तिः, व्यक्तया विशिष्टत्वात् । अन्यथाऽवयवक्रियाऽप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् । न च कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तिः, अनित्यक्रियासु तद्व्यवस्थोपपत्तेः ।
२७ ननु संहारकाले क्रिया व्यक्ता (अथ) न वा । न चेत्कथं तत्र व्यवहारोऽर्थक्रिया वा । आद्ये कथं सृष्टिव्यवहाराद्यभावः ।।
मैवम्, व्यक्तेरप्यवान्तरानन्तविशेषवत्ताऽङ्गीकारात् । तदिदमुक्तं स विशेषोऽपीति ।
एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः । पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् । नित्यमपि परमेश्वरेच्छादिकं सहकारिसाव एव कार्यकारीति चेन्न, सहकारिणामपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च ।।
नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविशिष्टं तदेव । नाद्यः, अनभ्युपगमात्, तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च; सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः ।
न द्वितीयः, सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् । न च स्वरूपसता संहारादिनेच्छादिकमुपाधीयते किन्तु विषयभूतेनेति चेत्, संहारादिविषयता किमागन्तुक, अथवा नित्येति वक्तव्यम् । नाद्यः, गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् । द्वितीये तु सर्वदा संहारादिप्रसङ्गः ।
तस्माच्छक्तिव्यक्तिरूपता सर्वथाऽनुसरणीया । सा च समा क्रियायामपीति ।
२८ ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम्, परिस्पन्दलक्षणा तु नास्त्येव, तस्माद्व्यर्थोऽयं प्रयत्नः ।
मैवम्, परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणमस्तीति चेत्, न; अणुमध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् ।
न च ते न स्तः, परममहत्त्वेऽपि तथा वक्तुं शक्यत्वात् । अणोरणीयान्महतो महीयान् इति द्वयोरपि श्रौतत्वात् । अणोरणीयस्त्वम् अप्रत्यक्षत्वोपलक्षणमिति चेत्, महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् । विरोधादुभयाङ्गीकारो नोचित इति चेत् तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम्, परिहरिष्यते चायं विरोध इति ।
ननु (च) क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्नेऽभिन्ने वा । आद्ये शक्तिरेव नित्या क्रिया त्वनित्येत्यापन्नम् । द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह शक्तितेति ।
अभिन्ने एव शक्तिव्यक्ती । न चोक्तदोषः । यतस्तत्र शक्तितेति व्यक्तितेति च विशेषोऽप्यस्ति । स च भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति ।
स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् । अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह विशेषवानिति ।
विशेष इत्यनुवर्तते । अभिन्न एवायं विशेष इति ब्रूमः । न चोक्तानुपपत्तिः । यतः अभिन्नोऽपि विशेषवान् अङ्गीक्रियते । स्वनिर्वाहक इत्यर्थः ।
नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकर्तव्यम्, शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् । अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति । सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथाऽनुपपत्त्या कल्पनैषा भवति । न च घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति ।
अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह क्रियादिश्चेति ।
० एतेन तृतीयोऽपि निर(परा)स्तः । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविक ज्ञानबलक्रिया चेति श्रुतिमनेनोपलक्षयति । स्वाभाविक यावद्द्रव्यभाविनी ।
अत्र स्पष्टां च श्रुतिमाह ज्ञानमिति ।
अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे । यद्वा, पूर्वा स्वरूपत्वे । तस्य विवादास्पद(त्वात्)त्वे द्वितीया तु तद्धेतौ नित्यत्व इति ।
अस्त्वेवमीश्वरक्रिया नित्या, । अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति शक्तीति ।
सद्भावे नित्यत्वे । आदि पदेन ज्ञानादिग्रहणम् । अथवा नित्यतेति स्थायित्वमुच्यते । ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति ।
२ स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित्, तेषामुदाहृतश्रुत्यादिविरोधः । न च तत्स्वरूपमात्रम्, सम्बन्धितया प्रतीतेः । नापि सहकारिपरम्, स्वाभाविकत्वादिश्रवणात् ।।
किं चास्ति तावदित्थं व्यवहारः, स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात् न तदजीजनदिति । तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते, मतुपो वैयर्थ्यप्रसङ्गात् । नापि सहकारिसमवधानं तदभावस्योक्तत्वात् । दहनत्वसामान्यमेव शक्तिरिति चेत् । कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति ।
सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत्, तत्किं प्रत्यक्षमप्रत्यक्षं वा । आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् । न द्वितीयः, अपसिद्धान्तापातात् । तथाभ्युपगमे वा सैव शक्तिरस्माकम् ।
किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् । तस्य घटादिकारणत्वं तु अन्वयव्यतिरेकसमधिगम्यम् । अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् । तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् । न च कारणत्वं स्वरूपं, सहकारिसमवधानं वा । स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् । कारणस्यैव सहकारिसमवधानान्वेषणात् । ततोऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः ।
ननु च क्रियायां (क्रियायां च) किं प्रमाणम् । प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः । चलतीत्यपरोक्षाऽवभासदर्शनात्, इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात् (च) चलतिप्रत्ययस्य । अन्यथा रूपादेरप्यप्रत्यक्ष(त्वा)तापातात् ।
अथ मतम् न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः, अनुमापकसंयोगविभागावगमार्थश्चेन्द्रियव्यापार इति ।
तदयुक्तम् । क्रियाप्रतीतेरनुमितत्वं इन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वं अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा । नाद्यः, प्रमाणाभावात् ।
यदुक्तमनुपलब्धेरिति, तदसिद्धम्, वाद्यसिद्धेः । न ह्यपरोक्षावभासमङ्गीकुर्वाणोऽनुपलब्धेरित्येतावता शक्यो बोधयितुम्, घटादावपि तथाप्रसङ्गात् । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न, परमाणुकर्मणोऽप्यस्माभिर्योगिप्रत्यक्षताऽङ्गीकारात् । तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् ।
किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् । प्रतीतिविरोधान्नेति चेत्, समं प्रकृतेऽपि । अनुमानविरुद्धा कर्मप्रत्यक्षताप्रतीतिः अप्रमेति चेत्, रूपप्रत्यक्षताप्रतीतिरपि तथाऽस्तु । प्रतीतिविरुद्धेऽर्थेऽनुमानमेव नोदेतेतीति चेत्, एतदपि तुल्यम् ।
अथ ब्रूषे । परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति । तन्न । परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् ।
किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् । यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत्, न, संयोगविभागयोरपि तुल्यत्वात् । तथा च न कर्मानुमानमपि स्यात् ।
अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति । तर्हि कर्मणोऽपि तथा किं न स्यात् ।
७ न द्वितीयः । तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः । पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् ।
८ अपि च संयोगविभागौ द्व्याश्रयाविति परस्य मतम् । अस्माकमपि संयोगविभागद्वयं द्व्याश्रयमिति । ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् । तथा च श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः ।
अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव । निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणताऽयोगात् ।
श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति, तदनुपपन्नम् । स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात्, स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः । यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः ।
श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न, विकल्पानुपपत्तेः । तथा हि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकम् इत्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् ।
नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात्, किञ्च यो येनाविनाभूतः स क्वचिदुपलभ्यमानोऽनुपयोगात्तं न गमयतीत्यलौकिकम् । द्वितीये तु कथं न स्थाणौ कर्मानुमानम् । अनुमितमपि कर्म कल्पनागौरवभयादपनीयत इति चेत् (न) प्रमाणसिद्धेऽर्थे तयाभावात् ।
९ नन्वीश्वरानुमानेऽपि अनेकेश्वरकल्पना एवं सति स्यात् । न स्यात्, वैषम्यात् । कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव । ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति । इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् ।
अथोच्येत, अन्यथाऽप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न च अयमर्थापत्तिदोषो नानुमानस्येति वाच्यम्, अन्यथाऽप्युपपत्तिशङ्कायामनुमानेऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् । अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम्, श्येनगतेनैव कर्मणा भवेतामिति वा । नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् ।
न द्वितीयः, तत्तदवयवगतपरित्यागेन अन्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् । कर्मैव तथाविधमुपलब्धमिति चेन्न, तस्येदानीं कल्प्यमानत्वात् ।।
प्रत्यक्षकर्मवादे तु नायं दोषः, प्रतिपन्नतत्स्वभावानुसरणसंभवात् ।
किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलतिप्रत्ययप्रसङ्गः । संयोगेन क्रियाविनाशान्नेति चेन्न, क्रियाविनाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् । न हि कार्यजन्म कारणविनाशेन व्याप्तम्, येन संयोगोत्पत्त्या कर्मविनाशोऽनुमीयेत । पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् ।।
नापि संयोगजननं क्वापि कर्मविनाशाऽविनाभूतमनुभूतम् । कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत्, तत्किं यावत् कारणं तावत् कार्यान्तरजननम् । मा हि भूत् यावत्तन्तुसंयोगसावं पटपरम्परोत्पादः, यावत्कर्मसावं संयोगोत्पादस्तु न निश्चितः ।।
अपि चाप्रत्यक्षे(पि) व्योमि्न संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् । वियति विततालोकावयविनि (बहु)विहगविभागसंयोगनिबन्धनोऽसौ प्रत्यय इति चेत्, तथाऽपि दीपिकाऽऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् ।
० किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् । यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात् तदोभयत्रापि चलतिप्रत्ययः स्यात्,
न वा कुत्रचित्, विशेषकारणाभावात् ।
अपि च कर्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवक्ऌप्तिरेव कर्मणः । न संयोगाद्युत्पत्तिः कर्मकारणात्संभवति, तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् । शरीरात्मसंयोगो हि शरीरकर्मकारणम्, कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः ।
एवमन्यत्रापि द्रष्टव्यमिति ।
मैवम् । तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् । न हि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति । संयोगमात्रस्य तदभावेऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् ।
किं चैवं सति कर्मणोऽपि कथमाश्रयाश्र(य)यिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् । तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् । कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् । धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी । तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् ।।
ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किं वा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेन परिहारः, बाधकाभावात्, कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितत्व
लिङ्गात्, ब्रह्मशब्देन विशेषणाच्चेति सिद्धान्तितम् । तत्र कर्मफलभोगो भगवता(तो) भाष्ये प्रतिपादितः । द्विवचनस्य तु न स्पष्टं (स्पष्टं न) परिहारोऽभिहितः, अतः तत्परिहारार्थमाह द्वित्वं चेति ।
एतदुक्तं भवति । परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन् प्रष्टव्यः, कथमनुपपत्तिरिति । द्विवचनं भेदाभिधायि, न च परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वेऽनुशासनाभावात् ।
अथ द्वित्वसंख्या द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्ख्यया च विरुद्ध््यत इति चेत्, न, अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् । अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम्, तत्रेदमुपतिष्ठते, न केवलं संसारधर्महीनस्य कर्मफलभोगो युज्यते, किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते ।
कथमित्यपेक्षायां तत्प्रदर्शनाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे यः सेतुरिति ।
द्वित्वस्याभेदैकत्वाभ्यां न तावावाभावलक्षणो विरोधः, तावाभावात् । नापि वध्यघातुकभावः, सहावस्थानप्रसङ्गात् । तादात्म्याभावस्तु प्रकृते नोपयुज्यते । अतः सहानवस्थानमेव वक्तव्यम् । तस्य च नियमेन परस्परपरिहारेणोपलम्भो बीजम् ।
न चासावस्ति । ऋतं पिबन्तौ इति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः यः सेतुः इत्येकवचनेन च विशेषणात् । अभेदैकत्वाधारतावगमादिति यावत् । न चात्रैकस्यैव ग्रहणम्; व्यावर्तकाभावादिति ।
एतेनैतदपि प्रत्युक्तं यत्परेण बुदि्धजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम् । तथा हि, तत्तु समन्वयात् इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः, जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् । बाधके सति नायं दोष इति चेन्न, तदनिरूपणात् । द्विवचनमिति चेत्, तर्हि जीवेश्वराङ्गीकारोऽपि न स्यात्, तयोरैक्याङ्गीकारात् । काल्पनिकोऽस्ति तयोर्भेद इति चेत्, तर्हीश्वरस्यैवाुताचिन्त्यैश्वर्यवशाद् द्विरूपत्वेन द्वित्वमुपपाद्यताम्, तथा च प्रक्रमानुगुणं सूत्रं स्यात्, तत्त्वावेदकं च शास्त्रमिति ।
नन्वेकवचनेनेति वक्तव्यम्, एकत्ववचनेनेति कथम् ।। एकत्वादिसङ्ख्या हि प्रत्ययार्थः । यथोक्तम्, द्व्येकयोर्द्विवचनैकवचन इति । द्वित्वैकत्वयोरित्यर्थः, अन्यथा द्व्येकेष्विति स्यात् । तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् । अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति ।।
अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम्, तदयुक्तम्, सूत्रे भावस्यैव प्रतिज्ञानात्, क्रियाया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्याति अन्तरिति ।
अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा अन्तस्तद्धर्मोपदेशादितिवत् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति ।
ननु च य एषोन्तरक्षि(क्ष)णि पुरुषो दृश्यते, एष आत्मेति होवाच इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते, न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रे(त्रैः) प्रतिज्ञातव्यम्, तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति । न केवलमक्षिस्थत्वम्, किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रेऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयम् = उपादेयं
सुखं सुखसाधनं च, माति = अनुभवति इति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् ।।
चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम्, सुखविशिष्टाभिधानादेव चेति ।
अत्र विशिष्टपदं व्यर्थम्, सुखाभिधानादेव चेत्येतावता पूर्णत्वात् । सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत् न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् । लघु चैवं सति सूत्रं स्यात् । अयुक्तं च सुखसम्बन्धाभिधानम्, प्राणो ब्रह्म कं ब्रह्म इति श्रुतौ सुखमात्राभिधानादित्यतोऽन्यथा व्याचष्टे विशिष्टेति ।
नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे, येनानुपादेयः स्यात् । किन्तु सुखस्य वैशिष्ट्यं पूर्णतालक्षणम् । यदि हि सुखाभिधानादित्येव ब्रूयात् तदा सुखस्यान्यत्रापि सावेन व्यभिचारः स्यात्, ततः सार्थकं विशेषणोपादानम् ।
७ ननु कथमत्र विग्रहः । सुखेन विशिष्टः श्रेष्ठ इति ।। कथं तर्हि विशिष्टसुखेत्युक्तम् । अर्थकथनमात्रमेतदित्यदोषः ।। सुखेन श्रेष्ठो हि तदा स्यात् यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ट्यं सुखधर्मो भवति ।
अथवा कडाराः कर्मधारये इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् । कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् । स्वरूपेणापि सुखेन विशेषशक्त्या तद्वान् भवतीति ज्ञापयितुमिति ।
८ नन्वेवं व्याख्याने हेतुरसिद्धः स्यात्, सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न, मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् । उक्ता च सुखस्य विशिष्टता श्रुतावित्याह ब्रह्मत्वं चेति ।
सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः । कं ब्रह्मेति ब्रह्मशब्देनोक्तेति यावत् ।। ब्रह्मशब्दो हि पूर्णतामाह । तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात् सुखमेव सम्बध्यत इति ।
९ चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयाऽत्रोच्यत इति यत् पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रम् अनवस्थितेरसंभवाच्च नेतरः इति ।
तस्यार्थः । जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः, उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासंभवाच्च नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति । एतदयुक्तम्, स्वव्याघातात् । अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते, तत्र यदि परस्यानवस्थित्यसंभवौ, अस्माकमपि कुतो न भवतः । यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति अन्योन्येति ।
चशब्दोऽवधारणे । चेतनानामिति वक्ष्यमाणमत्रापि सम्बध्यते । चेतनानां या अन्योन्यनियतिः ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा ईशनियमे प्रेरणे सत्येवोपपन्ना भवेत्, अनवस्थित्यसंभवाभावा(पाता)त् । प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति । तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति । नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना न भवेत्, अनवस्थित्यसंभवपरिहारोपायाभावात् ।
ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव । यद्वक्ष्यति न चाऽऽधिकारिकमिति मोक्षेऽप्यनुवृत्तेश्च । आधिकारि(क)मण्डलस्थोक्तेरिति वचनात् । स्वभावे(ते) च का नाम परमेश्वरापेक्षेत्यत आह चेतनानामिति ।
चेतनानां ब्रह्मादीनां मानुषादीनां च, यो विशेषो नियम्यनियामकत्वलक्षणः, स तेषां स्वभावोऽपीश्वरार्पितः एव । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् इति वचनात् । अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात्, स्याच्च परेषां स्वातन्त्र्यम् ।
अङ्गीकृतं च परैराकाशेऽनादिनोऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम्, औतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य । यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते, यस्तु कदाचित् सोऽस्वभाव इति ।
० किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह अन्योन्येति ।
यस्मादीश्वराङ्गीकारेऽन्योन्यनियमो युज्यते, नान्यथा; तस्मात् ईश्वरमनङ्गीकृत्य परेण अन्योन्यनियमे अङ्गीक्रियमाणे अनवस्थित्यसंभवौ सूत्रकृतोक्तौ युक्तावित्यर्थः ।
नन्वनवस्थित्यसंभवयोः को भेदः, उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् । उच्यते । अनवस्थायां हि प्राक् सिद्धमूलाभावेन प्रवृत्तिनिरोधः, असंभवे तु समानतयाऽविनि(य)गम्यत्वेनेति भेदः । यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते, पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात्, विनिगमकाभावादिति ।
तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानमित्युक्तम् । ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयाऽत्राग्निरुच्यत इति वदतः को दोष इत्यत आह ईश्वरश्चेदिति ।
यदि ईश्वरः सर्वनियन्ताऽभ्युपगतः स्यात् तदा स एव प्रथमागतः साक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यज्यते । कस्माच्चेश्वरस्यादित्यादीनां च मध्ये वृथा अग्नेर्नियामकत्वेन अवस्थितिकल्पना क्रियते, पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति ।
ईश्वरपरित्यागे, मध्येऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् । ततः किमित्यत आह दोषवतीति ।
दोषः श्रुतहानिरश्रुतकल्पना च । आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह । तस्मात् उभयत्र प्रमाणाभावात् । सा परमेश्वरपरित्यागेनावस्थितिकल्पना ।
अनेन सूत्रस्य अर्थान्तरमुक्तं वेदितव्यम्, मध्येऽग्नेरवस्थितिकल्पकाभावात्, प्रथमावगतेश्वरपरित्यागासंभवाच्च नेतर इति ।।
एतदु(इदमु)क्तं भवति । अक्ष्यादित्यस्थतयाऽत्र प्रतिपाद्यमग्निं प्रतिपद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण दूषणमुक्तमिति ।
२ अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृताऽनवस्थित्यसंभवावुक्ताविति पूर्वग्रन्थार्थः । तत्कथं निश्चितमित्यत आह ईश्वरश्चेदिति । यदि सर्वनियन्ता ईश्वरः प्रतिवादिनाऽभ्युपगतः स्यात्, तदा स एव प्रथमागतः किमित्यपोद्येत, कस्माच्च वृथाऽवस्थिति कल्पना क्रियते । किं तु निर्निमित्तत्वात् सा नैव कार्या स्यात् । न हि पूर्वपक्षी सर्वथाऽप्यप्रेक्षावान्, तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् । कृता च तेनेयं सर्वा कल्पना, तेन जानीमोऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति ।।
नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेव अन्तर उपपत्तेरित्युक्तम् । न च तत्र नियामकत्वं न विवक्षितम्, तथा सत्यनवस्थितेरसंभवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह रमणमिति ।
पूर्वाधिकरणेऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् । तदसत्, व्याहतत्वात् । आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम्, प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् । अतियत्नवतश्च चित्तविक्षेपो नियतः । न च चित्तविक्षेपवतो रमणमुपपद्यते । अतो नियामकश्च रतिमांश्चेति व्याहतम् । न च व्याहतं शतेनापि हेतूनां सिद्ध््यति । तदुक्तम्, बहुव्यापारतायाश्च क्लेशोऽधिकतरो भवेदिति । उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः ।
एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह इति चेदिति ।
तत्रेदमुत्तरमिति शेषः । यस्य परमेश्वरस्य सर्वनियमः सर्वान्तर्यामित्वमस्ति । तस्य कस्मान्न शक्यते रमणमिति प्रकृतम् । एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः ।
नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव । यत् आदित्यादिनियामकस्य चित्तविक्षेपसंभवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् । ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतोऽभिप्रायमुद्घाटयति स्वात्मनेति ।
यत् वस्तु स्वात्मना देवदत्तेन अनियतं देवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेव आत्मनो देवदत्तस्य प्रतीपं चित्तविक्षेपकं भवेत् इति हि दृष्टम् । इदं तु जगदीश्वराधीनसत्तादिकम्, तत् कथं तस्य चित्तविक्षेपकं भवेत् ।
अथवा यदीदं वस्तु विश्वं स्वात्मना ईश्वरेण अनियतं स्यात्, तदधीनसत्तादिकं न स्यात्, तदैव ह्यात्मनः परमेश्वरस्य प्रतीपं भवेत् । न चैवमिति योज्यम् । न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति ।।
अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते, तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतम्; तदभ्यधिकाशङ्कया आक्षिपति गुणेति ।
आनन्दादयो गुणाः, संहरणादि क्रियाः , सर्वगतत्वादि भावाः । अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च यद्यभेदिनो ऽङ्गीकृताः तदा तथा स्युर्वा । तेषां भावत्वेन वक्ष्यमाणानुपपत्तेरभावात्, अनुपपत्त्यन्तराणां च परिहृतत्वात् । अदृश्यत्वादीनां तु धर्माणां ब्रह्मणाऽभेदो न युज्यते । तेषामभावत्वाद्ब्रह्मणो भावत्वात्, भावाभावयोरैक्यस्य विरुद्धत्वादिति ।
परिहरति नाभाव इति ।
इह हि दृश्यादन्योऽदृश्यः तस्य भावोऽदृश्यत्वमित्यदृश्यत्वादिशब्दैर्दृश्याद्यन्योन्याभावोऽभिधीयते, अश्वादन्योऽनश्वः तस्य भावोऽनश्वत्वमिति यथा; न पुनस्तत्प्रागभावादिः, असामर्थ्येन समासासंभवात् ।
दृश्यादिविरोधित्वमर्थोऽस्त्विति चेन्न, सहानवस्थानवध्यघात(तु)कभावभावाभावलक्षणविरोधानामसंभवात्, तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् । तथा चाभावो अन्योन्याभाव इति, भाव इति च ९ एतयोर्लोकेऽपि विशेषो भेदो न भवेत् । एवं (च) सति ब्रह्मण्येव काऽनुपपत्तिरिति । तदभावो हीति वक्ष्यमाणाभिप्रायेण प्रायश ९ इत्युक्तम् । अथवाऽभाव इति चतुर्विधेऽप्यभावे प्राप्तेऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)म् । अन्योन्याभावो हि प्रागभावादिभ्यो(ऽपि) बहुतरः, प्रतिवस्तु नियतत्वात्, नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् ।
ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः ।। नाद्यः, ब्रह्मगतस्यापि भेदप्रसङ्गात् । तथा च एवं धर्मान् इत्यादिश्रुतिविरोधात् । न च ब्रह्मणि नासौ श्रुत इति वाच्यम्, अगोत्रमवर्णमित्यादिना प्रतीतत्वात् । न विद्यते गोत्रादिकं यस्य तदि्ध तथोच्यते ।। द्वितीये किमन्योन्याभावनिर्धारणेन, अभाव इत्येव वक्तव्यम्, तथा चाशेषश्रुतिव्याख्यानं भवतीति ।
अत्र ब्रूमः । भिन्न एव धर्मिणः प्रागभावादिः, धर्मिविनाशेऽप्यविनाशात् । यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशेऽपि घटाभावोऽनुवर्तत एव । धर्मित्वं च भूतलादेः प्रातीतिकं (न वस्तुकृतम्) । अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वात् इत्यन्योन्याभावस्य धर्मिस्वरूपतामाह ।
ननु तर्हि ब्रह्मण्यपि तथा(त्व)प्रसङ्गः । सत्यम् । गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्तत्वाभ्युपगमात् । यथा हि दण्डो देवदत्तस्य विशेषणम्, तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणम् ।
न च श्रुतिविरोधः, दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् ।
न च आनन्दादावप्येवं कल्पना, आनन्दो ब्रह्मेत्यादिवचनात्, बाधकाभावाच्च । तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाऽभ्युपगन्तव्यः । गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते ।
यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते । स प्रष्टव्यः । किंनिमित्तोऽयमनभ्युपगमः, किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसावात् ।
आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् । विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् । नञः प्रयोगाप्रयोगाभ्यामिति चेत् तत्राह अताव इति ।
पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव, अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः । विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः । स्थलान्तरे व्यभिचारं दर्शयति दोषाभाव इति ।
आरोग्यं गुणः, अक्रौर्यं गुणः; इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविष(य)यो विधिरूपं(पत्वं) गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् । उपलक्षणं चैतत् । अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् । अतो(ऽपि) व्यभिचार इत्यर्थः ।
अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम्, किन्तु सूत्रकृतोऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताऽप्ययं व्यभिचारः सूचित इत्याह अदृश्यत्वादिकानिति ।
यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुम् अदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः । अन्यथा दृश्यत्वादीत्यवक्ष्यदिति ।
अनेन सप्रतियोगिकत्वनिष्प्रतियोगिकत्वाभ्यां विरोऽधोऽपि परास्तो वेदितव्यः ।
८ नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात्, असति च तस्मिन्विरोधवार्तैव लुप्येत । भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वाराऽन्ययोरिति चेत्, किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः ।
आद्ये त्विष्टापादनमित्याह भावेति ।
सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति । घटवति पटाभावदर्शनादिति भावः ।
द्वितीये त्वापादकासिदि्धरिति भावेन तत्स्वरूपमाह तदभावो हीति ।
उभयत्राप्यनुभवप्रसिदि्धं हिशब्देन द्योतयति ।
नन्वेतत्सर्वं तृतीयेऽन्तर्भवति । सत्यम् । तथाऽप्युल्बणतया पृथग्दूषितमित्यदोषः ।
९ अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः । मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम्, अन्यथाऽनवस्थादिदोषप्रसङ्गात्, अभावे स्वरूपातिरिक्तस्यासंभवेन भेदाभावप्रसक्तेश्च । अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् ।
अथ मतम् । भेदस्त्रिविधोऽस्माभिरभ्युपगम्यते; पृथक्त्वम्, अन्योन्याभावः, स्वरूपं चेति । तत्र द्रव्ये त्रिविधोऽपि संभवति । गुणादिपञ्चके तु द्विविध एव, पृथक्तवस्य गुणत्वेन तत्रासंभवात् । अभावे तु स्वरूपभेद एव, तत्रान्योन्याभावाभ्युपगमेऽनवस्थाप्रसङ्गात् । अतोऽन्योन्याभावस्य भेदत्वेऽपि, भेदस्य (तु) स्वरूपत्वेऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम्, स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह पृथक्तवेति ।
अभावः अन्योन्याभावः । स धर्मी रूपम् आत्मा यस्यासौ तद्रूपः । आद्य ग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते । तत्र तु तथाकल्पने त्वित्यर्थः ।
कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह पृथक्त्वेति ।
अन्यत्वम् अन्योन्याभावः । भेदः स्वरूपभेदः, घटात्पृथक् घटो न भवति पट एवेति । पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैः लौकिकैः वैदिकैः च पर्यायेणैव क्रमेणैव; पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन ।
एतदुक्तं भवति । यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम्, यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति;
तथा पृथगा(क्त्वा)दिव्यवहाराणामपि पर्यायत्वात् एकेनैव स्वरूपभेदेनोपपत्तौ निमित्तत्रयकल्पने कल्पनागौरवम्, नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति । अविनाभावित्वान्न सहप्रयोग इति चेत्;
मा भूत् घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः, घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत्, पृथक्तवे सति अन्योन्याभावादिकं नियतं, न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् । (नाय) न चायमस्ति नियमः अविनाभूतं सह नोच्यत इति, पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् ।
लौकिकाः प्रयोजनमात्रपराः अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहरन्तीति चेन्न, वैदिकैरप्येवमेव व्यवहारात् । तदिदमुक्तम् वैदिकैरपीति ।
किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात्, अन्यथा घटादिव्यवहारेऽपि तथाप्रसङ्गात् । न चैतदस्ति, तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति । एतदप्युक्तम् सर्वश इति सततमिति च ।
अथ मतम् । पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः; यत्पृथक्तवमवधिनिरूप्यम्, अन्योन्याभावस्तु प्रतियोगिनिरूप्यः ।।
किं च, अन्यारादितरर्त इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते । अन्य इत्यर्थग्रहणमिति वचनात् । अन्यथा भिन्नो घटात्पटो, अर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात्, अनुशासनान्तराभावात् । तथा च पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् । न चैवम् । तेन जानीमोऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति ।। स्वरूपभेदस्य चाभ्यां (उभयाभ्यां) विवेकः । परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च । (तथा च) एवं च व्यवहारपर्यायताऽन्यथोपपादनीयेति ।
२ अत्रोच्यते । यत्तावदुक्तं निरूपकभेदोद इति, तदसत्, अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् । पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न, पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् ।।
पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः, अन्यशब्दोपपदे पञ्चमीविधानात् । कथं तर्हि भिन्नादियोगे पञ्चमीति चेत्, विलक्षणो (देवदत्तो यज्ञदत्तात्) यज्ञदत्तो देवदत्तादित्यत्र कथम् । न हि वैलक्षण्यं पृथक्तवम्, गुणादिष्वपि सावात् ।
अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत्, भिन्न इत्यादावपि किं न व्युत्पाद्यते । तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न, प्रपञ्चार्थत्वेनोपपत्तेः ।
विलक्षणयोगे पञ्चमी वक्तव्येति चेत्, विशिष्टव्यावृत्तादियोगेऽपि कथम् ।
न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् । सर्वत्रोपसङ्ख्याने भिन्नादिष्वपि तथा भविष्यति, किमन्येत्यत्रार्थग्रहणव्याख्यानेन ।
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्यामिति विकल्पविधानसामर्थ्यादिद (त्थ)माश्रीयत इति चेन्न । अप्राप्तेऽपि विकल्पविधानस्य बहुलमुपलम्भात् ।
अस्तु वाऽन्येत्यर्थग्रहणम् । तथाऽपि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् । घटः पटो न भवतीत्यत्र तु वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति ।
प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां (तु) विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः ।
विधिरूपत्वं चोक्तन्यायपराहतम्, अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् ।
किं चानश्व इति किमन्योन्याभावो नञर्थः, किंवा पृथक्तवम् ।। आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी । न च तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम्, समासविग्रहवाक्ययोः समानार्थत्वात् ।। द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन ।
सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः, ततः किमिति चेत् । तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम्, किन्तु दोषोन्नायकत्वेनैवेति ।
आद्यं निराकरोति दृष्टेति ।
इति शब्द आद्यर्थे । तेन कल्पनागौरवं सङ्गृह्यते । दूषणमेव इति योजना । कुत इत्यत आह यदेति ।
यदा शब्दो यस्मादित्यर्थे । तदधिकः तदतिरिक्तः । किम् आक्षेपे । नु वितर्के । वादिनामिति । वैपरीत्यलक्षणया परिहासः, अनिष्टप्रसञ्जनार्थं वा ।
एतदुक्तं भवति । यदि दृष्टहान्यादिकं न दूषणं तदाऽसिद्ध््यादिकमपि कुतो दूषणमिति वक्तव्यम् । अङ्गवैकल्यहेतुत्वादिति चेत्, अथ विकलाङ्गमपि कुतो न साधनम् । तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत्, स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् ।
अङ्गविकलस्याप्यनुमानत्वेऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत्, तदिदमदृष्टकल्पनं कल्पनागौरवं च । विकलाङ्गं च साधनं चेति व्याहतमिति चेत् । कथं व्याहतम् । सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत्, दृष्टहान्यादिकमेवैतत् ।
अथ मा भूदसिद्ध््यादिकं दूषणमिति ब्रूयात्, तदा वादित्वमेव न स्यात्, दूष्यपक्षाभावात्, तदभावे साध्यस्याप्यभावादिति ।
द्वितीयस्याप्येतदेवोत्तरम् । दृष्टहानिरिति ।
अत्र एतदेव दूषणम्, न तु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः ।
(अ)तत्र हेतुमाह यदेति ।
यदा दृष्टहान्यादिकमुद्भाव्येत, तदा ततः किमित्याकाङ्क्षायां तदधिकः तदुन्नेयो दोषः को नु वक्तव्यो विद्यते न कोऽपि । योऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः ।
अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावः, तच्छब्दानां सहप्रयोगः, कदाचिद् दृष्टेऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति भावेति ।
भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारोऽनुसन्धेय इति दर्शयति । भावाभावस्वरूपा अत्तृत्वादयोऽदृश्यत्वादयश्च यद्यपि ब्रह्मणाऽभिन्ना एव, तथाऽपि धर्मधर्म्यादिव्यवहारप्रसिद्धये वस्तुनो धर्मिणो विशेषा एव अतिशया एव सङ्ग्राह्याः, न वस्तुतन्मात्रमिति ।
इदमुक्तं भवति । अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छत्यादिसिद्धम् । अस्ति च धर्मधर्म्यादिव्यवहारोऽपि प्रमितः ।
न चान्यतरस्यापि बाधोपपन्ना । ततस्तदन्यथाऽनुपपत्त्या सविशेषाभेदोऽङ्गीकरणीयः । विशेषस्य चाभिन्नेऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति ।
७२ अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वं अनागन्तुकार्थत्वं वा, वदन्तो विशेषं नाभ्युपगच्छन्ति ।
अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवलभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति । अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वेऽप्यविद्याऽऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते ।
तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति यथेति ।
स्थानेषु स्वशास्त्रप्रदेशेषु एकः समवाय इति वस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा ते समवायभेदाभेदा विशेषेण विशेषवन्तः अङ्गीकार्याः तथा भावाभावस्वरूपाश्चेति योजना ।
एतदुक्तं भवति । धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते । तत्त्वं भावेनेति सूत्रितत्वात् ।
तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् । नाद्यः, समवाये द्रव्यगुणादेरसंभवात् । द्वितीये तु कथं सहप्रयोगः, षष्ठीव्यवहारो वा; औपचारिक इति चेन्न, समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः । ततो गत्यन्तराभावात्सविशेषाभेदोऽङ्गीकार्यः ।
तथा च किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया, अन्ततोऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः ।
समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत्, तथाऽपि समवायस्येति षष्ठ्यर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् ।
यस्तु भेदवादी समवायेऽप्येकत्वसङ्ख्यामङ्गीकरोति, तेनापि समवायस्य सम्बन्धोऽङ्गीक्रियते, न वा । आद्ये किं स एव, समवायान्तरं वा । न प्रथमः, सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः । अत एव न तृतीयः, स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् । न द्वितीयः, एकः समवाय इत्यस्यानुपपत्तेः ।।
७ किं च वस्तुनि समवाय इति कथम् । न ह्यवयवावयव्यादीनां सम्बन्धोऽस्ति यत एकः समवायः । स्वनिर्वाहकत्वे तूक्तम् ।।
अपि चैकस्वभाव एव समवायः । स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत्, अवयवादीनां स्वभावभेदादिति चेत्, अलं तर्हि समवायेन । अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति ।
भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः, परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः ।।
किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमेऽनवस्था, स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः । भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः, वस्तुना तयोः सम्बन्धाभावात् । अत्यन्ताभेदेऽपि वस्तुनि भेदाभेदौ इत्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात्, वस्तुतन्मात्रत्वात् । ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति । यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः ।
अखण्डवादिनाऽपि विशेषमङ्गीकारयति अखण्डेति ।
अङ्गीकार्य इति वचनविपरिणामेन सम्बध्यते ।
नन्वखण्डवादिनोऽपि विशेषोऽङ्गीकार्य इति व्याहतम्, अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वात्; इत्यत उक्तम् अनिच्छतोऽपीति ।
स्वाभ्युपगममात्रेणाखण्डवादित्वेऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति । असौ पूर्वोपपादितः । अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् ।
यद्वा । यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम्, सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् । अङ्गीकृते च तन्निवृत्तिः, तस्यापर्यायशब्दप्रवृत्तावभिन्नेऽपि निमित्तत्वात् । असौ इत्यङ्गीकार्यत्वहेतुसूचनम् ।
ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते, तत्कथं पर्यायता, वाच्यार्थभेदसावात् ।
मैवम् । सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् । अस्ति कथञ्चित् सत्यादिकमन्यदिति चेन्न, कथञ्चित्सत्यादिकं वाच्यम्, साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् ।
अस्तु वा कथञ्चित्पर्यायतापरिहारः, तथाऽप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यर्थता न परिहर्तुं शक्या ।
ननु च लक्ष्यार्थभेदाभावेऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्व्यावर्तकत्वेन सार्थक्यं पदानामित्यत आह व्यावृत्त इति । व्याख्यातचरमिदम् ।
तदेवं विशेषस्य सर्ववादिभिरङ्गीकार्यत्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् ।।
अस्याधिकरणस्य नात्रान्तर्भावः संभवति, नामात्मकशब्दसमन्वयार्थत्वात् । नापि पूर्वत्र, लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः, अन्यत्र प्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता, समन्वयासिदि्धप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः ।
यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषोऽयम् । अत एव पादद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति बहुलिङ्गेति ।
रूढा इत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति । अन्यथा यौगिकनामपरित्यागः स्यात् । एतच्च लिङ्गानामपि विशेषणम् । साक्षात् मुख्यया वृत्त्या ।
७ इदानीं वैश्वानराधिकरणतात्पर्यमाह वैश्वानरादय इति । आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति । तत इति सौत्रात्मशब्दादिकं परामृशति । तद्वाचिनः परमेश्वरवाचिनः ।
ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः, पक्षान्तरेऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह तानीति ।
तद्गाः परमेश्वरविषयाः । हीति तथा दृष्ट्युपदेशं हेतुमाचष्टे । यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः ।
अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् ।
ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम्, अन्यत्र रूढत्वात् । न च विष्णावपि रूढिरस्तीति वाच्यम्, बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह बहुलाऽपीति ।
तत् तस्मादज्ञप्राज्ञरूढित्वादेव । आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति ।।
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादोऽयं प्रथमविषये पर्यवसितः ।।
इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः ।।