Anuvyakhyana/Vyakhya/Nyayasudha/C1P1
न्यायसुधा — अध्यायः 1, पादः 1
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥
येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगस्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम्॥ २ ॥
व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिर्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्न वै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥
भवति यदनुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः । सकलवचनचेतोदेवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ ॥ ४ ॥
रमानिवासोचितवासभूमिस्सन्न्यायरत्नावलिजन्मभूमिः । वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ ५ ॥
पदवाक्यप्रमाणज्ञान् प्रतिवादिमदच्छिदः । श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम॥ ६ ॥
श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि । अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥
न शब्दाब्धौ गाढा न च निगमचर्चासु चतुरा न च न्याये प्रौढा न च विदितवेद्या अपि वयम् । परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रं असाधुनिबन्धान्धतमसाऽवकुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिना अवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- नारायणमिति ।
अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेव अहम् इति लभ्यते । सम् इति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया संबन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।
अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमिति । अत्रोक्तम्- अशेषविशेषतोऽपि वन्द्यमिति । विशिष्यते वस्त्वेभिरिति विशेषाः, असाधारणधर्माः । अशेषाश्च ते विशेषाश्च । अपिः अभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथा अशेषात् वन्द्यत्वेन समाशङ्कितात्पद्मापद्मभवादेर्जगतो विशेषः अतिशयः अशेषविशेषः सर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति ॥ एतदुभयं कथं नारायणस्येत्यतोऽभिहितम्- निखिलेत्यादि ।
त्रिविधा हि देवता वन्द्या भवति । विशिष्टा अधिकृता इष्टा चेति ॥ न हि देवतावन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे ॥ अधिकृता च स्वविषयग्रन्थप्रबोधादिकं संपादयति ॥ वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति ।
तत्र वैशिष्ट्योपपादनाय निखिलपूर्णगुणैकदेहं निर्दोषं अस्योद्भवादिदम् इति विशेषणत्रयम् । निखिलाः निश्शेषाः पूर्णाः प्रत्येकमप्यनवधिकाः गुणाः आनन्दादयः । एक शब्दः केवलार्थः । त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः ॥ निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः ॥ अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुदि्धसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्य उद्भवः उत्पत्तिः आदिः अस्येति उद्भवादि जन्माद्यष्टकं तद्यथासंभवं ददातीति उद्भवादिदः तम् । अस्येति संबन्धमात्रे षष्ठी । अशेषविशेषतोऽपि इत्येतत् अस्योद्भवादिदमिति अनेनापि संबध्यते । वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति ॥
अधिकृतत्वप्रदर्शनाय आप्यतममप्यखिलैः सुवाक्यैरिति । अपि शब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वा अनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैः अखिलैरपि आप्यतमं अतिशयेन प्रतिपाद्यम् ॥ यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतया अखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतत्वमुच्यत इत्याशयवता आप्यतममिति अखिलैरिति चोक्तम् ॥
इष्टत्वप्रदर्शनं सदा प्रियतमं ममेति । अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम् ।
यद्वा, नानिर्धारितस्वरूपस्य प्रणामो युक्तः, न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिले त्यनेन निखिलगुणत्वं, पूर्णगुणत्वं, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोष मित्यनेनैकम् । आप्यतम मित्यनेन वेदादिमुख्यार्थत्वम् अखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्ये त्यनेनाष्टौ । अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम् अशेषाद्विशेषेण वन्द्यमिति । सदे त्यनेन परमप्रेमयोग्यत्वमुक्तम् । तस्य अनानुभाविकत्वादसंभवमाशङ्क्य सदा ममे त्युक्तम् । अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये ।
अथवा निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्यः, इत्यतः सुवाक्यैराप्यम् इत्युक्तम् । ननु वेदाद्येकदेशे अन्यथाऽप्युच्यते । न । तत्प्रतीतेः अपरामर्शपूर्वकत्वात् इत्याशयेन अखिलैः इत्युदितम् । तर्हि धर्माद्यसिदि्धः स्यात्, तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वात् इत्याशयवता आप्यतमम् इत्यभिहितम् । अपि शब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरपि उक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् अस्येति ।
यद्वा, नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः, तदभावे ज्ञानादिगुणाभावः । उभयथाऽपि जगज्जन्मादिकारणत्वासंभवः इत्याशङ्क्योक्तम् निखिलपूर्णगुणैकदेहं निर्दोषमिति । देहवत्त्वाद् ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।
अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिको, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयंस्तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमित्यवगन्तव्यम् ।
तथा हि । अराः दोषाः, तद्विरुद्धत्वाद् गुणाः नाराः, तदयनत्वात् नारायणः । अराणामयनं न भवतीति वा । उपकारित्वादिना नराणामिमे नारा वेदादयः, प्रतिपाद्यतया तदयनत्वाद्वा । नराणामिदं नारमुद्भवादिदातृतया तदयनत्वाद्वा । नरसमूहो नारं, वन्द्यतया तदयनत्वाद्वा । नराणामधिपतिः नारो मुख्यवायुः, परमप्रेमास्पदतया तस्य अयनत्वाद्वेति यथाक्रममवगन्तव्यम् ।
अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतः अनेनाचष्टे ।
विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमि ति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थो निखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह अस्येति । तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता, तत्कथनम् आप्यतममिति ।
प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितस्तमाह निर्दोषमिति ।
एवं ब्रह्मस्वरूपे सिद्धे, अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्याम् अखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं सङ्ग्रहः अशेषविशेषतोऽपि प्रियतमम् आप्यतममिति । ल्यब्लोपनिमित्ता पञ्चमी । अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति । इयदामननादि त्याद्यर्थसूचनं ममेति ।
प्रसन्नं च तद्यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानम् आप्यतममिति । आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टीति ।
तमेव शास्त्रं प्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥
नारायणप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिद्ध्यङ्गतया कार्यारम्भे अवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति ।
तं पूर्वप्रणतं नारायणमेव, अन्वपि पुनरपि, प्रणम्य भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वा, अहं, परमाख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपायाः व्याख्यां करोमि इति संबन्धः । वर्तमानसामीप्याद् वतंमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा ।
परमाख्यविद्येत्यस्य व्यर्थतां निराह ब्रह्ममीमांसेत्यादि ।
ननु प्रणतस्य पुनः प्रणामः किमर्थः । न हि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह शास्त्रप्रभवमिति । शास्त्रशब्देन प्रकृतत्वात् ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवति उत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासंभवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसंप्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह जगद्गुरूणामिति । जगतः एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनाम्, अञ्जसा मुख्यतया न तु वयोऽधिकत्वादिमात्रेण । गुरुम् अस्य शास्त्रस्य प्रवक्तारमिति यावत् ॥
प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते विशेषत इति । गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टृत्वेन, न तु जगत इव परम्परया ॥
अत्र यदि शास्त्रप्रभवम् इत्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेव इत्युक्तम् । न चैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् ।
शिष्यशिक्षायै चैतन्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्गुरूणाम् इत्युक्तम् । अन्यथा विशेषतो मे इत्युक्तमयुक्तं स्यात् ।
स्यादेतत् । अथातो ब्रह्मजिज्ञासे त्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । न चायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । न हि मातृकामात्रव्याख्याने प्रेक्षावान् प्रवर्तते । न चास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिना अभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः ।
न चार्थविवक्षापूर्वकत्वमात्रेण उपादेयतया व्याख्यानं युक्तम्, विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । न चास्य याथार्थ्ये मानमस्ति । तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेन अस्यैव व्याख्याने कारणं वक्तव्यम् इत्याशङ्कानिरासाय परमाख्यविद्या इत्युक्तम् ।
अयमभिसन्धिः । अस्ति तावदस्मिन् ग्रन्थे द्वे विद्ये वेदितव्ये परा चैवापरा च इत्यादौ परविद्याख्या । तत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते । यथार्थज्ञानतत्साधनयोः विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् । संज्ञायां समजनिषद इत्यत्र संज्ञायामित्यनुवृत्तेः । परशब्देन च यथार्थाद्वाक्यान्तरादुत्कर्षः ॥ तदेवमागमेनैवास्य सर्वोत्तमप्रामाण्यप्रतीतेः गहनार्थत्वाच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति ।
तथाऽप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् । विशिष्टा आख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रैति । तथाच तत्र तत्र प्रदर्शयिष्यते ॥
तथाऽपि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेन इत्यतः अन्वपि च इत्याह । चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते ॥
प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतः अहमेव इत्यभिहितम् । एवशब्देन अन्येषामसामर्थ्यं सूचयति ।
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥
यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति । तदयुक्तम् । व्यासोपज्ञताप्रसिदि्धविरोधात् । न च नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासंभवाच्च ॥ यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिदि्धरिति । तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य च अर्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किं चेय• परविद्याख्यैतद्विषया इत्यत्रापि न नियामकमस्ती त्यत आह प्रादुर्भूत इति ।
अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैर्विरिञ्चिभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्रे इत्यनेन नारायणस्य शास्त्रप्रभवत्वे अनुपपत्तिः परिहृता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थितः । अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः । अत्र च नारायणाद्विनिष्पन्नम् इत्याद्यागमः प्रमाणम् ।
परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिदि्धं व्युत्पादयितुं परविद्याख्यम् इत्यनूद्य अनुत्तमं शास्त्रम् इति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादिति अनुत्तमम् । शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् ।
इदमुक्तं भवति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति विद्याद्वयमुद्दिश्य तत्रापरे त्यादिना साङ्गान् वेदानपरविद्यात्वेनोक्त्वा अथ परा यया तदक्षरमधिगम्यत इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात् परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति । अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् । तस्य च परत्वं नाम अन्यन्न संभवतीति अनुत्तमत्वमेव । तदपि सन्निधानात् प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् । निर्णेतव्यार्थानाम् ऋगादिपदोपलक्षितानाम् अशेषशास्त्राणाम् अपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासंभवाच्च । संभवति त्वस्य परत्वमनुग्राहकत्वात् ।
एतेन उपनिषदः परविद्ये ति व्याख्यानमपि परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः ।
तज्जन्यं ज्ञानं परविद्ये त्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च ।
अतोऽनया परविद्याख्ययाऽस्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति ।
यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ, तथाऽप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् ।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः इति भगवत्पादीयं व्याख्यानमपि एतमेवार्थं सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकाः, तदुपकृताश्च तस्य वाचका भवन्तीति ।
तथाऽपि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लाभि । वेदादीतिकर्तव्यतारूपस्यास्य पृथक्प्रामाण्यानभ्युपगमात् ।
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥
एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्य अधुना अनुमानतोऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति ।
यतो यत्कारणं, बादरायणो, गुरूणां जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां, गुरुः उपदेष्टा । यतश्च, शास्त्राणां वेदानां भारतादीनां च, यथासंभवं प्रभवः, गुरूणां अशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यः प्रभवो न तु संप्रदायमात्रप्रवर्तक इति वा । यतश्च अजादिभ्यः श्रोतृभ्यः, तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः । तदुदितं तेन बादरायणेनोपदिष्टं इदं शास्त्रमतो मानं भवितुमर्हति ।
अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि, मानमिति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विवक्षितार्थतत्त्वज्ञानं, करणपाटवं, विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य ।
तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः । यो हि यस्य तत्त्वोपदेष्टा स ततोऽधिकतत्त्वज्ञानवानुपलब्धः । अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्टा ब्रह्मरुद्रादिदेवेष्वि त्याद्यागमादवगतः । अतः सर्वज्ञो भवितुमर्हतीति ॥
गुरूणां शास्त्राणां गुरुः प्रभवः इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते ॥ यो हि यावदर्थप्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः । अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवः; अनुक्तं पञ्चभिर्वेदैः , उत्सन्नान् भगवान्वेदानि त्यादिवचनादवगतः । ततो भवितव्यमनेन सर्वज्ञेन ॥ यश्च बहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पटुकरणो दृष्टः । अयं चापारस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुदितमि ति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता ।
गुरूणामि ति श्रोतॄणां तत्त्वज्ञानयोग्यतोपपादने हेतुः । न हि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्टा दृष्टः । अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः ।
तदर्थत इति प्रसङ्गानुकूल्योपपादनम् ।
अत्र सर्वत्राकारणकार्योत्पत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्क उन्नेयः ।
नन्वत्र गुरुर्गुरूणामि त्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् । किं मध्ये साध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधिकरणता । तथाऽपि तदुदितमि ति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथाऽपि मिलितानां हेतुताऽस्तु । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेन असाधारण्यं स्यादिति चेन्न । तेष्वेव हेतुवृत्तिसंभवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् ।
एवं तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वात् बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद् बाढम् । तावन्मात्रस्यैव व्यभिचाराभावात् ।
तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामि ति व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति ।
सत्यम् । तथाऽपि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसंबन्धव्युत्पादनमसङ्गतं स्यात् ।
तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधं महदिति वक्ष्यमाणविरोधात् ।
विजातीयसंवादित्वेनानयोरैक्यविवक्षया त्रित्वोक्तिः अस्त्विति चेत् । एवं तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादत्वेनैक एव स्यात् । अर्धज(च)रतीयानुपपत्तेः । तथा च पुनस्त्रित्वानुपपत्तिरेव ।
भवेदयं ग्रन्थकृतोऽभिप्रायः । तेनापीदं प्रयत्नगौरवं कस्मादाश्रितमिति चेन्न । उक्तसाधनोपपन्नत्वेऽपि अस्तु भारतादीनां प्रामाण्यं मा भूच्चास्ये ति शङ्कायां वक्त्राद्यानुकूल्यसाधनस्य अवश्याश्रयणीयत्वात् । अन्यथाऽप्रयोजकत्वापत्तेरिति ।
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥6॥
ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद् भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमि ति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरि ति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ॥ तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् ॥ सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वासाध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्य आप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति ।
यत् यत्र वाक्ये, वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानुकूल्योपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् तेन सिद्धया आप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण संबन्धः ।
एतदुक्तं भवति । विमतम् आप्तवाक्यम् अनुकूलेन वक्त्राऽनुकूलान् श्रोतॄन् प्रति तदीयहितसाधनबोधायोपदिष्टत्वात् संप्रतिपन्नवत् । विमतं प्रमाणम् आप्तवाक्यत्वात् संप्रतिपन्नवदिति । वक्तुरानुकूल्याभावाद् जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद् बौद्धादि । प्रसङ्गानुकूलतावैधुर्यात् नर्मादि ।
ननु कोऽयम् आप्तो नाम यद्वाक्यत्वं साध्यते ॥ यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् ॥ प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिना अन्यथाकथके अपि प्रसङ्गात् ॥ प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वेऽप्यंशान्तरेऽतथाभूतवादिन्यपि प्रसङ्गात् ॥ यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते ॥ यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसंभवेन अनाप्तत्वापत्तेश्च ।
निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसंभवात् ॥ यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति ।
मैवम् । विवक्षितार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयम् आप्तिः । तद्वान् आप्त इत्यङ्गीकारात् ॥ आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदाऽसावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् ॥ एवं सति यो यत्रैवंभूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम, किं सार्वत्रिकव्यवहारानौपयिकत्वम् उत एकस्यानेकवृत्तित्वाभावः । नाद्यः, यो यस्य सुतः स तदीयं धनं अर्हती त्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः, अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः ।
एतेन निर्दोषः, प्रमितस्यैव वक्ता इति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् ।
एवं च वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्सा च श्रोतृप्रसङ्गाननुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः ।
नन्वाप्तवाक्यता तावत् स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति । न हि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवंभूत इत्यनेनैवोक्तोत्तरत्वात्, आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च ।
अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकरणतया भवति, विपरीतबोधकं च विपरीतज्ञानादिना, इत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिदि्धः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति ।
ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोस्तुल्यत्वात् । न हि यद् यद्व्यापकस्य व्यापकं तत्तस्याव्यापकमिति संभवति । अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्य आप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामि ति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति ।
मैवम् । आप्तवाक्यतया तेने त्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तनामि त्यनेनैवोपपादितत्वात् । न हि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः ।
उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् । अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् ॥ तथाऽपि साध्यसाधनयोः आप्त्येकदेशानुप्रवेशोऽस्तीति चेत् । सत्यम् । तथाऽपि विशिष्टभेदेन अदोषत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् । विशेष्यांशस्योभयत्र अनुप्रवेशात् । कृतकत्वानित्यत्वयोस्सत्तानुप्रवेशेऽपि परैर्व्याप्यव्यापकभावस्याङ्गीकृतत्वाच्च ॥ यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्याविशिष्टतायाः शङ्कैव नास्ति ।
ग्रन्थकृताऽपि कस्मादियं परम्पराऽऽश्रितेति चेन्न । वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताऽप्यन्ततोऽस्यार्थस्याश्रयणीयत्वात् । अन्यथा अस्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवतु इत्याशङ्कायाः को निवारयिता ।
यद्यपि प्रामाण्यं स्वत एवे ति बादरायणीयं मतम् । यद्वक्ष्यति न विलक्षणत्वादि ति । जैमिनिरपि तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वादि ति । तथाऽप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः ।
एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह श्रुतीति ।
तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयाऽपि इत्युपमार्थो वा तथाशब्दः ।
यद्यपि श्रुतियुक्तिमूल शब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ । तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासंभवात् ॥ यदि च श्रुतियुक्तिसंवादित्वादि त्येवावक्ष्यत्तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः ॥ एवं हि प्रयोगे अङ्गाङ्गिभावोऽप्यधिको विज्ञायते । स च पक्षधर्मतोपपादको भविष्यति ।
ततश्चायमर्थः । यत् श्रुतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च पुनस्तस्यार्थवित्तय इत्यागमसिद्धम् ॥ यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्त्यनुसन्धानात्मकत्वात् । तस्मात् प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्च अप्रामाण्यप्रसङ्गः । अर्धवैशसासंभवादिति ।
किमतो यद्येवमित्यत आह एव प्रामाण्यमिति ।
एवशब्दो ब्रह्मसूत्राणाम् इत्यनेन संबध्यते । त्रिविधम् इति क्रियाविशेषणम् ॥ ब्रह्म वेदः, तदर्थः परंब्रह्म वा । तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परस्य ब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्च अल्पाक्षरम् इत्याद्यागमादवगन्तव्यः ।
एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं, तत्र भवः शारीरको जीवः । तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वं पदाभिधेयस्य तत् पदाभिधेयब्रह्मरूपतामीमांसे ति व्याख्यानादविरोध इति चेन्न । असंभवात् । न हि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणी ति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञित इति । तस्य सकलगुणपूर्णत्वादिमीमांसैव शारीरकमीमांसा । तथा चोक्तं पुराणे सर्वदोषविहीनत्वम् इत्यादि ।
यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्वादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत् स्यात् तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह एकधेति ।
सर्वश इति वचनाद् एकधे त्युपलक्षणम् । तथा हि ॥ क्वचिदेकधा । यथाऽऽप्तिमूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने । तदुक्त एव पर्वतोऽग्निमान् इतिवाक्ये युक्तिसंवादेन ॥ क्वचिद् द्वेधा । यथाऽऽप्तिश्रुतिभ्यां मन्वादिवाक्ये । आप्तियुक्तिभ्यां पर्वतोऽग्निमानि त्यादौ पितृवाक्ये । श्रुतियुक्तिभ्यां ईश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाऽप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महत् इत्येतत् त्रिविधम् इत्यनेनापि योजनीयम् ।
ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । न हि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते ।
एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः ।
अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते । स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥
तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति अत इति ।
इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् ।
ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः ।
ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्व्याख्यानेनैव सर्वं संपद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत्, प्रथमभाष्येऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत्, समं प्रथमसूत्रेऽपि ॥ मैवम् । विषयादिसंपादनेनैव तत् । न च तावता आरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षादिग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुदि्धशुद्ध(सिद्ध)ये भाष्यकृतोक्तमिति ।
तथाऽपि नेदं व्याख्यातव्यं व्याख्यातत्वादि त्यत्र अन्वपि चे ति यत् प्रयोजनान्तरमस्तीति सूचितं तद्विवरणार्थमाह स्वयमिति ।
यद्यपि, तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता, तथाऽपि पुनरत्र स्पष्टतैव अर्थः प्रयोजनं यस्य स्पष्टतार्थः , तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते ।
स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसंक्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुद्ध्यनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एककरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्र तत्र द्रष्टव्यम् ।
नन्वेकत्रैव सर्वं वक्तव्यं वक्तव्यं, किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सुप्रयोजनं च भवति । यथोक्तम् । सङ्क्षेपविस्तराभ्यां च (तु) कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात् इति ।
तत्र भाष्याद्यपद्यार्थः अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्त्या प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमि त्याशङ्का आप्यतममि त्यनेन परिहृता । अपि शब्दो विशेषणान्तरसमुच्चयार्थः, तद्विवरणम् अस्येत्यादि । शास्त्रप्रभवं इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चे ति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदे अपि पदेनारुचिः सूचिता । तद्विवृतिः तमेवे ति । सम्प्र शब्दाभ्यां नत्वे ति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद् द्वापर इत्यादिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्माद् आप्तिमूलत्वादियुक्त्याऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति गुरुर्गुरूणा मित्यादिनेति ।
तथाऽपि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । न चाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्, कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति सांप्रतम् । तथा सति कारीर्यादेरपि वृष्ट्यादिहेतुत्वाभावापत्तेः ।
स्यादेतदेवम् यदि कारीर्यादेर्वृष्ट्यादिहेतुत्वं निष्प्रमाणकं स्यात् । न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः ॥ भावेऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति । न हि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् ॥ कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । न हि प्रतिबद्धं कार्यमजनयत् कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् ।
न चैवं सामग्रीवैगुण्यशङ्कया प्रतिबन्धकशङ्कया वा अस्याननुष्ठानम् । औत्सर्गिक खलु प्राणभृतां प्रवृत्तिः निवृत्तिस्तु अपवादात् । अन्यथैवंविधायाः शङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति ।
सममेतत्सकलं प्रकृतेऽपि । मङ्गलाचरणस्य निर्विघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्टाचारानुमितश्रुतिसिद्धत्वात् ।
न तावत्प्रेक्षावत्प्रवृत्तिर्विफला संभाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । न च फलान्तरानुसन्धाने प्रमाणमस्ति । न चैतेषामियं साध्यसाधनभावप्रतीतिर्भ्रान्तिः । तथा सत्यविगानानुपपत्तेः । न च प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्टाचारमूलं कल्प्यते ॥ न च विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् तत्सन्देहेऽप्यनुष्ठानस्य पाक्षिकोऽपि दोषः परिहर्तव्य इति न्यायप्राप्तत्वात् ॥
न च भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषाये ति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् ।
एतेन सूत्रकृता कृतमेव मङ्गलम् । किं नाम ग्रन्थादौ न निवेशितम् इत्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्टाचारप्राप्तत्वात्, शिष्यार्थत्वाच्च ॥ अत एव अन्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेण इति निरस्तम् ।
अत्रोच्यते । कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम्
ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ इति ।
तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥8॥
नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथा अधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यात् इत्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति ।
तरन्ति अनेन अनिष्टनिचयम् इत्योङ्कारः तारः । तारश्चाथश्च तयोः मूलत्वं क्रमेण आदित्वम् । आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् । तत्र प्रथमसूत्रे अवयवतया, सर्वशास्त्रस्य चाङ्गतया चेष्यते अङ्गीक्रियते, सूत्रकृतेति शेषः ।
एतदुक्तं भवति । प्रथमसूत्रे अधिकार्यादिप्रतिपादनायोपात्तौ ॐकाराथशब्दौ, शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वात् कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वाते । अन्यार्थानीयमानपूर्णकलशदर्शनवदिति । ताराथावि त्येतावता पूर्णे यत् मूलत्वम् इत्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् । यत्पर्यायान्तरं विहाय, अनयोरेव क्रमान्तरं विहाय, आदावेव उपादानं तेन जानीमो, ज्ञापकतया आदिसूत्रस्य, कारकतया समस्तशास्त्रस्य च, उपयोगित्वेन एतौ सूत्रकृता विवक्षितौ इति । न चैतद्यादृच्छिकम् । सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । न चानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति ॥ अनेन अथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति ।
अत्र यत्परेषां दूषणं मङ्गलस्य वाक्यार्थे समन्वयाभावादि ति । तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलम् अथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवद् अथशब्दस्य कार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः । अस्तु वा मङ्गलस्य पदार्थत्वम् । तथाऽपि न वाक्यार्थे समन्वयः । तथा हि । न तावत् मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थे अन्वेति । कर्त्राद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः, जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात् इति ॥ तदेतेनापास्तं भवति । अस्माभिरपि आनन्तर्याभिधेयः अथशब्दः श्रुत्या मङ्गलप्रयोजन(क) इत्यङ्गीकारात् ।
ननु अत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वम् इति । यद्यपि शिष्टैरध्येतृभिः उच्चार्यमाणः अध्यक्षसिद्धः तथाऽपि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया संपाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथा अथशब्दवत् संहिततया निर्दिश्येत ॥ न च दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेन अन्यान्यस्थाने अखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथा अध्ययनोपक्रमविरतिवैचित्र्येऽपि ओमिति ब्रह्म इत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवत् अध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु ॥ एवं च अयमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह सर्वत्र इति ।
अखिलैः सूत्रपाठकैः यत् पृथग् असंहिततया ॐक्रियते तत् सर्वत्र सूत्रेषु अनुगतत्वेन अभिलषितेन निमित्तेन उपपद्यते ।
एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वात् अवान्तरब्रह्मविद्याः । स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत इति श्रौतार्थवादसामर्थ्यात् सर्वास्वपि ब्रह्मविद्यासु आद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते ।
न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च प्रतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेव ओङ्कारः अधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे, प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते ।
न च व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोः अन्यथासिदि्धरुक्ता भवति ।
ननु च श्रौतार्थवादबलेन आद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवत् बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते । सत्यम् । सन्देहेऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्ध्याऽप्याभासत्वमेव । वक्ष्यमाणन्यायेन ओङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथा हि । अखिलैर्वेदपाठकैः पृथग् रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इति । अनेन दृष्टान्ते साधकस्य हेतोरन्यथासिदि्धरुक्ता भवति । तथा च दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् ।
तदेवं सिद्धे शास्त्रव्याख्येयत्वे, प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्, प्रयोजनाभिधेयसंबन्धवत्येव च प्रेक्षावतां प्रवृत्तेः, आरम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसंबन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्याम् ओतत्ववाचीत्यादिना आरभते ।
ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैव तन्निश्चयः, तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् । अथ प्रथमसूत्रात् तन्निश्चयः । तत्रैव कथं प्रवृत्तिः । तदर्थं च प्रयोजनान्तराभिधाने अनवस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति ।
उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते । न त्वनुभवो नापि फलगोचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । न हि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तररहितमिति नेष्यते । न च मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषार्थसाधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । न हि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् ।
उक्तं च प्रयोजनादिकं श्रोता कथं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते ।
तत्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आप्तत्वावधारणे, प्रयोजनाद्यनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रम् आप्तोक्तत्वादि ति । तथाऽपि नासौ प्रवृत्त्यङ्गम् । न हि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिम(लषि)तप्रयोजनादिमदिति । स च प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् ।
आप्तत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्यादाविव प्रवृत्त्युपपत्तिः । ननु सन्देहः प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेषस्मृतिश्च तदर्थित्वविशेषाद्भविष्यति ।
मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । न तु स्वातन्त्र्येण । न हि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्र उच्छृङ्खलः स्वयम् उत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन् अनर्थमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुत अशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् ।
अथवा अभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसंभावनासु न प्रवर्तेत । न च प्रयोजनाद्यभिधानेऽप्येतासामवकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । न हि कश्चिद्वैद्यवचनादावेवमाशङ्क्य निवर्तते । तस्मादुपपन्नमुभयथाऽपि प्रयोजनाद्यभिधानमिति ।
तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदा आगमतया न्यायसूत्रत्वहानिः ।
किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसंबन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत । आप्तत्वानिश्चयेऽप्यर्थसन्देहात् प्रवृत्तिरि ति चातिस्थवीयः । न हि कश्चित् प्रयोजनादिसन्देहे (सति) अतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्यायेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोद्बलकमात्रमि ति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादिवदस्याप्यतएवारम्भणीयत्वसिद्धेः नानवस्थादिदोषोऽपीति ।
कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुदि्धसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । न च विशेषो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् ।
ननु कस्यायं संशयः । न तावत्सूत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकयसंभावितसंशयाहरणोपपत्तेः ।
नन्विदं युक्त्यनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कर्तव्यतायामारम्भणीयं भविष्यति । न हि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति संभवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया ।
सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायाम् उभयविधव्यापारदर्शनाद् विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य अद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् ।
तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसंबन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्यादिकं हि सति विषयभूते भूम्यादौ, प्रयोजने च सस्याधिगमादौ, अधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमाना इतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिदि्धः ।
विषयादिसद्भावो हि जिज्ञासायाः कारणम् । न च कारणाभावे कार्यमुत्पत्तुमर्हति । विषयशून्यत्वादि्ध समनस्केन्द्रियसन्निकृष्टस्य स्फतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । संबन्धवैधुर्यादि्ध सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः ।
विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् ॥ न तावदनात्मविषयेयं जिज्ञासा ॥ तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् । सन्दिग्धश्चार्थो न्यायविषयो भवति । यथोक्तम् । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क इति । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः । नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते ।
एवंविधे चाधिकारी दूरोत्सारितः । यतोऽर्थी समर्थो विद्वानधिक्रियते । न चैतादृशेऽर्थेऽर्थिता संभवति ।
धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः । आत्मा तु (च) शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् । नन्वात्मा शरीरादिव्यतिरिक्तोऽहमिति असन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् । एवं तर्हि तत एव न जिज्ञास्यः । अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमानेऽपि इष्टानिष्टप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्टे ।
नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहंप्रत्यये प्रकाशते, तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्योऽतो जिज्ञासेति चेत् । एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः ।
अत एव न परात्मा जिज्ञास्यः । तस्य प्राणादिलिङ्गैरवगतत्वात् । सैव जिज्ञासेति चेन्न । तस्याः लौकिकप्रवेदनीयार्थत्वेन शास्त्राव्युत्पादनीयत्वात् । न खलु बालकः स्तनपानेष्टसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते । यत्क्वचिच्छास्त्रेऽपि लौकिकप्रवेदनीयार्थव्युत्पादनम्; अनुवादोऽसौ, न पुनः स एव प्रधानव्यापारः । ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न । तस्यैवाभावात् । न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयत्वोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्टे । प्रतीतार्थत्वोपपत्तावप्रतीतार्थता(त्व)कल्पनायां गौरवप्रसङ्गात् ।
जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् ।
किं चेश्वरः प्रमितो न वा । नोभयथाऽपि जिज्ञासा संभवति । नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् । कारणोपपत्तितः इति हि उक्तम् । प्रमाकरणस्य प्रमाणस्य, उपपत्तिः अनुग्रहः, तत्करणेन इत्यर्थः । न च बुद्धावनारूढं शक्यं जिज्ञासितुम् । प्रमितत्वे तु निश्चितत्वादेव । न चैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः । सामान्यतः प्रतीतौ विशेषे तदवकाशात् । न चात्र तथात्वं पश्यामः ।
किं चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् । न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत ।
किं चागमोऽपि भवन् वेद एव वक्तव्यः । अन्यस्यानाशङ्कनीयत्वात् पारतन्त्र्याच्च । वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रामाण्यतादवस्थ्यम् । किं च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य ।
प्रयोजनं चेश्वरजिज्ञासाया अभ्युदयो वा स्यात् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्यापि अपाम सोमम् इत्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । न चैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः ।
जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोती त्याद्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । तत्कर्म हरितोषं यत् इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च ।
किञ्चायमात्माऽविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाऽविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्र (तत्) कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः ॥ अथ परमार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । न च सत्यस्य अनादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्य आत्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता ।
अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथा चाभ्युदयतुल्यतयोक्तदोषः ॥ शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते ।
ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥
तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ॐ अथातो ब्रह्मजिज्ञासेति ।
यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्ये ति तदनुपपन्नम् । अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः ।
अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्ती ति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ । तेनायमर्थः सूचितः । ॐ इत्येतदक्षरमुद्गीथमुपासीत , तद्विजिज्ञासस्व तद्ब्रह्मे त्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते, ताभ्यां च तत् सकलजीवजडात्मकात्प्रपञ्चाद्विलक्षणमवगम्यत इति । तदयुक्तमिवाभाति । ॐ आदिपदस्य अलौकिकार्थेऽनवगतसङ्गतित्वात् । न हि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति । येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः । स्वर्गापूर्वदेवताद्यर्थोऽपि न पदप्रयोगादेव सिद्धः । किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः ओतत्ववाचीति ।
हि शब्दो हेत्वर्थे । ॐकारः तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः । गत्याद्यर्थस्यावतेः खलु रूपमेतत्, अवतेष्टिलोपश्चे ति सूत्रात् । ॐ इति पुनः कस्य वक्ते ति प्रश्नपूर्वकं अवतिर्नामाऽयं धातुर्गतिकर्मा प्रवेशनकर्मा चे त्यन्यत्राप्येवमेव निरुक्तत्वात् । तथा च यद्यसौ कर्मणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणोऽपेक्षायामुपपदाद्यभावेऽपि योग्यतया श्रुत्यन्तरादिबलाद्वाऽसावोङ्कारस्तस्य जिज्ञास्यस्य गुणैरानन्दाद्यनन्तकल्याणगुणैर्गुणान्वोततां वक्ति । पक्षद्वयेऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः । ब्रह्मशब्दस्यापि स एव अर्थः । बृहतेर्वृद्ध्यर्थस्य खल्वेतद्रूपम् । तथा च पूर्ववद्योग्यतया अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इत्यादिश्रुत्यन्तरादिबलाद्वा गुणानां संबन्धः ।
एतदुक्तं भवति । यौगिका हि शब्दाः नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते । किं नाम निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसंभावनायां प्रसिद्धमन्यथाऽपूर्वमेवार्थमवगमयन्ति । वाक्यरूपत्वात् तेषाम् । यथाऽऽह श्रोत्रियंश्छन्दोऽधीते वाक्यार्थे पदप्रयोग इति । न च वाक्यं सङ्गतिग्रहणापेक्षमर्थमवबोधयति । अधिगतार्थत्वप्रसङ्गादशक्यत्वाच्च ।
तदेतावोङ्कारब्रह्मशब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्व्यतिरिक्तमेव किञ्चिद्गमयतः । तच्च अविदितत्वात् संभवति जिज्ञासाविषयः । न च तत्रापि गुणपूर्णता विरुद्धा । प्राक्प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्य अनुत्थानात् । प्रतीत्या चैवमेव सिद्धत्वादिति ।
यत्पुनः अकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वंपदार्थस्याभेदो मकारेणोच्यते । ब्रह्मशब्देन च सकलवस्त्वात्मकत्वलक्षणपूर्णताऽभिधीयत इति व्याख्यानम् । तदप्रामाणिकं प्रमाणविरुद्धं च । यत्त्वाप्तेरादिमत्त्वाद्वेत्याद्योङ्कारस्य नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितमित्यादि ब्रह्मशब्दस्य व्याख्यानम्, तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितमनुमतं च ।
ननु गुणोततामि ति कथम् । वृदि्धरेची ति भवितव्यम् । मैवम् । ओमाङोश्च इति चशब्देनान्यत्रापि पररूपत्वानुशासनात् ।
अथवा ऊयते रूपमेतत् । नन्वसौ तन्तुसन्ताने पठ्यते । अनेकार्थत्वाद्धातूनामित्यदोषः । कथं तर्ह्योतत्ववाचीति गुणः । तत्रावतिरूपाङ्गीकारात् । वैचित्र्यं तु धातुद्वयजत्वसूचनार्थम् ।
अथवाऽऽकारोपसर्गपूर्वकोऽसावित्यदोषः ।
अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिदि्धः । तथापि ईश्वरस्य किमायातमित्यत आह नारायणेति ॥
स एव इत्यनुवर्तते । न हि नामि्न विप्रतिपत्तिरित्याशयः ।
अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् । नारायणं महाज्ञेयं इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दोऽपि श्रूयते । नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः । अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्ध्यतीत्यनेनोच्यते ।
एतदप्युपलक्षणम् । आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः । तेषामपि आत्मानमेव लोकमुपासीत इत्यादौ जिज्ञास्ये श्रवणात् । गुणपूर्णत्वाभिधायित्वाच्च । न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयताङ्गीकरणमिति वाच्यम् । यौगिकशब्दप्रयोगान्यथाऽनुपपत्तेरुक्तत्वेन कल्पनाभावात् । अन्यथा वाक्यादपि अलौकिकार्थप्रत्ययो न स्यात् । लौकिकार्थ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् । किञ्च क्वचिन्मुख्यार्थ एव शब्दोऽनुपपत्त्या क्वचिदमुख्यार्थोऽनुगम्यते । न पुनरमुख्यार्थ एव । तथा च श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव । ततश्चानेन किं कृतं स्यात् । जीव एवैते मुख्यार्थास्तदनुपलब्धिस्तु अविद्यावरणनिमित्तेति चेन्न । यतोऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति ।
यदत्रोक्तमीश्वरः प्रमितो न वेति । तत्र प्रमित इत्युत्तरम् । तत्पक्षदोषश्च परिहरिष्यते । तथा च शास्त्रस्य विषयसंबन्धः समाहितो भवति ।
यत्पुनरत्रोक्तं केन प्रमाणेनेति । तत्र वेदेनेति वदामः । वेदस्येश्वरविषयता कुत इत्यतोऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः ।तत्कथमस्यार्थस्योपपादकमित्याशङ्क्य इदमत्राकूतं सूत्रकारस्येत्याह व्याहृतीनां चेति ।
स एवार्थ इति संबन्धः । ओङ्कारस्तावद्भगवत ईश्वरस्य वाचकः । ओमिति ब्रह्म इत्यादिश्रुतेः । अतः स एव व्याहृतीनां च भूरादीनामर्थ इति गम्यते । प्रणवार्था व्याहृतय इत्याद्यागमेन तिसृणां व्याहृतीनां वर्णत्रयात्मकोङ्कारव्याख्यानतया अवगतत्वात् । व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति । एवकारो व्याहृतीनामग्निवायुसूर्यदेवताकत्वप्रसिद्ध्या तत्प्रतिपादकत्वभ्रमं निवारयति । अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्ध्युपपत्तेः । अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः । केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह भूमत इति ।
भूमा पूर्णत्वं, ततो भूः । भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत् । भावनात् जगत उत्पादनात्, भुवः । भवतेरेवान्तर्णीतण्यर्थस्य कप्रत्यये रूपम् । सुत्वात् सुखत्वात्स्वः । स्वःशब्दो हि सुखवाची प्रसिद्धः । चकारौ निमित्तान्तरसमुच्चये । यथोक्तम् ।
पूर्णो भूतिवरोऽनन्तसुखो यद्व्याहृतीरित इति ॥
एतैरेव निमित्तैर्व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन । तस्य प्रमाणविरुद्धत्वात् । भूरिति वा अयं लोक इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः ।
किमतो न हि व्याहृतय एव वेद इति चेत् । व्याहृत्यर्थतया तावत्परमेश्वरस्य गायत्रीप्रतिपाद्यता अवगम्यते । त्रिपदायाः गायत्र्याः व्याहृतित्रयव्याख्यानत्वस्यागमसिद्धत्वात् । ननु गायत्र्यां यो भर्गो नोऽस्माकं धियः प्रचोदयात् प्रेरयेत्, तस्य सवितुर्देवस्य तत् वरेण्यं रूपं धीमहि चिन्तयाम इति भर्गनामकः सविता प्रतिपाद्यो दृश्यते । तत्कथं भगवत्परत्वमित्यत आह स एव भर्गशब्दार्थ इति ।
भरणगमनयोगादिति शेषः । उपलक्षणं चैतत् । जगत्प्रसवहेतुत्वात्सवितेत्यपि द्रष्टव्यम् ॥ न तु सूर्यः । तथात्वे गायत्र्या व्याहृत्यर्थत्वानुपपत्तेः । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण इत्याद्यागमविरोधाच्चेत्येवार्थः ।
अस्तु गायत्र्यर्थो नारायणः किमेतावताऽपि । गायत्र्यर्थत्वात्पुरुषसूक्तार्थोऽपि स एवेति सिद्ध्यति । वर्गत्रयात्मकस्य तस्य त्रिपदागायत्रीव्याख्यानत्वेन तद्भेदः पौरुषं सूक्तमि त्याद्यागमसिद्धत्वात् । ननु पुरुषसूक्ते पुरुषस्य पशोर्हिरण्यगर्भस्य वा प्रतिपादनात्कथं नारायणः प्रतिपाद्यत इत्यत आह सोऽयमिति ।
पूर्णत्वादिनेति शेषः । तथा च श्रुतिः स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् इति । अन्यथोक्तयुक्तिविरोधः । वक्ष्यते चैतत् ।
सिद्धे च पुरुषसूक्तार्थत्वे विष्णोः किं स्यात् । सर्ववेदार्थत्वमेव सिद्धम् । वेदाः पुरुषसूक्तगा इत्यागमेन सर्ववेदानां पुरुषसूक्तार्थतयाऽवगतत्वादित्याह स एवेति ।
एवशब्दः कार्यादिव्यावृत्त्यर्थः । सर्वे वेदा यत्पदमामनन्ति इत्यादिश्रुतिसिद्धमपि भगवतः सर्ववेदार्थत्वं न्यायेनोपपादयितुमयं प्रयत्नः सूत्रकारस्य ।
स्यादेतत् । ईश्वरः सर्ववेदार्थस्तद्व्याख्येयोङ्कारार्थत्वात् । यो यद्व्याख्येयार्थः स तदर्थो यथा संप्रतिपन्न इति वा सर्वो वेद ईश्वरपरस्तत्परोङ्कारव्याख्यानत्वादि ति वा साक्षादेवानुमानं किं न व्याख्यायते । तद्यथा सर्वाणि पर्णानि शंकुना सन्तृण्णान्येवमोङ्कारेणैव सर्वा वाक् सन्तृण्णा इत्यादिश्रुत्या हेत्वर्थसमर्थनं भविष्यति, किमनेन परम्पराव्याख्यानेन । सत्यम् । तथाऽपि वाक्यान्तरबलेन न सर्वा वागोङ्कारव्याख्यानं साक्षात्, किं नामोक्तप्रकारेण परम्परयैवेति ज्ञापयितुमित्थं व्याख्यानमित्यदोषः ।
ननु चेश्वरे प्रमाणं पृष्टवत ओङ्कारब्रह्मशब्दावेव कस्मान्नोक्तौ किं वेदानुमानेन । न च पदस्याप्रमाणतेति वाच्यम् । यौगिकपदप्रामाण्यस्य उक्तत्वात् । मैवम् । मीमांसानुग्राह्यप्रमाणस्य पृष्टत्वात् । न चोङ्कारादिमात्रं तथा विवक्षितम् । किं नाम समस्तो वेद एवेति ।
किमतो यद्येवमीश्वरः सर्ववेदार्थ इति चेत् । विषयसंबन्धसंभवाज्जिज्ञासायाः कर्तव्यता शास्त्रस्य चारम्भणीयत्वं सिद्धमित्याशयवान् साकाङ्क्षस्य वाक्याभासस्याप्रतिपादकत्वात् आकाङ्क्षिताध्याहारं सूचयन् सूत्रवाक्यार्थमाह जिज्ञास्य इति ॥
अयम् इति उक्तविधया जीवजडात्मकात्प्रपञ्चात् अत्यन्तविविक्तत्वेन निश्चिततया विषयभूतः सर्ववेदार्थतया शक्यप्रतिपादनश्चेत्यर्थः ।
ननु वेदानामीश्वरप्रतिपत्तिजनकत्वाद् भवतु तद्विषयत्वम् । शास्त्रं तु तेषामीश्वरप्रतिपादनानुसरणोपायन्यायविषयं कथमीश्वरपरमुच्यते । मैवम् । वेदानामीश्वरमवबोधयतामितिकर्तव्यता हि मीमांसा । तेनोपकारकत्वाद् भवति तद्विषया । तद्द्वारा शास्त्रमपि । न हि बीजस्यांकुरं जनयतः सहकारिणो जलादेरंकुरो न कार्यम् ।
ननु मीमांसाऽपि संभावनादिविषया कथमीश्वरविषया भवति । मैवम् । द्विविधं खलु कर्म कारकं भवति । किञ्चिदव्यवधानेन व्यापारजन्यातिशययोगि, यथोद्यमननिपतनव्यापारजन्योर्ध्वाधोदेशसंयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्म भवति । किञ्चिदुद्देश्यफलसंबन्धितया करणव्यापारव्यवधानेन, यथा द्वैधीभाववान् वृक्षः । तत्र कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मतेव मीमांसाव्यापारस्यापि प्रमाणादिसंभावनाद्वारेण ईश्वरावबोध एवोद्देश्य इति भवति तत्कर्मता ।
स्यादेतदेवम् । यदि वेदेतिकर्तव्यताविचारः स्यात् । न चैवम् । विनाऽपि विचारेण शब्दोपलब्धिसमयग्रहणतत्स्मरणसहकृताच्छब्दादेवार्थावगमदर्शनात् । न च मन्तव्यं शक्तितात्पर्याज्ञानविपर्ययदोषाच्छब्दः संशयविपर्ययावुत्पादयति । तत्र दोषापनयनेन संशयादिव्युदासाय शक्तितात्पर्यविचारोऽङ्गं भवतीति । यतस्तत्रापि शब्दो विना विचारेण तत्त्वज्ञानस्येष्टे । किं नाम प्रतिबन्धमात्रं विचारेणापनीयते । न हीतिकर्तव्यतैवम् । तत्कथं वेदेतिकर्तव्यता जिज्ञासा । कथन्तरां चेश्वरविषया । कथन्तमां च शास्त्रस्य तद्विषयतेति ।
अत्रोच्यते । सत्यमेवम् । तथापि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वादुपपन्नमीश्वरविषयत्वम् ।
एतेनैतदपि निरस्तम् । ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात्किं मीमांसयेति । युक्तिवाक्याभासजनितविप्रतिपत्तिप्रतिबन्धस्य उक्तत्वात् ॥ तथा हि । वेदप्रामाण्यमेव अनङ्गीकुर्वाणाः केचिदीश्वर एव नास्तीति प्रतिपन्नाः । अपरे तु तदङ्गीकृत्यापि तद्वाचिनां पदानां जीवादिविषयतां व्याकुर्वन्तस्तदभावमास्थिताः । अन्ये तु पुनरस्तीश्वरः किन्तु परमार्थतो निर्गुण एवेति सङ्गिरन्ते । एके तु सगुणोऽपि न जगतः कारणमपि तूदासीन एवेत्यातिष्ठन्ते । केचित्कारणत्वेऽप्युपादानमित्यभ्युपयन्ति । निमित्तमात्रत्वेऽपि कतिपयगुणं गुणेभ्यो भिन्नमन्ये मन्यन्ते । इतरे तु भिन्नाभिन्नमुपगतवन्तः । केचिद्विग्रहवन्तम् इत्येवमाद्यास्वनेकासु विप्रतिपत्तिषु सतीषु तत्त्वज्ञानकरणादपि वेदात्तदनुत्पत्तौ तदपनोदनद्वारेण वेदेतिकर्तव्यतारूपा जिज्ञासा कर्तव्येति ।
तत्र तावद् ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासो न पुनर्धर्माय जिज्ञासेतिवत् चतुर्थीसमासः । तादर्थ्यसमासे प्रकृतिग्रहणं कर्तव्यमिति वार्तिककृता प्रकृतिविकारभाव एव चतुर्थीसमासस्य नियमितत्वात् । तथैवोदाहरणं यूपाय दारु यूपदार्वि ति । प्रकृतिविकारभावरहितेषु चाश्वघासादिषु अश्वघासादयः षष्ठीसमासा भवन्तीति प्रतिविहितम् । न चात्र प्रकृतिविकारभावः अस्ति ॥ षष्ठीसमासेऽपि केचिच्छेषे षष्ठीति प्रतिपन्नाः । केचित्कर्मणीति । तत्र कर्मणि षष्ठीपरिग्रहाय जिज्ञास्य इत्युक्तम् । कृत्यानां कर्मणि स्मरणात् । अन्यथा जिज्ञासास्येत्यवक्ष्यत् । जिज्ञासा खलु कर्मापेक्षा, विना कर्मणा न ज्ञातुं शक्या ॥ न तु संबन्धिनं विनेति कर्मणः प्राधान्यात्तदेव वक्तव्यम् । संबन्धिसामान्योक्तावर्थात्कर्मापि लभ्यत इति चेन्न । साक्षात्प्रतीतपरित्यागेनार्थलभ्यस्वीकारस्य वैयर्थ्यात् । एवं सति लक्षणादिजिज्ञासाऽपि प्रतिज्ञाता स्यादिति चेन्न । तस्या विनाऽप्यभिधानेन लाभात् । न हि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासाऽस्ति । अन्यथाऽनेकविषयत्वेन शास्त्रभेदप्रसङ्गः । निर्विषयताशङ्कापनोदार्थं प्रयुक्तं पदमिदं कर्माभिधाय्येव युक्तम् । तद्विजिज्ञासस्वेत्यादिश्रुत्यर्थानुगतं चैवं सति सूत्रं स्यात् ।
ननु च प्रतिपदविधाना षष्ठी न समस्यत इति कर्मणि षष्ठ्याः समासः प्रतिषिद्ध्यत इति चेन्न । कृद्योगलक्षणा च षष्ठी समस्यत इति प्रतिप्रसवात् ।
अथवा ब्रह्मणः कर्मत्वेनाप्राधान्यशङ्कां निवर्तयितुं जिज्ञास्य इति कर्मप्राधान्यं सूचितम् । ज्ञानविधौ हि ब्रह्मणोऽप्राधान्यं स्यात् । तज्ज्ञानोद्देशेन जिज्ञासाविधाने कुतः अप्राधान्यम् ।
विधीयत इत्यनेन कर्तव्येति पदाध्याहारं सूचयति ॥
ननु भवतीति स्वतःसिद्धम् । मैवम् । तथा सत्यनुवादत्वप्रसङ्गात् ।
अत्रैके चोदयन्ति । सिद्धैव ननु ब्रह्मजिज्ञासा । अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वादभ्यधिकाशङ्काऽभावादिति ।
तत्र केचिदभ्यधिकाशङ्कां प्रदर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते । अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तो विचारितश्च । न वस्तुतत्त्वनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत इत्याहुः ॥ सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते । सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात् । धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्मविचाराय प्रवृत्तमित्याशयेन वा स एव भर्गशब्दार्थ इत्याद्युक्तम् । तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः । स एव न तु कार्यशेषतयेत्याद्यं समाधानं, सर्वेति द्वितीयं च, निरस्तम् । तदुपपादनाय पूर्ववाक्यम् । जिज्ञास्य इति साध्यनिर्देशः । वक्ष्यति च एतद्विस्तरेण कार्यता चेत्यादिना ।
ब्रह्मजिज्ञासाया निष्प्रयोजनत्वं शङ्कितमपाकर्तुं अतःशब्दं व्याचष्टे ज्ञानीति ।
तं विद्वानित्यनेन तमेवं विद्वानमृत इह भवति इति वाक्यम्, एवशब्देन नान्यः पन्था अयनाय इत्युत्तरवाक्यमवधारणार्थं च संगृहीतम् । चशब्दो वाक्यसमुच्चये ।
वृणुते यम् इत्यनेन यमेवैष वृणुत इति वाक्यं संगृहीतम् । आदिपदेन आत्मा वा ओ द्रष्टव्य इत्यादेः संग्रहः । हिशब्दो हेतौ । एवशब्दः प्रत्येकमभिसंबध्यते ।
यस्मात् तस्य ब्रह्मणो नारायणस्य प्रसादात् परमानुग्रहादेव मुच्यते संसारात् । न तु कर्मादिनेति तमेवं यमेवैष वृणुत इति श्रुतिबलेन गम्यते । यद्यपि तमेवमि ति परमपुरुषप्रसादो न श्रूयते । तथाऽपि यमेवैष वृणुत इति वाक्यानुरोधेन तत्राप्यनुसन्धेयः । निमित्तेन नैमित्तिकोपलक्षणात् । मुमुक्षुसंबन्धिसाधनावधारणाय तु न साक्षादुक्तः । वरणं तु प्रसाद उच्यते । अपाम सोमम् इत्याद्यास्तु श्रुतयः सावकाशत्वादन्यथा योज्याः । ईश्वरपरमप्रसादश्च तज्ज्ञानादेव भवति, न पुनः कर्मादिने ति ज्ञानी प्रियतमः , तमेवं विद्वानि त्युक्तिबलेनावगम्यते । विद्वानित्यस्यापि प्रसादातिशयद्वारेणेत्यर्थपर्यवसानस्योक्तत्वात् । कर्मादेरनुग्रहमात्रहेतुत्वेनापि तद्वचनं सार्थकम् । ईश्वरज्ञानं च तज्जिज्ञासयैव नान्येनेति आत्मा वा ओ द्रष्टव्य इति परमात्मदर्शनानुवादेन तत्साधनतया श्रोतव्य इत्यादिना श्रवणादिविधायकोक्तिबलेन प्रतीयते । कर्मणां त्वन्तःकरणशुदि्धद्वारेण ज्ञानाङ्गत्वोपपत्तेस्तद्वाक्यं सार्थकं भविष्यति । अतो ब्रह्मजिज्ञासा कर्तव्येति संबन्धः ।
इदमुक्तं भवति । यद्यपि न जिज्ञासायाः स्वर्गादिरूपोऽभ्युदयः प्रयोजनं संभवति । तथाऽपि मोक्षो भविष्यति । तस्यानन्यसाध्यत्वात् । मोक्षसाधनं हि साक्षात् भगवानेव । बन्धको भवपाशेन भवपाशाच्च मोचक इत्यादिवचनात् । साधनं च द्विविधम् । सिद्धमसिद्धं च । तत्रासिद्धमुत्पाद्यं फलकामेन । यथा यागादि । सिद्धं तु सव्यापारीकरणीयम् । यथा कुठारादि । सिद्धं च साधनं भगवानिति मुमुक्षुणा सव्यापारीकरणीयः । व्यापारश्च प्रसन्नता एव । निगडादिमोचकेषु राजादिषु तथा दर्शनात् । यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण इत्यादिश्रुतेश्च । व्यापारप्राधान्योक्तिश्च इन्द्रियार्थसन्निकर्षः प्रत्यक्षमित्यादाविव औपचारिकी । मोचकश्चेश्वरप्रसादस्तद्भक्त्येकसाध्यः । भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचिदि त्यादिवचनात् । स्वर्गादिहेतुप्रसादमात्रं कर्मादिसाध्यम् ।
कर्मणा त्वधमः प्रोक्तः प्रसाद इत्यादिस्मृतेः । प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः काचित् क्षतिः । परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्योऽनेकगुणाधिकोऽन्तरायसहस्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाहः । यमधिकृत्य यत्र नान्यत्पश्यति सा निशा पश्यतो मुनेः इत्यादिश्रुतिस्मृतयः । न चासौ तत्साक्षात्कारमन्तरेणोत्पद्यते । लोके तथाऽदर्शनात् । न चाव्यक्तस्वभावो भगवांत्सहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुं, विना तदनुग्रहात् । प्रसन्नस्त्वनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते । दर्शनसाधनं चानुग्रहः स्वयोग्यगुणोपेतस्य निर्दोषस्य भगवद्विग्रहविशेषस्य आदरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद् बहुकालोपचितान्निदिध्यासनापरनामकाद्विचिन्तनादृते न लभ्यते । न च निदिध्यासनं वाक्यार्थग्रहणलक्षणे श्रवणे कृतेऽपि विना मननापरनाम्ना विचारेणोपपद्यते । संशयविपर्ययोस्तादवस्थ्यात् । न हि तयोः सतोरादरनैरन्तर्याद्युपपद्यते । अतो जिज्ञासा निदिध्यासनपरमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षसाधनत्वात् कर्तव्येति ।
ये तु ध्यानमेव परमपाटवापन्नमपरोक्षाकारमिति मन्यन्ते तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन् ।
स्यादेतत् । अतःशब्दस्तावत्प्रकृतस्य हेतुभावे वर्तते । तत्र ब्रह्मजिज्ञासायाः प्रयोजनाकाङ्क्षायामधिकारिविशेषणतयाऽथशब्देन प्रकृतो मोक्षः संबध्यते । ज्ञातुमिच्छा जिज्ञासा । न चात्रावयवार्थेन जिज्ञासाशब्दोऽर्थवान् । इच्छायाः स्वातन्त्र्याविषयत्वेन विधातुमशक्यत्वात् । अत एवेष्यमाणज्ञानोपलक्षणाऽप्ययुक्ता । तस्माज्ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यते । मुख्यप्रयोगातिक्रमेण लाक्षणिकाश्रयणे चेदं प्रयोजनम् यत् विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञापनम् । अन्यथा योग्यताविरहेणान्वयाभावप्रसङ्गात् । यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसंख्यायते तदाऽप्यन्वयव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता ज्ञास्यते ।
एवं च विचारो यतो ज्ञानसाधनं ज्ञानं च मोक्षसाधनम् अतः असौ कर्तव्य इति लभ्यते । मोक्षादेरन्यलभ्यत्वस्य शङ्कितत्वात्सावधारणताऽपि ।
ईश्वरप्रसादस्य तु ज्ञापकं न किंचिदत्र पश्यामः । न च ज्ञानस्य मोक्षसाधनता न युक्ता । येनेश्वरप्रसादो मध्येऽध्याह्रियते । आत्मयाथात्म्याज्ञानादनात्मनि शरीरादावात्मत्वारोपे सति हि तदनुकूलप्रतिकूलयो रागद्वेषौ भवतः । ताभ्यां प्रयुक्तः पुण्यपापलक्षणां प्रवृत्तिमाचिनुते । ततश्च सुरनरतिर्यगादिनानायोनिषु नवीनशरीरेन्द्रियादिसंयोगलक्षणं जन्मास्य भवति । तस्माच्च दुःखानुभव इत्यनादिरयं कार्यकारणप्रवाहः संसार इत्युच्यते । आत्मतत्त्वज्ञानाच्चाज्ञानविपर्ययौ निवर्तेते । तत्त्वज्ञानस्य स्वसमानाश्रयविषयाज्ञानमिथ्याज्ञाननिवर्तनस्वाभाव्यात् । शुक्तिकातत्त्वज्ञानस्य तदज्ञानरजतारोपनिवर्तकत्वदर्शनात् । मिथ्याज्ञाननिवृत्तौ च रागद्वेषानुदयः । कारणाभावात् । तयोरभावे च न प्रवृत्तेरुत्पत्तिः । तत एव प्रागुपचितायाश्चोपभोगेन प्रक्षयः । प्रवृत्त्यभावे च जन्मान्तराभावो हेत्वभावादेव । वर्तमानशरीरादेश्चारंभकक्षये सति निवृत्तिः । जन्माभावे च न निर्बीजस्य दुःखस्योत्पाद इत्येवमात्यन्तिक दुःखनिवृत्तिर्मुक्तिः । तथा च ज्ञानस्वभावलभ्यायां मुक्तौ किमीश्वरप्रसादेन ॥ न हि अन्धकारनिबन्धनदुःखनिवृत्तये प्रदीपमुपाददानाः कस्यचित्प्रभोः प्रसादमपेक्षन्ते । स्वभावो हि प्रदीपस्यायं यत्समानाधिकरणान्धकारनिवर्तकत्वम् । तथा च न्यायसूत्रम् । दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति ।
यत्तु मोक्षस्येश्वराधीनत्ववचनं तज्ज्ञानादिजन्मनीश्वरस्य निमित्ततापरमित्यविरुद्धम् । तदर्थं च तदुपास्त्यादेरुपयोगः ।
तदेवं ज्ञानस्वभावेनाज्ञानादिनिवृत्तौ कारणाभावे कार्यानुदयस्य ईश्वरप्रसादानपेक्षत्वादयुक्तमिदमतःशब्दव्याख्यानमित्यत आह द्रव्यमिति ।
द्रव्य शब्देन प्रकृत्यादितत्त्वमुच्यते । कर्मेति धर्माधर्मौ । स्वभावः प्रकृत्यादीनां परिणामादिः । जीव इत्यभिमानी । एव इति यदनुग्रहत इत्यतःपरं द्रष्टव्यम् । अनेन सर्वोत्पत्तिमदुपादाननिमित्तानां सत्ताऽपि परमेश्वराधीनेत्युच्यते । न ऋते त्वत्क्रियते किञ्चन इति श्रुत्या सर्वार्थक्रियायास्तदधीनत्वम् । इत्यादेः आगमादवगम्यत इति शेषः । ज्ञानस्वभावतोऽपी ति अपिशब्देनाङ्गीकारवादोऽयमिति सूचयति । हि शब्दो हेतौ । यस्मादेवं तस्मादुपपन्नं पूर्वव्याख्यानमिति ।
ततश्चायमर्थः । स्यादेतदेवं यद्यज्ञानमात्रनिबन्धनोऽयं बन्धो जीवस्य स्यात् । न चैवम् । श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात् । औतिनामविद्याधीनजीवब्रह्मविभागवत् तार्किकादीनां च गुणवत्त्वाधीनद्रव्यत्ववदनादेरपीश्वराधीनत्वोपपत्तेः । उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपोऽयं जीव इति पुंस्त्वादिवत् इत्यादिना । तद्भावानुपलब्धिश्चानुभवसिद्धा । तेनावगम्यतेऽस्ति किमप्यावरकम्, येनावृतः स्वप्रकाशचैतन्यरूपोऽपि नात्मनस्तत्त्वं वेद ॥
न च कामकर्मादिकमेव तथा भवितुमर्हति । तस्यापि सादिनः कारणापेक्षत्वात् । न च पूर्वपूर्वस्मादुत्तरोत्तरमिति युक्तम् । सुप्तिप्रलययोः तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात्स्वरूपावभासप्रसक्तेः । अतः कामकर्माद्यतिरिक्तं मायाऽविद्या प्रकृतिरि त्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयम् । अनादिमायया सुप्त इत्यादिश्रुतिस्मृतयश्चात्र भवन्ति ॥
न च मायाऽपि कथं स्वप्रकाशमावृणोती ति युक्तम् । आवरकतयैव तस्याः प्रमितत्वात् । वक्ष्यते चात्रोपपत्तिः । न च जडस्य स्वतः किञ्चित्करत्वं युक्तम् । द्रव्यं कर्म चे त्यादिवाक्यविरुद्धं च ।
अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्या अचिन्त्याद्भुतया स्वशक्त्या च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तम् । स एव च स्वाधिष्ठानलब्धपरिणाममहदहङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्त्र्यं कारकफलस्वाम्यं चास्याविद्यमानमेवोपदर्श्य रागाद्युत्पादनद्वारा दुःखमनुभावयति ।
तदेवं बन्धस्येश्वराधीनत्वात्स एव मोचकोऽङ्गीकार्यः । अपरस्य स्वातन्त्र्याभावात् । प्रसन्न एवासौ स्वकयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वोऽप्ययं साधनसन्दर्भ इत्युक्तम् । ततो यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते तथाऽप्यनुपपत्त्या अङ्गीकरणीय इति युक्तं व्याख्यानम् । वक्ष्यति चैतत्सूत्रकारः ततो ह्यस्य बन्धविपर्ययौ इति । एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत्साक्षान्मोक्षसाधनत्वम् । अस्तु वा तथाऽपीश्वरप्रसादोऽपेक्षितः । सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्यानुदयादिति ॥ अङ्गीकारवादस्य चेदं प्रयोजनं यत्पूर्वस्यैवार्थस्य समर्थनम् । तथा हि । येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छा त्यक्तुं शक्यते । कारकप्रेरकत्वादिनाऽवश्याभ्युपगमनीयत्वात् । तथा च किमनेन ज्ञानेनाप्रमितेन । प्रमित ईश्वर एवाङ्गीकार्य इति ।
यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावादेवोत्तरप्रवाहानुत्पादमात्रम् । तत्र का नाम परमेश्वरापेक्षा । तद्वचनानि तु ज्ञानोत्पत्त्यादिनिमित्ततापराणी ति । तदनुपपन्नम् । ज्ञानप्रदानाद्यतिरिक्तस्यापि ईश्वरप्रयोजनस्यागमेषूक्तेः इत्याह अज्ञानामिति ।
मोक्षदः प्रागुक्तप्रकृतिबन्धात् ।
नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत् । अत्राह कश्चित् । न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम् । किन्तु विरोधिसन्निपातासन्निपातावेव । किञ्च लोके तावदनादिः प्रागभावो निवर्तते । सुगतानां तत्त्वपरिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्टा । नैयायिकानामप्यनादिमिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते । साङ्ख्यानामप्यविवेको निवर्तते विवेकेन । मीसांसकानामिदानीन्तनधर्मतत्त्वज्ञानप्रागभावोऽनादिर्निवर्तते ।अनादिभावरूपस्य न निवृत्तिरिति चेन्न । अनिर्वचनीयत्वादज्ञानस्य । अनादिर्न निवर्तत इति सामान्यव्याप्तिः । ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः । अतः सैव बलवती ।
ननु स्वोपादानगतोत्तरावस्था विनाशः । तत्कथमनादेर्निरुपादानस्य विनाशः । न । स्वाश्रयगतोत्तरावस्थेत्येतावत्वात् । अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात् ॥ अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् ॥ कस्तर्हि निर्णयः । ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति ।
तदयुक्तम् । तथाहि ।यत्तावत् न सादित्वमनादित्वं वे त्यादि । तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते किंवा निवर्तकसद्भावेन सत्प्रतिपक्षता । नाद्यः । साधनव्यापकत्वात् । न द्वितीयः । असिद्धेः । न हि अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति । किन्त्वनादित्वेन तदभावमप्यनुमिनोति ।
यदपि प्रागभावे व्यभिचारोद्भावनं तदपि भावत्वेन हेतुविशेषणादयुक्तम् । यदपि सुगतानामित्यादि तदत्यन्तमसङ्गतम् । न हि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति । न च तद्व्यतिरिक्तं सन्तानम् । येन तत्र व्यभिचार उद्भाव्येत । न च नैयायिकादयो मिथ्याज्ञानस्यानादितां तद्व्यतिरिक्तं वा प्रवाहमङ्गीकुर्वते । परमाणुश्यामताऽपि सादिरेव । न हि परमाणुपाकस्येदंप्रथमता तत्सिद्धान्तः ।
यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम् । तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत् किमनेन प्रकृतानुपयुक्तेन । प्रतिपक्षोऽयमिति चेन्न । परस्यासिद्धेरव्याप्तेश्च । भावाभावविलक्षणत्वमनिर्वचनीयत्वम् । तेन विशेषणासिदि्धरुच्यत इति चेन्न । स्वोक्तिविरोधात् । स्वयमेव हि अनादिभावरूपं यद्विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपाज्ञानसाधनाय प्रमाणान्युपन्यस्तानि । अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न । तस्यैव हेतुविशेषणत्वोपपत्तेः ।
नन्वत्रोक्तम् । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति । सत्यमुक्तं दुरुक्तं तत् । प्रागभावस्यापि सत्त्वाङ्गीकारात् । अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम् । तदा अभाववैलक्षण्याङ्गीकारविरोधेनासिदि्धप्रसङ्गः । अत्यन्ताभावे व्यभिचारश्च । तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः । किञ्चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् । तथाऽप्यारोपितं भावत्वं तत्रास्तीति चेत् । तदविद्यायामपि समानमित्यसिदि्धः ।
यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः । तेन बलाबलनिश्चय इति चेत् । स किं सामान्यविशेषभावमात्रेण उत अव्यभिचारादिसंपत्तौ सत्याम् । आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निक इति विशेषव्याप्तिः बलवती प्रसज्येत । द्वितीये किं सामान्यविशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यताम् । किं वा अनेन प्रबलत्वेन दुर्बलत्वेन च । विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत् । किं सङ्कोचनं बाध्यत्वमुत व्यभिचारप्रदर्शनमथोपाध्युद्भावनम् । नाद्यः । यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयम्, न पुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात् । सामान्यविशेषभावे तूक्तम् ।
न द्वितीयः । व्यभिचारस्थलस्यादर्शितत्वात् । व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धेऽनादित्वस्य तत्रैव व्यभिचार इति चेत् । तर्ह्येतदेवोच्यताम् । किं सामान्यविशेषभावेन । अनादित्वेनाज्ञानस्यानिवर्त्यत्वे सिद्धे अज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात् । अस्तु तर्हि प्रतिपक्ष एवेति चेत् । किं व्याप्तिमात्रेणोत पक्षधर्मतोपेतया व्याप्त्या । न प्रथमः । व्याप्तिमात्रस्याप्रतिपादकत्वात् । अन्यथा पक्षधर्मतावैयर्थ्यात् । द्वितीये संसारकारणमज्ञानं ज्ञाननिवर्त्यं भवितुमर्हति अज्ञानत्वात् शुक्तिकाऽज्ञानवदित्युक्तं स्यात् । अत्रापि किं सामान्यविशेषभावेन । किं च शुक्तिकाऽज्ञानं नाम किं ज्ञानाभावोऽथ भावरूपमज्ञानम् । आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि शब्दसाम्यमात्रेण दृष्टान्तदार्ष्टान्तिकभावोऽस्ति । तथात्वे गोत्वेन वागादीनामपि ्ङ्गित्वसाधनप्रसङ्गात् । द्वितीये किं तत्साद्युतानादि । आद्ये कथमयं विशेषः स्यात् । द्वितीये तदपि पक्षतुल्यम् ।न तृतीयः । अज्ञानेतरत्वस्य समव्याप्त्यभावात्पक्षेतरत्वाच्च ।
एतेन ज्ञानाज्ञानकृतो विशेषान्वय इति निरस्तम् ।
यदपि निरुपादानस्य विनाशानुपपत्तिमाशङ्क्योक्तं स्वाश्रयगतोत्तरावस्था विनाश इति । तदनुपपन्नम् । अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्तदा भूतलादपसारिते घटे घटविनाशः स्यात् । परमाणुश्यामताप्रतिबन्दी तु तस्या अपि सोपादानत्वेनैव निरस्तेति ।
अत्रोच्यते । यत्तावदविद्याया अनादित्वेनानिवृत्तिरिति सोऽयं प्रसङ्गः स्वतन्त्रानुमानं वा । नाद्यः । अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपर्ययापर्यवसानात् । न द्वितीयः । विश्वमायानिवृत्तिः मायामेतां तरन्ति ते तरन्त्यविद्याम् इत्यादिश्रुतिस्मृतिविरुद्धत्वात् । अनादेरपि निवृत्तौ बाधकाभावेनाप्रयोजकत्वाच्च । आत्मनोऽपि निवृत्तिप्रसङ्गो बाधक इति चेन्न । व्याप्त्यभावात् । निवर्तकभावाभावाभ्यां विशेषोपपत्तेः । प्रमितनिवर्तकानभ्युपगमस्य अनुचितत्वात् । अनादित्वेन निवर्तकाभावानुमानस्य बाधितत्वात् ।
एतेन निवर्तकाभावस्योपाधित्वं तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम् ।
नन्ववयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टस्तत्कथमत्र विनाश इति चेत् । कुतोऽयमुभयाभ्युपगमः । एकैकपरिहारेणापि विनाशदर्शनादिति चेत् । तर्हि सादेरेवमस्तु । अनादेस्तृतीयोऽपि प्रकारोऽनुसर्तव्यः । प्रमितत्वादेव विनाशस्य । अनादेः कदृशो विनाश इति चेत् । स्वरूपप्रध्वंस एव । स्वोपादानगतोत्तरावस्था स्वोपादानमात्रत्वापत्तिरित्यादि कार्यविषयम् । नन्वविद्या चेन्निवर्तेत । तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात् । न स्यात् । प्रतिजीवमविद्याभेदाङ्गीकारात् । अत्र विशेषः स्वगुणाच्छादिका त्वेका इत्यागमादनुसन्धेयः ।
स्यादेतत् । ब्रह्मविदामप्यविद्याऽनुवर्तते । तेन न श्रुतिस्मृतीनां प्रामाण्यम् । ब्रह्मसाक्षात्कारः अविद्यानिवर्तकः न विवेकमात्रमिति चेन्न । तद्वतामपि संसारानुवृत्तिदर्शनात् । साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेयाः ब्रह्मोपदेशाः प्रसज्येरन्निति ॥ मैवम् । न स्मरति भवानुक्तार्थस्य । प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम् । न च साक्षात्कारस्तत्प्रसादसाधनम् । येन सोऽपि कथं तेषां नेति पर्यनुयुज्येत । भक्तेः परावस्था हि तद्धेतुरुक्ता । तत्संपत्तिश्च कार्यगम्या । परचित्तवृत्तीनामप्रत्यक्षत्वात् ॥ प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् । अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात् ॥
तान्यपि तदिच्छाविशेषानुगृहीतानीति चेत् । भगवदिच्छयोर्विरोधप्रसङ्गात् । मोचकप्रसाद एवैवंरूप इति चेत् । तर्हि स एवापरिपूर्ण इत्येवागतम् । अन्यथा कथं प्रारब्धानामप्युपमर्दं वक्ष्यति । प्रारब्धप्रतिबन्धादिवादास्तूपचरितार्था एव ।
वस्तुतस्तु भगवानेव अनादेरपि बन्धस्य निवर्तक इति साधूक्तं ज्ञानिनां मोक्षदश्च स इति ।
ननु चानन्दः स्वरूपमेव । स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतः सिद्ध एव । अनुभवोऽप्येवमेव । विषयित्वमप्यनुभवस्वभावो न त्वागन्तुको धर्मः । ततो मोक्षदानात्कथं पृथगानन्दादिदानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपावरणं मुख्यम् । अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वकयां बन्धकशक्तिं न ततो व्यावर्तयति । अत एवानन्दह्रासवृद्धी वक्ष्येते इति ।
एवं तावत्स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति बन्धमिथ्यात्वमित्यादिना ।
मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफल्लक्षणस्य बन्धस्य आत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम् । तदनुपपन्नम् । बन्धमिथ्यात्वस्य असूत्रितत्वात् । असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात् । सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः इति हि भाष्यलक्षणमाचक्षते ।
अत्राह । द्विविधो हि सूत्रार्थः । श्रौत आर्थश्च । तत्र अथातो ब्रह्मजिज्ञासेतिसूत्रे अनुवादत्वपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम् । जिज्ञासापदं चानुष्ठानयोग्यस्यान्तर्णीतस्य विचारस्योपलक्षणमि ति स्थिते साधनचतुष्टयसंपन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः संपद्यते । अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्ध्यति । सन्निधानाच्च वेदान्तवाक्यविचारः । इति श्रुत्यर्थाभ्यां साधनचतुष्टयसंपन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्योऽर्थोऽवगतः ।
एवं च शास्त्रे प्रेक्षावत्प्रवृत्त्यङ्गतयाऽर्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव ।
ब्रह्मज्ञानं हि सूत्रितमनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं च । तद्यदि वस्तुकृतं स्यान्न ज्ञानेन निबर्हणीयम् । यतो ज्ञानमज्ञानस्यैव निवर्तकम् । तद्यदि कर्तृत्वं भोक्तृत्वमज्ञानहेतुकं स्यात्ततो ब्रह्मज्ञानमनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूत्रयता अविद्याहेतुकं कर्तृत्वं भोक्तृत्वं प्रदर्शितं भवति ।
विचारविषयतया च ब्रह्म सूत्रितम् । आत्मा च ब्रह्म । तस्य चाहं कर्ता भोक्तेति प्रतीयमानं रूपं यदि पारमार्थिकं स्यात्तदा असन्दिग्धतया विचारविषयता न स्यात् । तद्यदि कर्तृत्वादिरूपमविद्यारोपितम् । पारमार्थिकं तु निष्क्रियं निष्कलं ब्रह्मरूपं स्यात्ततोऽस्य सन्दिग्धतया विषयतोच्यमानोपपद्यते । तेनात्मस्वरूपं विचारविषयं सूत्रयता सूत्रकृतैव कर्तृत्वाद्यतदाकारस्य मिथ्यात्वं सूत्रितं भवति ।
कर्तृत्वादेर्बन्धस्य मिथ्यात्वं च यावता विना नोपपद्यते तदपि सूत्रितमेव । न चैवमनेकार्थतादोषः । श्रौतार्थिकत्वभेदस्योक्तत्वात्सूत्रत्वाच्च । अलङ्कार एव ह्ययं सूत्रस्य यदनेकार्थत्वम् । यथाऽऽहुः अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः इति । विश्वतोमुखमित्यनेकार्थतामाह । अन्यत्रापि लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिण इति । यावांत्सूचितः स सर्वोऽप्येषामर्थ इति सूचितार्थानि । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थवशाद्वा प्रतीयते स सर्वस्तदर्थ एवेति भवत्ययमर्थकलापस्तन्महिमाधिगतः ।
तदेवं विध्यपेक्षितेष्वधिकारिविषयप्रयोजनानुबन्धेषु सूत्राक्षिप्तप्रयोजनविषययोरुपपादकं बन्धमिथ्यात्वं प्रतिपादयत् युष्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यं सूत्रार्थसङ्गतमेव ।
स्यादेतत् । प्रथमप्रतिपन्नं श्रौतार्थमुल्लंघ्य चरमप्रतिपन्नमार्थिकार्थमेवोपपादयन् कथमकुशलो न स्यादिति । अत्रोच्यते । स्यादेतदेवम् । यदि युष्मदस्मदित्यादिभाष्यं प्रथमसूत्राक्षिप्तार्थस्यैवोपपादकं स्यात् । न चैवम् । किं नाम सकलतन्त्रार्थोपोद्घातोऽपि प्रयोजनमस्य भाष्यस्य । तथा हि । अस्य शास्त्रस्यैदंपर्यं सुखैकतानसदात्मकूटस्थचैतन्यैकरसता संसारित्वाभिमतस्य आत्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति । तच्चाहं कर्ता सुखी दुःखीति प्रत्यक्षाभिमतेनाबाधितकल्पेनावभासेन विरुद्ध्यते । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिमित्तमात्मन इति यावन्न प्रतिपाद्यते तावज्जरद्गवादिवाक्यवदनर्थकं प्रतिभाति । अतस्तन्निवृत्त्यर्थमविद्याविलसितमब्रह्मस्वरूपत्वमात्मन इति प्रथममेव प्रेक्षावत्प्रवृत्तये प्रतिपादनीयम् । तदनेन भाष्येणोच्यत इति ।
तदेतदादिभाष्यस्य सङ्गतित्रयमप्यसङ्गतम् । तथा हि । यत्तावदुक्तं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति । तदसत् । यत्खलु प्रमितमप्यनुपपद्यमानं स्वोपपत्तये यदपेक्षते तत्तदाक्षिपति नान्यत् । यथा जीवतो देवदत्तस्य गृहेऽभावो बहिर्भावं न पुनः शब्दानित्यत्वम् । तत्कस्य हेतोः । यतो गृहेऽभावो बहिर्भावेनैव उपपद्यमानस्तमपेक्षते । एवं च प्रयोजनतयोक्ता मुक्तिर्यदि बन्धमिथ्यात्वमपेक्षेत तदा तदाक्षिपेत् । न चैतदस्तीत्याह बन्धमिथ्यात्वमिति । एवशब्देनान्यथैवोपपन्नतां सूचयति । कथम् । उक्तमेतत् यत् ज्ञानात्प्रसन्नः परमेश्वर एव बन्धनिवृत्तिं करोतीति । उपपद्यते च सत्यस्यापि प्रभुप्रसादान्निवृत्तिरिति वक्ष्यते ।
ननु दर्शनेन बन्धनिवृत्तिरुभयी दृष्टा । यथा सत्यस्यापि निगडादिबन्धस्य दर्शनजन्येन राजप्रसादेन । यथा च मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षात् । तत्र ब्रह्मज्ञानात्संसारबन्धनिवृत्तिः सूत्रिता कं पक्षमवलम्बतामिति सन्दिह्यते । तथाच अन्यथाऽप्युपपत्तिः स्यान्नान्यथैवोपपत्तिरिति । मैवम् । विशेषोक्त्या निर्णयोपपत्तेरित्येतदर्थोपपादनाय अज्ञानामि त्युक्तमत्राप्यनुषञ्जनीयम् । तरति शोकमात्मविदि ति सामान्यवचनं विशेषवचनेन बाध्यते । दृष्ट्वैव तं मुच्यत इति श्रुतिर्दर्शनमोक्षावन्तरा किञ्चिन्न सहत इति चेन्न । अवधारणस्यायोगव्यवच्छेदपरत्वोपपत्तेः । दर्शनजन्यादेवेश्वरप्रसादान्न पुनः कर्मादिहेतुकादित्यन्ययोगव्यवच्छेदपरत्वोपपत्तेश्चेति ।
अस्तु वा ज्ञानाद् बन्धनिवृत्तिः । तथाऽपि बन्धमिथ्यात्वं नैवमुक्तिरपेक्षते । कथम् । न हि दृष्टसामर्थ्याज्ज्ञानाद् बन्धनिवृत्तिः । येन बन्धमिथ्यात्वमपेक्षेत । किंत्वागम एव ज्ञानाद्बन्धनिवृत्तिं श्रावयति । प्रमिते च साध्यसाधनभावे का नामानुपपत्तिर्यच्छमनायोपपादकं मृग्यम् ।
ननु यथाग्नेयादीनां षण्णां यागानामपूर्वकारणभावे श्रुतेऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागजन्यानि मध्यवर्तीन्यवान्तरापूर्वाणि कल्प्यन्ते । यथा वा श्रुतस्यैव यागस्य स्वर्गसाधनत्वस्योपपत्तयेऽपूर्वं कल्प्यते । तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति । मैवम् । वैषम्यात् । युक्तं हि तत्रापूर्वकल्पनम् । यत्कालान्तरभावि न तत्कारणमिति नियमात् । न चेह तथाऽस्ति ।
इहापि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमोऽस्तीति चेन्न । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेन तदनिश्चयात् । न च दर्शनादर्शनमात्रं व्याप्तेर्नियामकमिति वक्ष्यामः । नियतपूर्वक्षणवृत्तित्वशून्यमपि कारणमस्त्विति व्याहता शङ्कैव नोदेति यन्निवृत्तये बाधकमुपन्यसनीयम् । सत्यस्यापि निवृत्तावात्माऽपि निवर्तेतेति चेन्न । व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । अनादेश्च अज्ञानस्य निवृत्तावात्मनोऽपि निवृत्तिः किं न स्यात् । मिथ्याभूतमज्ञानमनाद्यपि निवर्तते न सत्य आत्मेति चेत् । क्वेदमुपलब्धं भवता यत्सत्यं न निवर्तत इति । निवृत्तावनादित्वमप्रयोजककृत्य मिथ्यात्वं प्रयोजककुर्वताऽज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते । किं ज्ञाननियमेन । ज्ञानमेवाज्ञानविरोधीति चेत् । हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिः ।
ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते । उताश्रयगतम् । अथोभयगतम् । नाद्यः । यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति । न द्वितीयः । घटादिज्ञानेनात्मगतधर्माद्यनिवृत्तेः । न तृतीयः । आत्मनः शरीरविषयज्ञानेन शरीरात्मसंबन्धानिवृत्तेरिति ॥ मैवम् । उक्तोत्तरत्वात् । यदि ज्ञानमाश्रयगतं निवर्तयेत् तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । घटादिज्ञानं धर्माद्यविरोधि आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च । आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामिष्टापादनम् । चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव । नापि तत्र पीतिमगुणोऽस्ति । एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः ।
अस्तु वा ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तथाऽपि बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किन्तु बन्धस्याज्ञानतत्कार्ययोरन्यतरत्वमेवेति तदेव वर्णनीयम् । अध्यासवर्णनस्य का सङ्गतिः । अज्ञानस्य मिथ्यात्वं तु कपोणिगुडायितम् । निराकरिष्यमाणत्वात् ।
अपि च सत्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शनात् बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । विषं न सत्यमिति चेन्न । तथा सति नीलविशिष्टद्रव्यादेरपि तवासत्यत्वेन तन्निवृत्त्यापादनस्यानुपपत्तिप्रसङ्गात् । सत्यम् । तदपि मम मिथ्या । पराङ्गीकारेण त्वापादनमिति चेत् । तर्हि तदेव न ज्ञानान्निवृत्तमिति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः । मिथ्याभूतं विरोधि ज्ञाननिवर्त्यमिति चेन्न । विशेषणवैयर्थ्यात् । अविरोधादेव आत्मनोऽनिवृत्तिसंभवात् । मिथ्यात्वमङ्गीकृत्यापि विरोधोऽङ्गीकार्यः । ततो वरं स एव प्रयोजक इत्यङ्गीकारो लाघवात् । ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेन्न । प्रमाणाभावात् । दर्शनादिति चेत् । तर्ह्यागमेन सत्यस्यापि भवत्केन वार्यते । न च दर्शनमात्रं व्याप्तेर्नियामकम् ।
ध्यानं मानसी क्रिया न ज्ञानमिति चेन्न । यदि क्रिया परिस्पन्दः स तर्हि अतीन्द्रियाश्रितः अतीन्द्रिय इत्यपरोक्षावभासविरोधो रूपरहितत्वेन तदवभासविरोधश्च । यदि च मानसी सृष्टिरिति मतम् । अनुमतमेतत् । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमित्यङ्गीकारात् । अतीन्द्रियोपादानकस्यापि द्रव्यस्यैन्द्रियकत्वं त्र्यणुकादेरिवोपपद्यते । नीरूपाद्वायो रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव । तार्किकादींस्तु आरम्भवादनिराकरणेन तोषयिष्यामः । एवं च ध्यायतेश्चिन्तार्थताऽपि स्मृतिसिद्धा सिद्धा । अत एव क्रियामानसवदिति सूत्रविरोधोऽपि परिहृतः ।
विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम् । अनिच्छतोऽप्यनिष्टज्ञानदर्शनात् । तत्कथमिदं ज्ञानमिति चेन्न । विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात् । इच्छाप्रयत्नयोश्च संस्कारोद्बोधे कृतार्थत्वान्मानसवस्त्ववलोकने व्यापाराभावात् । चक्षुश्चलननिरासवत् मनोविक्षेपनिरासे वा तदुपयोगः ।
किञ्च सेतुदर्शनादिना पापादिनिवृत्तिः सुप्रसिद्धा । मध्येऽदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा प्रकृतेऽप्यदृष्टकल्पनाप्रसङ्गात् । अदृष्टसाध्यत्वे मोक्षस्यानित्यताप्रसक्तिरिति चेत् । ज्ञानजन्यत्वेऽपि साम्यात् । ज्ञानजन्यत्वेऽपि प्रध्वंसत्वान्न अनित्यत्वमिति चेत् । समानमेतददृष्टसाध्यत्वेऽपीति ।
अपि च बन्धविध्वंसलक्षणत्वाद् बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किं नाम सत्यत्वमेव । न हि मिथ्याभूतस्य शशविषाणादेर्ध्वंसोऽस्ति ।
ननु यथा मिथ्याभूताच्छशविषाणादेर्व्यावृत्तौ ध्वंसः सत्ये पर्यवस्यतीति भवतोच्यते । तथा सत्याच्चिदात्मनोऽपि व्यावृत्तौ मिथ्याभूते पर्यवस्यतीति मयाऽपि वक्तुं शक्यत एव । सत्यमापाततस्तथा । तथाऽपि सौत्री अर्थापत्तिः सन्देहास्कन्दिता कुण्ठितैव । अनिर्वाच्यनिरासेन निश्चयमपि भवतो जनयिष्यामः ।
बन्धबाध एव मुक्तिरिति चेत् । नैवं श्रुतिसूत्रे वदतः । तरति शोकमित्यादौ विपरीताभिधानात् । विमुक्तश्च विमुच्यत इति श्रुतार्थापत्तिस्तु भाष्यकृतैवान्यथोपपादिता ।
अपि च एवमुक्तिः ब्रह्मज्ञानं जीवगतं बन्धं निवर्तयतीति सौत्री प्रयोजनोक्तिः बन्धमिथ्यात्वं नापेक्षते ।
यदि जीवज्ञानं जीवगतस्य बन्धस्य निवर्तकमिति प्रयोजनोक्तिः सूत्रे स्यात्तदा कथञ्चिदपेक्षेताऽपि बन्धमिथ्यात्वम् । न चैवं सूत्रकृदाह । न हि शुक्तिकायामारोपितं रजतं घटज्ञानान्निवर्तते । ब्रह्मज्ञानं नाम त्वंपदार्थस्य जीवस्य तत्पदार्थेन ब्रह्मणैक्यानुभव इति तु स्वगोष्ठीनिष्ठं प्रलापमात्रम् । निराकरिष्यमाणत्वात् ।
अपि च यदि बन्धमिथ्यात्वं यदि च ज्ञानमात्राद्बन्धबाधः तदा ज्ञाने सति किमपि मुक्तिर्नैवापेक्षत इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येतेति अर्थापत्तेस्तर्कविरोधः । एतच्च तृतीये प्रपञ्चयिष्यामः ।
एवं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिह वर्णितमित्येतन्निराकृतम् ।
अथवा विषयोक्त्याक्षिप्तम् इत्येतदनेन निराचष्टे । एवमुक्तिः सौत्री ब्रह्मणो विषयत्वोक्तिः बन्धमिथ्यात्वं नैवापेक्षते । यदि हि सूत्रे जीवात्मनो विषयतयोक्तिः स्यात्तदा सा तस्य सन्दिग्धतासिद्धये कर्तृत्वादिबन्धमिथ्यात्वं कथञ्चिदपेक्षेतापि । ब्रह्मैव ह्यत्र विषयतयोच्यते । न ह्यन्यस्य सन्दिग्धतयाऽन्यस्य विचारविषयतोपपद्यते । अतिप्रसङ्गात् । आत्मैव ब्रह्मेत्येतां तु दुराशामपाकरिष्यामः ।
यद्वा सकलतन्त्रार्थोपोद्घातः प्रयोजनं युष्मदस्मदित्यादिग्रन्थस्य इत्येतदनेनापाकरोति । तथा हि । एवमुक्तिः सकलजगज्जन्मादिनिमित्तत्वलक्षणं समस्तजीवजडात्मकात्प्रपञ्चादत्यन्तव्यावृत्तं ब्रह्मैवाशेषवेदप्रतिपाद्यमित्येवं तत्तु समन्वयात् इत्यादिकोक्तिः जीवगत बन्धमिथ्यात्वं नैवापेक्षते । एषा हि ब्रह्मण्येव प्रमाणाभासप्रतिपन्नस्य जीवाभेदादेरेव मिथ्यात्वमपेक्षते । यदि हि जीवस्य ब्रह्मतायां सकलवेदान्तपर्यवसानं प्रतिपादयितुमिदं शास्त्रं प्रवृत्तं स्यात्तदा विरोधशान्त्यै बन्धमिथ्यात्वापेक्षा । न चैवम् । यथा चैतत्तथा वक्ष्यामः ।
नन्वपेक्षायाः पुरुषधर्मत्वात्कथमेतत् । इत्थम् । प्रतीयमानोऽर्थोऽर्थान्तरविषयां पुरुषस्यापेक्षामुपजनयन् सापेक्ष इत्युपचर्यते । यद्वा प्रमितस्यानुपपद्यमानस्यार्थस्यैवोपपादकाक्षेपशक्तिरपेक्षाऽत्रोच्यत इति । एवञ्च ज्ञानाद्बन्धनिवृत्तेर्बन्धमिथ्यात्वेन विनाऽनुपपद्यमानत्वाभावान्न तदाक्षेपकत्वमित्युक्तम् ॥
दूषणान्तरं चार्थापत्तेराह मिथ्यात्वमपीति ।
न केवलं बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते किं नाम बन्धस्य मिथ्यात्वं न अस्तीति अपि संबन्धः ।
नन्वेतदनुपपन्नम् । प्रमाणं हि स्वमहिम्नैवार्थं व्यवस्थापयति । न पुनः प्रागर्थसिदि्धमपेक्षते । तथात्वे वा प्रमाणवैयर्थ्यं पूर्वप्रमाणस्यापि तथात्वेनानवस्था च स्यात् । अतः प्रागाक्षेप्यासिदि्धरर्थापत्तेर्भूषणमेव । प्रवृत्तायां त्वर्थापत्तौ नाक्षेप्यासिदि्धः प्रमितत्वादेव । एवं तर्हि परिचितचरपुरुषस्य दिवाऽभुञ्जानस्य पीनत्वमनुपपद्यमानं रसायनसिदि्धं योगदर्ि्धं वा कस्मान्नाक्षिपेत् । तदसिदि्धरपि प्रागर्थापत्तिप्रवृत्तेरलङ्कार एव । उत्तरकालं तु नास्त्येवेति चेत् । न । वैषम्यात् । न हि रसायनसिद्ध्याद्यसिद्धतया नार्थापत्तिप्रमेयम् । अपि तर्हि परिचितचरे पुरुषे प्रमाणबाधिततया । असिद्धं साधयति प्रमाणं न तु प्रमाणविरुद्धमिति हि प्रसिद्धम् । एषा खल्वर्थापत्तिसामग्री । यदाक्षेपकस्य प्रमितत्वमनुपपद्यमानत्वं च । आक्षेप्यस्य अपि उपपादकत्वं प्रमाणाविरुद्धत्वं च । अत एवाप्रमितत्वमनुपपत्त्यभावः अन्यथाऽप्युपपत्तिः अन्यथैवोपपत्तिः प्रमाणविरुद्धार्थत्वं चेत्यर्थापत्तिदूषणानीति ॥ सत्यम् । वयमपि हि बन्धमिथ्यात्वं अहं कर्ता भोक्ता सुखी दुःखी त्यादिप्रत्यक्षविरुद्धत्वादेव नार्थापत्तिप्रमेयमिति ब्रूमः । तदिदमुक्तं प्रत्यक्षविरोधत इति ।
प्रत्यक्षविरोधतोऽपी ति वा योजना । तेन प्रमाणान्तरविरोधं समुच्चिनोति । चेष्टादिलिङ्गैः अहमित्येव यो वेद्य इत्याद्यागमैश्च आत्मनः कर्तृत्वाद्युपेतस्यैव प्रमितत्वात् ।
अथवाऽर्थापत्तेराभासत्वेनानाक्षिप्तबन्धमिथ्यात्वं वर्णयत्परेषां भाष्यमनुपयुक्तमित्युक्तम् । अयुक्तमपि प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वादित्यनेनोच्यते ।
ननु प्रत्यक्षं बन्धस्वरूपमात्रं गोचरयति न तु तस्मिन् मिथ्यात्वाभावम् । अतोऽर्थापत्तेः भाष्यकारीयस्य वा तन्मिथ्यात्वव्युत्पादनस्य कथं प्रत्यक्षविरोधः । मैवम् । प्रत्यक्षं खलु बन्धं गोचरयदस्तीति नास्तीति वा गोचरयेत् । उभयोदासीनस्य ज्ञानस्यादर्शनात् । आद्येऽस्तित्वं मिथ्यात्वाभावश्चेत्यनर्थान्तरमिति कथं न प्रत्यक्षविरोधः । द्वितीयेऽनुभवविरोधः तद्व्युत्पादनवैयर्थ्यप्रसङ्गश्च ।
स्यादेतदेवम् । यदीदं प्रत्यक्षं तत्त्वावेदकं भवेत् । न चैतदस्ति । समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमेवाद्वितीयं खल्वात्मतत्त्वं नेहनानाऽस्ति किञ्चने त्यादिश्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमादिवशादीदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति वाक्यानि शक्यानि केनाप्युपचरितार्थानि कर्तुम् । तद्विरुद्धं च प्रादेशिकमनेकविधदुःखादिप्रपञ्चोपप्लुतं आत्मानमादर्शयत्प्रत्यक्षं कथमुपप्लवो न भवेत् । येयं चैतन्यस्य स्वत एव स्थितलक्षणब्रह्मरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिरनादिरनिर्वाच्या अविद्या । तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिरपरोक्षोऽहङ्कारः । स च चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिरन्तःकरणं मनो बुदि्धरहंप्रत्ययीति च विज्ञानशक्तिविशेषमाश्रित्य गीयते । परिस्पन्दशक्त्या च प्राण इति । तदुपरागनिमित्तं मिथ्यैवात्मनः कर्तृत्वादिकं प्रतिभाति । स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा । तदेवं अहं कर्ता भोक्ता सुखी दुःखी त्यादिप्रत्यक्षे श्रुत्यादिविरोधेन पूतिकूष्माण्डीकृते बन्धमिथ्यात्वव्युत्पादनमुपपन्नतरमित्यत आह मिथ्यात्वं यदीति ।
भवेदेतन्नेहनानेत्यादिवाक्यविरोधेन प्रत्यक्षमाभासीकृत्य बन्धमिथ्यात्ववर्णनम् । बालजनमनोहरा चैषा प्रक्रिया । यदि तद्वाक्यमुक्तविधात्मतत्त्वपरं स्यात् । न चैवम् । तथाहि । किमापाततः प्रतिपन्न एव वाक्यार्थः । अथवा उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णय इत्याद्युक्तलिङ्गानुगुणस्तदविरुद्धश्च । नाद्यः । मीमांसावैयर्थ्यापत्तेः । द्वितीये तु कथमिदं वाक्यमुक्तलक्षणात्मतत्त्वपरं स्यात् । उपक्रमादिलिङ्गेषु बलवत्योपपत्त्या विरुद्धत्वात् । अत एव हि असतः सदजायते त्यादिवाक्यप्रतिपन्नोऽर्थः कुतस्तु खलु सोम्यैवं स्यात्कथमसतः सज्जायेते त्युपपत्तिविरुद्धः त्यज्यते । वक्ष्यति च भगवान् सूत्रकारः अभिमान्यधिकरणे मृदब्रवीदि त्यादिवाक्यात्प्रतीतमप्यर्थमुपपत्तिविरुद्धं परित्यज्यार्थान्तरम् ।
कथमत्रोपपत्तिविरोध इति चेत् । एवं यदि दुःखादेरात्मातिरिक्तस्य समस्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात्तर्हि तस्य श्रुत्यादिवाक्यस्य तावन्मिथ्यात्वं भवेत् । आत्मातिरिक्तत्वात् । अन्यथा स्वस्मिन्नेवास्य प्रामाण्यं प्रतिहतमिति न कञ्चिदर्थं प्रतिपादयेत् । यदि चेदं वाक्यं मिथ्या स्यात्तथाऽपि न दुःखादेर्मिथ्यात्वं प्रतिपादयेत् । मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात् ।
तदेवमस्य वाक्यस्य मिथ्यात्वामिथ्यात्वयोर्बन्धमिथ्यात्वप्रतिपादनासामर्थ्यात् प्रत्यक्षबाधकत्वानुपपत्तेर्न दुःखादिबन्धमिथ्यात्वसिदि्धरिति ।
तत्त्वविदो वदन्ति । सर्वोऽपि हि बन्धो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणोऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते । यथोक्तं भाष्यकृता । प्रमादात्मकत्वाद् बन्धस्येति । अतः किन्निबन्धनो बन्धमिथ्यात्वनिरासे निर्बन्धः ॥ सत्यम् । तथाऽप्यस्त्यत्र दर्शनभेदः । एवं खल्वध्यात्मविदां दर्शनम् । क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं च परमेश्वरायत्तमात्मनि स्वतो विद्यत एव । क्रियावेशादिरूपाया विक्रियाया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात् । तस्यापरायत्तत्वावभासः अविद्यानिमित्तको भ्रमः । अविद्यादिकं च स्वरूपेणात्मसंबन्धित्वेन च सदेव । एवं बुद्धीन्द्रियशरीरविषयाः स्वरूपसन्त एवेश्वरवशा अप्यविद्यादिवशादात्मीयतयाऽध्यस्यन्ते । परायत्तात्मीयताऽप्यस्त्येव । तांश्च आत्मनो विविक्तानपि विस्पष्टतयाऽनुपलभमानस्तद्धर्मान् दुःखादीन् सत्यानेवात्मीयत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव प्रतिपद्यते । ततो रागद्वेषाभ्यां प्रयुक्तस्तद्विनिवृत्तये यत्करोति तदप्येतादृगेवातनोतीत्यनेकयोनिषु बंभ्रमीति । न क्वाप्यात्यन्तिकं तदुपशमं लभते विना परमपुरुषाराधनादिति ।
मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते । यदवोचत् सत्यानृते मिथुनीकृत्ये ति ।
अतस्तन्निराकरणनिर्बन्धो युक्त एवेत्येतत्परिभावयितुं बन्धमिथ्यात्वमिति संमुग्धे प्रस्तुतेऽपि दुःखादे रिति निष्कृष्योक्तम् । स्वातन्त्र्यादेः नान्योऽतोऽस्ति कर्ता इत्यादिश्रुतिबाधितत्वात् । न हि सर्वमिथ्यात्वश्रुतेरिवास्याः कश्चिद्विरोधोऽस्ति । वक्ष्यति चैतत्तत्र तत्र सूत्रकारः ।
यदपि परेणात्मानात्मनोरितरेतराध्याससमर्थनाय तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः । सर्वाणि च शास्त्राणि इत्यादिना प्रमाणान्तरमादर्शितम् । तदनेनैव निरस्तम् । अत्र हि प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोग्यभोगलक्षणव्यवहारत्रयस्य शरीरेन्द्रियादिष्वहंममाध्यासपुरःसरत्वप्रदर्शनेन व्यवहारकार्यलिङ्गकमनुमानं व्यवहारान्यथाऽनुपपत्तिर्वाऽध्यासे प्रमाणमुक्तम् । न चानेन अन्तःकरणशरीरेन्द्रियविषयाणां तद्धर्माणां दुःखादीनां च मिथ्यात्वं सिद्ध्यति । स्वरूपसतामपि तादात्म्यतत्संबन्धित्वाभ्यामारोपेणैव व्यवहारोपपत्तेः । न चारोपितत्वमात्रेण मिथ्यात्वम् । आत्मनोऽप्यन्तःकरणादिष्वारोपितत्वेन मिथ्यात्वप्रसङ्गात् । अङ्गीकृतश्च अन्तःकरणादिषु परेणात्माध्यासः । यथोक्तम् । तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण अन्तःकरणादिष्वध्यस्यतीति । चेतनस्याचेतने स्वरूपाध्यासाभावात्संसृष्टतयैवाध्यासात् तन्मात्रेणैव सकल्लौकिकवैदिकव्यवहारोपपत्तेर्न मिथ्यात्वमिति चेत् सममचेतनस्यापि ।
यदत्र केनचित्प्रलपितम् । इतरेतराध्यासेऽपि देहेन्द्रियादिप्रपञ्चस्य बाधनं श्रुतियुक्तिभिरुपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायनिर्णीतोऽबाधित इति । तदसत् । प्रपञ्चबाधकश्रुत्यादेः निराक्रियमाणत्वात् । युक्तनां च निराकरिष्यमाणत्वात् । श्रुत्यादिसिद्धत्वे च मिथ्यात्वस्य तमेतमविद्याख्यमित्यादि व्यर्थमापद्येत । न खलु कोऽपि वादी वदति केनापि रूपेण शरीरादिकमात्मनि नाध्यस्तमिति । येनाध्यासमात्रमुपपाद्येत । तादात्म्याध्यासं च निराकरिष्यत्याचार्यः । विना च तेन व्यवहारमुपपादयिष्यति ।
यदप्यहङ्कारस्थं कर्तृत्वादिकं तदुपरागादात्मनि चकास्तीति । तदयुक्तम् । अहंप्रत्ययस्यात्मविषयत्वात् । ननु तथा सति सुप्तावप्यहमुल्लेखः स्यात् । तदाऽऽत्मनः स्वप्रकाशतया प्रकाशमानत्वात् । न चाविद्याकार्यस्यापि तदानीं प्रतीतिप्रसङ्गः । सुप्तावविद्यायाः समुत्खातितनिखिलपरिणामत्वेन तदभावादिति । मैवम् । सुप्तावप्यहमवभासस्येष्टत्वात् । तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अनुभूते स्मृतिनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति चेन्न । सुखमहमस्वाप्समिति सुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् । तदा विशेषतः स्मर्येतेति चेत् । किं स्पष्टं स्मरणमापाद्यते । उत विषयविशेषोपरक्तम् । आद्ये त्विष्टापादनम् । न द्वितीयः । अविषयजन्यत्वात्सौषुप्तिकसुखस्य । न चायमस्ति नियमो यत्स्मर्यमाणमशेषसंबन्धिविशेषसहितं स्मर्यत इति । अत एव मुख्यसुखतदनुभवे बाधकाभावाद् दुःखाभावविषयकत्वकल्पनं परामर्शस्यापास्तम् ।
यत्तु अथातोऽहङ्कारादेशोऽथात आत्मादेश इत्यात्माऽहङ्कारयोर्भेदवचनं तद्भाष्यकृतैव अन्यथा व्याख्यातम् । वक्ष्यति च सूत्रकारः सैव हि सत्यादय इति । कथमन्यथाऽहङ्कारस्य सर्वगतत्वमुपपद्येत । महाभूतान्यहङ्कार इत्यादिस्मृतिसिद्धस्त्वहङ्कारो यद्यप्यात्मनो भिन्नः । तथाऽपि नासौ अहं कर्ते त्युल्लेखविषयः । तथा सति अहं ब्रह्मास्मि इत्यादावपि तथात्वप्रसङ्गात् । अत्रापि यः स्थाणुः स पुरुष इतिवद् व्याख्यानमिति चेन्न । तदा आत्मानमेवावेदहंब्रह्मास्मी ति निरवद्यस्य ब्रह्मणोऽप्यहमुल्लेखदर्शनात् । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त इति स्वप्रपन्नमायानिरसनसमर्थस्येश्वरस्यापि अहं सर्वस्य प्रभव इत्याद्युल्लेखोपलम्भाच्च । स्पष्ट एव शब्दतोऽप्यनयोर्भेदः । यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहंपदं न जातु तदात्मनि प्रयुज्यते । यच्चात्मवाचि दकारान्तास्मच्छब्दजं तन्न कदाचिदपि मायापरिणामे प्रयुज्यत इति । तदेवं सर्वमिथ्यात्वपरत्वे श्रुतेरेव मिथ्यात्वप्रसङ्गेनासाधकत्वापत्तौ दुःखादिबन्धमिथ्यात्वासिद्ध्या न प्रत्यक्षमतत्त्वावेदकमिति ।
नन्वग्रत इति कथम् । नेहनानेतिवाक्येनात्मातिरिक्तं सकलमपि मिथ्येत्येकैव बुदि्धरुत्पद्यते । न च बुद्धेर्विरम्यव्यापारोऽस्ति । यावत्स्वविषयगोचराया एव तस्याः समुत्पादात्तदतिरिक्तव्यापाराभावादिति । सत्यम् । वाक्येन सकृदेव जातायाः सकलमिथ्यात्वविषयायाः बुद्धेः प्रामाण्यावधारणाय परीक्षकबुद्धय एव तद्विषयं बुद्ध्या विभज्य क्रमेणावगाहन्त इत्यदोषः । समानमेतत् यावज्जीवमहं मौनी त्यादिवाक्यप्रामाण्यचिन्तायामिति ।
ननु श्रुत्यादेर्मिथ्यात्वेऽपि साधकत्वं संभवति । मया मिथ्याभूतस्यैव साधकत्वाभ्युपगमादित्यत आह मिथ्याया इति ।
याः श्रुत्यादिवाचो मिथ्या तासामिति योजना । विभक्तिप्रतिरूपकं वा मिथ्याया इत्यव्ययम् ।
अयमभिसन्धिः । नेहनाने त्यादिवाक्यैः किं पुमान् निश्चिताद्वैतो बोध्यते । उत तद्विपरीतः । नाद्यः । वैय्यर्थ्यात् । द्वितीयस्तु सत्यस्यैव साधकत्वमि ति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्तदा सकलान्तर्गतत्वात्स्वयमपि मिथ्या स्यात् यथा शब्दोऽनित्य इतिशब्दोऽनित्यः । यदि चैतद्वाक्यं मिथ्या स्यान्न कस्याप्यर्थस्य साधकं स्यादि त्यनिष्टप्रसङ्गं पश्यन् कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येतेति ।
ननु वाक्यस्य साधकत्वं नाम पदार्थसंसर्गप्रमितिजनकत्वम् । तत्क्वचित्पददोषेण विहन्यते क्वचित्सङ्गत्यग्रहणात्क्वापि तद्विस्मरणात्कदाचिदाकाङ्क्षादिविरहात् कुत्रचिद्विपरीतप्रतिपादनेन । तदत्रापि नेहनाने त्यादिवाक्ये साधकत्वाभावमापादयता पददोषाद्यन्यतममेवापादकमुपादेयम् । किं मिथ्यात्वेन ॥ तत्किमविद्यमानस्यापि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान् । एवं च वदता भवता कस्मिंश्चन विप्रतिपन्नेऽर्थे वन्ध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्य साधकत्वं दूषयिष्यते । स्वरूपस्यैवाभावेनासाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । न हि शब्देऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे व्याप्तिचिन्ता क्रियत इति चेत् । समं प्रकृतेऽपि ।
ननु मा भूत्प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता । वाद्यपेक्षया तु भविष्यति । मैवम् । वादिनाऽपि हि श्रुतिवाक्येनात्मातिरिक्तस्याखिलस्य मिथ्यात्वं प्रतिपद्य मिथ्याभूतस्यापि साधकत्वमिति प्रतिपत्तव्यम् । सोऽपि हि प्राक् सकलमिथ्यात्वबोधात्प्रतिवादितुल्य एव । तथाच श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वं प्रतीत्य तद्विरोधेन तर्को निरसनीयः । तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयमनुत्तीर्णः कथमसावपि तर्कस्य विरुद्धतां प्रतिपद्येत ।
अथ मतम् । प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धम् । तन्मिथ्यात्वं च श्रुतिभिर्युक्तिभिश्चावगम्यते । मिथ्याभूतस्य साधकत्वमित्येषोऽर्थः कुतः सिद्ध इति मा वोचः । एकज्ञानजनितसंस्कारसहकृतस्येतरप्रमाणस्यैव सुरभिचन्दनमि तिवद्विशिष्टप्रत्ययजनकत्वोपपत्तेः । अथवोभयप्रतिसन्धातुरात्मनो विद्यमानत्वाद्दर्शनस्पर्शनाभ्यां एकार्थग्रहणवद्विशिष्टप्रतिपत्तिर्भविष्यति । एवञ्च प्रमाणेनैव मिथ्याभूतस्यैव साधकत्वे सिद्धे विरुद्धस्तर्को न मदभ्युपगममात्रेणेत्येतद् दूषयितुं विकल्पेन पृच्छति तच्चेति ।
तदिति मिथ्याभूतस्यैव साधकत्वम् । आत्मातिरिक्तस्य मिथ्यात्वमिवेति च शब्दः । सता वा प्रमाणेनेति संबन्धः । यदिदं मिथ्याभूतस्यैव साधकत्वं साधयितुं त्वया प्रमाणद्वयसमाहारात्मकं प्रमाणमुपन्यस्यते तत् मिथ्या सद्वेति प्रश्नार्थः ।
सत्त्वपक्षं दूषयति सता चेदिति ।
यद्यपि परेणाङ्गीचिकर्षितत्वेन प्राधान्यान्मिथ्यात्वविकल्पः प्रथमं प्रश्नावसरे निर्दिष्टः । तथाऽपि मिथ्यासत्ययोः सत्यमर्थतः प्रधानमिति तत्क्रिमेण दूषणम् । सता चेत् इत्यतःपरम् आत्मरूपेण तदन्येन वे ति विकल्पः । प्रथमपक्षे वक्ष्याम इत्याद्यपक्षदूषणप्रतिज्ञानं चाध्याहार्यम् । आत्मेतरेण सते ति द्वितीयपक्षदूषणं द्वैतसिदि्धः स्यादिति । तथा चाद्वैतप्रतिपादकश्रुतेरुपपत्तिविरोध इति हृदयम् । न पुनरपसिद्धान्तमात्रे तात्पर्यम् । प्रक्रमाननुरूपत्वात् । श्रुतेरुपपत्तिविरोधेनाद्वैतप्रतिपादकत्वाभावस्य प्रक्रान्तत्वात् ।
मिथ्यात्वपक्षे दोषमाह न सिद्धं चेति ।
चशब्दोऽवधारणे तुशब्दार्थो वा । सतः अन्यत् मिथ्याभूतं तु साधनं न सिद्धमेव । मिथ्याभूतस्य प्रमासाधनत्वं न सिद्धमेवेति यावत् ।
इदमुक्तं भवति । यो हि यन्मिथ्या न तत्साधकमिति व्याप्तिमङ्गीकृत्य श्रुतेर्मिथ्यात्वे असाधकत्वं प्रसञ्जयति स मिथ्याभूतस्यैव साधकत्वमित्यर्थसाधनायोपन्यस्तप्रमाणस्यापि मिथ्यात्वेऽसाधकत्वमापादयिष्यत्येव । तथाच अस्य प्रमाणस्य साधकत्वे सिद्धे मिथ्याभूतस्यैव साधकत्वमित्यर्थसिदि्धः । ततश्च तर्कस्य विरुद्धतासिदि्धः । ततश्चास्य प्रमाणस्य साधकत्वसिदि्धरिति चक्रकप्रसङ्गेन नैकस्यापि सिदि्धरिति ।
ननु च श्रुतिः स्वव्यतिरिक्तस्य दुःखादेर्मिथ्यात्वं प्रतिपादयन्ती कथमुपपत्तिविरुद्धेति चेत् । कुतोऽयं श्रुत्यर्थसङ्कोचः । साधकत्वानुपपत्तिप्रमाणबलादिति चेत् । तर्हि प्रमितं विहाय मिथ्यात्ववादिनी कथं दुःखादिमिथ्यात्वमपि प्रतिपादयेत् तस्यापि प्रत्यक्षसिद्धत्वात् ।
ननु च श्रुतिविरोधेन प्रत्यक्षमाभासीकर्तुं मयोपक्रान्तम् । तेनैव श्रुतिविरोधाभिधाने कथमितरेतराश्रयत्वं न स्यात् । श्रुतेरप्रामाण्ये बाधकाभावात्प्रत्यक्षप्रामाण्यम् । ततश्च तद्विरुद्धत्वेन श्रुतेरप्रामाण्यमिति । हन्त तवापि कथमितरेतराश्रयत्वं न स्यात् । श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम् । ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिदि्धरिति । श्रुतेः प्रबलत्वान्नैवमिति चेन्न । तस्य दूष्यत्वात् । साधयिष्यते च प्रत्यक्षप्राबल्यम् ।
ननु चात्र श्रुतेः प्रत्यक्षविरोधमेवोपन्यस्य तत्प्राबल्यव्युत्पादनं कुतो न कृतम् । किमुपपत्तिविरोधव्युत्पादनेन । उच्यते । परेण ह्यत्राद्वैतपरत्वे तात्पर्यलिङ्गानुगुणत्वं महता प्रबन्धेनोपपादितम् । अतस्तद्विरोध एव परस्य विचाराकौशलप्रकटनाय व्युत्पादितः । उपक्रमादिविरोधस्य चैतदुपलक्षणम् । तं च व्युत्पादयिष्यामः ।
ननु मा भूत्तर्कस्य विरुद्धता । तथाऽपि मिथ्याभूतोऽपि स्वाप्नोऽर्थः शुभाशुभयो रेखारोपितो वर्णोऽर्थस्य, प्रतिबिम्बं च बिम्बस्य, स्फटिकलौहित्यं चोपधानसन्निधानस्य, वर्णदैर्घ्यादिकं चार्थभेदस्य, सवितृसुषिरप्रभृति चारिष्टस्य, साधकमुपलब्धमिति प्रशिथिलमूलत्वेनाभासत्वम् ।
मैवम् । यतोऽत्र, यत्साधकं न तन्मिथ्या, यच्च मिथ्या न तत्साधकम् । तथा हि स्वप्नस्य तावज्ज्ञानार्थरूपस्य सत्यतां वक्ष्यति । रेखाऽपि वर्णे पदमिवार्थे सङ्केतिता तं स्मारयतीति न किञ्चिदत्र मिथ्याऽस्ति । अत एव रेखामुपलभ्य वर्णमुच्चारयन्ति । प्रतिबिम्बस्य तु सत्यता परेणाप्यङ्गीकृता । विच्छेदस्यापि सत्यतामुपपादयिष्यामः । स्फटिकलौहित्यमपि एतेनैव व्याख्यातम् । दैर्घ्यादयोऽपि ध्वनिष्विव वर्णेष्वपि स्वाभाविका एव । अन्यथा स्वरेष्विव व्यञ्जनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसङ्गात् । न तथाविधध्वनिव्यङ्ग्यं व्यञ्जनमिति चेन्न । तथात्वे वर्णेष्वेव विशेषः अङ्गीकार्यः स्यात् । स एव दैर्घ्यादिपदाभिधेयो भविष्यति । सवितृसुषिरप्रभृतिज्ञानमेवारिष्टसूचकम् । वक्ष्यते चैतत् । एवमन्यदप्यूहनीयमिति । तस्मात्पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता भाष्यकारेणोक्तो भगवति स्वरूपभेदाभाव एव श्रुत्यर्थोऽवधेयः ।
नन्वत्राप्यनुपपत्तिरेव । यतो नानेति नानाभूतः प्रपञ्चोऽभिधीयते । न तु भेदः । तथात्वे नानात्वमिति स्यात् । मैवम् । मुक्तोपसृप्यव्यपदेशादि त्यादाविव भावप्रधाननिर्देशोपपत्तेः । भवितृप्राधान्येऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादिनिषेधे नानात्वमेव निषिद्धं भवति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत इति न्यायात् । उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । अन्यथा तदुपादानवैयर्थ्यात् । न जीर्णमलवद्वासाः स्नातकः स्यादि त्यादौ दर्शनाच्च । अत एवोक्तम् । विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषण इति । यत्क्वचिद्विशिष्टविधिनिषेधाङ्गीकरणं तदगतिकतयैव । सविशेष(ण)त्वं च ब्रह्मणो वक्ष्यामः । नन्वेवं सत्यप्राप्तप्रतिषेध इति चेन्न । आभासप्राप्तत्वात् । तथाच न स्थानतोऽपी त्याद्यधिकरणपूर्वपक्षे दर्शयिष्यामः । परस्यैव स्वर्गापूर्वादिनिषेधोऽप्राप्तत्वादनुपपन्नः । एकमेवाद्वितीय मित्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधं व्याकुर्वता भवताऽपि समाधातव्यमेतत् ।
ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न सम्मतम्, तथा मम सत्यस्य साधकत्वं न सम्मतम् । चैतन्यातिरिक्तस्य सत्यताऽनभ्युपगमात् । चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगात् । तत्र यथा मिथ्याभूतस्य साधकत्वानभ्युपगमेन श्रुतेर्मिथ्यात्वे असाधकत्वप्रसङ्गान्न बन्धमिथ्यात्वसाधकतेत्युक्तं भवता, एवं मयाऽपि सत्यस्य साधकत्वमनभ्युपगच्छता वक्तुं शक्यत एव । प्रत्यक्षस्य सत्यत्वे साधकत्वं न स्यात् । मिथ्यात्वं तु त्वयैव नोपेयते । ततश्च प्रत्यक्षस्यापि बन्धसत्यत्वसाधकत्वाभावात् मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधत इत्यनुपपन्नमिति । एवं च प्रथममेव मतिकर्दमे कथारम्भणमशक्यमापद्येत । तेनाविचार्यैव तावत्प्रमाणसदसत्त्वं विचार आरब्धव्य इति । मैवम् । दुःखादिसत्यताग्राहिणः प्रत्यक्षस्य सत्यत्वेऽप्यविरोधात् । सतः साधकत्वं मया न स्वीकृतमित्युक्तमिति चेत्तत्राह साधकत्वमिति ।
तेन मायावादिना । भावरूपाज्ञानस्येति शेषः । हि शब्दो हेतौ, प्रसिदि्धद्योतको वा ।
मायावादिना खलु भावरूपाज्ञानं सिषाधयिषता प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनादि त्यादिना तत्साधनाय साक्षिप्रत्यक्षं प्रमाणमङ्गीकृतम् । आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यमि त्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात् । एवं च साक्षिणा अज्ञानसिदि्धमिच्छता परेण सतः साधकत्वं स्वीकृतमेव । साक्षिचैतन्यस्य सत्त्वात् । अतो मया सतः साधकत्वं नाङ्गीकृतमि ति न शक्यते वक्तुम् । अस्माभिरपि दुःखादिबन्धसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तमिति हृदयम् ।
अज्ञानवशादेव साक्षिणः साधकत्वं मया अङ्गीक्रियते न स्वत इति चेन्न । इतरेतराश्रयत्वप्रसङ्गात् । न खलु साक्ष्यवभासादन्याऽज्ञानसत्ता तवास्ति । ततोऽज्ञाने सति साक्षिणः साधकत्वसिदि्धस्तस्यां चाज्ञानसिदि्धरिति कथं नेतरेतराश्रयत्वम् । द्वयोरनादित्वान्नैवमिति चेत् तर्ह्यज्ञानवशादिति रिक्तं वचः । न हि सर्वथा यद्यन्नापेक्षते तत्तदधीनमिति युज्यते । अपेक्षायां तु परस्पराश्रयानुत्तारः ।
एवमुभयवादिसंप्रतिपन्नं प्रमाणं स्वमतेऽस्तीति दर्शयितुं सत्यस्य साक्षिणोऽज्ञानसाधकत्वं पराभ्युपगतमुपन्यस्तम् । सांप्रतं प्रसङ्गात्तदपि नोपपद्यत इत्याह अविशेषस्येति ।
भावरूपमज्ञानमनिच्छन्तं प्रति हि तत्र साक्षिप्रत्यक्षं प्रमाणमुपन्यस्तम् । न च तदुचितम् । साक्षिणोऽशेषविशेषविधुरत्वाङ्गीकारात् । अविशेषस्य साधकता तु परं प्रति त्वया साध्यैव । न तु सिद्धा । यत्साधकं करणं वा फलं वा नित्यं वा ज्ञानं तत्सर्वं जात्यादिविशेषवत् । यच्च निर्विशेषं शशविषाणादि न तत्साधकमिति परेण नियमस्याङ्गीकृतत्वात् । न ह्यसंप्रतिपन्नसाधकभावं कस्याप्यर्थस्य साधनायोपन्यासमर्हति । अतिप्रसङ्गात् ।
ननु प्रमाणं वस्तुसिद्धावुपयुज्यते । तत्सविशेषत्वं तु किमर्थमिति चेत्सत्यम् । निर्विशेषस्य प्रामाण्यमेव नोपपद्यत इति तदर्थमेव विशेषानुसरणम् । न हि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहम् । साक्षिण्यारोपिततयैवाज्ञानं सिद्ध्यति । न ततोऽतिरिक्तं साधकत्वं तस्येति चेत् । न तर्हि सुतरां साक्षिणाऽज्ञानसिदि्धः । प्रकाशाश्रयं तमः प्रकाशेनैव सिद्ध्यतीत्यस्यार्थस्याविशेषवादिना भवता परं प्रत्युपपादयितुमशक्यत्वात् ॥
किञ्चाज्ञानमारोपितमपि साक्षिणो विषयो न वा । आद्ये विषयित्वं साक्षिण्यापतितम् । द्वितीये साक्षित्वमेवानुपपन्नम् । साक्षाद्द्रष्टरि संज्ञायामि ति निर्वचनासंभवात् । अतद्विषयेण तत्सिदि्धरलौकिक । निर्विशेषस्याप्यज्ञानवशात्साक्षित्वमिति च निरस्तम् ।
यस्तु वैय्यात्याद् ब्रवीति सिद्धप्रामाण्यमिव साध्यप्रामाण्यमपि प्रमाणं प्रयोगार्हमेव । अन्यथा शब्दानित्यत्वे कृतकत्वमुपन्यस्य परेणान्यतरासिद्धावुद्भावितायां तत्साधनस्फूर्तिमताऽपि तूष्णीं भवितव्यम् । अहं चाविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामी ति । स प्रष्टव्यः । किं सविशेषेण प्रमाणेनैतत्साध्यते । उताविशेषेणेति । नाद्यः । तस्य तव मिथ्यात्वात् । परेण चोक्तन्यायेन तस्य साधकत्वानभ्युपगमात् । अतो द्वितीय एवाङ्गीकर्तव्य इत्याह तच्चेति ।
किमतः । इदं ततः । तदविशेषप्रमाणं किं साक्ष्युतान्यत् । आद्ये अन्योन्याश्रयत्वम् । साक्षिणः साधकत्वसिद्धावविशेषस्यापि साधकत्वमित्येषोऽर्थः सिद्ध्यति । तत्सिद्धौ च साक्षिणः साधकत्वसिदि्धरिति । न द्वितीयः । तदभावात् । अविशेषान्तराङ्गीकारे दूषणमाह इत्यनवस्थितिरिति ।
तस्यापि अविशेषस्य साधकत्वमविशेषप्रमाणेनैव साध्यमित्युपपादनम् इतिशब्देन सूचयति ।
ननु च अविशेषस्य साध्या साधकते ति प्रकृतमतः सा चेति परामर्शो युक्तः । सत्यम् । तथाऽपि प्राग्यन्मिथ्याभूतस्यापि साधकत्वं प्रमाणविकल्पनिराकरणेन निरस्तं तत्सविशेषत्वादिविकल्पनिराकरणेनापि निराकरणीयमिति सूचनाय सामान्येन नपुंसकनिर्देशः । एतेन प्राग्विकल्पितः सताऽऽत्मभूतेनेति पक्षोऽपि निरस्तो वेदितव्यः ।
मिथ्यात्वं यदी त्यादिनोक्तं प्रसङ्गमुपसंहरति अनङ्गीकुर्वतामिति ।
यस्मादेवं न मिथ्याभूतस्य साधकत्वं तत् तस्मात् विश्वसत्यतामनङ्गीकुर्वताम् आत्मातिरिक्तस्य सर्वस्यापि मिथ्यात्वं प्रतिपादयतां नेहनाने त्यादिवाक्यानामपि मिथ्यात्वप्रसक्त्या न वादिता न साधकता स्यात् । तद्वाक्यस्ये ति प्रकृतमेकवचनं समूहविषयमिति ज्ञापयितुमुपसंहारे बहुवचनम् ।
अथवाऽतिप्रसङ्गान्तराभिधानमेतत् । तथा हि । यदि चैतन्यातिरिक्तं समस्तं मिथ्या स्यात्तदा समस्तान्तर्गतं कथाव्यवहाराङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात् । तथाच विश्वसत्यतामनङ्गीकुर्वतः तन्मिथ्यात्वमङ्गीकुर्वतो मायावादिनो निरुपायस्य कथकता न स्यात् । कुतः । तत् तस्मादुक्तरीत्या मिथ्याभूतस्य साधनबाधनाङ्गताऽयोगादिति ॥
विश्वमिथ्यात्वमङ्गीकुर्वतामपि चार्वाकाणां बौद्धानां च वादित्वोपलंभाद् व्यभिचार इति चेन्न । तेषामप्यापादनविषयत्वात् । तदिदमुक्तम् अनङ्गीकुर्वतां चार्वाकबौद्धमायावादिनामिति । अन्यथा त्वया तेनेत्येकवचनस्य प्रस्तुतत्वादनङ्गीकुर्वत इत्यवक्ष्यत् ।
तथाऽपि प्रमाणबाधः । चार्वाकादीनां वादित्वस्य प्रत्यक्षादिसिद्धत्वात् । मैवम् । वादित्वाभावस्यात्रापाद्यमानत्वात् । साधनस्य हि प्रमाणबाधो दूषणम् । न त्वापादनस्य । तस्यानिष्टविषयत्वात् । अनिष्टस्य च प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपत्वात् । अन्यथाऽतिप्रसङ्गमात्रोच्छेदप्रसङ्गादित्याशयवानुक्तस्य प्रसङ्गत्वं स्फुटीकर्तुं विपर्ययपर्यवसानमाह तस्मादिति ।
यस्मादस्ति परस्य वादित्वाभिमानः तस्मात् । अन्यथा युष्मदस्मदित्यादिपूर्वोत्तरपक्षबलाबलचिन्ता न स्यात् । व्यवह्रियतेऽनयेति व्यवहृतिः । कथाङ्गभूतप्रमाणादीति यावत् । प्रमाणादीनां कथाव्यवहारकारणत्वात्कारणाभावे च कार्याभावस्य सुलभत्वात्सुस्थोऽतिप्रसङ्गमूलभूतः प्रतिबन्ध इति ज्ञापयितुं प्रमाणादीति रूढपदपरित्यागेन व्यवहृतिरिति यौगिकपदोपादानम् ।
अस्तु कथाङ्गभूतप्रमाणादिव्यवहारस्य सत्यता, दुःखादिबन्धस्य तु किमायातमित्यत आह व्यावहारिकमिति ।
एतस्मात् प्रमाणादिव्यवहारस्य सत्यत्वाद् व्यावहारिकं व्यवहारविषयो दुःखादि । च शब्दो न केवलं व्यवहारो व्यावहारिकं चेति संबध्यते । न हि प्रमेयं नास्त्यस्ति च प्रमाणमिति संभवति व्याघातादि त्यर्थप्रतिपादनाय. व्यावहारिकम इत्युक्तम् ।
यदत्रोक्तम् । प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन तत्कस्य हेतोः । किं वाग्व्यवहारस्य प्रमाणादिसत्ताऽभ्युपगमव्याप्तत्वेन तदभावे प्रवर्तयितुमशक्यत्वात् । अथ कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावात् । उत लोकसिद्धत्वात् । अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् ।
आद्येऽपि किं व्यवहारमात्रं प्रमाणादिसत्ताऽभ्युपगमव्याप्तमुत साधनबाधनक्षमो व्यवहारः । न प्रथमः । तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वेन व्यभिचारात् । तस्यैवानिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः । तस्यापि पक्षत्वे बाधः । द्वितीये बाधतादवस्थ्यम् । मम सत्तानभ्युपगमस्यानुभवसिद्धत्वात् । हेतुश्च तवासिद्धः । सिद्धत्वे वा सिद्धं मम समीहितम् । व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः । यतोऽभ्युपगम्यापि प्रमाणसत्तां प्रवर्तिताः मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरानुसारिभिरपरैः साधनाद्यक्षमा इति कथ्यन्ते । तेन ज्ञायते व्यवहारस्य साधनाद्यक्षमतायां सद्वचनाभासलक्षणयोगित्वमेव प्रयोजकम् । न तु सत्ताऽनभ्युपगम इति ॥
ननु यदि प्रमाणादीनि न सन्ति । तदा व्यवहार एव धर्मी कथं सिद्ध्येत् । दूषणादिव्यवस्था वा कथं स्यात् । सर्वविधिनिषेधानां प्रमाणाधीनत्वात् । मैवम् । न ब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति । किं नाम सन्ति न सन्ति प्रमाणादीनीत्यस्यां चिन्तायाम् उदासीनैः, यथा स्वीकृत्य तानि भवता व्यवह्रियन्ते तथा व्यवहारिभिरेवं कथा प्रवर्त्यतामिति ॥
किञ्च कदृशीं मर्यादामवलम्ब्य प्रवृत्तायां कथायामिदं दूषणमुक्तं भवता । किं प्रमाणादीनां सत्त्वमभ्युपगम्योभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायाम्, उतासत्त्वमभ्युपेत्य, अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य । नाद्यः । अभ्युपगतप्रमाणादिसत्त्वं प्रत्येतादृक्पर्यनुयोगानवकाशात् । न द्वितीयः । स्वस्याप्यापत्तेः । न तृतीयः । तथैव कथान्तरप्रसक्तेः । तस्मात्प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन, व्यवहारनियमे समयं बद्ध्वा, प्रवर्तितायां कथायां भवतेदं दूषणमुक्तमिति वाच्यम् । तथा च व्याघातः ।
न च वाच्यं नेदं दूषणं प्रतिवादिनं प्रत्युच्यते । किं नाम शिष्यादयः प्रमाणादिसत्ताऽनभ्युपगन्तुः कथाऽनधिकारं ज्ञाप्यन्त इति । यतः शिष्यादीन्प्रत्यपि चार्वाकादेर्दोषोऽयमित्येवाभिधातव्यम् । कथं च तथा स्यात् । तस्य कथाप्रवेशाप्रवेशयोस्तद्बोधाक्षमत्वात् । कथायामेव हि निग्रहः ।
न द्वितीयः । स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्तानभ्युपगमे निवर्तेत । न त्वेवं संभवति । तथा सति तत्सत्तानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत । हेत्वनुपपत्तेः ।
अथ मन्यसे । कथकवाग्व्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वम् । सत्त्वाच्चाभ्युपगमो यत्सत्तदभ्युपगम्यत इति स्थितेरिति मैवम् । कयाऽपि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः । कथातः पूर्वं तु तत्त्वावधारणं परपराजयं वाऽभिलषद्य्भां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् । तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां संभाव्यत इति व्यवहारनियममेव बध्नीतः । स च प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः । न च प्रमाणादीनां सत्ताऽपीत्थमेव ताभ्यामङ्गीकर्तुमुचिता । तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः । प्रमाणादिसत्तामभ्युपेत्यापि तथाविधव्यवहारनियमव्यतिरेकेण कथाप्रवृत्तिं विना तत्त्वनिर्णयस्य जयस्य वाऽभिलषितस्य कथकयोरपर्यवसानात् ।
नापि तृतीयः । लोकव्यवहारोऽपि प्रमाणव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा । नाद्यः । विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् । तदर्थमेव च पूर्वं नियमस्य गवेषणात् । नापि द्वितीयः । शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् । पश्चात्तद्विचारबाध्यतया नाभ्युपेयत इति चेत् । तर्हि प्रमाणादिसत्ताऽपि यदि विचारबाध्या भविष्यति तदा नाभ्युपेयैव । अन्यथा तूपगन्तव्येति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति ।
न चतुर्थः । यादृशो भवता प्रमाणादिसत्तामभ्युपगम्य व्यवहारनियमः कथायामवलम्ब्यते तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणौदासीन्येनास्माभिरप्यवलम्बनात् । तस्य यदि मां प्रति फलातिप्रसञ्जकत्वम् । तदा त्वां प्रत्यपि समानः प्रसङ्गः । तस्मात्प्रमाणादिसत्ताऽभ्युपगमस्य कथोपयोगाभावादनङ्गीकुर्वतां प्रमाणादिसत्तां न वादितेत्यनुपपन्नमिति ।
तदेतत्सर्वमनेनापहसितं वेदितव्यम् ।
तथा हि । यत्तावद्व्यवहारमात्रस्य प्रमाणादिसत्ताऽभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम् । तदसत् । यदि खल्वेवमस्माभिः साध्येत । मायावादी प्रमाणादिसत्ताऽभ्युपगमवान् व्यवहर्तृत्वात्, तद्व्यवहारो वा प्रमाणादिसत्ताऽभ्युपगमपुरःसरो व्यवहारत्वात्तत्त्ववादिवत् तद्व्यवहारवच्चेति । यदि वा नायं व्यवहर्ता प्रमाणादिसत्ताऽनभ्युपगन्तृत्वात् । तद्व्यवहारो वा न व्यवहारः प्रमाणादिसत्ताऽभ्युपगमपुरःसरताशून्यत्वादिति । तदा स्यादेव व्यभिचारादिदोषः । को हि नाम स्वस्थात्मैवमनुमिमीते । किं नाम यदि प्रमाणादीनि सन्ति न स्युः तर्हि साधकानि न स्युः । असतः साधकत्वानुपपत्तेः । तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत । तथा च वादिता न स्यात् । अस्ति चेयम् । तस्मात्तद्धेतूनां प्रमाणादीनां सत्ताऽभ्युपगन्तव्येत्याचार्येण प्रसङ्गत्वेनाभिमतत्वात् । व्यभिचारस्थलस्य च प्रसङ्गविषयतुल्यता अङ्गीकृता । बाधस्तु प्रसङ्गस्यालङ्कार एवेत्युक्तम् ।
साधनबाधनक्षमव्यवहारस्य प्रमाणादिसत्ताऽभ्युपगमव्याप्तत्वपक्षेऽप्युक्तं दूषणमनेनैव निरस्तम् । मायावादिनं तद्व्यवहारं वा पक्षीकृत्य विशिष्टव्यवहारकर्तृत्वेन विशिष्टव्यवहारत्वेन वा हेतुना प्रमाणादिसत्ताऽभ्युपगन्तृत्वे तत्पूर्वकत्वे वा साध्यमाने तत्स्यात् । विमतो व्यवहारो न साधनादिक्षमः । प्रमाणादिसत्ताऽभ्युपगमपूर्वकतारहितत्वादिति वा साधने कथञ्चिदन्वये पूर्वोक्तोपाधिः स्यात् । न चैवमित्युक्तम् ।
किञ्चायमुपाधिर्न साधनादि्भद्यते । यदा हि प्रमाणादिसत्ता नाभ्युपगता तदा तदसत्त्वमेवाङ्गीकृतमिति स्वरूपासिद्धत्वम् । तच्च सद्वचनाभासलक्षणविशेष एव ॥ नन्वेतदाशङ्क्योक्तं न ब्रूमो वयमित्यादि । दुरुक्तं तत् । सत्त्वासत्त्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुमशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः । एवं च वदता यदनिर्वचनीयत्वमभिप्रेतं तदग्रे निराकरिष्यते ।
यदप्यत्रोक्तं कदृशीं मर्यादामि त्यादि । तत्र यः प्रमाणाद्यसत्त्वमभ्युपैति, यश्च तत्सत्तां प्रतीत्यापि सत्ताद्युदासीनोऽहमि ति मन्यते तं प्रतीदं दूषणमिति वदामः । न चोक्तदोषः । न हि वयं प्रमाणादिसत्ताऽभ्युपगमं कथाप्रवृत्तिकारणतयाऽवश्यं ततः पूर्वभाविनं ब्रूमः । किं नाम यो यथाकथञ्चित्कथायां प्रवृत्तस्तं विपक्षे कथाऽनुत्पत्तिप्रसङ्गं दण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामङ्गीकारयामः । न चैवं कथान्तरप्रसक्त्यादिदोषः । प्रमाणादिसत्ताऽनभ्युपगमे कथाया एवानिष्पत्तेः । एतेन शिष्यज्ञापनमपि समाहितम् । प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन कारणप्रमाणादिसत्ताया अभ्युपगन्तव्यत्वस्योक्तत्वात् ।
द्वितीयपक्षोक्तदोषोऽप्यसङ्गत एव । न हि वयं प्रमाणादिसत्ताऽभ्युपगममपि कथकप्रवर्तनीयवाग्व्यवहारकारणकोटौ निवेशयामः । येन तत्सत्ताऽनभ्युपगन्तॄणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसङ्गः स्यात् । अपि तर्हि प्रमाणादीनामेव कथाकारणता । सा च सत्त्वाभावे नोपपद्यत इति तत्सत्त्वमङ्गीकरणीयमिति वदामः ॥
यत्पुनः कथकवाग्व्यवहारं प्रती त्याद्याशङ्क्योक्तम् । एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्ता अङ्गीकारयितव्या । तथा च कथाफलस्य प्रमाणादिसत्ताऽभ्युपगमस्य न कथाकारणत्वम् । किन्तु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहारनियमस्यैवे ति तदस्माभिरभ्युपगतमेव ॥
यस्तु सत्ताऽभ्युपगममपि कथाकारणं ब्रूते । स एवैवं पर्यनुयोज्यः ॥ यत्पुनः न च प्रमाणादीनाम् इत्यादिना कल्पनागौरवमवादि । तत्र किं प्रमाणादिसत्ताऽभ्युपगमे कल्पनागौरवमुत तत्सत्ताऽभ्युपगमस्य कारणकोटिप्रवेशने । नाद्यः । कारणत्वान्यथाऽनुपपत्त्या तत्सत्तायाः प्रमितत्वात् । प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात् । द्वितीये तु संवाद एव ।
तृतीयेऽप्याद्यं तावदङ्गीकुर्मः । तत्रोक्तं दूषितप्रायम् । द्वितीयाङ्गीकारेऽपि न दोषः । देहात्मत्वादिकं तु पश्चाद्विचारबाध्यतया नाभ्युपगम्यत इति । यदत्रोक्तं प्रमाणादिसत्ताऽपी त्यादि । तेन किमुक्तं भवति । किं विचारसाध्यः प्रमाणादिसत्ताऽभ्युपगमो न विचारप्रवृत्तेः कारणमिति । किंवा विचाराबाध्यताया एव प्रमाणादिसत्ताऽभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति । आद्ये संप्रतिपत्तिः । न द्वितीयः । औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्र दर्शने तस्यैव प्रयोजकत्वात् ।
चतुर्थपक्षोक्तदोषोऽप्यनेनैव परिहृतः । न हि वयं प्रमाणादिसत्ताऽभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः । किन्तु प्रमाणादीन्येव । तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्ताऽवश्यमभ्युपगमनीयेति ।
स्यादेतत् । नियतवाग्व्यवहारक्रियासमयबन्धेन कथां प्रवर्तयताऽपि व्यवहारसत्ता अभ्युपगन्तव्या । न हि सत्तामनभ्युपगम्य व्यवहारक्रियाऽभिधातुं शक्या । क्रिया हि निष्पादना । असतः सद्रूपताप्रापणमिति यावत् । प्रमाणैर्व्यवहर्तव्यमिति च नियमबन्धनं प्रमाकरणभावस्य नियमान्तर्भावान्नियतपूर्वसत्त्वरूपं कारणत्वं प्रमाणानामनादाय न पर्यवस्यति । दूषणानां चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां च व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्यवहारनियमनादौ च कण्ठोक्त्यैव तस्य सत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते ।
प्रमाणादीनां सत्तामनभ्युपगम्य कथाऽऽरम्भः शक्यत इत्येवमाशङ्क्य यदुक्तम् एतैरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वेन पूर्वोक्तबाधाया न निस्तारः स्यादि ति तदप्यनेनैव परिहृतम् । कथास्वरूपफलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति कथायां प्रवृत्तं स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिरुच्यमानत्वात् ॥
ननु कथादेः कार्यस्य सत्त्वे कथञ्चित्कारणस्य प्रमाणादेः सत्त्वमङ्गीकरणीयं स्यात् । कार्यस्यैव सत्त्वाभावे किं कारणसत्तयेति चेत् । कुतः प्रमाणात्कथादिसत्ताऽभावो भवता निश्चितः । श्रुत्यादेरिति चेन्न । तस्यैवानेकातिप्रसङ्गगहननिविष्टत्वात् । तथाच सिद्धे तत्प्रामाण्ये कथादिकार्यासत्त्वसिदि्धः, ततोऽन्यथासिद्ध्या तर्कस्याभासतासिदि्धः, तस्यां च श्रुत्यादिप्रामाण्यसिदि्धरिति चक्रकापत्त्या नैकस्यापि सिदि्धः ॥ असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इत्यलं प्रसङ्गेन ।
स्यादेतदेवम् । यदि नेहनाने त्यादिबलेनात्मातिरिक्तस्य सर्वस्यासत्त्वमभ्युपगच्छामः । न चैवम् । किं नाम । व्यावहारिक सत्ताऽभ्युपगम्यत एव । तथा च सर्वान्तःपातिनो व्यवहारसतः प्रमाणादेः साधकत्वसंभवान्नोक्तप्रसङ्ग इत्यत आह व्यवहारसतश्चेति ।
च शब्दो हेतौ । अपि शब्दः समुच्चये । तु शब्दोऽवधारणे । व्यवहारसतोऽपि साधकत्वं पूर्वस्यासत इव, प्रतिवादिनो न सिद्धमेव यतोऽतो नोक्तप्रसङ्गनिस्तार इति ।
अमयर्थः । यदि व्यावहारिकं सत् नाम सदेव, तदा मिथ्यात्वप्रतिपादनं व्याहतम् । फलितं चास्मन्मनोरथद्रुमेण । व्यर्थं च व्यावहारिक पदम् । अथ तदसत्तदा किमनेन अधिकमाचरितम् । सत्त्वाभावे साधकत्वं न स्यादित्यनिष्टप्रसङ्गस्य तदवस्थत्वादिति ।
ननु च द्विविधं सत् मुख्यममुख्यं च । तत्र यस्य सर्वप्रकारेण बाधितत्वं नास्ति तन्मुख्यं सत्, पारमार्थिकमिति च गीयते । यस्य तु सत्प्रतीतिरेव सत्ता तदमुख्यं सत् । न च ततः सत्ता सिद्ध्यति ।
तथा हि । किं सत्ताऽवगममात्रात्तत्सत्ताऽभ्युपगम्येति मन्यसेऽबाधितात्तदवगमाद्वा । नाद्यः, मरुमरीचिकाऽऽदौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात् । द्वितीयेऽपि वादिप्रतिवादिमध्यस्थमात्रस्य । तस्यापि कथाकाल एव बाधितत्वावगमाभावात्, अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात् । नाद्यः अतिप्रसङ्गात् । पुरुषत्रयावगतस्याप्येकक्षणावगतस्य पुरुषान्तरेण तेनापि क्षणान्तरेऽपि बहुलं बाधदर्शनात् । न चासावर्थोऽसत्योऽपि द्वित्रादिपुरुषमात्रपूर्वजाततत्प्रतीत्यनुरोधाद् बाधदर्शने सञ्जातेऽपि तथैव सन्नित्यभ्युपगम्यते । तस्मात् द्वितीयः पक्षः परिशिष्यते । न चासावमुख्येऽस्तीति कुतः पारमार्थ्यप्राप्तिः । न च वाच्यं सत्प्रतीतेरपि प्रतीत्यन्तरमेव सत्तेत्यनवस्थेति । प्रतीतेः पारमार्थिकत्वात् । न हि तस्याः बाधोऽस्ति । अस्ति चेत्सैव प्रतीतिरबाधिता परमार्थसती । न च प्रतीतेः स्वरूपभेदोऽस्तीत्यतो विज्ञानं ब्रह्मैव परमार्थसत् ।
अमुख्यं पुनर्द्वेधा । मायोपाधिकमविद्योपाधिकं चेति ॥ तत्र आद्यमंबरादिकम् । तच्चाऽऽब्रह्मज्ञानाद् बाधवैधुर्येण हानादिव्यवहारनिर्वाहकत्वाद् व्यावहारिकमिति गीयते । कतिपयप्रतिपत्तृकतिपयकालतथात्वावगमादेव हि लौकिको व्यवहारः प्रतीयते ॥ द्वितीयं शुक्तिरजतादि । तत्तु प्रतीतिसमयमात्रपरिवर्ति । न पुनर्हानादिहेतुरिति प्रातीतिकमुच्यते ॥
तदेवं सत्त्रैविध्यादम्बरादिकं विश्वं सदपि पारमार्थिकत्वाभावान्मिथ्येति युज्यते । व्यावहारिकसत्त्वाच्च तदन्तर्गतस्य प्रमाणाऽऽदेः कथाऽङ्गतोपपद्यते । पारमार्थिकप्रातीतिकव्यावृत्त्यर्थत्वेन व्यावहारिकपदं च संभवतीति ॥
अत्रेदं वक्तव्यम् । किं पारमार्थिकसदेव सत् असच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यम्, उत सत्येवावान्तरभेदेन ।
आद्ये प्रागुक्तदोषानिस्तारः । न हि सदिति ज्ञानमात्रेणासदर्थक्रियार्हम् । येन तथाविधं प्रमाणादि कथाङ्गतां गच्छेत् । तथात्वे विषमपि पीयूषतयाऽवगतं तदर्थक्रियां कुर्यात् । बाधविलम्बस्त्वप्रयोजकः । अर्थतादवस्थ्यानिवृत्तेः । एवं ज्ञानसत्यताऽपि । शुक्तिरजतादेरपि रजतोचितार्थक्रियाकारित्वप्रसङ्गात् । यदपि तथैव लौकिको व्यवहारः प्रतीयत इति, तदग्रे निराकरिष्यते । अर्थक्रियाऽप्यसती ति चेतरेतराश्रयादिना निरस्तम् । सतोऽर्थक्रियाऽसंभवादसत्येव कथञ्चित् सा अङ्गीकार्येति चेत् । श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत् । प्राक्तन्निश्चयात्परमार्थसत एवार्थक्रियेति मन्यमानः प्रतिवादी कथं बोधनीयः । अन्योन्याश्रयादिप्रसङ्गादित्युक्तम् ।
द्वितीयं दूषयति सत्त्रैविध्यं चेति ।
केन इत्यस्य परमार्थसता वा व्यावहारिकसता वा प्रातिभासिकसता वा । आद्येऽपि किमात्मेतरेण उत आत्मनेत्यर्थः । पृच्छ्यत अस्माभिरिति शेषः । यथा मिथ्याभूतस्य साधकत्वं केन सिद्ध्येदिति पृष्टं तथेति चार्थः । व्यावहारिकसतः साधकत्वसिद्धये यदुपन्यस्तं तच्चेति वा ॥
पृच्छाविषयत्वमेव न दोष इत्यत आह तस्यापीति ।
असतः साधकत्वस्येव तस्य सत्त्रैविध्यस्यापि कथञ्चन विकल्पितपक्षेषु कस्मिंश्चन पक्षे नैव सिदि्धः । कुतः । उक्तप्रकारेणैव । तथा हि । न तावत्परमार्थसताऽऽत्मेतरेण, द्वैतापत्तेः । नाप्यात्मनैव, तस्य निर्विशेषस्य साधकताऽयोगात् । व्यावहारिकप्रातीतिकयोस्तु स्वरूपमेवाद्यापि न सिद्धमिति । नामुख्यं सदसन्नापि सत् । येनोक्तदोषप्रसङ्गः । किन्त्वनिर्वचनीयम् । न च तदपि दुर्वचम् । सदसद्वैलक्षण्यस्यैव तत्त्वात् । तच्चोक्तविधया व्यावहारिकप्रातिभासिकभेदाद् द्विविधम् । तत्र व्यावहारिकस्य प्रपञ्चस्य सदसद्विलक्षणस्य सद्विलक्षणत्वादुपपन्नं श्रुत्यादिना मिथ्यात्वसमर्थनम् । असद्विलक्षणत्वात्तदन्तर्गतस्य प्रमाणादेः साधकत्वं चेति ।
स्यादेतदेवं कथञ्चिद्यदि विश्वस्य सदसद्विलक्षणत्वं स्यात् । तदेव न सिद्ध्यतीत्याह वैलक्षण्यं सदसतोरिति ।
विश्वस्येति शेषः । सदसतोरिति संबन्धमात्रे षष्ठी । तथा च सदसद्भ््यामित्यर्थः ॥ एतेन प्रमाणविकल्पनिरासेन । तथा हि । विश्वस्य सदसद्वैलक्षण्यं किं सता प्रमाणेन साध्यते, उतासता, अथ सदसद्विलक्षणेन । नाद्यः, वादिनोऽनुपपत्तेः । न द्वितीयतृतीयौ, प्रतिवादिनोऽसंप्रतिपत्तेरिति ॥
नन्वत्र सदसद्वैलक्षण्ये साधकत्वं न स्यादिति प्रसङ्गो वाच्यः । न च तत्र व्याप्तिः । मैवम् । साक्षिणि व्याप्त्यवधारणोपपत्तेः । सत्त्वाभावे साधकत्वं न स्यादिति वा प्रसङ्गं वक्ष्यामः । तत्रासत्त्वमुपाधिरिति चेन्न । तस्य सत्त्वाभावानतिरेकात् । तद्भङ्गस्य च प्रागनिर्वचनीयसिद्धेरशक्यत्वात् ।
एतेन सद्विलक्षणत्वान्मिथ्यात्वोपपादनमसद्विलक्षणत्वात्साधकत्वं चोपपन्नमिति परास्तम् । सद्वैलक्षण्येऽसत्त्वापत्त्या साधकत्वाभावस्य, असद्वैलक्षण्ये च सत्त्वापातेन मिथ्यात्वोपपादनस्यासंभवस्यापत्तेः । प्रागनिर्वाच्यसिद्धेः व्याप्तिद्वयनिरासायोगात् । असद्वैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसङ्गः । मायाविद्यावैलक्षण्यान्नैवमिति चेन्न । तस्य निराकरिष्यमाणत्वात् । वैलक्षण्यमात्रस्य प्रकृतानुपयोगादिति ।
आस्तां वा सत्त्वादिविकल्पनिरासेन दूषणाभिधानम् । प्रमाणमेव प्रपञ्चानिर्वचनीयतायां नोपपद्यते । न हि नेहनाने त्यादिश्रुतिः सदसद्वैलक्षण्यलक्षणानिर्वचनीयतां विश्वस्य वक्ति ॥
अथ मन्येत विवादपदं सदसद्विलक्षणं ज्ञानबाध्यत्वाद्यदेवं तदेवं यथा शुक्तिरजतमित्यनुमानं विश्वस्य सदसद्विलक्षणत्वे मानम् । तद्बलात् श्रुतिरपि तत्रैव पर्यवस्यती ति । तदसत् । अनुमानस्याऽभासत्वादित्याशयवान् प्रथमप्राप्तत्वात्प्रतिज्ञां तावन्निराकरोति वैलक्षण्यं सतश्चेति ।
चशब्दौ अवधारणे । अपिशब्दौ मिथः समुच्चये ।
अयमर्थः । किमत्र सदसच्छब्दौ भावाभाववाचिनौ, किंवा विद्यमानाविद्यमानवाचिनौ । आद्ये दूषणम् । सतो भावात्मकस्य विश्वस्यासतः अभावात् वैलक्षण्यमपि भावाभावभेदवादिनो मम मते स्वयं सत् अस्त्येव । एवम् असतः अभावात्मकस्य विश्वस्य सतो भावात् वैलक्षण्यमपि भेदवादिनः स्वयं सत् एव । अतः तेन साधितेन मम अनिष्टं कथं भवेत् । किं नामैवं विभागेन सदसद्वैलक्षण्यसिद्ध्याऽपि प्रतिज्ञातार्थसिद्धेरर्थान्तरता परस्य स्यादिति ॥ १ ॥
यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितम् । तदा सतो भावस्य अपि विश्वस्य सतो भावात् वैलक्षण्यं भावभेदवादिनो मम स्वयं सदेव । भावान्तरवैलक्षण्याङ्गीकारात् । असतः अभावात् अपि वैलक्षण्यं सुतरां भावाभावभेदवादिनः स्वयं सदेव । एवम् असतः अभावस्य विश्वस्यासतः अभावात् वैलक्षण्यम् अभावभेदवादिनः स्वयं सदेव । भावान्तरवैलक्षण्याङ्गीकारात् । सतो भावात् वैलक्षण्यमपि सुतरां स्वयं सदेवेति तेनानिष्टं कथं भवेत् ॥ २ ॥
भावाभाववैलक्षण्यं नाम तत्त्वानधिकरणत्वं विवक्षितमिति चेत् । तथाऽपि सतो भावस्यापि विश्वस्यासतः अभावात् वैलक्षण्यम् अभावत्वानधिकरणत्वम् अपि स्वयं सदेव । असतः अभावस्य विश्वस्य सतो भावात् वैलक्षण्यमपि भावत्वानधिकरणत्वमपि मम स्वयं सत् एव । भावाभावभेदवादित्वात् । यदि हि भावेऽप्यभावत्वमभावेऽपि भावत्वमङ्गीकुर्यां कुतस्तदा भावाभावभेदवादः । तथा च कथं तेन साध्यमानेन अनिष्टं मम भवेत् ॥ ३ ॥
अथ प्रत्येकं भावाभावत्वानधिकरणत्वं विवक्षितमिति मन्येत । तदा सतो भावस्यापि विश्वस्य भावाभाव वैलक्षण्यं भावाभावरूपत्वानधिकरणत्वं मम स्वयं सदेव तथा असतः अभावस्य अपि विश्वस्य उक्तरूपं वैलक्षण्यं स्वयं सदेव । भावाभावभेदवादिनैकैकार्थस्योभयरूपताऽनङ्गीकारात् । भावे हि भावत्वमेव । नाभावत्वमपि । अभावे चाभावत्वमेव । न भावत्वमपी त्यतः तेन साधितेन अनिष्टं मम कथं भवेत् । ४ ॥
अथैकैकस्य वस्तुनो भावत्वानधिकरणत्वमभावत्वानधिकरणत्वं च साध्यतया विवक्षितमिति मन्वीत । तथाऽपि सतो भावस्य अपि विश्वस्यासतः अभावात् वैलक्षण्यम् अभावत्वानधिकरणत्वं मम सत् एव । एवम् असतः अभावस्य अपि विश्वस्य सतो भावात् वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । भावाभावभेदवादित्वात् । अतः कथं मम तेनानिष्टं भवेत् । अंशे सिद्धार्थतया परस्य निग्रहात् । उभयसाधनाददोष इति चेन्न । असिद्धसन्निधानेऽपि सिद्धस्य तत्त्वानपायात् । विशिष्टसाधनान्नैवमिति चेन्न । तथाऽपि वैयर्थ्यानिस्तारात् ॥ ५ ॥
अथ भावाभिमते भावत्वानधिकरणत्वमभावाभिमते चाभावत्वानधिकरणत्वं साध्यते । अतो नोक्तदोष इति चेन्न । तथाऽपि सतो भावस्य अपि विश्वस्य सतो वैलक्षण्यं भावत्वानधिकरणत्वं मम स्वयं सदेव । कथं भावत्वभेदवादिनो नैकमेव भावत्वं सर्वभावेष्वनुगतम् । किं नाम प्रतिभावं भावत्वानि भिद्यन्ते । प्रतिपादयिष्यते चैतत् । तथा च भावोऽपि भावत्वान्तरानाधारो भविष्यति । एवम् असतः अभावरूपस्य अपि विश्वस्यासतो वैलक्षण्यम् अभावत्वानधिकरणत्वं मम स्वयं सदेव । कथम् । अभावत्वभेदवादिना अभावेऽप्यभावत्वान्तराभावस्वीकारात् । तथा च तेनानिष्टं कथं भवेत् । परस्यैव सिद्धार्थताऽनिस्तारात् ॥ ६ ॥
अथ भावाभावाभिमतयोः सर्वथा भावाभावत्वे न स्त इत्यर्थो विवक्षितः । तथाऽपि सत एव भावस्यैव असतो वैलक्षण्यम् अभावत्वानधिकरणत्वं स्वयं सदेव नियतं भवत्येव । एवम् असत एवाभावस्यैव सतो वैलक्षण्यं भावत्वानधिकरणत्वम् अपि स्वयं सदेव । यतस्तस्मात् विश्वस्य तेन साधितेन भेदवादिनः अनिष्टं कथं भवेत् । इदमुक्तं भवति ।यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणमिति साध्यते । तदा तस्य भावत्वं प्रतिज्ञातं स्यात् । भावस्यैवाभावत्वानधिकरणत्वनियमात् । द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः । एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रतिज्ञातं स्यात् । अभावस्यैव भावत्वानधिकरणत्वनियमात् । भावनिषेध एव ह्यभावः । तथा च विश्वस्य भावाभावविभागस्य च परेणाभ्युपगतत्वान्न भावाभावभेदवादिनो ममानिष्टं किञ्चित् । किन्तु भावाभावव्यतिकरमात्रम् । तत्साधनं च प्रकृतानुपयुक्तमिति ॥ ७ ॥
भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसंमते, भावाभावत्वानधिकरणत्वमप्यधिकं साध्यते । अतो नोक्तदोष इति चेन्न । यतः सतो भावस्यैव विश्वस्य वियदादेः असतो वैलक्षण्यम् अभावत्वानधिकरणत्वं स्वयं सदेव प्रमितमेव । यतश्च असतः अभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । अतो भेदवादिनः तेन विपरीतेन प्रतिज्ञातेन अनिष्टं कथं भवेत् । प्रतिज्ञातार्थासिद्धौ खल्वनिष्टं भवेत् । न हि प्रमाणबाधितोऽसौ सिद्ध्यति । व्यावहारिकभावत्वाभावगोचरं प्रमाणं तत्त्वविषयेण अनुमानेनैव बाध्यत इति चेन्न । यतोऽस्माकं तावद्भावाभावत्वविषयं प्रमाणं तत्त्वगोचरमेव । अन्यथा चक्रकादिप्रसङ्गादतिप्रसङ्गाच्चेति ॥ ८ ॥
द्वितीयेऽप्येतदेवोत्तरम् । विश्वस्य सतः सत्यात् वैलक्षण्यमपि मम स्वयं सम्मतमेव । तथा असतः अविद्यमानात् अपि वैलक्षण्यं स्वयम् एव अतः तेन साधितेन मम अनिष्टं कथं भवेत् । भवतु विश्वस्यासतः शशविषाणादेर्वैलक्षण्यं स्वमतम् । सतो वैलक्षण्यं तु कथम् । सत्त्वाङ्गीकारादिति चेन्मैवम् । सतो विद्यमानस्यापि असतो भेदं वदतो मम यथा विश्वस्यासतो वैलक्षण्यं स्वयम् एव । तथा सतोऽपि विश्वस्य सतो वैलक्षण्यं सतां भेदवादिनः स्वयम् एव । सदन्तरवैलक्षण्यात् ॥ ९ ॥
सत्त्वासत्त्वानधिकरणत्वं सदसद्विलक्षणत्वमिति चेत् । तदाऽपि सतो विश्वस्यासतो वैलक्षण्यं सदसद्भेदवादिनः स्वयं सदेव । अतः तेन साधितेन मम अनिष्टं कथं भवेत् । परस्यैवांशतः सिद्धार्थता भवेत् । तर्हि सत्त्वानाधारत्वमेव साध्यत इति चेन्न । असत एव हि सतो वैलक्षण्यं सत्त्वानधिकरणत्वं भेदवादिनो मम स्वयं सदेव नियमेन भवति । तथा च विश्वस्य तेन सत्त्वानधिकरणत्वेन साधितेनासत्त्वापत्त्या परस्यैवानिष्टं भवेत् । अनिष्टप्रसङ्गेन परं निगृहीतवतो मम अनिष्टं कथं भवेत् ॥ १० ॥
अथासत्त्वानधिकरणत्वे वादिप्रतिवादिसिद्धे सत्त्वानधिकरणत्वमप्यधिकं साध्यत इति चेन्न । अनिष्टानिस्तारात् । किञ्च, न सत्त्वं नामैकमनुगतं किन्तु प्रतिवस्तु सत्त्वानि भिद्यन्ते । तत्र वियदादेरसद्वैलक्षण्ये सति सत्त्वानधिकरणत्वं साध्यमानं किमेकसत्त्वानधिकरणत्वम्, उतानेकसत्त्वानधिकरणत्वम्, अथ सर्वसत्त्वानधिकरणत्वम्, किंवा अविशेषितसत्त्वानधिकरणत्वम्, अथवा सर्वथा सत्त्वानधिकरणत्वं विवक्षितम् ॥ नाद्यः विश्वस्य सतोऽपि वैलक्षण्यं तावन्मम स्वयम् एव सतोऽपि वैलक्षण्यं सत्त्वानधिकरणत्वमपि स्वयम् एव । कथम् । सत्त्वभेदवादिनो मम सतोऽपि सत्त्वान्तरानधिकरणत्वाङ्गीकारात् । तथा च सिद्धेन तेन साध्यमानेन मम अनिष्टं कथं भवेत् ॥ एवमेव चतुर्थनिराकरणमपि व्याख्येयम् ॥ न द्वितीयतृतीयौ । विश्वस्यासतो वैलक्षण्यम् असत्त्वानधिकरणत्वं तावन्मम स्वयम् एव । सतो वैलक्षण्यम् अनेकसत्त्वानधिकरणत्वम् सर्वसत्त्वानधिकरणत्वम् अपि स्वयं सदेव । कथम् । भेदवादिनैकैकस्यार्थस्यानेकसर्वसत्त्वास्वीकारात् । स्वीकारे च भेदभङ्गः स्यात् । ततश्च तेनानिष्टं कथं भवेत् ॥ न पञ्चमः । यतः सत एव असतो वैलक्षण्यं स्वयं सदेव नियतमेवास्ति । यतश्च असत एव सतो वैलक्षण्यमपि नियतमेवातः तेन साध्यमानेन विश्वस्य सदसत्त्वापत्त्या भेदवादिनः कथमनिष्टं भवेत् ।
मया ह्येकस्यैव सदसत्त्वमङ्गीकृतम् । स्वोपाधौ प्रतिषेधाप्रतियोगित्वात्परोपाधौ च तत्प्रतियोगित्वात् । द्वयोरपि सर्वथा प्रतिषेधात्कथं सदसत्त्वप्रसङ्ग इति चेत्तर्हि असत एव सतो वैलक्षण्यं स्वयं सत् नियतमेव । सतः सद्वैलक्षण्यम् उक्त्वा पुनः असतोऽपि वैलक्षण्येन व्याहतेन प्रतिज्ञातेन भेदवादिनः कथमनिष्टं भवेत् । एवं सत एव असतोऽपि वैलक्षण्यं नियतमित्यसद्वैलक्षण्यमुक्त्वा पुनर्विश्वस्य सद्वैलक्षण्यप्रतिज्ञा व्याहता द्रष्टव्या । न ह्यनिर्वाच्यसिद्धेः प्रागयं विप्रतिषेधो निवारयितुं शक्यः । अस्मादेव हेतोस्तत्सिदि्धरिति चेत्तर्हि माता वन्ध्ये ति प्रतिज्ञा कुतो विप्रतिषिद्धा । वक्ष्यमाणहेतुनैव प्रतिज्ञातार्थसिद्धेस्तत्रापि सुवचत्वात् । संभावितः प्रतिज्ञाया अर्थः साध्येत हेतुने ति न्यायात्तत्र हेत्वाकाङ्क्षैव नास्तीति चेत्समम् ।
किञ्च सत एव विश्वस्यासतो वैलक्षण्यं स्वयं सत् एव साक्षिप्रमितमस्ति । अतस्तेन बाधितेन सर्वथा सत्त्वानधिकरणत्वेन प्रतिज्ञातेन भेदवादिनः कथमनिष्टं भवेत् । अमुख्यसत्त्वावेदकं प्रमाणं तदिति चेत् । मम तावन्मुख्यमेव तत्सत्त्वमित्युक्तम् । परकयप्रमाणतर्काणामद्यापि गहने निविष्टत्वादिति ।
केचित् ते तव अनिष्टं कथं न भवेत् इति व्याचक्षते । तत्र न पादादावि ति प्रतिषेधस्य नञा निर्दिष्टमनित्यमिति समाधानमवसेयम् । द्वितीये दूषणान्तरमाह यद्युच्यत इति ।
अपिशब्दो दूषणसमुच्चये । सर्वस्मादपीत्यभिविधौ वा । यदीति श्रवणात्तर्हीति ग्राह्यम् । सर्वशब्दोऽनेकार्थः । यदि अनेकस्मात् सतो वैलक्षण्यम् अनेकसत्त्वानधिकरणत्वं विश्वस्य साध्यमित्युच्यते तर्हि सतां भेदसंस्थितिः ततश्चापसिद्धान्तः । इदमुक्तं भवति । विश्वमनेकसत्ताऽनधिकरणमिति प्रतिजानता अनेकसत्त्वान्यङ्गीक्रियन्ते न वा । द्वितीयेऽनेकविशेषणं व्यर्थम् । आद्येऽप्येकस्मिन्नेवार्थेऽनेकानि सत्त्वान्युताधारभेदेन । नाद्यः वैयर्थ्यात् । द्वितीये त्विदमुपतिष्ठते सद्भेदसंस्थितिरिति । अनेकसत्त्वाधिकरणताप्रतिषेधसामर्थ्याद् एकैकसत्त्वस्वीकारापत्तेरिति वा ।
तृतीयस्य वेदं दूषणान्तरम् । यदि सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वं विश्वस्य साध्यतयोच्यते तर्हि सद्भेदसंस्थितिः । न ह्यनेकसदनङ्गीकारे सर्वशब्दस्य प्रयोजनमस्ति । सन्त्येवानेकानि सन्ति पारमार्थिकं त्वेकमेवेति चेन्न । तत्सिद्ध्यर्थमेवाद्यापि भवता प्रयतनात् । तदनधिकरणत्वसाधने चांशेऽपसिद्धान्तात् ।
चतुर्थे दूषणान्तरमाह सन्मात्रत्वमिति ।
अविवक्षितविशेषं सत्त्वं यस्माद् ब्रह्मणोऽप्यस्ति । तस्मात्कारणात्तस्मात्सतो ब्रह्मणस्तद्वैलक्षण्यम् । तत्सत्त्वानधिकरणत्वमपि विश्वस्य नोऽस्माकं मतं भवेत् । तथाच सिद्धत्वात्तदपि साध्यं नो भवेत् । अविवक्षितविशेषसत्त्वानधिकरणत्वे साध्ये ब्रह्मगतसत्त्वानधिकरणतयाऽपि प्रतिज्ञातार्थोपपत्तेरर्थान्तरतेति ।
अथवा किमिदं सत्त्वं नाम यदनधिकरणत्वं विश्वस्य साध्यते । किं सामान्यसत्त्वमुत स्वरूपसत्त्वम् । आद्यं दूषयति यद्युच्यत इति । सर्वस्मात् सर्वार्थानुगतात् सामान्यात् वैलक्षण्यं तदनाधारत्वमिति यावत् । साध्यतया यद्युच्यते तदा सद्भेदसंस्थितिः । यदि सत्तैव नास्ति तदा तदनधिकरणत्वप्रतिज्ञा व्यर्था स्यात् । नेदं शशविषाणाधिकरणमितिवद् विप्रतिपत्तेरेवानुदयात् । सत्तासामान्याङ्गीकारे च सद्भेदो दुर्वार एव । न ह्येकाश्रयं सामान्यमस्ति । सन्ति सत्ताधिकरणानि सन्तीति चेत्तर्हि कानीति वक्तव्यानि । द्रव्यादीनीति चेत्कथं तर्हि तेषामेव तदनधिकरणत्वसाधनम् । व्यवहारतः सर्वमस्ति । परमार्थतस्तु नेति चेन्न । उक्तोत्तरत्वात् । एतच्च परमतेनोत्तरमुक्तं वेदितव्यम् । स्वमतेन तु सिद्धसाधनत्वं द्रष्टव्यम् । द्रव्याद्यतिरिक्तानुगतसत्त्वसामान्यस्यैवानङ्गीकारात् ।
द्वितीयं दूषयति सन्मात्रत्वमिति । सत्तानपेक्षं सत्त्वं सन्मात्रत्त्वं स्वरूपसत्त्वमिति यावत् । तत् ब्रह्मणोऽपि अस्ति यतः तस्मात् कारणात् तस्मात् ब्रह्मणः तत् वैलक्षण्यमब्रह्मत्वम् अपि विश्वस्य नो भवेदिति ।
अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते । तथा हि सत्तासामान्यविधुरस्य अपि ब्रह्मणः सन्मात्रत्वं स्वरूपसत्त्वं तावदस्ति । न पुनः सत्त्ववैधुर्यादसदनिर्वाच्यं वा ब्रह्म । तस्मात् सत्तावैधुर्यस्यासत्त्वाद्यहेतुत्वात् तत् सत्तानधिकरणत्वम् अपि विश्वस्य नो भवेदिति
एतेन ब्रह्मस्वरूपं सत्त्वमि ति पक्षोऽपि निरस्तः ।
अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं वा सत्त्वमि ति पक्षद्वयं स्फुटदोषत्वान्न दूषितम् । अर्थक्रियावैधुर्यसाधने हि बाधः स्फुट एव । परमार्थतो नास्ती त्यप्युक्तोत्तरम् । सत्यस्य नार्थक्रिये ति वदता मिथ्याभूतस्यैवार्थक्रिया अङ्गीकृतेति सिद्धान्तविरोधश्च । अर्थक्रियाविधुरस्यापि ब्रह्मणः सत्त्वात्तद्वैधुर्यं नासत्त्वादिहेतुः । अर्थक्रियाऽनधिकरणतामात्रसाधनं प्रकृतानुपयुक्तं तद्विरुद्धं च । ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव । तच्च हेत्वर्थान्न भिद्यत इति स्फुटमेव । हेत्वन्तराभिधानेऽपि वक्ष्यमाणन्यायेन बाधसिद्धार्थताद्यापत्तिः स्फुटैव ।
यदत्रोक्तम् । त्वयाऽपि द्वे तत्त्वे सदसदिति तत्त्वं व्यवस्थापयता यदेव सत्त्वेन व्यवस्थापितं तस्यैव मयाऽप्यङ्गीकारान्न सच्छब्दार्थानिरुक्तिरिति । तदतीव मन्दम् । मया हि क्वचित्सदिति भावो व्यवह्रियते । क्वचिच्च प्रतिपन्नोपाधौ निषेधाप्रतियोगि । क्वापि मूर्तमित्यादि । तत्सर्वं च निरस्तमिति ।
एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति ज्ञानबाध्यत्वमिति ।
न केवलं प्रतिज्ञा दुष्टा, किं नाम हेतुभूतं ज्ञानबाध्यत्वमपि इत्यर्थः । तुशब्दः सिद्धान्त्यभिमताद् ज्ञानबाध्यत्वाद् व्यवच्छिनत्ति । ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम् । न च प्रपञ्चे तत् प्रतिवादिनो मम सिद्धम् । अतोऽन्यतरासिद्धो हेतुरिति ।
नन्वीश्वरज्ञानेन प्रपञ्चनिवृत्तिस्त्वयाऽपीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः । ज्ञानादिमत एव कर्तृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम् । अपि तर्ह्यज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम् । यथाऽऽह । अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः इति । न चायं प्रपञ्चेऽस्माकं संमतः । किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव । स एव हेतुरस्त्विति चेन्न । तथाविधम् अपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् ।
किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु । न च विपक्षे किञ्चिद्बाधकमस्तीत्यतः अप्रयोजकत्वाद् ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत् । प्रतिवादिनो मतेनेति गुडजिह्विकामात्रम् । बाधकानुपन्यासे वादिनोऽपि व्याप्यत्वासिद्धेरावश्यकत्वात् । सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत् । तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि व्यर्थविशेषणासिद्धमपि स्यात् । नाश्यत्वमात्रं हेतुः, ज्ञान इति स्वरूपकथनमात्रम् । स चोक्तबाधकसानाथ्येन नाप्रयोजक इति चेन्न । सत्त्वसाम्येऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात् ॥
ननु च नेह नानाऽस्तीतिप्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चेऽस्तीति चेन्न । श्रुत्यर्थनिर्णयोत्तरकालमेवैतत् । स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात् ।
अथवा ज्ञानबाध्यत्वं त्वसिद्धं व्याप्तिरहितम् अपि इति योज्यम् । तथा हि । किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते किं वाऽस्मदभिमतमिति वाच्यम् । आद्यं चेदुक्तन्यायेन न सिद्धं प्रतिवादिनः । द्वितीये व्याप्तिवैधुर्यमिति । तत्कथमित्यत आह विज्ञातस्येति ।
हि यस्मात् अन्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाधस्तद्विषयत्वमेव तद्बाध्यत्वं मतम् अस्माकम् । तच्चात्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः । सत्योऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तवाक्यजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम् । अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति ।
अथवा दृष्टान्तं प्रत्याचष्टे ज्ञानबाध्यत्वमिति । अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति । तुशब्दो ज्ञानबाध्यत्वमनभिमताद् व्यवच्छिनत्ति ॥ न सिद्धं शुक्तिरजतादाविति शेषः । शुक्तिरजतादेरनिर्वचनीयत्वं तावत् प्रतिवादिनो ममासिद्धम् । मयाऽत्यन्तासत्त्वेनाङ्गीकृतत्वात् । अत एव ज्ञानबाध्यत्वं मम तत्रासंमतम् । तदि्ध ज्ञाननिवर्त्यत्वं परस्याभिमतम् । न चासतस्तत्संभवति । तस्य नित्यनिवृत्तत्वात् । अतः साध्यसाधनविकलोऽयं दृष्टान्ताभासः ।
ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ । मैवम् । तथा सत्यसत्त्वप्रसङ्गात् । वक्ष्यते चैतत् । यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः । (बाढम् । ननु) सकल लोकविरोधादिप्रसङ्गः । मैवम् । त्वदभिमतस्याभावेऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात् । किं तदित्यत आह विज्ञातस्येति । बाध्यत्वमिति प्रकृतप्रकृत्यर्थं बाधं तत् इति सामान्येन परामृशति ।
केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः । अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् । तदुभयं प्रत्येकमव्यापकम् । शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः । तस्मादुभयानुगतमेतदुच्यते । रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानं भवति । एवमसतो रजतस्य सत्त्वादिनाऽवगतस्यासत्त्वादिना विज्ञानमपि अन्यथाविज्ञातस्य सम्यग्विज्ञानं भवत्येव । सम्यग्विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत । न च तथा व्यवहारः । तन्निवृत्त्यर्थम् अन्यथाविज्ञातस्येत्युक्तम् । अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे रजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञानेऽपि प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथेति तत्स्वरूपापेक्षया । तेन घटस्यैव, पटाद्यपेक्षया अन्यथा घटत्वेन ज्ञातस्य, पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः । छलप्रसङ्गात् । तथाऽपि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गः तदवस्थः । एवमेकेनान्यथाविज्ञातस्य पुरुषान्तरसंबन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गोऽपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानस्यार्थस्य वाऽस्तु । न तावद् ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेर्नित्यलोडितत्वात् । अतः पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथा च सति कोऽतिप्रसङ्गः । तत्किं वक्तव्यमेतत् । न हि । कथमनुच्यमानं ज्ञास्यते । अन्यथाविज्ञातस्येति वचनसामर्थ्यात् । अन्यथा सम्यग्विज्ञानमित्येवावक्ष्यत् । किमनेनेति । तद्विषयत्वं बाध्यत्वमिति शेषः ।
अथवाऽनिवर्चनीयममुख्यं सदित्युक्तम् । तत्र किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः, किंवा निरुक्तिनिमित्तविरहः । नाद्यः । अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासंभवित्वात् । द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् । नाद्यः ज्ञानस्योभयवादिसिदि्धसद्भावात् । न द्वितीयः यथा प्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिना अभ्युपगतत्वादित्याशङ्क्य परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् । सदसद्विलक्षणत्वम् अनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति ।
तत्राद्यं तावन्निराकरोति वैलक्षण्यं सतश्चेति । व्याख्यानानि तु पूर्ववदेव । तत्र यावत्सु पक्षेषु सिद्धार्थत्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन् प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्दोषोऽवगन्तव्यः । यत्र पुनर्बाधादिपर्यवसानं तत्र अव्याप्तिरवगन्तव्या । अथवाऽनिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्य अभिमतम् । तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेः विश्वस्य असद्विलक्षणत्वमेव स्वयं सत् । एवम् असत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेः विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत् । वियदादावसद्विलक्षणत्वमेवास्ति । सद्वैलक्षण्यं तु प्रमाणबाधितम् । तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति । असद्वैलक्षण्यं तु प्रमाणविरुद्धम् । अतोऽसंभविना तेन लक्षणेनोक्तेन कथं तेऽनिष्टं निग्रहस्थानं न भवेत् इत्यादियोजना द्रष्टव्या । भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमूलैवेत्यभिप्रैति ॥
यद्युच्यत इत्यत्राप्युक्तरीत्या असंभवित्वादिकं ज्ञातव्यम् । सन्मात्रत्वमि त्यनेनातिव्याप्तिरुच्यते । तथा हि । ब्रह्मणोऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत् । मायावादिनाऽभ्युपगतमि ति शेषः । निर्धर्मकत्वाङ्गीकारात् । असत्त्वानधिकरणत्वं तु निश्चितमेव । तस्मात्तदपि ब्रह्मापि सन् नो भवेत् किन्त्वनिर्वाच्यं प्रसज्येतेति । सत्त्वेनासत्त्वेन च विचारासहत्वम् अनिर्वचनीयत्वं न पुनः सत्त्वासत्वधर्मानधिकरणत्वम्, ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न । सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात् । किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् । यथोक्तम् । सर्ववैलक्षण्याङ्गीकारादि त्यादि । निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति ।
द्वितीयमपि लक्षणं निराकरोति ज्ञानबाध्यत्वमिति ॥ यदि ज्ञानबाध्यत्वं नामोक्तविधया ज्ञाननिवर्त्यत्वं तदा वियदादौ शुक्तिरजतादौ च न सिद्धम् । वियदादेः सत्त्वेन शुक्तिरजतादेश्चासत्वेनाविद्योपादानकत्वाभावात् । ततश्च असंभवित्वं लक्षणदोषः । यदि पुनर्ज्ञानविनाश्यत्वमात्रम् । तथाऽपि वियदादौ नित्ये नित्यत्वादेव, शुक्तिरजतादौ चासत्त्वान्न सिद्धमित्यव्याप्तिः । यदि च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव । उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः ॥
ननु भवताऽपि बाध्यत्वं किमप्यङ्गीकरणीयमेव । पदस्य निरर्थकत्वायोगात् । तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह प्रतिवादिनो विज्ञातस्येति ॥ प्रतिवादिनो मम मतम् इति संबन्धः । तच्चात्मन्यनिर्वचनीयेऽप्यस्तीत्यतिव्याप्तमिति शेषः । अत्र अन्यथाविज्ञानमेव भ्रान्तिः । तत्प्रसञ्जितान्यथाऽऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारयता मतान्तराणि निरस्तानि वेदितव्यानि । हिशब्देन तत्र प्रमाणप्रसिदि्धं सूचयति ॥
अथ पञ्चाख्यातिवादः ॥
इह खलु केचित् यथार्थमेव सर्वं विज्ञानमि ति मन्यमाना नान्यथाख्यातिं सहन्ते । तथा हि । केयमन्यथाख्यातिर्नाम । यदि तावत् अन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः । तदा घटादिप्रत्ययाः सर्वेऽप्यन्यथाख्यातित्वाद्विभ्रमाः प्रसज्येरन् ।
किञ्च शुक्तिकाया रजताकारपरिणामः किं सकारण उताकारणः । न तावदकारणः कादाचित्कत्वानुपपत्तेः । आद्ये कारणं वाच्यम् । करणदोष इति चेन्न । तस्य करणसंबन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलार्थानां रजतरूपपरिणामप्रसङ्गात् ।
दुष्टकरणसंसर्गो हेतुरिति चेत्तथाऽपि किं शुक्तित्वापगमेन रजतरूपपरिणामः किं वा तदनपगमेन । आद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् ॥ किञ्च शुक्तित्वापगमे बाधेऽपि न तद्भायात् ॥ अथ पुनः शुक्त्याकारेण रजतं परिणतमिति चेन्न । करणदोषस्य कारणस्याभावात् । बाधोऽप्येवं सति भ्रमः स्यात् ॥ अपि चैतत्समस्तप्रतिपत्तृसाधारणमपि कुतो न भवेत् । यत्करणपरिणतं तेनैव गृह्यत इति चेन्न । घटादेरपि कुलालादिमात्रवेद्यतापातात् । सुखादिवदिति चेन्न । बाह्यान्तरत्वेन विशेषात् । अन्यथोक्तातिप्रसङ्गानिस्तारात् ।
किञ्च दोषवशाद्रजताकारेण परिणता चेच्छुक्तिस्तदा दोषापगमेऽपि तथैव कथं नावतिष्ठते । न हि निमित्तकारणनाशात्कार्यनाशो दृष्टः । कमलकुड्मलविकासनिमित्तसावित्रतेजोऽपगमस्य विकासनिवृत्तिहेतुता दृष्टेति चेत् । मैवम् । दलविभागो हि विकासो नाम । स च क्षणिकत्वात्सत्येव सावित्रतेजसि निवृत्तः । संयोगप्रध्वंसस्तु न कदाऽपि निवर्तते । पुनःसंयोगलक्षणो मुकुलीभावस्तु शीतादिनोदनजन्य एव । स्थायित्वेऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किञ्चिदेतत् । परत्वादिवत् स्यादिति चेन्न । विप्रतिपत्तेः ॥ किञ्चोत्पन्नं चेद्रजतं विनष्टं तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुदि्धः ।
एतेन दुष्टकरणजन्याद्विज्ञानाद् रजतजन्मेत्यपि परास्तम् । का चैवं सति दोषवाचो युक्तिः । न हि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोषत्वेन मन्यन्ते । किञ्च यस्याः प्रतीतेस्तदालम्बनं तत एव तज्जन्म, किंवा प्रतीत्यन्तरात् ॥ नाद्यः । परस्पराश्रयप्रसङ्गात् । उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति । न खलु निरालम्बना प्रतीतिरुत्पद्यते ॥ द्वितीयेऽपि किं तत्प्रतीत्यन्तरं शुक्तिकाऽऽलम्बनम्, उत शुक्तिकारजतान्तरालम्बनम्, अथवाऽर्थान्तरालम्बनम् । नाद्यः । सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात् । शुक्तिरजतप्रतीतेः प्राक् शुक्तिरिति प्रतीतिनियमाभावाच्च । दुष्टकरणालोचितशुक्तिसाधारणाकारप्रतीते रजतजन्मेति चेन्न । साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात् । कारणवैकल्यं तत्र कल्प्यत इति चेत् । स्यादेतदेवम् । यदि रजतजन्म प्रमितं स्यात् । प्रतीतिं तु प्रकारान्तरेणोपपादयिष्यामः । न द्वितीयः । पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहाविच्छेदप्रसङ्गात् । न तृतीयः । अतिप्रसङ्गात् ॥ तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।
नापि वस्तुनो वस्त्वन्तरात्मनाऽवभासोऽन्यथाख्यातिरि ति युक्तम् ॥ तथा हि किं वस्तुनो वस्त्वन्तरात्मता सती उतासती । आद्ये न भ्रान्तिर्नापि बाधः । सर्वेषां च सर्वं सर्वात्मना प्रतीयेत । न हि दोषः करणसंस्कारः । तथा सत्यदुष्टकरणेन न किञ्चिदुपलभ्येत । किञ्चैवं सति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत । न द्वितीयः । असतः प्रतीत्यनुपपत्तेः । उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन ।
एतेन असंबद्धविशेषणविशिष्टप्रतीतिरन्यथाख्यातिरि ति निरस्तम् । असतो विशेषणसंबन्धस्य प्रतीत्यनुपपत्तेः । उपपत्तौ वा किमसत्ख्यातिवादिभिरपराद्धम् ।
अथ ब्रूषे अन्याकारं ज्ञानमन्यथाख्यातिरि ति । तदसत् । समीचीनज्ञानस्याप्यान्तरबाह्यत्वादिना अर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः ।
अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरि ति तु विरुद्धम् । तथा हि । न तावत्सदसद्भावमात्रेणालम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वार्थालम्बनत्वापत्तेः । सर्वसर्वज्ञता चैवं सति स्यात् । अतीतादिविषयस्य निरालम्बनतापातश्च ॥ एतेन पुरोदेशे सद्भावेनालम्बनत्वमपि प्रत्युक्तम् ॥ न च कारणत्वेनालम्बनम् । रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात् । अतीतानागतविषयत्वं च ज्ञानस्य न स्यात् । अतीतानागतयोरसत्त्वेन कारणत्वानुपपत्तेः ॥ एतेन विषयतया कारणत्वमित्यपि निरस्तम् । आत्माश्रयत्वं चैवं सति स्यात् । विषयत्वस्यैव निरूप्यमाणत्वात् । किञ्चैवं विषयत्वमित्येवास्तु, किं कारणतया व्यर्थयाऽनर्थजनन्या ।
किं चेदं विषयत्वम् । येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेत् । अतिशयो हि ज्ञातता वा स्याद् व्यवहारो वा । नाद्यः । अनभ्युपगमात् । अभ्युपगमेऽप्यतीतादिज्ञानस्य निर्विषयत्वापातात् । न ह्यसति धर्मिणि धर्मोत्पादो युज्यते । न द्वितीयः । अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वापत्तेः । व्याघ्रचोरादिज्ञानानन्तरमादीयमानस्य दण्डादेरपि तद्विषयत्वप्रसक्तेश्च ॥ यद्विज्ञानं यदाकारं तत्तदालम्बनमिति तु तथागतमतमनुधावति ॥
यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तत्तद्विषयमित्यपि न; रूपादिज्ञानस्याकाशादिविषयतापातात् । न हि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्यत इति युज्यते । प्रत्यभिज्ञा च तत्ताऽसन्निकृष्टकरणजन्या न तद्विषया स्यात् । न च वाक्यं वाक्यार्थेन सन्निकृष्यते येन तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात्, आकाशादिविषयतैवं चापद्येत । लिङ्गज्ञानाच्चात्मसन्निकृष्टाज्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत ॥ तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति मन्तव्यम् ॥ तत्र रजतज्ञाने शुक्तिरवभासते न वेति वक्तव्यम् । अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानवान्नेति ब्रूयात्तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कथं परिहरणीयः । ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । न हि संप्रतिपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्य(तर)रजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेत् । सत्यम् । प्रतिभाससामर्थ्याद्रजताभावोऽप्यङ्गीकृत एव पुरतः । प्रतीत्योर्विरोधः स्यादिति चेन्न । यथा न विरोधस्तथा वक्ष्यमाणत्वात् ।
न चान्यथाख्यातिजनने कारणं पश्यामः । न च चक्षुरादिकमेव कारणम् । तस्य समीचीनज्ञानकरणतावधारणात् । न खलु जरामरणविध्वंसहेतुर्जातु सुधा तद्धेतुरपि भवति । कारणैक्ये कार्य(भेद)स्याकस्मिकत्वप्रसङ्गात् । न चादृष्टभेदात्कार्यभेदः । तस्य कार्यभेदनिश्चयोत्तरकालं निश्चेयत्वात् । कार्य(भेद)स्य च विप्रतिपन्नत्वात् । दोषसहकृतादिन्द्रियादेवान्यथाज्ञानजननमित्यप्यसत् । दोषा हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति । न तु विपरीतकार्यजननसामर्थ्यमादधति । न खलु दुष्टं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजांकुरम् । न च वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात् ।
किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथा च कथं बाह्यार्थनिह्नवं निराकुर्मः । तथा हि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चेत्क्वचिद् व्यभिचरति तदा तत्सर्वत्र शङ्कितव्यभिचारमेव । न च तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । न च वाच्यं यथा घटादेः पार्थिवस्य वह्निव्यभिचारेऽपि न धूमस्यापि तद् व्यभिचारः शङ्क्यते एवमेकज्ञानस्यार्थव्यभिचारेऽपि न सर्वत्र व्यभिचारशङ्केति । वैषम्यात् । अस्ति हि तत्र पार्थिवत्वाविशेषेऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः । न हि तत्र बाधकं किञ्चित् । तेनोपपद्यते तत्राश्वासः । प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वासनिरसनक्षममीक्षामहे । न च बाधकभावाभावरूपाद्विशेषाद् व्यवस्थेति वाच्यम् । बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात् । न खलु बाधकस्य किमपि ृङ्गमस्ति । बाधकाभावश्चानुपसञ्जातबाधभ्रमे समानः । संवादकभावाभावाभ्यां विशेष इति चेन्न । उक्तोत्तरत्वात् । संवादकमपि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात् । तत्रापि संवादकान्तरान्वेषणेऽनवस्था कुतो न भवेत् । अङ्गीकृतश्च परेण धारावाहिकभ्रमेऽन्योन्यसंवादः ।
एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणोऽपि विशेषः परास्तो वेदितव्यः । तद्विशेषग्राहिण्यपि विश्वासकारणाभावात् ।
अपि च प्रतीयमानोऽयं रजताकारः कुतस्त्य इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्टमन्यथाख्यातिवादिनाम् । बाधविरोधश्च तथा सति स्यात् । नापि देशान्तरवर्तीति वक्ष्यामः । ततश्च ज्ञानस्थ एवायमित्यापतितम् । तथा च जितं साकारविज्ञानवादिभिर्बौद्धैः ।
ननु तर्हीदं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् । तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति । सा च गृहीतग्रहणस्वभावाऽपि दोषवशाद् गृहीततत्तांऽशप्रमोषेण गृहीतिसरूपाऽवतिष्ठते । तथा च रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात् सन्निहितरजतज्ञानसारूप्येणेदंरजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । कुत एतदिति चेन्न । अन्यथाऽनुपपत्तेरुक्तत्वात् ।
किञ्चेदमिति पुरोवर्ति नयनसंप्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्य सन्निकृष्टार्थ एव ज्ञानजननसामर्थ्यात् । अन्यथा सर्वसार्वज्ञप्रसङ्गात् । न च विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति । तत्कार्यस्य साक्षात्कारस्य कदाप्यदर्शनात् । न च शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति सांप्रतम् । अतिप्रसङ्गात् । न च दोषसदसद्भावाभ्यां व्यवस्था । दोषाणां विपरीतकार्यकारिताया निरस्तत्वात् । भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराऽऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैवाऽऽहारविकारहेतुतोपपत्तेः । न च दहनकार्यं कथं दोषः करोतीति वाच्यम् । कार्येऽपि वैजात्योपलम्भात् । जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा । तस्मान्नेदमिन्द्रियजम् । न च लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमनुमानादिप्रभवमिति वक्तुं शक्यते । अतः प्रत्युत्पन्नकरणाभावेऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् ।
किञ्चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्संप्रतिपन्नस्मरणवत् । न चेदमस्मरणं तत्तांऽशविकलत्वात्संप्रतिपन्नवदिति युक्तम् । पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् । किञ्चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांऽशश्चातीतदेशकालसंबन्धः स्मर्यमाणधर्मः । तथा च स्मरणं च भवतु । भवतु दोषवशात्प्रमुषिततत्तांऽशम् । न च विपक्षे बाधकं किञ्चिदित्यप्रयोजको हेतुः ।
न च नेयं स्मृतिरिन्द्रियजन्यत्वात् । तच्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम् । स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात् ।
नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेन्न । जन्मान्तरानुभूतत्वात् । अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते । अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति, किन्तु क्वचिद् ग्रहणे एव मिथोऽगृहीतभेदे । यथा पीतः शङ्ख इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद् द्रव्यरहितं गृह्यते । शङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तदनयोः गुणगुणिनोः इतरेतरापेक्षिणोरसंसर्गाग्रहात्सारूप्यात्पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवतः ।
यत्तु कज्जलकालिमाऽग्रहणं तत्तिर्यगवस्थानात् । कज्जलस्य अस्वच्छतया नयनरश्मिप्रतिबन्धकत्वाच्च । पित्तं तु आर्जवावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः । एवं तिक्तो गुड इति व्यवहारोऽपि । क्वचित्पुनः स्मरणे एवागृहीतविवेके । यथा स घटस्तत्रासीदिति । अनयैव दिशाऽलातचक्रादिव्यवहाराः सर्वेऽपि निर्वाह्याः ।
किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकग्रहे विपर्ययावकाशोऽस्ति । विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः । तथा च तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया ।
न चान्यथाख्यातौ किमपि प्रमाणमस्ति । भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम् । तथा च प्रयोगः । विगीतप्रत्ययो यथार्थः प्रत्ययत्वात्संप्रतिपन्नवत् ।
नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानमुत सदृशदर्शनोत्थं रजतस्मरणम् । किं वोभयमाहोस्विद्रजतपुरोवर्त्येकताज्ञानमाहोस्वित्प्रमुषितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाधन(साध्य)ता । चतुर्थे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघातश्च । पञ्चमे प्रतिवाद्याश्रयासिद्धतेति चेत् । मैवम् । अस्ति तावत्पुरोवर्ति निर्विकल्पकज्ञानम् । अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः । तथाऽस्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात्सविवादभेदाभेदं रजतवेदनम् । तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्को विरोधः । न हि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्यानित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषङ्गाद्भङ्गोऽनुमानमुद्रायाः ।
किञ्च सिद्धस्यैव पक्षीकरणम् । विमताकारस्यापि सिद्धत्वे किं साध्येत । विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे । भेदे हि वेदनयोरिदं वेदनं पुरोवर्तिमात्रगोचरम् । न रजतवार्तां वेत्ति । रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजततामिदं रजतमिति विदधाति । किन्तु रजतमित्येव यस्य कस्यचिद्रजतत्वमनुसन्धत्ते । तच्च न प्रमाणविरुद्धमिति क्वान्यथाख्यातिः । अतस्तद्वादिभिरभेद एव वक्तव्योऽपाकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येव विप्रतिपत्तिः । ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षीकारे न कश्चिद्दोषः । कथमन्यथा ख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषाद्विमुच्येत ।
अथ रजतार्थिनः शुक्तिकायां प्रवृत्तौ हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेन्मोच्चैर्वोचः परोऽपि श्रोष्यति । ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्तवापि बाधः कथं न स्यात् । प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेन्ममापि तथैव स्यात् । त्वयेश्वरानभ्युपगमाद् व्यर्थं विशेषणमिति चेत्तर्हि मां प्रति तवापि कथं न व्यर्थम् । तथाऽपि व्याप्तिज्ञानेन सिद्धसाधनतेति चेत्तत्रैव तव बाधप्रसङ्गः । इदंज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्धाटयामीति चेत्सममेतन्ममापि ।
किञ्च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्सम्मतवत् । अत्रापि पूर्ववद्विमतिविषयो विवेचनीयः ।
स्यादेतत् । किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजतज्ञानम्, रजतं च तद् ज्ञानं चेति वा, रजतशब्दोल्लेखिज्ञानं वा, रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा, रजतमिति ज्ञानं वा । न प्रथमः । षष्ठ्यर्थस्य विषयविषयिभावव्यतिरेकेणासंभवात् साध्याविशिष्टत्वात् । न द्वितीयः उभयासिद्धेः । ज्ञानस्य निराकारत्वात् । न तृतीयः उल्लेखार्थस्य विषयत्वेऽसिद्धेः; तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसंभवेन व्यभिचारात् । न चतुर्थः । विवेकाग्रहवादिनामिदमितिज्ञानस्यापि शुक्तिकालम्बनस्य तद्धेतुत्वेन व्यभिचारात् । न पञ्चमः । पूर्वोक्तपक्षाबहिर्भावादिति ॥
मैवम् । अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते । उत रजतज्ञानं शुक्तिविषयम् । आद्ये न नो विवादो यथार्थख्यातित्वात् । द्वितीये रजतज्ञानशब्देन योऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति । तथा हि न तावदाद्यः कल्पः परेणाङ्गीकर्तुमुचितः व्याघातप्रसङ्गात्, शुक्तिरजतयोरभेदप्रसङ्गाच्च । न द्वितीयः अनभ्युपगमात् । न तृतीयः कदाचिच्छुक्तिकाज्ञानस्यापि अन्यथासङ्केतितरजतशब्दस्मृतिहेतुत्वसंभवेन अन्यथाख्यातित्वप्रसङ्गात् । नापि चतुर्थः । यत्र शुक्तिका तदधस्ताद्रजतमस्तीति वाक्यं श्रुतवतः शुक्तिज्ञानमपि रजतार्थिप्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात् । नापि पञ्चमः । प्रागुक्तपक्षाबहिर्भावात् ॥ अतो रजतज्ञानं नामोक्तपक्षेषु किञ्चिदङ्गीकृत्य तद्दोषो वा परिहरणीयः, पक्षान्तरं वोत्प्रेक्षणीयम् । तत्त्वमेव मया हेतूकरिष्यत इति यत्किञ्चिदेतत् ।
केचित्पुना रजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतेतराविषयत्वं साध्यमङ्गीकृत्य साध्याविशिष्टतादोषं परिहरन्ति । तदसत् । रजतघटाविति ज्ञाने व्यभिचारात् । अन्यतरासिद्धेश्च । तस्मादुक्त एव परिहारः ।
अपि च ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तित्वात्प्रमात्ववत् । शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात्; यद्यद्रूपेणासत्तत्तद्रूपेण नावभासते यथा मेरुः सर्षपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यमसत्त्वात्कूर्मरोमवत् । तस्मादख्यातिपक्ष एव श्रेयानिति ।
अत्रोच्यते । यत्तावदन्यथाख्यातिलक्षणं निराकृतम् अन्याकारोल्लेखी त्यन्तेन तदिष्टमेवास्माकम् । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् । यथोक्तम् असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादि ति ॥
नन्वन्यस्यान्यात्मता सती उतासती । असतीति ब्रूमः । असतो न प्रतीतिरिति चेन्न । तस्या उपपादयिष्यमाणत्वात् । एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न । को हि ब्रूते रजतं सदिति । वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टात् ॥
अत्र केनचित्प्रलपितं खण्डो गौः, शुक्लः पट, इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन् । सामानाधिकरण्यप्रत्ययस्य तादात्म्यालंबनत्वात् । तस्य चात्राभावादि ति । तदतीव मन्दम् ॥ तथाहि । सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते । किं गुणक्रियाजात्यादेः द्रव्येणोत, गुणादीनामेव परस्परमथ, गुणाश्रयस्य क्रियाश्रयेणेत्यादि ।
नाद्यः । असंमतेः । न हि शुक्लः पट इत्यस्य शौक्ल्यं पट इत्यर्थोऽभिमतो लौकिकानाम् । न च चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः । नापि खण्डो गौरि त्येतत् खण्डत्वं गोत्वं च पिण्ड एवे त्यनेन समानार्थम् । तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः । दण्डी ति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाद् ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि । शुक्लगुणोऽस्यास्ती त्यस्मिन्नर्थे अर्शआदिभ्योऽच् इत्यकारप्रत्ययविधानात् । चलती त्यादौ तु स्फुट एव प्रकृतिप्रत्यययोरर्थभेदः । न हि गौरि ति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात् । अत एव शुक्लः पट इत्युक्त्वा शौक्ल्यं पटस्ये ति व्याकर्तारो भवन्ति ।
अत एव न द्वितीयः । न हि शुक्लः पटश्चलती त्यस्य शौक्ल्यं पटत्वं चलनं चैकमि त्यर्थश्चेतसि चकास्ति प्रतिपत्तॄणाम् । तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात् ॥
तृतीयस्तु स्यादेव । समानमेकमधिकरणं येषां ते हि समानाधिकरणास्तेषां भावः सामानाधिकरण्यम् । तथा च गुणादीनामाश्रयेण परस्परं च भेदः आश्रयाणां चाभेदः स्फुट एव ॥ न हि स्वयमेव स्वस्याधिकरणम् । नापि समानमधिकरणं येषामिति परस्पराभेदे युज्यते । न चाश्रयभेदे तस्य समानताऽस्ति । न च गुणाद्याश्रयस्य भेदे प्रमाणमस्ति । विशिष्टयोर्भेदेऽपि न तत् गुणाद्याश्रयः । किन्तु गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत् ॥ एवञ्च यत्र भेदो न तदभेदेन प्रतिभासते, यच्चाभेदेन प्रतिभासते न तत्र भेद इति क्वातिव्याप्तिः ।
ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः । क्वचिद्भेदाभेदौ च । सामानाधिकरण्यप्रतीतिस्तु भेदनिष्ठैव व्याख्याता । तथा च पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः । मैवम् । सविशेषत्वाङ्गीकारात् । विशदं चैतद्विशेषनिरूपणे व्युत्पादयिष्यामः ।
यत्पुनः अन्याकारोल्लेखी त्यादिना अस्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय यत्सन्निकृष्टकरणेने त्यन्तेनालंबनलक्षणनिराकरणं कृतं तदनुमतमेव अस्माकम् । यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात् ॥
नन्वत्रापि दोषोऽभिहित इति चेन्न । सन्निकर्षस्यापि कारणतया विवक्षितत्वेन तस्यासंबद्धत्वात् । न हि चक्षुरादेराकाशादिसन्निकर्षो रूपादिज्ञानकारणम्, नापि वाक्यस्याकाशादिसन्निकर्षो वाक्यार्थज्ञाने हेतुः, न च लिङ्गज्ञानस्यात्मना सन्निकर्षो लिङ्गिज्ञाननिमित्तम् । किं नामावर्जनीयसन्निधयस्ते सन्निकर्षाः । लिङ्गस्य साध्यधर्मिसन्निकर्षो लिङ्गिज्ञानकारणमिति चेन्न । लिङ्गज्ञानस्य करणतयाऽभ्युपगमात् ।
अनेनैव वाक्यस्य श्रोतृश्रोत्रसन्निकर्षाश्रयणेन दूषणं परास्तम् । वाक्यज्ञानस्यैव करणत्वाङ्गीकारात् । तथाऽपि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेर्लिङ्गिना च लिङ्गज्ञानस्य वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेन्न । असन्निकृष्टज्ञापनेऽतिप्रसङ्गात् । तदनुभवजनितसंस्कारसहकृतेनेन्द्रियेण प्रत्यभिज्ञा जायते, तद्व्याप्तलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते, संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्यार्थज्ञानं जन्यते; अतो नातिप्रसङ्ग इति चेत् तर्हि अभ्युपगतः सन्निकर्षः । न हि संयोगादिरेव सन्निकर्षः किं नाम प्रत्यासत्तिमात्रम् ।
तथाऽपि रूपप्रतीतेरात्मा विषयः प्रसज्येत । तत्र मनसः करणत्वात् । आत्ममनःसन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेन्न । असाधारणकारणस्य विवक्षितत्वात् । मनसश्च साधारणत्वात् ॥ तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेन्न । सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात् । चक्षुर्मनःसन्निकर्षो हि द्रव्यादिज्ञानसाधारणः ॥ एवमन्येऽपि क्षुद्रोपद्रवाः परिहरणीयाः ।
तदेवं जन्यज्ञाने विषयत्वस्यान्यथाव्यवस्थितत्वात् यज्ज्ञानं यत्प्रतिभासम् इत्यन्यथापरिभाषणमनुपपन्नम् । न चैवं सत्यनुभवविरोधः, रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः । न चातिप्रसङ्गः, दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः । अन्यथा रजतज्ञानादरजते प्रवृत्तावपि कथं नातिप्रसङ्गः ॥
यत्पुना रजतावभासस्येत्याद्याशङ्क्य समाधानमभिहितं तज्ज्ञानैकत्वसमर्थनेन निराकरिष्यामः ।
अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विषयमि त्येव व्यवस्था । तथाऽपि नानुभवविरोधः ॥ तत्किं रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूषे उतेदंत्वाकारस्य ॥ आद्ये संप्रतिपत्तिः । न हि वयमस्मिन्प्रत्यये शुक्तित्वमवभासत इति ब्रूमो येन विरोधः स्यात्, शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात् ॥
द्वितीये तु न कश्चिद्विरोधः । विरोधे वा समीचीनरजते इदं रजतमि ति प्रतीतिर्न स्यात् । इदमाकारस्य रजतप्रतिभासविषयतामनभ्युपगच्छत एव प्रतीतिविरोधं वक्ष्यामः । एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत्; सत्यम्, इष्टमेवैतत् । न चैवमख्यातिपक्षपातः, ज्ञानैक्याभ्युपगमात् ।
नापि शुक्तिकारजते इति ज्ञानं विभ्रमः प्रसज्यते रजतस्यासत्त्वाभ्युपगमात् तादात्म्यावभासाभ्युपगमाच्च । अत एवोक्तम् असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरि ति । वक्ष्यति च विषयस्य कुतो बाध इत्यसतो रजततादात्म्ययोर्ज्ञानविषयतामाचार्यः ।
न चान्यथाख्यातिजनने कारणाभावः । इन्द्रियादेरेव तत्कारणत्वात् । समीचीनज्ञानकारणस्यापि तस्य दोषकलुषितस्य विभ्रमहेतुत्वोपपत्तेः । न च दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम् । तथा सति समीचीनव्यवहारहेतोर्विज्ञानाद् अयथार्थव्यवहारजन्मानुपपत्तिप्रसङ्गात् ॥ किञ्च सहकारिमात्रस्य विपरीतशक्त्यनाधायकत्वमङ्गीकर्तव्यं दोषाणामेव वा । आद्ये पशुहिंसा किं धर्मजनने स्वारसिकशक्तिमती उताधर्मजनन इति वाच्यम् । आद्ये कथं क्रतुबाह्यापि धर्मं न जनयेत् । द्वितीये कथं क्रत्वन्तर्गतापि धर्मं जनयेत् । सहकारिवशादिति चेत् अङ्गीकृतं तर्हि सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्त्याधायकत्वम् । न द्वितीयः नियामकाभावात् ।
किञ्च काचादयोऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते । दोषत्वं त्विष्टकार्यविघातितामात्रेणोच्यते । कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात् । न चैवं भर्जिता(ताः)कुटजधाना वटांकुरं कुतो न जनय(यं)तीति वाच्यम्, पदार्थशक्तिवैचित्र्यात् । केचिद्वस्त्वन्तरशक्तिमेव प्रतिबध्नन्ति, यथा भर्जनादयः । केचित्सहजशक्तिप्रतिबन्धेन विपरीतामपि शक्तिमादधति; यथा विषस्य मारकत्वशक्तिं प्रतिबद्ध्यारोग्यादि(जनन)शक्तिमादधानाः पदार्थाः । गुणा एव न ते दोषा इति चेत् काचादयोऽपि गुणा एव न ते दोषा इत्युक्तमेव ॥
ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् । न च रजतस्येदन्तादात्म्यस्य वाऽसतो जनकत्वमस्ति । तत्कथं विषयत्वमिति । मैवम् । तथा सति ईश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत् । तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः ।
कथमसतो निरूपकत्वमिति चेत् । न । गुरूणां टीका , कुरूणां क्षेत्रमितिवदुपपत्तेः । अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात् । तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदाऽपि नास्तीति वैषम्यमिति चेत् । तत्किं यदाकदाचित्सतः कारणत्वं पूर्वक्षणे सतो वा । नाद्यः अतिप्रसङ्गात् । द्वितीये तु किमनेन ॥ अथ नातीतादिरर्थः स्वसामर्थ्येन अनुमित्यादिकं व्यावर्तयति, येन तत्सत्तापेक्षा स्यात्; किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत् । समं प्रकृतेऽपि ॥ किञ्च सत्यस्थलेऽपि न साक्षात्साक्षात्कारं प्रति कारणत्वमर्थस्य किन्त्विन्द्रियसन्निकर्षस्यैव । स च यत्रासता नोपपद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम् ॥
ननु तर्ह्यसता रजतादिना सन्निकर्षायोगात्कथमिन्द्रियेण तज्ज्ञानजन्मेति चेन्न । शुक्तिकासन्निकृष्टं दुष्टमिन्द्रियं तामेवात्यन्तासद्रजतात्मनाऽवगाहमानं ज्ञानं जनयतीत्यङ्गीकारात् । अत एव नासत्ख्यातिप्रसङ्गः । यावत्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वेऽसत्ख्यातिः स्यात् । न चैवमित्युक्तम् ।
यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सर्वत्रानाश्वास इति तत् औत्सर्गिकं ज्ञानानां प्रामाण्यमपवादाद्विपर्यय इति वदताऽऽचार्येणैव परिहरिष्यते । साक्षी खलु चैतन्यरूपो नियतयाथार्थ्यः कदाचिदपि संशयानास्कन्दितोऽन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृह्णाति । परीक्षासहकृतस्त्वयाथार्थ्यमि ति बादरायणीयं मतम् । अत एव अनाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषोऽस्ती ति निरस्तम् । अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेर्व्यवहारान्तरे समाश्वासः स्यात् । तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः । क्वचिद्विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्वासो भवेत् । तदभावे च कथं निःशङ्का प्रवृत्तिः । बाधकाभावादिना समाश्वासः तु परोक्तरीत्यैव निरस्तः । किञ्च प्रवृत्त्युत्तरकालीनो बाधकाभावः कथं निःशङ्कप्रवृत्तावुपयुज्यते । बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात् । औत्सर्गिक प्रवृत्तिरपवादान्निवृत्तिरि ति चेत् । समं प्रकृतेऽपि ।
यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदि ति । तदनुपपन्नम् । अत्यन्तासत एवाकारस्य स्फुरणाङ्गीकारात् । अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावाद् व्यवहारोऽपि तदाकारः प्रसज्येत ॥
या चेयं प्रक्रिया रजतमिदमि त्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना । विशिष्टज्ञानबाधकानां परिहृतत्वात् । अनुमानानां च दूष्यत्वात् ॥
यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषो पन्यासः सोऽपि प्रत्युत्पन्नक(का)रणदुष्टेन्द्रियादिजन्यतोपपादनात् परिशेषानुपपत्तेरयुक्तः । अनाकलितरजतस्यानुत्पद्यमानत्वं गगनादावनैकान्तिकम् । रजतज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न । तथाऽपि रजतसंस्कारव्यवहारादौ व्यभिचारात् । ज्ञानत्वे सतीतिविशेषणाददोष इति चेन्न । रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतादवस्थ्यात् । रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न । हानादिबुदि्धष्वनैकान्तिकताऽनिस्तारात् । संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम् । न चानेनैव हेतुनाऽस्य पक्षे साधनं, व्यभिचारस्योक्तत्वात् ।
किञ्चेदं स्मरणत्वं साध्यं न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् । अननुभवत्वमिति चेत् । तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा ॥ आद्येऽनुभवस्यापि तत्संभवेन सिद्धसाधनता स्यात् ॥ द्वितीयेऽनुभवत्वं किमिति वाच्यम् । स्मृत्यन्यत्वमिति चेन्न स्मृतावपि प्रसङ्गात् । इतरेतराश्रयप्रसक्तेश्च ॥ ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न । मानसप्रत्यक्षजा स्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यवैकल्याच्च ।
किञ्च इन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कार्यम् इत्यवसीयते । तथा च बाधितविषयत्वम् । अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत् । तत्किमस्य स्मृतित्वे सिद्धेऽन्यत्रोपक्षयः कल्प्यते उतैवमेव । नाद्यः तदभावात्, अस्मादेव अनुमानात्तत्सिद्धावन्योन्याश्रयप्रसङ्गात् । न द्वितीयः । समीचीनरजतप्रत्ययेऽपि तथात्वप्रसङ्गात् । अन्यत्रोपक्षयः शङ्कित इति चेन्न, तथाऽपि सन्दिग्धकालातीतताऽनिस्तारात् । समीचीनरजतानुभवेऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता । अनुभवत्वनिश्चयादिति चेन्न । इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयाऽनुभवत्वस्यापि सन्दिग्धत्वात् । पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न । संवादानुभवस्याप्यनिश्चितत्वात् । असति बाधके न वृथाऽन्यत्रोपक्षयः शङ्क्यत इति चेत् समं प्रकृतेऽपीति ॥
एतेन अप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वम् इत्यपि परास्तम् । संस्कारोत्पत्त्यनन्तरमेव जातायां स्मृतावनैकान्तिकत्वं च ॥
अनुभूतविषयत्वं स्मृतित्वमि त्यपि चेन्न । द्वितीयादिभ्रमे सिद्धसाधनत्वात्, साध्याविशिष्टताप्रसङ्गाच्च ॥ तत्तांशोल्लेखित्वं स्मृतित्वमि ति चेन्न अनुभवबाधितत्वात् ॥
एतेन ज्ञानसंभिन्नार्थगोचरत्वमित्यपि परास्तम् ॥
अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृतिचिह्नविकलत्वादि ति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्तगुडादिप्रत्ययप्रक्रियाऽपि परास्ता ।
यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तम् । तत् विवेकाग्रहमात्रेण प्रवृत्त्यादेरुपपत्तौ तथाऽस्तु । न चैवमिति वक्ष्यामः ।
किञ्चैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटोऽपि नाङ्गीकरणीयः । तन्मात्रेण सर्वस्योपपत्तेः । पटोऽपि प्रमितो न हातुं शक्यते । न च तेन विना एकत्वादिप्रत्ययोपपत्तिरिति चेत् विपर्ययेऽप्येवमिति कुतो गौरवम् ॥
अन्यथाख्यातौ किं प्रमाणमिति चेत् । अनुभव एवेति ब्रूमः ॥ (त)यथा हि पुरोवर्तिनि रजते रजतमिदमि ति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वाऽवभासते, तथेदमपीति कुतोऽस्य न विशिष्टविषयैकज्ञानत्वम् । न हि ततोऽस्य मात्रयाऽपि विशेषं पश्यामः । दर्शने वाऽस्मात्प्रवृत्तिर्न स्यात् ॥ केवलमेकं तादृग्विषयसद्भावाद्यथार्थं तदभावादपरमयथार्थम् । अविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासंभवप्रसङ्गात्, विपर्ययाङ्गीकारप्रसक्तेश्च । नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न । अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात् ॥
किञ्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथाऽनुपपन्नाऽन्यथाज्ञानमाक्षिपति । नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्च अगृहीतभेदाद्वेदनद्वयादुपपद्यत इति चेत् । कोऽयं भेदो नाम । किं स्वरूपम्, उत पृथक्त्वम्, उतान्योन्याभावः, अथवा वैधर्म्यम् ॥ न प्रथमः स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः ॥ न द्वितीयः, गुणे गुणानभ्युपगमात् । सर्वत्र भेदाग्रहसंभवेनान्यार्थिनोऽन्यत्र प्रवृत्तिप्रसङ्गात् ॥ तृतीये वक्तव्यं किमिदंरजतत्वयोरन्योन्याभावो नावभासते उतेदंरजतयोरिति । नाद्यः । अपर्यायशब्दस्मारकयोः जातिव्यक्त्योस्तदनवभासासंभवात् । किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य, तच्चोपलब्धमिति कथं तदनुपलम्भः । अत एव न द्वितीयः ॥ नापि चतुर्थः । रजतासंभविनः पुरोवर्तिनीदंत्वस्य पुरोवर्त्यसंभविनश्च रजते रजतत्वस्य गृहीतत्वात् ।
इदंरजतत्वयोरसंसर्गाग्रहो विवक्षित इति चेन्न । असंसर्गो हि संसर्गस्याभावः । स चेदंरजतत्वयोः स्वरूपमेव परेषाम् इति कथं तदवभासे नावभासेत । विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहोऽभ्युपगमनीय एव । तत्रापि समानो दोष इति चेन्न । भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् ।
अथ मन्यसे पुरोवर्तिनो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति । तदसत् ॥ पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत । रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् । रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तु कुतः ॥
किञ्च भेदाग्रहादन्यार्थिनोऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात्; उत सर्वोऽपि भेदाग्रहादिति ॥ नाद्यः । अनियतकारणतापातात् ।
ननु च सर्वत्राभेदग्रह एव प्रवर्तकः । तत्सारूप्याद् भेदाग्रहोऽपि तथेष्यते । तथा हि । अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्ययेऽप्यपेक्षितोपायपुरोवृत्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः । तथाऽत्राप्यविवेचकं साधारणं रूपमवगम्यते । नावगम्यते च विवेचकोऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च । ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति । मैवम् । अनियतहेतुकत्वानिस्तारात् ।
किञ्च प्रवर्तकसादृश्यात्प्रवृत्तिरित्यत्रैव कल्प्यते, उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः ॥ नाद्यः, अदृष्टकल्पनाप्रसङ्गात् । प्रवृत्तिलोभादित्थमास्थीयत इति चेन्न, तस्याः विपर्ययाङ्गीकारादेव सुव्यवस्थितेः ॥ न द्वितीयः, कृशानुसदृशाद् गुञ्जापुञ्जाच्छीतनिवृत्तेरदर्शनात् ।
नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसदृशाच्छुक्तिशकलाद् भवति भवताम् । तथा प्रवर्तकैकज्ञानसदृशाज्ज्ञानद्वयात्प्रवृत्तिरपि कुतो न स्यात् । मैवम् । अर्थस्य साक्षाज्ज्ञानकारणत्वानभ्युपगमात् । सादृश्यं तु काचादिवद् दोषतयोपयुज्यते ।
अपि चेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद्यदि प्रवृत्तिमुपजनयेत् निवृत्तिमपि कुतो न जनयेत् । अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यमभेदाग्रहणम् ।
ननु च यथा भेदाग्रहो भवतामभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति । मैवम् । वैषम्यात् । ज्ञानजनने हि कारणानां स्वातन्त्र्यं न पुरुषस्य । तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुपजनयन्ति । न तु पुरुषाकाङ्क्षामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञानेऽपेक्षित एव प्रवर्तते । न तु ज्ञानं जातमि त्येवोदासीनविपरीतयोरपि । तथा च भेदाग्रहदोषकलुषितानि नयनादीनि विपर्ययं जनयन्ति । न तु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति । तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावान्निवर्तेतापीत्युक्तम् ।
किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण । नाद्यः, हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् । द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात्प्रवृत्तिः । पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रयत्नः । तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम् । न च तत्संभवति । रजतत्वस्य पक्षधर्मताया अप्र(तयाऽप्रति)तिपन्नत्वात् ।
अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रह(भेदाग्रहेऽभेदग्रह)सारूप्यात्पुरोवर्तिनीच्छामुपजनयतीति चेन्न । तथा सति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षाया अप्यापातादिति ॥
नन्वस्तु तर्हि द्वितीयः पक्षः । तथा हि । सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च । न चास्त्यसंसर्गज्ञानम् । एतावतैव तत्र तदर्थिनां प्रवृत्तिः । न हि तयोस्तादात्म्यं पश्यन्ति । जातिव्यक्त्योस्तादात्म्याभावात् । न च तत्र संसर्गग्रहः प्रवर्तकः । समवायो हि तयोः संसर्गः । न चासौ प्रत्यक्षः । इन्द्रियसन्निकर्षाभावात् । नाप्यनुमानतस्तदा शक्यते ज्ञातुम् । लिङ्गाभावात् । अविसंवादिव्यवहारजनकत्वविशिष्टसाकाङ्क्षरूपरूपिसहोपलम्भो हि तल्लिङ्गम् । न चाविसंवादित्वं प्राक् प्रवृत्तेः शक्याधिगमम् । अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमेऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः ।
इदंरजतत्वाधारयोर्भेदाग्रहो वा सत्यरजते प्रवृत्तिहेतुः । अस्ति चासौ प्रकृतेऽपि । न च पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम् । रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया वा समीहितसाधनतानुमानोपपत्तेरिति ॥
एतदप्ययुक्तम् ॥ असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् । किञ्चैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः । वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् । रूपरूपिभावः सविकल्पके चकास्ति, निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत् । कोऽयं रूपरूपिभावः । धर्मधर्मिणोः परस्पराकाङ्क्षाविषयत्वमिति चेत् । तत्किं तयोः स्वरूपमुतान्यत् । आद्ये तदपि निर्विकल्पके प्रकाशत एव । द्वितीये किं तदैन्द्रियकमुतातीन्द्रियम् । प्रथमे कथमविकल्पके न प्रकाशेत । द्वितीये कथं सविकल्पके प्रकाशेत ॥
अथ तद्वस्तुदर्शनसापेक्षदर्शनं निर्विकल्पकेऽचकासदपि सविकल्पके भातीति चेत् । तर्हि न तत्संसर्गातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः । न च निर्विकल्पकस्य प्रवर्तकत्वमस्ति । किञ्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्त्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात् पदानामन्वितार्थेषु व्युत्पत्त्यनुपपत्तौ शाब्दप्रमाणोच्छेदप्रसङ्गः ।
अथैवं मन्येत । अस्त्येव व्यवहर्तुरन्वयज्ञानं किं नाम सदपि न प्रवृत्तावुपयुज्यते, अतो न कश्चिद्दोष इति । तत्र किं तदन्वयज्ञानं प्रवृत्तौ नियतमुतानियतमिति वाच्यम् । आद्येऽस्तु तत्प्रवृत्तावुपयोगि मा वा भूत् । अन्यथाख्यातिं विना न रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरिति तावत्सिद्धम् । द्वितीये तु शब्दोच्छेदस्तदवस्थः ।
किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम् । प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहोऽवर्जनीयसन्निधिरिति चेन्न । विपर्ययस्यापि वक्तुं शक्यत्वात् । अवश्यं चैतदेवम् । व्यवहारो हि व्यवहर्तव्योपलंभनिबन्धनो युक्तः । न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धनः । न हि घटव्यवहारो घटमतिमतिक्रम्य तद्विपर्ययाप्रतिभासे सति भवति । तदमी प्रयोगाः । विमतो व्यवहारो व्यवहर्तव्यज्ञानपुरःसरो व्यवहारत्वाद्घटव्यवहारवत् । विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषयव्यवहारजनकत्वात्संमतवत् । पुरोवर्ती वा रजतज्ञानगोचरो रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात्सम्यग्रजतवत् । विवादपदं रजतज्ञानमिदंज्ञानान्न भिद्यते प्रकाशमानात्ततोऽप्रकाशमानभेदत्वे सति प्रकाशमानत्वात्संप्रतिपन्नरजतज्ञानवदित्यादयः ॥
किञ्च विपर्ययाभावे नेदं रजतमि ति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति । न हि तथात्वे बाधकत्वमस्ति । न तावदग्रहणनिवर्तकतया बाधकत्वम् । सर्वप्रत्ययानां तथात्वापातात् । नापि व्यवहारविच्छेदकत्वेन । अतदर्थिनां व्यवहारानुत्पत्तौ नेदं रजतमितिज्ञानस्याबाधकत्वप्रसङ्गात् । व्याघ्रचोरादिज्ञानस्यापि प्रवृत्तिविच्छेदकत्वेन बाधकत्वप्रसक्तेश्च । न चार्थस्य व्यवहारयोग्यताविच्छेदकत्वेन; समयान्तरेऽपि तत्र विभ्रमात्प्रवृत्त्यभावापत्तेः । न च व्यवहारप्रतिबन्धकत्वेन; अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुत्पत्तेः प्रतिबन्धककल्पनायोगात्, व्याघ्रचोरादिज्ञानस्य बाधकतापत्तेश्च । विमतमयथार्थं बाध्यत्वाद् व्यवहारवदिति । अत एव भ्रान्तित्वप्रसिद्ध्याऽपि विपर्याससिदि्धः ॥
एवं च सति प्रत्ययत्वानुमानं कालात्ययापदिष्टं वेदितव्यम् । अदुष्टकरणजन्यत्वोपाधिग्रस्तं च ॥ एतेन रजतज्ञानत्वानुमानमपि निरस्तम् । अन्यथा विमतो व्यवहारो यथार्थो व्यवहारत्वात्, रजतविषयो वा रजतव्यवहारत्वादित्यपि स्यात् ।
यदपि ज्ञानत्वं च यथार्थमात्रवृत्ती त्यादि; तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा । नाद्यः । वादिप्रतिवादिनोराश्रयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता । विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेऽपि मात्रेति व्यर्थं स्यात् । तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव ॥ किञ्च यथार्थमात्रवृत्तीत्ययथार्थावृत्तित्त्वमात्रं विवक्षितम् । उतायथार्थज्ञानावृत्तित्वम् । आद्ये सिद्धसाधनम्, अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् । द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमुपाधिश्च ॥
यच्च शुक्तिका रजतत्वेन नावभासत इत्यादि; तदप्यसत् । मेरुः सर्षप इत्यादिवाक्यान्मेरोरपि सर्षपत्वेन प्रतिभासाद् दृष्टान्तस्य साध्यवैकल्यात् । अन्यथा तथाविधवाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेताप्रसक्तत्वात् । न हि पदार्थप्रतिषेधो युक्तः ॥ अपि चैवं सति अग्निरनुष्ण इति बाधितविषयस्य वाक्यस्य घटः पचति(न्ति) इत्यपार्थकाद्भेदो न स्यात् ॥ ॥
यदपि इदं रजततादात्म्यमि त्यादि । तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघातात् । दृष्टान्तस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः ॥ १ ॥
कश्चित्पुनरेवमाह । तासां त्रिवृतं त्रिवृतमेकैकामकरोदि त्यादिश्रुतेः, समेत्यान्योन्यसंयोगमि त्यादिपुराणात्, त्र्यात्मकत्वादि सूत्राच्च सर्वस्य सर्वात्मकत्वं प्रतीयते ॥ किञ्च सोमाभावे पूतिकग्रहणं, व्रीह्यभावे च नीवारग्रहणम् अन्यथाऽनुपपद्यमानं पूतिकनीवारयोः सोमव्रीह्यवयवसद्भावं गमयति ॥
अपि च वस्तुनो वस्त्वन्तरसादृश्यं प्रत्यक्षत एव प्रतीयते । न च तद्द्रव्यावयवयोगादन्यत्सादृश्यं नामास्ति । अतः शुक्तिकादिषु रजतादेः सद्भावाद्यथार्थ एवायं रजतप्रत्ययः । निर्देशव्यवस्थाऽर्थक्रियाव्यवस्था च भूयस्त्वादुपपद्यते । दोषवशादिन्द्रियं भूयांसमप्यंशं परित्यज्याल्पीयांसमंशं प्रकाशयतीति रजतार्थिनस्तत्र प्रवृत्तिरपि युज्यते । अपगते तु दोषे भूयस एवांशस्योपलम्भे निवर्तते । बाध्यबाधकभावोऽपि ज्ञानयोरत एवोपपद्यते ॥ पीतशङ्खादौ नयनवृत्तिपित्तसंभिन्नाः नायनरश्मयः शङ्खादिभिः संयुज्यन्ते । ततः पित्तगतपीतिमाऽभिभूतः शङ्खगतशुक्लिमा न गृह्यते । अतः सुवर्णानुलिप्तशङ्खवत् पीतः शङ्ख इति प्रतीयते ॥ एवं स्वप्नस्फटिकलौहित्यमरीचिकाजलालातचक्रदर्पणमुखदिगन्तरद्विचन्द्रादिप्रत्ययाः सर्वेऽपि यथार्था बोद्धव्या इति ॥
तदिदमयुक्तम् ॥ तथा हि ॥ यानि तावच्छुक्तिकादिषु रजतादिसद्भावे श्रुतिपुराणसूत्राणि पठितानि तानि तेजोऽबन्नादीनां मिश्रतामभिदधति; न पुना रजतादीनां शुक्तिकादौ सद्भावम् । न हि कारणसद्भावे कार्यस्य सद्भावो नियतो येनोपपत्त्याऽपीममर्थं प्रतीमः । तथात्वे वा शुक्तौ रजतवत्सर्वस्यापि प्रतीतिः प्रसज्येत । अदृष्टादिवशान्नैवमिति चेन्न कार्यनिश्चयोत्तरकालीनत्वादस्याः कल्पनायाः ॥
श्रुतार्थापत्तिस्त्वत्यन्तायुक्ता । तथा हि । पूतिकादौ किं सोमाद्यवयवाः भूयांसः कल्प्यन्ते, उत समाः, अथाल्पीयांसः । आद्ये सोम एवासौ; तत्कथमनुकल्पः स्यात् । न हि सोमोऽपि केवलः सोमः; किन्तु सोमांशभूयस्त्ववान् । न द्वितीयः । उभयदर्शनप्रसङ्गात् । तृतीयं तु कथं सोमकार्यं कुर्यात् । अन्यथा शुक्तिकाऽपि कुतो रजतार्थक्रियां न कुर्यात् । श्रुतिप्रामाण्यात्तदर्थक्रियाकारिताऽवगम्यत इति चेत् । किं तर्हि सोमावयवकल्पनया । श्रुतिप्रामाण्यादत्यन्तविविक्तानामेव वस्तूनामर्थक्रियासाम्यमुपगम्यताम् ॥
सादृश्यं च सामान्यं वा धर्मान्तरं वा नान्योन्यावयवसंयोग इति वक्ष्यामः ॥ किञ्च घृततैलयोरन्योन्यसदृशयोरन्योन्यावयवसंयोगादन्योन्यार्थक्रियया भाव्यम् । न भाव्यं च विसदृशयोर्द्रव्ययोः ॥ किञ्च मातृमातङ्गमदिराद्यतिसादृश्यं भार्यादिष्वप्यस्तीति तदुपभोगे प्रत्यवायः स्यात् । अल्पावयवसंयोगान्नैवमिति चेत् कथं तर्हि नीवारा व्रीहिकार्यं कुर्युः । श्रुतिप्रामाण्यादिति वदतो दत्तमुत्तरम् ॥ अपरावयवसंयोग एव सादृश्यं चेत् कथं ककारखकारयोः सादृश्यमिति चिन्त्यम् ॥
रजतार्थिनः शुक्तिकायां प्रवर्तकं च किं भूयसां शुक्त्यवयवानामदर्शनमुताल्पीयसां रजतावयवानां दर्शनमुतोभयम् । नाद्यः सुप्तस्यापि प्रवृत्तिप्रसङ्गात् । द्वितीयेऽपि किं तेषामल्पीयस्त्वज्ञानम् उत भूयस्त्वज्ञानम् अथवा ज्ञानमात्रम् । आद्ये तस्य अरजतत्वमेव विदितमिति कथं ततः प्रवृत्तिः । द्वितीयेऽन्यथाख्यातिप्रसङ्गः । तृतीये सदृशमात्रे प्रवृत्तिप्रसक्तिः । न तृतीयः किमपि तत्रास्तीत्यादिज्ञानादपि प्रवृत्तिप्रसङ्गात् । कथं चास्य ज्ञानस्य भ्रान्तित्वम् । अल्पांशग्रहणादिति चेत् नूनं ब्रह्मज्ञानमपि महाभ्रान्तिरापन्ना । अत एव न बाधस्य बाधकत्वमपि ॥
पित्तगतपीतिमानुलिप्तश्चेच्छङ्खः कथं तर्हि न तथा पार्श्वस्थेन दृश्यते ॥ सूक्ष्मत्वादिति चेत् किमिदं सूक्ष्मत्वम् । अतीन्द्रियत्वं चेत् न तर्हि भ्रान्तेनापि दृश्येत । अन्यच्चेत्किमनेन ॥ पित्तोपहतेन तु सामीप्याद् दृश्यत इति चेत् । किमिदं सामीप्यं नाम । इन्द्रियसन्निकर्षश्चेत् स तर्हि उभयोः समानः । शरीरसामीप्यं चेत्तदनुपयुक्तम् । अन्यथा परशरीरसमीपस्थानां दण्डकुण्डलादीनामदर्शनप्रसङ्गात् ॥
पीतः शङ्खः प्रतीयत इति कोऽर्थः । किं पीतरूपवत्तयेति उत पीतरूपद्रव्यसंयुक्ततयेति । नाद्यः अन्यथाख्यातिप्रसङ्गात् । द्वितीये अनुभवविरोधः ॥
एवमुदाहरणान्तराणि विप्रतिपन्नानि निरसनीयानीत्यलमपहसनीयप्रक्रियानिराक्रियाविस्तरेण ॥ २ ॥
अन्यस्तु मन्यते । गृह्यमाणयोर्भेदाग्राहि सविकल्पकमेकमेव विज्ञानं भ्रमः । तथा हि । रजतसंस्कारदोषसचिवमिन्द्रियं शुक्तिशकलसन्निकृष्टं रजतशुक्तीदमंशविषयं तत्संसर्गासंसर्गावनवगाहमानमेकमेव सविकल्पकज्ञानमुत्पादयति । तथा च तयोरेकविज्ञानोपारोहिणोर्भेदाग्रहादयथार्थव्यवहारः । तन्निरासादेव विवेकज्ञानं बाधकमित्युच्यते । न पुनः अन्यदन्यात्मना प्रतीयत इति ॥
तदिदमनुपपन्नम् ॥ विवेकाग्रहः किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवे ति प्रागुक्तविकल्पदोषाणामशेषाणामविशेषात् ॥ किञ्च प्राभाकराणां वेदप्रामाण्यसिद्ध्यङ्गतयाऽस्ति अख्यातिस्वीकारे प्रयोजनमिति विद्यते भ्रमः । कणभक्षाक्षचरणपक्षपातिना तु अतस्मिंस्तदिति प्रत्ययो विपर्यय इति पूर्वाचार्यवचनमनादृत्य परमतप्रमोषः कस्मादिष्यते । असत्ख्यातिपरिहारार्थमिति चेन्न, तथा सत्ययथार्थव्यवहारस्यापि परिहारप्रसङ्गात् । न ह्यसत्प्रत्येतुमशक्यं, शक्यं तु व्यवहर्तुमित्यत्र कारणविशेषोऽस्ति । व्यवहारः प्रतीतिसिद्ध इति चेत्तत्किं विशिष्टप्रत्ययो न प्रतीतिसिद्ध इत्यलम् ॥
ननु विपर्ययाभ्युपगमे कथं वेदप्रामाण्यसिदि्धः । वेदजनितप्रत्ययेऽपि विपर्ययशङ्काप्रसरात् । सर्वस्यापि विज्ञानस्य याथार्थ्ये तु नेयं शङ्कावकाशमासादयतीति । मैवम् । तथा सति विवेकाग्रहस्याप्यनङ्गीकार्यत्वापातात् । तथा हि । न तावद्वेदवाक्यं पदार्थेषु प्रमाणम् । तेषामन्यतोऽधिगतत्वात् । नापि संसर्गे; विनाऽपि संसर्गग्रहमसंसर्गाग्रहेणैव व्यवहारान् पश्यतो वेदजनितविज्ञानेऽपि शङ्काप्रसरात् । अपौरुषेयत्वादिना सा निरसिष्यत इति चेत्; किं तर्हि; सकल्लोकावसितविपर्यासनिरासेन, तच्छङ्काया अपि तत एव निराकर्तुं शक्यत्वात्; इति सिद्धमेतच्छुक्ती रजतत्वेनावभासत इति ।
तत्र आरोप्यमाणं रजतं सदेवे ति केचिदातिष्ठन्ते ॥ तथा हि । यदि्ध यथावभासते तत्तथेत्यौत्सर्गिको न्यायः । अपवादस्तु बलवद्बाधकोपनिपातात् । तथा चेदं च रजतं च तत्तादात्म्यं चेति त्रितयमिहावभासते । इदं च रजतत्वं च तत्संसर्गश्चेति वा । तत्र रजतरजतत्वयोरिदङ्कारास्पदस्य च बाधकाभावान्नासत्त्वमुपपद्यते, संवादसद्भावाच्च । तत्तादात्म्यस्य संसर्गस्य वा बाधकाद्विसंवादाच्चासत्त्वमस्तु । यथोक्तम् असंभवि च यावत्तु तावत्संपरिहीयतामिति । न च नेदं रजतमि ति बाधबोधो रजतस्याप्यसत्त्वमावेदयतीति वाच्यम्; तस्य तादात्म्यमात्रगोचरत्वेनोपपत्तौ रजतगोचरत्वकल्पनायां गौरवप्रसङ्गात् । यथाहुः एकदेशापवादेन कल्प्यमाने च बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः इति ॥
किञ्च रजतस्यात्यन्तासत्त्वे प्रतिभासो नोपपद्यते । स्थिते चैवं सत्त्वे बाधसमये पुरोऽदर्शनाद् देशान्तरे सत्त्वमास्थीयते । दोषदूषितं चक्षुः शुक्तिशकलमात्रसन्निकृष्टमपि विप्रकृष्टरजतात्मना तदा दर्शयतीति को दोष इति ॥
एतदप्ययुक्तम् ॥ सत्त्वेऽपि रजतस्य असदेव रजतं प्रत्यभात् इत्यनुभवविरोधात् । अत्रासत्त्वेऽप्यन्यत्र सत्त्वमङ्गीक्रियत इति चेन्न । अत्र प्रतीतस्यैवान्यत्र सत्त्वे मानाभावात् । तथा हि । भ्रान्त्यनुभवो वा तत्र प्रमाणम्, बाधानुभवो वा, भ्रान्त्यनुपपत्तिः, बाधानुपपत्तिर्वा ॥ नाद्यः तस्याप्रमाणत्वात्, अत्रैव सत्त्वावेदकत्वाच्च ॥ न द्वितीयः तस्येह रजतनिषेधात्मनोऽन्यत्र सत्त्वासत्त्वयोरौदासीन्यात् ॥
न तृतीयः । भ्रान्तेः पुरोवर्तीन्द्रियदोषादिभिर्विना अनुपपद्यमानायास्तन्मात्राक्षेपहेतुत्वात् । असत्त्वे कथं प्रतीतिरिति चेत्; सत्त्वेऽपि कथम् । न ह्यन्यत्र सत्त्वमत्र प्रतीतेरुपकारि । इन्द्रियसन्निकर्षार्थं वा तदास्थेयम्, संस्कारसिद्ध्यर्थं वा । नाद्यः । विप्रकृष्टेन सन्निकर्षाभावात्, पुरोवर्तिसन्निकर्षमात्रेणैव भ्रान्त्युत्पादाङ्गीकाराच्च । न द्वितीयः । संस्कारो हि रजतानुभवमाक्षिपेत्, अनुभवश्च यथार्थो रजतसत्ताम्, अत्र प्रतीतस्यैवान्यत्र सत्ता कुतः कल्प्या ॥
किञ्च घटान्तरं विनष्टोत्पत्स्यमानघटान्तरतया यदा प्रत्येति, तदा कथम् । न हि विनष्टोत्पत्स्यमानयोरन्यत्र सत्ताऽस्ति । कालान्तरेऽस्तीति चेत्सत्यम्; न तस्या भ्रान्तावुपयोगं साक्षात्पश्यामः । संस्कारादिना हि तदुपयोगः । स च रजतान्तरानुभवमात्रेण भविष्यतीति व्यर्था तस्यैवान्यत्र सत्त्वकल्पना । एतेन प्रवृत्त्यनुपपत्तिरपि परास्ता ॥
किञ्चासतः प्रतिभासासंभवे तादात्म्यमपि न प्रतिभासेत; तस्य कुत्राप्यभावात् । धर्मधर्मिभावस्तु वैधर्म्यमात्रम् ॥
न चतुर्थः । बाधस्यान्यत्र सत्तया विनाऽनुपपत्त्यभावात् । अत्रैव रजतसत्तानिषेधानुपपत्त्याऽन्यत्र सत्त्वसिदि्धरिति चेन्न; तस्यात्रैव प्राप्तत्वेनैवोपपत्तेः ।
एतेन यद्यथावभासते तत्तथैवे त्यादि परास्तम् । असदेव रजतं प्रत्यभादि ति रजतासत्त्वप्रमाणस्योपन्यस्तत्वात् । तद्विषयसङ्कोचप्रमाणस्य निरस्तत्वात् ॥ तत्किं सर्वत्रारोप्यमत्यन्तासदेव । उच्यते । यत्रारोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्रमसत्, यथा दूरस्थयोश्चूतपनसयोः एक एवायं चूत इति, बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेः । यत्र पुनरसन्निहितमारोप्यं तत्र तत्तादात्म्यं चोभयमप्यसत्, उक्तन्यायेनेति ॥ तदेवं नैवंविधान्यथाख्यातिवादोऽप्युपपन्नः ॥ ३ ॥
अपरे पुना रजतं सदेव किन्त्वन्तरेवेति मन्यन्ते । तथा हि । न तावदसदेव रजतं, प्रतीत्यनुपपत्तेः । नापि पुरत एव सत्; भ्रान्त्यनुपपत्तेः, बाधविरोधाच्च । न च देशान्तरे सत्, प्रमाणाभावात् । अतः परिशेषाज्ज्ञानाकारमेवावतिष्ठते ॥
किञ्चेदं ज्ञानरूपम् इन्द्रियसंप्रयोगे असति अपरोक्षत्वाज्ज्ञानवत् । न च सत्यत्वे भ्रान्त्यनुपपत्तिः, आन्तरस्यैव बाह्यतयाऽवभासो भ्रम इत्यङ्गीकारात् । तस्य नेदमि ति बाह्यतानिषेधेनैव बाधकस्य बाधकत्वोपपत्तिरिति ॥
एतच्चानुपपन्नम् । सत्त्वे असदेव रजतमि त्यसत्त्वावेदकप्रत्ययविरोधस्योक्तत्वात् । असतः प्रतीत्यनुपपत्तौ च बहिष्ठताया अपि प्रतीत्यनुपपत्तिप्रसङ्गात् । तत्सत्त्वे भ्रान्तित्वानुपपत्तेः । बहिस्सत्त्वमेवासत्प्रत्ययेन निषिध्यत इति चेन्न । आन्तरत्वे प्रमाणाभावात् । इन्द्रियसंप्रयोगमन्तरेणापरोक्षत्वस्य हेतोर्बाह्यतायामनैकान्त्यात् । शुक्तिसंप्रयोगेणापरोक्षतायाः स्वीकारादसिद्धेश्च । दृष्टान्तश्च साधनविकलः । ज्ञानस्यापि इन्द्रियसंप्रयोगादेवापरोक्षताऽङ्गीकारात् ।
किञ्च गुञ्जापुञ्जादौ दहनादिसमारोपे तस्यान्तःसत्त्वे देहदाहादिप्रसङ्गः । अन्यथा अन्तरपि तदसदित्यत्यन्तासदेवापन्नमिति नात्मख्यातिपक्षोऽप्युपपत्तिमान् ।
अन्ये पुनः इदं रजतमि ति प्रतीतिरसदालम्बनैवेत्यास्थिताः ॥ तथा हि । न तावदिदं सदेव, बाधबोधविरोधात् । नापि सदसत्, तत्रैव तदैव तस्यैव सदसत्त्वविरोधात् । देशकालप्रकारव्यवस्थया सदसत्त्वाङ्गीकारे घटादितुल्यतापातात् । किञ्चैवं सति सदिदं रजतमि ति ज्ञानं भ्रान्तिर्नैव भवेत्, सत्त्वस्य विद्यमानत्वात् । सदसदात्मकं सत्त्वेन विषयीकुर्वत्कथं न भ्रान्तिरिति चेत्, तत्किमेकदेशदर्शनं भ्रान्तिः । तथा च बाधकप्रत्ययोऽप्यसत्त्वमात्रावलम्बी न कथं भ्रान्तिः । सदेवे त्यसत्त्वनिषेधाद् भ्रान्तित्वमिति चेत् तर्हि असदेवे ति सत्त्वप्रतिषेधाद् बाधस्यापि भ्रान्तिताऽनिस्तारः । तस्मादसदेव विभ्रमालम्बनम् । न चासतोऽवभासानुपपत्तिः विवेकाग्रहवादस्य निरस्तत्वात् । अन्यथाख्यातिवादिभिरसत एव तादात्म्यस्य संसर्गस्य वा प्रतिभासाभ्युपगमात् । विज्ञानख्यातिवादिभिरप्यसत्याया एव बाह्यतायाः प्रतीत्यङ्गीकारात् । सत एव प्रतीतिरि ति पक्षे न भ्रान्तिर्नापि बाध इति ॥
अत्रेदं विवेचनीयम् । केयमसत्ख्यातिरिति ॥ यदि सदेव शुक्तिकाशकलं सकलदेशकालासद्रजतात्मनाऽवगाहमानं ज्ञानमिति, तदाऽनुज्ञया वर्तामहे । यथोक्तम् । तस्माद्यदन्यथासन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमसदालम्बनं च तदि ति ॥ यदि पुनः इदं रजतमि त्यवभासे चकासत् असदेवाखिलमि ति, तदसत्; इदङ्कारास्पदस्य शुक्तिकाशकलस्य प्रागूर्ध्वं सत्त्वावगमात् । यदि च न तदिदङ्कारास्पदं तदा न भ्रान्तिबाधयोरङ्गुल्यग्रेण निर्दिशेन्नोपादद्यान्न परित्यजेत् ॥
किञ्चास्य ज्ञानस्य कारणं वक्तव्यम् । दुष्टेन्द्रियादिकमिति चेन्न तस्य सन्निकर्षाद्यनपेक्षस्य कारणतायामतिप्रसङ्गात्, असता च सन्निकर्षायोगात् । शुक्त्यादिना सन्निकर्षोऽस्तीति चेन्न तथा सति तज्ज्ञानस्यावर्जनीयत्वात् । अथ संवृतिरेव रजतादिप्रतिभासकारणं तदा अन्धस्याप्यसन्निहिते शुक्तिशकले किं न स्यात् । अथ काचादिवच्छुक्तीन्द्रियसन्निकर्षोऽपि संवृतेः सहकारीति चेन्न तथात्वे भूतलवच्छुक्तेरपि शुक्तित्वेनावभासप्रसङ्गात् । दोषनिमित्तः शुक्तित्वानवगमोऽपि कारणमिति चेन्न अधिष्ठानत्वानभ्युपगमे भूतलशुक्तिशकलयोरविशेषेण कस्यानवगमः कारणमिति विवेक्तुमशक्यत्वात् ॥
अपि चासदेव रजतमवभासमानं न तावदसत्तयैवावभासते । अर्थक्रियाऽनर्हे प्रवृत्त्यनुपपत्तेः । सत्तया प्रतिभासे त्वन्यथाख्यातिरङ्गीकृतेति शुक्तिरेव रूप्यतयाऽवभासत इति कुतो नाङ्गीकरणीयम् । तथा सत्यङ्गुल्यग्रनिर्देशादयोऽप्यनुकूलिताः स्युः । केशोण्ड्रकादिभ्रमस्तर्हि कथमिति चेत् सोऽपि तेजःप्रभृतिद्रव्यमालम्ब्यैवेति वदामः ॥ तस्मान्नैवंविधासत्ख्यातिपक्षोऽपि साधीयान् ॥ ४ ॥
मायावादिनो वदन्ति; अनिर्वचनीयमेव शुक्तिकादौ प्रतीयमानं रजतादिकमिति ॥ तदनुपपन्नं प्रमाणाभावात् । शुक्तिरजतादिकमनिर्वाच्यं दोषप्रयुक्तभानत्वाद् भ्रान्तिसिद्धतादात्म्यवदित्यनुमानं मानम् अत्रेति चेत् ।किमिदमनिर्वाच्यत्वं नाम । यन्न सन्नासन्नापि सदसत्तदनिर्वाच्यं तस्य भावस्तत्त्वमिति चेन्न । शुक्तिरजतादेस्सत्त्वस्य सदसत्त्वस्य चास्माभिरनङ्गीकृतत्वेन सिद्धसाधनत्वात् ॥ अथासत्त्वाभावमात्रं साध्यम्; तथाऽपि असदेव रजतं प्रत्यभादि त्यनुभवविरोधः ।
किञ्चेदं दोषप्रयुक्तभानत्वं किं दोषजन्यज्ञानविषयत्वं किंवा दोषजन्यप्राकट्याश्रयत्वम् ॥ नाद्यः । दोषजन्येतिविशेषणवैयर्थ्यात् । असतो ज्ञानविषयत्वानङ्गीकारेण व्यावर्त्याभावात् ॥
किञ्च मायावादिमतेऽधिष्ठानज्ञानस्यान्तःकरणवृत्तित्वेन सत्यत्वान्न दोषजन्यत्वम् । भ्रमस्य दोषजन्यत्वेऽप्यविद्यापरिणामतया न ज्ञानत्वम् । साक्षिणस्तु जन्यत्वमेव नास्तीत्यसिद्धो हेतुः ॥ अपि चास्माकं ज्ञानस्यैकत्वेन तज्ज्ञानविषयता अधिष्ठानस्याप्यस्तीति व्यभिचारः ॥ न द्वितीयः असिद्धेः । न चान्यद्दोषप्रयुक्तभानत्वं निरूपयितुं शक्यम् ॥
दृष्टान्तश्च साध्यविकलः, भ्रान्तिप्रतिपन्नतादात्म्यस्यास्माभिरसत्त्वेनाङ्गीकृतत्वात् ।
विवादपदमनिर्वचनीयं भ्रमविषयत्वात्, यन्नैवं तन्नैवम्, यथात्मे त्यनुमानमस्त्विति चेन्न । अत्रापि सिद्धसाधनत्वाद्यपरिहारात् ॥ अप्रसिद्धविशेषणश्च पक्षः ॥ शुक्त्यादावात्मनि च वर्तमानतया विरुद्धश्च हेतुः ॥
विमतमनिर्वचनीयं, बाध्यत्वाद् व्यतिरेकेणात्मवदि त्यनुमानं भवत्विति चेन्न । सिद्धसाधनताबाधाप्रसिद्धविशेषणत्वानामपरिहारात् ।
सदसत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदि त्यनिर्धारितधर्मिनिष्ठतया सामान्यतः सिद्धस्य सदसद्वैलक्षण्यस्य केवलव्यतिरेकिणा रजतधर्मिनिष्ठतयोपसंहारान्नाप्रसिद्धविशेषणतेति चेन्न । सत्त्वासत्त्वयोरत्यन्ताभावप्रतियोगितासाधने घटादावपि सत्ताऽद्यभावप्रसङ्गेन बाधितविषयत्वात् । यदि्ध सकलदेशकालासत्तदत्यन्ताभावप्रतियोगीत्युच्यते, यथा शशविषाणादिकम्, घटादौ च सत्त्वमभावप्रतियोगित्वलक्षणमसत्त्वं च प्रत्यक्षादिसिद्धमिति कथं न बाधितविषयत्वम् ।
अभावप्रतियोगितामात्रसाधनेऽप्यन्योन्याभावमुपादायार्थान्तरत्वापातः ॥ एकस्मिन्न स्त इति साध्यत इति चेत् । किमिदं सत्त्वं नाम । सत्तासामान्यं वा, स्वरूपसत्त्वं वा ॥ नाद्यः आश्रयासिद्धेः । अस्माभिरप्यनुगतसत्ताया अनभ्युपगमात् । तदभ्युपगमवादिनां च सामान्यादित्रये सत्त्वासत्त्वयोरभावादर्थान्तरतादवस्थ्यात् ॥ न द्वितीयः यत्किञ्चित्स्वरूपसत्त्वपक्षीकारे घटादौ पटादिस्वरूपसत्त्वस्यासत्त्वविशेषस्य चाभावेन आर्थान्तरताऽनिस्तारात् ॥ सर्वाणि स्वरूपसत्त्वानि सर्वाणि चासत्त्वान्येकधर्मिनिष्ठसंसर्गाभावप्रतियोगीनी ति साधनेऽपि स्वरूपसत्त्वस्य धर्मत्वाभावेनासिदि्धः स्यात् । विशेषणत्वं धर्मत्वम् । तच्च वस्त्वन्तरापेक्षया सर्वस्याप्यस्तीति चेत् । तथा सति वस्तुत्वमात्रं हेतुरित्युक्तं स्यात् । तच्चात्मन्यभावप्रतियोगित्वरहितेऽप्यस्तीति व्यभिचारः ॥
अपि च प्रमेयत्वादिना अनैकान्तिकं धर्मत्वम् । प्रमेयत्वादीनामपि सकलधर्मरहिते ब्रह्मण्यवृत्तेः सपक्षतैवेति चेत्तर्हि तस्मिन्नेव सत्वासत्त्वयोरभावेन प्रकृतप्रतिज्ञातार्थपर्यवसानादर्थान्तरता स्यात् ॥ एकशब्देनैकत्वगुणवतो विवक्षितत्वाद् बह्मणो गुणाभावान्नेति चेत् । तथाऽप्येकत्वगुणवद्विभिन्नाधिकरणसंसर्गराहित्येन प्रतिज्ञातार्थसंभवादर्थान्तरताऽपरिहारात् । सत्त्वमसत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगीति प्रतिज्ञाने न दोष इति चेन्न । प्रमेयत्वादिषु व्यभिचारात् । असत्त्वं सत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगि अनात्मनिष्ठसंसर्गाभावप्रतियोगिधर्मत्वाद् रूपवदि त्यनुमीयत इति चेत् । किमिदमसत्त्वं नाम ॥ अभावप्रतियोगित्वमात्रं चेत् ॥ तदनात्मनि सर्वत्रास्तीति परेणाङ्गीकृतत्वादसिद्धो हेतुः ॥ अत्यन्ताभावप्रतियोगित्वं चेत् । तदाऽपि वक्तव्यम् । किं प्रतिज्ञाहेत्वोरनात्मपदेनात्मव्यतिरिक्तमात्रं विवक्षितम् उतात्मव्यतिरिक्तं वस्तु । आद्ये शशविषाणादावनात्मनि निर्धर्मके सत्त्वासत्त्वयोरभावेनार्थान्तरत्वापातः । द्वितीये दृष्टान्तस्य साध्यविकलता । रूपादीनां सत्त्वानधिकरणानात्मवस्तुनिष्ठसंसर्गाभावप्रतियोगित्वस्य असंप्रतिपत्तेः ॥ स्यादेतत् । सद्विलक्षणत्वमसत्यसद्विलक्षणत्वं च सति प्रसिद्धमेव, अतः कथमप्रसिद्धविशेषणतेति । मैवम् । विशिष्टस्याप्रसिद्धत्वात् । अन्यथा शशविषाणोल्लेखिता भूरि त्याद्यप्रसिद्धविशेषणोदाहरणेऽप्येकैकदेशप्रसिदि्धव्युत्पादनसंभवेन तदभावप्रसङ्गात् ।
सद्विलक्षणत्वासद्विलक्षणत्वे स्वतन्त्रे साध्ये इति चेन्न सिद्धसाधनस्योक्तत्वात् । तर्ह्यसद्वैलक्षण्यमात्रं साध्यमस्त्विति चेन्न जगद्ब्रह्मणोरसद्विलक्षणयोरवृत्तेर्बाध्यत्वस्य असाधारण्यापातात् । प्रतीतत्वस्य चासत्यपि वृत्तेर्वक्ष्यमाणत्वात् ।
बाध्यत्वविकल्पदूषणानि चोक्तवक्ष्यमाणान्यनुसन्धेयानीति नानुमानाच्छुक्तिरजतादेरनिर्वाच्यतासिदि्धः ।
ख्यातिबाधान्यथाऽनुपपत्तिश्चानेनैव निराकृता वेदितव्या ॥
किञ्चानिर्वचनीयं चेद्रजतं, कथं तर्हि प्रतीतिसमये सदित्युत्तरकालं चासदिति प्रतीयते । अनिर्वचनीयमि त्येव प्रतीतिः कुतो न भवेत् । अधिष्ठानेदन्तासंसर्गवत्तत्सत्तासंसर्गस्यारोपात्, प्रातीतिकसत्त्वस्य रजतेऽपि विद्यमानत्वाद्वा, न सत्प्रत्ययविरोध इत्येतदनन्तरमेव निराकरिष्यते । असदि त्यर्थक्रियासामर्थ्यलक्षणमेव सत्त्वं निराक्रियते, नात्यन्तासत्त्वं गृह्यत, इति चेन्न । अर्थक्रियासामर्थ्यस्य तवाप्रसक्तत्वात् । प्रसक्तौ चान्यथाख्यातिस्वीकारप्रसक्तेश्च । वक्ष्यते चैतत् ।
किञ्चेदं रजतं नित्यमनित्यं वा । आद्ये सर्वदोपलम्भप्रसङ्गः । द्वितीये कारणं वाच्यम् । अविद्येति चेन्न, तस्यास्त्वन्मतेऽनुपपत्तेर्वक्ष्यमाणत्वात् ॥ किञ्चाविद्याया आत्मनिष्ठत्वात्तत्परिणामभूतं रजतमपि प्रत्यक् प्रकाशेत ॥ आत्मनः सर्वगतत्वाच्छुक्त्यवच्छिन्नचैतन्यस्थाविद्याविवर्तभूतं तत्संभिन्नतया प्रतीयत इति चेन्न । तथा सति सर्वोपलब्धिप्रसङ्गात् ।
अपि चेदमिन्द्रियसन्निकर्षादुपलभ्यते घटादिवत्, संस्काराद्वा अतीतघटादिवत्, साक्षिणा वा सुखादिवत् ॥ नाद्यः प्रतीतिसमय एव रजतजन्माङ्गीकारात् । न द्वितीयः अननुभूतत्वात् । न तृतीयः इन्द्रियव्यापारान्वयव्यतिरेकानुविधानविरोधात् ।
अधिकरणग्रहणे तदुपक्षयान्नेति चेन्न । रजतग्रहेऽधिकरणग्रहस्योपयोगाभावात् ॥ रजतं गृह्यमाणं साक्षिणा शुक्तिसंभिन्नं गृह्यते । न हि शुक्तिः साक्षात्साक्षिवेद्या व्यावहारिकत्वात्, किन्तु इन्द्रियव्यवधानेन । रजतं तु प्रातिभासिकं नेन्द्रियव्यवधानमपेक्षते । अतोऽस्ति रजतप्रतीताविन्द्रियोपयोग इति चेन्न । शुक्तिसंभेदप्रतीतिनियमे नियामकाभावात् ॥
किञ्चेन्द्रियेणाधिकरणग्रहणं रजतग्रहणं च साक्षिणेत्यङ्गीकारेऽख्यातिमतानुमतिप्रसङ्गेन प्रवृत्त्याद्यनुपपत्तिः । शुक्तितादात्म्यमपि रजतस्य साक्षिणा गृह्यते अतो नैवमिति चेन्न, तथाऽपि ज्ञानद्वयाङ्गीकारेणानुभवविरोधापरिहारात् । इन्द्रियजन्यवृत्तेरपि साक्षिचैतन्यमेव फलमिति फलैक्यान्नेति चेन्न, अस्याः प्रक्रियाया निरसिष्यमाणत्वात् ।
अनिर्वचनीयनिराकरणं च तत्र तत्र आचार्यः स्वयमेव करिष्यति इति अलं पल्लवेन ॥ ५ ॥ तस्मात्साधूक्तं विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतमि ति ॥ ॥
शुक्तिरजतादौ सदसद्विलक्षणत्वं ज्ञाननिवर्त्यत्वं च न विद्यते असत्त्वात् इत्युक्तम् । तदयुक्तम् । असतः प्रतीत्यभावात् । अस्य च प्रतीतत्वादित्यत आह असद्विलक्षणेति ।
हि शब्दो हेतौ । यस्मात् असद्विलक्षणत्वज्ञप्त्यै असज्ज्ञातव्यमेव तस्मादसत्प्रतीतिश्च कथं तेन असद्विलक्षणं शुक्तिरजतादिकमि ति जानता, निवार्यते । कथंतरां च तया रजतादेरसत्त्वं निवार्यत इति चशब्दार्थः ।
इदमुक्तं भवति । स्यादिदं प्रतीतत्वहेतुना शुक्तिरजतादेरसत्त्वाभावानुमानम् यदि यदसत्तन्न प्रतीयत इति व्याप्तिः स्यात् । न चैवम् । परस्यैवासत्प्रतीतिमत्त्वेन व्याप्तिभङ्गात् । विप्रतिपन्नोऽसत्प्रतीतिमान्, असद्विलक्षणमिति प्रतीतिमत्त्वात्, यो यद्विलक्षणं प्रत्येति स तत्प्रतीतिमान्, यथा घटविलक्षणः पट इति प्रतीतिमान् देवदत्तो, घटप्रतीतिमान्; इत्यनुमानात् ।
ननु भवतु असद्विलक्षणं रजतमि ति ज्ञानं, मा भूच्चासज्ज्ञानम्; न च बाधकं किञ्चिदिति चेन्न । वैलक्षण्यज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् । कारणाभावे च कार्योत्पत्तौ नियामकाभावेन कादाचित्कत्वानुपपत्तिप्रसङ्गात् । कारणत्वं चान्वयव्यतिरेकाभ्यां गम्यते । तदिदमुक्तम् असद्विलक्षणज्ञप्त्यै इति चतुर्थीप्रयोगेण । अन्यथाऽसद्विलक्षणज्ञेनेत्यवक्ष्यत् ।
किञ्चास्तां तावदन्यो व्यवहारः । असतोऽप्रतीतौ असत्प्रतीतिश्च कथं तेन मायावादिना निवार्यते । न हि यो यन्न जानाति स तत्संबन्धितया किञ्चिन्निषेधति ॥ अयमत्र प्रयोगः । विमतोऽसत्प्रतीतिमान्, तत्संबन्धिधर्मनिषेधकत्वात्, यो यत्संबन्धितया किञ्चिन्निषेधति स तत्प्रतीतिमान्, यथा घटस्य नास्ति शौक्ल्यमि ति निषेधको घटप्रतीतिमानिति ।
असत्प्रतीतिश्च कथं तेन निवार्यत इति व्यतिरेकप्रदर्शनं चान्वयावधारणार्थम् । असत्प्रतीतिनिषेधसामर्थ्यात् तस्यासत्प्रतीत्यभावावधारणाद् बाधितविषयतेति चेत् । तर्हि मूकोऽहमि ति वचननिषेधसामर्थ्यात्तस्य वचनाभावावधारणाद्वचनप्रतीतेरपि बाधितत्वं स्यात् । स्वक्रियाविरोधात्प्रतिषेध एवायुक्त इति चेत् समं प्रकृतेऽपि ।
किञ्च नरशिरसि विषाणमस्ती ति वाक्यं बोधकं न वा । आद्ये स बोधः सद्विषयोऽसद्विषयो वा । नाद्यः बाधाभावप्रसङ्गात् । द्वितीये कथमसतः प्रतीत्यभावः । अनिर्वचनीयार्थप्रतीतिरसाविति चेन्न । निराकृतत्वात् ॥
अपि च शशविषाणादिकमपि चेन्नासत् तदा कुतो वैलक्षण्यं शुक्तिरजतादेराशास्यते । निरुपाख्यादिति चेत् । तर्हि तद्वैलक्षण्यं नाम सोपाख्यत्वमेव । न च तत्र कश्चिद्विप्रतिपद्यते येनायं परस्य प्रयासः सार्थकः स्यात् ।
कश्चिदाह । नास्माद्वाक्यान्नरशिरसि विषाणबोधो जायते किन्नाम विकल्पमात्रम्, यथोक्तम् शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति । स प्रष्टव्यः कोऽयं विकल्पः । ज्ञानमन्यद्वा ॥ द्वितीयो द्वितीये अन्तर्भवति ॥ आद्ये वस्तुशून्य इति कोऽर्थः । किं किमप्यनुल्लिखन्, असदेवोल्लिखन्वा । आद्येऽनुभवविरोधः । न हि विषयानुपरक्तो घटादिवदसावनुभूयते । यो हि शशविषाणं नास्तीति न प्रतीतवान् तस्य शशविषाणशब्दाज्जायमानं ज्ञानं न गोविषाणज्ञानाद्विशिष्यते ॥ द्वितीये सिद्धं नस्समीहितम् ।
नापि द्वितीयः । अनुभवविरोधात्, विमतानि पदानि स्वार्थान्वयप्रतिपत्तिजनकानि आकाङ्क्षासन्निधिमत्पदत्वात् गामानयेत्यादिपदवदि त्यनुमानविरोधाच्च । न च योग्यतावत्त्वमुपाधिः । प्रतिवादिप्रयुक्तपदेषु साध्याव्यापकत्वात् । तेषां च स्वार्थसंसर्गाबोधकत्वे बधिरविवादवद्वादिवचनस्य निर्विषयत्वापत्तेः । अत एव योग्यताराहित्येन प्रतिपक्षोऽपि परास्तः ॥
ननु कथमसतो भाति भास्यत इति कर्तृत्वं कर्मत्वं वा समस्तसामर्थ्यविरहितत्वादिति । अथ समस्तसामर्थ्यरहितत्वमपि कथम् । भाववदभावस्यापि सद्धर्मत्वदर्शनात् । बौद्धमेवाभावाश्रयत्वं न वस्तुकृतम् अतो न विरोध इति चेत् । समं कर्तृत्वकर्मत्वयोरपि । अन्यथा जायते घट इत्यादि न स्यात् ।
सत्कार्यवादं त्वारम्भणाधिकरणे निराकरिष्यामः ।अतोऽसतः प्रतीत्युपपत्तेः प्रतीतत्वान्नासच्छुक्तिरजतादिकमित्ययुक्तम् ।
स्यादेतत् । न ब्रूमो वयमसतः प्रतीतिरेव नास्तीति किन्नामापरोक्षतया सत्त्वेन च । यथोक्तम् । न हि नरि शृङ्गं भाति गवीवे ति । शुक्तिरजतादिकं चापरोक्षतया सत्त्वेनावभासते । अतः कथमसदित्यत आह अन्यथात्वमिति ।
रजतादिकमनिर्वचनीयं प्रतिपद्यमानेनापीदंरजतयोस्तादात्म्यावभासोऽङ्गीक्रियत एव । यथोक्तम् अध्यासो नामातस्मिंस्तदिति प्रत्यय इति । न चैवमन्यथाख्यातिप्रसङ्गः, अधिष्ठानस्य संसृष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वम्, अध्यस्तस्य संसृष्टरूपेण स्वरूपेण च मिथ्यात्वमि ति मायावादिभिरङ्गीकृतत्वात् । तथा चोक्तम् सत्यानृते मिथुनीकृत्य लोकव्यवहार इति । अन्यथाख्यातिवादिभिः अधिष्ठानारोप्ययोरुभयोरपि संसृष्टरूपेणैव असत्त्वं स्वरूपेण तु सत्त्वमेवे त्यङ्गीकृतम् । इदंरजतयोस्तादात्म्यानवभासे प्रवृत्त्याद्यसंभवश्च । तत्र यदन्यथात्वं शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्येदन्तासंसर्गः तत्तावदसदेव । प्रतीयते चापरोक्षतया, सत्त्वेन च । अपरोक्षावभासस्यानुभवसिद्धत्वात् । सत्त्वेनाप्रतीतौ प्रवृत्त्यनुपपत्तेश्च । न हि प्राग्बाधात्सत्यरजतेदन्तासंसर्गादयं संसर्गो मात्रयाऽपि विलक्षणोऽनुभूयते । तथा चासदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेरन्यथात्वे भग्नत्वान्नानेन हेतुनाऽसत्त्वाभावोऽनुमातुं शक्यत इति ।
स्यादेवं यद्यन्यथात्वमसत्स्यात् । तत्कुत इति चेत् । शुक्तिकेदन्तारजतादि संसर्गरूपस्यान्यथात्वस्यासत्त्वमनभ्युपगच्छतः कोऽभिप्रायः । किं तदन्यथात्वं सदिति उतानिर्वचनीयमिति । द्वितीये वक्ष्याम इत्याशयेनाद्यं दूषयति तस्मादिति ।
एवे ति तस्मादि त्यनेनापि संबध्यते । असत्त्वादेव हि तत् भ्रान्तावेव प्रतीयते । यदि सत्स्यात्तर्हि शुक्तिकादिवदभ्रान्तावपि प्रतीयेत । न चैवम् । तस्मान्न सत् । न हि कारणसामग्रये सति कार्यानुत्पत्तिर्युक्तेति ॥
किञ्च अन्योन्यस्मिन्नन्योन्यात्मकत्वमपि चेत् सत् स्यात्तदा अतस्मिंस्तदिति न भवेत्, किन्तु तस्मिंस्तदिति । तथा च न तत्प्रत्ययस्य भ्रान्तित्वं स्यात् सत्यरजतप्रत्ययवत् । तदिदमुक्तम् अन्यथात्वमि ति भ्रान्तावि ति च । उपलक्षणं चैतत् । अन्योन्यसंसर्गस्य सत्त्वे बाधोऽपि नेदं रजतमि ति न स्यादित्यपि द्रष्टव्यम् ।
असदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेः स्थानान्तरेऽपि व्यभिचारं दर्शयति सत्त्वस्येति ।
एवं शब्दः समुच्चये उपमार्थो वा । हि शब्दो अनुभवप्रसिदि्धद्योतनार्थः । स्वीकार्यैवेति । युक्त्युपेततामाह । प्रतीतता अपरोक्षतया, सत्त्वेन चे ति शेषः ।
अयमर्थः । रजतमनिर्वचनीयं मन्यमानस्यापि मते तत्किमनिर्वचनीयतया प्रतीयते, उतासत्त्वेन, अथवा सत्त्वेन ॥ न प्रथमद्वितीयौ तथाप्रतीत्यनुपलम्भात्, तथाप्रतीतौ प्रवृत्त्यभावप्रसङ्गाच्च । न ह्यसत्प्रातिभासिकं वा कदाचिदनेनार्थक्रियासूपयुज्यमानं दृष्टम् येनास्यासत्त्वादिकं प्रतीत्यापि प्रवर्तेत ॥ तस्मात्सत्त्वेनैव प्रतीयत इत्येव स्वीकार्यम् । तथा चानुभवः सदिदं रजतमि ति । प्रवृत्तिश्चैवमुपपद्यते ॥ रजतप्रतीतिमात्रात्प्रवृत्तिरिति चेन्न । उक्तानुभवविरोधात्, विधिनिषेधाववधूय प्रत्ययायोगाच्च ।
तथा च तत्सत्त्वं सदसदनिर्वचनीयं वा । नाद्यः अनिर्वचनीयताविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति संभवति । द्वितीयस्तु स्यात् । ततश्च यथा असतो अन्यथात्वस्यापरोक्षतया सत्त्वेन च प्रतीतता स्वीकार्या, एवमसतस्सत्त्वस्यापि विशिष्टप्रतीतता स्वीकार्यैव । तथा च यदसत्तदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेः सत्त्वे भग्नत्वात् एतेन हेतुना नासत्त्वाभावो रजतस्यानुमातुं शक्यत इति ।
आह । अपरोक्षतया सत्त्वेन च प्रतीतत्वमसत्यप्यन्यथात्वे वर्तमानमनैकान्तिकमि ति यदुक्तं तदयुक्तम् । अन्यथात्वस्यासत्त्वाभावात् । शुक्तौ तावदिदन्ता सत्यैव । तत्संसर्गश्च रजते रजत(त्व)वदनिर्वचनीय एवारोपितः । एवं रजतत्वं च रजतेऽनिर्वचनीयं, तत्संसर्गश्चेदमास्पदे अनिर्वचनीय एवारोपितः ।
यदपि रजते सत्त्वमसदेवापरोक्षतया सत्त्वेन प्रतीयत इत्यभिहितम् । तच्चानुपपन्नम्, शुक्तिकायां सदेव सत्त्वं रजते प्रतीयते न तु रजतस्य परं सत्त्वं नामास्तीत्यङ्गीकारात् । शुक्तिकेदन्तासंसर्गवत्तत्सत्तासंसर्गस्याप्यनिर्वचनीयस्यैवारोपितस्य प्रतीयमानत्वात् इति प्राग्विकल्पितं पक्षमाशङ्क्य परिहरति तस्येति ।
इदन्तारजतत्वयोरितरेतरसंसर्गस्य तथा रजते शुक्तिकासत्त्वसंसर्गस्य अनिर्वचनीयत्वे अङ्गीक्रियमाणे अनवस्थितिः स्यादि्ध यस्मात्तस्मात् उभयमसदेवाङ्गीकरणीयमि ति पूर्वेण संबन्धः ।
तथा हि । संसर्गद्वयमनिर्वचनीयमि ति कोऽर्थः । किं व्यावहारिकमुत प्रातिभासिकमिति ॥ नाद्यः अनङ्गीकारात् । तथात्वे वा रजतस्यापि व्यावहारिकत्वापातात् ॥ द्वितीये प्रातिभासिकतयैव प्रतीयते, व्यावहारिकतया वा । नाद्यः प्रवृत्त्यभावप्रसङ्गात् । न हि प्रातिभासिकमर्थक्रियासूपयुक्तं क्वचिदुपलब्धं यतस्तद्भावं प्रतीत्यापि प्रवर्तेत । द्वितीये तु किं व्यावहारिकता सती अथासती । नाद्यः प्रातिभासिकत्वानुपपत्तेः । द्वितीयेऽपरोक्षतया सत्त्वेन चासतोऽपि प्रतीतिप्रसङ्गः ॥
अथ सा व्यावहारिकताऽप्यनिर्वचनीयैवारोपितेत्युच्यते तदा अनिर्वचनीये ति कोऽर्थ इत्यादेरावृत्त्याऽऽरोपपरम्पराऽपर्यवसानापत्तिः स्यात् । यत्रैवारोपपर्यवसानं तत्रैव प्रवृत्त्यभावो वाऽसतो विशिष्टप्रतीतिर्वा प्रसज्येत ।
न चेयमपर्यवसिता परम्परा सिद्धविषया येन बीजाङ्कुरपरम्परावददूषणं स्यात् ॥ न चेयं कस्याप्यप्रतिबन्धकत्वाददोष इति वाच्यम् । पूर्वपूर्वारोपानुपपत्तावुत्तरोत्तरारोपानुपपत्तेः । प्रवृत्त्यनुपपत्तेश्च ॥
न च वाच्यं सर्वेऽप्यारोपा एककालमेव भवन्तीति । ज्ञानानां यौगपद्यायोगात् । अधिष्ठानसिद्ध्युत्तरकालीनत्वाच्चारोपस्य ॥ यथा विसर्पणविशिष्टः सर्पो रज्जावारोप्यते एवमेक एवायं विशिष्टारोप इति चेन्न । अनन्तानिर्वाच्यविशेषणविशिष्टार्थगर्भस्यारोपस्याननुभवात् । विशेषणभेदेन विशिष्टप्रत्ययभेदस्यावश्यकत्वाच्च ॥
ननु च संसर्गद्वयं न प्रातिभासिकतया प्रतीयते, नापि व्यावहारिकतया, किन्तु स्वरूपेणैव; अतो नानवस्थेति चेत् । व्यावहारिकत्वाप्रतीताविष्टाभ्युपायत्वानुमानाद्यनुपपत्तौ प्रवृत्त्यनुपपत्तेः । अन्यथा रजतावभासादेव प्रवृत्त्युपपत्तौ किं संसर्गग्रहणेनेति वदता जितं प्राभाकरेण ॥ तस्मादपरिहार्यैवेयमनवस्था । तदिदमुक्तं स्यादेवेति ।
ननु भवत्पक्षेऽपि रजतस्य प्रतीयमानं सत्त्वं सदसद्वा ॥ नाद्यः । रजतस्यापि सत्त्वापत्तेः ॥ द्वितीये किमसत्त्वेन प्रतीयते किंवा सत्त्वेन । नाद्यः प्रवृत्त्यभावापत्तेः । द्वितीये तदपि सदसद्वेति समानो दोषः । न समानः विधिप्रत्ययस्यैव सत्त्वविशिष्टविषयत्वाभ्युपगमात् । न च सत्त्वस्यापरं सत्त्वमस्माभिरभ्युपगम्यते । किन्तु रजतविधिप्रत्ययमात्रादेव प्रवृत्त्युपपत्तेः । न चैवं परस्याभ्युपगमः । सत्त्वेऽप्यवान्तरभेदाङ्गीकारेण तत्प्रतीतिमात्रस्य प्रवृत्त्यनुपयोगित्वादिति ।
अपर आह । सदिदं रजतमि ति प्रतीयमानं सत्त्वं नासत् । येनोक्तव्याप्तेर्भङ्गः स्यात् । किं नाम ब्रह्मणीव पारमार्थिकमम्बरादेरिव मायोपाधिकं व्यावहारिकं शुक्तिरजतादावपि अविद्योपाधिकं प्रातिभासिकं सत्त्वमस्त्येवेति ॥ तदसत् । सत्त्रैविध्यस्यैव दूषितत्वात् ।
दूषणान्तरं चाह तस्येति ।
तस्य सत्त्वस्य अनिर्वचनीयत्वे प्रातीतिकत्वे तथैव प्रतीतौ स्वरूपमात्रप्रतीतौ वा स्यादेव अनवस्थितिः अव्यवस्थितिः । प्रवृत्तेरि ति शेषः । व्यावहारिकत्वाद्याकारेण प्रतीतौ पूर्ववदनवस्थितिः स्यादेवेति । तस्मान्न वियदादिप्रपञ्चस्यानिर्वचनीयत्वमिति सिद्धम् ।
एवं बन्धस्याध्यस्तत्ववर्णनं प्रकृतानुपयुक्तमयुक्तं चे त्यभिधायाधुना यत्परेण मिथ्याज्ञाननिमित्त इति बन्धस्य मिथ्याभूताज्ञानोपादानकत्वमुक्तं तदप्यनुपपन्नमित्याशयवान् परमतेऽज्ञानासंभवं तावदाह निर्विशेष इत्यादिना ।
तथा हि । यत्तावत्परेण भावरूपमज्ञानमङ्गीकृतं तत्किं जीवाश्रयम्, उत जडाश्रयम्, अथ ब्रह्माश्रयम् ॥ नाद्यः । प्रकृत्यधिकरणे निराकरिष्यमाणत्वात् ।
न द्वितीयः । अनभ्युपगमात् । जडस्याज्ञानकल्पितत्वेनेतरेतराश्रयत्वात् । कारणस्य कार्याश्रितत्वादर्शनाच्च ।
तृतीयेऽपि वक्तव्यम् । किं तद् ब्रह्माश्रितमज्ञानं ब्रह्मैव प्रतिबध्नाति, उत जीवम्, अथ जडम् ।
आद्ये तस्य ब्रह्माश्रितस्य ब्रह्मावरणस्याज्ञानस्य विषयो वाच्यः । आवरणं खलु पटलादिकं क्वचिदाश्रितं किञ्चिद्विषये किञ्चित्प्रतिबध्नातीत्युपलब्धम् । तत्र ब्रह्मावरणेनाज्ञानेन ब्रह्मगतः कश्चिद्धर्मो वाऽऽव्रियते, स्वरूपमेव वा, अन्यद्वा किञ्चित् । आद्यं पक्षद्वयं निराकरोति निर्विशेष इति । हेत्वर्थगर्भं विशेषणद्वयम् । किम् आक्षेपे । ब्रह्मण्यावरणतया अङ्गीकृतेन अज्ञानेन किमावृतं भवेत् । न किमपि भवेत् । न तावद्धर्मः; परेण ब्रह्मणो निर्विशेषत्वाङ्गीकारात् । नापि स्वरूपम्; स्वयंप्रकाशत्वेन नित्यसिद्धत्वात् । न हि प्रकाशमानं चावृतं चेति संभवति, आवरणकृत्याभावात् ।
स्यादेतत् । मा भूद् ब्रह्मावरकेणाज्ञानेन स्वरूपमावृतम्, तथाऽप्यद्वितीयत्वादिस्तद्धर्मो भविष्यति । परमार्थतो ब्रह्मणो निर्विशेषत्वेऽपि मिथ्याधर्माङ्गीकारात् । मिथ्यात्वं चाद्वितीयत्वादीनां न स्वरूपेण किं नाम धर्मत्वेनैव । यथोक्तम् अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त इति । तत्राह मिथ्याविशेषोऽपीति ।
नाज्ञानावृत इति अपेरर्थः । कुत इत्यत आह अज्ञानसिदि्धमेवेति ।
हिशब्दो हेतौ । अद्वितीयत्वादिधर्मो ह्यज्ञानावृतो भवन्न तावत्स्वरूपेण, स्वरूपस्यावरणविषयताया निरस्तत्वात् । मिथ्याभूतेन धर्मत्वेनाज्ञानावरणविषयतायां तु परस्पराश्रयत्वं स्यात् । यतो मिथ्याधर्मः अज्ञानसिदि्धमपेक्षते । अज्ञानातिरिक्तस्य मिथ्याभूतस्याज्ञानकार्यत्वाभ्युपगमात् । अज्ञानं च मिथ्याभूतविशेषमपेक्षते । निर्विषयस्यावरणस्यानुपपत्तेः ।
एतेन ब्रह्मान्यद्ब्रह्मावरणाज्ञानावृतमिति तृतीयोऽपि निरस्तः । तस्य मिथ्यात्वेनाज्ञानसापेक्षतयाऽन्योन्याश्रयत्वात् ।अत एव जीवं प्रतिबध्नाति अविद्येति द्वितीयो निरस्तो वेदितव्यः ।
मा भूद्ब्रह्मणोऽज्ञानमावरणं, मा च भूज्जीवस्य, जडस्य तु भविष्यतीति तृतीयं निराचष्टे न चेति ।
जड इति वक्ष्यमाणमत्रापि संबध्यते । तेनाद्यस्य चशब्दस्य संबन्धः । आवरणमिति ज्ञानाभावनिवृत्त्यर्थम् । तस्य जडेऽपि संभवात् । असत्य इति हेत्वर्थगर्भं विशेषणम् । तेन च नेष्यत इति दूषणान्तरम् ।
तदयमर्थः । जडस्याप्यावरणरूपमज्ञानं न संभवति । तस्य मिथ्यात्वेनाज्ञानसापेक्षतया पूर्ववत् इतरेतराश्रयतापातात् । कारणस्य कार्याश्रितत्वादर्शनाच्च । मायावादिनाऽपि जडावरणाज्ञानानभ्युपगमाच्च । यदाह सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नातीति ।
केन हेतुना मायावादी जडेऽज्ञानं नाङ्गीकरोतीत्यत आह अप्रकाशेति ।
आवरणमि त्यत्राप्यनुवर्तते । न मन्यते मायावादीति शेषः । सति पुष्कलकारणे कार्यानुदयेन खलु प्रतिबन्धकमावरणं कल्प्यम् । जडस्याप्रकाशस्वरूपत्वादेव स्वपरग्रहणासंभवे किमावरणकल्पनयेति परो मन्यते । यथाऽऽह प्रमाणवैकल्यादेव तदग्रहणसिद्धेरि ति । प्रमाणवैकल्यात्प्रकाशस्वरूपत्वाभावादित्यर्थः ।
अथवा । अप्रकाशस्वरूपत्वादि त्यनेन जडाश्रयत्वेऽविद्यायाः प्रतीत्यभावप्रसङ्गमाह । प्रतीतिर्हि स्वप्रकाशतया वा, प्रकाशाश्रयतया वा । न तावदाद्यः अविद्यायाम्(याः)। अप्रकाशस्वरूपत्वात्तस्याः । नापि द्वितीयः । तदाश्रयस्य जडस्याप्रकाशस्वरूपत्वादिति ।
अनेन परोक्तिव्याजेन जडेऽज्ञानावरणनिराकरणे युक्त्यन्तरमुक्तं भवति । यद्यप्यत्रापि अप्रकाशस्वरूपत्वादि त्येवालम्, तेन नेष्यत इत्यनेनान्वयोपपत्तेः । तथाऽपि तेन नेष्यत इत्यनावर्त्य इयं स्वमतेनैव युक्तिरभिहिते ति प्रतीतिः स्यात्तदर्थं जडेऽज्ञानं न मन्यत इत्युक्तम् ।
किमतो यद्येवमित्यत आह अज्ञानाभावत इति ।
आवरणं हि खल्वाश्रयादिमत्तया व्याप्तमुपलब्धम् । यथा नयनपटलादि । अज्ञानावरणस्य चाश्रयादि उक्तविकल्पान्यतमत्वेन व्याप्तम् । अतिरिक्तस्य शङ्कितुमप्यशक्यत्वात् । व्यापकाभावे व्याप्याभावः सुलभ एव । तथा चोक्तविकल्पानुपपत्तावाश्रयाद्यभावे अज्ञानावरणस्यापि अभावः परमते प्रसक्तः । अज्ञानाभावे च बन्धस्य न तदुपादानत्वम् । ततश्च सर्वं शास्त्रं वेदतन्मीमांसात्मकं व्यर्थीभविष्यति ।
अर्थो विषयः प्रयोजनं च । प्रसङ्गस्यानिष्टत्वख्यापनायाभूततद्भावार्थस्य च्वेः प्रयोगः । मायावादिना हि शास्त्रस्य विषयप्रयोजनवत्तासिद्ध्यर्थमात्मनि मिथ्याभूताज्ञानोपादानको बन्धाध्यासो वर्णितः अज्ञानानुपपत्तौ च तदुपादानकस्यात्मनि बन्धाध्यासस्याप्यनुपपत्तेस्तदधीना विषयप्रयोजनवत्ता च शास्त्रस्य न स्यादि ति ।
किञ्चास्तु वा बन्धोऽज्ञानोपादानकस्तथाऽप्यज्ञानस्य सत्यत्वे बन्धस्यापि सत्यत्वात्सत्यस्य च ज्ञाननिवर्त्यत्वाभावाभ्युपगमाच्छास्त्रस्य वैयर्थ्यं तदवस्थमेव ।
नन्वत एव अज्ञानस्यापि मिथ्यात्वमुक्तं मिथ्याज्ञाननिमित्त इति । सत्यमुक्तं दुरुक्तं तत् । तथा हि । मिथ्या चेदज्ञानं तदप्यात्मन्यारोपितमिति वक्तव्यम् । मिथ्याभूतस्याशेषस्य तथात्वाभ्युपगमात् । तथा चाज्ञानारोपः स्वाभाविकः सहेतुको वा ॥ आद्येऽनिर्मोक्षप्रसङ्गः । स्वाभाविकस्य निवृत्त्यनुपपत्तेः । उपपत्तौ वाऽऽत्मरूपस्यापि तदापत्तेः ॥ द्वितीयेऽपि किमात्मस्वरूपमेव निमित्तमज्ञानारोपस्य, उताज्ञानम् । नाद्यः । निष्कलङ्कैकरसाद्वितीयस्य चैतन्यस्य तदयोगात् । योगे वाऽहङ्काररजतादिसमारोपस्यापि तथात्वोपपत्तावज्ञानकल्पनावैयर्थ्यात् । चैतन्यमात्रहेतुकस्य मोक्षेऽपि प्रसङ्गाच्च ॥ द्वितीये दूषणमाह अज्ञानस्येति ।
मिथ्यात्वं तत एवारोपितत्वं च ॥ अभ्युपगम इति वक्तव्ये कल्पन इति वचनमस्याभ्युपगमस्याप्रामाणिकत्वं सूचयितुम् । तेनाज्ञानारोपोपादानमप्यज्ञानं सत्यं चेद् बन्धस्यापि सत्यत्वापत्तिः, आरोपितत्वे पूर्ववदज्ञानान्तरारोपोपगमादनवस्थेत्यदूषणं बीजाङ्कुरानवस्थावत्कर्मानवस्थावद्वाऽस्या अप्यनवस्थायाः सिद्धविषयत्वादित्यपास्तं भवति । न ह्यहङ्काररजताद्यारोपोपादानमज्ञानमपि प्रागारोपिताज्ञानान्तरोपादानकं तदप्येवमेवेत्यत्र किमपि प्रमाणमस्ति ।
स्यादियमनवस्था यद्यज्ञानोपादानमज्ञानान्तरोपादानकमित्यभ्युपगच्छामः । न चैवम् । प्रथमाज्ञानस्यैव तदुपादानत्वादित्यत आह तथा चेति ।
अज्ञानद्वयस्यापि अन्योन्योपादनत्वं शङ्कितुर्बुद्धौ परिवर्तमानं तथा च सतीति परामृश्यते ॥ अथवा तथा शब्द उपमायाम् । चशब्दः समुच्चये । यथाऽज्ञानस्याज्ञानोपादानत्वे अनवस्थितिः, तथाऽन्योन्याश्रयता च स्यादिति योज्यम् । दूषणसमुच्चयश्चोक्तविधया व्यवस्थित इति ॥
नन्वज्ञानस्याज्ञानोपादानकत्वेऽपि नानवस्थादिदोषः, एकमेवाज्ञानं स्वोपादानमित्यभ्युपगमादित्यत आह अथवेति ।
आत्माश्रयतेति शेषः । अथवेत्युक्तपक्षान्तरद्योतको निपातः ।
ननु चाज्ञानारोपस्यानादित्वात् कथमनवस्थितिप्रसङ्ग इति चेन्न । स्वाभाविकत्वसहेतुकत्वपक्षयोरन्यतरस्यावश्याभ्युपगमनीयत्वात् ।
अपि चानादिरेकैवाविद्येत्यभ्युपगच्छताऽपि न तावत्तस्याः स्वरूपतः सत्त्वमभ्युपगतं किं नाम प्रातिभासिकम् । न च तत्प्रतिभासोऽसङ्गस्य निष्कलङ्कचैतन्यस्य विनाऽज्ञानप्रतिभासादुपपद्यते । ततो मा नाम भूदज्ञानपरम्परादिनाऽनवस्थादिदोषः । तत्प्रतिभासपरम्परादिकृतस्तु कथं परिहरणीयः । कर्मपरम्पराप्रतिबन्दी तु मोचितैवेति । न वैकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यामि ति वचनादत्र छन्दोभङ्गो न शङ्कनीयः ॥ अनवस्थे ति वक्तुं शक्ये यत् अनवस्थितिः इत्याह तद्वैदिकत्वज्ञापनार्थम् ।
स्यादेतत् । अवश्यं तावदज्ञानमनादि भावरूपं विज्ञानविलाप्यमभ्युपगन्तव्यम्, प्रत्यक्षानुमानागमार्थापत्तिसिद्धत्वात् ।
प्रत्यक्षं तावत् अहमज्ञो मामन्यं च न जानामी त्यपरोक्षावभासदर्शनात् । ननु ज्ञानाभावविषयोऽयमवभासः । न । अपरोक्षावभासत्वात् । अहं सुखी तिवत् । अभावस्य षष्ठप्रमाणगम्यत्वात् ॥ प्रत्यक्षाभाववादिनोऽपि नात्मनि ज्ञानाभावावगमः संभवति । मयि ज्ञानं नास्ती ति प्रतिपत्तावात्मनि धर्मिणि प्रतियोगिनि चार्थेऽवगते तत्र ज्ञानसद्भावाज्ज्ञानाभावप्रत्ययायोगात् । अनवगतेऽपि धर्म्यादौ सुतरामभावानवगमात् । षष्ठप्रमाणगोचरे फललिङ्गाभावानुमेयेऽपि ज्ञानाभावे आत्मादाववगतेऽनवगते आत्मनि ज्ञानाभावप्रतिपत्त्ययोगात् । इह च त्वदुक्तमर्थं सङ्ख्यां वा शास्त्रार्थं वा न जानामी ति विषयव्यावृत्तमज्ञानमनुभूय तच्छ्रवणादौ प्रवर्तते ।
भावरूपाज्ञानप्रत्यक्षवादे तु सत्यप्याश्रयप्रतियोगिज्ञाने ज्ञानाभावस्येव भावान्तरस्यापि नानुपपत्तिर्नियन्तुं शक्यते । न चाश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यं भावान्तरस्याज्ञानस्य निवर्तकम् । तस्याज्ञानविषयप्रतिभासत्वात् । न हि स्वज्ञानेन स्वयं निवर्तते ॥ नन्वज्ञानस्य व्यावर्तको विषयः कथं साक्षिचैतन्येनावभास्यते, प्रमाणायत्तत्वाद्विषयसिद्धेरिति । उच्यते । सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव । तत्र ज्ञाततया विषयः प्रमाणव्यवधानमपेक्षते । अन्यस्तु सामान्याकारेण विशेषाकारेण वाऽज्ञानव्यावर्तकतया सदा साक्षादवभास्यत इत्युपपत्तिसहितमज्ञानप्रत्यक्षं भावरूपमेवात्मन्यज्ञानं गमयतीति सिद्धम् ।
किञ्च न किञ्चिदवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम् । न च ज्ञानाभावविषयोऽयमनुभवः, अभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानुभवितुमयोग्यत्वस्योक्तत्वात् । न च नायं सुषुप्तिकालीनानुभवपरामर्शः, किन्तु तदुत्थितस्येदानीमेव सौषुप्तिकज्ञानाभावानुमानमिति वाच्यम्; तदनुमापकलिङ्गासिद्धेः । न च सामग्रयभावो लिङ्गम्, तस्याप्यसिद्धेः । न च ज्ञानाभावेन तदनुमानम्, अन्योन्याश्रयतापत्तेः । न च स्मरणाभावो ज्ञानाभावे लिङ्गं, व्यभिचारात् ।
तदेवं प्रत्यक्षसिद्धेऽज्ञानेऽनुमानमपि ।विवादगोचरापन्नं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम् अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । ततश्च ज्ञानेन समानाश्रयविषयं भावरूपमज्ञानं सिद्धम् ।
अपि च न तावदज्ञानं ज्ञानाभावः अभावमानागम्यत्वात् संप्रतिपन्नवत् । अभावो ह्यभावस्य प्रत्यक्षस्य वा विषयः परेणेष्यते । अज्ञानं च न मानगम्यं माननिवर्त्यत्वात् संप्रतिपन्नवत् ।
किञ्च विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठप्रमाप्रागभावातिरिक्तानादेर्निवर्तकं प्रमाणज्ञानत्वात् यज्ञदत्तगतप्रमाणज्ञानवत् ॥
तम आसीत्, मायां तु प्रकृतिं विद्यादि त्याद्यागमोऽत्र प्रमाणम् ।
त्वदुक्तमर्थं न जानामी ति व्यवहारान्यथाऽनुपपत्तिरपि भावरूपाज्ञानसद्भावे मानम् । न च प्रमाणतो न जानामी त्येवंपरतया व्यवहारोपपत्तिः । त्वदुक्तेऽर्थे प्रमाणज्ञानं मम नास्ती त्यस्य विशिष्टविषयज्ञानस्य प्रमाणत्वात् । तद्विशेषणतयाऽर्थस्यापि प्रमाणेनाधिगमात्स्ववचनव्याघातापत्तेः । एतदतिरिक्तप्रमाणज्ञानं मम त्वदुक्तेऽर्थे नास्ती ति च वदतो वचनव्याघातदोष एव । अस्यापि ज्ञानस्य पूर्ववदेव प्रमाणत्वात् । न च प्रमाणेन सामान्यतोऽर्थस्याधिगमेऽपि विशेषानधिगमाददोषः । विशेषस्याप्यधिगमानधिगमयोः पूर्वोक्तदोषानतिवृत्तेः ॥
ननु भावरूपमप्यज्ञानं ज्ञाननिरस्यमभ्युपगम्यते भवदि्भः, तत्कथं ज्ञायमानेऽर्थे न जानामीति व्यवहारः । मैवम् । अस्मन्मतेऽज्ञानस्य साक्षिवेद्यतया प्रमाणाबोध्यत्वात् । प्रमाणज्ञानोदयात्प्राक् चाज्ञानविशेषितोऽर्थः साक्षिसिद्धोऽज्ञात इत्यनुवादगोचरो भवति । भवति च प्रश्नार्हः ।
किञ्च विशुद्धब्रह्मात्मनि शुक्तिकायां चाहङ्काररजताद्यध्यासस्यार्थज्ञानात्मकस्य मिथ्याभूतस्य मिथ्याभूतमेव किञ्चिदुपादानमन्वेषणीयम् । सत्योपादानकत्वे कार्यस्य कारणस्वभावतयाऽध्यासस्यापि सत्यत्वप्रसङ्गात् । तस्यापि मिथ्योपादानस्य सादित्वे तथाविधोपादानान्तरकल्पनाप्रसङ्गादनाद्येव तन्मिथ्योपादानमिति कल्पनीयमिति मिथ्याध्यास एव तथाविधाज्ञानोपादानकारणमन्तरेणानुपपद्यमानस्तत्कल्पयतीति ।
किञ्च ज्ञानाद्बन्धनिवृत्तिश्रवणाद्यन्यथाऽनुपपत्तिरपि बन्धोपादानाज्ञाने प्रमाणम् । तदेवं प्रत्यक्षादिप्रमाणतः सिद्धमज्ञानं न तावदनात्मनि संभवति । प्रमाणप्रयोजनयोरभावात् । अतः परिशेषादात्मन्येवाज्ञानमङ्गीकरणीयम् । तत्कथमुच्यते अज्ञानाभावत इति ।
अत्रोच्यते ॥ यत्तावद्भावरूपाज्ञानसिद्धौ प्रत्यक्षमुपन्यस्तम् तस्य ज्ञानाभावविषयत्वे को दोषः । अभावस्य षष्ठप्रमाणविषयत्वान्नेति चेन्न प्रत्यक्षत्वस्याङ्गीकर्तुमुचितत्वात् । धर्मिप्रतियोगिज्ञानभावाभावयोरनुपपत्तिरिति चेन्न तथा सति ज्ञानाभावस्य तव सर्वथाऽप्यप्रतीतिप्रसङ्गात् । ततश्च तन्निरासप्रयासानुपपत्तिः ।
मम साक्षिणा ज्ञानाभावप्रतीतिरिति चेत् । तर्हीयमेव सा भवतु ।
सौषुप्तिकज्ञानाभावानुमानेऽपि काऽनुपपत्तिः । पक्षाप्रतीतेर्नेति चेन्न । तस्याप्यनुमानोपपत्तेः । न च ज्ञानाभावानुमाने लिङ्गाभावः । अवस्थाविशेषत्वस्यैव लिङ्गत्वसंभवात् ।
अनुमानं त्वसंबद्धमेव ॥ प्रकाशकत्वस्य ज्ञाने प्रदीपप्रभायां चैकस्याभावेन असिद्ध्यादिप्रसङ्गात् । शब्दसाम्यमात्रेणानुमाने तु गोत्वेन वागादीनामपि शृङ्गित्वादिप्रसङ्गः । तमोविरोधित्वमेकमुभयत्रास्तीति चेन्न । तमोऽप्यविद्यान्धकारो वा । नाद्यः । दृष्टान्तस्य साधनविकलत्वात् । न द्वितीयः । असिद्धेः ॥ अभावमानागम्यत्वं त्वसिद्धमेव । अज्ञानं न मानगम्यं माननिवर्त्यत्वादिति चेन्न । तथा सति तत्र प्रमाणोपन्यासवैयर्थ्यापातात् । तदभावो व्यावर्त्यत इति चेन्न । अभावव्यावर्तनं भावसाधनमित्येकार्थत्वात् ॥ तृतीयानुमानं तु घटादेरपि तत्साधनसौलभ्येन परास्तम् ।
त्वदुक्तमर्थं न जानामी ति व्यवहारस्तु ज्ञानाभावविषयोऽपि भविष्यति ॥ अध्यासकार्यानुपपत्तिस्तु नास्त्येव, ज्ञानस्यान्तःकरणोपादानतोपपत्तेः । सत्योपादानत्वे सत्यताप्रसङ्गस्त्विष्ट एव । न हि रजतवद् ज्ञानस्यापि बाधोऽस्ति । तथात्वे याथार्थ्यमपि स्यादिति चेन्न स्वरूपसतोऽपि विषयासत्त्वेन अयथार्थत्वोपपत्तेः । न हि स्वरूपसतो विषयसत्तयाऽपि भाव्यमिति नियामकमस्ति, साक्षिचैतन्ये व्यभिचारात् । अर्थस्तु रजतादिरसत्त्वात्कारणमेव नापेक्षते । ज्ञानाद्बन्धनिवृत्तिस्त्वसिद्धैवेत्युक्तम् । अतो नोक्तप्रमाणैर्भावरूपाज्ञानसिदि्धः ।
किञ्च न वयं भावरूपाज्ञानस्य परिपन्थिनः; किं नाम परपक्षे तन्न संभवतीति ब्रूमः । नन्वङ्गीकृतं चेदज्ञानं तर्हि भवतोऽप्युक्तानुपपत्त्या शास्त्रवैयर्थ्यमापन्नमित्यत आह स्वभावेति ।
स्वश्चासौ भावश्चेति स्वभावो जीवस्तदाश्रितं तदावरणं चाज्ञानमिति वादः स्वभावाज्ञानवादः । तस्य, निर्दोषत्वात् जडब्रह्माज्ञानवादोक्तदोषाभावात् न तत् शास्त्रवैयर्थ्यमस्मन्मते भवेत् ।
तथा स्वयमेव भवत्यस्तीति स्वभावो नाज्ञानकल्पित इति यावत् । तदज्ञानवादस्योक्तेतरेतराश्रयदोषविकलत्वात् न तद्भवेत् ।
तथा स्वः स्वतन्त्रो भावः परमात्मा, स्वस्य भावो धर्मः पारतन्त्र्यादिर्वा स्वभावस्तद्विषयमज्ञानं जीवस्येति वादः स्वभावाज्ञानवादः तस्य स्वप्रकाशे स्वविषयाज्ञानासंभव दोषविधुरत्वान्न तद्भवेत् ।
तथा स्वभाव भूतमेव अज्ञानं न मिथ्येति वादस्य९९ अनवस्थादिदोषरहितत्वान्न तद्भवेत् ।
तथा स्वभावेन स्वतन्त्रेण परमेश्वरेण अज्ञानं जीवस्येति वादस्य स्वप्रकाशस्वरूपाभिन्नधर्मविषयमपि अज्ञानं जीवे न युक्तमिति दोषहीनत्वान्न तद्भवेत् ।
एतदुक्तं भवति । नास्मन्मतेऽज्ञानाङ्गीकारे दोषोऽस्ति; येन शास्त्रस्य विषयप्रयोजनशून्यता स्यात् । जीवाश्रितं जीवावरणं चाज्ञानमित्यङ्गीकारात् । तस्य च स्वत एव ब्रह्मणो भिन्नत्वात्, ज्ञानस्वभावत्वाच्च । तस्य स्वप्रकाशस्यापि परमेश्वरेच्छया परमेश्वरे स्वधर्मेषु चाज्ञानं संभवत्येव ॥
यद्यपि धर्माः स्वप्रकाशचैतन्यान्न भिद्यन्ते तथाऽपि सविशेषत्वाङ्गीकारादज्ञानविषयतोपपत्तिः ॥ अज्ञानमपि सत्यमेव नाज्ञानकल्पितम् । तथाविधस्यापि निवृत्तिं वक्ष्यामः । यद्यपि जीवचैतन्यं ब्रह्म स्वधर्मप्रकाशात्मकं तथाऽपि परमेश्वराचिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयतीति ।
स्यादेतत् । अस्ति तावदविद्या । सा च दुर्घटघटनास्वभावा । यथोक्तम् दुर्घटत्वमविद्याया भूषणं न तु दूषणम् । कथञ्चिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेत् ॥ इति । तथा चानुपपत्तिः कथं तत्स्वरूपापलापाय प्रभवतीति ॥ अत्र वक्तव्यम् । किमविद्या दुर्घटसुघटघटनास्वभावा वा, उत दुर्घटैकस्वभावा वा । नाद्यः सुघटांशेऽविद्यात्वाभावप्रसङ्गात् । द्वितीये दोषमाह अविद्येति ।
अविद्याया दुर्घटत्वं चेत् स्वभाव इति शेषः । हिशब्दस्तस्मादित्यर्थे । तादृशः अविद्यासदृशः । मिथ्येति यावत् ।
अयमर्थः । यद्यविद्या दुर्घटैकस्वभावा स्यात्तदा साधिष्ठाना ससाक्षिका च न स्यात् । तथात्वे सुघटत्वप्रसङ्गेनाविद्यात्वाभावप्रसङ्गात् । ततश्चात्माभावेन शून्यवादापत्तिरिति ।
नन्वीश्वरशक्तिरपि कथम् । यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः । न चैवं त्वया वक्तुं शक्यत इत्युक्तम् । सर्वस्यापि सुघटस्यापह्नवोऽनेनातिप्रसङ्गेनोपलक्षितो बोद्धव्यः ।
निर्विशेष इत्यादिनोक्तमुपसंहरति अत इति ।
परमतेऽविद्यानुपपत्तेरित्यर्थः । योगो विषयप्रयोजनयोः परस्परं शास्त्रेण च संबन्धः । आदिग्रहणेन स्वपक्षसाधकं प्रमाणं गृह्यते । अनन्तदोषा उक्ता वक्ष्यमाणाश्च । सति खल्वज्ञाने अज्ञो विप्रतिपन्नः सन्दिग्धो वा शास्त्रेऽधिकारी स्यात् । अज्ञातश्च विषयो भवेत् । अज्ञाननिवृत्तिश्च फलम् । न च विषयाद्यभावे संबन्धः संभवी । अधिकार्यादिवर्जितत्वादनादरणीयं दुष्टत्वाद्धेयं च ।
अज्ञानमि त्युपक्रम्य माये त्युपसंहारोऽज्ञानस्यैवावस्थाभेदेन संज्ञाद्वयं न तु वस्तुभेद इति परमताविष्करणार्थः ॥ उपपादितं चैतत्परेणैवेति ।
जीवब्रह्मणोरेकत्वं शारीरकमीमांसाविषयो न भवतीत्यतस्तदुपपत्त्यर्थं बन्धमिथ्यात्ववर्णनमसङ्गतमित्युक्तम् । तत् सत्यत्वात्तेने त्यादिना प्रपञ्चयति ।
तथा हि । जीवब्रह्मणोरेकत्वं शारीरकमीमांसाशास्त्रविषयं प्रतिपद्यमानेन वेदस्यापि तद्विषयत्वं प्रतिपत्तव्यम् । तदितिकर्तव्यतारूपत्वान्मीमांसाशास्त्रस्य । करणेतिकर्तव्यतयोरेकविषयतानियमात् । न च वेदो जीवब्रह्मणोरेकत्वं वक्ति । सर्वस्यापि मन्त्रब्राह्मणोपनिषद्रूपस्य वेदस्य भेदावलम्बनत्वावभासनात् ।
ननु कथं वेदो न जीवब्रह्मणोरेकत्वपरः । मन्त्रब्राह्मणयोरतत्त्वावेदकयोः अविद्वद्विषययोः द्वैतालम्बनत्वेऽप्युपनिषदामद्वैतनिष्ठत्वात् । तत्र हि तत्त्वमसी त्यादिवाक्यं साक्षाज्जीवस्य ब्रह्मतां प्रतिपादयति । सदेव सोम्ये त्यादीनि वाक्यानि तत्पदार्थस्वरूपनिरूपणपराणि तत्रैव समन्वितानि । अथ यो वेदेदं जिघ्राणी त्यादीनि त्वंपदार्थपराण्यपि तत्रैव समन्वयं प्रतिपद्यन्ते । सृष्ट्यादिकथनं च ब्रह्मणो निष्प्रपञ्चताप्रतिपादनायानुवादतयोपयुज्यते । प्राणाद्युपासनानि चान्तःकरणस्य पराग्वृत्तिनिरोधद्वारेण औतप्रतिपत्तावेवोपयुक्तानि ॥ तदेवं वेदान्तानां जीवब्रह्मणोरेकत्वं विषय इति तदुपकरणभूता मीमांसाऽपि तद्विषयैवेति युक्तम् ॥ अत्रोच्यते ॥
आस्तां तावदियं समन्वयप्रक्रिया । तत्त्वमसी त्यादिवेद एव तावदेकताविषयो न भवति । तथा हि । तत्त्वमसी त्यत्र त्वंपदार्थस्य जीवस्य तत्पदार्थब्रह्मता मुख्यया वृत्त्या वा प्रतिपादनीया विरोधिभागत्यागेन स्वरूपमात्रलक्षणया वा । नोभयथाऽपि संभवतीत्याह सत्यत्वादिति ।
वेदः तत्त्वमसीत्यादिः । कथञ्चन उक्तप्रकारद्वयेनापि । जीवस्य त्वंपदार्थस्य तत्पदार्थ ब्रह्मतां न वदेद् हि यस्मात् तस्मान्मीमांसाऽपि तद्विषया न भवती ति शेषः । कुतः । प्रत्यक्षेण विरोधतः । कथम् । तेन प्रत्यक्षेण दुःखादेः सत्यत्वात् सत्यत्वावधारणात् ।
अथवा पृथक् साध्यद्वये हेतुद्वयम् । इदमुक्तं भवति । न तावत् तत्त्वमसी त्यादिवाक्यं त्वंपदमुख्यार्थस्य तत्पदमुख्यार्थैक्यप्रतिपादकमिति युक्तम्; प्रत्यक्षविरोधात् । दुःखादिविशिष्टो हि त्वंपदमुख्यार्थः । तस्य निर्दुःखत्वाद्युपेततत्पदमुख्यार्थैक्यप्रतिपादने कथं न प्रत्यक्षविरोधः ॥ स्ववचनविरोधस्य चोपलक्षणं चैतत् ।
नापि जहदजहल्लक्षणया । विरोध्याकारपरित्यागो हि विवक्षाभावमात्रेणोत तस्यानित्यत्वेन अथवा मिथ्यात्वेन ॥ नाद्यः तन्मात्रेण विरोधानिवृत्तेः । न हि पृथिवीत्वाद्यविवक्षामात्रेण क्षितिजलादेरभेदो वक्तुं शक्यते । विरोध्याकारस्याविवक्षायामप्यनपायात् ॥ न द्वितीयः असी ति वर्तमाननिर्देशायोगात् । तथा सति तत्त्वं भविष्यसी ति स्यात् ॥
न तृतीयः प्रत्यक्षेण दुःखादेर्विरोध्याकारस्य सत्यत्वावगमादिति ।
ननु कथमेतत्प्रत्यक्षविरोधेन श्रुतेः प्रतीतार्थात्प्रच्यावनम्, क्वाप्येवमदर्शनात्; प्रत्युत परत्वान्निर्दोषत्वाच्च बलवत्या श्रुत्या विरुद्धं पूर्वं दोषशङ्काकलङ्कितमहं दुःखीत्यादिप्रत्यक्षमेवाप्रमाणं भवितुं युक्तमित्यत आह यजमानेति ।
श्रुतेः यजमानः प्रस्तर इत्यस्याः । तथा, ब्रह्मत्वमपि जीवस्य तत्त्वमस्या दिश्रुतेरर्थो न भवेदित्यर्थः ।
अत्रेमौ प्रयोगौ । जीवब्रह्मणोरेकत्वं न मीमांसाशास्त्रस्य विषयस्तदुपकर्तव्यवेदाविषयत्वात्, यद्यदुपकर्तव्यप्रमाणस्याविषयः न तत्तदितिकर्तव्यताविषयः, यथा संप्रतिपन्नम् । तथा तत्त्वमस्यादिवाक्यं न प्रतीतार्थं प्रत्यक्षविरुद्धत्वात्, यजमानः प्रस्तर इति वाक्यवदिति । अनेनैव परत्वनिर्दोषत्वयोः यजमानः प्रस्तर इति वाक्ये व्यभिचारश्च सूचितो भवति ।
नन्वत्र निर्दोषत्वमेव नास्ति अगृहीतवृत्तित्वस्यैव दोषस्य विद्यमानत्वात्; अमुख्यवृत्त्या हीदं प्रवृत्तमिति चेत् । तर्हि तत्त्वमस्या दिवाक्यमप्येवमित्यसिदि्धः । कुतोऽत्रामुख्यवृत्तिरिति चेत् समं यजमाना दिवाक्ये । प्रत्यक्षविरोधादिति वदतस्समस्समाधिः ।
स्यादेतत् । न यजमानः प्रस्तर इत्यादिवाक्यस्य प्रत्यक्षविरोधमात्रेण प्रतीतार्थपरित्यागः । तथात्वे परमेश्वरावतारनिर्दोषतावाक्यस्यापि प्रत्यक्षविरोधेनार्थपरित्यागप्रसङ्गात् । किं नामोपजीव्यप्रत्यक्षविरोधात् ॥ उपजीव्योपजीवकयोरुपजीव्यं बलवदिति हि न्यायः ।
ननु यजमानस्वरूपं न प्रत्यक्षविषयः, शास्त्रीयत्वात्तद्भावस्य; तत्कथमुपजीव्यप्रत्यक्षविरुद्धा श्रुतिरिति चेत्; तर्हि प्रत्यक्षविरोधोऽपि कथम् । प्रत्यक्षाकारस्य प्रस्तराभेदप्रतिपादने निदर्शितेयमिति चेत्समं ममापीत्यत आह प्रत्यक्षस्येति ।
सत्यं, यजमानः प्रस्तर इति श्रुतिरुपजीव्यप्रत्यक्षविरोधात्प्रतीतार्थे न प्रमाणमिति । तथाऽपि नोक्तदोषः । औतश्रुतिबाधकतयाऽस्माभिरुपन्यस्तस्यापि प्रत्यक्षस्य यजमानग्राहिप्रत्यक्षादविशेषात्; अस्याप्युपजीव्यत्वात् । प्रत्यक्षावगतं हि जीवं त्वमि त्यनूद्य तस्य तदसी ति ब्रह्मता विधातव्या । तदनेनोपजीव्यप्रत्यक्षविरोध एवास्माभिर्हेतूकृत इति सूचितं भवति ।
एवं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपादयन्तीनां तत्त्वमसी त्यादिश्रुतीनामुपजीव्यप्रत्यक्षविरोधादतत्परत्वमुक्तम् । अधुना याः ब्रह्मानुवादेन तस्य जीवैक्यं विदधति तासां तद्योऽहं सोऽसौ योऽसौ सोऽहमि त्यादीनामुपजीव्यश्रुतिविरोधादतत्परत्वमाह सार्वज्ञ्यादीति ।
ताम् इति श्रवणात् या इत्यध्याहार्यम् । सार्वज्ञ्यादिगुणं तत एव जीवादि्भन्नमिति विरोधस्फुरणार्थम् । एवशब्देनेशस्य प्रमाणान्तरागोचरत्वमाह । हिशब्दो यस्मादित्यर्थे । अस्याः तद्योऽहमि त्याद्यायाः श्रुतेः । तत् तस्मात्, तस्मिन्नर्थ इति वा ।
तदयमर्थः । ईश्वरमनूद्य तस्य जीवाभेदं प्रतिपादयन्त्या श्रुत्या सर्वथा तावदीश्वरसिदि्धरपेक्षिता; अप्रतीतस्यानुवादायोगात् । न चेश्वरसिदि्धः श्रुतिं विना संभवति । ततो यः सर्वज्ञ इत्यादिश्रुतिरेवास्या उपजीव्येति वाच्यम् । सा चासर्वज्ञाज्जीवादीश्वरस्य भेदमेव प्रतिपादयतीति तद्विरुद्धा तद्योऽहमि त्याद्या श्रुतिर्नाद्वैतवादिनीति ।
एतेन जीवब्रह्मस्वरूपानुवादेन तदैक्यमात्रपराणां परेऽव्यये सर्व एकभवन्ती त्यादिवाक्यानामुपजीव्यप्रत्यक्षागमविरोधोऽप्युक्तो वेदितव्यः ।
ननु सर्पोऽयमि त्युपजीव्यप्रत्यक्षविरुद्धमपि नायं सर्पः, किन्तु रज्जुरेवे त्युपजीवकमाप्तवचनं प्रमाणं दृश्यत इति चेत् । तत्किमुपजीव्योपजीवकन्यायो व्यभिचरितत्वादकिञ्चित्कर इति वक्तुमुद्यमः, आहोस्वित्सापवाद इति ॥ नाद्यः दहनानुष्णताऽनुमानस्य यजमानः प्रस्तर इति वाक्यस्य चाप्रामाण्ये कारणान्तरस्य वक्तव्यतापातात् । द्वितीयेऽपवादो वक्तव्यः । तत्त्वविषयेणोपजीवकेनाप्युपजीव्यं बाध्यत इति चेत् । तत्त्वविषयता किमेवमेव निश्चिता उत न्यायान्तरेण ॥ नाद्यः विनिगमने कारणाभावेनानिर्णयात् । द्वितीये तदेव वाच्यम्; किमनेन । निरसिष्यते चैतदिति ।
किञ्च सर्वा अप्यद्वैतश्रुतयो द्वा सुपर्णे त्यादिभेदश्रुतिविरुद्धत्वान्न प्रतीतार्थे प्रामाण्यं भजन्ते । नन्वधिकबलविरोधेन हीनबलमप्रमाणं भवति । भेदश्रुतीनां च कथमद्वैतश्रुतिभ्योऽधिकबलत्वं येन तद्बाधकतोच्यत इत्यत आह स्वातन्त्र्ये चेति ।
स्वातन्त्र्य इत्यादिका निमित्तसप्तमी । स्थानमत्यैक्ययोरिति द्वन्द्वात्परमैक्यपदं प्रत्येकमभिसंबध्यते । सम्यगिति स्वातन्त्र्यादिनिमित्तमैक्यव्यवहारसद्भावमभिप्रैति । तेन स्वतन्त्रामुख्यप्रयोगे प्रयोजनं वाच्यम् । न ह्यस्मदायत्ते शब्दप्रयोगेऽकस्मादमुख्यं प्रयुञ्ज्महे इति निरस्तम् । व्यवहारास्तु टीकाकृतोक्ता द्रष्टव्याः ।
काऽद्वैतश्रुतिः स्वातन्त्र्यादिषु किन्निमित्तमुपादाय प्रवृत्तेत्यपेक्षायामुक्तम् यथेष्टत इति । यथासंभवमित्यर्थः । एतच्च स्पष्टीकरिष्यत्याचार्यः । वृत्तिचिन्तां च तत्रैव करिष्यामः ।
एतदुक्तं भवति । सावकाशनिरवकाशयोर्निरवकाशं बलवत् । सावकाशा चाद्वैतश्रुतिः, विनाऽपि साक्षादद्वैतं स्वातन्त्र्यादिना निमित्तेनामुख्यार्थतयाऽपि घटमानत्वात् । भेदश्रुतिस्तु निरवकाशा; जीवेशभेदमन्तरेणार्थान्तराप्रतीतेः । अतो निरवकाशतया बलवत्या भेदश्रुत्या सावकाशतया दुर्बलाया औतश्रुतेर्बाधो युक्त इति ।
ननु भेदश्रुतिरपि सावकाशा मिथ्याभेदपरत्वादिति चेत् । कोऽयं मिथ्याभेदो नाम । किमसन् उतानिर्वचनीयः । नाद्यः अनङ्गीकारात् । द्वितीये दोषमाह अज्ञानेति ।
अज्ञानातिरिक्तमनिर्वचनीयमज्ञानकार्यमिति हि परसम्मतम् । न चाज्ञानं तन्मते संभवतीत्युक्तम् । ततो मिथ्याभेदासंभवान्न तदर्थत्वं भेदश्रुतेरिति ।
ननु भेदश्रुतिरनुवादिनी त्युक्तम् । यथा नानुवादिनी तथा वक्ष्यते ॥ किञ्च प्रमितस्यानुवादो भ्रान्तिसिद्धस्य वा ॥ नाद्यः अनभ्युपगमात् । अभ्युपगमे वा तत्प्रमाणप्रतिरोधोऽद्वैतश्रुतेः ॥ न द्वितीयः । अज्ञानासंभवेन निरस्तत्वात् ॥ एतेन अपूर्वताविरहाद् दुर्बला भेदश्रुतिरि ति निरस्तम् ।
परकृतापव्याख्याप्रत्याख्यानमुपसंहरन् परदोषं पश्यसि त्वमात्मदोषं न पश्यसी त्याभाणकविषयता भवतामापन्ना; यतः सूत्रव्याख्यानमुपक्रम्य परापव्याख्याननिराकरणेऽप्यसङ्गतिर्नालोचितेत्याशङ्कां परिहर्तुं सूत्रार्थमनुवदति अत इति ।
अस्मदुक्तः सूत्रार्थो न तावच्छिष्याणां चेतसि स्थिरो भवति यावत्परकृतापव्याख्यामापातरमणीयां पश्यन्ति । अतस्तदपाकरणमपि सूत्रार्थस्थिरीकरणार्थतया सङ्गततरमिति भावः ।
अथवा अज्ञानां ज्ञानदो विष्णुरि त्यादिबन्धमिथ्यात्वनिराकरणं तत्सत्यत्वसमर्थनं च सूत्रगतातःशब्दस्यैव वर्णकान्तरमित्यतो नासङ्गतमिति दर्शयन् सूत्रेऽप्यस्यार्थस्योपयोगं दर्शयति अतो यथेति ।
अत्रेयमाशङ्का । अतो ब्रह्मजिज्ञासे ति खलु सूत्रखण्डेन मोक्षस्य भगवत्प्रसादैकसाध्यत्वान्मुमुक्षुणा तदर्था ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । एतदयुक्तम् । मोक्षो बन्धनिवृत्तिमात्रम्, न पुनरभ्युदयावाप्तिः, स्वर्गादिवदनित्यतापातात् । बन्धश्च मिथ्याभूत एव; तरति शोकमात्मविदि ति ज्ञाननिवर्त्यत्वश्रवणस्याप्यन्यथाऽनुपपत्तेः । न खलु सत्यं ज्ञानेन निवर्तते; सत्यृङ्खलाबन्धस्य तथात्वादर्शनात् । न च मिथ्याभूतस्य निवृत्तौ कस्यचित्प्रसादोऽपेक्षणीयः, रजतादिनिवृत्तौ तथाऽनुपलम्भात्; किं नाम यदज्ञानकल्पितोऽयं बन्धस्तज्ज्ञानमेव । ततो न भगवत्प्रसादार्था जिज्ञासा मुमुक्षुणा कर्तव्येति ॥ सेयमाशङ्का अतःशब्देन अपेक्षितार्थसाधकहेतुसूचकेन निराकृतेति ॥
तदर्थं विष्णुप्रसादार्थम् । अत्र सूत्रे ।
ननूक्तमत्र सत्यश्चेद्बन्धो न निवृत्तिमर्हतीति तत्राह यथेति ।
दृष्ट्या प्रेमातिशययुक्तया । सन् उत्तमः कृपालुत्वादिगुणवान् । स तथाविधगुणः ।
ननु विषमोऽयमुपन्यासः सादिरयं निगडादिबन्धो राज्ञा निवर्त्यताम् । अनादिरयं कथं निवर्त्यत इति । तत्रोक्तं भगवानिति । अघटितघटकानन्तैश्वर्यादिगुणवानित्यर्थ इति ।
एवं मीमांसाप्रयोजनसमर्थनार्थत्वेन अतः शब्दं द्वेधा व्याख्याय विषयसमर्थनपरतयाऽपि व्याख्याति कार्यता चेत्यादिना ।
अत्र जैमिनीया मन्यन्ते । विध्यर्थवादमन्त्रात्मकः समस्तोऽप्याम्नायः कार्यनिष्ठ एव न वस्तुतत्त्वनिष्ठः । स च अथातो धर्मजिज्ञासे त्यादिना मीमांसितः । तत्कथं ब्रह्ममीमांसारम्भसंभवः ।
कार्यनिष्ठतैव कथमिति चेत् । इत्थम् । अनेकपदात्मकवाक्यश्रवणादनेकार्थप्रतीतावपि वाक्यस्य तावदेकत्र तात्पर्यं कल्प्यम् । अन्यथैकवाक्यताऽसंभवात् । यत्परः शब्दः स शब्दार्थ इति च शाब्दाः । वाक्यतात्पर्यविषयश्च स एव; यत्प्रतिपादनेन वाक्यपर्यवसानं, यत्प्रतिपादनाय च पदार्थान्तरोपादानम् । तथाभूतश्च कार्यात्मैव । न हि गौरश्वः पुरुषो हस्ती ति वा देवदत्तः पचती ति वा पर्यवसितमनुभूयते; किन्तु देवदत्त गामानये त्यादिकार्यनिष्ठमेव । अतः कार्यमेव सर्वत्र वाक्यार्थः ॥ तत्र लिङादिप्रत्ययः साक्षात्कार्यताऽभिधायी; पदान्तराणि तु तत्प्रतीतये तदन्वितस्वार्थानभिदधति तत्पराण्येव । एवं कार्यान्तरविधुराणि वाक्यान्तराण्यपि तदेकवाक्यतामापद्यन्ते । अनेनैव न्यायेनाम्नायोऽप्यशेषः कार्यताबोधे पर्यवसितः ।
किञ्च प्रत्याय्यप्रत्यायकभावसंबन्धग्रहणलक्षणव्युत्पत्त्यपेक्षो हि शब्दोऽर्थमवबोधयतीत्यविवादम् । अन्वयव्यतिरेकाभ्यां तथाऽवगमात् । व्युत्पत्तिश्च वृद्धव्यवहारदर्शनादेव । वृद्धव्यवहारश्च कार्यप्रतिपत्तिनिबन्धन इति कार्यप्रतिपादकतैव युक्ता ।
तथा हि । जलं चैत्र आहरस्वे ति प्रयोजकवृद्धवाक्यश्रवणात्प्रयोज्यवृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा व्युत्पत्स्यमानोऽन्यो बाल एवमाकलयति, स्वाधीनाऽस्य प्रवृत्तिः सा मद्वद्बुदि्धपूर्विके ति ॥ पुनस्तस्यायं विमर्शो जायते, या चास्य प्रवृत्तिहेतुभूता बुदि्धः सा यद्विषया सती मम प्रवृत्तिहेतुस्तद्विषयैवे ति । तदेवमनुमानद्वयमेतत् । वृद्धस्य स्वतन्त्रा प्रवृत्तिर्धर्मिणी । बुदि्धपूर्विकेति साध्यो धर्मः । स्वतन्त्रप्रवृत्तित्वात्, मदीयस्वतन्त्रप्रवृत्तिवत् ॥ तथा वृद्धस्य प्रवृत्तिहेतुभूता बुदि्धर्धर्मिणी । यद्विषयैव बुदि्धर्मम प्रवृत्तिहेतुभूता तद्विषयैवेति साध्यो धर्मः । प्रवृत्तिहेतुभूतबुदि्धत्वात्, मदीयप्रवृत्तिहेतुभूतबुदि्धवदिति ।
पुनश्च तस्यायं विमर्शः प्रवर्तते । यद्विषया सा बुदि्धः प्रवृत्तिहेतुभूता तद्वस्त्वनेन शब्देन बोध्यते, तद्भावे भावात्; मम तु मानान्तरेण तद्बोध; इत्यावयोर्विशेषः । तेन यद् बुद्ध्वा प्रवृत्तिर्मम तदनेन शब्देन बोध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थबोधकतामवधारयति ॥ पुनश्च कोऽसौ प्रवृत्तिहेतुभूतोऽर्थः शब्दाभिधेय इति निर्धारयितुं स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतार्थमनुसन्धत्ते । तत्र न तावदहं क्रियामात्रं फलमात्रं वा क्रियाफलसंबन्धमात्रं वा बुद्ध्वा प्रवृत्तः; किन्तु कार्यतामेव । ममेदं कार्यमि ति प्रतीत्य हि सर्वत्र प्रवृत्तोऽस्मि ।
आस्तां तावदन्या क्रिया अन्ततः स्तनपानादिकमपि यावन्मया कार्यतया नावधारितं न तावत्तत्राहं प्रवृत्त इति स्वप्रवृत्तेः कार्यताबोधपूर्वकत्वं निश्चित्य प्रवर्तमानं चैत्रं दृष्ट्वा अनुमिनोति चैत्रोऽपि कार्यबोधात्प्रवर्तत इति ॥ चैत्रस्य प्रवृत्तिर्धर्मिणी, कार्यबोधपूर्विकेति साध्यो धर्मः, बुदि्धपूर्वप्रवृत्तित्वात्, मदीयप्रवृत्तिवदिति ॥ लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायकाः कार्यमेवाभिदधतीति वाक्यस्य तावत्सामान्यतः कार्यपरतामवधार्य लिङाद्यावापे कार्यतावगतिदर्शनात् तदुद्धारे चादर्शनात्त एव कार्यतावगतिं कुर्वन्ति । पदान्तराणि च तदन्वितांस्तांस्तानर्थान् । इत्यावापोद्धाराभ्यामवगच्छति ।
एतेन शब्दस्तद्व्यापारो वा प्रवर्तक इति निरस्तम् । बालेन स्वप्रवृत्तौ तयोः कारणतया अनवधृतत्वात् । तथाविधस्यैव परप्रवृत्ताववधारणात् ॥ किञ्च शब्दस्यैव प्रवर्तकत्वे सर्वेऽपि तच्छ्राविणः प्रवर्तेरन् ॥ याऽपीयं शङ्खादिशब्दश्रवणानन्तरं प्रवृत्तिः साऽपि पुरुषाभिप्रायानुमानादेव; न साक्षात् ।
रागद्वेषयोर्यद्यपि प्रवर्तकत्वमस्ति, यथाऽऽह प्रवर्तनालक्षणा दोषा इति; तथाऽपि सत्तयैव न तु ज्ञाततया । ज्ञानं त्वबुभुत्सितग्राह्यतयाऽवर्जनीयसन्निधिः । अतो न वाक्ये बोध्यतया तौ कल्प्येते । किन्तु कार्यमेवेति तदेव वेदार्थः ।
अपि च यद्यपि बोधकत्वेनैव प्रामाण्यम् । तथाऽपि वाक्यप्रयोगस्य परार्थत्वात् परप्रवृत्तिनिवृत्त्यौपयिक एवार्थो वाक्यबोध्यो अङ्गीकार्यः । कार्यमेव तथाविधमित्युक्तमिति तत्रैव सर्ववेदपर्यवसानादनुग्राह्यप्रमाणाभावान्न ब्रह्ममीमांसारंभः संभवतीति ।
अत्रोच्यते । स्यादेतदेवम् । यदि वेदो ब्रह्मनिष्ठो न भवेत् । न त्वेवम् । तन्निष्ठत्वे प्रमाणस्योदितत्वाद् बाधकाभावाच्च ॥ ननूक्तमत्र कार्यताबोध एव वाक्यस्य पर्यवसानं न सिद्धार्थबोध इत्यतः कार्यमेव वाक्यार्थो न सिद्धस्वरूपं ब्रह्मेति । सत्यमुक्तम् । सा चेद्वाक्यार्थपर्यवसानोपयोगिनी कार्यता सिद्धविशेषस्य स्यात्तदा तस्यापि वाक्यार्थत्वे कीदृशो दोषः स्यादित्याशयवान् कार्यतां तावन्निर्धारयति कार्यता चेति ।
च शब्दो व्याख्यानान्तरसमुच्चयार्थः । गवानयनादौ या कार्यता वाक्यपर्यवसानहेतुः सा तावत् इष्टसाधनतातिरिक्ता नास्तीति प्रतिज्ञा ।
कुत इत्यतोऽन्यस्या अनुपपत्तेरित्यभिप्रेत्य प्रसक्तान्पक्षान्निराचष्टे कार्यमिति ।
कार्य मिति हि कृत्यप्रत्ययान्तः शब्दः । कृत्याश्च कर्मणि स्मर्यन्ते । तयोरेव कृत्यक्तखलर्था इति । कर्म च तदुच्यते यत्कर्तुः क्रिययाऽऽप्तुमिष्टतमम् । तथा च क्रियया विशेषेणाप्यं कार्यं, तद्भावः कार्यतेति प्राप्नोति । न च तत्संभवति; निषिद्धस्यापि ब्राह्मणहननादेः क्रिययाऽऽप्तुमिष्टतमत्वसाम्यात् । तदपि कार्यमस्त्विति चेन्न; तत्रापि कार्यताबुदि्धप्रसङ्गात् । अस्त्येव निषिद्धताबोधात्प्रागिति चेत्, परतोऽपि किं न स्यात् । न हि निषिद्धताबोधे ब्राह्मणहननादेः क्रियया व्याप्यताऽपगता । तन्मात्रं च कार्यतेति कथं निषेधज्ञानादपि परतो न स्यात्कार्यताबोधः । सति च तस्मिन्प्रवर्तेत; तस्यैव प्रवर्तकत्वाभ्युपगमात् ।
देवदत्त कृतः किं त्वया कटः, क्रियते वे ति पृष्टः प्रत्याह न मया कृतो, नापि क्रियते, किन्तु कार्य इति । तेन प्राप्नोति भविष्यत्क्रिया कार्यं, भविष्यत्त्वावच्छिन्नं क्रियात्वं, क्रियागतं भविष्यत्त्वं वा कार्यतेति । तदपि नोपपद्यते । कुत इत्यत आह स्रक्ष्यतीति ।
हिशब्दो हेतौ । तथा सतीति शेषः । भविष्यत्क्रिया कार्यमित्यङ्गीकारे हि यस्मात् ईशो विश्वं स्रक्ष्यति , देवदत्तो गामानेष्यती ति वाक्यात्प्रतिपन्नं भविष्यत्सर्जनादिकम् अपि कार्यं प्रसज्येत तस्मान्नेति । न च तदपि कार्यं लिङादिवाच्यताऽङ्गीकारात् ।
किञ्च परसंबन्धिन्यां वाक्यादितोऽवगतायां भविष्यत्क्रियायां परस्य ममेदं कार्य मिति प्रत्ययोऽपि किं न स्यात् । न हि परं प्रति सा न क्रिया नापि न भविष्यन्तीति । तन्मात्रशरीरा च कार्यता, प्रवृत्तिरपि तत्र परस्य प्रसज्येत ।
नैव चेति ।
कृत्याश्चे त्यावश्यकार्थे कृत्याः स्मर्यन्ते । आवश्यकत्वं चाकर्तुमशक्यत्वम् । तथा चाकर्तुमशक्यं कार्यं तद्भावश्च कार्यतेति प्रसक्तम् । तच्च प्रामाणिकैः नैवेष्यते । कुतः । निषिद्धस्य परनारीगमनादेरपि अकर्तुमशक्यत्व साम्यादेव । भवति हि कस्यचिदतिकामाद्याक्रान्तचेतसो न पराङ्गनागमनेन ब्राह्मणस्य वा हननेन विना स्थातुं शक्नोमी ति बुदि्धः । न च तत्कार्यमेव; तस्यैव श्रुतशास्त्रस्यापि कार्यताबुदि्धप्रसङ्गात् । आस्तिककामुको ह्यकार्यमेवेदमकृत्वा स्थातुं नोत्सह इति मन्यते ।
यत एवं न पक्षान्तरसंभवः । तस्मात् इष्टत्वमिष्टसाधनत्वं वा कार्यता इत्युपसंहरति तदिति ।
अत्रेष्टग्रहणादुपक्रमेऽपि तद् ग्राह्यम् ।
ननु कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयत इति परोदीरितं कार्यलक्षणं कुतो न शङ्कितमिति चेन्न । अनेनैव गतार्थत्वात् । तथा हि । किमिदं प्रत्येकं लक्षणमुत मिलितम् ॥ आद्ये कृतिसाध्यत्वस्योक्तो दोषः, कार्यं न हि क्रियाव्याप्यमिति । कृतिप्राधान्यं च किमुच्यते । प्रयत्नोद्देश्यत्वमिति चेत् । तत्किं मुख्यमुतामुख्यम् । आद्यं त्विष्टत्वमेव । द्वितीयं त्विष्टसाधनत्वमेवेत्यङ्गीकृतमेव ॥ न द्वितीयः कृतिसाध्यताविशेषणस्य व्यर्थत्वात् ।
एतेनैतदपि निरस्तम् । यदुक्तं फलसाधनता नाम या सा नैव हि कार्यता । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः । कारणत्वं फलोत्पादे ते भिद्येते परस्परमि ति ॥
ननु सत्यपि चन्द्रमण्डलादाविष्टसाधनत्वे न कार्यताबुदि्धरिति चेत् । केयं कार्यताबुदि्धः । इष्टसाधनताबुदि्धस्तदतिरिक्ता वा । आद्ये कथं सा नास्ति । द्वितीयो न, अनिरूपणात् ।
ननु कार्यज्ञानं प्रवर्तकं नेष्टसाधनज्ञानमिति चेन्न असिद्धेः । अतीतादौ प्रवृत्तिप्रसङ्ग इति चेन्न तस्येदानीमिष्टसाधनत्वाभावात् । अन्यथाऽतीतकार्येऽप्ययं प्रसङ्गस्तुल्यः ।
किञ्च कृतिसाध्यत्वं कृत्युद्देश्यत्वमिष्टसाधनत्वं चेत्येकार्थसमवायिनस्त्रयो धर्माः । तत्र कृतिसाध्यतावच्छिन्नं कृत्युद्देश्यत्वं कार्यत्वम्; तदवगमस्त्विष्टसाधनतावगमनिबन्धन इति परस्य मतम् । यथाऽऽह किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यते ति । तथा चेष्टसाधनताज्ञानात्प्रवृत्ताविव कार्यताऽवगमेऽपि कथं नातीतादावतिप्रसङ्गः ।
न तत्रेष्टसाधनतामात्रं गमकं किन्तु कृतिसाध्यतावच्छिन्नम्; गम्यं तु कृत्युद्देश्यत्वमात्रमिति चेत् । तथाऽपि भूताद्यतिप्रसङ्गानिवारणात् । न हि भूतादिकं न कृतिसाध्यम् । तथा सति कथं तत्ततो जातम् । तथाऽपि नेदानीं कृतिसाध्यमिति चेत् । इष्टसाधनत्वमपि तथेति व्यर्थं विशेषणम् ॥ गम्यगमकयोः कथं न भेद इति चेन्न । तद्भावस्यैवानभ्युपगमात् ॥
ननु तथा सति लोकविरोधः स्यात् । तथा हि । लौकिका हीदं मे कार्यमि त्युक्त्वा कुत इति पृष्टा इष्टसाधनत्वादि ति हेतुमाचक्षत इति चेन्न । द्विविधं खलु कार्यमिष्टमिष्टसाधनं च । तत्रेष्टसाधनत्वादिति विवक्षितकार्यव्याख्यानं लौकिकानाम् ।
किञ्च प्रथममिष्टसाधनताज्ञानं ततश्चेच्छा ततः प्रयत्नस्ततः परिस्पन्द इत्यात्मन्येवैकार्थविषया धर्मा जायन्ते । न त्वर्थे कश्चिदतिशयोऽनुभूयते योऽभिमतसाधनतयाऽनुमीयत इति ।
अस्तु वा वाक्यपर्यवसानस्य कारणं कार्यमिष्टमिष्टसाधनं वा; ततः किमित्यत आह साधनमिति ।
मीमांसाविषयस्य ब्रह्मणो वक्तव्यत्वे किमुच्यते भगवानि ति । तत्रोक्तम् इष्टदेवतेति । मीमांसाविषयत्वेन इष्टदेवता ब्रह्मैव भगवानित्यर्थः ।
इष्टसाधनमपीष्टं भवति अतो मुख्येत्युक्तम् । निरुपाधिकमित्यर्थः ॥ नन्विष्टस्य सुखादेः साधनं भवतु भगवान्निरुपाधिकेष्टस्तु कथमित्यत आह सुमनसामिति । पुरुषार्थान्तराभिलाषाऽकलुषितमनसामित्यर्थः । यथाप्रकृतमिष्टसाधनमिष्टं चानूद्य भगवानि ति विधानान्न लिङ्गव्यत्यासदोषः । यथा यदिदं दृष्टं स स्थाणुरि ति ॥ एवं यदिष्टमिष्टसाधनं वा वाक्यपर्यवसानकारणं स भगवानिति ।
मुख्येष्टत्वं भगवतोऽस्तीत्यत्र संभावनैवोक्ता, कुतः प्रमाणात्तन्निश्चय इत्यत आह प्रेय इति ।
न केवलं संभावना; श्रुतिश्चात्रास्तीति चशब्दः । प्रेयोऽतिशयेन प्रियम् । अतिशयश्च निरुपाधिकत्वम् । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मादन्तरतरं यदयमात्मे त्युदाहृतश्रुतावात्मनो जीवस्य प्रियतमत्वमुच्यत इति प्रतिभाति; ततो विस्पष्टैः पुराणादिवाक्यैर्भगवतो मुख्येष्टत्वं प्रतिपत्तव्यमित्याह प्राणेति ।
प्राणः शारीरो वायुः । बुदि्धर्मनश्च अन्तःकरणवृत्ती । खानि इतरेन्द्रियाणि । आत्मा जीवः ।
किमतो यद्येवमीश्वर इष्ट इष्टसाधनीभूतश्चेत्यत आह आकाङ्क्षेति ।
इति शब्दस्तस्मादित्यर्थे, स एव सर्ववेदार्थ इत्यनेन संबन्धः ।
यत्खलु येन जिज्ञासितं यच्च सन्निहितं यच्च प्रतीतान्वययोग्यं तत्तं प्रति प्रतिपादनीयं शब्देन । अजिज्ञासितत्वादि्ध नापिपासुं प्रति जलाशयोपदेशः क्रियते । सत्यामपि जिज्ञासायां दाक्षिणात्यस्य पिपासोरसन्निहितत्वात् अस्ति गीर्वाणतरङ्गिण्यां शीतलं जलम् इति नोपदिश्यते । सतोरपि जिज्ञासासन्निधानयोरयोग्यत्वान्नाकाशपानं विधीयते ।
तथा च परमेश्वरस्येष्टेष्टसाधनत्वात्समस्तस्यापि वेदाधिकारिणोऽस्ति तस्मिन् आकाङ्क्षा जिज्ञासा । अस्ति च सन्निधिः
- सर्वगतत्वात्;
ननु तथाऽपि नेश्वरे वेदस्य प्रामाण्यं संभवति । केवलसिद्धार्थे व्युत्पत्त्यभावात् । कार्य एव लोके व्युत्पत्तिदर्शनात् । लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति नियमात् । कार्यान्वितत्वेन व्युत्पत्त्यङ्गीकारे चेश्वरस्याप्राधान्यप्रसङ्गेन स एवे त्यवधारणानुपपत्तेः । यद्यपीष्टत्वमिष्टसाधनत्वं च कार्यत्वम्, तच्चास्तीश्वरस्येत्युपपादितम्; तथाऽपि नैतावता व्युत्पत्तिसंभवः, वृद्धचेष्टैकलिङ्गत्वाद् व्युत्पत्तेः । वृद्धचेष्टायाश्च कृतिसाध्यार्थे नियतत्वात् । न हि चन्द्रादावकृतिसाध्येष्टसाधने प्रवृत्तिरस्ति । न चेश्वरस्य कृतिसाध्यताऽस्ति येन तत्र प्रवृत्तिं दृष्ट्वा व्युत्पद्येतेत्यत आह इष्ट इति ।
केवलसिद्धमात्रे व्युत्पत्त्यभावेऽपि इष्टे सिद्धविशेषे व्युत्पत्तिरिष्यत एव । प्रामाणिकैः इति शेषः ।
तत्कथमित्यत आह अत्तीति ।
इत्यादौ वाक्ये प्रयुक्ते सति, व्युत्पत्तिम् एतीति संबन्धः । अपिशब्दचशब्दावावापोद्वापयोरितरेतरयोगे वर्तेते । आदिग्रहणेनाङ्गुलिप्रसारणभ्रूविक्षेपच्छोटिकावादनादिकमुच्यते ।
अयमर्थः । छोटिकावादनादिना अव्युत्पन्नमभिमुखीकृत्य अपूपानदन्तं तद्भ्रातरमङ्गुलीप्रसारणादिना प्रदर्श्य देवदत्त तव भ्राताऽयमपूपानत्ती ति वाक्ये प्रयुक्ते अपूपादिपदार्थानां वर्तमानत्वेन प्रतिसंबन्धिनां प्रत्यक्षत्वोपपत्तेः । इष्टत्वेनाकाङ्क्षाया जिज्ञासायाः संभवात् । पदसमुदायस्यार्थसमुदाये तावत्सामान्यतः शक्तिमवधार्य पुनः तव भ्राता पयः पिबतीति प्रयोगान्तरे यदर्थप्रक्षेपे यच्छब्दप्रक्षेपो यदर्थोद्धारे च यच्छब्दोद्धारः स तस्य वाचक इति विशेषतोऽप्यवधारयतीति किमनुपपन्नम् । तथा इयं तव माता अयं तव पितेत्यादिवाक्ये प्रयुक्तेऽपि पूर्ववद्व्युत्पत्तिः संभवति ॥
किञ्च देवदत्त पुत्रस्ते जात इति वाक्यश्रवणसमनन्तरं विकसितवदनं देवदत्तमवलोक्य पार्श्वस्थो व्युत्पित्सुस्तेन लिङ्गेन देवदत्तस्य हर्षोदयमनुमाय तस्य चात्मदृष्टान्तेन प्रियार्थज्ञानं हेतुमवगम्य तस्य च शब्दश्रवणे सत्येव भावाच्छब्दस्य सामान्यतस्तत्र शक्तिं विदित्वा प्रियार्थं स्वदृष्टं पुत्रजन्म परित्यज्य अन्यस्य कल्पनाऽयोगात्तदेवेति ज्ञात्वा पुनरावापोद्धाराभ्यां विशेषतोऽप्यवगच्छति ॥
यदत्रोक्तम् अतीतानागतवर्तमानानामनेकेषां प्रियाणां संभवाद्विशेषावधारणानुपपत्तिः इति । तदयुक्तम् । सन्निहितस्वदृष्टपरित्यागेनान्यकल्पनानुपपत्तेरुक्तत्वात् । तत्रैव प्रियासुखप्रसवादीनां संभवेऽपि प्रयोगान्तरेष्वावापोद्धाराभ्यां विशेषावधारणं युज्यते । अन्यथा गामानये ति प्रयुक्तो दण्डादिकमप्याददानो दृश्यत इति कथं तवापि विशेषावधारणम् । यदुक्तं यावती सिद्धार्थपरादपि वाक्याद् व्युत्पत्तिः सा सर्वा प्रथमभाविकार्यव्युत्पत्त्यनन्तरभावित्वात्कार्यव्युत्पत्तिरेवेति । तन्निरासायोक्तं बालोऽपीति ।
यद्यपि इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबती त्यादिवाक्ये व्युत्पन्नेतरपदार्थो ज्ञातविभक्त्यर्थश्च अविदितमधुकरप्रातिपदिकार्थो यं मधुपानकर्तारं पश्यति तं मधुकरशब्दार्थं जानाति, तथा पिकः कोकिल इत्युपदेशाद्व्युत्पद्यते, तथा सास्नादिमान् गौरिति वाक्याद् व्याप्तिमवधार्य सास्नादिमति पिण्डे गोशब्दवाच्यतामनुमिनोतीत्येवमादिरानन्तरिक व्युत्पत्तिः; तथाऽपि व्युत्पादिता बालस्याप्युक्तविधया संभवत्येव । किञ्चास्या व्युत्पत्तेरनन्तरभावित्वेऽपि कार्यव्युत्पत्त्यधीनत्वं कुतः । कमलादिपदानामुक्तरीत्या योग्यान्वितस्वार्थ एव व्युत्पत्त्युपपत्तेरिति ।
एवं सिद्धार्थे व्युत्पत्तिसंभवमभिधायेदानीं परव्युत्पादितं व्युत्पत्तिप्रकारं निराकर्तुमाह नानयेति ।
देवदत्त गामानये त्याद्युत्तमवृद्धवाक्यश्रवणात्प्रवृत्तं मध्यमवृद्धमुपलभ्य प्रवृत्तिलिङ्गेन तस्य प्रवर्तकबोधमनुमाय तस्य स्वात्मदृष्टान्तेन कार्यताविषयत्वमवधार्य ततः शब्दानन्तरभावित्वेन शब्दजत्वं ज्ञात्वा पुनरावापोद्धाराभ्यां लिङादेः साक्षात्कार्यवाचित्वमन्येषां शब्दानां तदन्वितस्वार्थवाचित्वमवगच्छतीति यदुक्तं तत् न इत्यर्थः ।
कुत एतदिति चेत्कल्पकाभावात् । तथा हि । प्रौढमतीनामपि दुरधिगमयाऽनया प्रक्रियया बालो व्युत्पद्यत इति किं सिद्धार्थे व्युत्पत्त्यनुपपत्त्या कल्प्यते, किंवा संभवन्त्यामपि सिद्धार्थव्युत्पत्तौ तदनादरेण व्युत्पित्सुरेवैतां गरीयसीं प्रक्रियामाश्रयतीति । नाद्यः । सिद्धार्थे प्राथमिकव्युत्पत्तिसंभवस्योक्तत्वात् । द्वितीयं दूषयति आनीयमानेति ।
प्रयोजनार्थिनो हि प्रयोजन एव निर्बन्धो न तूपायविशेषे । तत्रोपायानेकत्वे च गुरुं परित्यज्य लघुमाश्रयते, न तु लघुं परित्यज्य गुरुमिति स्वात्मन्येव तावत्सिद्धम् । व्युत्पित्समानेऽप्येवं कल्पयितुं युक्तम् । तत्र देवदत्तो गामानयति , तव भ्राताऽपूपानत्तीति पदानामानीयमानाद्यमानगवादिदर्शनेनैवोक्तरीत्या व्युत्पत्तिर्लघीयसी; वर्तमानत्वेन कालान्तरभाव्यर्थप्रतीक्षाभावात्, तावत्पर्यन्तं शब्दानुसन्धानप्रयासाभावाच्च । देवदत्त गामानय इत्यादिपदानामेष्यदानयनादौ व्युत्पत्तिस्तु गरीयसी; वाक्यश्रवणानन्तरं तावत्तदनुसन्धानस्य आगामिकार्यप्रतीक्षणस्य च प्रयाससाध्यत्वात् । तत्र गवादिशब्दव्युत्पत्त्यर्थं लघीयांसमुपायमनादृत्य एष्यदानयनप्रतीक्षादिकं गरीयांसमुपायं व्युत्पित्सुः अनुतिष्ठतीति कल्पना निर्मूलैवेति ।
तत्किं प्रयत्नगौरवाद्भविष्यत्क्रियायां तदन्वितेषु च व्युत्पत्तिर्नास्त्येव । तथा सति तच्छब्दव्यवहारोऽपि कथमित्यत आह व्युत्पन्न इति ।
वर्तमाने वर्तमानार्थे, क्रियाशब्दे आनयतीत्यादौ, व्युत्पन्नः अर्थसंबन्धज्ञानवान्, भविष्यति भविष्यदर्थे क्रियाशब्दे, देवदत्त गामानये त्यादि शब्दश्रुत्, पुनर्दृष्ट्या गवानयनस्य ।
अयमर्थः । वर्तमानायां क्रियायां तदन्वितेषु चार्थेषु गामानयती त्यादिपदानां संबन्धं प्रथमतः अवगच्छति । भविष्यत्क्रियायां तु पश्चादानये त्यादिपदानां संबन्धं जानाति त्वदुक्तरीत्येत्येव ब्रूमः । न तु सर्वथा तत्र व्युत्पत्त्यभावम् । अतो न काचिदनुपपत्तिरिति । शब्दश्रुत्, पुनर्दृष्ट्ये ति परोक्तप्रक्रियानुवादः ।
एवं लिङादीनां स्वार्थे व्युत्पत्तिः पश्चात्तनीत्युक्तम् । पराभ्युपगते तु कार्ये न कदाचिदपीत्याह वर्तमानमिति ।
यस्मात् । वर्तमानादिक्रमेण कालत्रयसंबन्ध्येव वस्त्वाकाङ्क्षासन्निधियोग्यतायुक्तं च भवति । आकाङ्क्षाद्युपेत एव च व्युत्पत्तिः । न ह्यजिज्ञासितेऽर्थे प्रवृत्तिसहस्रदर्शनेऽपि व्युत्पद्यन्ते । कार्यं च कालत्रयासंबद्धं परेणेष्यते । तस्मात् । आकाङ्क्षादिविरहात् विधेः कार्यापरनाम्नो व्युत्पादनं व्युत्पत्तिर्लिङादिवाच्यताज्ञानं कुतः संभवतीति ॥ अथवा लिङादिशब्दो विधिः तस्य व्युत्पादनं कार्ये व्युत्पत्तिः कुत इति योज्यम् ॥ अत्र कालसंबन्ध्येवेति वक्तव्ये क्रमप्रदर्शनमुत्तरार्थम् ।
किञ्च कालत्रयानवमर्शो विधेः किम् अर्थतः किंवा शब्दतः । आद्ये शशविषाणादिवत्तस्य सत्त्वमेवासंभावितम्, व्युत्पत्तिस्तु तद्विषये लिङादीनां कुतः । द्वितीये घटादितुल्यत्वात्कालत्रयानवमृष्टो विधिरिति विशेषाभिधानं व्यर्थम् । अनुभवविरुद्धं चैतत् । कर्तव्यमितिशब्दादेष्यत्कालीनताप्रतीतेरुक्तत्वात् ।
यदप्युक्तं वर्तमानार्थक्रियादिशब्दव्युत्पत्त्यनन्तरभाविनी भविष्यदर्थक्रिया शब्दव्युत्पत्तिरि ति । तदयुक्तम् । व्युत्पत्तिसंभवे प्राथमिकत्वस्यैवोपपत्तावानन्तरिकत्वकल्पनायां नियामकाभावादित्यत आह दृष्ट्येति ।
प्रथमत एवानागतार्थे जिज्ञासाप्रतीक्षयोरसंभवान्न व्युत्पत्तिरि त्युक्तम् । वर्तमानार्थस्य तु दृष्टिसंभवेन जिज्ञासोपपत्तौ प्रतीक्षाऽऽयासासंभवाच्च प्रथमं व्युत्पत्तिस्ततो ज्ञातः पदस्यार्थो येन तस्य वर्तमानक्रियायां तदन्वितेषु चार्थेषु व्युत्पन्नस्य पश्चाद् भविष्यति अतीते चाकाङ्क्षा स्यात् । देवदत्तो गामानयती त्यादिपदानां वर्तमानक्रियायां तदन्वितेषु व्युत्पत्तौ जातायां देवदत्त गामानये त्युक्ते गवादिपदानामानयतेश्च ज्ञातार्थत्वेनोर्वरितप्रत्ययार्थमात्रे जिज्ञासाप्रतीक्षा च स्यात् । तस्माद्वर्तमानार्थव्युत्पत्तेराकाङ्क्षादिजननद्वारेण कारणत्वेन भविष्यदाद्यर्थव्युत्पत्तेश्च कार्यत्वात्पौर्वापर्योपपत्तिरिति ॥ अगते अनागत इत्यर्थः ।
यदप्युक्तं प्रवृत्तिनिवृत्त्यौपयिकार्थशासनाच्छास्त्रत्वम् । न च सिद्धार्थबोधस्तथा । अतः कार्यबोधस्यैव तद्भावात्कार्यपरत्वं वेदस्ये ति ॥ तत्र वक्तव्यम् । किं प्रवृत्त्यादिकमेव वेदस्य मुख्यं प्रयोजनम् उत अवान्तरप्रयोजनम् । नाद्य इत्याह इष्टमिति ।
पुरुषापेक्षितं हि प्रयोजनं भवति; अन्यस्यानिरूपणात् । पुरुषश्च इष्टावाप्तिमनिष्टनिवृत्तिं चापेक्षते, न प्रवृत्तिनिवृत्ती; क्लेशरूपत्वात् । अतो न तयोर्मुख्यप्रयोजनतेति ।
अस्तु प्रयोजनत्वमिष्टानिष्टप्राप्तिप्रहाणयोः, तत्साधनं प्रवृत्तिनिवृत्ती इति अवान्तरप्रयोजनमिति द्वितीयं दूषयति अपरोक्षमिति ।
ज्ञानमेवेष्टावाप्तिसाधनं न प्रवृत्त्यादिकमित्यर्थः ॥
तत्किं नोपदेष्टव्यैव क्रिया । न । क्वचिज्ज्ञानार्थत्वादित्याह क्वापीति ।
तत्कथमित्यत आह अत्तिर्हीति ।
अत्तिः चर्वणादिरूपा क्रिया । रससाक्षात्काराय भवति ।
नन्वभिमतरसादिसाक्षात्कारस्यैवेष्टसाधनत्वं दृष्टम् । तत्कथं परोक्षं वा ज्ञानमिष्टस्य साधनम् उक्तमित्यत आह वाक्यार्थेति ।
अपिशब्दो वाक्यार्थज्ञानमात्रेणापीति संबध्यते । क्वचिदिति पुत्रस्ते जातः , पिता ते राजा वर्तत इत्यादौ । यद्यप्यभिमतार्थानुमितिज्ञानमपीष्टसाधनम् । तथाऽपि प्रकृतानुपयोगात्तन्नोक्तम् ।
अयमत्राशयः । यो हि सात्त्विकप्रकृतिर्लोकप्रवादात्कार्यत्वादिलिङ्गानुसन्धानाद्वा स्वतनुभवनादेः कर्तारं सामान्यतो जानन् स्नेहमाहात्म्यज्ञानाभ्यां तद्विशेषज्ञानार्थमुत्कण्ठितमानसस्तत्संस्कारवशाच्चान्यदगणयन्वर्तते तं प्रत्याप्तो बन्धुरिवायं समस्तो वेदस्तत्स्वरूपं स्वप्रधानमेव प्रतिपादयति । ततो वाक्यार्थज्ञानादवाप्तपरमानन्दस्तत्साक्षात्कारं कामयते । तं प्रति तदुपासना विधीयते । सा च प्रक्षीणान्तःकरणमलस्यैव संभवतीति तदर्थं कर्मविधयः ॥
अथवा यः सांसारिकविविधदुःखं जिहासुः परमानन्दं च प्रेप्सुस्तत्साधनं जिज्ञासते; तं प्रति परमेश्वर एव प्रसन्नः परमेष्टसाधनतयोपदिश्यते । ततः कथमसौ प्रसीदतीत्यपेक्षायां तत्साक्षात्कारस्तदङ्गतया कर्माणीत्युभयथा स्वप्रधान एव परमेश्वरो वेदार्थ इति ।
न च प्रयोजनशेषतयेश्वरस्याप्राधान्यं प्रतिपत्तावपरार्थत्वात् । प्रतिपत्तेरेव प्रमाणफलत्वात् ।
एवमकार्यशेषतया स्वप्रधाने ब्रह्मणि वेदस्य प्रामाण्यसंभवाद्युक्ता ब्रह्मजिज्ञासेत्युक्तम् । इदानीमस्तु वा कार्यपरत्वं वेदस्य, तथाऽप्यात्मानमुपासीतेत्युपासनाकार्ये कर्मकारकतया प्रतीतस्य ब्रह्मणः स्वरूपं प्रतिपादयतां सत्यं ज्ञानमि त्यादिवाक्यानां तत्र प्रामाण्यसंभवाद्युक्ता ब्रह्मजिज्ञासेति पक्षान्तरं समर्थयमानः अविधिपरेभ्योऽपि वाक्येभ्यो वस्तुतत्त्वसिदि्धर्भवतीत्यत्र परसंप्रतिपन्नं निदर्शनमाह न चेति ।
आदिग्रहणाद्यूपादयः । सर्वस्याम्नायस्य कार्यपरतां मन्यमानस्यापि मते यूपाहवनीयादिस्वरूपे श्रुतेरप्रामाण्यं तावन्न भवेत्; किन्तु यूपे पशुं बध्नाती ति बन्धनाय यूपे विनियुक्ते तस्यालौकिकत्वात्कोऽसौ यूप इत्यपेक्षायां खादिरो यूपो भवति । यूपं तक्षति । यूपमष्टाश्रीकरोती ति वाक्यैस्तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यत एव । एवं स्रुक्स्रुवादयोऽपि द्रष्टव्याः ॥ अप्रामाण्यमिति वक्तव्ये अतात्पर्यमिति वचनं यत्परेण प्रत्यक्षादिवैधर्म्यं शास्त्रस्योक्तं तन्निरासार्थम् ।
कुतो न भवेदित्यत आह यत्किञ्चिदिति ।
अन्यथा यूपाहवनीयादिवाक्यानां यूपादिस्वरूपे तात्पर्याभावे । यत इति शेषः ।
किमतो यद्येवं स्रुक्स्रुववह्न्यादावपि श्रुतेस्तात्पर्यमस्तीत्यत आह तस्मादिति ।
यस्मात्कार्यान्वितत्वेन यूपाहवनीयादिशब्दानां स्वार्थे तात्पर्यमस्ति । तस्मात्तत्समानन्यायेनोपासनाकार्यार्थत्वेन सत्यं ज्ञानमि त्यादिवेदवाक्यं च स्वार्थे सकलगुणक्रियाद्युपेते ब्रह्मणि तात्पर्ययुक्तं भवेत् ।
ननु विषमोऽयमुपन्यासः । यूपादिस्वरूपाभावे पशुबन्धादिकार्यमेव न निष्पद्यत इति तत्स्वरूपेऽपि तात्पर्यमवश्याश्रयणीयम् । न चैवमुपासनं विना कर्मकारकसत्तया नोपपद्यते, आरोपिताकारेणापि संभवादिति । मैवम् । पार्थिवद्रव्यमात्रे बन्धनसंभवेन खादिरत्वादावतात्पर्योपपत्तेः । तदप्यपूर्वत्वादविरुद्धत्वाच्च गृह्यत इति चेत् समं प्रकृतेऽपि । अथ खादिरत्वाद्यभावे नापूर्वोत्पत्तिरिति चेन्न । श्रुतेस्तत्र प्रामाण्यस्याद्याप्यनिश्चयात् । अविद्यमानार्थोपासनेऽपि फलाभावस्य साधयिष्यमाणत्वात् ।
ननु श्रुतिरेवात्मादिस्वरूपे तात्पर्याभावं गमयति ॥ आत्मेत्येवोपासीते त्यादावितिशब्दसंबन्धात् । इतिशब्दो हि वैपरीत्ये वर्तते । न वेति विभाषे ति यथा शब्दप्रकरणे न वा इति शब्दयोर्विभाषासंज्ञायां वैपरीत्यवाचिनेतिशब्देन तावर्थपरौ व्यवस्थाप्येते; तथेहाप्यर्थप्रकरणे श्रुतेनेतिशब्देनात्मनः स्वरूपेणोपासनासंबन्धं निवार्य स्मृतिमात्रेण संबन्धो ज्ञाप्यते । तत्कथमात्मसिदि्धर्वेदादिति चेन्न । अत्रेतिशब्दस्य प्रकारवाचित्वात् । विपक्षे बाधकमाह इतिशब्दोन्नय इति ।
आत्मादिशब्दैरितिशब्दस्य वैपरीत्यवाचिनो योगे व्याख्यायमाने अग्नौ जुहोति इत्यादावपि वैपरीत्यार्थे इतिशब्दे योजितेऽग्नेरपि स्वरूपेण होमान्वयो न स्यात् । किन्तु स्मृतिमात्रेणेति ।
ननु अग्नौ जुहोती त्यत्रेतिशब्द एव नास्ति, तस्य वैपरीत्यार्थत्वं कुत इति चेन्न । तर्हि उपासनावाक्यानामपीतिशब्दविधुराणां बहुलमुपलम्भात्स्वार्थे तात्पर्योपपत्तिरित्याह इतिशब्देति ।
अलं बहूनीति शेषः ।
सत्यम्, तथाऽपि तत्राध्याहारः क्रियत इत्यत आह योग इति ।
योगे इतिशब्दस्याध्याहृतस्य योजने । अग्नौ जुहोती त्यत्रापि तद्योजनं समम् । आत्मादिशब्दात्परतो यद्यश्रुतेति शब्दोऽध्याह्रियते तदाऽग्न्यादिशब्दात्परतोऽपि कुतो नाध्याह्रियत इत्यर्थः ॥
एकदेशिनस्त्वेवं परिहारमाहुः । सत्यं कार्यनिष्ठो वेदस्तथाऽपि न सर्वः । वेदान्तास्तु परिनिष्ठितस्वरूपेऽपि ब्रह्मणि प्रमाणम् । अथातो धर्मजिज्ञासे ति कार्यनिष्ठवेदभागे विचारितेऽपि वस्तुतत्त्वनिष्ठवेदान्तविचाराय शारीरकमीमांसारंभस्संभवतीति ॥ सोऽयमयुक्तः परिहारः । तथा हि । वेदान्ता ब्रह्मनिष्ठा, अपरो वेदभागः कार्यनिष्ठ इति वाक्यभेदः किमेकवाक्यत्वासंभवात् कल्प्यते उतैकवाक्यत्वसंभवेऽपि । न तावत् द्वितीयः कल्पनागौरवप्रसङ्गादित्याह एकवाक्यत्वेति ।
अशेषतोऽपि इति संबन्धः । हि शब्दः कल्पनागौरवादिप्रसङ्गं हेतुं सूचयति ।
आद्यं दूषयति योगश्चेति ।
अशेषतोऽपि वेदस्यैकवाक्यताया, योगो घटना, च, स्यादेव । यथोक्तं पुरस्तात् । वक्ष्यति च अतो ज्ञानफलान्येव कर्माणी ति ॥
किञ्च कृत्स्नोऽपि वेदः कार्यनिष्ठ इति वदन्तं प्रत्येकस्यापि वाक्यस्य परिनिष्ठितवस्तुप्रतिपादकत्वप्रतिपादने यः प्रयासस्तेनैव कृत्स्नस्यापि वेदस्य तथात्वे संभवति किं वाक्यभेदकल्पनया । दृष्टो हि तस्यार्थः कर्मावबोधनमि त्याद्यभियुक्तवाक्यानुरोधादिति चेत् । तर्हि वेदोषरा वेदान्ता इत्यभियुक्तवाक्यं परमास्तिकेन भवता अनुरोद्धव्यं स्यात् । उपक्रमादिना कार्यनिष्ठतावगमादेवमिति चेन्न । अवान्तरवाक्येऽपि उपक्रमाद्यानुगुण्यस्य संभवात् । अधिकारादिविरोधादिति चेन्न । तथा सत्युपनिषत्स्वपि वाक्यभेदप्रसङ्गादिति ।
अपर आह । भवति कृत्स्नस्यापि वेदस्यैकवाक्यता । सा चात्मज्ञानस्य स्वर्गादिफल(कर्म)शेषतयाऽस्तु । देहव्यतिरिक्तात्मज्ञानव्यतिरेकेण पारलौकिककर्मप्रवृत्त्यनुपपत्तेः ॥ अथवा कर्माङ्गभूतदेवतानुस्मरणार्थमात्मप्रकरणमस्तु ।तत्र फलश्रुत्यादिकमर्थवादोऽस्तु । यथोक्तम् आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं न तु चोदितम् । कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यते । विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः । साऽर्थवादी भवेदेव न स्वर्गादेः फलान्तरमि ति । तत्राह महाफल इति ।
८महाफले महत्फलं कैवल्यं यस्मात्तन्महाफलं ब्रह्म तस्मिन्नेवाशेषतो वेदस्य योगः संबन्धः स्यात् । न पुनरल्प(फलेे)के कर्मणि । प्रयाजादिषु तथा दर्शनात् ।
अथवा योगेऽग्नावपि तत्समम् इति न युक्तम् । संभवति खलु उपासनावाक्ये क्वचित् आत्मेत्येव उपासीते तीतिशब्दश्रवणाद् अविद्यमानेतिशब्देष्वपि उप्युपासनावाक्येष्वितिशब्दाध्याहारः । न च कर्मप्रकरणे क्वचिदपीतिशब्दोऽस्ति; येन तदभावस्थानेऽध्याहारो भविष्यति । अत्रैव विधिवाक्ये श्रवणात् कर्मकाण्डेऽपि तथाऽध्याहारः किं न स्यादिति चेन्न । वेदान्तानां कर्मकाण्डस्य च भिन्नवाक्यत्वादित्यत आह एकवाक्यत्वेति ।
अस्तु वा कर्मब्रह्मकाण्डयोर्वाक्यभेदः तथाऽप्यग्न्यादिशब्दात्परमितिशब्दाध्याहारो युज्यते । कर्मप्रकरणेऽपि क्वचिदितिशब्दश्रवणादित्यभिप्रेत्याह इति ब्रूयादिति ।
न गिरा गिरेति ब्रूयात् इति वचः अग्नावित्यस्य समीपगम् । गतम् अवगतमित्यर्थः ।
नन्वत्र इतिशब्दः शब्दस्वरूपग्रहणार्थ इति सत्यम् । अत एवार्थप्रकरणे शब्दस्वीकारार्थे वैपरीत्यवाचीत्युक्तमिति । तथाऽपि नोपासनाकर्मतया ब्रह्मणः सिदि्धः । ब्रह्मप्रतिपादकवाक्यानां ह्युपासनाकार्यत्वे तावत्तात्पर्यमावश्यकम् । ब्रह्मस्वरूपेऽपि तात्पर्यमित्यङ्गीकारे तु कल्पनागौरवप्रसङ्गादित्यत आह कल्पनेति ।
एवं तर्हि यूपाहवनीयादिवाक्यानामपि पशुबन्धादिकार्ये तात्पर्यं तावदावश्यकम् । यूपादिस्वरूपेऽपि पृथक् तात्पर्यकल्पने कल्पनागौरवं स्यात् । ततश्च वेदात्तदसिद्धौ प्रमाणान्तराभावाद् यूपादिपदार्थाभाव एव प्रसज्यत इत्यर्थः ।
ननु यूपादिषु तद्वाक्यानां तात्पर्याणि प्रमाणसिद्धानि । न तु कल्प्यन्ते । येन खलु वाक्येन यस्यार्थस्य प्रमितिरुत्पद्यते तत्तत्परमित्युच्यते । यूपादिवाक्याच्च यूपादिज्ञानं तावदुत्पद्यते । न चायं संशयः एकाकारनियतत्वात्, न च विपर्ययः बाधकाभावात्, न चानुवादोऽयम् अप्राप्तत्वात्; तत्कथं कल्पनागौरवम्; कथं च यूपादिपदार्थाभाव इत्याशङ्क्याह प्रमाणेति ।
तथैव हि तर्हि, ब्रह्मवाक्यानां ब्रह्मणि तात्पर्यं प्रमाणावगतमिति न कल्पनागौरवम् इति शेषः ।
कल्पनागौरवं परिहृत्योपसंहरति तस्मादिति ।
सत्यज्ञानादिपदानां पदार्थे ब्रह्मणि वाक्यार्थे कार्ये च उपासनादाविति उभयत्र तात्पर्यं ग्राह्यम् । पदार्थ इत्यवान्तरवाक्यार्थोपलक्षणम् ।
ननु तथाऽपि सत्यज्ञानादिवाक्यानां कथं स्वार्थे तात्पर्यम् । सत्यत्वे हि विधातव्ये ज्ञानत्वादीनामनुवादेन भाव्यम्; ज्ञानत्वे च विधातव्ये सत्यत्वादीनाम् । न चैतत्संभवति युगपदाकारद्वयविरोधात् । मैवम् । सत्यं ब्रह्म, ज्ञानं ब्रह्मेति पृथगन्वयेन पृथग्वाक्यत्वाङ्गीकारादित्याह पृथगेवेति ।
तर्हि वाक्यभेददोष इत्यत आह अवान्तरत्वादिति ।
एकवाक्यत्वे संभवति स्वतन्त्रवाक्यभेदकल्पनैव दोषो न त्ववान्तर वाक्यभेदः । तथात्वे क्वापि महावाक्यं न स्यात् ।
किञ्च परेणाप्येवमङ्गीकृतमित्याह अङ्गीकृतत्वादिति ।
अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रणाती त्यादौ तैर्मीमांसकैरपि पदानाम् अरुणयेत्यादीनां क्रणातीत्यादिक्रियापदेनैकैक(श्येना)स्यान्वयो अङ्गीकृतः । अनुवादविधानयोर्युगपद्विरोधभयादरुणादीनां गवादिभिस्त्वाकाङ्क्षादिवशात्पार्ष्टिकान्वयोऽभ्युपगतः । ततश्च तेषामपि वाक्यभेदो दूषणं प्रसज्येत ॥ तत्रैतावदेव वक्तव्यम् । महावाक्यभेद एव दोषो नावान्तरवाक्यभेद इति । तदस्माकमपि समानमिति ।
स्यादेतत् । तथाऽपि वेदान्तपदानां स्वार्थेषु तात्पर्यं नोपपद्यते । प्रत्यक्षादिविरोधात् । तथा हि । विज्ञानमानन्दं ब्रह्म , सत्यं ज्ञानमनन्तं ब्रह्म , तत्त्वमसी त्यादौ ब्रह्मानुवादेनानन्दादित्वमद्वितीयत्वं च विधीयत इति व्याख्येयम् । ब्रह्म च प्रत्यक्षादिसिद्धो जीवः । न च तस्यैतद्रूपत्वं प्रत्यक्षादिकं सहते, तेन तद्विपरीतोल्लेखनादित्यत आह प्रत्यक्षादिविरोध इति ।
न तावत्सर्वत्र प्रत्यक्षादिविरोधः । सत्यं ज्ञानमित्यादिवाक्यानां जीवातिरिक्तेश्वरविषयत्वाङ्गीकारात् ॥ तत्त्वमस्या दिवाक्यानां प्रत्यक्षादिविरोधे ऽपि न स्वार्थे तात्पर्याभावः कल्पनीयः । प्रतीतार्थस्य प्रत्यक्षादिविरोधादेव अग्निर्माणवक इत्यादेरिव अमुख्यार्थकल्पनोपपत्तेः । न ह्याभिधानिक एव स्वार्थो नान्य इति कस्यचिदभ्युपगमः । न च गौणार्थे तात्पर्याङ्गीकृतौ कश्चिद्विरोधोऽस्ति ।
ननु गौणार्थाङ्गीकारेऽपि जीवस्य आनन्दादिरूपत्वमङ्गीकार्यम्; तच्च प्रत्यक्षादिविरुद्धम् । मैवम् । अविद्यावरणतिरोभावसंभवात् । तदिदमुक्तं अविरोधत इति ।
योगश्च स्यान्महाफल इत्युक्तं प्रपञ्चयन् उक्तार्थमुत्सूत्रितत्वभ्रमनिरासाय अतः शब्दारूढं कुर्वन् उपसंहरति अत इति ।
अत्र ज्ञानफलान्येव कर्माणी त्युक्तप्रपञ्चनम् । अतः श्रुतिप्रामाण्ययोगतो ब्रह्मणि श्रुतिप्रामाण्यस्योपपन्नत्वाद् जिज्ञासा कर्तव्ये त्युपसंहारः । न विषयसद्भावमात्रेण जिज्ञासोपपत्तिरित्यत उक्तं प्रयोजनसंबन्धं स्मारयति ज्ञानमेव हीति ।
हि यस्मात् ज्ञानमेव विष्णोर्मुख्यप्रसाददम्; जिज्ञासाया एव तत् ज्ञानं भवेत्; तेन; न तु विषयादिसिदि्धमात्रेणेति । मुख्यप्रसादो मोक्षहेतुप्रसादः । कर्माणि तु जिज्ञासाजनकत्वेन ज्ञानफलानीत्युक्तानीति न विरोध इति ।
ननु शब्दस्यैव तावत्प्रामाण्यं दुर्लभम् । तथा हि । प्रमाकरणं हि प्रमाणम् । प्रमाकरणं च तदुच्यते यस्मिन्सति प्रमा भवत्येव, नासति । सत्यपि शब्दे न प्रमा जायते । तत्कथं प्रमाकरणं स्यात् ॥ किञ्च प्रमाणं हि विषयसद्भावेन व्याप्तम् । विषयश्च द्वेधा । अपरोक्षः परोक्षश्च । तत्रापरोक्षः प्रत्यक्षसिद्धः । परोक्षस्त्वनुमानवेद्य इति विषयाभावान्न प्रमाणं शब्दः ॥
अपि च यत्प्रमाणं तद्विज्ञानात्मकं दृष्टम् । यथा धूमज्ञानम् । अविज्ञानात्मकश्च शब्दोऽतो न प्रमाणम् ॥ एवं बाह्यकरणप्रत्यक्षत्वादात्मन्यनाश्रितत्वाच्च; घटवत् ॥ आकाशगुणत्वाच्च तत्परिमाणवत् ।
किञ्च किं शब्दोऽर्थेन संबद्धस्तं बोधयति, उतासंबद्धः ॥ आद्ये संबन्धस्तादात्म्यं, संयोगः, समवायो वा ॥ न प्रथमः (वह्न्या)अग्न्यादिशब्दोच्चारणे सति मुखदाहादिप्रसङ्गात् । वर्तमानस्य शब्दस्यातीतादिनार्थेन तादात्म्येऽर्थस्यापि वर्तमानतापत्तिः, शब्दस्य वाऽतीतत्वादिप्राप्तिः ॥ न द्वितीयः गुणत्वात् । द्रव्यत्वेऽपि मूर्तस्य क्रिययार्थसंयोगे अन्तरावस्थितार्थविषयत्वापत्तिः । सर्वगतत्वे तु सर्वार्थप्रतिपादकत्वप्रसङ्गः । सर्वथाऽतीतादिना संयोगानुपपत्तौ तदप्रतिपादकत्वं स्यात् ॥ न तृतीयः आकाशगुणस्यान्यत्र समवायायोगात् । सर्वशब्दानामाकाशार्थतापत्तेश्च । द्रव्यस्यापि मूर्तस्य वा अमूर्तस्य वा न घटादिना समवायो युज्यते ॥ असंबद्धस्य च बोधकत्वे नियामकाभावात्सर्वोऽपि सर्वं बोधयेत् ।
किञ्च आप्तानाप्तयोः नद्यास्तीरे पञ्चफलानि सन्ती ति वाक्ययोरस्ति कश्चिद्विशेषो न वा ॥ नाद्यः अनुपलम्भात् । पुरुषे विशेषोऽस्तीति चेन्न तस्य वाक्योच्चारण एवोपक्षीणत्वेन तदुत्पाद्यज्ञानेऽनुपयोगात् ॥ द्वितीये तु कथमेकस्यार्थविसंवादोऽपरस्य तु संवादः । अतः संभावनामात्रेण शब्दात्कृष्यादाविव प्रवृत्तिः ।
तदेवं शब्दस्यैवाप्रामाण्यात्कुतस्तद्विशेषस्य वेदस्य प्रामाण्यं, कुतस्तरां सिद्धरूपे ब्रह्मणि, कुतस्तमां च तन्मीमांसारम्भ इत्यत आह प्रत्यक्षवच्चेति ।
चशब्दो व्याख्यानान्तरद्योतकः । न केवलं सिद्धविषयत्वं प्रामाण्यं चेति वा । अनुमानवच्चेति वा । हेतुसमुच्चये वा ।
तथा हि ॥ शब्दाज्ज्ञानमुत्पद्यते न वा ॥ नेति पक्षेऽनुभवविरोधः । स्वक्रियाविरोधश्च; न शब्दोऽर्थप्रत्यायक इति ब्रूते, परप्रत्यायनार्थं च शब्दमेव प्रयुङ्क्त इति ॥ आद्ये स बोधः संशयो विपर्ययो वा । नाद्यः एकाकारनियतत्वात् । न द्वितीयः बाधबोधविरहात् । सर्वत्रापि बाधाभ्युपगमे स्वप्रयुक्तवाक्यस्य तद्भावाभावयोस्स्वव्याघातात् ॥ एवं व्यवस्थिते प्रयुज्यते शब्दः प्रमाणं संशयविपर्ययाजनकत्वे सति ज्ञानजनकत्वात् प्रत्यक्षादिवदि ति । न हि प्रत्यक्षादेरपि अन्यत्प्रामाण्यनियामकमस्ति ॥ नन्विदमेव प्रामाण्यमिति साध्याविशिष्टत्वम् । न । याथार्थ्यं प्रामाण्यमिति वक्ष्यमाणत्वात् ।
यदुक्तं सत्यपि शब्दे प्रमानुदयादप्रमाणं शब्द इति । तदयुक्तम् । सत्यपि चक्षुषि रूपज्ञानानुत्पत्तेः, सत्यपि धूमेऽग्निज्ञानानुदयात्प्रत्यक्षानुमानयोरप्यप्रामाण्यप्रसङ्गात् ॥ अथ ब्रूषे नेन्द्रियमात्रं प्रत्यक्षं किन्त्वन्तःकरणाधिष्ठितं, विषयसन्निकृष्टं च । तथा न धूममात्रमनुमानम् अपि तु व्याप्तिपक्षधर्मतावत्त्वेन अनुसंहितम् । न च तस्मिन्सति न प्रमोत्पद्यत इति तर्हि वयमपि ब्रूमो न शब्दमात्रं प्रमाणम्, किन्तु श्रुतोऽनुस्मृतसंबन्धश्च । न चैवंविधे शब्दे सति न प्रमोत्पद्यते ॥ तथा च शब्दमात्रपक्षीकरणे सिद्धसाधनम् । विशिष्टशब्दपक्षीकारे चासिदि्धरिति ॥ तदिदमुक्तं प्रत्यक्षवच्चेति ।
यदुक्तं विषयाभावान्न शब्दः प्रमाणमि ति । तदप्ययुक्तम् । तथा सति चाक्षुषप्रत्यक्षस्यापि अप्रामाण्यप्रसङ्गात् । तस्यापि हि परोक्षोऽपरोक्षो वा विषयः । नाद्यः तस्यानुमानविषयत्वात् । न द्वितीयः तस्य श्रोत्रादिविषयत्वादि ति वक्तुं शक्यत एव ॥ तत्र चैवं वक्तव्यम् । उत्पद्यते तावच्चक्षुषा शुक्लोऽयं पट इति प्रमा । तथा च अपरोक्षत्वेऽपि विषयस्य श्रोत्राद्यविषयत्वाद्युक्तं तत्र चक्षुषः प्रामाण्यम् ॥
किञ्च प्रयोजनाभावेन न स्पष्टदृष्टं वस्तु निराकर्तुं शक्यते सर्वापलापप्रसङ्गात्; किन्तु वस्तुदर्शनात्प्रयोजनमपि किञ्चित्कल्पनीयमिति । तदेतच्छब्देऽपि समानम् । परोक्षोऽपि स तादृशः कश्चिद्विषयो यो नानुमानस्य विषय इति वक्ष्यामः ॥ एतदप्युक्तं प्रत्यक्षवदिति ।
तथाऽपि चक्षुरादीनां प्रत्यक्षत्ववच्छब्दानुमानयोरेकजातीयत्वं स्यादिति चेत् । तत्किं सर्वथोत यथाकथञ्चित् अथानुमानत्वेन । नाद्यः चक्षुरादावप्यभावात् । न द्वितीयः इष्टापादनात् । न तृतीयः वैलक्षण्यस्यापि वक्ष्यमाणत्वात् ।
किञ्चैवं विषयविकल्पेन शब्दनिराकरणे शब्दमुपादायानुमानमपाकुर्वन्तं प्रति किं वक्तव्यम् । अनुमानाप्रामाण्ये सकल्लोकव्यवहारोच्छेदप्रसङ्गात् । परचित्तवृत्त्याद्यसङ्कर्णविषयदर्शनात्परोक्षविषयत्वेऽपि शब्दादि्भन्नं तदङ्गीकरणीयमिति वाच्यमिति चेत्; सममेतच्छब्देऽपि । एतदपि चशब्देनोक्तमनुमानवदिति ।
यच्च अविज्ञानात्मकत्वान्न शब्दः प्रमाणमि ति । तदप्ययुक्तम् । यथेन्द्रियमिन्द्रियसन्निकर्षो वा प्रत्यक्षमविज्ञानात्मकमपि विज्ञानकरणत्वात्प्रमाणम्, तथा शब्दस्याप्युपपत्तेः ॥
किञ्च धूमाद्यनुमानस्य अविज्ञानात्मकस्यापि प्रामाण्यं दृष्टमिति शब्दस्य कथं न स्यात् ॥
अथ न धूमादिकमेवानुमानं किं नाम तज्ज्ञानम् । यथाऽऽहुः प्रमाणविदः; लिङ्गपरामर्शोऽनुमानमि ति । तर्हि शब्दमात्रं न प्रमाणं किन्तु तज्ज्ञानमेवेत्यसिदि्धः ॥ एतदप्याह प्रत्यक्षवच्चेति ।
एतेन बाह्यकरणप्रत्यक्षत्वादात्मन्यसमवेतत्वादित्यपि हेतुद्वयं निरस्तं वेदितव्यम् । बाह्यकरणप्रत्यक्षस्यापि धूमवत्प्रामाण्योपपत्तेः । आत्मन्यसमवेतस्यापि प्रत्यक्षवदनुमानवच्च तत्संभवात् । ज्ञानाङ्गीकारेण व्यभिचारपरिहारे शब्दोऽपि ज्ञानात्मेत्यसिदि्धरेवेति ।
यदप्याकाशगुणत्वादिति । तदसिद्धम् । वर्णात्मा हि शब्दः प्रमाणम् । न चासावाकाशगुणस्तत्त्वविदाम् । अत्र च प्रत्यक्षवच्चेति व्यतिरेकदृष्टान्तः । यथा प्रत्यक्षस्य नाकाशगुणत्वं तथा शब्दस्यापीति तस्य प्रामाण्यं न विहन्यत इति ।
अप्रयोजकाश्चैते हेतवो विपक्षे बाधकाभावादवगन्तव्याः ।
यच्चोक्तं शब्दस्यार्थेन संबन्धोऽस्ति न वे ति । तत्रास्तीति ब्रूमः । स च तादात्म्यादेरसंभवेऽन्यो भविष्यति । यथा खलु चक्षुरादेः प्रत्यक्षस्यासंबद्धस्य ग्राहकत्वेऽतिप्रसङ्गात्तादात्म्यादेरसंभवात्कार्यवशादेव घटादिना संयोगः कल्प्यते । श्रोत्रस्य शब्देन संयोगाद्यसंभवात्समवायः । अनुमानस्य च धूमादेरग्न्यादिना संयोगादेरव्याप्त्यतिव्याप्त्यादिना असंभवाद् व्याप्यव्यापकभावः कल्पितः । एवं शब्दस्यासंबद्धस्य गमकत्वेऽतिप्रसङ्गात् तादात्म्यादेरसंभवात्संबन्धान्तरं कल्पनीयम् । न पुनः स्पष्टदृष्टतत्कार्यापलापो युक्तः ॥ तदिदमाह प्रत्यक्षवच्चेति ।
स च संबन्धः पारमेश्वरः सङ्केत एवेत्येके । स्वाभाविकः प्रत्याय्यप्रत्यायकत्वलक्षण इत्यपरे । तत्र कः संबन्धो विवक्षित इत्यपेक्षायामुक्तं स्वत एवेति । स्वाभाविकेनैव संबन्धेनेत्यर्थः । तदुक्तं जैमिनिना औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः इति । वक्ष्यति चाचार्यः नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्ध्यत इति ।
ननु यदि शब्दस्य स्वाभाविक वाच्यविषया शक्तिस्तदा व्युत्पन्नवदव्युत्पन्नोऽपि शब्दादर्थं प्रतीयात् । न ह्यग्निरविदितशक्तिर्न दहतीति । मैवम् । यथा प्रत्यक्षस्य चक्षुरादेः स्वाभाविक्यां रूपप्रतीतिजननशक्तौ सत्यामप्यागन्तुकसन्निकर्षापेक्षया रूपप्रत्यायकत्वम्, यथा च लिङ्गस्य सत्यपि स्वाभाविके साध्यसंबन्धे तदनुसन्धानापेक्षयैव गमकत्वम् एवं शब्दस्यापि सत्यप्यर्थेन स्वाभाविके संबन्धे विदितसंबन्धस्यैव बोधकत्वं नान्यथेति नियमात् ॥ तदेतदप्याह प्रत्यक्षवच्चेति ।
अथापि स्यात् । स्वाभाविकोऽपि संबन्धः, किं सर्वेषां शब्दानां सर्वैरर्थैरुत कस्यचिच्छब्दस्य केनचिदर्थेन । नाद्यः शब्दार्थव्यवस्थाऽनुपपत्तिप्रसङ्गात् । न द्वितीयः ऋष्यार्यम्लेञ्च्छानामनियमाभावप्रसङ्गात् । तथा हि । यवशब्दमार्या दीर्घशूके प्रयुञ्जते, यवशब्दाद्दीर्घशूकमेव प्रतिपद्यन्ते । म्लेञ्च्छास्तु प्रियङ्गौ प्रयुञ्जते, प्रियङ्गुमेव प्रतिपद्यन्ते । त्रिवृच्छब्दमार्या लताविशेषे प्रयुञ्जते, ऋषयोऽन्यत्रेत्येवमादिरनियमः स्वाभाविक्यां शब्दशक्तौ न स्यात् न हि प्रदीपो रूपप्रकाशनशक्त रसमपि कदाचित्प्रकाशयति । साङ्केतिकत्वे त्वनियमो युज्यते, पुरुषेच्छाधीनत्वात् तस्याश्चानियतत्वात् चेष्टासङ्केतवदिति ॥ अत्रोच्यते ।
न वयं क्वचिदपि शब्दस्य सङ्केताद् बोधकत्वं नास्तीति ब्रूमः; किन्त्वर्थविशेषे स्वाभाविक च शक्तिरस्तीति । तथा च स्वाभाविक्या शक्त्या क्वचिद्बोधः क्वचित् सङ्केतादित्यनियमो युज्यते । अथवोभयत्र स्वाभाविक शक्तिरस्तु; व्युत्पत्तिवशाद्व्यवहारनियमसंभवात् । यथा खलु शुक्तिसन्निकृष्टेन चक्षुषा कश्चिच्छुक्तिकां प्रतिपद्यते कश्चिद्रजतम् । न चैतावता चक्षुषोऽर्थप्रत्यायकत्वमस्वाभाविकं दोषसहकारिसदसद्भावाभ्यामनियमसंभवात् । यथा कृतकत्वाल्लिङ्गात् कश्चिदनित्यतां प्रत्येति, कश्चिन्नित्यताम् । अन्यथा विरुद्धहेत्वाभासानवसरप्रसङ्गात् । तावता न तस्यास्वाभाविकं गमकत्वम्; अनियमस्य संबन्धग्रहणदोषभावाभावाभ्यामुपपन्नत्वात् । तथा शब्दस्यापि शक्त्यनुसार्यननुसारिव्युत्पत्तिलक्षणसहकारिवशादनियमेऽपि स्वाभाविकशक्तिसद्भावः संभवतीति ॥
तदिदमाह प्रत्यक्षवच्चेति ।
इयांस्तु विशेषः । शब्दस्सङ्केतादपि प्रमापकः । नैवं चक्षुरादि । तेन संवादविसंवादोपपत्तिरिति ।
ननु ये स्वाभाविकं संबन्धमास्थिषत शब्दार्थयोस्तेषामपि नैष सत्तामात्रेणावगमाङ्गम् । अपि तु विज्ञातस्सन् । विज्ञाने च अस्यायमर्थस्य वाचक इति वा अस्मादयं बोद्धव्य इति वा सङ्केत एवोपायः । वृद्धव्यवहारोऽपि गवादिशब्दानां देवदत्तादिशब्दवत्सङ्केतपूर्वक एव । तद्वरमस्तु सङ्केत एव । कृतमत्र स्वाभाविकेन संबन्धेन । तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेः ।
नन्वयं सङ्केत एव केषाञ्चिच्छब्दानामसति स्वाभाविकार्थसंबन्धे न शक्यः कर्तुम् । निर्दिश्य ह्यर्थं ब्रूयात् अयमस्माद् बोद्धव्य इति । न च निर्देशोऽसति स्वाभाविके संबन्धे केषाञ्चिच्छब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषां शब्दानामकृतसमयत्वात्किं केन निर्दिशेत् । तस्मात्सङ्केतकरणमेव स्वाभाविकसंबन्धं प्रतिपादयति शब्दानाम् ॥
मैवम् ॥ सर्गादिभुवां महर्षिदेवतानां परमेश्वरानुग्रहाद्धर्मज्ञानवैराग्यैश्वर्यसंपन्नानां परमेश्वरस्य तावत्सुकर एव सङ्केतः कर्तुम् । तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः । तथा हि । वृद्धवचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिहर्षशोकभयादिप्रतिपत्तेस्तद्धेतुं प्रत्ययमनुमिमीते बालस्तस्य सत्स्वप्यन्येष्वभूतस्य वाक्यश्रवणसमनन्तरं भवतो वाक्यश्रवणहेतुतामवगच्छति । तदवयवानां च पदानामावापोद्धारभेदेन तत्तदर्थप्रत्ययजननोपायत्वदर्शनात् । तेषु तेष्वर्थेषु तेषां पदानां वाचकत्वं च कल्पयति । एवं पदावयवेषु प्रकृत्यादिष्वपि द्रष्टव्यम् । स्वाभाविकं शक्तिमभ्युपगच्छताऽप्येषा प्रक्रिया अनुसरणीया । साऽपि न सत्तामात्रेणावगमाङ्गमित्युक्तम् ।
स्यादेतत् । यदि शब्दानां साङ्केतिकः संबन्धो न स्वाभाविकः; कृतं तर्हि साध्वसाधुविभागपरेण व्याकरणेन । स्वाभाविकं हि यस्य वाचकत्वं स शब्दः साधुरसाधुश्चेतरः । सामयिकत्वे तु सर्व एव साधवोऽसाधवो वा स्युः । मैवम् । परमेश्वरसमयपरिपालनार्थत्वात् । तथा च येषां पदानां येष्वर्थेषु परमेश्वरेण कृतः समयस्तानि तत्र साधूनि; असाधूनि चेतरत्रेति विभागाय व्याकरणमर्थवदिति ।
अत्र ब्रूमः ॥ परस्यापि मते किमीश्वरसङ्केत एवावगमाङ्गम् उतास्मदादीनामपि ॥ आद्ये कथमृष्यार्यम्लेञ्च्छानामनियताः प्रयोगप्रत्ययव्यवहाराः । किञ्चेश्वरसङ्केतोऽपि गृहीत एवावगमाङ्गं न स्वरूपेण । व्युत्पन्नवदव्युत्पन्नस्यापि प्रतिपत्तिप्रसङ्गात् । तहश्च त्वदुक्तरीत्योपदेशादिनैव । तथा चास्त्वस्मदाद्युपदेश एव । किमदृष्टेश्वरसङ्केतकल्पनयेति समानम् । अस्मदादिभिरपि पूर्वतनस्सङ्केतो ज्ञाप्यत एव न तु क्रियत इति चेत् । तर्ह्यस्मन्मतेऽपि वृद्धेन स्वाभाविक शक्तिर्ज्ञाप्यत एव । न त्वपूर्वसङ्केतः क्रियत इति तुल्यम् ॥ द्वितीये तु व्याकरणादिवैयर्थ्यम् । व्यवहारमात्रं हि शब्दप्रयोजनम् । तच्चेश्वरानीश्वरसङ्केतयोः समानम् । अदृष्टार्थमिति चेन्न प्रमाणाभावात् । श्रुत्यादेः सङ्केतशक्तिपक्षोदासीनत्वात् । किञ्च चरमभाविनं सहकारिणमुपदेशादिकमुपादाय शक्तिप्रत्याख्याने अतिप्रसङ्गः ।
अथौत्पत्तिकशक्तिसद्भावे किं प्रमाणम् । अर्थावबोधस्य स्वरूपसहकारिभ्यां शब्दसङ्केताभ्यामेवोपपत्तेरिति ॥ उच्यते । किं स्वरूपसहकारिव्यतिरिक्तातीन्द्रिया शक्तिः क्वापि नाङ्गीक्रियते, उत शब्द एव ॥ आद्ये वक्ष्यामः । द्वितीये चाधुनातनास्तावन्न सङ्केतयितार इति तवापि संमतम् । न च लोकोत्तरे सङ्केतयितरि प्रमाणमस्ति । तथा च स्वभाव एवायं शब्दानामिति गम्यते ॥ गवादिशब्दाः साङ्केतिकाः शब्दत्वाद्देवदत्तादिशब्दवदिति चेत् । किमत्र साङ्केतिकत्वमात्रं साध्यम्, उत सास्नादिमत्यर्थे । आद्ये सिद्धसाधनम् । गुप्तभाषणादौ मया गोशब्दस्य घटेऽपि सङ्केतितत्वात् । द्वितीये व्यभिचारः । न हि सर्वेऽपि शब्दाः सास्नादिमति पिण्डे सङ्केतिता इत्यत्र प्रमाणमस्ति । गोशब्दः सास्नादिमत्यर्थे सङ्केतितः तत्र प्रयुज्यमानशब्दत्वात् गाव्यादिशब्दवदिति चेन्न असाधुशब्दत्वस्योपाधित्वात् । साधनावच्छिन्नसाध्यव्यापकत्वेनाप्युपाधित्वस्य वक्ष्यमाणत्वात् । अन्यथाऽस्मदादिविशेषणप्रक्षेपोऽपि प्रतिज्ञायां प्रसज्येतेति ।तदेवं शब्दस्यार्थसंबन्धसंभवान्नाप्रामाण्यम् ।
यत्पुनरुक्तम् आप्तानाप्तप्रयुक्तयोरि त्यादि । तदप्यसारम् । प्रत्यक्षवदेवोपपत्तेः । चक्षुरादिप्रत्यक्षं हि क्वचिद्यथार्थज्ञानं क्वचिदयथार्थज्ञानं जनयदपि प्रमाणमङ्गीक्रियत एव । दोषसदसद्भावाभ्यां तत्र भेद इति चेत्; तर्ह्यत्राप्यनाप्तवक्तृसदसद्भावाभ्यां भेदो भविष्यति । वक्ता वाक्योच्चारण एवोपयुज्यत इति चेन्न । यतस्तदेवाविषये प्रयुञ्जानो दुष्टं करोति निशातमसिमाकाशे प्रयुञ्जान इव । अन्यथाऽनुमानमप्यप्रमाणं स्यात् । कृतकत्वं हि शब्दानित्यत्वसाधने साधु, असाधु चाग्न्यवयविनोऽनुष्णत्वसाधने । तत् कस्माद्विशेषात् । व्याप्तिपक्षधर्मताभावाभावाभ्यामिति चेन्न कालातीतत्वस्य पृथग्दूषणताया वक्ष्यमाणत्वात् । अतः अविषयवृत्तित्वतदभावरूप एव विशेषो वक्तव्यः । स च समानः शब्देऽपीति । तदिदमुक्तं प्रत्यक्षवच्चेति ।
एतद्दोषभयात्केचित् शब्दस्यानुमानेऽन्तर्भावमिच्छन्ति । अपरे पुनरपौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य वेदस्य शब्दतयैव प्रामाण्यम्; पुरुषवचसां त्वनुमानतयेत्यातिष्ठन्ते ॥ तदुभयमप्य(त एवा)युक्तम् । किन्तु प्रत्यक्षवत् अनुमानवत् च शब्दमात्रस्यापि प्रामाण्यं स्वतः स्वेन एव रूपेण न त्वनुमानत्वेन । अत एव श्रुतेः प्रकृतत्वेऽपि सर्वशब्दपरिग्रहाय आगमस्य इत्युक्तम् । हि शब्दस्तत्र प्रमाणप्रसिदि्धद्योतकः । तच्चोत्तरत्र वक्ष्यामः ।
ननु तथाऽपि वेदस्य प्रामाण्यं नोपपद्यते । अनृतव्याघातपुनरुक्तदोषात् ॥ तथा हि ॥ अनृतमप्रमाणं दृष्टम् । यथा विप्रलम्भकवाक्यम् । अनृतश्च वेदः पुत्रकामेष्ट्यनुष्ठानेऽपि फलानुपलब्धेः ॥ व्याहतं चाप्रमाणम् । यथोन्मत्तवाक्यम् । व्याहतश्चायम् अतिरात्रे षोलशिनं गृह्णाति , नातिरात्रे षोलशिनं गृह्णाति ; उदिते जुहोति , अनुदिते जुहोती त्यादि ॥ पुनरुक्तं चाप्रमाणम् । पुनरुक्तिश्च वेदे त्रिः प्रथमामन्वाहे त्यादिदर्शनादिति ॥ तदिदमपि अयुक्तम् ।
तथा हि । किं वेदमात्रं पक्षीकृत्यैतैर्हेतुभिरप्रामाण्यं साध्यते उत तदेकदेशम् । नाद्यः । यथा कस्यचित्प्रत्यक्षस्यानुमानस्य वाऽनृतत्वादौ सत्यप्यन्यस्य प्रामाण्यमेवं वेदस्यानृतादिभागपरिहारेण प्रामाण्योपपत्तेः । अन्यथा हेतूनां भागासिदि्धप्रसङ्गात् । द्वितीये त्वास्तां विप्रतिपन्नो वेदभागः । संप्रतिपन्नवेदभागमीमांसा कथमनुपपन्ना ॥ अथ वेदत्वात् तस्यापि वेदभागस्याप्रामाण्यं साधयामीति मन्यसे । तन्न । यथा हि कस्यचित्प्रत्यक्षस्यानुमानस्य वाऽप्रामाण्येऽप्यन्यस्य प्रामाण्यं न प्रत्यक्षत्वादिमात्रेण विहन्यते; तथा वेदस्यापि । अन्यथा सर्वप्रत्यक्षानुमानविलयप्रसङ्गः ।
किञ्चेदमनृतत्वम् । अर्थव्यभिचारित्वमिति चेत् । नन्विदमेवाप्रामाण्यमिति साध्याविशिष्टता । न चानृतत्वमेकदेशेऽपीति सूत्रकार एव वक्ष्यति ।
व्याघातेन चाप्रामाण्यं साधयन् किं वाक्यद्वयं पक्षीकुर्यादुतैकमेव । नाद्यः । व्याहतयोः प्रत्यक्षयोरनुमानयोर्वा मध्येऽन्यतरप्रामाण्यसंभववद्वाक्ययोरप्यन्यतरप्रामाण्यसंभवात् । न द्वितीयः अनिश्चितदशायामन्यतरप्रत्यक्षादिवत्पक्षीकृतस्यापि प्रामाण्यसंभवात् ॥ अपि च व्याघातोऽप्यापाततः सर्वथा वा । नाद्यः आपाततो व्याघातवतोऽपि प्रत्यक्षादेरिव वेदस्यापि प्रामाण्यसंभवात् । न द्वितीयः प्रत्यक्षादाविवासिद्धेः । यथा चासिदि्धस्तथा सूत्रकृदेव वक्ष्यति ।
पौनरुक्त्येऽपि प्रत्यक्षादिवद्वेदप्रामाण्यं संभवति । न ह्येकस्मिन्नर्थे संप्लवमानं प्रत्यक्षमनुमानं वाऽप्रमाणं भवति । अर्थवैपरीत्ये हि तत्स्यात् । न हि प्रत्यक्षेण गृहीतो घटः पुनर्गृह्यमाणः पटो भवति । नापि कृतकत्वेनानित्यतयाऽनुमितः शब्दस्तीव्रत्वादिधर्मोपेतत्वेन पुनस्तथाऽनुमीयमानो नित्यो भवति । तथा शब्देऽपि वैयर्थ्यं तु कथञ्चिच्छङ्क्येत । तच्चाभ्यासानुवादादिरूपेण व्याकुर्वदि्भरेव वृद्धैः परिहृतमिति ।
नन्वस्त्वेवं वेदस्याप्रामाण्यपरिहारः । प्रामाण्यं तु कुतः । न ह्यप्रामाण्यप्रतिक्षेप एव प्रामाण्यम् । घटादावभावादिति । ज्ञानकरणस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूमः । तदिदमुक्तम् आगमस्येति । आगम्यतेऽवगम्यतेऽनेनेत्यागमः ।
ये हि न्यायविदः प्रत्यक्षविशेषस्यानुमानस्य च प्रामाण्यं स्वत एवेत्यङ्गीकृत्य आगमप्रामाण्यस्वतस्त्वं नाङ्गीकुर्वन्ति तान्प्रति प्रत्यक्षवच्चेति दृष्टान्तोपादानम् । हि शब्दः प्रमाणत्वहेतुसूचकः ॥
ये तु प्रमाणमात्रस्य प्रामाण्यं स्वतो नेति मन्यमाना आगमप्रामाण्यस्वतस्त्वे विप्रतिपद्यन्ते तान्प्रति प्रत्यक्षवच्चेति प्रत्यक्षानुमानयोरपि प्रसङ्गात्स्वीकारार्थमुक्तमिति ज्ञातव्यम् ।
ननु किमिदं प्रमाणानां प्रामाण्यस्य स्वतस्त्वम् ॥ उच्यते ॥ प्रत्यक्षानुमानागमास्तज्जनितं विज्ञानं च प्रमाणम् ॥ तत्र ज्ञानस्य यद्याथार्थ्यलक्षणं प्रामाण्यं तस्य ज्ञानजनक(सामग्री)मात्राधीनजन्मत्वं स्वतस्त्वम् । करणानां च ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्वम् ॥ तथा ज्ञानगतयाथार्थ्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वम् । करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियते; तत्स्वरूपस्य यथायथं प्रत्यक्षादिवेद्यत्वात्, यथार्थज्ञानजनकत्वस्यानुमानवेद्यत्वात् । अथवा तेषामपि ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति ।
उत्पत्तौ स्वतस्त्वं कुत इति चेत् । प्रामाण्यं ज्ञानकारणातिरिक्तकारणानपेक्षम् अप्रामाण्येतरज्ञानधर्मत्वात् ज्ञानत्ववदित्यनुमानात् ॥ न च प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावदिति सत्प्रतिपक्षत्वम्; ईश्वरप्रमायां बाधादसिद्धेश्च ॥ तदतिरिक्तप्रमापक्षीकारेऽपि किं ज्ञानस्यैवंविधत्वेनोत प्रमात्वस्य अथवा तत्संबन्धस्य साध्यपर्यवसानम् ॥ नाद्यः व्याघातात् ॥ द्वितीये च प्रमात्वं जातिरन्यद्वा । जातित्वे बाधः । अकार्यत्वात् । अन्यत्वे भावोऽभावो वा । नाद्यः ज्ञाने जात्यतिरिक्तभावानभ्युपगमात् । न द्वितीयः । प्रध्वंसातिरिक्तस्य तस्याजन्यत्वात्, प्रध्वंसस्य चात्रासंभवात् ॥ नान्त्यः । संयोगस्य गुणेऽसंभवात्, समवायस्य चाकार्यत्वात् ॥
एतेन प्रमात्वपक्षीकारेणापि प्रयोगो निरस्तः ।
अस्तु जातिः प्रमात्वम् । तथाऽपि ज्ञानकारणातिरिक्तकारणजन्यैव व्यक्तिः प्रमात्वाधार इति तात्पर्यमिति चेन्न । साऽपि व्यक्तिः किं ज्ञानमेवोत सातिशयम् । अतिशयोऽपि भावोऽभावो वेति पक्षाबहिर्भावात् ॥ किञ्चातिरिक्तं कारणं गुण एव वक्तव्यः । स चाप्तोक्तत्वमेव शब्दे । न च तस्यान्वयव्यतिरेकौ प्रामाण्यमनुकरोति । वेदापौरुषेयत्वस्य वक्ष्यमाणत्वात् ।
ज्ञप्तौ स्वतस्त्वेऽपि प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यमप्रामाण्येतरज्ञानसमवेतधर्मत्वात् ज्ञानत्ववत् ॥ न च प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वादप्रामाण्यवदिति वाच्यम्; व्यर्थविशेषणत्वात् । असिदि्धपरिहारार्थमिति चेन्न तथाऽनभ्युपगमात् । यथोक्तं स्वयमेव एकामसिदि्धं परिहरतो द्वितीया आपन्नेति । अन्यथा शरीराजन्यत्वहेतोरपि विशेषणवैयर्थ्यं नोद्भाव्येत ॥ अथानभ्यासदशायामिति प्रतिज्ञाविशेषणम् । तथाऽपि स्वतःप्रमाणतया त्वदभ्युपगतधर्मिप्रत्यक्षानुमानोपमानेष्वपि संशयादिदर्शनेन अनैकान्त्यमिति ।
ज्ञप्तौ स्वतस्त्वानभ्युपगमे बाधकमाह अनवस्थेति ।
अवश्यवेद्यत्वानभ्युपगमान्नानवस्थेति चेत् । निःशङ्कप्रवृत्ताववश्यवेद्यत्वात् । तथा हि । ज्ञानं तावदबुभुत्सितग्राह्यतया तीव्रसंवेदनम् । ज्ञाते च तस्मिन् प्रामाण्याप्रामाण्यानुपलब्धौ कथं संशयो न स्यात् । सति च प्रामाण्यसंशये अर्थसंशयोऽपि कथं न स्यात् , तथा च कथं निःशङ्का प्रवृत्तिः स्यात् ॥ तथाऽप्यनुमानात्प्रामाण्यग्रहणमनुमितेश्च स्वतः प्रामाण्यमिति कथमनवस्थेति चेन्न । धर्मिलिङ्गदृष्टान्तद्वारिकायास्तस्या अनिवारणात् । किञ्चानुमितिप्रामाण्यं येन ज्ञानेन विषयीक्रियते । तस्यापि प्रामाण्यमन्येनेति कथं नानवस्था ।
ननु स्वतःप्रामाण्येऽपि कथं नानवस्था । इत्थम् । साक्षी खलु वृत्तिज्ञानग्राहकः । स एव च तत्प्रामाण्यं गृह्णातीति तेषां स्वतःप्रामाण्यम् । स च स्वप्रकाशः स्वप्रामाण्यमपि गृह्णातीति तस्य स्वतःप्रामाण्यम् । तस्य यथार्थत्वनियमान्नाहार्यसंशयविषयत्वमपीति ।
ननु यदि प्रामाण्यमुत्पत्तौ ज्ञप्तौ च स्वतः स्यात् तर्हि बौद्धादिवाक्यजनितमपि ज्ञानं प्रमाणं स्यात् ।अस्ति हि तत्र ज्ञानहेतुः, अन्यथा ज्ञानमपि न स्यात् । तथा प्रमाणतया ज्ञायेत ज्ञानग्राहकसद्भावात् । अस्तु तदपि प्रमाणमिति चेत्; तस्य वेदविरोधित्वात् । वेदविरोधिनः प्रामाण्ये पुनर्वेदप्रामाण्यं न स्यात्, वस्तुनो द्वैरूप्यं वाऽऽपद्येतेति सर्वथा मीमांसाऽनुपपत्तिरित्यत आह अप्रामाण्यमिति ।
तथा शब्दः समुच्चये । नायं नियमो यज्ज्ञानकरणमिन्द्रियं लिङ्गं शब्दो वा प्रामाण्यमेवोत्पादयतीति । किं नाम इन्द्रियादीनामौत्सर्गिक शक्तिः प्रामाण्यजनने; दोषापवादादप्रामाण्यमपि जनयत्येव । दोषाणां सहजशक्तिप्रतिबन्धेन विपरीतकार्यजननसामग्रीनिवेशात् । तर्हि दोषाभावः प्रामाण्यस्य कारणमित्यायातमिति चेन्न; तथा सत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात् ॥ तथा न ज्ञानग्राहकस्य साक्षिणोऽयं नियमः यत्प्रमाणतयैव गृह्णातीति, किन्तु प्रवृत्त्यसामर्थ्यादिना अपवादकस्य सद्भावेऽप्रामाण्यमपि गृह्णात्येव; औत्सर्गिकत्वात्प्रामाण्यस्वतस्त्वस्येति ।
किमतो यद्येवमित्यत आह मिथ्याज्ञप्तीति ।
यत एवमप्रामाण्यं परतः तेन कारणेन, मिथ्याज्ञानविप्रलम्भ •पटुकरणत्वलक्षणादपवादात् वेदविरोधि यत् ज्ञानं तत् अप्रमाणमेवोत्पद्यते न प्रमाणम् । बाधकप्रत्ययाच्चापवादादप्रमाणमेव गृह्यत इति नोक्तदोषः ।
ननु मिथ्याज्ञानादिमूलत्वं तेषां कुतः कल्प्यते । वेदविरोधित्वादित्युक्तम् । वस्तुनो द्वैरूप्यासंभवात् । पौरुषेयेषु तत्संभवाच्च । अथ वेदस्यैव तत्कुतो न कल्प्यमिति चेत्, वेदस्यापौरुषेयत्वेन पुरुषदोषमूलत्वासंभवादित्याह अपीति ।
अथवा कुतोऽप्रामाण्यस्य दोषकारणत्वम् । अन्वयव्यतिरेकाभ्यामिति चेत् । हन्त तर्हि गुणान्वयव्यतिरेकित्वात्प्रामाण्यमपि तज्जन्यं स्यात् । न । वेदस्यापौरुषेयत्वेन तदभावादित्याह अपि वेदानामिति ॥ अपिः समुच्चये । प्रामाण्यं नित्यताऽपीति । हिशब्देन वाचा विरूपनित्ययेत्यादिश्रुतिप्रसिदि्धं द्योतयति ॥ अत्र नित्यताशब्देनापौरुषेयता विवक्षिता । नित्यताया बौद्धागमेष्वपि सत्त्वात् । यस्मान्नित्यता अङ्गीकार्या तस्मान्नोक्तदोष इति वा ।
ननु कोऽयं वेदः; किञ्च तस्यापौरुषेयत्वम् । क्रमविशेषविशिष्टवर्णा वेदः तस्य नियतैकप्रकारत्वं अपौरुषेयत्वम् । स्वतन्त्रपुरुषपूर्वकत्वाभाव इति यावत् ।
अत्रोपपत्तिमाह न हीति ।
क्वचिदिति निमित्तसप्तमी; केनापि प्रमाणेन इत्यर्थः । उत्तरवाक्योपक्रमे वा ॥ अस्ति तावद्धर्माधर्मस्वर्गनरकादिकं सर्ववादिसंप्रतिपन्नम् । यस्तु तन्नाङ्गीकरोति चार्वाकस्तं प्रत्युपपादयिष्यमाणत्वात् । तच्च प्रमाणोपेतं वस्तुत्वाद्धटवत् । न हि विना प्रमाणेन धर्मादिसिदि्धविनिश्चयः सर्ववादिनां भवितुमर्हति, अतिप्रसङ्गात् ।
तदेवं सामान्यतःसिद्धं प्रमाणं न तावत्प्रत्यक्षम् । तदि्ध बाह्यं मानसं वा स्यात् । न तावद्बाह्यम्, तस्य रूपादिमति द्रव्ये तत्समवेतगुणकर्मसामान्येष्वेव प्रवर्तमानत्वात् । नापि मानसम्, सुखादिवद्धर्मादावनुभवाननुव्यवसायात्; अन्यथा सुखमनुभवामीतिवद्धर्ममनुभवामीति स्यात् । स्वर्गादीनां तु विप्रकृष्टत्वान्न प्रत्यक्षगोचरता । न च योगादिसिद्धानां प्रत्यक्षमस्मदतीन्द्रियार्थविषयमिति वाच्यम्, तेन तेषां कथञ्चिद्धर्मादिसिद्धावप्यस्माकं तन्निश्चयोपायाभावात् । न ह्यन्यप्रत्यक्षेणान्यस्य निश्चयोऽनुष्ठानं वा संभवति ॥ नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । सामान्यतो दृष्टेन कथञ्चित्तत्स्वरूपमात्रसिद्धावपि साधनफलसंबन्धरूपस्तद्विशेषोऽनुष्ठानयोग्यो नानुमातुं शक्यः । न हीदृशयज्ञदानादिभिरुपजनितो धर्मः फलमीदृशं जनयतीत्यादयः सूक्ष्मतरा विशेषास्सर्ववादिभिरनुष्ठीयमानाः शक्यानुमानाः ॥ वाक्यमपि न पौरुषेयं धर्मादिनिश्चयाय प्रभवति । पुरुषाणामज्ञानसंशयविप्रलंभापटुकरणत्वस्य बहुलमुपलम्भेन धर्माद्युपदेष्टर्याश्वासानुपपत्तेः ।
तदेवमपौरुषेयवाक्यं विना धर्मादिनिश्चयासंभवात् सामान्यसिदि्धपरिशेषाभ्यामपौरुषेयं किमपि वाक्यं धर्मादिप्रतिपादकमस्तीति सर्ववादिभिरभ्युपेयमिति ।
स्यादेतदेवम्; यदि धर्मादिकं पुरुषवचसा न निश्चेतुं शक्येत । शक्यते तु बुद्धर्षभजिनकपिलपशुपतिप्रभृतिप्रणीतागमादवधारयितुम् । न च तेष्वनाश्वासकारणमस्ति । परमाप्तत्वेन विप्रलम्भादिशङ्काऽविषयत्वादित्यत आह अविप्रलम्भ इति ।
अविप्रलम्भो विप्रलम्भाभावः । तज्ज्ञानं धर्मादिप्रमितिः । तत्कृतत्वं तेन पुरुषेण कृतत्वम् । आदि ग्रहणात्करणपाटवं कृपालुत्वमैश्वर्यमित्यादीनां ग्रहणम् । चः यस्मादित्यर्थे । ज्ञापकं निश्चायकम् । धर्मादेरिति शेषः ।
भवेदेवं यदि बुद्धादीनामाप्तत्वं निश्चितं स्यात् । न चैवं प्रमाणाभावात् । वक्तव्यार्थतत्त्वज्ञानं विप्रलम्भाभावो विवक्षा करणपाटवं चेत्येतत्खल्वाप्तत्वं नाम । न चैताः परचित्तवृत्तयोऽस्माकमध्यक्षाः । नापि तत्रानुमानं प्रवर्तते । वाक्यं तु पौरुषेयमुक्तानुपपत्तिग्रस्तम् । अपौरुषेयं तु नाङ्गीक्रियते । अतः केवलमविप्रलम्भादयः क्वचित्पुंसि कल्प्या एव । न चाप्तत्वकल्पनामात्रेणास्य विवक्षितवाक्यस्य तत्प्रणीतत्वं सिध्यति । अतः क्वचिद्वाक्ये तत्प्रणीतत्वमपि कल्प्यमेव ।
यस्मादेवं तत् तस्मात् कल्पनागौरवदोषेण पुरुषवाक्यं न धर्मादिनिश्चायकम् । न हि लोके विना प्रमाणेन कस्यचित्पुरुषस्याप्तत्वं प्रकल्प्य कस्यचिद्वाक्यस्य तत्प्रणीततां च कल्पयित्वा तदर्थनि(र्ण)श्चयं कुर्वन्तः प्रेक्षावन्तो दृश्यन्ते; किन्तु प्रमाणतः प्रामाण्यं निश्चित्यैव ।
यद्यपि क्वचिदल्पायाससाध्ये विपक्षेऽनर्थातिशयहीनेऽपि कर्मणि वाक्यप्रामाण्यमनिश्चित्यापि प्रेक्षावतामस्ति प्रवृत्तिः, तथाऽपि महायाससकलवित्तव्ययादिसाध्येऽर्थे न प्रामाण्यानिश्चयेन कल्पनया वा प्रवृत्तिरिति ।
ननु च धर्मादिकं कस्यचित्प्रत्यक्षं वस्तुत्वाद् घटवदिति सामान्यतस्तावद्धर्मादिद्रष्टा सिद्धः । स च नास्मदादिस्संभवति, अस्मदादीनां धर्मादिदर्शनस्य बाधितत्वात् । न चार्हतादयस्तथा, तेषां तत्र तत्र स्खलद्वचनत्वेन तदनुपपत्तेः । तस्मात्परिशेषतो भगवान् बुद्ध एव धर्मादिसाक्षात्कारवानवसीयते । धर्मादिसाक्षात्कारवतश्च तस्य न रागद्वेषादिदोषास्संभवन्ति, अज्ञानमूलत्वात्तेषाम् । रागादिदोषरहितस्य न विप्रलम्भसंभवः, तस्य तत्कार्यत्वात् । न ह्येवमेव कश्चित्कञ्चिद्विप्रलब्धुमिच्छति । न चैवंभूत आत्मीयहिताहितप्राप्तिपरिहारसाधनमविदुषो नानाविधव्यसनसागरे निमग्नान् जन्तूनवलोकयन्ननुपदिश्य स्थातुमर्हति । न चैवंभूतस्य महानुभावस्य करणानामपाटवं संभावयितुमपि शक्यम् । यदस्मदादिष्वपि प्रायेणासंभावितम् । अतः सामान्यतस्तदीयधर्माद्युपदेशे सिद्धे प्रसिद्धपरित्यागेनाप्रसिद्धकल्पनानुपपत्तेः बौद्धागम एवासाविति सिध्यति । तथाच तदुक्तप्रकारेण धर्माद्यवगतौ क्वास्ति कल्पनागौरवम् । विवक्षितार्थतत्त्वज्ञानादेः सर्वस्यापि तत्र प्रमितत्वादिति बौद्धाः ॥
एवमार्हतादीनां स्वागमप्रामाण्यप्रसाधनप्रकारो द्रष्टव्यः ।
तदेवं पौरुषेयवचनाद्धर्मादिसिद्धौ परिशेषानुपपत्तेर्नापौरुषेयवाक्यसिदि्धरित्याशङ्क्याह प्रत्यक्ष इति
उक्ताशेषशङ्कासमुच्चयार्थः चशब्दः । उदिते पूर्वपक्षिणा तं प्रति सिद्धान्तिना वक्तव्यमिति शेषः ॥
किं वक्तव्यमित्यत आह न बुद्ध इति ।
अनुमाहतिः परिशेषानुमानस्येति शेषः ।
अयमर्थः । न तावद्धर्मादिः कस्यचित्प्रत्यक्षो वस्तुत्वादित्यनेनैव सामान्यानुमानेन बुद्धस्य धर्मादिदर्शित्वसिदि्धः; किन्तु परिशेषतः । न च परिशेषोऽनुमानादि्भद्यते । तस्य चोक्तानुमानप्रतिहतत्वेन न प्रामाण्यमुपपद्यते । तदनुपपत्तौ च तदुपजीविनोऽविप्रलम्भादिसाधनस्य गर्भस्रावेणैव गतत्वान्न दूषणान्तरमन्वेषणीयमिति पुनः कल्पनागौरवं तदवस्थमिति ।
ननु धर्मादिः कस्यचित्प्रत्यक्षो वस्तुत्वा(द्घटव)दिति सामान्यानुमानं तावददुष्टम् । तस्य च बुद्धे न चेत्पर्यवसानं, तदा किं पुरुषान्तरे तदास्थीयते किंवा न कुत्रापि । नाद्यः पुंस्त्वस्य व्यभिचारप्रसङ्गात् । न द्वितीयः सामान्यसिदि्धव्याघातात् ।
उच्यते ॥ अस्मदादिषु कुतो न सामान्यपर्यवसानमास्थीयत इति वाच्यम् । बाधितत्वादिति चेत्; कथं तर्हि बुद्धेऽपि पर्यवसानम् । ततश्च धर्मादिद्रष्टृत्वं बुद्धतदितरान्यतरवृत्तित्वेन व्याप्तम् व्यापकाभावात्स्वयमपि नास्तीति सिद्धम् ॥
एतेन धर्मादिद्रष्टृत्वं बुद्धनिष्ठमन्यत्र वृत्तौ बाधकोपपन्नत्वे सति क्वचिद्वृत्तिमत्त्वादिति परिशेषानुमानस्याश्रयासिदि्धविशेष्यासिद्धी सूचिते भवतः ।
ननु सामान्यासिदि्धबलात्पुंस्त्वमाभासीकुर्मः किंवा पुंस्त्वबलात्सामान्यसिदि्धर्बाधिता भवत्विति सन्दिह्यते । अस्तु तावत्सन्देहः । तावताऽपि परानुमानस्यानिश्चायकत्वं सिध्यति । विशेषावधारणायां सामान्यानुमानस्य प्रत्यक्षतासामग्रीसद्भावेन सोपाधिकत्वादाभासत्वं युक्तम् । तस्यापि पक्षे साधनेऽस्मदादिप्रत्यक्षत्वस्याप्यापातः । उद्भूतरूपादिरूपत्वात्तस्य । साध्यव्यापकत्वादिनैवोपाधित्वे व्यतिरेकाभावो न दोषाय । सामान्यानुमानदूषणस्यागमबाध इति चेन्न तस्य पौरुषेयस्योक्तविधया प्रामाण्यानिश्चयात् । अपौरुषेयस्य चानङ्गीकृतत्वात् ॥
स्यादेतदेवं यदि बुद्धादीन्पक्षीकृत्यानुमानम् । ईश्वरवादिनं प्रति तु कथम् । ईश्वरो हि तनुभवनादीनां कार्यत्वेन कर्ता सिद्ध्यन् सर्वज्ञ एव सिद्धः । यथा चेश्वरपक्षीकारेण सर्वज्ञतासाधनेऽपि नाश्रयासिदि्धधर्मिग्राहकविरोधौ, तथाऽऽचार्य एव शास्त्रयोनि सूत्रे वक्ष्यति ।
तदेवं धर्मादिसिद्ध्यन्यथाऽनुपपत्त्याऽपौरुषेयं वाक्यं किमपि सर्वैर्वादिभिरभ्युपेयमिति स्थितम् । तच्चापौरुषेयं वाक्यं वेद एव, परिशेषात् । तदतिरिक्तानि हि कर्तृप्रसिदि्धमन्ति । न च धर्मादिव्यवस्थापराणि । न चैवं वेद इति भावः ।
नन्वेवं सति वेदादेव सर्वेषां धर्मादिप्रतिपत्तिरित्यायातम् । सत्यमेवमेतत् । किन्तु धर्मादिस्वरूपे वेदात्प्रतीते तद्विशेषेषु तमतिक्रम्य स्वमतिदोषाद्वादिनां विप्रतिपत्तयः प्रतीयन्त इति ।
ननु वेदस्यापि सकर्तृकत्वमनुमानागमसिद्धम् । तथा हि । वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्कालिदासवाक्यवत् इति । अयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवान्कालत्वात् अन्यकालवत् । आकाशो वेदव्यतिरिक्ताकाशनिष्ठत्वरहितपौरुषेयवान् द्रव्यत्वात् तन्तुवत् । श्रोत्रं वेदव्यतिरिक्तश्रोत्रग्राह्यत्वरहितपौरुषेयग्राहकम् । इन्द्रियत्वात् चक्षुर्वत् । प्रजापतिर्वा इदमेक एवाग्र आसीत् नाहरासीत् न रात्रिरासीत् । स तपोऽतप्यत तस्मात्तपस्तेपानाच्चत्वारो वेदा अजायन्ते ति । तत्कथम् परिशेषाद्वेदस्य अपौरुषेयतासिदि्धरिति ।
मैवम् । अनुमानानां विपक्षे बाधकाभावेनाप्रयोजकत्वात् । पौरुषेयत्वे कर्तुराप्त्यनिश्चयेन ततो धर्माद्यनिश्चयापत्तेरुक्तत्वाच्च ।
ईश्वरः प्रमावान् पुरुषत्वादहमिव; ईश्वरो न विप्रलिप्सावान् ईश्वरत्वात्, न यदेवं न तदेवम्, यथाऽहम्; इति ईश्वरस्याप्तत्वसिदि्धरिति चेन्न । पुरुषत्वेनाप्रमाविप्रलिप्सयोरपि साधनसौलभ्यात् । आश्रयासिद्ध्यादेश्च परिहरिष्यमाणत्वात् ।
किञ्च प्रमावत्त्वमात्रसाधने सिद्धसाधनं तावताऽऽप्तत्वासिद्धेः । न ह्यनाप्तः कदाचित् प्रमावान्न भवति ॥ अप्रमात्वव्युदाससाधने दृष्टान्तस्य साध्यविकलता हेतोरनैकान्त्यं च ॥ ईश्वरत्वहेतुश्च सपक्षादपि घटादेर्व्यावृत्तेरसाधारणः, पूर्ववत्सिद्धसाधनश्च ॥ यथार्थचिख्यापयिषानियतिसाधने च बुद्धर्षभादीश्वरावतारेष्वपि विप्रलिप्सादर्शनाद् बाधः ॥ अशरीरत्वेन सत्प्रतिपक्षतां च सूत्रकार एव वक्ष्यति ।
किञ्चाप्तत्वेऽपीश्वरस्य वेदाः तत्प्रणीता इत्यत्र न प्रमाणम् ॥
ननु वेद ईश्वरप्रणीतः वेदत्वाद् व्यतिरेकेण गगनवदिति चेन्न एवमनीश्वरप्रणीतत्वस्यापि शक्यसाधनत्वात्, स्मृतीतिहासपुराणेभ्यः सपक्षेभ्योऽपि व्यावृत्तत्वेन असाधारणत्वाच्च । तेषामपि पक्षत्वे भागासिद्धेः । वेदादित्वस्य एकरूपस्याभावेन हेतूकर्तुमशक्यत्वात् । अतीन्द्रियविषयवाक्यत्वं हेतुरस्त्विति चेन्न जिनादिवाक्येषु व्यभिचारात् । तान्यपि पक्षतुल्यानीति चेत् तथात्वे व्यर्थविशेषणत्वात् । वाक्यत्वमात्रं हेतुरस्त्विति चेन्न ईश्वरप्रणीतशब्देन तदाप्तिपूर्वकतासाधने बौद्धादिवाक्ये व्यभिचारात् । ईश्वरनिमित्ततामात्रसाधने तु प्रामाण्यासिदि्धरिति ।
किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशति तमेवान्यस्मा उपदिशति, उत वेदान्तरं निर्मायेति वक्तव्यम् ॥ तमेवेति चेत् । कुतोऽयं भवतो निर्णयः । प्रथमरचितस्य अविस्मरणाद् वृथा वेदान्तरकल्पकाभावाच्चेति चेत् । तत्किं पूर्वकल्पे रचितं वेदं व्यस्मार्षीदीश्वरो येनात्र पुना रचयतीति कल्प्यते । एवं पूर्वतरपूर्वतमादिकल्पेष्वपीत्यनादितैव ज्यायसी । एवं तर्हि पुराणादीनामप्यपौरुषेयता स्यादिति चेत् । स्याद्यदि तेषामविगानं सकर्तृकत्वे प्रमाणं न स्यात् । प्राक्तनेषु पुराणादिषु प्रतीतिपरिवर्तिषु किमर्थं पुना रचनमिति चेन्न । ईश्वरप्रवृत्तेः स्वप्रयोजनाभावस्य वक्ष्यमाणत्वात् । परप्रयोजनानि तु सूक्ष्माण्युत्प्रेक्षितुं न वयं स्थूलदृश्वानः प्रभवामः । किं नाम प्रमितं कार्यमनुसृत्य प्रयोजनसद्भावमात्रं संभावयामः । अन्यथा कण्टकशौक्ल्याद्यपलापप्रसङ्ग इति ।
विशिष्टव्यतिरेकिणश्च पौरुषेयपदस्थानेऽपौरुषेयपदप्रक्षेपेण सत्प्रतिपक्षाः । कालपदेन च काल एवाभिधीयते तदुपाधयो वा । आद्येऽयमित्यन्यकालवदिति चायुक्तम् । द्वितीये कालोपाधिना वेदस्य संबन्धानिरूपणाद् बाधितविषयत्वम् ॥ आकाशनिष्ठत्वं चाकाशसमवेतत्वं तत्संयुक्तत्वं वा । आद्ये वेदव्यतिरिक्तेन आकाशसमवेतत्वरहितेन तन्त्वादिना अर्थान्तरता, संयोगवृत्त्याकाशस्य तद्वत्तोपपत्तेः । द्वितीये त्वाकाशसमवेतैस्संयोगविभागद्वित्वादिभिरर्थान्तरत्वम् । आकाशनिष्ठत्वं तद्वत्त्वं च समवाय एवेति चेन्न अप्रसिद्धविशेषणत्वात्पक्षस्य । अस्माभिस्समवायानङ्गीकारात् । दृष्टान्तस्य साध्यवैकल्याच्च ॥
किञ्च वर्णास्तावन्नित्यद्रव्यत्वान्न क्वचित्समवेताः । क्रमस्तु वर्णधर्म इति बाधितविषयता च ॥ श्रुतिस्तु सत्प्रतिपक्षा न निश्चयाय भवति । किञ्च ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यादि त्यनीश्वररचितत्वमपि श्रावयन्त्याः कथमस्या न सत्प्रतिपक्षता । संप्रदायप्रवर्तकत्वेनेयं सावकाशेति चेत् । तर्हि द्वे अपि न्यायोपेतनित्यत्वश्रुत्यनुरोधेन तथा किं न स्यातामिति ।
ननु वर्णा एव तावदनित्यास्तत्कुतस्तदात्मकस्य वेदस्य नित्यत्वमिति । मैवम् । न हि वयं वेदं कूटस्थनित्यं ब्रूमः किन्तु नियतैकप्रकारम् । तत्र को वर्णनित्यत्वस्योपयोगः । वस्तुतत्वविचारकं प्रति तु वर्णानां कूटस्थनित्यत्वं भगवत्पादैरेवान्यत्रोपपादितमित्यास्तां विस्तरः
अत्राह कश्चित् वेदः संस्कृतोऽसंस्कृतो वा बोधकः । न तावद् द्वितीयः सर्वदा बोधकत्वप्रसङ्गात् । आद्ये संस्कारकेष्वस्याश्वासकारणाभावात्सर्वमिदं गजस्नानमिति ॥ तदिदमयुक्तम् । संस्कारकाः खलूच्चारयितारो व्याख्यातारश्च वेदस्य । तत्राद्येषु तावत् अविगीतसंवाददर्शनेनाश्वासो युज्यते । द्वितीयेषु तु लोकावगतां शब्दशक्तिं लौकिकानेव तात्पर्यावगमोपायाननुसरत्सु कथमनाश्वास इति यत्किञ्चिदेतत् ।
स्यादेतदेवं धर्मादिकमभ्युपगच्छन्तं प्रत्यपौरुषेयवाक्यसमर्थनम् । यस्तु धर्मादिकमेव नाङ्गीकरोति चार्वाकस्तं प्रति कथम् । निराश्रयत्वादिति चेन्न । यतस्तेनाप्यङ्गीकारयाम इत्याशयवानाह अधर्मवादिन इति ।
धर्माद्यतीन्द्रियार्थानभ्युपगन्तुरित्यर्थः । वाक्यं शास्त्रम् । अप्रयोजनम् इत्युपलक्षणम्; निर्विषयं चेत्यपि द्रष्टव्यम् । हि शब्दो यस्मादित्यर्थे । तस्मात्तेनापि धर्मादिकमङ्गीकार्यमि ति शेषः । एतच्च अभ्युपगमेऽप्यर्थाभावादि त्यत्रैव व्युत्पादयिष्यामः ।
किञ्च मा भूद्धर्मादिकम् । धर्माद्यभावस्तावच्चार्वाकेणाङ्गीकृत एव । तमाश्रित्यापौरुषेयवाक्यं तेनाङ्गीकारयाम इत्याशयवानाह धर्माभावोऽपीति ।
तेन चार्वाकेण(न) । धर्माभावोऽपि प्रत्यक्षावगतो न भवेत् । अनुमानं तु नाङ्गीकृतम् । अङ्गीकारेऽपि न तद्विषयम् । यतः अतो, धर्माद्यभावावगमाय वाक्यं प्रत्यक्षमिव प्रमाणमङ्गीकरणीयम् । तच्चोक्तविधया अन्यस्मिन्ननाश्वासादपौरुषेयमेवेति ।
ननु घटाद्यभावमिव धर्माद्यभावमपि प्रत्यक्षमेव कुतो न गोचरयेत् । मैवम् । अयोग्यतया चक्षुषा रसस्येव प्रत्यक्षेण सतोऽप्यग्रहणोपपत्तेः ॥ किं योग्यताविशेषणेन; यत्प्रत्यक्षेण सर्वथा नोपलभ्यते तन्नास्त्येवेति निश्चीयत इति चेत् ॥ स्यादेतदेवम् । यद्यत्र वादिनो न विप्रतिपद्येरन् । यदि च चक्षुरादिना रसादिकमयोग्यतया न गृह्यत इति न स्यात् । सत्यां तु वादिविप्रतिपत्तौ, सति चायोग्यतया क्वचिदनुपलम्भे, प्रत्यक्षानुपलब्धिः संशयमेव संपादयति किमनुपलम्भान्नास्ति धर्मादिकम्, उत वाद्यन्तरोक्तरीत्या चक्षुषाऽनुपलभ्यमानो रसो रसनेनेव अयोग्यतया प्रत्यक्षेणानुपलभ्यमानमपि प्रमाणान्तरादस्ती ति । न हि न्यायमतिक्रम्य स्वसमयमात्रेण संशयोत्तारो युज्यते । एतत्संशयनिरासार्थमपि वाक्यं प्रमाणमङ्गीकरणीयम्; यथा प्रत्यक्षयोग्येऽर्थे स्थाणुर्वा पुरुषो वे ति संशयनिवृत्तये विशेषप्रत्यक्षमिति ॥ तदिदमुक्तं संशयसंपत्तौ सत्यामिति । तदेवमपौरुषेयत्वाद्वेदस्य कर्तृदोषमूलत्वाभावेन स्वत एव प्रामाण्यमिति सिद्धम् ।
ननु तथाऽपि न वेदः प्रमाणम् । स हि पदार्थेषु वाक्यार्थे वा प्रमाणं भवेत् । न तावत्पदार्थेषु, तेषां प्रागवगत त्वात् । अनवगमे च व्युत्पत्त्यभावप्रसङ्गात् । व्युत्पत्तेर्वाच्यवाचकसंबन्धज्ञानरूपत्वात् । संबन्धज्ञानस्य संबन्धिज्ञानपूर्वकत्वनियमात् । व्युत्पत्त्यनपेक्षायां चातिप्रसङ्गात् । यद्यपि याथार्थ्यमेव प्रामाण्यं नागृहीतग्राहकत्वम्, तथाऽपि परार्थानुमानस्येव शब्दस्यापि परबोधनार्थं प्रवृत्तत्वेन न ज्ञातज्ञापकता न्याय्या ॥
ननु पुरुषदोषोऽयं यज्ज्ञातज्ञापनाय शब्दोच्चारणम् । वेदे त्वपौरुषेये ज्ञातज्ञापनेनापि किं दुष्यति । न किञ्चित् । अनुपादेयत्वं तु स्यात् । तथा च न तन्मीमांसारंभ इति ।
नापि वाक्यार्थे प्रमाणम् । तद्बोधजननोपायाभावात् । वर्णपदपदार्थतदनुभवस्मृतीनां प्रत्येकं समुदितानां चोपायत्वासंभवात् । स्यान्मतं क्रियापदेन कारकपदेन वा साकाङ्क्षे स्वार्थेऽभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते तदेव तस्य संबन्धित्वेनावतिष्ठत इति । सत्यमेवं वस्तुगतिः । अवगतिस्तु तत्संबन्धस्य किंनिबन्धनेति चिन्त्यते । पदं हि स्वार्थं क्रियात्वेन कारकत्वेन वा युक्तं प्रतिपादयतु; तत्संबन्धिताबोधस्तु निर्निबन्धन एव ।
अङ्गीकृत्य चेदमुदितम्; प्रकृतिप्रत्ययार्थसंबन्धबोधनिबन्धनादर्शनात् ।
एतेनाकाङ्क्षासन्निधियोग्यतावत्पदैरभिहिताः पदार्था एव वाक्यार्थी(र्था)भवन्तीत्यपि निरस्तम् । वाक्यार्थावगतेः कारणानिरूपणात् ॥
अतोऽनियतनिमित्तकत्वादौत्प्रेक्षिक एव वाक्यार्थबोध इत्यप्रामाण्यं वेदस्येत्यत आह शक्तिश्चेति ।
च शब्दः अतः शब्दव्याख्यानान्तरसमुच्चयार्थः, यत इत्यर्थे वा । एवशब्दस्य अन्वित एवे ति संबन्धः ।
अयमर्थः । वृद्धव्यवहारादिना हि शब्दशक्त्यवधारणम् । न च पदार्थस्वरूपमात्रे व्यवहारादिकं युज्यते, किन्तु पदार्थान्तरान्विते । अतो व्यवहारादिना शब्दशक्तिमवधारयताऽर्थान्तरान्वित एव स्वार्थोऽनुभूयत इत्यङ्गीकरणीयम् । यद्यप्येकस्मिन् प्रयोगे गौरानयनान्वितः प्रतीयतेऽपरस्मिन् बन्धनान्वितोऽन्यस्मिंश्च दर्शनान्वित इति पदार्थान्तरतदन्वयव्यभिचारः; तथाऽप्यव्यभिचारिणि योग्येतरान्विते स्वार्थे शक्तिग्रहणमुपपद्यत एव । न हि विशेषाणां व्यभिचारेण त्यागे सामान्यस्य अव्यभिचारिणो निर्निबन्धनस्त्यागो युज्यते । यत एवं व्युत्पत्तिसमयेऽन्वित एव स्वार्थे शब्दानां शक्तिरनुभूयतेऽतोऽन्वितस्वार्थाभिधायित्वं शब्दानामभ्युपेयम् । शक्तिग्रहणानुरोधित्वादभिधानस्य ।
यदा च पदैरेवान्वितस्वार्थप्रतिपादनं तदा वाक्यार्थ एवावबुद्ध इति कथं तद्बोधस्य निर्निबन्धनता । गुणप्रधानभावेनान्योन्यान्विताः पदार्था वा तदन्वयो वा वाक्यार्थ इति प्रामाणिकैरङ्गीकृतत्वादिति ।
अत्र पदानामित्यनभिधाय शब्दानामिति वदता प्रकृतिप्रत्यययोरप्यन्विताभिधानसामर्थ्यं सूचितम् ।
केचिदाहुरेकमेव पदमन्विताभिधायीतराणि तु पदानि तत्प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ते, तच्च प्रथमं वा प्रधानं वेति । तन्निरासार्थं शब्दानामिति बहुवचनम् ॥ तथा हि । यदेकत्र प्रयोगे प्रथमं तदेवान्यत्राप्रथममन्यत्र तु प्रथममिति न पदानां प्राथम्यनियमोऽस्ति । तथा च प्रथमं पदमिति वदता सर्वाण्यप्यन्विताभिधायीन्यङ्गीकृतानीति किमत्र वक्तव्यम् ॥ प्रधानत्वमपि पदस्य किमुच्यते । यदर्थप्रतिपादनपराणि इतरपदानि तत्प्रधानमिति चेत्, तर्हि वाक्यभेदेन प्राधान्यस्याव्यवस्थितत्वात् सर्वपदानामन्विताभिधानसामर्थ्यमेवायातम् । आख्यातपदं प्रधानमिति चेन्न; दध्ना जुहोती त्यादिगुणविधानेष्वनुपपत्तेः, आख्यातपदरहितेष्वप्यन्वयप्रत्ययदर्शनाच्च । न हि परिणतिसुरसं पनसफलमि त्यादावन्वयो न प्रतीयत इति युक्तम्, अनुभवविरोधात् । न च तत्राध्याहारः; स हि लोकप्रतीत्यनुरोधाद्वा आश्रयणीयः, स्वसमयानुरोधाद्वा; नाद्यः लोकप्रतीतेः पर्यवसितत्वात्; न द्वितीयः तस्यैव निर्मूलत्वात्, समयान्तरानुरोधेन तत्परित्यागस्यापि संभवात् ।
ये तु विशेषान्वय एव शक्तिः पदानामित्यास्थिषत, तन्मतनिरासायान्वित इति सामान्येनोक्तम् । उपपत्तिं तु वक्ष्याम इति ।
ननु यदि गामानये त्यादिवाक्ये गामिति पदेनैवानयनान्वितः स्वार्थोऽभिहितस्तदा आनयेति पदं व्यर्थमुक्तार्थत्वात् । आनयेति पदेनानयत्यर्थेऽभिहिते सत्यानयत्यर्थान्वितः स्वार्थो गोपदेनाभिधीयते तेनानयेति पदस्य न वैयर्थ्यमिति चेत्, तर्ह्यानयेति पदं केवलं स्वार्थमात्रमाचक्षाणमनन्विताभिधायि प्राप्तम् । यथा चेदमनन्विताभिधायि तथा पदान्तरमपि स्यादिति दत्तजलाञ्जलिरन्विताभिधानवादः । अथानयेति पदेनापि गोपदेनाभिहितेनार्थेनान्वितः स्वार्थः अभिधीयते तदा यावत्पूर्वं पदं स्वार्थं नाभिधत्ते तावत्तदुत्तरपदस्य पूर्वपदार्थान्वितस्वार्थाभिधानं नास्ति, यावच्चोत्तरपदं स्वार्थं नाभिधत्ते तावत्पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न संभवतीत्यन्योन्याश्रयत्वम् । न च वाच्यं परस्परनिरपेक्षाणि पदानि प्रथमं पदार्थाननन्वितानभिधाय पश्चादन्योन्यान्वितांस्तानेवाभिदधतीति क्वेतरेतराश्रयत्वमिति । द्विरभिधानकल्पनाया अप्रामाणिकत्वात्, अचेतनेषु विरम्य व्यापारानुपपत्तेश्च ॥
किञ्च पदानामन्वितेष्वर्थेषु शक्तिर्गृहीता चेत्तथाविधानेव प्रथममभिदध्युः, न चेत्पश्चादपि कथमभिदध्युरिति ।
अत्र विशेषान्विताभिधानवादिनः परिहारमाहुः- प्रथमं पदानि साहचर्यवशादनन्वितस्वार्थान् स्मारयन्ति, पश्चादितरेतरस्मारितेनार्थेनान्वितस्वार्थानभिदधतीति न पदान्तरवैयर्थ्यम्, नापीतरेतराश्रयत्वमिति ॥
एतदप्यसारम् । सर्वदैव हि पदान्यन्वितेनैव स्वार्थेन गृहीतसाहचर्याणि न केवलेन । तानि कथं केवलं पदार्थमात्रं स्मारयितुमीशते । यथानुभवं हि स्मरणेनोत्पत्तव्यम्, न तु परीक्षकप्रयोजनमनुसृत्य । न हि पदं पदार्थमात्रप्रतिपत्तये प्र(युञ्ज)युज्यते, किन्तु व्यवहाराय । स चान्वित एवेत्यन्वितानामेव पदार्थानां पदेभ्यः स्मरणं स्यात् । तथा च गां पश्ये ति प्रयोगे गोपदेन पूर्वानुभूतानयनान्वितस्यार्थस्य स्मारितत्वात् पश्येति पदमनाकाङ्क्षितार्थमसङ्गतं स्यात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थाभिधायकत्वात्पश्येति पदस्य, न गोपदं तेन संबध्येत । तथा च वाक्यार्थः क्वापि परिनिष्ठितो न सिध्येत् ॥
न च वक्तव्यमव्यभिचाराद् गोपदं स्वार्थमात्रं स्मारयति नार्थान्तराणि तेषां व्यभिचारित्वादिति, पट्वभ्यासादरप्रत्ययैराहितस्य संस्कारस्य प्रबोधव(य)तः स्मरणहेतुत्वात् । तत्प्रबोधस्य च व्यभिचारिण्यप्यर्थान्तरे प्रणिधानसाहचर्यादिजन्मनोऽविशेषात् । न हि स्मरणमनुमानमिव साहचर्यनियममपेक्ष्योत्पद्यते । धूमदर्शनादग्निवद्रसवत्पाकादिप्रदेशस्य स्मरणदर्शनात् ।
एतेनैतदपि निरस्तम् । यथा पदानां स्वार्थेष्वभ्यासातिशयो न तथा अर्थान्तरेषु । तेषां व्यभिचारित्वात् । तथा च स्वरूपमात्रेणैव पदेभ्यः स्मारिताः पदार्था आकाङ्क्षादिमन्तः पदैरन्विता अभिधीयन्त इति न परस्पराश्रयत्वम् । नापि पदान्तरानाकाङ्क्षेति । स्मरणस्यानुभववारनियमानपेक्षत्वात् । अन्यथा धूमदर्शनान्महानसादिस्मरणानुपपत्तिप्रसङ्गः । न हि यावान् धूमस्याग्नावभ्यासातिशयस्तावान् महानसे । तस्मादपरिहार्यमितरेतराश्रयत्वमिति ।
वयं तु ब्रूमः । स्यादिदं विशेषान्विताभिधानवादिनां दूषणम् । सामान्यान्विताभिधाने तु नायं दोषः । प्रत्येकं हि पदान्याकाङ्क्षितसन्निहितयोग्येतरान्वितस्वार्थाभिधानसमर्थानि न पदान्तरमपेक्षन्त इति नेतरेतराश्रयत्वम् । विशेषान्वयप्रतिपत्त्यर्थं च पदान्तरसमभिव्याहारोपयोगः । अत एव सामान्यान्विताभिधानवादे वाक्यार्थविशेषाप्रतिलंभ इति निरस्तम्, पदान्तरसमभिव्याहाराद्विशेषप्रतिपत्त्युपपत्तेः । येऽपि विशेषान्विताभिधानमाचक्षते तैरपि प्रतियोगिनां तदन्वयानां चाऽऽनन्त्यात्सङ्गतिग्रहण एव पुरुषायुषपर्यवसानभयात् सामान्योपाधौ शक्तिग्रहणमङ्गीकरणीयम् ॥
नन्वेवं तर्हि किमनया सामान्यान्विताभिधानशक्त्याऽपि । पदानि स्वार्थमात्रे शक्तिमन्ति पदान्तरसमभिव्याहारवशाद्विशेषान्वितमेव बोधयन्तीत्यङ्गीकारोपपत्तेरिति चेन्न, सङ्गतिग्रहणसमये सामान्यान्विताभिधानशक्तेर्गृहीतत्वात् । पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसान एव हेतुर्न पुनरविद्यमानशक्त्याधान इति ॥
ननु तथाप्यन्विताभिधाने समभिव्याहृतपदानां पुनरुक्तिदोष इति चेन्न, अन्वयभेदात् । आनयनान्वितो गौर्गवान्वितमानयनमित्यनयोर्हि स्फुटो भेदः ॥ आर्थिक तु पुनरुक्तिरदूषणम् । यश्चार्थादर्थो न स चोदनार्थ इति न्यायात्, विशेषप्रतिपत्त्यङ्गतयोपयोगाच्चेति ।
एवं स्वमतेन परिहारमभिधाय ये तु प्रत्यस्तमितवर्णपदविभागं वाक्यमेव स्फोटाख्यं वाक्यार्थप्रतिपादकमित्याहुः । तन्मतं निराकरोति गौरवमिति ।
अन्यथा कल्पने निरवयवं वाक्यं वाक्यार्थस्य बोधकमिति कल्पने गौरवं स्यात् । वाक्यमेव खल्वेवंविधं विना प्रमाणेन कल्पनीयम्, तस्य च वाक्यार्थप्रत्यायनशक्तिरपि कल्पनीयेति ।
ननु कथं स्फोटस्याप्रामाणिकत्वं पदार्थवाक्यार्थप्रतिपत्त्यन्यथाऽनुपपत्त्या पदवाक्यस्फोटयोः प्रतिपन्नत्वात् ॥ तथा हि ॥ यदि हि न पदातिरिक्तं वाक्यम्, पदं च न वर्णातिरिक्तं तदाऽर्थप्रत्यय एव न स्यात् । वर्णा हि न प्रत्येकमर्थप्रत्ययमुपजनयन्ति तथाऽननुभवात्, शेषवर्णवैयर्थ्यप्रसङ्गाच्च । समुदायश्च तेषां न संभवति एकवर्णसमयेऽन्यस्याभावात् । नित्यत्वेऽपि न तेषां प्रतीतिरनुवर्तते । अप्रतीयमानानां प्रत्यायकत्वे सर्वदा पदार्थप्रतीतिप्रसङ्गः । न हि प्रतीत्याऽप्रतीयमानानां सर्वथाऽप्रतीयमानानां च कश्चिद्विशेषः ॥ न च पूर्वानुभूता वर्णाः स्मृत्यारूढा अर्थप्रतीतिहेतव इति वाच्यम्; स्मृतीनामप्यनुभवानुसारेण क्रमिकत्वात् ज्ञानयौगपद्यप्रतिषेधाच्च । अथ पूर्वपूर्वसंस्कारसहितोत्तरोत्तरानुभवैराहितोऽतिपटीयान्संस्कारो निखिलवर्णविषयामेकामेव स्मृतिमुपजनयतीति मतम् तदा क्रमो न स्यात् । पौर्वापर्यलक्षणः क्रमो हि प्रतीत्यङ्गम् । स च देशतः कालतो वा वर्णेषु सर्वगतेषु नित्येषु न संभवति । बुदि्धक्रमस्तु वाच्यः । स चैकस्मृतिसमारूढानां वर्णानां नास्तीत्यर्थप्रत्ययानुपपत्तिः । क्रमस्यानङ्गत्वे च सरो रसो, नवं वनं, राजा जारा, नदी दीनेत्यादावर्थभेदप्रत्ययो न स्यात् । अतो वर्णेभ्योऽनुपपद्यमानोऽर्थप्रत्ययस्तदतिरिक्तं स्फोटमवस्थापयति । स च स्वरूपग्राहकेण प्रमाणेनार्थप्रत्यायनशक्तिमानखण्ड एवावगत इति कथं कल्पनागौरवमिति ।
तत्र ब्रूमः । किमयं स्फोटः स्वयं प्रतीतो वाक्यार्थपदार्थप्रत्यायकः किंवा स्वरूपेण । आद्ये किमनयाऽर्थापत्त्यैव तत्प्रतीतिरुत प्रमाणान्तरेण । नाद्यः । इतरेतराश्रयप्रसङ्गात् । प्रतीते हि स्फोटेऽर्थप्रतीतिस्तस्यां च सत्यां तदन्यथाऽनुपपत्त्या स्फोटप्रतीतिरिति । न द्वितीयः तदभावात् ॥
नन्वेकं पदमेकं वाक्यं शब्दादर्थं प्रत्येमीत्येकार्थावलम्बिनी प्रत्यक्षप्रतीतिरस्तीति चेत् । इयमेव विचार्यताम् । किमेषा प्रत्यस्तमितवर्णपदविभागमेकं शब्दतत्त्वमवगाहते किंवा वर्णादिभेदमपि । आद्यस्तु प्रतीतौ बहुमानवता नाङ्गीकर्तुमुचितः । द्वितीयेऽपि किं वर्णादयस्तस्यारम्भका उत व्यञ्जकाः । नाद्यः नित्यत्वाभ्युपगमात् । द्वितीये किं ते प्रत्येकं तस्य व्यञ्जकाः किंवा समुदिता इति पूर्ववद्दोषः । यस्त्वत्र प्रतीकारः सोऽर्थ एव कल्प्यतामिति पुनर्गौरवमेव । पूर्वपूर्ववर्णाभिव्यक्तं शब्दतत्त्वमुत्तरोत्तरैर्विशदं व्यज्यते नैवमर्थे कल्पना युक्तेति चेन्न, एकरसे वैशद्यावैशद्ययोरर्थगतयोरयोगात्, ज्ञानगतयोश्चाननुभवात् ॥
अथ वर्णादयस्तत्र कल्पिताः प्रतिभान्तीति मतम् ॥ तदिदमायातम् अप्रतीतं शशविषाणं तत्त्वं गवादिविषाणानि तु तत्र कल्पितानि प्रतिभान्ती ति । ऐक्यप्रतीतिबलादित्थमास्थीयत इति चेन्न । भेदप्रत्ययस्य बलाद्वनादिप्रत्ययवदैक्यप्रत्यय(स्यौ)स्यैवौपाधिकत्वोपपत्तेः । उपाधिश्चैकार्थप्रत्यायकत्वम् । न चैकार्थप्रत्यायकत्वेनैकत्वप्रत्ययः । ततश्चैकार्थप्रत्यय इति परस्पराश्रयत्वम् । एकार्थप्रत्यायनस्य समयग्राहकप्रमाणादेव सिद्धत्वात् ।
एकार्थप्रत्यायनं च नानुपपन्नम् एकस्मृतिसमारूढानां तदुपपत्तेः । अनुभवक्रमोपहितानामेव तेषां स्मृत्याऽवगाहनान्न क्रमव्युत्क्रमयोरविशेषापत्तिः । अत एवार्थापत्तिरपि परास्ता वेदितव्या । अन्यथोपपत्तेरुक्तत्वात् । अप्रतीतस्य तु प्रत्यायकत्वेऽतिप्रसङ्गः । तस्मात्सुष्ठूक्तं गौरवं कल्पनेऽन्यथेति ।
अन्ये त्वाहुः स्मर्यमाणा वर्णमालैव वाक्यार्थबोधजननी ति ॥ तदप्यसत् । सा हि व्युत्पत्तिसहाया वा तथा स्यादन्यथा वा । अन्यथा चेदतिप्रसङ्गः । आद्ये पदतदर्थावबोधस्याश्रितत्वात् किं तयेति गौरवमेव ।
किञ्च क्रमोपेतानां द्वित्राणां पञ्चषाणां वा वर्णानां स्मरणमुपपद्यते । महावाक्यस्थानां शतसहस्रसङ्ख्यानां तु स्मरणं दुःश(शं)कमेव । किमभ्यासस्य दुष्करमिति चेन्न । गत्यन्तराभावे त्वेवमेतत् । सति तु सुखोपाये न प्रयासगौरवकल्पना युक्तेति । एतदप्युक्तं गौरवं कल्पनेऽन्यथेति ॥
अपरे तु वाक्यान्त्यवर्णं वाक्यार्थस्य प्रतिपादकमाचक्षते ॥ तदप्ययुक्तम् । स हि केवलो वा तथा स्यात्, पूर्ववर्णसंबन्धस्मरणेनानुगृहीतो वा ॥ आद्ये पूर्ववर्णोच्चारणवैयर्थ्यम्, अतिप्रसङ्गश्च ॥ द्वितीयेऽनुभूयमानः, स्मर्यमाणो वा । नाद्यः; संबन्धस्मृतिव्यवहितस्य अनुभवस्य तदाऽनवस्थानात् । द्वितीये तु किमनेन प्रयत्नगौरवेण, स्मृतिस्था वर्णाः पदत्वेनानुसंहिताः वाक्यार्थमवगमयन्तीत्येव वक्तव्यम् ॥ तदिदमुक्तम् गौरवं कल्पनेऽन्यथेति ॥ पूर्ववर्णसंस्कार एवोपयोगी न स्मृतिरिति चेन्न । तथा सति पदानुसन्धानासंभवेन संबन्धस्य स्मरणाभावप्रसङ्गादिति ॥
केचिदाहुः- यो यानि पदानि प्रयुंक्ते स तत्पदार्थसंसर्गप्रतिपादनाभिप्रायवानिति सामान्येन स्वात्मनि नियमे प्रतीते पश्चात्पदसमूहप्रयोगाद्वक्तुस्तत्पदार्थसंसर्गप्रतिपादनाभिप्रायावगतिद्वारेण पदेभ्यो वाक्यार्थानुमानमिति ॥ इदमप्यनुपपन्नम् ॥ तथा हि । पदसमुदायमात्रप्रयोगाद्वा संसर्गज्ञानानुमानम् उताकाङ्क्षादिमत्त्वे सति । नाद्यः व्यभिचारात् । द्वितीये तु तथाविधपदैरेव वाक्यार्थावगतेर्वक्तृज्ञानानुमाने बकबन्धरीतिप्रयास एवेति ॥ तदिदमप्याह गौरवं कल्पनेऽन्यथेति ।
अभिहितान्वयवादिनो वदन्ति- पदाभिहिताः पदार्था एव आकाङ्क्षादिवशात् अन्योन्यान्वयं बोधयन्तीति । तैरपि हि पदार्थानामन्वयबोधकत्वं क्वाप्यनुपलब्धं तावत्कल्पनीयम् । ननु पश्यतः श्वेतमारूपं हेषाशब्दं च ृण्वतः । खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इत्युक्तन्यायेनास्त्येव पदार्थानामन्वयबोधकत्वमिति चेन्न, अनुमानादर्थापत्तेर्वा तत्रान्वयप्रतीतेः ॥ तथा हि । एतेषां पदार्थानामेकाधिकरणतयाऽवगतानां वा प्रत्यायकत्वं, विशकलिततया वा । आद्येऽनुमानत्वम् । द्वितीये तत्रार्थान्तराभावो निश्चितो न वा । आद्येऽर्थापत्तिर्भवतामस्माकमनुमानमेव । द्वितीये त्वनध्यवसाय एव । प्रमाणान्तरावगतानां पदार्थानामन्वयबोधकत्वादर्शनेऽपि पदैरभिहितानां तत्किं न स्यादिति चेत् । तर्हि न केवलं पदार्थानामन्वयबोधकत्वशक्तिकल्पनम् किन्तु पदानां पदार्थाभिधानशक्तिः तेष्वन्वयबोधकत्वाधानशक्तिश्च कल्पनीया । पदानां पदार्थेषु साहचर्यमात्रेण स्मारकत्वाङ्गीकारेऽपि शक्तिद्वयं कल्पनीयमेव ॥ तदिदमुक्तम् गौरवं कल्पनेऽन्यथेति ।
ननु चान्विताभिधानवादिनोऽपि पदार्थेऽन्वये च शक्तिकल्पनाद्गौरवं समानमिति चेन्न; एकयैव शक्त्याऽन्वितार्थस्यैवाभिधानाङ्गीकारात् । तथाऽपि सामान्यान्विताभिधानवादे पदानामौत्सर्गिक सामान्यान्वये शक्तिः, पदान्तरसन्निधानाच्चागन्तुक विशेषविषया शक्तिः, पदान्तरे च तदाधानशक्तिरिति शक्तित्रयं कल्पनीयमिति चेन्न; आकाङ्क्षितसन्निहितयोग्यान्विताभिधानशक्तेः एकस्या एव पदान्तरसमभिव्याहारबलेन विशेषपर्यवसानस्योक्तत्वात् ॥
ननु च पदकदम्बकश्रवणसमनन्तरं कुतश्चिन्मानसापराधादनुपजनितपदार्थस्मृतेः वाक्यार्थप्रत्ययानुदयाद् उदयाच्चोपजातपदार्थस्मृतेरन्वयव्यतिरेकाभ्यां पदस्मारितपदार्थानां वाक्यार्थप्रत्यायकत्वमवसीयत इति । मैवम् । सङ्गतिस्मरणभावाभावाभ्यामन्यथोपपत्तेः । पदनिचयश्रवणवाक्यार्थबोधावन्तरा पदार्थस्मृतीनामेवानभ्युपगमात् । एकैकपदश्रवणे पदार्थस्मृतिरस्ति तावदिति चेत् । किं तावता । किं सहकारिविरहिणो यत्कार्यं तदेव सहकारिलाभेऽपि । तथात्वे संस्कारस्येन्द्रियसहकारिलाभेऽपि प्रत्यभिज्ञानुभवजनकत्वं न स्यात् । किञ्च पदार्थबोध्यत्वे वाक्यार्थस्यानुमेयस्येव अशाब्दत्वम् । पदार्थाख्यसप्तमप्रमाणाङ्गीकारे गौरवं च स्यादिति ।
तदेतदाह गौरवं कल्पनेऽन्यथेति ।
नायं दोषः । पदानामेव पदार्थप्रतिपादनावान्तरव्यापाराणामन्वयप्रतिपादकत्वाङ्गीकारात् । न ह्यवान्तरव्यापारस्य व्यवधायकत्वमस्तीति चेत् । किमन्वयेऽप्यर्थवत्पदानां शक्तिरस्ति न वा । नास्तीति चेत्तत्राह न चाशक्त्येति ।
न च तत्राशक्तं तदभिधत्त इति संभवति व्याघातादतिप्रसङ्गाच्च । तथा च तदवस्थं वाक्यार्थस्याशाब्दत्वं सप्तमप्रमाणापत्तिश्चेति भावः ।
अथ पदार्थेष्वन्वये चास्ति पदानां शक्तिः, तदा पदार्थानन्वयं च युगपत् प्रतिपादयन्ति उत क्रमेण । नाद्यः अन्विताभिधानप्रसङ्गात्, पदार्थप्रतिपादनस्य अवान्तरव्यापारत्वानुपपत्तेश्च । द्वितीये दोषमाह प्रवृत्तिश्चेति ।
द्विधा प्रवृत्तिः विरम्य व्यापारः । प्रसज्यत इति शेषः ।साहचर्यात् स्वार्थान् स्मारयन्ति अन्वयपराणि पदानि अतो न दोष इति चेन्न पदार्थाविषयाणां केवलतदन्वयपरत्वानुपपत्तेः ।
अन्वयो लक्ष्यत इति चेत् । तर्हि पदार्थेषु साहचर्यात्स्मारकत्वमात्रमन्वये तु लक्षणैवेति पदानां न कुत्राप्यभिधानवृत्तिरिति स्यात् । तदभावे च न लक्षणापि संभवति, तद्द्वारत्वात्तस्याः । एतदप्युक्तं न चाशक्त्याभिधायित्वमिति । स्मारकत्वमेवाभिधायकत्वमिति चेन्न अतिप्रसङ्गादिति । तस्मात्पदैरेव वाक्यार्थप्रत्ययसंभवाद्युक्तं वेदप्रामाण्यमित्यतो युक्ता ब्रह्मजिज्ञासेति सिद्धम् ।
एवं तावद् ब्रह्मजिज्ञासाकर्तव्यत्वोपयुक्तं युक्तिजातमतःशब्दार्थत्वेन व्याख्यातम् । तेन अथशब्दार्थमेव अतःशब्दार्थतया हेतुत्वेन व्याख्यातवतां वृत्तिकाराणामिव नास्माकं पुनरुक्तिदोष इत्युक्तं भवति । तथा हि । अथशब्दस्तावदानन्तर्याभिधानमुखेन हेतुतयैव पूर्ववृत्तमवगमयति । आनन्तर्यमात्रस्य विफलत्वात् अतोऽथशब्देनैव प्रकृतस्य हेतुत्वसिद्धेर्नातःशब्दोऽपेक्षितः ॥ अथशब्दस्य हेतुत्वमार्थिकं नाभिधेयमिति चेत्, सत्यम्; तथाऽप्यार्थिके तात्पर्यात्, तस्यैव च वाक्यार्थेऽन्वयात् । पूर्वमीमांसाव्याख्यातृभिरप्येवमेव व्याख्यातमिति चेत्, किमेतावता; न हि पराङ्गं दग्धमिति स्वाङ्गदाहदुःखं निवर्तते ॥ न चायमस्माकमस्ति दोषः । अथशब्दो हि जिज्ञासाजनकमधिकारि(त्वं)स्थं धर्ममनधिकारित्वशङ्कानिरासायानुवदति, अतःशब्देन तु विषयप्रयोजनसिध्यङ्गभूतं न्यायकलापं सूत्रकारः स्वयमाचष्टे इति कुतः पौनरुक्त्यम् ॥ अत एव पुनरुक्तिभयादथात इत्येकमेव पदं येऽभ्युपगतवन्तस्तेऽपि निरस्ता भवन्ति, अर्थभेदसंभवे अप्रसिद्धकल्पनानुपपत्तेः ।
ननु वेदप्रामाण्यादिकं पूर्वमीमांसायामुपपादितम् अतः किमर्थमत्र पुनः सूत्रितमिति चेन्न तदुपजीवित्वस्याप्रतिज्ञातत्वात् । एतन्मीमांसोपजीविनी खलु सेति पुराणे पठ्यते शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णय इति । तथाऽपि न विलक्षणत्वादि त्यादिना वेदप्रामाण्यादेः समर्थनान्न तदतःशब्दार्थ इति चेन्न एतत्प्रपञ्चत्वात्, क्वचिदर्थनिर्णये तात्पर्याच्च । तथा च वक्ष्यति स्वरूपनिर्णयायैवेति , यत्र तन्निर्णयमि ति च ॥ तथापि कार्यपरत्वनिराकरणं नातःशब्दार्थस्तस्यानुपदमेव तत्तु समन्वयादि ति निराकरिष्यमाणत्वादिति चेन्न । जगज्जन्मादिकारणतया शास्त्रयोनित्वस्य तत्र इतरनिरासेन ब्रह्मणि समर्थनात् । न हि कार्यवादिनः कार्यं तथाऽभ्युपयन्ति येन तत्र तन्निराकरणं सङ्गच्छेत ।
स्यादेतत् । तथापि एतदयुक्तम् । अतःशब्दो हि प्रकृतस्य हेतुत्वमाह, न पुनर्वेदप्रामाण्यादिकमेव साक्षात् । न चात्र तत्प्रकृतम् अस्यैव प्रथमवाक्यत्वात् । पूर्वमीमांसाप्रकृतोपजीवनं तु नेष्यत एव । न च कार्यनिराकरणं तत्प्रकृतम् । तत्कथमस्यार्थस्यातःशब्दार्थतया व्याख्यानम् । अन्यथोत्सूत्रिताभिधाने भाष्यत्वव्याघातः ॥ किञ्चायमर्थो ब्रह्मजिज्ञासाकर्तव्यतायामत्यन्तोपयुक्तो विस्तरादेव पूर्वमीमांसायामिव वक्तव्यः सूत्रकृतैव । अत इति सङ्क्षेपेण कस्मादुक्तः; इत्याशङ्काद्वयं परिहरति एतत्सर्वमिति ।
यस्मादित्यर्थे हिशब्दः । तुशब्दस्य अत्र त्वि ति संबन्धः, तस्मादित्यर्थे वा । यस्मात् एतत्सर्वं प्रमेयं ब्रह्मतर्काभिधे तर्कशास्त्रे विस्तरादुक्तम् तस्मात् अत्र मीमांसोपक्रमेऽत इति सङ्क्षेपेण सूचितम् इत्यनेन शङ्काद्वयमपि परास्तम् । ब्रह्मतर्कोक्तत्वेन प्रकृतत्वादिदं(दतः)शब्देन परामर्शो युज्यते, तत्रैव विस्तरेणोक्तत्वादत्र सङ्क्षेपकरणं चोपपद्यते इति ।
ग्रन्थान्तरोक्तस्य कथमत्र प्रकृतत्वम्, तथात्वे वा कुतो न पूर्वमीमांसोक्तपरामर्शोऽयमिष्यत इत्यत उक्तम् तर्कशास्त्र इति । तर्कशास्त्रं हि मीमांसाङ्गमिति वक्ष्यति ॥ ब्रह्मतर्के विस्तरेणोक्तत्वमत्र सङ्क्षेपकरणस्य घटकमात्रं न नियामकम् । तत्र विस्तरेणोक्तस्यात्रापि विस्तरेणोक्तौ बाधकाभावात्प्रस्थानभेदेन अपुनरुक्तेरित्यत उक्तम् विद्येति ।
एतदुक्तं भवति । अस्ति तावत्तर्कमीमांसाविद्ययोः पृथक्त्वम् । वेदाः सर्वाङ्गानि सत्यमायतनमि ति पृथक् श्रवणात् । वेदाश्चत्वारः, सर्वाङ्गानीति पुराणस्मृतितर्कशास्त्रसहितानि षडङ्गानि गृह्यन्ते, सत्यमिति मीमांसा । तथा च चतुर्दशविद्यास्थानान्युक्तानि भवन्ति । तदर्थं च व्युत्पाद्यभेदेनावश्यंभवितव्यम् । ततश्च प्रमेयव्युत्पादनपरे मीमांसाशास्त्रे तर्कशास्त्रव्युत्पाद्यं वेदप्रामाण्यादिकं यदि विस्तराद् व्युत्पाद्येत तदा विद्याभेदो न स्यात् । सङ्क्षेपेण सूचने तु नायं दोषः । प्रायिकत्वाद्विद्याभेदस्य ॥ सर्वथाऽन्योन्यासंस्पर्शे अङ्गाङ्गिभावानुपपत्तेः । अतोऽत्रास्य सर्वस्य सङ्क्षेपकरणमेवोचितमिति ॥ अनेन जैमिनीयानां प्रमाणलक्षणादिनिरूपणं नातीव मीमांसायां सङ्गतमिति सूचितं भवति । अत एव न तत्रोक्तस्यात्रोपजीवनमिति ।
तदेव प्रपञ्चयति प्रमाणेति ।
अथवा विद्यापृथक्त्वादि त्युक्तम् । तत्रास्तु तर्कमीमांसाविद्ययोः पृथक्तवम्, तथाऽप्यत्र विस्तरेण वेदप्रामाण्यव्युत्पादने को दोष इत्याशङ्क्य; विद्यापृथक्त्वं च व्युत्पाद्यपृथक्त्वादेव, तच्चैतदित्याह प्रमाणेति ॥ प्रमाणानि प्रत्यक्षादीनि त्रीणि । न्यायः अनुमानाङ्गभूता व्याप्तिः ।
अथवा न्यायो व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनात्मकस्तर्कः । तस्यानुमानात्मकत्वेऽपि प्रमाणानुग्राहकत्वातिशयवत्त्वज्ञापनाय पृथगुक्तिः ।
अथवा प्रमाणे प्रत्यक्षमागमश्च, न्यायः अनुमानं, तस्य मीमांसायामभ्यर्हितत्वाद्भेदेनोपन्यासः ।
अथवा प्रमाणानां प्रत्यक्षादीनां, न्यायः प्रकारः स्वरूपसङ्ख्याविषयव्यवस्था, तस्य सच्छिक्षो द्देशलक्षणविभागपरीक्षाभिर्निरूपणम् । तर्कशास्त्रत इति तृतीयार्थे तसिः । तुशब्दो मीमांसा त्विति संबध्यते । तत्सिद्धैः तर्कशास्त्रव्युत्पादितैः । मेयशोधनं प्रमेयस्यारोपिताकारनिराकरणेन स्वरूपनिरूपणं क्रियते । मीमांसाशास्त्रत इति शेषः ॥
अयं च व्युत्पाद्यभेदो न स्याद्यदि मीमांसाशास्त्रेऽपि वेदप्रामाण्यादिकं विस्तराद् व्युत्पाद्येत । तदभावे च विद्याभेदोऽपि न स्यात् । अतः सङ्क्षेपेणैवास्य सूचनमत्र युक्तमिति भावः ॥ अत्र तत्सिद्धैरि ति वदता तर्कशास्त्रस्य मीमांसाङ्गत्वमुक्तम् । तेन तत्र प्रकृतस्यात्र परामर्शो नानुपपन्न इति सूचितं भवति ।
ननु महद्दीर्घवद्वे त्यादिना तर्कशास्त्रं निराकरिष्यते; तत्कथं तस्य ब्रह्ममीमांसाङ्गत्वम्, विरुद्धयोरङ्गाङ्गिभावस्य व्याहतत्वात् । तथा च कथं तत्रोक्तस्य अत्रेदं शब्देन परामर्शः, कथं च ततो भेदसिद्धये व्युत्पाद्यभेदोपपादनम्, प्रमाणत्वाप्रमाणत्वाभ्यामेव तद्भेदस्य सिद्धत्वादित्यत आह ब्रह्मतर्कं चेति ।
स प्रभुः यो मीमांसासूत्रकृदित्यर्थः । एव शब्देन न कणादाक्षपादादिप्रणीतं तर्कशास्त्रमत्राङ्गतयाङ्गीक्रियते; अतो नोक्तदोष इति सूचयति ।
ननु कथं सूत्रकृता कृतो ब्रह्मतर्क इत्युच्यते ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितमि ति तस्यान्यकृतत्ववचनात् । न च वाच्यं विष्णुकृतोऽप्येकोऽस्तु, अयमपरः किं व्यासकृतो ब्रह्मतर्को न स्यादिति; भगवत्कृतस्य तस्याप्रामाण्ये कारणाभावात्, अत्राप्यनाश्वासप्रसङ्गाच्च । प्रामाण्ये तु व्यर्थं व्यासस्यैकविषये ग्रन्थान्तरनिर्माणमित्यत आह पञ्चाशदिति ।
ननु च कथं विस्तारादिति, प्रथने वावशब्द इति प्रतिषेधात् । मैवम् । पञ्चाशदि्भः कोटिभिः श्लोकैर्विस्तारः प्रपञ्चो यस्यार्थस्य तस्मात्किञ्चिदर्थमुद्धृत्य पृथक्कृत्य तत्प्रतिपादकं, पञ्चसहस्राणि परिमाणमस्येति पञ्चसाहस्रं, ग्रन्थं कृतवानिति व्याख्यानात् । यद्यपि व्यासो न विष्णोरन्य इति परिहारोऽत्र वक्तुं शक्यत एव तथापि वस्तुस्थितिज्ञापनाय भगवतो व्यासस्य पृथग् ग्रन्थरचने प्रयोजनमभिहितमिति ज्ञातव्यम् । अत एव विष्णुनेत्यस्य विवरणाय नारायणतनावि त्युक्तम् । तथा च नारायणावतारे विष्णुना कृतादिति योजना । अथवा नञा निर्दिष्टमनित्यमि ति वचनात्पञ्चाशत्कोटि(ट्यो)विस्तारो यस्य ग्रन्थस्येत्यपि युक्तम् । तथा च कृतादिति मुख्यमेव भवति । अन्यथा लाक्षणिकं व्याख्येयमिति ।
शङ्काद्वयपरिहारमुपसंहरति अत इति ।
यतोऽयमर्थो ब्रह्मतर्कोक्तो, ब्रह्मतर्कश्च मीमांसाङ्गम्; अतस्तदर्थं प्रकृतत्वात् अत इत्यभ्यसूचयदिति युज्यत इत्याद्यशङ्कापरिहारस्योपसंहारः । यतस्तर्कमीमांसाशास्त्रयोर्भेदः, स च व्युत्पाद्यभेदाधीनः; अतस्तदर्थं तर्कशास्त्रव्युत्पाद्यमेतमर्थम् अत इति सङ्क्षेपात् एव अभ्यसूचयत् न विस्तरेणेति द्वितीयशङ्कापरिहारस्येति ।
प्रकारान्तरेण शङ्काद्वयं परिहरति यत इति ।
वक्तृश्रोतृबुद्धौ परिवर्तमानं हि साक्षात्प्रकृतमित्युच्यते । ग्रन्थोक्तत्वं तु तल्लिङ्गतयैव तथा । एतच्च सर्वं प्रपञ्चसत्यत्वादिकं यतोऽनुभवत एव सिद्धमतोऽपि प्रकृतत्वात् अत इति परामृश्य हेतुत्वेन कथनं युज्यत इति । यत एतद्बन्धसत्यत्वादिकम् अनुभवसिद्धं सर्वेषाम् अतः अतिस्फुटत्वादपि अत इति सङ्क्षेपादेवाभ्यसूचयत् न विस्तरेणेति ।
एवं शङ्काद्वयं प्रकारद्वयेन परिहृत्य द्वितीयशङ्कां प्रकारान्तरेणापि परिहरति देवैश्चेति ।
सुगमज्ञानानन्तरं दुर्गमज्ञानं प्राणिनां सुकरमिति सुगमप्रमाणादिस्वरूपं ब्रह्मतर्कादौ व्युत्पाद्येदानीं देवैः निमित्तैः तत्प्रार्थनयेति यावत् । दुर्गमार्थेषु वेदेषु तदर्थमीमांसायां व्यापृतः प्रवृत्तो यतो भगवान् व्यासः अतश्चानवसरतयाऽस्य प्रमेयस्य नातिविस्तृतिं चकार । सङ्क्षेपाद(तइत्य)भ्यसूचयदिति प्रकृतेऽपि पुनर्नातिविस्तृतिं चकारेति साध्याभिधानं प्रकृतत्वोपपादननिरासार्थम् । अन्यथा साध्यद्वयस्यापि प्रकृतत्वात्तदर्थमप्येतद्वाक्ययोजनायां शिष्याणां मनःखेदः स्यादिति । पूर्वं तु शास्त्रभेदसिद्धये विस्तरो न कृत इत्युक्तम् इदानीं त्वप्रसक्तत्वादिति भेदः ।
विस्तराकरणे कारणान्तरमप्याह एता इति ।
यस्मात् एताः प्रतिपक्षगा बन्धमिथ्यात्वादौ प्रतिवादिनोपन्यस्ता युक्तयः अवज्ञेयाः निर्दलत्वात् । अतोऽपि सूत्रकारस्तन्निराकरणे नातिविस्तृतिं चकार । किन्तु हेयताज्ञापनाय सङ्क्षेपं चक्रे । अस्माभिस्तु तामेव निर्दलतां दर्शयितुं किञ्चित् प्रपञ्चितमिति भावः ।
नन्वस्त्ववैदिकैर्बौद्धादिभिरुत्प्रेक्षितानां युक्तीनामवज्ञेयत्वं वैदिकैरुक्तास्तु नावज्ञामर्हन्ति समूलत्वेन सदलत्वात् । अतः कथमेतदित्यत आह प्रत्यक्षेति ।
प्रत्यक्षशब्देन स्पष्टप्रतीत्युपलक्षणम् । प्रत्यक्षा च सेक्षा च स्पष्टा प्रतीतिस्तस्यामपि अक्षमः । स्पष्टं हि प्रतीयते दुःखादिसत्यत्वादिकम् । तदपि यो द्रष्टुं न शक्नोति सः अत्र मीमांसाविषये कमेव पक्षं प्रतिकूलम् अभिवीक्षते । उत्प्रेक्षते । न कमपि । तस्मादक्षमपक्षत्वान्मोक्षशास्त्रे वेदे प्रवृत्तोऽप्याग्रहात् उपेक्षित एव सूत्रकृता न तु विस्तरेण निराकृत इति ।
इदमुक्तं भवति । यो हि लौकिकप्रवेदनीयमप्यर्थं न जानाति तस्यालौकिकार्थे वेदेऽधिकार एव नास्ति । तथाऽपि तत्र वैयात्यात्प्रवृत्तोऽवज्ञामेवार्हति न तु प्रतिपक्षिभावमिति । मोक्षशास्त्र इत्यनेनापि तस्य वेदविचारानधिकारं सूचयति । वेदो हि मोक्षशास्त्रमिति प्रसिद्धः । तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्परास्सर्व एवे ति श्रुतेः । तं च स्वर्गमात्रपर्यवसितं वदन् कथमत्राधिक्रियते । न हि तत्प्राप्यमविद्वांस्तेन च पथा प्रतिष्ठमानो नोन्मत्त इति सर्वं सुस्थम् । तदनेन अतःशब्दो हेत्वर्थ इति भाष्यं स्पष्टीकृतं भव(ती)ति ।
एवम् अतः शब्दव्याख्यानमुपपाद्य स्वयं भगवते त्यादिना क्रमप्राप्तं ब्रह्मशब्दार्थं समर्थयते ।
जिज्ञास्योऽयं विधीयते इति ब्रह्मशब्दो विष्णुविषयो व्याख्यातः । तदनुपपन्नम् । ब्रह्मशब्दस्य जातिजीवकमलासनशब्दराशिषु वृद्धप्रयोगादिसिद्धत्वात् । ननु भगवत्यपि ब्रह्मशब्दो वृद्धप्रयोगादिसिद्ध एव । तथाऽप्यनेकार्थेषु शक्तियुक्तस्य विवक्षाज्ञापकप्रमाणाभावेन भगवत्परत्वावधारणायोगादित्याशङ्क्य यथाऽनेकार्थोऽपि गोशब्दः प्रकरणवशादर्थविशेषपरोऽवधार्यते तथा अनेकार्थोऽपि ब्रह्मशब्दः सूत्रकृता विष्णुविषय एव प्रयुक्त इति प्रकरणवशाज्ज्ञायत इति परिहारं विवक्षुर्ब्रह्मशब्दस्य विष्णौ प्रकृतत्वं तावदाह स्वयमिति ।
ननु अथातो ब्रह्मजिज्ञासे त्येतदेवादिसूत्रम् । अस्मादपि पूर्वसूत्रस्य विद्यमानत्वे तदादि(त्वेन)व्याख्यानप्रसङ्गात् । अन्यथा प्रथमातिक्रमे कारणाभावादकुशलाः सर्व एव व्याख्यातारः प्रसज्येरन् । तत्कथमस्मात्सूत्रात्पुरा विष्णुर्ब्रह्मेत्येतत्स्वयं भगवता सूत्रकृतोदितमित्युच्यत इति; तत्राह स विष्णुरिति ।
तेनेति भगवतेत्यनेन संबध्यते । येनेदं शास्त्रं कृतं तेनैवेत्यर्थः । सत्यमेतदेव ब्रह्ममीमांसाशास्त्रस्यादिसूत्रम् । किन्तु दैवीमीमांसाशास्त्रस्यान्ते स विष्णुराह हि तं ब्रह्मे त्याचक्षते इतिसूत्रद्वयेन विष्णुः ब्रह्मेत्युदितम् । तदनन्तरमेव च अथातो ब्रह्मजिज्ञासे ति सूत्रितत्वात् पुरोदितमि ति युज्यत इति ॥ ये तु देवमीमांसाशास्त्रस्वरूपे तदनन्तरमेतत्सूत्रप्रणयने विप्रतिपद्यन्ते तेषां पुराणादिप्रसिदि्धविरोधं हिशब्देन दर्शयति ।
ननु देवतामीमांसाशास्त्रं शेषपैलाभ्यां कृतमिति पुराणादौ प्रसिद्धं तत्कथमुच्यते भगवतोदितमि ति तत्राह आद्यन्तमिति ।
अथातो दैवी त्यादिः, उदाहृतोऽन्तश्चाद्यन्तम् । यतः तदाज्ञया कृतम् अतो अञ्जसा एव कृतमि त्यनेन अनेककर्तृकत्वान्न कन्थायितत्वमस्य शङ्कनीयमित्याह । अयं च विशेषो विशेषवाक्यादिभिरवगन्तव्य इति ।
अस्त्वेवं ब्रह्मशब्दस्य विष्णुविषयतया प्रकृतत्वं, ततः किमित्यत आह अत इति ।
यतो देवतामीमांसाऽन्तिमसूत्रद्वयं भगवता कृतम् । अतस्तत्रैव सूत्रद्वये ब्रह्मशब्दार्थस्य विष्णुत्वसिद्धेः विष्णुतायाः प्रकृतत्वात् अथातो ब्रह्मजिज्ञासे त्यत्रापि ब्रह्मे ति विष्णुमेव असूचयत् सूत्रकार इति ज्ञायते । अतो जिज्ञास्योऽयं विधीयत इत्युचितमेव व्याख्यानमिति ।
एवं मीमांसाशास्त्रसंप्रदायज्ञान् प्रति सौत्रब्रह्मशब्दस्य विष्णुपरत्वे युक्तिमभिधाय अधुना मन्दान् प्रति ब्रह्मशब्दस्य निरुच्यमाननारायणशब्दसमानार्थताप्रतीतिमप्यत्र युक्तिं विवक्षुर्नारायणशब्दं तावन्निर्वक्ति दोषेति ।
अत्र छिद्र शब्दोपादानं दृष्टान्तत्वेन । पर्यायत्वं पर्यायेण क्रमेण प्रयोज्यत्वं न पुनरेकस्मिन्नेव वाक्य इत्यर्थः । यथोक्तं पर्यायेणैव ते यस्माद्वदन्त्यर्थान्न संहताः । पर्यायत्वं ततस्सर्वपर्यायाणां प्रतिष्ठितमि ति । तेनैकार्थत्वमिति सिध्यति । एकार्थत्वे हि पर्यायत्वं स्यात् । एतच्चाभिधानप्रयोगाभ्यामभ्युपेयम् ।
यतो दोषारशब्दयोः पर्यायत्वम् । यतश्च नञ् तद्विरुद्धार्थवाची । ततो नारा इति पदेन दोषविरुद्धा गुणाः प्रोक्ता इत्यर्थः ॥ तद्वान्नारायण इत्यनेन नाराणामयनमिति विग्रहं सूचयति ॥ अत्र गुणविशेषानुक्तेः सर्वगुणपरिपूर्णत्वं नारायणशब्दार्थ इत्युक्तं भवति ।
ननु नञ्समासे नलोपो नञ इति प्राप्नोति । न । नभ्राडित्यादिष्वस्य(ष्विति) वक्तव्यत्वात् ॥ अथवा अमानोनाः प्रतिषेध इति गणपठितनसमासोऽयमित्यदोषः ॥ पूर्वपदात्संज्ञायामग इति णत्वम् ॥ ल्युटष्टित्करणसामर्थ्यादयनशब्दोऽत्राधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वोपपत्तिः
एवं नारायणशब्दं निरुच्य स एव ब्रह्मशब्दार्थ इत्याह ब्रह्मशब्दोऽपीति ।
हिशब्देन अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इत्यादिप्रसिदि्धं द्योतयति । एवशब्देन सर्वात्मकत्वादिपरापव्याख्यां सर्वप्रमाणविरुद्धां व्यावर्तयति ॥ अयम् इति सूत्रप्रयुक्तः ।
किमतो यद्येवमित्यत आह अत इति ।
यतो ब्रह्मशब्दो नारायणशब्दसमानार्थः अतो ब्रह्मजिज्ञासा कर्तव्ये ति वाक्येन नारायणस्यैव जिज्ञासा विधीयत इति ज्ञायत (इत्यत) इत्यर्थः ।
यस्तूक्तामर्थसमाख्यां निर्वचनान्तरदर्शनान्नानुमन्यते तं प्रत्युपपत्त्यन्तरमाह सिद्धत्वादिति ।
तदेव ब्रह्म परमं कवीनामि त्यस्यां श्रुतौ ब्रह्मशब्दस्य विष्णौ स्पष्टतया मुख्यतया सिद्धत्वात् च सौत्रो ब्रह्मशब्दो विष्णुपर इति ज्ञायत इत्यर्थः ।
एतदुक्तं भवति । मुख्यामुख्ययोर्हि मुख्यस्तावद् ग्राह्यः, शक्तिवशात्तस्यैवादौ बुदि्धसन्निधानात् । तदनुपपत्तौ त्वमुख्यः । दृष्टं चैतदुभयं गङ्गायां जलं , गङ्गायां घोष इत्यादौ । ब्रह्मशब्दश्च विष्णावेव मुख्यः । तदेव ब्रह्मे ति श्रुतेः । अत्र हि विष्णोरन्यस्य ब्रह्मत्वं निषिध्यते । तत्र(तो) ब्रह्मशब्दस्य विष्णावेव शक्तिर्नान्यत्रेति व्याख्यानाङ्गीकारे अभिधानादिविरोधः स्यात् । अतो मुख्यवृत्तिर्विष्णावेव नान्यत्रेति व्याख्यानमुचितम् । न चात्र सूत्रे ब्रह्मशब्देन मुख्यार्थस्य विष्णोः परिग्रहे बाधकमस्ति । अतः प्रकरणादिसद्भावेऽसद्भावे वा विष्णुपर एवायं ब्रह्मशब्द इति ज्ञायत इति ।
स्यादेतत् । यदि तदेव ब्रह्मे त्यस्यां श्रुतौ तच्छब्दपरामृष्टो विष्णुर्भवेत्, तदेव कुत इत्यत आह अम्भसीति ।
तदेव ब्रह्मे त्यस्य हि अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् इत्युपक्रमवाक्यम् । अत्र नारायणपदोदित एव उक्तः ।
एतदुक्तं भवति । अम्भस्यपार इत्युपक्रमवाक्यं तावन्नारायणपरम्, नारायणशब्दसमानार्थत्वात् । तथा च प्रकृतपरामर्शं परित्यज्य अप्रकृतपरामर्शाङ्गीकारायोगात् तदि ति परामृष्टो विष्णुरेवेति ।
अम्भस्यपार इति वाक्यं कथं नारायणपदसमानार्थमित्यत आह आप इति ।
हि यस्मात् आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः इति स्मृतिरप्सु स्थितत्वं नारायणशब्दार्थम् आह । तस्मादपारे अंभसि स्थित इति वाक्यं नारायणशब्दसमानार्थं भवतीति ।
किञ्च शाखान्तरे मम योनिरप्स्व१न्तरि ति विष्णुरेवाप्स्वन्तरीरितस्तत्समाख्यानाच्च अम्भस्यपार इत्युपक्रमवाक्यं विष्णुपरमित्याह स एवेति ।
स्यादेतत् । यदि मम योनिरि ति शाखान्तरस्थमपि वाक्यं विष्णुपरं स्यात्तदेव कुत इत्यत आह स्वयमिति । श्री शब्दः अन्यत्राप्युपचाराद्वर्तते । यथोक्तम् ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः इति । तद्व्युदासार्थं स्वयम् इत्युक्तम् । महालक्ष्म्या मम योनिः इति आत्मनः कारणत्वेनेरितत्वात् अप्स्वन्तरि त्युक्तो विष्णुरेव ॥
भवेदेतत् । यदीदं श्रीवाक्यं स्यात्तदेव कुतो निश्चेयम् । अम्भ्र(भृ)णी वा वागात्मानं तुष्टावे त्यम्भ्र(भृ)णीवाक्यत्वस्य उक्तत्वादित्यत आह कामत इति । अत्र हि यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामि त्यादिना अस्या अम्भ्र(भृ)ण्या वाचः स्वेच्छामात्रेण ब्रह्मरुद्रादिपददातृत्वं प्रतीयते । न चैतच्छ्रियं विना अन्यस्या युक्तमन्यासां ब्रह्मसृष्टत्वात् । अतः परशक्तेः श्रिय एवेदं वाक्यमिति निश्चीयते ॥ अथवा श्रिया आत्मनो योनित्वेन उक्तत्वात् अप्स्वन्तरि ति विष्णुरेवोच्यत इत्युक्तम्, तत्र श्रीयोनित्वस्य ब्रह्मरुद्राद्यन्यतमस्मिन्संभवात्; इत्याशङ्काऽपनोदाय कामत इत्यादिविशेषणमुक्तम् ।
एवं नारायणशब्दसमाख्यया अम्भृणीसूक्तसमाख्यया च अम्भस्यपार इत्युपक्रमवाक्यस्य विष्णुविषयत्वं समर्थ्य तदेव ब्रह्मे ति परामर्शस्य तद्विषयत्वं समर्थितम्; हेत्वन्तरेणापि समर्थयते विष्णोरिति ।
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि इति ऐतरेयश्रुतावाज्ञाधृतमहदादिदेवतासमूहत्वेन उदितस्य विष्णोरत्रापि यस्मिन्निदं सञ्च विचैधि सर्वम् यस्मिन् देवा अधि विश्वे निषेदुरि ति सर्वदेवाश्रयत्वम् उक्त्वा तदेव ब्रह्मे त्यब्रवीदिति संबन्धः । अयमर्थः । तदेव ब्रह्मे ति परामर्शविषयो हि यस्मिन् देवा इति सर्वदेवाश्रयत्वेन प्रतीयते । तच्च शाखान्तरे सप्तार्धगर्भा इति विष्णुधर्मत्वेनावगतम् । अतोऽपि तदिति परामृश्यमानो विष्णुरेवेति ।
लिङ्गान्तरमाह समुद्रमिति ।
यमन्तः समुद्रे कवयो(ऽ)वयन्ति इत्यस्य पुरुषस्य समुद्रस्थानं च उक्त्वा तदेव ब्रह्मे त्यब्रवीत् तस्मादपि समुद्रस्थानत्वलिङ्गाद्विष्णुरेव परामर्शविषय इति गम्यते । एवशब्देन समुद्रस्थानत्वं मम योनिरप्स्व१न्तःसमुद्र इत्यादिश्रुतेरन्यत्रानवकाशमित्याह । विष्णोरेव यत्समुद्रस्थानत्वमि ति योजना ।
युक्त्यन्तरमाह नाम चेति ।
यदक्षरे परमे प्रजा इत्यस्य अक्षरमिति नाम च उक्त्वा तदेव ब्रह्मे त्यब्रवीत् । अतश्च विष्णुरेव तदिति परामृश्यते ॥ अक्षरनामान्यस्य किं न स्यादित्यत उक्तम् एवेति । विष्णोरेवे त्यन्वयः ॥
तत्कुत इत्यत आह ऋच इति ।
ऋचः अक्षरे परमे व्योमन् इति यत् अक्षरनाम वामनसूक्ते विष्णौ प्रयुक्तमिति । तुशब्देनाक्षरनाम्नो विनाशाभावार्थतालक्षणं विशेषं द्योतयति । न हि विष्णोरन्यस्याविनाशित्वं संभवतीति वियदधिकरणे वक्ष्यते ।
लिङ्गान्तरमाह यत इति ।
यतः प्रसूता जगतः प्रसूति इति प्रकृतिकारणत्वं च अस्य पुरुषस्य उक्त्वा तदेव ब्रह्म इति अब्रवीत् । प्रकृतिकारणत्वं च मम योनिरप्स्व१न्तः , तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम इत्यादिश्रुतिस्मृतिषु विष्णोरेव प्रसिद्धम् । अतः स एव तदिति परामर्शगोचर इति ॥ ब्रह्म चे ति चशब्द इतिशब्दार्थे । तदेवं तदेव ब्रह्मे तिवाक्यस्य विष्णुविषयत्वाद्, ब्रह्मशब्दो विष्णावेव मुख्य इति स्थिते, सौत्रोऽपि ब्रह्मशब्दस्तत्पर एवेति सिद्धम् ।
अत्र केनचित्प्रलपितं श्रौतस्य ब्रह्मशब्दस्य जात्यादिकमर्थान्तरमाशङ्क्य यद्भाष्यकारीयं निराकरणं तदनुपपन्नम् । यतः सूत्रकार एव जन्माद्यस्य यत इति जगज्जन्मादिकारणं ब्रह्मेति वक्ष्यति । न हि जात्यादेर्जगज्जन्मादिकारणता अस्तीति ।
तदतीव मन्दम् । सौत्रब्रह्मशब्दश्रवणे जात्यादिप्रतिभास एव न भवतीति वा तन्निराकरणमकर्तव्यम् उत जातोऽपि प्रतिभासो लक्षणसूत्रपर्यालोचनया निवर्तत इति । नाद्यः गृहीतसङ्गतेरर्थान्तरप्रतिभासस्यावर्जनीयत्वात् । द्वितीये त्वयाऽप्यर्थान्तरप्रतिभासस्तन्निराकरणं चाङ्गीकृतमेव । तथाप्युत्तरवाक्यपर्यालोचनां विहाय किं युक्त्यन्तरान्वेषणेन इति चेन्न । प्रथमप्राप्तं स विष्णुराह ही त्यादिवाक्यं विहाय किमुत्तरान्वेषणेनेत्यपि वक्तुं शक्यत्वात् । न चोत्तरसूत्रपर्यालोचनया अयं निर्णयो न कार्य इत्युक्तं भाष्यकृता । तस्मात् यत्किञ्चिदेतत् ।
एतेनैतदपि निरस्तम् । यत्परेण तत्किं ब्रह्म प्रसिद्धमप्रसिद्धं वा, प्रसिद्धं चेन्न जिज्ञास्यमप्रसिद्धत्वे न जिज्ञासितुं शक्यमित्याशङ्क्य, प्रसिद्धमेव ब्रह्म ब्रह्मशब्दात्सर्वस्य आत्म(सर्वात्मक)त्वाच्च । तथाऽपि देहात्मत्वादिविप्रतिपत्तिसद्भावाज्जिज्ञास्यमि त्युक्तम् । ब्र्रह्मजिज्ञासापदेन हि सकलजगज्जन्मादिकारणस्य भगवतो नारायणस्य जिज्ञासा विधीयत इत्युपपादितम् । तत्र जीवात्मनि प्रसिदि्धविप्रतिपत्तिव्युत्पादनस्य कोऽवसरः । जीवात्मनो ब्रह्मत्वजिज्ञासा ब्रह्मजिज्ञासेति चेन्नैवं सूत्रकार आहेत्यलम् ।
तदेवम् अधिकारिविषयप्रयोजनाभिसंबन्धवत्त्वाद् ब्रह्मजिज्ञासा कर्तव्येति आरम्भणीयमिदं शास्त्रम् इति सिद्धम् ॥
॥ इति श्रीमन्न्यायसुधायां जिज्ञासाधिकरणं समाप्तम् ॥
सु०- प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।
सु०- स्वरूपसाधनफलजिज्ञासा हि ब्रह्मजिज्ञासोच्यते ।। ब्रह्मण इति कर्मणि षष्ठी परिग्रहेऽपि प्रधानेनाप्रधानोपलक्षणस्याङ्गीकृतत्वात् साधनादिजिज्ञासामन्तरेणाकाङ्क्षानुपरमाच्च तत्र साधनफलयोर्ब्रह्मोपहितत्वात् ब्रह्मणश्च स्वप्रधानत्वात् अभ्यर्हितत्वेन तत्स्वरूपजिज्ञासैव प्रथमं प्राप्ता । स्वरूपजिज्ञासा च लक्षणप्रमाणाभ्यां (सं)भवति ।
तत्रापि लक्षणेन स्वेतरसमस्तवस्तुव्यावृत्ततया स्वरूपे प्रतिपादिते प्रमाणाकाङ्क्षा जायत इति लक्षणस्यैव प्राथम्यं युक्तम् । इत्याशयवान् सूत्रतात्पर्यमाह अन्तःसमुद्रगमिति ।
ब्र०सू०- जन्माद्यस्य यतः ।।ॐ ।।
३सु०- समुद्रस्यान्तः अन्तःसमुद्रम्, तद् गच्छति इति अन्तःसमुद्रगम् । विश्वप्रसूतेः मूलप्रकृतेः । सूक्तम् अम्भ्रणीसूक्तं वामनसूक्तं च । उपनिषद् अम्भस्यपारे इत्यादिका । आदिग्रहणात् आपो नाराः इत्यादिका स्मृतिः । अन्तःसमुद्रगत्वादिना यत्सूक्ताद्युक्तं तत् जन्माद्यस्य यतः इति सूत्रेण; लक्ष्यते स्वेतरसमस्तवस्तुव्यावर्तकधर्मवत्तया प्रतिपाद्यते ।।
निर्विशेषस्वरूपमात्रमिह जन्मादिसूत्रे लक्ष्यतयाऽभिप्रेतमिति केचिद्व्याचक्षते, तन्निरासा(र्थम्)य अन्तःसमुद्रगम् इत्यु(त्याद्यु)क्तम् । अत्र हि सूत्रे यत इति श्रवणात्तदिति
लभ्यते । तच्च शब्दादुपसर्जनतया प्रकृतत्वेऽप्यर्थतः प्राधान्याद्ब्रह्मैव सम्बध्यते । न चामुख्यं
ब्रह्म जात्यादिकमिह लक्ष्यमिति परस्यापि सम्मतम् । मुख्यं तु ब्रह्म सविशेषमेव, समुद्रान्तर्गतत्वाद्यनेकविशेषणविशिष्टं वस्तूक्तवा तदेव ब्रह्म परमं कवीनामिति तस्यैव मुख्यब्रह्मत्वाभिधानादिति ।
तदिदमाह ब्रह्मणो लक्षणमाह इति भाष्येण ।
४सु०- ननु च बृहद्ब्रह्मेति समस्तगुणपूर्णत्वं ब्रह्मत्वं प्रसिद्धमेव; तत्किं लक्षणान्तरेण ।। सत्यम् । तथाऽपि तदुपपादनार्थमेतदित्यदोषः । प्रसिद्धेन ह्यसाधारणेन धर्मेणाप्रसिद्धं वस्तु समस्तव्यावृत्ततयाऽवगन्तव्यम् । न च परमेश्वरस्य समस्तगुणपूर्णत्वं प्रसिद्धम्, येन लक्षणतया निर्देष्टुं शक्येत । अनेन तु लक्षणेन लक्षिते ब्रह्मणि समस्तगुणपूर्णत्वमपि प्रधानलक्षणं सिद्ध्यति, अविनाभावा(वित्वा)त् ।
५सु०- ननु जन्मादिकं वा लक्षणत्वेनात्राभिमतं तत्कारणत्वं वा । नाद्यः तस्य प्रपञ्चधर्मत्वात् । न द्वितीयः ब्रह्मवत्तदीयजगज्जन्मादिकारणत्वस्याप्यप्रसिद्धत्वात् । न च अनुमानात्तत्सिदि्धः उत्तरसूत्रविरोधात् । अतः कथमेतदपि लक्षणम् । इत्यत आह सृष्टिरिति ।
जगज्जन्मादिकारणत्वमेव लक्षणम् । अस्य प्रत्यक्षादिप्रमाणसिद्धतया प्रकृतस्य समस्तप्रपञ्चस्य, यथासम्भवं जन्मादि, यतो भवति, तद्ब्रह्म; इति सम्बन्धात् । न चैतदपि अप्रसिद्धम्, यतः अस्य जगतः सृष्ट्यादयः; आसु श्रुतिषु प्रसिद्धासु भाष्योदाहृतासु, हरेरुदिताः । सदेत्यविगानं सूचयति ।।
नच वाच्यं समस्तगुणसम्पूर्णता च श्रुतिप्रसिद्धैवातः सैव लक्षणत्वेनोच्यतामि ति, तस्याः श्रुतिप्रसिद्धाया अप्यसम्भावनाशङ्काग्रस्तत्वात् । जगज्जन्मादिकारणत्वं तु श्रुतिप्रसिद्धं युक्त्याऽप्यनुगृह्यत इति द्वितीये वक्ष्यते । सकलगुणपूर्णतायां तु युक्तिर्जगज्जन्मादिकारणत्वमेवेत्येतदेवादौ वक्तव्यमिति ।
६सु०- आद्यस्य हिरण्यगर्भस्य जन्म यतस्तद्ब्रह्मेति सूत्रं व्याचक्षते केचित् ।
जन्म आदिर्यस्यावस्थानस्य तज्जन्मादीत्यपरे, जगत्पालको हि भगवान्विष्णुरिति प्रसिदि्धः । अन्ये तु जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिमुपादाय सृष्टिस्थितिभङ्गं समासार्थ इति व्याकुर्वते । तदिदमयुक्तम् । श्रौतं हि ब्रह्मणो लक्षणमिहोच्यते, श्रुतयश्च कृत्स्नस्यापि प्रपञ्चस्य सृष्ट्याद्यष्टककारणं परमेश्वरमभिदधति; इत्यतः सृष्ट्याद्यष्टकं जन्मादिपदार्थ इति भावेनाह सृष्टिरिति ।
७सु०- ननु सृष्ट्यादिहेतुत्वं प्रत्येकं ब्रह्मलक्षणम् उत मिलितम् । आद्येऽनेकलक्षणोक्तिवैयर्थ्यम् । न द्वितीयः, एकैकस्य व्यभिचाराभावात् । सम्भवे व्यभिचारे च विशेषणमर्थवत् इत्यत आह सृष्टिरिति । अत्रासमासकरणेन प्रत्येकं लक्षणत्वं सूचयति ।
न चानेकलक्षणोक्तिवैयर्थ्यम् । जिज्ञास्यब्रह्मणो हि सर्वव्यावृत्तये लक्षणमत्रोच्यते । न च एकमेव सर्वत्र जिज्ञासाविधायकश्रुतिषु लक्षणं श्रूयते । किं त्वासु ब्रह्मजिज्ञासाविधात्रीषु श्रुतिषु क्वचित्सृष्टिः क्वचित्स्थितिरित्यष्टकं जिज्ञास्याद्धरेर्विश्वस्योक्तमित्यनेकलक्षणोक्त्युपयोगः ।
८सु०- अथवा तद्विजिज्ञासस्व तद्ब्रह्म इति जिज्ञास्ये वस्तुनि ब्रह्मशब्दश्रवणात्
तेन च तस्य समस्तगुणपूर्णता(त्वा)भिधानात् जीवस्य (च) तदभावात् जिज्ञास्यं वस्तु जीवातिरिक्तमिति पूर्वसूत्रे अभिहितम् । तत्र सन्देहः तद्ब्रह्मेत्ययं ब्रह्मशब्दः किं प्रसिद्धार्थपर उतार्थान्तरपर इति । न हि ब्रह्मशब्दो गुणपूर्तिवाचीत्येतावता सर्वत्र तत्परो भवति, शक्तितात्पर्ययोरन्यत्रापि सत्त्वात् । तद्यदि ब्रह्मशब्दोऽयं प्रतीतार्थो न स्यात् तदैव (ए)तस्य गुणपूर्णतापरत्वं सम्भवतीत्यर्थवानेवायं विचारः । तत्र प्रसिद्धार्थ(पर) एवायं ब्रह्मशब्द इति पूर्वः पक्षः; लाघवात् ।
जीवो हि स्वरूपतः प्रसिद्धः तत्र ब्रह्मशब्दस्य शक्तिरप्यभिधानादि(ना)तः प्रसिद्धा (सिद्धा) । केवलं तात्पर्यं कल्प्यम् । तच्च शक्तिवशादेव प्रतीते त्यागकारणाभावादेव सिद्धम् । जात्यादिकं यद्यपि प्रसिद्धं तथाऽपि तस्य सुप्रसिद्धत्वेन तद्विजिज्ञासस्वेति जिज्ञास्यत्वानुपपत्तेः परित्यागः । कमलासनस्य•पि) प्रसिद्धत्वेऽपि न तस्य जिज्ञास्यत्वम्, प्रयोजनाभावात् । भावेऽपि तस्योपासनायत्तत्वात् । उपासनायाश्चारोपितरूपेणापि सम्भवात् । जीवस्य स्वरूपतः प्रसिद्धत्वेऽपि देहादितोऽतिविविक्ततया न प्रसिदि्धः ।। अप्रसिद्धार्थत्वे तु तस्यार्थस्य, तद्वाचितायाः, तत्र तात्पर्यस्य च कल्प्यत्वाद्गौरवम् । अतो जीवपर एवायं ब्रह्मशब्दः ।। इत्येवं प्राप्ते जन्माद्यस्य (यतः) इति प्रतिविहितं सूत्रकारेण । अनेन कथमुक्ताशङ्कापरिहारो जात इत्याशङ्क्याह सृष्टिरिति ।
आसु श्रुतिषु जिज्ञासाविधात्रीषु तद्विजिज्ञासस्व तद्ब्रह्म य आत्मा सोऽन्वेष्टव्यः इत्याद्यासु जिज्ञास्याद्ब्रह्मात्मादिशब्दवाच्यात् (हरेः) विश्वस्य सृष्ट्यादिकं भवतीत्युच्यते, यतो वा इमानि भूतानि जायन्ते इत्यादिपूर्वोत्तरवाक्यैः । सृष्ट्यादयश्च विश्वस्यासु श्रुतिषु भाष्योदाहृतासु हरेरेवोक्ताः । न (च ते) जीवे सम्भवन्ति । अतः प्रसिद्धार्थे बाधकसद्भावात् तद्ब्रह्मेत्यादिब्रह्मादिशब्दोऽलौकिकस्य हरेरेव प्रतिपादको न जीवस्य, इति युक्तं तस्य तेन गुणपूर्णत्वाभिधानमित्यभिप्रायः सूत्रकारस्य; इति भावः ।।
९सु०- ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्, यावता हिरण्यगर्भः समवर्तताग्रे , एको रुद्रो न द्वितीयाय तस्थे , इमाल-लोकानीशत ईशनीभिः , ज्ञात्वा शिवं शान्तिमत्यन्तमेति इत्यादिश्रुतिषु हिरण्यगर्भादीनां तत्प्रतीयते; इत्यत आह सृष्टिरिति । आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ता न तु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति ।
तत्कथमित्यत आह यं नामानीति ।
अनेन नामानि सर्वाणि यमाविशन्ति इत्यादिश्रुतिमुपादत्ते । अद्धेत्याङोऽर्थकथनम् । यो देवानां नामधा एक एव इत्यपि, प्रसिद्धश्रुतेः, नामानि सर्वाणि हिरण्यगर्भ इत्यादीनि, विष्णोरेव यतः, ततः, हिरण्यगर्भ इत्यादिषु श्रुतिषु, विश्वस्य सृष्ट्यादयो हरेरेव उक्ता इति पूर्वेण सम्बन्धः ।
१०सु०- ननु यथा हिरण्यगर्भादिशब्दान् विष्णुविषयान् व्याख्याय हिरण्यगर्भ इत्यादिश्रुतयो विष्णौ योज्यन्ते तथा विष्ण्वादिशब्दान् हिरण्यगर्भादौ व्याख्याय भाष्योदाहृताः श्रुतयोऽन्यविषयतया कुतो न योज्यन्त इत्यत आह अत इति ।
अतो नामानि विश्वाभि न सन्ति लोके , यो देवानां नामधा एक एव इति प्रतिषेधात्, परमेश्वरादन्यस्य नामैव नास्ति । दूरे विष्ण्वादिनामेत्यर्थः । नामाभावे व्यवहारविलोपादि प्रसज्यत इत्यत उक्तं मुख्यत इति ।
११सु०- ननु तथाऽपि विष्णावसम्भवीदं लक्षणम् । जनितोत विष्णोः इत्यादौ तस्य जन्मादिदोषश्रवणात् । न हि जन्मादिदोषवतोऽस्मदादेरिव जगज्जन्मादिकारणत्वं सम्भवति । इत्यत आह गुणा इति ।
गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः । इत्यस्माद्वाक्यात् विष्णोर्जन्मादिदोषो जनितोत विष्णोः इत्यादिश्रुतेरर्थो न भवेदि्ध यस्मात्तस्मान्नासम्भवीदं लक्षणम् ।
इदमुक्तं भवति । वाक्यार्थावगमे हि व्याख्यानं मुख्यकारणम्; यथाहुः व्याख्यानतो विशेषप्रतिपत्तिः इति । तत्रापि यदीयं व्याख्येयं तदीयमेव चेद्व्याख्यानं तदा सुतरां ततोऽर्थावगतिः । तत्र गुणाः श्रुताः इति श्रुतिरेव सर्वश्रुतीर्व्याख्याति । सर्वाः श्रुतयो विष्णोरनन्तानलौकिकानेव (लौकिकान्गुणानेव) गुणान्व(र्णय)दन्ति न कुत्रापि दोषान् । दोषवादप्रतीतिस्तु शब्दशक्तितात्पर्यापरिज्ञाननिमित्तैवेति । एवं श्रुत्यैव सर्वासु श्रुतिषु व्याख्यातासु कथं तद्विरुद्धं(द्ध) दोषपरतया व्याख्यानं युज्यते । तस्माद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यत
इत्यादि व्याख्येयमिति ।
सु०- युक्त्यन्तरमाह प्रीत्येति ।
वेदो हि जीवानां मोक्षमुद्दिश्य प्रवृत्तः तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ।
इति श्रुतेः । स च भगवत्प्रीत्येकसाध्यः यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण । इति श्रुतेः । अतो भगवत्प्रीत्युत्पादनद्वारा मोक्षं साधयता वेदेन तदेव जीवान्प्रति बोधनीयं यद्बोधे(धने)न जीवेषु भगवत्प्रीतिर्भवति । तथा च कथं परमेश्वरदूषणे तात्पर्यं
स्यात् । दूषणज्ञानस्य प्रीतिसाधनत्वाभावात् । न हि लोके स्वदोषज्ञातरि प्रीतिर्दृष्टेति ।
सु०- भगवत्प्रीतिद्वारा मोक्षं साधयतो वेदस्य तद्दूषणे तात्पर्यं (स्यात्) न युक्तं
चेत् क्व तद्युक्तमित्यत आह सर्वेषामिति ।
प्रकृतदोषविरुद्धत्वेन गुणाः श्रुता इति वाक्येन वा बुदि्धसन्निधापिता गुणा अत्रेति परामृश्यन्ते । हि शब्देन तज्ज्ञानस्येश्वरप्रीतिहेतुत्वं सूचयति ।।
ननु प्रयोजनमनुसृत्य वेदस्य प्रतीतविषयपरित्यागेनाप्रतीतविषयान्तराङ्गीकारोऽयमयुक्तः । तथात्वे पुरुषार्थविरोधिनो दुर्गन्धादिग्राहकस्य घ्राणादेस्तदविषयत्वप्रसङ्गात् । सुगन्धादिविषयत्वप्रसङ्गाच्च । इत्यत आह तद्विरोध इति ।
विषमोऽयमुपन्यासः । प्रत्यक्षानुमाने हि प्रयोजनोद्देशेन न प्रवृत्ते किन्तु स्वहेतूपनिपातमात्रादेवार्थं बोधयतः । वाक्यं तु श्रोतृपुरुषार्थोद्देशेनैव प्रवृत्तं तदनुगुणमेव विषयं प्रतिपादयेत् । उद्दिष्टपुरुषार्थविरोधिनि तु विषये प्रवर्तमानं कथं प्रमाणं स्यात् । यथा स्वर्गोद्देशेनाग्निहोत्रं विधाय को हि तद्वेद यद(द्य)मुष्मिंल-लोकेऽस्ति वा न वा इति स्वर्गे संशयं कुर्वद्वाक्यम् । प्रकृते च वाक्यतः सर्वेभ्यो वेदवाक्येभ्यः साध्यं फलं जीवस्य संसारान्मुक्तिरेव श्रुत्यादिप्रसिद्धा । परमेश्वरदोषप्रतिपादनस्य मोक्षविरोधे(न) न वेदवाक्यानां तत्र प्रामाण्यं युज्यत इति ।
सु०- ननु याथार्थ्यं प्रामाण्यं न फलवत्त्वम् । सत्यम् । तस्यैव याथार्थ्यस्य विषयविशे(षा)षेऽवधारणोपायत्वेन फलस्यानुसरणात् । फलाविरोधिनि विषये वाक्यानां याथार्थ्यस्य निश्चितत्वात् । वक्ष्य(ति)ते चैतत् (न)प्रयोजनाधिकरणे ।
नन्वस्तु पौरुषेयाणां वाक्यानामियं व्यवस्था । पुरुषो हि परप्रयोजनेन प्रयुक्तो वाक्यमुच्चारयंस्तदीयहिताहितप्राप्तिपरिहारानुगुणार्थमेव वदेत्; तद्विरुद्धं तु वदन्ननवधेयवचनः स्यात् । अपौरुषेयं तु स्वभावादेवार्थं प्रतिपादयति प्रत्यक्षादिवदेव । तत्र बाधकप्रत्ययादेव विषयप्रच्यावनं युक्तं न प्रयोजनवैगुण्येनेति ।। मैवम् । प्रयोजनानुद्देशिनोऽनुपादेयत्वप्रसङ्गात् । यथा पुरुषाभावेऽप्यर्थं प्रतिपादयति तथा प्रयोजनोद्देशोऽपि कथं न स्यात् ।
किञ्च न मोक्षोद्देशेन वेदप्रवृत्तिरानुमानिक किन्तु स्वयमेव वेदेनोच्यते । तथा चाग्निना सिञ्चेदितिवद्योग्यताविरहादप्रामाण्यमपरिहार्यम् ।
सिद्धान्तविशेषं तूत्तरत्र वक्ष्यामः ।
१५सु०- ननु मा भूच्छतिबलेनातिव्याप्तिरसम्भवश्च लक्षणस्य; शैवादिपुराणैस्तु भविष्यति, तेष्वन्येषां जगत्कारणत्वस्य विष्णोरुपसर्जनत्वस्य चाभिधानात् । न च तेषामपि श्रुतिवदन्यार्थत्वम्, तात्पर्यलिङ्गविरोधात् । इति चेन्न; तेषां श्रुतिविरुद्धार्थे प्रामाण्यानुपपत्तेः । यथाऽऽह जैमिनिः विरोधे त्वनपेक्षं स्यात् इति । पौरुषेयतया शङ्कितदोषस्यापौरुषेयवाक्यविरोधेऽप्रामाण्यस्य न्याय्यत्वात् । रुद्रादीनां जगज्जन्मादिकारणत्वं विष्णोरुपसर्जनत्वं चानेकश्रुतिविरुद्धम् । ताश्च तत्र तत्रोदाहरिष्यामः ।
इत्याशयवानाह न पुराणेति ।
१६सु०- ननु शैवपुराणादीन्यपि श्रुतिमूलानि तत्कथं श्रुतिविरोधेनाप्रमाणानीत्यत
आह दर्शनान्तरेति ।
पुराणादीनां न श्रुतिमूलत्वमिति शेषः । तथा चोक्तं मोक्षधर्मे शैवान्पाशुपताच्चक्रे इति ।
१७सु०- तथाऽपि पाशुपतादीनां श्रुतिमूलत्वे पुराणादीना(मेव)मपि तत्स्यादित्यत आह मोहार्थमिति ।
दर्शनान्तराणि कृतानीति शेषः । तथा च विप्रलम्भमूलत्वमुक्तं भवति ।
१८सु०- निर्निमित्तं प्राणिनां मोहमुत्पादयन्तः प्रत्यवायिनः प्रसज्येरन् । न च परव्यामोहनेन किमपि महत्प्रयोजनमस्ति यदाशया प्रत्यवायमपि न गणयेयुः । अतो नेदमुचितमित्यत उक्तं हरेराज्ञयेति ।
ह(रेराज्ञा)र्याज्ञानुष्ठानान्न प्रत्यवायोऽस्ति किन्तु महाप्रयोजनावाप्तिश्चेति सुप्रसिद्धम् । न च हरेः प्रत्यवायः प्रयोजनापेक्षा वेश्वरत्वादिति भावः । तदुक्तम् कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः । चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः । दधीच्याद्याः पुराणानि तच्छास्त्रसमयेेन तु इति ।
१९सु०- किञ्च रुद्रादीनां जगत्कारणत्वे विष्ण्वाद्यशेषनामवत्त्वं स्यात्, अन्यथा विष्ण्वादीनां जगत्कारणत्वाद्यभि(दधतां)धायिनां वाक्यानां विरोधपरिहारो(रायो)पायाभावेन निर्णयानुपपत्तेः । न च तेषां सर्वनामताऽस्ति, तत्र प्रमाणाभावात् । अतो न जगत्कारणत्वमपि तेषाम् । इत्याह न सर्वनामतेति ।
ननु पद्मपुराणादौ विष्णुनामानि शिवे प्रतीयन्त इति । मैवम् । यो देवानामिति श्रुतिविरुद्धस्य पुराणादेरनादरणादित्यभिप्रायेण श्रुतौ इत्युक्तम् ।
२०सु०- अपि च जगत्कारणेनाज्ञानादिदोषरहितेन भवितव्यम्, दोषिणोऽस्मदादिवज्जगत्कारणत्वानुपपत्तेः । निर्दोषत्वं च भगवतो हरेरेव नान्येषाम् । अतः स एव जगज्जन्मादिकर्ता न रुद्रादिः इत्याह अदोषेति ।
दोषवचनाभावात् अदोष(त्व)वचनाच्च इत्यर्थः । एवशब्दो हरेः एवेति सम्बद्ध्यते ।
तदुपपादयति अज्ञानमिति ।
अभाव एव, न त्वनभिव्यक्तिमात्र(मित्यर्थः)मिति भावः । अपिरभिव्याप्तौ । चशब्दो हेतौ । तस्माद्धरेरेवेति युक्तमिति ।। श्रुतीश्च पाशुपताधिकरणादावुदाहरिष्यति ।
२१सु०- एवं सौत्रस्य विष्णुलक्षणस्याव्याप्तिप्रसक्तयभावादतिव्याप्तिमसम्भवं च परिहृत्योपसंहरति जन्मादीति ।
तेनोक्तप्रकारेण जन्माद्यस्येत्युक्तं जगज्जन्मादिकारणत्वं विष्णोः सम्भवति नान्येषाम् । अतोऽसम्भवाद्यभावाद्विष्णोर्लक्षणं युक्तमिति योज्यम् ।
२२सु०- एवं स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये मायावादिनां मते लक्षणसूत्रारम्भ एवानुपपन्न इति वक्तुं यत्तै(परै)रभिहितं जगज्जन्मादिकारणत्वं न लक्ष्यब्रह्मणः स्वरूपान्तर्गतं(त) लक्षणं किन्तु तटस्थमेव । त्रैविध्यमत्र सम्भवति मायाविशिष्टं ब्रह्म कारणमिति वा, मायाशक्तिमत्कारणमिति वा, जगत्कारणं तु मायैव तदाश्रयतया ब्रह्म कारणमिति वेति । सर्वथाऽपि जगत्कारणत्वं बाह्यमेव, न साक्षात्स्वरूपान्तर्गतम् (एव) । इति; तदेतदनुपपन्नम् इति भावेनोक्तं स्वलक्षणम् इति । स्वरूपान्तर्गतमेवेदं ब्रह्मणो जगज्जन्मादिकारणत्वं न मायावाद्युक्तरीत्या तटस्थमित्यर्थः ।
२३सु०- तत्कुत इत्यत आह अस्येति ।
अस्य सर्वस्यापि विश्वस्योद्भवादिहेतुत्वं ब्रह्मणः स्वलक्षणमेवेति सूत्रकारो भागवते साक्षादेव स्पष्टमेवाब्रवीत् एकं (यत्तत्) परं ज्योतिरनन्यमद्वयं स्वसंस्थया नित्यनिरस्तकल्मषम् । ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणैर्लक्षितभावनिर्वृ(ति)तम् ।। इति । तथा च सूत्रकाराभिप्रायानवबोधनिबन्धनमेव परेषां तटस्थलक्षणव्याख्यानमिति ।
ननु मै(नै)वं सूत्रकारोऽब्रवीत्; किन्तु परप्रतीत्यनुवादोऽयम्, ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ।। इति पूर्ववाक्ये कृष्णानुष्ठितध्यानस्य प्रकृतत्वात् । इत्यत उक्तम् कृष्णेति । कृष्णध्यानानुवादमिषेण स्वयमेवाब्रवीदिति ।
२४सु०- अयमाशयः ।। परकृतानुवादो हि पुराणकर्तुर्द्वेधा सम्भवति । निराकरणार्थं वा यथा यावत्स्याद्गुणवैषम्यम् इत्यादि, एवं शिष्टैरनुष्ठितत्वादन्यैरप्यनुष्ठेयम् इति विधानार्थं वा यथा त्रित्वे हुत्वाऽथ पञ्चत्वम् इत्यादि ।।
तत्राद्यः पक्षस्तावत्प्रकृते न सम्भवति अनिराकृतत्वात् । साक्षाद्भगवदवतारस्य कृष्णस्य चेत्प्रतिपत्तिर्निराकरणमर्हति कुतस्तर्हि व्यासप्रतिपत्तौ समाश्वासः । ध्यानमेवेदं न ज्ञानमिति चेत् तत्किं ज्ञानविपरीतं ध्यानमिति नियमः । तथा सति ध्यानार्थिनः श्रवणमननापेक्षा न स्यात् । न च तटस्थं लक्षणं स्वरूपतया ध्यातव्यमिति क्कचिद्विधिर्वा प्रयोजनं वा श्रूयते ।।
तस्माद् द्वितीयः पक्षः परिशिष्यते । तथा च सूत्रकारस्येदं कथं न मतम् । अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात् । तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं ब्रह्मास्मि इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् स्यात्, अथ योऽन्यां देवतामुपास्ते इत्युपासनाप्रकरणत्वात् । तथा च बहुविप्लवः स्यात् ।।
तस्मात्सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति । तथा च विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति ।
२५सु०- यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो
न परमतेऽस्य सूत्रस्यारम्भ एवोपपद्यते । इत्याह अत इति ।
लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । यथाऽऽह समानासमानजातीयव्यवच्छेदो वा लक्षणार्थः इति । तथा चानेन लक्षणेन सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण । जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैक्यवादिनां स्यात् । स्याद्यदीदं कथञ्चित् (स्यात्कथञ्चिद्यदीदं) तटस्थलक्षणं स्यात् । स्वरूपलक्षणमिति चोपपादितम् ।
२६सु०- स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात् । जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भोऽनुपपन्न इत्यत आह न हीति ।
यत्र हि लक्षणं नास्ति तत्सर्वं तद्व्यावर्त्यमङ्गीकरणीयम् । अन्यथा लक्षणस्याव्याप्तिप्रसङ्गात् । न चेदं लक्षणं जीवस्यास्ति । तत्कथमसावनेन न व्यावर्त्यत इति ।
सु०- किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते; किन्तु सोऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवेऽतिव्याप्तिमाशङ्क्येतरव्यपदेशादि्धताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । न हि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्क्यते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशयवानाह हिताक्रियेति ।
यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव, यथाऽऽह सर्वज्ञं
सर्वशक्तिं विहायान्यतः परपरिकल्पितात्प्रधानादेरचेतनाच्चेतनादपि परिच्छिन्नज्ञानक्रिया
शक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यते इति; तथाऽपि न्यायेनोपपादयितुमिदमुक्तमिति ।।
२८सु०- इतोऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह निर्गुणत्वं चेति ।
लक्षणवाक्यं हि साक्षाल-लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति । ततोऽनेनापि लक्षणवाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः । तथा च निर्विशेषत्वं ब्रह्मणोऽनेन सूत्रेण निषिद्धम् । निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्यारम्भः कथमुपपद्यत इति ।
सु०- स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । न हि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणदि्ध ।।
ननु स्वलक्षणत्वे प्रमाणमुक्तम् । मैवम् । स्वस्य लक्षणानि स्वलक्षणानीति वा । सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः ।। तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । न तु जन्माद्यस्य यतस्तद्ब्रह्मेति । मैवम् । यत्र घोषः सा गङ्गेतिवल-लक्षणया प्रयोगोपपत्तेः ।।
ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च (नि)विरुद्ध्यते । काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतम् । तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् । ततश्च काकविगमे गृहैकदेशभङ्गबुदि्धः स्यात् इति । तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा । नेति पक्षेऽनुभवविरोधस्तदभिधानवैयर्थ्यं च । आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति । कथं च तत्सम्बन्धेन सगुणं न भवतीति ।
मैवम् । यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा मृषैव क्लिश्यति स जीवो व्यावर्त्यत एव ते(अने)न लक्षणेन । तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् । न च सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया
आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् । किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः । सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्ध्यत इति ।
३०सु०- अत्रोच्यते । आस्तां तावत् (एषा) प्रपञ्चस्य विवर्तताऽऽदिवार्ता प्रमाणाभावात्, प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च । तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतोऽङ्गीकरणीयम् । मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम् । न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं, तदगोचरत्वात् ।
नाप्यनुमानम्, श्रुतिबाधितत्वात् ।
नाप्यागमः, तस्याक्लिष्टकारित्वाद्यर्थतया सावकाशत्वात् ।
नन्वर्थापत्त्येदमवसीयते । जीवब्रह्मणोरेकत्वं तावदावश्यकम् । न च जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्सम्भवति । अतोऽन्यथाऽनुपपत्त्या मायागतमेवेदं लक्षणम् । जन्माद्यस्य यतः, तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति । तत्राह भेदेनैवेति ।
यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज लक्षणाऽऽश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे लक्षणा कस्मादाश्रयणीया ।
३१सु०- नन्वभेदमुपादाय सूत्रे लक्षणा वाऽऽश्रयणीया भेदमुपादाय मुख्यवृत्तिर्वेति सन्दिह्यते । वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकत्वाज्जीवब्रह्मणोरेकत्वस्य ।
न (हि) अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति । तदिदमुक्तं भेदेनैवेति ।
ननु कथं जीवब्रह्मैक्यमप्रामाणिकं, तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि) ति चेन्न । उपपत्तिपराहतत्वात् । तथा हि । तच्छब्देन(ब्दस्य) मुख्यार्थो यः, सदेव सोम्य इत्यादिना प्रकृतः, प्रेक्षापूर्वं तेजोऽबन्नादीनां स्रष्टा, सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च, सकलावद्यगन्धविधुरोऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वंपदमुख्यार्थः प्रत्यक्ष•दि)सिद्धोऽल्पशक्तिः पराधीनो दोषकलुषितोऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया वा । नाद्यः । परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् । द्वितीये दोषमाह भेदेनैवेति । सिंहो देवदत्त इत्यादिवत् सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदे(ना)नैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थ(त्व)सम्भवे(न) जहदजहल-लक्षणा कुत आश्रयणीयेति ।
सु०- ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वंपदयोर्लाक्षणिकत्वं व्याख्येयं किं वा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वंपदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति । न नास्ति । त्यजेदेकं कुलस्यार्थ इति न्यायस्य विद्यमानत्वात् । तात्पर्यलिङ्गानां तत्र तत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् । तदिदमुक्तं भेदेनैवेति ।
३३सु०- किञ्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया तत्त्वमसि इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक् ।। अथ सोऽयं देवदत्त इति(त्यादि)वद्विरोध्याकारस्यानित्यत्वम् । तत्राह कथमिति ।
नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते । अस्येश्वरस्येत्युपलक्षणम् । जीवेऽपि पारतन्त्र्यादिदोषाणां नित्यत्वात् । यथोक्तं पुराणे अल्पशक्तिरसार्वज्ञम् इति ।
३४सु०- ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथा हि । तन्निर्गुणं किं सगुणादीश्वरादि्भन्नमुताभिन्नम् (वा) । द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह सदैवेति ।
यदि निर्गुणं सगुणादत्यन्तभिन्नं तर्ह्यस्य सगुणस्य नित्यं सगुणत्वात्तस्मान्नित्यमेव निर्गुणं भिन्नं प्रसज्येत । तथा च न कदाचिदपि कैवल्यं स्यादिति ।
३५सु०- ननु स्वभावतो निर्गुणमेवारोपितैर्मिथ्यागुणैः सगुणमिति बालैरभिलप्यते । आरोपितनीलिम्ना गगनमिव नीलत्वेन । आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्टम् । तथा च मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशोऽपि नानुपपन्नः । नीरूपं गगनमिति यथा । यथा वा यदिदं रजतं सा शुक्तिरि त्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह न चेति ।
मिथ्येत्यसदुच्यतेऽनिर्वचनीयं वा । नाद्यः अनङ्गीकारात् । न द्वितीयः अनिर्वाच्यस्य प्रथमसूत्र एव निराकृतत्वात् । अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरूपणम् ।
ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते । मन्यन्ताम् । न हीदानीं निर्गुणवस्तुनिराकरणं प्रस्तुतं किं नामाद्वैतिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति । गुणशब्देना(चा)त्र धर्ममात्रं प्रकृतम् । तद्गुणादिष्वपि सर्वसम्मतम् ।। गुणादीनां च सगुणत्वं परमाण्वारम्भनिरासे वक्ष्यते ।
ननु (च) साक्षी चेता केवलो निर्गुणश्च इति निर्गुणं ब्रह्म श्रूयते । मैवम् । उक्तानुपपत्तिपराहतत्वेनार्थान्तरपरत्वात् । अन्यथा साक्षित्वादीनामपि धर्मत्वाद्व्याघातश्च । साक्षाद्द्रष्टा हि साक्षी । यथाऽऽह पाणिनिः । साक्षाद्द्रष्टरि संज्ञायामिति ।
सु०- एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल-लुण्ठमाह निर्गुणत्वमिति ।
तदा च (निर्गुणे युक्तया) निर्गु(णे)णत्वे निराकृतेऽपि यदि निर्गुणत्वं परस्मै रुचितं स्यात् तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् । अन्यथानिरूपयितुमशक्यत्वस्योक्तत्वात् । तेनैक्यं च मायावादिनामनुमन्यामह इति ।।
एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम्, न हि नानाविधकार्यक्रियावेशात्मकत्वं तत्प्रसवशक्त्यात्मकत्वं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हतीति, तदपि निरस्तं वेदितव्यम् । निर्गुण(त्व)स्यैव निराकृत(निरस्त)त्वात् ।।
यच्चोक्तम् नेदं ब्रह्मणो विशेषणं प्रपञ्चजन्मादिकारणत्वस्य प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात् इति; तदुत्तरत्र निराकरिष्यत इति ।
३७सु०- यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादिसिद्धये परेणोक्तं तद्दूषयितुमनुवदति लक्ष्यलक्षणयोरिति ।
यदत्र जगज्जन्मादिकारणत्वं मु(ख्य)खतो लक्षणमभिहितं, सर्वज्ञत्वादिसमस्तगुणवत्त्वं चाभिप्रायव्या(प्रा)प्तमित्युक्तम्, तदुभयमपि लक्षणं लक्ष्याद्ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वा ।
नाद्यः । मेरुमन्दरवल-लक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः । सम्बन्धसद्भावान्नेति चेत् (न) तस्यापि सम्बन्धिभ्यामन्यत्वानन्यत्वाभ्यामनिरूपणात् ।
न द्वितीयः । अनेकैरभिन्नस्य ब्रह्मणोऽप्यनेकत्वापत्तेः । तथा चैकमेवेति श्रुतिविरोधात् ।। लक्षणानां वैकत्वमापद्येत । तथा च यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः ।।
लक्ष्यलक्षणभावो गुणगुणिभावश्चाभेदे नोपपद्यते । प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् । न च तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् ।। गुणी च गुणवान् भवति । न च स्वेनैव तद्वान् भवति ।
न तृतीयः । परस्परविरोधात् । अतोऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम्, किन्तु तटस्थमेव । न च तटस्थेन तेन ब्रह्मणोऽद्वितीयत्वभङ्गः, यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति ।
सु०- एवमनूद्य निराकर्तुमारभते इति पृष्ट इति ।
वक्तव्यमिति शेषः ।। पृष्ट इत्युपलक्षणम् । दूषिते चेत्यपि ग्राह्यम् । दूषणानामत्यन्तासम्बद्धत्वात्पृष्ट इत्येवोक्तम् ।। किं वक्तव्यमिति ।
सु०- तत्र जगज्जन्मादिकारणत्वादीनां धर्माणां भेदाभावेऽपि विशेषस्य सद्भावात्तद्बलेन सर्वमुपपद्यत इति वक्तुं निर्भेदवस्तुनि परेण विशेषस्यानङ्गीकृतत्वात् घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यसावुपपादनीय इति मन्वान आह तदेति ।
यद्येवं पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिर्निरूपणप्रकारो न विद्यते ।
अयमभिप्रायः । द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् । एकं जीवब्रह्मणोरैक्यपरं महावाक्यम्, यथा तत्त्वमसीत्यादि । अपरं तत्स्वरूपपरमवान्तरवाक्यम्, यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि । तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकरणीयम् (अङ्गीकार्यम्), गत्यन्तराभावात् ।
४०सु०- तत्र तावदाद्यस्य गत्यन्तरं नास्ति कथमिति चेत् उच्यते । तत्त्वमसीत्यादिवाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् ।परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति ऐक्याभेद इति ।
ऐक्यस्य चैतन्यस्वरूपाभेदेऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् । कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् । तन्मात्र(स्वरूप)त्वाच्चैक्यस्य । न हि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् । वैयर्थ्यप्रसङ्गात् ।। किञ्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परेणाङ्गीकृतं तथा च स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् ।।
अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति; यथोक्तं सिद्धं तु निवर्तकत्वादिति । न । ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात्, तत्त्वाप्रतिपत्तेर्भ्रान्तिहेतुत्वात् । ऐक्यं न प्रकाशत इति चेन्न, स्वप्रकाशचैतन्यमात्रत्वविरोधात् । अविद्यावशात्स्वरूप(प्रकाश)स्याप्यनवभास इति चेन्न सर्वथाऽप्यनवभासप्रसङ्गात् । तथा चाधिष्ठानानवभासेऽविद्यारोपस्याप्यनुपपत्तेः, न ह्यखण्डे वस्तुन्यंशतोऽविद्यावरणं सम्भवति । असम्भवनीयावभासचतुराऽविद्येति चेत्, तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या, अनुपपत्तेस्तुल्यत्वात्, तथा च सा न जडेषु वस्तुषु इत्ययुक्तम् ।
न शास्त्रेण ज्ञेयं तदि त्युपलक्षणम्, शास्त्रप्रतिपाद्यत्वेऽपि तत्पदेनैव सिद्धत्वात् त्वमसीति व्यर्थमि त्यपि द्रष्टव्यम् ।। तदित्येतावता न भेदभ्रमनिवृत्तिः, अतस्त्वमसीति सार्थकमिति चेन्न । तत्पदेनै(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेदभ्रमस्य निरस्तत्वात् । अन्यथा कदाऽप्यनिवृत्तिप्रसङ्गात् ।। तत्पदेनैक्यस्याप्रतिपादितत्वे तदुपलक्षितचैतन्यमात्रत्वानुपपत्तिः ।
ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारेऽनुपपत्तिरेवेति ।
४१सु०- द्वितीयं निराकरोति भेद इति ।
ऐक्यस्य स्वरूपाद्भेदेऽङ्गीक्रियमाणेऽपसिद्धान्तस्तावत्, तत्त्वमस्यादिवाक्यस्य अखण्डार्थनिष्ठताया मायावादिनाऽङ्गीकृतत्वात् । मिथ्यात्वप्रसङ्गोऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात्, अन्यथाऽद्वैतेनैव सत्येनाद्वैतव्याघातात् । ऐक्यमिथ्यात्वे किन्नश्छिन्नमिति चेन्न, मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदित्यनुवर्तनात्, अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् । किञ्च जीवब्रह्मणोरैक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् । कुतः, बलात् व्याप्तिबलादित्यर्थः ।
ननु न कुत्रापि सत्यो भेदोऽस्माभिरभ्युपेयते तत्कथं व्याप्तिः । मैवम् । आस्तां तावत्परमार्थचिन्ता । ययोर्दूरस्थयोर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् ।
अथवा यस्य स्वरूपेण सतो योऽभावो मिथ्या तस्य तद्विपरीतः सत्यो, यथा ब्रह्मणोऽनृतत्वादेर्मिथ्यात्वे सत्यत्वादिकं सत्यमिति, सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः ।
यथाहुः परस्परविरोधे तु न प्रकारान्तरस्थितिः इति ।
४२सु०- तृतीयं निराचष्टे भेदाभेदाविति ।
जीवब्रह्मणोरैक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियेते । तदा वक्तव्यं तौ किं चैतन्यादभिन्नावुत भिन्नौ अथ भिन्नाभिन्नाविति ।। आद्ये चैतन्यस्यापि द्वित्वं तयोर्वैकत्वमित्याद्यापद्येत । द्वितीययोर्दोषमाह तदेति ।
हिशब्देनानवस्थाव्युत्पादनस्य स्पष्टतामाचष्टे । तथा हि । स भेदः किं भेदिभ्यां भिन्नोऽभिन्नो भिन्नाभिन्नो वा । प्रथमे सोऽपि भेदस्तथेत्यनवस्था । द्वितीये शब्दपर्यायत्वादयो दोषाः । तृतीयस्तु तृतीयेऽन्तर्भवति । तत्राप्युक्तविधयाऽनवस्थैवेति ।
ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था, उत्पत्ति ज्ञप्तिप्रतिबन्धकत्वाभावादिति चेन्न, विशेषणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्या ज्ञप्तिप्रतिबन्धकत्वात् । तदिदमुक्तं स्यादेवेति ।
यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथाऽपि स्फुटत्वान्नोक्तः ।
एवमैक्यस्य स्वरूपाद्भेदपक्षेऽनवस्थाऽपीति ।
सु०- नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) । यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम्, तयोश्च भेदाभेदान्तराभावेऽपि स्वनिर्वाहकत्वाद्व्यवहारोपपत्तिरि ति चेन्न, विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति ।
ऐक्यस्य भेदाभेदयोर्वा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् । तदा पृच्छामः स्वस्य निर्वाहकं हि स्वनिर्वाहकम् । तस्य भावः स्वनिर्वाहकता । स्वस्येति च कर्मणि षष्ठी कर्तृकर्मणोः कृती ति वचनात् । तथा चैकस्यैवैकस्यामेव निर्वाहक्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं भवति । तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु(तात्यं)त भि(न्नाभि)न्नमिति ।
आद्ये दोषमाह वाह्यमिति ।
निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहणमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् । न च तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते ।
द्वितीयमनूद्य दूषयति भेदवानिति ।
वाशब्दो यद्यर्थे । यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा च भेदवान् स्यात्तदा तद्भेदद्वयस्य भेदिस्वरूपमात्रत्वे पर्यायत्वादिदोषप्रसङ्गाद्भेदान्तरवदित्यङ्गीकरणीयम् । तथा च परस्परं भेदं धर्मिभेदं वाऽऽश्रित्योभयत्रानवस्था स्यादिति ।
सु०- एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्येऽपि तामतिदिशति सत्येति ।
सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिकेऽवान्तरवाक्येऽप्येवं विकल्प्य दूषणमभिधानीय
मित्यर्थः ।तथा हि । सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभिन्नं वा भिन्नं वा भिन्नाभिन्नं वा ।। नाद्यः । तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्राप्रतिपाद्यत्वप्रसङ्गात् । सत्यज्ञानादिपदानां पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च ।।
न द्वितीयः । अपसिद्धान्तात् । मिथ्यात्वापत्त्या शास्त्रस्यातत्त्वावेदकत्वप्रसङ्गाच्च । अज्ञानत्वादेः सत्यत्वापत्तेश्च ।। न तृतीयः । अनवस्थाप्रसङ्गात् । स्वनिर्वाहकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति ।।
४५सु०- ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव ।। न च तावता सत्यज्ञानादिपदानां पर्यायत्वम्, वाच्यार्थभेदसद्भावात् । परापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्त्यङ्गीकारात् ।। न च वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यम्, अधिकलक्षणायां च नाखण्डार्थतासिदि्धरि ति लक्ष्यार्थभेदाभावेऽप्यारोपितासत्यत्वादिव्यावृत्त्यर्थत्वेन पदान्तराणां सप्रयोजनत्वात् ।। अत एव न शास्त्रवैयर्थ्यम्, स्वप्रकाशेऽप्यारोपिताकारव्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्वादिति चेन्न । किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते । किंवा स्वतन्त्र एव व्यावृत्तिबोधः ।
४६सु०- आद्ये दोषमाह न व्यावृत्त्येति ।
इत्थंभूतलक्षणे तृतीया ।। ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिलक्षणं प्रयोजनं सत्यादिपदानां त्वया वक्तुं न शक्यते ।। कुत इत्यत आह व्यावृत्तस्येति । व्यावृत्ततया प्रतीतस्य ब्रह्मणोऽविशेषत्वे सतीत्यर्थः । अभावविशेषाङ्गीकारे च भावविशेषैः किमपराद्धम् ।
द्वितीयं दूषयति न व्यावृत्त्येति । व्यावृत्तेर्व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सा स्वतन्त्रा व्यावृत्तिर्न प्रयोजनम्, अजिज्ञासितत्वात् । मुमुक्षुणा ब्रह्म वा तद्धर्मो वा जिज्ञासितव्यः ।
तत्र व्यावृत्तिर्न ब्रह्म, तस्य भावरूपत्वादेकत्वान्निरुपाधिकत्वाच्च । ब्रह्मधर्मोऽपि न चेत्कथं मुमुक्षुणा जिज्ञास्येत । अजिज्ञासितबोधनं च कथं प्रयोजनं स्यादिति ।
सु०- किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानभिदधत्यसत्त्वादिव्यावृत्तिप्रयोजनानि, उतान्यथा वा ।नाद्यः अनङ्गीकारादित्याह न व्यावृत्त्येति । व्यावृत्तस्य ब्रह्मणोऽविशेषत्वेऽङ्गीकृते सति, विशेषणाभिधानमुखेन व्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यत इत्यर्थः ।
द्वितीयं दूषयति न व्यावृत्त्येति । व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सत्यत्वादिधर्माप्रतिपादन इति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । न हि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीत्वव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् ।।
यदुक्तं शास्त्रं चारोपिताकारव्यावृत्त्या स्वप्रकाशेऽपि प्रयोजनवदिति । तदप्यनेनैव निरस्तम् ।। निर्विशेषे स्वयंप्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति चोक्तम् ।
४८सु०- एवं विशेषानङ्गीकारे वाक्यद्वयस्यानुपपत्तिमभिधायोपसंहरति तदिति ।
तत्तस्मादखण्डं निर्विशेषं वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः ।
सु०- स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति ।
यथा मूकोऽहमित्येतत्स्वक्रियाविरुद्धम् । वक्तृत्वाभावो ह्यनेनोच्यते, वचनक्रियया च वक्तृत्वमिति ।। तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धं भवेत् । कथम् । एतेन निर्विशेषत्वेन विशेषेणापतितेन हेतुना । विशेषाभावो हि निर्विशेषं ब्रह्मेति वाक्येन प्रतिपादयितुमिष्टः । प्रतिपादनक्रियया च विशेषाभावलक्षणो विशेषः प्राप्नोतीति ।।
अयमपि विशेषो निर्विशेषमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । तर्ह्येतद्वचनकर्तृत्वमपि मूकोऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । समस्समाधिः ।।
परबोधनोपायाभावाद्विशेषाभाव उपादीयते न तु ब्रह्मविशेषतयेति चेत् । अत्रापि परबोधनोपायाभावादेवेदं वचनम् । वस्तुतस्त्वसौ मूक एवेत्यस्तु ।
। निर्विशेषम् इत्यस्य विशेषनिरास एव तात्पर्यम्, न निर्विशेषत्वविशेषविधौ, अतः कथं विरोध इति चेत् । तर्हि मूकोऽहमित्यस्यापि वक्तृत्वनिरासे तात्पर्यम्, नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः ।।
न तत्र स्ववचनविरोधः, किन्तु स्वक्रियाविरोध इति चेत् । प्रकृतेऽपि किमन्योऽभिहित इत्यास्तां प्रपञ्चः । तदिदमुक्तं मूकोहमितिवदिति ।
५०सु०- यदर्थमयं प्रयत्नस्तदाह अभिन्नेऽपीति ।
अत उक्तप्रकारेण महावाक्यावान्तरवाक्ययोरन्यथाऽनुपपत्तिबलात् भेदरहितेऽपि ब्रह्मणि अयमनुपपत्तिशान्तिहेतुर्विशेषो नाम शक्तिविशेषोऽङ्गीकरणीयः प्राप्नोति । इदमुक्तं भवति । महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्यप्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव । एकधैवानुद्रष्टव्यमित्याद्येकरस(त्व)प्रतिपादकश्रुतेः । न चोक्तदोषः । यतो भेदहीनेऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेषो येन प्रकाशमानमपि न प्रकाशत इत्यादि युज्यते । स च विशेषोऽनयैवार्थापत्त्याऽवगम्यत इत्येव त्वया वक्तव्यमिति ।
सु०- नन्वङ्गीकृतेऽपि विशेषे नानुपपत्तिशान्तिः । सोऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादिदोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति ।
विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषबलाच्च विशेषतद्वद्भावोऽप्युपपादनीय इति शेषः । तथाऽपि विशेषपरम्परयाऽनवस्था स्यादित्यत आह स्वनिर्वाहकतेति ।
स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति । एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्बलादेव सिद्ध्यतीत्यङ्गीकरणीयमिति ।
५२सु०- नन्वभिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात्(तः) सिद्धमित्यत आह भेदहीने त्विति ।
तुशब्दोऽवधारणे । अपर्यायशब्दान्तरनियामक इत्यशेषभेदकार्यनिर्वाहकत्वोपलक्षणम् । एतदुक्तं भवति । जीवब्रह्मैक्यादीनामेकधैवेत्यादिश्रुत्या चैतन्यस्वरूपमात्रत्वं प्रतीयते । चैतन्ये स्वप्रकाशतया सिद्धेऽप्यसिदि्धः(?)अपर्यायशब्दवेद्यत्वम्, चैतन्य
प्रकाशस्य नाविद्यानिवर्तकत्वमद्वैतज्ञानस्य तन्निवर्तकत्वमित्यर्थक्रियाविशेषः । चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्ख्यावैलक्षण्यमित्यादिभेदकार्याणि चावगम्यन्ते । एतदुभयान्यथाऽनुपपत्त्या भेदरहितेऽपि चैतन्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिदतिशयोऽस्तीति कल्प्यते । गत्यन्तराभावात् । तथा चार्थापत्त्या स्वरूपग्राहिण्या भेदकार्यनिर्वाहक एवा(चा)सौ सिद्ध इति किं तत्र प्रमाणान्तरान्वेषणेनेति । अनेनैव विशेषस्य लक्षणं चोक्तं भवति, भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति ।
५३सु०- एवमद्वैतवादिना विशेषमङ्गीकारयित्वाऽन्यानप्यङ्गीकारयति सोऽस्तीति ।
न केवलं ब्रह्मणि मायावादिना विशेषोऽङ्गीकरणीयः, किं नाम प्रपञ्चसत्यतावादिभिरप्यशेषद्रव्येषु स विशेषोऽङ्गीक(र्तव्यः•र्यः । तथा हि, पटस्तच्छौक्ल्यं च तावन्न भिद्येते अङ्गुलीद्वयवद्भेदेनानुपलम्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रयाश्रयिभावेनावस्थानमिति चेत् ।
किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटोऽधिकरणत्वेन, बदराणीव शौक्ल्यमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । शौक्ल्यपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् ।
अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासम्भवात् ।
न च भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्ल्ययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्ल्यबुद्ध्योरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वं अपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानानयनम्, अपटः पट इतिवदशुक्लः पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटोऽयमितिवच्छुक्लोऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्लाप्रतिपत्तिवत् पटाप्रतिपत्त्यभावः, महारजनसम्पर्केण शुक्लत्ववत्पटस्या(प्या)वृतत्वाभावः, पटवद्वा शौक्ल्यस्याप्यनावृतत्वाभावः; इत्येवमादीनि ।
न चैषा प्रतीतिर्भ्रान्तिः । बाधितत्वाभिमानस्याप्यभावात् । व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथाऽनुपपत्त्या निर्भेदेऽपि पटेऽस्ति कश्चिदतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं स्यादित्येव कल्पनीयम् । स चातिशयोऽभिन्नेऽपि विशेषकत्वाद्विशेष इति गीयते । एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः ।
ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात् किं विशेषेणेति चेन्न । परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेषस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात् को विरोध इति चेत् ।
सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदानवस्थापरिहाराय(र्थमपि) विशेषाङ्गीकार(स्य•वश्यकत्वस्योक्तत्वादिति ।
सु०- ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकलवस्तूनामैक्यमित्यत आह विशेषा इति ।
ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति, न पुनरेक एव सर्वत्रातो नोक्तदोषः । सोऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषोऽप्येकैकोऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानुपपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा । तथा सति आकस्मिकत्वप्रसङ्गात् । ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह विशेषा इति ।
तेऽप्युक्तलक्षणा विशेषा अशेषतोऽपि वस्तुषु प्रत्येकमनन्ताः सन्ति । अतो नोक्तदोषावकाशः ।। अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् ।
प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य ।
तथा च भिन्नानां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह परस्परेति । परस्परविशेषवत्त्वेनैवानेकत्वं सम्भवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः ।
विशेषाणामपि विशेषान्तराङ्गीकारेऽनवस्थेत्यत आह स्वनिर्वाहकतेति । पूर्वं द्रव्येण विशेषस्याभेदचिन्ता इदानीं तु परस्परमिति स्फुटोऽर्थभेदः । सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् । न हि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्याऽर्थापत्त्यैव कल्प्यते ।
यद्यपि विशेषः प्रत्यक्षोऽपि भवति । येन प्रत्यक्षसिद्धेन इति वक्ष्यमाणत्वात् । तथाऽपि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति ।
सु०- यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषोऽङ्गीकारितस्तदिदानीमाह अत इति ।
निर्भेदमपि ब्रह्म अतो विशेषसामर्थ्यादनन्तगुणं भण्यत इति ।
यत्परेण पृष्टं लक्ष्यलक्षणयोर्भेद इत्यादि तस्येदमुत्तरम् ब्रह्म निर्भेदमिति । यदत्रोक्तमनेकलक्षणाभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वाऽनेकत्वानुपपत्तिः, शब्दपर्यायत्वं, गुणगुणित्वाद्यनुपपत्तिरिति; तस्योत्तरं, निर्भेदमप्यतो विशेषाद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावः, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यते इति ।
अत्र जगज्जन्मादिकारणत्वमिति वक्तव्ये अनन्तगुणम् इति वचनमिदं सूत्रमनन्तगुण(वत्)त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय जगज्जन्मादिकारणत्वलक्षणं प्रतिपादयितुं प्रवृत्तमिति सूचयितुम् ।
तदेवं जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे बाधकाभावान्न तटस्थत्वकल्पनं युक्तमिति सिद्धम् ।।
५६सु०- अत्राह । किमर्थं लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विशेषबलेन सर्वव्यवहारसमाधानं क्रियते, भेद एव कस्मान्नाङ्गीक्रियते; गुणगुणिभावस्तु समवायसम्बन्धा
द्भविष्यति । यदि च सूत्रकारेण समवायो निराकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम्; न हि पटादौ भेदाभावेऽपि विशेषबलाद्व्यवहारविशेषदर्शनमात्रेण ब्रह्मण्यपि तथा कल्पयितुं युक्तम्, निश्चायकप्रमाणाभावात् । निश्चायकप्रमाणोपन्यासार्थं हि सम्भावना कल्प्यते, यथाऽऽहुः
सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतः इति,
न पुनः सम्भावनैवार्थ(स्य)साधिकेत्यत आह एवं धर्मानिति ।
अपिशब्दाद्विशेषोऽपि । अत्र हि ब्रह्मधर्माणां पृथक्दर्शननिन्दयाऽभेदोऽवगम्यते । धर्मानिति च धर्मबहुत्वोक्त्या सविशेषत्वम् । न च धर्मानित्यनुवादमात्रं श्रुतिं विना तदसिद्धेः । मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निर्भेदमेव ब्रह्म विशेषबलादेव नानाव्यवहारालम्बनमिति ।
५७सु०- अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेव, उत उपादानत्वमेव, अथ उभयमपीति विमृश्य तृतीयः पक्षः (परि)गृहीतः । उपादानत्वं च परिणामित्वेनेति कश्चित् । प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः । तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते ।
५८सु०- तस्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् ।।
५९सु०- जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षणमभिहितम् । तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु च पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य अत्र परिहरति भगवान् सूत्रकारः ।।
सु०- तत्र पूर्वपक्षमारचयति शैवाद्येति ।
शिवेन रचितः शैवः । आदि ग्रहणादि्धरण्यगर्भादिरचिता गृह्यन्ते । तैः सम्प्राप्तं तदुक्तसाधनानुष्ठानसम्प्राप्तम् । दृष्टं दृष्टिः प्रत्यक्षमिति यावत्, तत्सिद्धं दृष्टगम् । फलेन तु तद्वाक्यस्य प्रामाण्यमनुमायेति शेषः । प्रमाणत्व इति विषयसप्तमी ।।
दृष्टफलार्थं साधनानि विदधद्वाक्यं तावत् प्रमाणतयाऽनुमीयते । केन लिङ्गेन, फलेन ।
तस्य पक्षासम्बन्धिनोऽनुमापकत्वं कथमित्यत उक्तं शैवाद्यागमसम्प्राप्तेति । अज्ञानासिदि्धं परिहर्तुमुक्तं दृष्टगेनेति । तुशब्दोऽनुमानद्वये हेतुविशेषद्योतकः । ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः ।
अयमर्थः । द्विविधो हि शिवप्रणीत आगमः । कश्चित् प्रत्यक्षयोग्यसम्पदादिफलमुद्दिश्य साधनानि विदधत् । अपरस्तु स्वर्गापवर्गाद्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसर्वशक्तित्वसत्यसङ्कल्पत्वाद्यशेषगुणपूर्णत्वं निरवद्यत्वं च प्रतिपादयति ।। तत्राद्यस्तावत्प्रमाणम् । तदुक्तसाधनानुष्ठाने सति प्रत्यक्षत एव फलदर्शनात् ।
तदयं प्रयोगः । विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात् चरकसुश्रुतादिवत् । यद्यप्रमाणमभविष्यत् न समर्थां प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् ।
तदुक्तम् प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् इति ।।
ततश्च तत्प्रणेतुः शिवस्य परमाप्तत्वमवधार्य तद्दृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते । अत्र च प्रयोगः । विप्रतिपन्न आगमः प्रमाणं शिववाक्यत्वात्सम्प्रतिपन्नवदिति । विपक्षे शिवस्यानाप्तत्वप्रसङ्गो बाधकः ।। तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्व(स्य•भिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शैवाः ।
अनयैव दिशा तत्तदागमप्रामाण्यं प्रसाध्य तत्तद्देवतावादिनां प्रत्यवस्थानानि द्रष्टव्यानि ।।
६१सु०- उपलक्षणं चैतत् । अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं (च) शक्यसाधनम् । तथा हि । क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवत् ।
विवादाध्यासितं कर्म प्रयत्नाधारजम् कर्मत्वात्सम्प्रतिपन्नवत् ।
विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, सम्प्रतिपन्नवत् ।
क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्सम्प्रतिपन्नवत् ।
इत्यादिभिरनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवात् भगवांश्छिव एव परिशेषाज्जगज्जन्मादिकर्ता सिद्ध्यति ।
यथा च (वि)चित्रादिकार्यदर्शनात् तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदर्शनात्(नेन) कल्प्यमानोऽपि कर्ता तदनुगुणः सार्वज्ञादिमानेव सिद्ध्यति ।
अथवा क्षित्यादीनां कर्तेत्येतदन्तर्गतमेव सर्वज्ञत्वादिकं न यत्नान्तरमपेक्षते, निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वात् ।
एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति ।।
६२सु०- एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता । आगमादनुमानतो वाऽन्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः ? शास्त्रयोनित्वात् ।
ऋग्यजुस्सामाथर्वाश्चेत्यादिनोक्तं शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनिः तस्य भावः शास्त्रयोनित्वं तस्मात् । एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाभ्युपगन्तव्य इति ।।
६३सु०- स्यादेतत् यदि शास्त्रैकसमधिगम्यत्वं सौत्रो हेतुः सिद्धः स्यान्न चैवं प्रत्यक्षागम्यत्वेऽपि शैवाद्यागमैरनुमानैश्चोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्; इत्याशङ्क्य सौत्रहेतुसिद्धये शैवाद्यागमगम्यत्वं तावन्निराचिकर्षुस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमानमपाकरोति इति चेदिति ।
तद्गः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च सोऽस्यास्तीति तद्गव्यभिचारि वाक्यं, तेन दृष्टान्तभूतेन, शिवादीनां जगत्कारणत्वा(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुनाऽप्रामाण्यानुमितिश्च स्यात् ।
एतदुक्तं भवति । यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्यानां प्रामाण्यमनुमाय तद्दृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारवद् दृश्यते तस्य, विमतमप्रमाणमसमर्थप्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तद्दृष्टान्तेन शिवादिवाक्यत्वादिहेतुनैवादृष्टार्थानामपि, विमतान्यप्रमाणानि शिवादिवाक्यत्वात् सम्प्रतिपन्नवदित्यप्रामाण्यमनुमातुं शक्यत एव । न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् । विफलप्रवृत्तिजनकस्यापि बहुलमुपलम्भात् ।
ननु तदपि वाक्यं प्रमाणमेव । (फल)व्यभिचारश्च(स्तु) कर्तृकर्मादिवैगुण्यनिमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवादस्तु काकतालीयो वा जगद्व्यामोहकानां शिवादीनां गुडजिह्विका वेत्यस्तु । प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्त्रादिवैगुण्यं कारणं कल्पनीयम् । फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् । शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न । तवापि फलविसंवादिन्यनैकान्त्यात् ।।
किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा । नाद्यः । परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् । न द्वितीयः । अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः ।
अथ तदनुमानमप्रयोजकं हिरण्यगर्भवाक्यत्वेऽप्यागन्तुकेन विप्रलम्भादिना(दि) दोषेणैकस्याप्रामाण्यसम्भवादिति चेत् । समं समाधानम् । अनेनैव न्यायेन चैत्यवन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् । न हि तद्वक्ता कदाऽपि सत्यं नावादीत् ।
तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिद्ध्यति (इति) ।
६४सु०- मा भूच्छैवाद्यागमाज्जगज्जन्मादिकर्तृसिदि्धः, उक्तानुमानैस्तु भविष्यति, तत्कथं शास्त्रैकसमधिगम्यत्वं जगत्कारणस्येति चेत् । किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते, उत स्वतन्त्रम् । आद्यस्त्वङ्गीक्रियत एव, तेनास्मत्पक्षस्यैव सिद्धेः । शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् ।।
द्वितीयं दूषयति न पृथगिति ।
ईश्वरे जगत्कारणे, पृथक् स्वतन्त्रानुमा, च न, मानमित्यर्थः । तथा हि । यत्तावत्सामान्यतो जगत्कर्तृत्वसिद्धावनुमानम्, तत्र किं कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वं साध्यम्, सकर्तृकत्वमात्रं वा ।
आद्ये दृष्टान्तस्य साध्यवैकल्यम् । न हि कुलालादिर्घटादिकारणानि धर्माधर्मादीनि साक्षात्कुरुते ।। अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् । किमेतावता । साध्यवैकल्यापरिहारात् ।। कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् । केवलव्यतिरेक तर्ह्ययमस्त्विति चेन्न, विशेषणासिद्धेः ।
द्वितीये सिद्धसाधनम्, अदृष्टवतां जीवात्मनामेव कर्तृत्वोपपत्तेः । तेषां कारणानभिज्ञत्वान्नेति चेन्न, कुलालादीनामकर्तृत्वप्रसङ्गात् । अदृष्टाधिष्ठात्राऽपि केनचिद्भाव्यमिति चेन्न, अधिष्ठातृकृत्याभावात् । न तावन्नोदनादिकम्, अद्रव्यत्वात् । न चातिशयजन्म, गुणे गुणाद्यन्तरानुपपत्तेः । न चातीन्द्रियाधेयशक्तिः, अनभ्युपगमात् । न च सहकारिसमवधानम्, अदृष्टादेव तदुपपत्तेः ।
नापि कार्यकारित्वम्, तस्यादृष्टस्वभावत्वात् । तर्ह्युत्पत्त्यनन्तरमेव किं न कुर्यादिति चेत् न, प्रबलादृष्टान्तरप्रतिबन्धादिनेति वदामः ।
किञ्च कार्यत्वं पक्षे कुतः सिद्धम् ।। अभूत्वाभावित्वादिति चेन्न, तस्यैव कार्यत्वात् । कथञ्चिद्भेदेऽपि भागासिद्धत्वात्, न खलु गिरिसागरादीनामभूत्वाभावित्वमस्माभिरुपलभ्यते । तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यत्वसिदि्धरस्त्विति चेन्न, सावयवत्वं (हि) समवायिकारणवत्त्वमुत परिणामिकारणवत्त्वम् (वा) । आद्ये प्रतिवाद्यसिदि्धः । द्वितीये वाद्यसिदि्धः ।
किञ्च यस्य कार्यत्वमात्रे(ऽपि) विप्रतिपत्तिः स कथं कारणवत्तामेवाभ्युपेयात् ।
ननु क्षित्यादीनां प्रत्यक्षत एव प्रदेशवत्त्वमनुभूयते । अन्यथा कथं भूतले घटभावाभावौ युगपत्सम्भवत इति चेन्न, तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् । कथमन्यथा गगने पक्षिणो भावाभावौ युगपदिति तत्रापि वक्तुं शक्यत्वात् । संयोगस्य स्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत्, समं प्रकृतेऽपि ।।
खननादिना येषां विभागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् । तत्किं संयोगविभागि(?)सजातीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्वम् । आद्ये परमाणुभिर्व्यभिचारः । द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिदि्धश्चेति ।। एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् ।
यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम्, तदपि पूर्ववत्सिद्धसाधनम् ।
किञ्च संयोगवेगप्रयत्नवददृष्टमपि कस्माद्गुरुत्वप्रतिबन्धकं न कल्प्यते । अपातित्वं च सन्दिग्धासिद्धम्, महत्त्वेन पतनानुपलम्भसम्भवात् ।
एतेन चरमानुमानमपि निरस्तम् ।
क्षित्यादिकं विकर्तृकम् अनुपलभ्यमानकर्तृकत्वाद्गगनवदित्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् । अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः । परसुखादौ व्यभिचार इति चेन्न, तस्यानुमानादुपलब्धेः । तर्हि क्षित्यादिकर्ताऽप्यनुमानादुपलभ्यत इति चेन्न, अनुमानादीश्वरोपलब्धावस्मदनुमानस्य दुष्टत्वम् । तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रय(प्रसङ्गत्व•त् ।
अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि (इति) ।
सु०- यच्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् । नाद्यः, शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् । द्वितीयं दूषयति न पृथक् चेति । ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः ।। तत्कथमित्यत आह पुंस्त्वेति ।
पूर्वोक्तेन (एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव, सत्प्रतिपक्षत्वेनैवेत्यर्थः । एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोषे सतीति द्योतयति ।
६६सु०- ईशवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह पुंस्त्वेति ।
पूर्वोक्तेन (एव) वर्त्मनेति सत्प्रतिपक्षतामात्रमतिदिष्टम् । न तु स हेतुरिति भावः ।
अयमत्र प्रयोगः । शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति ।
ननु शिवः केन प्रमाणेन सिद्धः । अथ परिशेषतः, जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धम् (?) । लोकप्रवादादिनेति चेत् । ममापि तथेत्यस्तु । भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न, केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् ।
ननु जगत्कारणत्वं शिवनिष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति हि परिशेषानुमानम्, तत्कथमस्यायं प्रतिपक्ष इति चेन्न, विरुद्धार्थसाधनमात्रेण प्रतिपक्षसम्भवात् । प्रयोगतोऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वात्, अन्यथैवंविधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावेनादूषणत्वप्रसङ्गात् । न चैवमस्त्विति वाच्यम्, प्रतिरोधकत्व(स्याप्रतिबन्धकत्व)स्यानुभवसिद्धत्वात् । नन्वेवं सति सामान्यसिदि्धरनुपपन्नाऽऽपद्यत इति चेत्, आपद्यताम्, तदनुमानानां दूषितत्वात् ।
६७सु०- किमतो यद्येवमिति चेत्; सिद्धः सौत्रहेतुरित्याह शास्त्रयोनित्वमिति ।
एतेन उक्तप्रकारेण । कारणस्य जगत इति शेषः । बलात् प्रकारान्तरेणासिदि्धबलात् ।
सु०- जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह नावेदविदिति ।
नावेदविन्मनुते(दं) तं बृहन्तम् , नैषा तर्केण मतिरापनेया , नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति , इत्यादिवाक्यतः, इति ज्ञायत इति शेषः । तर्क इत्यनुमानमात्रोपलक्षणम् । ईशितारं जगत्कारणं(त्कर्तारम्) । कथञ्चन सामान्यतो विशेषतश्च ।
सु०- यदपि कार्यत्वादिहेतोः पक्षधर्मताबलादन्यस्माद्वाऽनुमानादीश्वरस्य सार्वज्ञादिसिदि्धरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह वनकृत्त्वादीति ।
ननु अत्रैवं प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पुंस्त्वाद्देवदत्तवदिति । तत्रेश्वरः प्रमितो वा न वा ।। आद्ये येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेर्धर्मिग्राहक(प्रमाण)विरोधः । द्वितीये त्वाश्रयासिदि्धः । तत्कथमुच्यते ईशितुः किञ्चिज्ज्ञत्वं च पुंस्त्वेन साधयितुं शक्यं हीति तत्राह सुखमिति । तत्कथमित्यत उक्तं वनकृत्त्वादिरूपेण पक्षभूतस्येति । प्रसिद्धकर्तृरहितं वनं सकर्तृकं कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न कोऽपि दोष इत्याशयः । वनकृत्त्वं पर्वताधारकत्वमित्यादिरूपो धर्मस्तेनोपेतस्य ।
न हि वनकर्तेत्येतावता सर्वज्ञ इति लभ्यते । प्रसिद्धवनकर्तुरसर्वज्ञत्वात् ।
स एव क्षित्यादिकर्तेति कथं न सार्वज्ञ्यमिति चेन्न । तद्भावे प्रमाणाभावात् । न हि कार्यत्वादिहेतुः कर्तारमिव तस्य सर्वत्रैकत्वं गमयितुं शक्नोति । लाघवादेकत्वमाश्रीयत इति चेत् (न) । लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्यो)चितत्वात् ।
लोके हि गजगवयगर्दभादीनां घटपटादीनां च निर्मातारो विजातीया एवोपलभ्यन्ते ।
न च वनकर्ता किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् । तस्यैवेश्वरतया परेणाङ्गीकृतत्वात् । अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् ।
सु०- न केवलं किञ्चिज्ज्ञत्वसाधनं सुकरम् । किन्तु स्वकृतकार्याज्ञत्वमपि शक्यसाधनमित्याशयेनाह वृक्षकृदिति ।
वृक्षकृदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिदि्धपरिहारायोक्तम् । प्रसिद्धकर्तृरहितेत्यपि योज्यम्, अन्यथा सिद्धसाधनताप्रसङ्गात् । अखिलम् इत्यारम्भकावयवसङ्ख्यापलपरिमाणविशेषसहितम् ।
अस्मदादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भावादनैकान्त्यपरिहारायाखिलमित्युक्तम् । हीति विपक्षे बाधकाभावं सूचयति । न हि यो यत्कर्ता स सकलं तज्जानातीति नियमः, कुलालादावभावात्, अनुपयोगाच्च तज्ज्ञानस्येति ।
अनेनैव न्यायेन सर्वत्र प्रतिपक्षसम्भवात् सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्वदुःखादिराहित्यादिकमपि नानुमानेन साधयितुं शक्यमित्याशयवानाह इत्यादीति ।
आदिशब्दः प्रकारवचनः । परेशितुः सत्यसङ्कल्पत्वाद्युपेतस्य ।
७१सु०- आभाससमानयोगक्षेमं चेश्वरानुमानजातमित्याह चातिप्रसङ्ग इति ।
ईदृशा आगमादिसहायसम्पदमपहायात्यन्तातीन्द्रियार्थे(षु) प्रयुज्यमानया अनुमया अतिप्रसङ्गश्च भवतीत्यर्थः ।
अतिप्रसङ्गमेव दर्शयति वस्तुत्वादिति ।
चित्रिणी वन्ध्या । षष्ठो रसो रसान्तरवानित्युक्ते प्रथमादिरसेन सिद्धसाधनं स्यात् । सप्तमरसवानित्युक्ते अप्रसिद्धविशेषणता स्यात् । अतः सोत्तर इत्युक्तम् । ईश्वरानुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः ।
ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न, तस्यापि पक्षत्वात् । तुरगृङ्गादीनामनुपलम्भबाध इति चेत्, क्षित्यादिकर्तुरप्येवमेव । अयोग्यत्वान्नोपलभ्यत इति चेत्, तुरगविषाणमपि एवम(मेवा)स्तु । न च(नु) विषाणं नाम महत्त्वे सत्युद्भूतरूप(ः )शरीरावयवविशेषः, स कथमुपलब्ध्ययोग्यः स्यादिति चेत्, कर्ताऽपि तर्हि कुलालादिरिव महत्त्वे सत्युद्भूतरूपशरीरवान् कथमुपलब्ध्ययोग्यो भविष्यति । अशरीरत्वान्नोपलभ्यत
इति चेत्, रूपाभावात्तुरगविषाणमपि तथाऽस्तु । विषाणं रूपवदेवेति चेत्, कर्ताऽपि शरीरवानेव । शरीरं कर्तृत्वेऽनुपयुक्तमिति चेत् न, किमुपयोगेन, न हि तदुत्पत्त्या व्याप्तिर्बौद्धानामिव भवताम् । धर्मादिमत्त्वं शरीरित्वे प्रयोजकमिति चेन्न, तस्यापि कर्तृत्वेन साधनादिति ।
ननु कथमत्र प्रयोक्तव्यम् । अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ (अपि) वर्तेतेत्येवमिति ।
सु०- ननु विचारशास्त्रमारभ्य जगत्कारणेऽनुमानानवकाशव्युत्पादनं व्याहतमित्याशङ्कां परिहरन्नुपसंहरति उपक्रमादीति ।
आगमानुगृहीतानुमानोपलक्षणमेतत् । आगमानुग्रहे हि सर्वाण्येतान्यनुमानान्येव, पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतःप्रमाणेन शास्त्रेण सिद्धेः, प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्क्षेपः ।
७३सु०- तदेवं जगत्कारणत्वस्य(णस्य) शास्त्रैकसमधिगम्यत्वान्नानुमानादिना लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् ।।
७४सु०- अत्र केचित् शास्त्रस्य योनिरिति व्याचक्ष(कुर्व)ते ।। तदनुपपन्नम् प्रकृतानुपयोगात् ।
न हि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः, व्याप्त्यदर्शनात् । पूर्वसूत्रे जगत्कारणत्वेन प्रतीतं सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन्न, वेदस्यापि सकलजगदन्तर्भावात् । कथ• चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटम्, तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् ।
अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति चेन्न, असिदि्धप्रसङ्गात् । न हि ब्रह्मणो जगत्कारणत्वमनङ्गीकुर्वाणो वेदकारणत्वमङ्गीकरोति । आगमेन साध्यत इति चेत्, तर्हि जगत्कारणत्वमेव तेन किं न साध्यते, ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तताप्रसङ्गाच्च ।
जगत्कारणत्वेन सर्वज्ञत्वं न सिद्ध्यति वेदाकर्तृत्वादित्याशङ्क्येदमुक्तमिति चेन्न ।
तथा सति प्रतिज्ञामात्रत्वप्रसङ्गात्, वियदादिविषयेऽप्येवमाशङ्काप्रसङ्गात् । वियदधिकरणादौ साऽपि निराकरिष्यत इति चेत् (न) । तर्हि तेनैवेदं गतार्थं स्यात् ।
किञ्च वेदकर्तृत्वाभावे(न) सार्वज्ञ्यं न सम्भवतीति शङ्कैव निर्दला । न हि तत्कर्त्रैव तज्ज्ञातव्यमिति नियमोऽस्ति ।
किञ्च वेदकर्तृत्वं कथं सार्वज्ञ्यसाधकम् । यो यावदर्थप्रतिपादकस्य वाक्यस्य प्रणेता
स ततोऽप्यधिकमर्थं जानात्येव, यथा पाणिन्यादिः, अयं चाशेषार्थप्रतिपादकस्य शास्त्रस्य प्रणेताऽतः (कथं न) सर्वज्ञ इति चेत् न । किमिदं वेदप्रणेतृत्वं नाम । किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि)प्रबन्ध(न)कर्तृत्वं किं वोच्चारणमात्रम् । आद्ये पौरुषेयत्वापत्तिः । द्वितीये सार्वज्ञ्यासिदि्धः । उपाध्याय•दि)वत्, रज्जौ भुजङ्गवद्ब्रह्मण्यारोपितो वेद इति चेत्, कथं तर्हि पाणिन्यादिदृष्टान्तः । न हि पाणिनावारोपितं व्याकरणम् ।
कथं चैवं सति सार्वज्ञ्यसिदि्धः । तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत् (न), वियदादीनामपि प्रकाशशक्तिप्रसङ्गात्, अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्रसङ्गात् (च) ।
किञ्च वेदे ज्ञानकरणत्वशक्तिर्ब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्गतम् । कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति । तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः ।।
सु०- अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथाऽपि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम्, अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते, तथाऽपि न तात्पर्ये प्रमाणमस्ति, यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण
तात्पर्यं कल्पयितुं युक्तम्, अतिप्रसङ्गात् । अन्यत्र तात्पर्यस्य च ज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् । तस्मादलक्षणमेतदित्याशङ्क्य परिहृतं सूत्रकृता तत्तु समन्वयादिति ।
७६सु०- तत्रान्वयपदार्थमाह त एवेति ।
उपक्रमादय एव । अन्वीयन्ते शक्तितात्पर्यगोचरेण सम्बध्यन्ते तथा ज्ञायन्त इति यावत् वाक्यान्येतैः इत्यन्वयनामानः ।। अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणे(हेणे)दं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्वा व्याख्यातृवचनं वा लिङ्गम्, किन्तूपक्रमादय एव, तेषामव्यभिचारित्वात्, प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीतिव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव
न तु स्वतः । अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति । तदिदमाह त एवेति ।
७७सु०- सूत्रवाक्यं योजयति तैरिति ।
अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति । तेन च तेषामविरोधं सूचयति ।
संशब्दार्थः सम्यगिति, तस्य च प्रविचारित इत्यध्याहृतक्रियया सम्बन्धो दर्शितः ।।
ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात् कथं लिङ्गत्वमित्याशङ्कानिरासाय सम्यक् प्रविचारित इत्युक्तम् । उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबल(वि)निश्चयपुरस्सरं, विरोधे बलवता दुर्बलबाधया, वाक्यार्थविमर्शः सम्यक् प्रविचारणम् । तेन नोपक्रमादिमात्रं लिङ्गमुच्यते, येन व्यभिचारोद्भावनं सङ्गच्छेत, किन्तु सम्यक् प्रविचारलक्षणावान्तरव्यापारोपेता एवोपक्रमादयः । न च ते क्वचिद्व्यभिचरन्तीत्युक्तं भवति ।।
प्रविचारित इति भावे क्तः ।
प्रविचारे कृते सतीति । शास्त्रे प्रविचारिते सतीति वा ।
एतदवगम्यत इति वाक्यशेषः ।
मुख्यार्थ इत्यावृत्त्या संशब्दस्यार्थान्तरम् । सर्वेत्यपि संशब्दार्थ एव ।
शास्त्रस्यार्थ इति शास्त्रयोनीति पूर्वसूत्रादनुवृत्तस्य व्याख्यानम् । भगवान्विष्णुरिति तच्छब्दार्थः । तुशब्दोऽवधारणे । तद्व्याख्यानं नापर इति ।
सु०- तथा चैवं सूत्रयोजना । अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्याऽन्वयाच्छक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय इति ।
सु०- अनन्तगुणपरिपूर्णत्वं हि प्रधानलक्षणम् । तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम्, लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात्, वाच्ये तद्गुणप्रसङ्गाच्च । एवं कतिपयवाक्यैरनन्तगुणाप्रतिपादनात्, वाक्यान्तरविषयस्य च तद्गुण(व)त्त्वप्रसङ्गाच्च । अतः संशब्दस्यावृत्तिरुपपन्ना ।
सु०- ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम्, तदेवात्र मण्डूकप्लुत्याऽनुवर्तिष्यते, किं पुनरत्र तद् ग्रहणेन ।
मैवम् । तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थमुपादेयः । नच तस्य तदित्यनुक्तौ अन्वयः प्रत्येतुं शक्यते, यतोऽवधारणं ततोऽन्यत्र निषेध इति वचनात् । न चानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम्, श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात् । तत्रोपयोगाभावान्नेति चेन्न, प्रतीतिव्याख्याननिरासार्थत्वोपपत्तेः । अन्वयपदादेव तत्सिदि्धरिति चेन्न, तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एव चरितार्थत्वसम्भवात् । अतः सार्थकं सूत्रे तहणम् ।
८१सु०- संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् । निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् ।
८२सु०- तदेवं जगज्जन्मादिकारणत्वेन मुख्यया वृत्त्या वर्णपदवाक्यात्मकाशेषशास्त्रप्रतिपाद्यं नारायणाख्यं ब्रह्मैवेति सुस्थं लक्षणमिति सिद्धम् ।।
८३सु०- वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम्, तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते । तथा हि । यतो वाचो निवर्तन्ते , अशब्दमस्पर्शम् इत्यादिश्रुतेः, शब्दो न यत्र पुरुकारकवान् इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते । वचनवृत्तिश्च द्रव्यगुणक्रियाजातिनिमित्ता । न च ब्रह्मणो द्रव्यादियोगोऽस्ति, केवलो निर्गुणश्च , निष्कलं निष्क्रियं शान्तम् इत्याद्यागमात् । तत्कथं तस्य वाच्यता सम्भवति ।।
औपनिषदत्वं (तु) च लक्षणया वृत्त्या सम्भवन्न वाच्यतामपेक्षते ।। अतोऽवाच्यत्वाद्ब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्वमिति ।।
अपर आह न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणः सम्भवति, निश्चयोपायाभावात् । उपक्रमादयो हि तन्निश्चयोपायाः, तैश्चास्मदाद्यधिगतशास्त्रस्य कथञ्चिद्ब्रह्मविषयतावधारणेऽप्यस्मदनधिगतशास्त्रस्य तत्परतावधारणायोगात् । अनन्ता वै वेदाः इति श्रुतेरनन्तं हि शास्त्रमवगम्यते । न चानन्तशास्त्राधिगमोऽस्माकं कल्पकोटिशतैरपि सम्भवति ।।
विफलश्च शास्त्रैकदेशस्य ब्रह्मपरत्वाध्यवसायः, एकदेशान्तरे तद्विपरीतप्रतिपादनस्यापि शङ्कनात्, न च वस्तुनि विकल्पः सम्भवति, इति अत्रापि सन्देहः समास्कन्दति ।। इत्यतो न सर्वशास्त्रप्रामाण्याज्जगज्जन्मादिकारणं समस्तगुणपरिपूर्णं ब्रह्म सिद्ध्यति ।
इत्येवं प्राप्ते अवाच्यत्वशङ्कां तावन्निराचष्टे सूत्रकारः ईक्षतेर्नाशब्दमिति ।।
तद्व्याचष्टे ईक्षणीयत्वत इति ।
८४सु०- अत्र ईक्षतेरिति धातुनिर्देशः ।। न चाविवक्षितार्थं शब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थोऽनेनोपलक्ष्यते ।।
न च ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति, अतिप्रसङ्गात् । सम्बधश्च न कर्तृत्वादिरूपः, श्रुत्यननुगमात्, विपक्षे बाधकाभा(वाच्च)वप्रसङ्गाच्च । अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । न चैतदपि युक्तम्, व्यधिकरणत्वप्रसङ्गात् ।। तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितम्; इत्याशयेनोक्तम् ईक्षणीयत्वत इति ।
तदित्यनुवर्तते । तेन विष्णुरित्याह । न विद्यते वाचकः शब्दो यस्य तदशब्दम् । अवाच्यमित्यर्थः ।। वाच्यमिति वक्तव्ये नावाच्यमिति वचनं द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः इति वचनादवधारणार्थमित्यभिप्रेत्योक्तं वाच्य एवेति ।।
नन्ववधारणमपि किमर्थम् । उच्यते । तत्त्वनिर्णयार्थं हि न्यायसूत्रम् । निर्णयश्च स्वपरपक्षसाधनोपालम्भाभ्यामेव भवति । नान्यतरमात्रेण । यथोक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति । तदत्रावधारणे कृते वाच्यत्वविधिरवाच्यत्वनिषेधश्चेत्युभयमपि श्रुत्यर्थाभ्यां प्रतिज्ञातं स्यात् । उभयसाधनार्थश्चेक्षणीयत्वहेतुर्विज्ञायते । तथा च निर्णयो भवेत् । वाच्यमिति तु प्रतिज्ञाते परपक्षप्रतिषेधो न कृतः स्यात् । न च तदर्थमन्यत्सूत्रमस्ति । अतो युक्तोऽयं निर्देशः ।।
एवमन्यत्रापि वेदितव्यम् ।
इदमुक्तं भवति । ब्रह्म वाच्यं भवितुमर्हति, न पुनरवाच्यम्, ईक्षणकर्मत्वात्, घटवत् । ईक्षणीयत्वं च ब्रह्मणः स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते , आत्मन्येवात्मानं पश्येत् इत्यादिश्रुतिसिद्धमिति ।
ननु ब्रह्मणो वाच्यत्वाभावे किं बाधकम् । ईक्षणीयत्वं न स्यात्, तथा च ब्रह्मज्ञानाभावेन शास्त्रवैयर्थ्यमनिर्मोक्षश्च स्यादिति चेन्न, वाच्यत्वस्याव्यापकत्वादीक्षणीयत्वस्याव्याप्यत्वाच्च ।
न ह्यव्यापकनिवृत्तिरव्याप्यनिवृत्तिमापाद(यति)यितुं शक्नोति । ईक्षणीयत्वं हि प्रत्यक्षानुमानागमतदाभासनिमित्तं व्यापकं युक्तम् । वाच्यत्वं च शब्दवृत्तिविशेषोपाधिकं व्याप्यमेवेति ।।
मैवम् । न तावदिदं मोक्षार्थमुपदिष्टं ब्रह्मेक्षणं प्रमाणाभासजन्यम् । भ्रान्तेरविद्यानिवर्तकत्वाभावात् । नापि प्रत्यक्षानुमानजम्, शास्त्रैकसमधिगम्यतायाः साधितत्वात् । तथा च प्रकारान्तराभावे सति यदि ब्रह्म वाच्यमपि न भवेत्तदेक्षणीयमपि न भवेदिति बाधकं सम्भवत्येव । न च व्याप्त्य(भा)सम्भवः, व्यतिरेकसम्भवात्, यत् यत्कारकाविषयः तत् तत्क्रियाऽविषयः यथा कुठाराद्यविषयो गगनं न छिदाविषय इति सामान्यव्याप्तिसम्भवाच्च ।
सु०- ननु मा भूत्प्रमाणाभासैः प्रत्यक्षानुमानाभ्यां चेक्षणं ब्रह्मणः, मा च भूद्वाच्यम्; तथाऽपि शब्दलक्ष्यतयेक्षणीयं च भविष्यति; तथा च विपक्षे बाधकाभावादप्रयोजको हेतुः; इत्यत आह न चेति ।
हि यस्मात् अन्यथा वाच्यत्वाभावे, लक्ष्यत्वं क्वापि न दृष्टम् । तस्मात्, अवाच्यत्वे ब्रह्मणो लक्ष्यत्वा(योगा)भावाल-लक्षणयाऽपि नेक्षणीयत्वमिति शेषः । केनचिच्छब्देन वाच्यमेव हि तीरादिकं केनचिल-लक्ष्यं दृष्टमिति ।
८६सु०- नन्ववाच्यमपि लक्ष्यं किं न स्यात्, ततश्च विपक्षे बाधकाभावादप्रयोजकोऽयं प्रसङ्गहेतुः; इत्यत आह किं तदिति ।
अन्यथेत्यनुवर्तते । यद्यवाच्यमपि ब्रह्म लक्ष्यमित्यङ्गीक्रियते; तदा किं तदि ति जिज्ञासाप्रवृत्तावनवस्थितिः (स्यात्) । इदमुक्तं भवति । लाक्षणिको हि शब्दो न श्रुतमात्रोऽर्थान्तरे धियमुपजनयति, तत्रागृहीतशक्तित्वात् । किन्तु वाच्यार्थ(र्थे)बुदि्धमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावताऽपि, वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् ।
किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् । गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसम्बन्धितयाऽवगतं तीरादि । तथा च वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या ।
न च तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) ।
ततो लाक्षणिकशब्दे प्रयुक्ते, वाच्यार्थेऽनुपपत्तिं पश्यतो, लक्षणीयेऽर्थे किं तद्यदनेन लक्ष्यमि ति जिज्ञासायां शब्द एव प्रयोक्तव्यः । तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव, तर्हि पुनः किं तदि ति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेल-लक्ष्यमेव, पुनर्जिज्ञासैव, इत्यपर्यवसानं स्यात् ।
पूर्वपूर्वलक्षणाऽसिद्धावुत्तरोत्तरलक्षणाऽसिद्धेर्मूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिकार्थं प्रतीयात् । वाच्यत्वेऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न, अभिमान्यधिकरणे वक्तव्यत्वात् ।
तस्माद्विपक्षेऽनवस्थालक्षणबाधकसद्भावात्, अवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तोऽतिप्रसङ्ग इति ।
सु०- नन्विक्षुक्षीरगुडादीनां विशेषास्तावद्विद्यन्ते, अनुभवसिद्धत्वात् । न च ते केनापि शब्देन वाच्याः, तद्वाचकशब्दाभावात् । तथाऽपि लक्ष्या दृश्यन्ते, अन्यथा तत्र वाग्व्यवहाराभावप्रसङ्गात् । अतोऽवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गः प्रशिथिलमूलः, यथोक्तम् इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । भेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते इति । यथा (च) माधुर्यादिविशेषाणामवाच्यानामपि प्रतीततामात्रेण लक्ष्यत्वम् ।
तथा ब्रह्मणोऽवाच्यस्यापि स्वयंप्रकाशत्वेन प्रसिद्धस्य लक्ष्यत्वं सम्भवतीत्यत आह माधुर्यादीति ।
तच्छब्दैः माधुर्यादिविशेषशब्दैः । सदा इत्यवधारणार्थे । उदिता वाच्या एवेति ।
ननु माधुर्यादि)विशेषशब्दः साधारणः । किमेतावता । न हि गोशब्दोऽनेकार्थ इति न कस्यापि वाचकः । तथा च लक्षकोऽपि न स्यात्, वाच्यार्थद्वारत्वाल-लक्षणायाः ।
ननु (च) वाचकत्वं पदधर्मः । माधुर्यादिविशेष इति च न पदं किन्तु वाक्यमेव । अनेकपदात्मकत्वात् । तथा च कथं तच्छब्दैरुदिता इति । मैवम् । ऐकपद्यमैकस्वर्यं च समासप्रयोजनमिति शाब्दैरङ्गीकृतत्वात् ।
अथवा तच्छब्दैः सूदशास्त्रादिप्रसिद्धैर्वाचकशब्दैरुदिता इति व्याख्येयम् । तथा चोक्तम् विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निर्हारीत्यभिधीयते ।। इति । यथा च ध्वनिविशेषाणां मन्दव्युत्पत्तिभिरविदिता अपि श्रुतिस्वरजातिरागादिशब्दा वाचकाः सङ्गीतशास्त्रप्रसिद्धाः तथा माधुर्यादिविशेषाणामपि तत्तदधिकृतशास्त्रेषु प्रसिद्धा वाचकाः शब्दाः कथं न स्युः । ततश्च इक्षुक्षीरगुडादीनां इति वचनमात्मनो व्युत्पत्त्यभावख्यापनार्थं शारदानिन्दया प्रत्यवायार्जनार्थं च । अतो न प्रशिथिलमूलोऽतिप्रसङ्ग इति ।
यदपि स्वप्रकाशतया सिद्धत्वात् ब्रह्मणो लक्ष्यत्वोपपत्तिरिति तदुपरिष्टान्निराकरिष्यते(ति) ।
सु०- नन्ववाच्योऽपि नदीतीरफलसंसर्गलक्षणो वाक्यार्थो लक्ष्यो नद्यादिपदैरुपलक्ष्यते । यथोक्तम् वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिः । इति । तथा च व्याप्त्यभावादप्रयोजकोऽयं प्रसङ्गः । वाक्यार्थश्च ब्रह्माभ्युपेयते न पदार्थः । अतो लौकिकवाक्यार्थवदवाच्यमपि लक्ष्यं किं न स्यादित्यत आह वाक्यार्थोऽपीति ।
एवशब्दस्योदित इति (अनेन) सम्बन्धः । वाक्यार्थशब्दस्य वाक्यार्थावाचकत्वेऽन्यत्तद्वाच्यं वाच्यम् । न ह्मस्माभिर्लक्षकेनैव शब्देन वाच्यत्वमाशास्यते, किन्तु केनचिच्छब्देन वाच्यमेव केनचिच्छब्देन लक्ष्यमिति भावः । अयं चाङ्गीकारवादो ज्ञेयः, अन्विताभिधानस्य समर्थितत्वात् । ब्रह्मणो वाक्यार्थत्वं तु संसर्गत्वस्य संसृष्टत्वस्य वाऽनङ्गीकारादयुक्तम्, वाक्यस्याखण्डार्थनिष्ठताया निरस्तत्वात् (इति) ।
८९सु०- एवं व्यभिचारं निरस्य सुस्था प्रसङ्गमूलभूता व्याप्तिरित्याह नावाच्यमिति ।
लक्ष्यमिति शेषः ।। अथवा ब्रह्मणोऽवाच्यत्वे तस्य वस्तुत्वमेव न स्यात् । यतो ऽवाच्यं किञ्चिदपि नास्ति इति प्रसङ्गान्तरसूचनमिदम् ।
सु०- ननु यतो वाचो निवर्तन्ते इत्याद्यागमविरोधात्कालात्ययापदिष्टमीक्षणीयत्वेन वाच्यत्वसाधनम् । प्रसङ्गानां च विपर्ययापर्यवसानमिति ।। स्यादेतदेवम्, यदि ब्रह्मावाच्यत्वं श्रुत्यर्थः स्यात्, न चैवम्, तथा व्याख्याने स्वक्रियाविरोधापत्तेरित्याह यत इति ।
यत इत्यादिशब्दैर्ब्रह्मोक्तवा (हि) तस्यावाच्यत्वं वाच्यम्, अन्यथा यस्यकस्यचिदवाच्यताऽऽपत्तेः । तथा च यत इत्यादिकैः (शब्दैः) पदैर्ब्रह्मैव वदन्कथं पुनस्तस्यावाच्यत्वं श्रुत्यर्थतया ब्रूयात् । मूकोऽहमितिवत्स्वक्रियाविरोधात् । सुधीरिति विपरीतलक्षणया परस्याकोविदत्वमाह ।
सु०- स्यादेवं स्वक्रियाविरोधो यदि यत इत्यादिशब्दैर्ब्रह्म वचनवृत्त्योक्तवा तस्यावाच्यत्वमुच्यते (च्येत) । न त्वेवम्, किं नाम यत इत्यादिशब्दैर्लक्ष्यमेव, इत्यतः क्वास्ति स्वक्रियाविरोध इत्यत आह येनेति ।
ब्रह्म लक्ष्यमिति वदताऽपि लक्ष्यशब्दवाच्यत्वं तस्याङ्गीकर्तव्यम्, तथा च किं शब्दान्तरेणापराद्धम् । अथ लक्ष्यशब्देनापि लक्ष्यते न तूच्यत इति ब्रूयात् तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनवस्था स्यात् ।
अथ यावत्पदजातं ब्रह्मणि प्रयुज्यते तत्सर्वमपि लक्षणयैवेति परिहारे कुतोऽनवस्थेति चेन्न, अनवबोधात्, न हि प्रश्नपरिहारक्रमनिमित्तेयमनवस्था येन सकृदेवोत्तरेण निवर्तेत किन्तु लक्षणायाः प्रतीतिपूर्वकत्वाच्छब्देन विना प्रत्यायकान्तराभावात्तत्रापि लक्षणाऽऽश्रयणे मूलक्षयात् ।
अतः स्वक्रियाविरोधान्नेदं श्रुतिव्याख्यानमिति नानुमानादेः कश्चिद्दोषः ।
अविरुद्धं तु व्याख्यानमुत्तरत्र करिष्यत इति ।
सु०- इतश्च न ब्रह्मणि श्रुतानां वैदिकानां सर्वशब्दानां लक्षणाश्रयणं युक्तमित्याह एकस्यापीति ।
यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां (सत्यां) महती लज्जा जायते, तत्राखिला अपि शब्दा अमुख्यार्था इति वदन्यस्तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते । केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना ।। तस्य व्याख्यातुर्मार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा । तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् ।
ननु न तावन्मुख्यार्थपरित्यागेनामुख्यार्थस्वीकार एव लज्जाहेतुः, तथा सति गङ्गायां घोषः , कुण्डपायिनामयने मासमग्निहोत्रं जुहोति इत्यादावमुख्यार्थग्रहणाभावप्रसङ्गात्, किं नाम मुख्यार्थे सम्भवत्येवामुख्यार्थस्वीकारो दोषः । मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुद्ध्यारूढो भवति । विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं न भवेत् । यत्र तु मुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लज्जाहेतुः । गङ्गायां घोषः , सिंहो देवदत्तः इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य) एव दोषः (दुष्टत्वदर्शनात्) । तत्कथमेतत् । सत्यमेवैतत् । प्रकृतेऽपि
न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते, बाधिकायाः श्रुतेर्निर्गुणत्वोपपत्तेश्च निरस्तत्वादिति ।
९३सु०- अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैश्वर्यादिधर्मवत्तया सगुणमुच्यते । मायायाश्चानिर्वाच्यतया तदवच्छिन्नस्य न तथाभावस्तात्त्विक इति न कूटस्थत्वहानिः । तत्र
सगुणमेव परात्परं पुरिशयं पुरुषमीक्षत इत्यादावीक्षणीयत्वेनोच्यते । ततश्चेक्षणीयत्वं वाच्यत्वेन विना नोपपद्यते चेत्सगुणं वाच्यमस्तु न निर्गुणम्, तस्येक्षणीयत्वे प्रमाणाभावात् । न ह्यन्यगतेन व्याप्येनान्यत्र व्यापकसिदि्धः, अतिप्रसङ्गात् ।
न च परात्परमित्यादीन्येव निर्गुणविषयाणि, ज्ञापकाभावात् । न च वाच्यं मा भूदनुमानेन निर्गुणस्य वाच्यत्वसिदि्धः, पक्षीकृते लिङ्गाभावात् । लिङ्गवति सिद्धसाधन(त्व•त् । तथाऽपि सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति, मायाशबले गृहीतसङ्गतयस्सर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थोपपत्तेः ।
न चावाच्यस्य लक्षणाऽनुपपत्तिर्दोषः, प्रसिद्धतामात्रेण लक्षणोपपत्तेः । सगुणप्रतीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् । न च तदेवेक्षणीयत्वं, येन वाच्यत्वप्रसक्तिः । किन्तु प्रमेयत्वम् । न च स्वप्रकाशस्य प्रमेयत्वमिति ।। तदेतदाशङ्क्य परिहरति सूत्रकारः गौणश्चेन्नात्मशब्दादिति ।
ब्र०सू०- ॐ गौणश्चेन्नात्मशब्दात् ।।ॐ ।।
परात्परम् इत्यादिश्रुतिषु गौण एवात्मेक्षणीयत्वेनोच्यते । अतस्स एव वाच्योऽस्तु न, निर्गुणः । तस्येक्षणीयत्वे प्रमाणाभावात् । परात्परमित्यादिश्रुतीनां च तत्परत्वे ज्ञापकाभावात् । किन्तु लक्ष्य एवासौ इति चेन्न, आत्मशब्दात् । उपलक्षणमेतत्, ईक्षणीये वस्तुन्यात्मब्रह्मपुरुषादिशब्दश्रवणात्, तेषां च पूर्णाभिधायित्वेन निर्गुणज्ञापकत्वादिति ।
९४सु०- भवेदात्मादिशब्दः पूर्णार्थवाची, तथाऽपि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोष इत्याशङ्कापरिहारार्थं (अपरं) सूत्रम् तन्निष्ठस्य मोक्षोपदेशादिति ।
ब्र०सू०- ॐ तन्निष्ठस्य मोक्षोपदेशात् ।।ॐ ।।
नायं नियमो युज्यते, यस्यानुवित्तः प्रतिबुद्ध आत्मा , तरति शोकमात्मवित् इति(आदौ) दृश्यात्मनिष्ठस्य मोक्षोपदेशात् । न हि गौणात्मनिष्ठस्य मोक्ष उपपद्यत इति ।
सु०- अत्र प्रथमसूत्रे परात्परमित्यादिषु वाक्येषु निर्गुणज्ञापकोक्त्या हेतुसिदि्धस्समर्थिता, ज्ञापकस्य चान्यथासिदि्धरुत्तरसूत्रे परिहृता, इत्येतावत्सूत्रद्वयतात्पर्यं स्फुटमवगम्यते । अधिकं विवक्षुराह आत्मेति ।
यो वादी तदेतदनिर्वाच्यमायाख्याज्ञानशबलं किञ्चिद्ब्रह्म कल्पयित्वा तदेव वैदिकैरशेषपदवाच्यमित्यपि कल्पयित्वा मायातीतं शुद्धं सर्वज्ञं सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदैर्लक्ष्यमिति वदन्वदति, अस्य वादिनः श्रुतपरित्यागस्सर्वत्र सर्ववाक्येषु स्यात् । कथम् । वचनवृत्त्यैव प्रथमप्रतीतस्य शुद्धस्य ब्रह्मणो विना कारणेन परित्यागात् ।
कथं शुद्धस्य प्रतीतत्वम् । आत्मब्रह्मादिशब्दानां वेदे श्रवणात् । आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णाभिधायिनो यदा यस्मात्तदा तस्मात् श्रुतपरित्याग इति ।
न केवलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् । कथम् । मायाशबलस्य ब्रह्मणो वन्ध्यापुत्रोपमत्वात् । तत्कथम् । विना मानम् । मानाभावात् । तदपि कथम् । श्रुतिष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूर्णाभिधायित्वेन मायाशबलाविषयत्वात् ।
ननु युष्माभिरेव जन्मादिसूत्रे मायाशबलस्य लक्ष्यत्वेनाङ्गीकृतत्वात् कथं (तत्)वन्ध्यापुत्रोपममिति । मैवम् । प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्जगज्जन्मादिकारणत्वेन लक्षितत्वाङ्गीकारादित्याद्यसूत्रतात्पर्यम् । आत्मशब्दोदितस्येति द्वितीयस्य । आत्मादिशब्दः पूर्णार्थोऽपि दृश्ये श्रुतो गौणविषय इति नियमं यो ब्रवीति स तथाविधात्मशब्दोदितस्य ज्ञानं मुक्तावसाधनमेवाह, गौणात्मज्ञानस्य मोक्षसाधनत्वानुपपत्तेः । तथा चास्य श्रुतपरित्यागः स्यात् । दृश्यात्मज्ञानस्य मोक्षसाधनताया यस्यानुवित्तः इत्यादौ श्रुतत्वादिति ।
न चैवमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह यत्रेति ।
यत्र ययोर्मध्ये एकमपि प्रसक्तम् । किमुभयमिति शेषः ।
सु०- अथ लोकजुगुप्सितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह नियमेनेति ।
अस्माभिरापाद्यते परेणाङ्गीक्रियते । न हि लोकजुगुप्सितं नामैकं प्रतिज्ञाहान्यादिकमिव निग्रहस्थानमस्ति, लोकस्याव्यवस्थितत्वात् । गतानुगतिको लोकः इति वचनादिति मन्वानेनेति स्वपरयोः मते मतेन । यस्य नियमेनोभयमिदं स्यादयं दुर्घटैरङ्गीकारानर्हैर्भूषणैर्विपरीतलक्षणया दूषणैरलंकृतः स्यात् । यदि श्रुतमपि विशुद्धं ब्रह्म परित्यज्यते तर्हि सकलोऽपि वेदार्थस्त्यज्यतामविशेषात् । यदि चाश्रुतमपि मायाशबलं ब्रह्म कल्प्यते, तदा चैत्यवन्दनादेः स्वर्गसाधनत्वादेर(दिकम)पि कल्पनी(यं)यत्वं स्यात्, विशेषाभावादित्याशयः ।
सु०- न केवलं श्रौतस्य परमात्मनस्त्यागेऽतिप्रसङ्गमात्रम् । महाप्रत्यवायोऽप्यस्तीत्याह अन्धमिति ।
अन्धयतीत्यन्धम् । अलंकृतस्य वसनाभ्यां भाव्यम् । वस्त्रहीनमलङ्कारं घृतहीनं तु भोजनम् । भावहीनं तु सल-लापं न प्रशंसन्ति पण्डिताः ।। इति वचनात् । अतो वसनद्वयमिदं स्यादिति परिहासः । अत्र प्रमाणमाह अनन्दा इति ।
न विद्यते नन्द आनन्दो येषु ते अनन्दाः । ते इति प्रसिद्धाः । बोधनाद्भुद्वेदस्तस्मादपि येऽविद्वांसो वेदेन मुख्यया वृत्त्या प्रतिपादितमपि परमात्मस्वरूपमपलपन्त इत्यर्थः । सुष्ठुरमणविरुद्धत्वादसुरप्राप्यत्वाच्च असुर्याः । आत्महनो वेदवाच्यपरमात्मत्यागिनः । अत्र उक्तार्थे । समन्ततः सर्वास्वपि शाखासु ।
९८सु०- दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकाङ्क्षं वाक्यं पूरयति हेयत्वेति ।
ब्र०सू०- ॐ हेयत्वावचनाच्च ।।ॐ ।।
एवशब्दो नैवेति सम्बद्ध्यते । दृश्यत्वेनेति शेषः ।
९९सु०- एवं सूत्रस्वरूपं निर्धार्य व्याचष्टे तमेवेति ।
दृश्य आत्मा गौण एवेति नियममङ्गीकुर्वाणेन तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुः इति श्रुतोऽप्यात्मा गौणोऽङ्गीकरणीयः, तस्य तं जानथेति दृश्यत्वश्रवणात् । कथं चायं गौणोऽङ्गीकर्तुं शक्यः, यतोऽसौ गौणो मुमुक्षुणा हेयेषु अन्या वाचो विमुञ्चथ इति श्रुतः, अस्य च हेयत्वावचनात्, प्रत्युत तमेवैकं जानथेत्युपादेयत्ववचनाच्च (इति) । चशब्दो वाक्यार्थद्वयसमुच्चयार्थः । हेत्याश्चर्ये ।
सु०- ननु गौणानामपि ब्रह्मादिदेवतानामुपादेयत्वं वक्ष्यति अङ्गावबद्धास्त्वित्यादौ । अतोऽनैकान्तिकोऽयं हेतुरित्यत आह परिवारतयेति ।
सत्यं विष्णुपरिवारतया ग्राह्या ब्रह्मादयः(द्याः), तथाऽपि प्रधानत्वेन हेया एव । प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम्, अमृतस्यैष सेतुरिति वाक्यशेषात् । अतो न व्यभिचार इति ।
१०१सु०- एवमात्मशब्दस्य निर्गुणविषयत्वमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् । हेत्वन्तरेणास्यैवार्थस्योपपादकम् ८स्वाप्ययात् इति सूत्रं व्याचष्टे पूर्णस्येति ।
ब्र०सू०- ॐ स्वाप्ययात् ।।ॐ ।।
पूर्णस्येत्यस्यां श्रुतौ तावत्कस्यचिन्महाप्रलये स्वस्य स्वस्मिन्नेवाप्ययो नान्यत्र लीनभाव उदाहृतः । स्वाप्ययशब्दश्च सौत्र उपलक्षणमात्रम्, पूर्णत्वमप्युदाहर्तव्यम् । ताभ्यामसौ निर्गुण इति ज्ञायते, श्रुत्युक्तत्वाच्च वाच्य इत्यतो निर्गुणस्य वाच्यत्वसिदि्धरिति ।
सु०- ननु स्वाप्ययः पूर्णत्वं च सगुणस्य किं न स्यात् । मैवम् । सगुणस्य स्वाप्ययानुपपत्तिस्तावद्भाष्य एवोक्ता । पूर्णत्वानुपपत्तिमाह कथमिति ।
व्याघातादिति भावः ।
१०३सु०- अत्र गतिसामान्यादिति सूत्रं न तावद्ब्रह्मणो वाच्यत्वसमर्थनार्थम् । किन्तु शास्त्रस्यानन्तत्वान्न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चेतुं शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकरणशुद्ध्या व्याचिख्यासुस्तदुल-लङ्घितवान् । व्याख्यास्यति चैतदुत्तरत्र । सूत्रकारस्यापि प्रकरणसाङ्कर्यस्यैतदेव प्रयोजनम् यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनम् । तेन चावृत्त्या संशब्दस्यानेकार्थता ज्ञापनम् । अन्यथैकेनार्थेन चरितार्थस्यार्थान्तरं न ज्ञायेत । तथा च न लक्षणद्वयस्यशास्त्रीयता स्यादिति ।
सु०- उपपत्त्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रम् श्रुतत्वाच्चेति ।
ब्र०सू०- ॐ श्रुतत्वाच्च ।।ॐ ।।
तस्यार्थः । एको देवः इत्यस्यां श्रुतौ निर्गुणस्य ब्रह्मणः श्रुतत्वाच्चास्य वाच्यत्वमुपपन्नमिति ।
अत्र श्रुतोऽपि सगुणः किं न स्यादित्यत आह पदं चेति ।
अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते । निर्गुण इति च पदं कथं गौणं वदिष्यति । व्याहतत्वात् । अतो न सगुणोऽत्र श्रुत इति ।
१०५सु०- सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुणं ब्रह्मेति, किन्तु लक्षणयैव, तथा च कथमनेन निर्गुणस्य वाच्यत्वसिदि्धः । न च वाच्यं निर्गुणशब्दे(पदे)न निर्गुणं चेल-लक्ष्यं तर्हि तद्वाच्यं वाच्यम्, वाच्यार्थद्वारत्वाल-लक्षणायाः ।
न च सगुणं निर्गुणपदवाच्यम्, व्याघातात्, सगुणस्य निर्गुणत्वं तथा सति स्यादिति । गुणाभावविशिष्टस्य वाच्यत्वाङ्गीकारात् । निर्विकल्पकस्वरूपमात्रस्योपलक्ष्यत्वात् । एकमेव हि निर्विशेषं वस्तु परमसूक्ष्मं गुणाभावाद्युपाधिभिरीषत्स्थूलं जातम् । गुणाद्युपाधिभिस्तु स्थूलतर
मित्यतो निर्गुणशब्दे(पदे)न गुणाभावविशिष्टवाच्यद्वारा स्वरूपमुपलक्ष्यमिति न कश्चिद्विरोधः ।
एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्याशङ्क्योक्तमेव परिहारं न विस्मरेत्याह गुणाभावेति ।
निर्गुणपदेन गुणाभावविशिष्टवाच्यद्वारोपलक्ष्यं चेच्छुद्धं ब्रह्म मन्यस इत्यर्थः । अपि तथाऽपि, तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकं अङ्गीकरणीयम् । तथा च वाच्यत्वमेवापतितमित्यर्थः ।
सु०- ननु लक्ष्यपदेनापि ब्रह्म लक्ष्यमेव न वाच्यमिति चेन्न, अनवस्थाया उक्तत्वात् । किञ्च निर्गुणपदलक्ष्यमित्यनेनापि लक्ष्यत्वे किमस्य वाच्यम् । न तावदन्यत्, तत्र निर्गुणपदस्यैवाश्रवणेन तल-लक्ष्यपदस्य दूरोत्सारितत्वात् । शुद्धं चेत्किं लक्षणया ।।
किञ्चैवं यद्यद्ब्रह्मतया प्रतिपाद्यते तत्तद्ब्रह्मेति वदता साधु समर्थितो ब्रह्मवाद इत्याशयवानधिकरणार्थमुपसंहरति अत इति ।
एतन्मतं ब्रह्मणोऽवाच्यत्वमतम् । अनादरणे च सिद्धं सर्वशास्त्रमुख्यार्थत्वं ब्रह्मण इति शेषः ।
सु०- एवमीक्षतेर्नाशब्दमित्यारभ्य श्रुतत्वाच्चेत्यन्तानि सूत्राणि स्वमतेन व्याख्याय परेषां व्याख्यानं प्रत्याख्याति न चेति ।
सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाश५कारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तत्र साङ्ख्या मन्यन्ते यानि ब्रह्मणो जगत्कारणत्वप्रतिपादकतयाऽभ्युपगतानि , सदेव सोम्येदमग्र आसीत् इत्येवमादीनि वाक्यानि तानि सर्वाणि त्रिगुणमचेतनं प्रधानमेव जगत्कारणं प्रतिपादयन्ति । कुतः । ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वात् । ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे हि ते । न च ज्ञानक्रिये चिदात्मनः स्तः, तस्यापरिणामित्वात्, एकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिनि न तयोरसम्भवकरणमस्तीत्यतस्तदेव सदेव सोम्येदमग्रे इत्यादौ जगत्कारणतया प्रतिपाद्यत इति एवं प्राप्ते प्रतिविधीयते ईक्षतेर्नाशब्दम् इति ।
न साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तवाक्येष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वम् । ईक्षतेः । तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत स ऐक्षत लोकाननुसृजा इति, स इमांल-लोकानसृजत , स ईक्षां चक्रे, स प्राणमसृजत इतीक्षितृत्वश्रवणात्कारणस्य । न चाचेतनस्य प्रधानस्येक्षितृत्वं, सम्भवति ।
नन्वयमीक्षतिर्गौणो व्याख्येयः, तत्तेज ऐक्षत ता आप ऐक्षन्तेति गौणप्रायपठितत्वात् । यथा ह्मासन्नपतनं (न) कूलमालक्ष्य कूलं पिपतिषतीत्युपचारो दृष्टः, तथाऽऽसन्नसर्गे प्रधानेऽप्यैक्षतेत्युपचारो भविष्यती त्यतः परिहारं पठति गौणश्चेन्नात्मशब्दात् । अप्तेजसोरिवाचेतनेऽपि प्रधाने गौणोऽयमीक्षतिरित्यसत् । कुतः । आत्मशब्दात् । अनेन जीवेनात्मनेति । न हि जीवश्चेतनोऽचेतनस्य प्रधानस्यात्मा सम्भवति । स आत्मा तत्त्वमसीति च । न हि चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमुपपन्नम् ।
अथोच्येत । अचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात् । यथा राज्ञः सर्वार्थकारिणि भृत्ये ममात्मा भद्रसेन इत्यात्मशब्ददर्शनादिति । तत्रोत्तरम् तन्निष्ठस्य मोक्षोपदेशात् ।
नैवमात्मशब्दालम्बनं प्रधानं कल्प्यम् । स आत्मा तत्त्वमसीति श्वेतकेतोस्तन्निष्ठामुपदिश्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । न ह्यचेतननिष्ठस्य मोक्षो युक्तः ।
स्यादेतत् । ब्रह्मैव ज्ञीप्सितम् । तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयाऽऽत्मत्वेन ग्राह्यते । अरुन्धतीमिवातिसूक्ष्मां दर्शयितुं तत्सन्निहितां स्थूलतारकां दर्शय(ती)न्तीयमरुन्धतीति । अस्यां शङ्कायामुत्तरम् हेयत्वावचनाच्च । एवं सति स्थूलतारावन्नायमात्मेति हेयत्वं ब्रूयात् । न चैवमब्रवीत् । अतो नैषा कल्पना युक्ता ।। चशब्द एकविज्ञानेन सर्वविज्ञान प्रतिज्ञाविरोधं समुच्चिनोति ।
स्वाप्ययात् । सच्छब्दवाच्यं प्रस्तुत्य स्वम(स्वं ह्य)पीतो भवतीत्युच्यते । न ह्यचेतने चेतनस्याप्ययः सुप्तौ लये च सम्भवति । अतश्च न प्रधानं सच्छब्दवाच्यम् ।
गतिसामान्यात् । यदि च क्कचिदप्यचेतनं प्रधानं जगतः कारणमुच्येत वेदान्तेषु, तथा सति कथञ्चिदीक्षणादिकं कल्प्येत । न चैवम् । अतो वेदान्तोत्पाद्याया गतेः अवगतेरैकरूप्याच्च न प्रधानं जगत्कारणमिति ।
श्रुतत्वाच्च । स कारणं कारणाधिपाधिप इति साक्षात्सर्वज्ञस्येश्वरस्य जगत्कारणत्वं श्रूयते । अतश्च न प्रधानं जगत्कारणं वेदान्तवेद्यम् । ज्ञानक्रियाशक्ती त्वपरिणामिनोऽपीश्वरस्य सवितुरिव युज्येते । इत्येवं साङ्ख्यनिराकरणायैतानि सूत्राणि भगवान्त्सूत्रकारश्चकार ।। इति यन्मायावादिनो वदन्ति तन्नेत्यर्थः । कुतो नेति चेत् (न) । सूत्राक्षराणामनानुगुण्यात् ।
१०८सु०- तथा हि । अशब्दं हि तदि ति हेतूकृतमशब्दत्वं नाम शब्दागोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयाऽवैदिकत्वं वा । सर्वत्राप्यसिदि्धरित्याह न हीति ।
असौ साङ्ख्यः । स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न । यतोऽसौ सूत्रकारोऽशब्दत्वं प्रधाने नाङ्गीकरोति । उपपादयिष्यते चैतत् ।
किञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेद्यत्वम् । आद्ये तदुपपादनायेक्षतेरुपन्यासोऽनुपपन्नः । अत एव नोत्तरः ।। द्विती(यो)ये ब्रह्मण्यनैकान्तिकः ।। तृतीयचतुर्थयोः साध्याविशिष्टत्वम् ।
किञ्चेक्षणेनैव नेति प्रतिज्ञातार्थसिद्धावशब्दं हि तदिति मध्ये हेत्वन्तरकल्पनं व्यर्थम् । ईक्षितृत्वं चेक्षणगुणयोगित्वम् । तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिनाऽङ्गीकरणीयम् । तथा च गौणश्चेदिति व्यर्थम् ।
किञ्चेक्षतेर्गौणत्वकल्पनस्य बाधकाभावमनुक्तवाऽऽत्मशब्दादित्यसङ्गतम् । परेण प्रायपाठो बाधक उपन्यस्तस्तदविरोधाय वैषम्यमुच्यत इति चेन्न, तेजोऽबन्नानामपि देवतात्वेन प्रायपाठाविरोधात् । तन्निष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधानैक्योपदेशानुपपत्तिर्वा विवक्षिता, तज्ज्ञस्य मोक्षानुपपत्तिर्वा । आद्ये ब्रह्मपक्षेऽपि समानो दोषः । न हि जीवस्यापि ब्रह्मैक्योपदेशो युक्त इत्युक्तमधस्तात् । द्वितीयस्त्वनुपपन्न एव, आत्मानात्मविवेकार्थमनात्मज्ञानस्य आवश्यकत्वात् ।
आत्मशब्दस्य गौणत्वे चोदिते बाधकाभाव एव वक्तव्यः । हेयत्वावचनादित्यस्य परिचोदनैवानुपपन्ना । न हि साङ्ख्योऽद्वैतज्ञानार्थं प्रधानोपदेशं मन्यते । हेयत्वावचनं चानैकान्तिकम् । अन्नमयप्राणमयादीनामब्रह्मत्वेऽपि हेयत्वावचना(च्च)त् । उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेत् (न), अत्रापि तथाविधज्ञापकसौलभ्यात् ।
प्रतिज्ञाविरोधस्तु ब्रह्मवाद एव न प्रधानवादे, प्रधानस्य सर्वात्मकत्वाभ्युपगमात् । भोक्तृवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् । सत्यम् । ब्रह्मणस्तु न किञ्चित् ।
एतेन स्वाप्ययोऽपि निरस्तः, एकभावस्य ब्रह्मपक्षेऽप्यभावात्, परिष्वङ्गमात्रस्य प्रधानेऽपि सम्भवात् । ब्रह्मविषयं गतिसामान्यं परस्यासिद्धमेव । ईक्षणादिना तज्ज्ञापने (तत्साधने) प्रथमसूत्रेणैव गतार्थता । अत एव श्रुतत्वादित्यसिद्धम् । गतार्थं च गतिसामान्येनेत्येषा दिक् ।
सु०- अस्तु वा यथाकथञ्चित्सूत्रगमनिका, तथाऽपि प्रकृतसङ्गतिपर्यालोच
नयाऽत्र वाच्यत्वसमर्थनमेवोपपन्नं न साङ्ख्यनिराकरणमित्याह समन्वय इति ।
तत्तु समन्वयादिति समस्तस्यापि शास्त्रस्य ब्रह्मणि समन्वये प्रतिज्ञाते सति, यद्यपि मुख्यया वृत्त्या शब्दगोचरता साङ्ख्यनिराकरणं चेत्युभयमपि प्रतिपाद्यं भवति, उभयाभावेऽपि समन्वयानुपपत्तेः, तथाऽपि शब्दगोचरतैव प्रथमप्रतिपाद्या स्यात्, हि यस्मात्, तस्मात्सैवात्र प्रतिपाद्यते न साङ्ख्यनिराकरणम् । तत्पुनः ईक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यत इति ।
कुतश्शब्दवाच्यतायाः प्रथमप्रतिपाद्यत्वमित्यत आह तदभाव इति ।
अवाच्यत्वे हि ब्रह्मणि शब्दसम्बन्ध एवानुपपन्नः, जगत्कारणत्वादिवाक्यविचारस्तु दूरे । साङ्ख्यनिराकरणाभावे तु सृष्ट्यादिवाक्यानामेव समन्वयानुपपत्तिः । अतः प्रथमं वाच्यत्वसमर्थनेन समन्वयसम्भावनायां सत्यां वाक्यविशेषनिष्ठस्य विचारस्य पश्चादवसर इति ।
सु०- ननु वाच्यत्वाभावेऽपि लक्षणया वृत्त्या समन्वयो भविष्यतीत्यवाच्यत्वाक्षेपं निर्दलतयोपेक्ष्य सूत्रकारेणादौ साङ्ख्यमतं निराकृतमित्यङ्गीकारे कथमसङ्गतिरित्यत आह कथं चेति ।
स्यादेवम् । यदि सूत्रकारः शब्दानां ब्रह्मणि लक्षणामभिप्रेयात् । न चैतदस्ति । यदि सूत्रकारो ब्रह्मणि शब्दानां लक्षणामभिप्रैति तदा कथं समन्वयं ब्रूयात् । किन्त्वन्वयमात्रं ब्रूयात् । समन्वयं चाब्रवीत् । तेन ज्ञायते न लक्षणा सूत्रकारस्याभिप्रेता किं नाम मुख्यवृत्तिरेवेति ।
१११सु०- समन्वयं ब्रुवता कथं मुख्यवृत्तिरभिप्रेतेति ज्ञायत इत्यत आह योऽसाविति ।
समीचीनो (हि) अन्वयः समन्वयः । स च शब्दस्य वाच्यार्थ एव घटते, तत्रैव साक्षाच्छक्तिमत्त्वात् । लक्ष्यार्थे तु वाच्यार्थद्वारेणान्वयो न समीचीनः । अतः समन्वयशब्दं प्रयुञ्जानेन सूत्रकृता वाच्यवाचकभाव एव प्रतिज्ञात इति ज्ञायते ।
स चावाच्यत्वशङ्कानिरासमन्तरेण सर्वथाऽप्यसम्भावितः स्यादिति वाच्यत्वसमर्थनमेव प्राथमिकमिति ।
११२सु०- इदं चाभ्युपगम्योक्तम् लक्षणावादेऽन्वय एव नोपपद्यते । कुतः समन्वयः । अवाच्ये लक्षणासम्भवस्योक्तत्वादिति ।
सत्यम् । समीचीनोऽन्वयः समन्वयः । समीचीनता तु तात्पर्यवत्ता । सा च लाक्षणिकेऽप्यर्थे शब्दानां सम्भवतीति न समन्वयसिद्ध्यर्थं वाच्यत्वं समर्थनीयमि ति चेन्न, संशब्दस्यार्थान्तरं व्याख्यायापि जघन्यवृत्त्या लक्षणया समन्वयाश्रयणनिर्बन्धे कारणाभावात् ।।
नन्वस्ति कारणम् । तत्तु समन्वयादिति निर्गुणे हि ब्रह्मणि समन्वयः सूत्रकृता प्रतिज्ञातः । न च तत्र शब्दानां वचनवृत्तिः सम्भवति । तस्या द्रव्यादिसम्बन्धनिबन्धनत्वात् । निर्गुणे च तदभावात् । अतो ज्ञायते लक्षणाऽऽश्रिता सूत्रकृतेति । एवं च सति संशब्दस्याप्युक्त एवार्थो निश्चीयत इति ।
स्यादप्येवं यदि निर्गुणे समन्वयः प्रतिज्ञातः स्यात् । न चैवम् । तथा हि किमत्र निर्गुणस्य प्रकृतत्वात्तदिति तत्परामर्शोऽङ्गीक्रियते, उत सगुणस्य प्रकृतत्वेऽपि तत्परामर्शासम्भवेन जहदजहल-लक्षणया निर्गुणपरामर्शोऽभ्युपेयते ।। आद्यं दूषयति जन्मादीति ।
अत्र तत्तु समन्वयादि ति सूत्रे । निर्गुणे समन्वयस्य अवकाशः प्रसङ्गः क्व अस्ति नास्तीत्यर्थः । कुतः । यतः अत्र त्रिसूत्र्यामतीतायाम् । निर्गुणे विषयसप्तमीयम् । निर्गुणस्य अवकाशः (प्रसङ्गः) क्व अस्ति । न क्वापीत्यर्थः । कथम् । लक्षणसूत्रे जन्मादिकारणत्वेन लक्षिते हि ब्रह्मणि शास्त्रं प्रमाणमभिधाय तस्य समन्वयमाह सूत्रकारः । न च तन्निर्गुणं, जन्मादिकारणत्वगुणयोगात् ।
ननु जन्मादिकारणत्वं तटस्थमेव सत् ब्रह्म लक्षयतीति ब्रूमः, अतो लक्षणसूत्रे प्रकृतं निर्गुणमेवेत्यत उक्तं साक्षाज्जन्मादिकारण इति । उपपादितं चैतत् तत्रैव ।
मा भूल-लक्षणसूत्रे निर्गुणस्य प्रकृतत्वम् । प्रथमसूत्रे जिज्ञास्यतयोक्तं निर्गुणमेव । न हि तस्य कश्चिद्धर्मः श्रूयते । इति न वाच्यम् । यतस्तदेव, जन्मादिसूत्रे जन्मादिकारणत्वेन लि-लक्षयिषितमेव, जिज्ञास्यमुक्तम् । न ह्यन्यज्जिज्ञास्यतया प्रतिज्ञायान्यस्य लक्षणमुच्यते, अनुपयोगादिति ।।
सु०- द्वितीयं दूषयति कथं चेति ।
तस्य अनुक्रान्तायां त्रिसूत्र्यां प्रकृतस्य, मुख्यार्थस्य वाच्यस्य, समन्वयविषयतया, त्यागे, असम्भवः, कथम्, न कथञ्चिदित्यर्थः । अतो निर्गुणसमन्वयस्याप्रतिज्ञातत्वान्न लक्षणाऽऽश्रयणमत्र युक्तम् । किन्तु प्रथमप्राप्तया मुख्यवृत्त्यैवेति । तदर्थ एव संशब्दोऽपीति ।
सु०- किञ्च निर्गुणं चेदत्र तच्छब्देन परामृश्यते, तदा तत्र लक्षणाऽपि न सम्भवतीति व्यर्थं समन्वयसूत्रमापन्नमि ति वक्तुं निर्गुणस्याप्रमेयत्वं तावत्साधयति मानेनेति ।
निर्गुणं वस्तु, केन मानेन विज्ञेयम् न केनापि । कुतः, अज्ञेयत्वात् । ज्ञेयमेव हि प्रमेयं दृष्टं घटादि ।। शब्दप्रमाणाविषयत्वेऽवाच्यत्वं हेतुः, वाच्यस्यैव तद्विषयत्वदर्शनात् । ज्ञेयत्वाद्य(सत्त्वा)ङ्गीकारे च निर्गुणत्वव्याघातात् ।
सु०- अस्त्वप्रमेयमेव निर्गुणं ब्रह्म; ततः किमित्यत आह अमेयं चेदिति ।
निर्गुणं ब्रह्म अमेयं चेत् अङ्गीकृतम्, तर्ह्यमेयत्त्वात्, तत्र शास्त्रस्य कथंचन लक्षणयाऽपि वृत्तिः न सम्भवति, इति समन्वयसूत्रं व्यर्थमेव प्राप्तम् । लक्षणा हि लक्ष्यार्थप्रमितिपूर्विका दृष्टा । न हि तीरं स्वरूपतो गङ्गासम्बन्धित्वेन च प्रमाणतोऽप्रतिपन्नं गङ्गाशब्देन ज्ञाप्यते । लाक्षणिकोऽपि हि शब्दो लक्ष्यप्रमोत्पादाय प्रयुज्यते, अन्यथा प्रयोजनान्तराभावेन वैयर्थ्यप्रसङ्गात् । तथा चाप्रमेये हेतुफलयोरसम्भवात् कथं लक्षणासम्भवः ।
ननु प्रसिदि्धरेव लक्षणाहेतुर्न प्रमाणप्रसिदि्धः, विशेषणवैयर्थ्यात् । तथा च स्वतःसिद्धे कथं लक्षणा न सम्भवतीति ।। एवं तर्हि सुतरां लक्षणा नोपपद्यत इति वक्ष्यति ।
ननु लाक्षणिकाः शब्दा लक्ष्यप्रमामनुत्पादयन्तोऽपि विपरीताकारव्यावर्तनेन(एव) प्रयोजनवन्तो भविष्यन्तीति । न । निराकृतत्वादिति ।
११६सु०- निर्गुणे समन्वयं निराकृत्य व्यतिरेकमुखेनोपसंहरति तस्मादिति ।
यतो निर्गुणे समन्वयो नोपपन्नः, तस्मादस्मदीयं सगुणमेव परं ब्रह्म शास्त्रेण जिज्ञास्यमङ्गीकरणीयम् ।
ननु पूर्वं विष्णोर्जिज्ञास्यत्वमुक्तम् । इदानीं तु सगुणस्य ब्रह्मण इति विरोध इत्यत उक्तम् वासुदेवाख्यमिति ।। तथाऽपि प्राक् सगुणस्य हेयत्वादिकमभिहितम्, इदानीं तु जिज्ञास्यत्वमिति कुतो न विरोध इत्यत उक्तम् गुणार्णवमिति । पूर्वमनिर्वचनीयाविद्यावच्छिन्नस्य सगुणस्याप्रामाणिकत्वम्, प्राकृतसत्त्वादिगुणबद्धस्य हेयत्वादिकं चाभिहितम् । इदानीं तु ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मोपादेयमुच्यते इति को विरोधः ।
अर्णव इवाचरतीति क्विपि कृतेऽर्णवतेः पचाद्यचि कृतेऽर्णवशब्दः त्रिलिङ्गः साधुः ।
नन्वेकमेवाद्वितीयमिति ब्रह्मणो निर्गुणत्वमभिधीयते, अतः कथं गुणार्णवत्वमित्यत उक्तम् अद्वन्द्वमखिलोत्तममिति । अद्वन्द्वम् असमम् । समाधिकराहित्यं श्रुत्यर्थ इत्यर्थः ।
सु०- न केवलं निर्गुणे शास्त्रसमन्वयो नोपपद्यते, किन्तु तस्य सत्त्वमेवानुपपन्नमित्याह विज्ञेयेति ।
द्वन्द्वात्परस्त्वप्रत्ययः प्रत्येकमभिसम्बद्ध्यते । पूर्वपदेन रूपादीनां ग्रहणम् ।
तन्निर्गुणं ब्रह्म नास्त्येवे ति बहिरेव प्रतिज्ञा द्रष्टव्या । कुतः । मनसो वाचश्चागोचरं यतः । उपलक्षणमेतत् सर्वप्रमाणागोचरत्वाच्छशविषाणवदिति द्रष्टव्यम् । गवां ज्ञानानां चरो वृत्तिरस्मिन्निति गोचरम् । विषय इति यावत् । तेन नपुंसकोपपत्तिः । सर्वप्रमाणाविषयत्वं कुत इत्यत उक्तं विज्ञेयत्वपूर्वविशेषेभ्यो निर्गतमिति । विज्ञेयत्वाभावान्न कस्यापि प्रमाणस्य विषयः । वाच्यत्वलक्ष्यत्वसदृशगुणयोगित्वाभावाच्च न शाब्दत्वम् । रूपाद्यभावाच्च न प्रत्यक्षत्वम् । लिङ्गसम्बन्धाभावाच्च नानुमेयत्वमिति ।
ननु प्रमाणागोचरस्यापि निर्गुणस्य स्वप्रकाशतया सिदि्धर्भविष्यतीत्यत आह यदीति ।
एवमपि यदि स्वप्रकाशतया तत् ब्रह्म स्यात् तर्हि अस्तु । किन्तु समन्वयविषयतया न वक्तव्यम् । यतः अस्मच्छास्त्रगं वेदादिविषयो न भवति, तद्विषयत्वे स्वप्रकाशत्वहानिप्रसङ्गात् । प्रकाशान्तरव्यावृत्तिर्हि स्वप्रकाशशब्देनाभिप्रेता मायावादिना । तदिदमेकं सन्धित्सतोऽन्यच्च्यवत इत्यायातम्, यद्ब्रह्मास्तित्वमभिलषतः शास्त्राविषयत्वमापतितम् ।
वादीति परिहासः । माशब्दोऽयं न माङ् । अतो लिङा सम्बन्धः ।
सु०- आह, स्वप्रकाशस्यापि ब्रह्मणो न शास्त्राविषयत्वं विरुद्धम् । वचनजन्यस्फुरणाश्रयतया तत्कर्मतया वा वचनविषयत्वाभावेन स्वप्रकाशत्वम्, वचनजन्यवृत्तिव्याप्यतया तद्विषयत्वं चेति व्यवस्थोपपत्तेरि ति । तदसत् । स्फुरणं हि ज्ञातता वा ज्ञानं वा । नाद्यः । स्वरूपस्यैव निराकरिष्यमाणत्वात् । द्वितीयेऽपि ज्ञानाश्रयतया विषयत्वं न क्वचिदिति कर्मत्वमेवाश्रयणीयम् । ज्ञानकर्मत्वं च ज्ञानविषयताऽतिरिक्तं
नास्ति । ततश्च वचनजन्यज्ञानाविषयत्वमुक्तं स्यात् । वृत्तिरिति च ज्ञानं तदतिरिक्तं वोच्यते । न तावत्तदतिरिक्तं प्रमाणाभावात् । आद्ये तु व्याप्यत्वं न विषयत्वातिरिक्तं निरूपयितुं शक्यमिति वचनजन्यज्ञानविषयत्वमेवोक्तं स्यात् । तथा च व्याघातप्रसङ्गेन नैकमपि सिद्ध्यती त्याशयवानाह अवाच्यमिति ।
अवाच्यं वचनजन्यज्ञानाविषयः, इत्युक्तवा, पुनश्च, वाच्यं वचनजन्यज्ञानविषयो भवति, इत्युन्मत्तवत्, स्वोक्तिदूषकः व्याहतभाषी । किमिति मृषा वृथैव अस्मच्छास्त्रस्य वेदस्य चौर्याय निर्गुणविषयतया योजयितुं, यतते । न हि व्याहतभाषिणः किञ्चित्सिद्ध्यति, उन्मत्तवच्चोरवच्चेति ।
सु०- स्यादेतत् । श्रुतिसूत्रयोस्तावदेकार्थत्वं युक्तम्, अन्यथा करणेतिकर्तव्यताभावानुपपत्तेः । श्रुतयश्चोपक्रमादिवशात् नित्यशुद्धबुद्धमद्वितीयं निर्गुणमेव प्रतिपादयन्त्यो निरवकाशाः प्रतीयन्ते । ततस्तन्मीमांसाऽपि तद्विषयैव । तथा चान्यथाऽनुपपत्तेर्यथाकथञ्चित् श्रुतिसूत्रयोर्निर्गुणविषयत्वमुपपादनीयम्, अन्यथा विषयाभावेनाप्रामाण्यापत्तेः इत्यत आह जन्मादीति ।
न श्रुतिसूत्रयोर्निर्विषयत्वापत्तिभयेनावाच्यस्यापि तद्विषयत्वं कल्प्यम्, सगुणविषयत्वेन सविषयत्वोपपत्तेः । न चोपक्रमादिवैगुण्यम्, यतो वा इमानि भूतानि जायन्ते इत्यादौ साक्षाज्जन्मादिकारणत्वेन, नारायणं महाज्ञेयमि ति नारायणादिशब्दोदितगुणवत्तया च सर्वत्र सगुणस्यैव प्रतीतेरिति भावः ।
सु०- सर्वप्रमाणाविषयस्य शास्त्रविषयत्वाङ्गीकारे यो व्याघात उक्तो नासौ सूक्ष्मेक्षिकामाश्रित्य, येन सूक्ष्मेक्षिकायामविद्यमानमपि दूषणं स्फुरतीति शङ्क्येत । यथाऽऽह न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तत्पराणां प्रदृश्यते ।। इति । किन्तु स्थूलदृष्टिभिरप्ययं व्याघातः सुज्ञानः इत्याशयवानाह सर्वशब्दैरिति ।
उन्मत्तं व्याहतभाषिणम् ।
१२१सु०- निर्गुणे ब्रह्मणि समन्वयनिराकरणमुपसंहरति मा वद इति ।
यतो वक्तुं ज्ञातुं च न शक्यं तस्माच्छास्त्रस्य तद्विषयत्वाग्रहोऽपि त्याज्य इति भावः ।। मा वद इति । स्मशब्दोऽत्राध्याहार्यः । तेन च लङुपपत्तिः । मा विजानीहीति माशब्दोऽयम् । अतो निर्गुणे समन्वयस्याप्रतिज्ञातत्वाद्वचनवृत्त्यैव समन्वयोऽयमिति वाच्यत्वसमर्थनमेव प्रथमसङ्गतं न साङ्ख्यनिराकरणमिति सिद्धम् ।
सु०- ननु यथा सूत्राविवक्षितं साङ्ख्यनिराकरणं कुर्वतो मम दोषः तथा मन्निराकरणं कुर्वतो भवतोऽपि कथं न दोषः स्यात् । न हीदं कस्यचित्सूत्रस्यार्थतयोच्यते इत्यत आह वयमिति ।
त्वाम् अपव्याख्यातारं, श्रुतियुक्तिभ्यां बद्ध्वा निराकृत्य, अस्मच्छास्त्रं वेदं, सूत्रसूचिताभिः श्रुतिभिर्युक्तिभिश्च, अञ्जसा नैरन्तर्येण, सादरं च, शिष्यैर्विचारयाम इति ।
अनेनेदमुदितं भवति । यावदापातरमणीयं परेषां व्याख्यानं शिष्याः पश्येयुः, न तावदस्मदुक्ते सूत्राणां निजार्थेऽप्यञ्जसाऽऽदरं कुर्युः, किमसौ सूत्रार्थः किं वाऽयमिति सन्देहावस्कन्दनात् । निराकृते त्वपव्याख्याने नैरन्तर्यादराभ्यामस्मदुक्तमेव (सूत्रा)अर्थमुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्साः प्रवर्तेरन् । (त)अतो मा(नाम) भूदयं सूत्रार्थस्तथाऽपि सूत्रार्थग्रहणोपायत्वात् व्याकरणादावुदाहरणप्रत्युदाहरणप्रदर्शनादिवन्न कञ्चन दोषमावहति । किं नाम गुणहेतुरेव इ(भवती)ति ।।
सु०- ननु यदि वाच्यमेव ब्रह्म कोऽर्थस्तर्ह्यवाच्यत्वाद्यभिधात्रीणां श्रुतिस्मृतीनामित्यतः श्रुत्यन्तरेणैव तदर्थमाह अद्भुतत्वादिति ।
आश्चर्यतमत्वात् । कथमाश्चर्यतमत्वम् । अनन्तगुणपूर्णत्वात् । दुर्लभं ह्याश्चर्यं भवति । न ह्यनन्तगुणपूर्णं सुलभम् । भासनोपसम्भाषेत्यात्मनेपदम् । वाच्यत्वस्योपपादितत्वात् । अर्थकथनमात्रेणैवालम्, श्रुत्युदाहरणं तु दार्ढ्यार्थमित्यवगन्तव्यम् ।
१२४सु०- आश्चर्यं हि वस्तु वाच्यमपि न तेन तेनाकारेण विशेषतो निर्देष्टुं शक्यते । व्युत्पत्त्यभावात्, वाङ्मनसयोर्व्याकुलत्वाद्वेत्यतोऽवाच्यमित्युच्यते । मुख्यातिक्रमेणामुख्यप्रयोगे किं प्रयोजनमिति चेत् । स्यादयं प्रयोजनानुयोगो यद्ययं स्वतन्त्रप्रयोगः स्यात् । नैतदस्ति, रूढत्वात् ।। यथोक्तम्, रूढोपचारो रूढलक्षणोपचारो लक्षणा इति, अन्योऽप्याह मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् इति । तदिदमाह अवाच्यमिति ।
१२५सु०- नन्वेतच्छतिव्याख्यानं सूत्रव्याख्यानानन्तरमेव कर्तव्यम् । तत्रैव पूर्वपक्षश्रुतेः शङ्कितत्वात् । अत्र व्याख्यानं तु न सङ्गतमिति ।। मैवम् । सूत्रपूर्वपक्षिणे वाऽपव्याख्यात्राऽपि लक्षणया ब्रह्मणि समन्वयं समर्थयमानेनैतच्छतिस्मृत्युपादानस्य कर्तुमुचितत्वात् । तथा च उभौ प्रति सूत्रव्याख्याऽपव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति ।।
१२६सु०- तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् ।।
ब्र०सू०- ।। ॐ आनन्दमयोऽभ्यासात् ॐ ।।
सु०- अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः , शास्त्रयोनित्वादि ति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयाऽवधारितम् । प्रमाणस्यान्यपरत्व•)शङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । न हि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावना तु न वस्त्ववधारणार्था, अप्रमाणत्वात्, किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयोरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः ।
वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणेऽवशेषाभावात् किमानन्दमयोऽभ्यासादित्यादिनाऽध्यायेन इत्याशङ्क्य अध्यायशेषस्य कृत्यमाह एवमिति ।
सत्यम् । न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्टम् । तथाऽपि तत्तु समन्वयादि त्युपक्रमादितात्पर्यलिङ्गबलात्सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वयोऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेन आनन्दमयः इत्यादिनाऽध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् । तत्तु समन्वयादि ति हि प्रतिज्ञामात्रेणोक्तम् । तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्रायमकार्यकारित्वात् । अन्यथा परोऽपि ह्यन्यदेव समन्वयादित्युक्तवा कृती स्यात् । यदि हि प्रत्ययमनुत्पाद्यैकः अयं भूमध्यप्रदेश इति ब्रूयात्, तदा परोऽपि किं न ब्रूयात् परस्ताद्वितस्तेरि ति । तस्मादावश्यकं समन्वयप्रपञ्चनम् ।
तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गतिर्दर्शिता । एवं तर्हि तदानन्तर्यमेव स्यात्कुतो व्यवधानमित्यत उक्तम् एवमिति ।
एवम् ईक्षत्यधिकरणव्युत्पादितन्यायेन, ब्रह्मणः, शास्त्रावगम्यत्वे मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे, सम्भाविते सतीति ।।
एतदुक्तं भवति । सत्यं प्रपञ्चनमनन्तरप्राप्तम्, तथाऽप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्वसम्भावनासमर्थनेन व्यवधीयते ।। सति हि तस्मिन्न(न्नेत)स्यावसरः, शब्दलेशसञ्चारा(भावे)सम्भवे वाक्यतात्पर्यविचारस्यानवकाशत्वात् ।
न हि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति । स्वादिष्वसर्वनामस्थाने इति पदसंज्ञाऽनुशासनादत्र न यतिभङ्गश्शङ्कनीयः ।
सु०- मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह, द्विरूपं हि ब्रह्मावगम्यते वेदान्तवाक्येषु । नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् । यत्र हि द्वैतमिव भवति , सर्वाणि रूपाणि विचिन्त्य धीरः इत्येवं सहस्रशोऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि । तत्राविद्याऽवस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्तयर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि । एवम् अपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायोत्तरग्रन्थ आरभ्यत इति ।
तदिदमनुपपन्नम्, ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् । सर्वाण्यपि हि वेदवाक्यान्यसङ्ख्येयकल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति । किन्तु कानिचित् सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदा(र्यवी)र्यादिगुणविशिष्टतया, कानिचित् अपहतपाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया, कानिचित् अतिगहनताज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण, कानिचित् सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन, कानिचित् सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति । ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननुसन्दधाना वेदं छिन्दन्ति । न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते ।
नाप्यस्याविद्याविषयस्य प्रपञ्चनं मोक्षशास्त्रेऽत्रोपयुज्यते । प्रसङ्गादुच्यत इति चेन्न सर्वस्य प्रासङ्गिकत्वे प्रतिपाद्याभावप्रसङ्गात् । तदिदमाभाणकं लौकिकानां नातिवर्तते सार्थादपि तस्करा बहवः इति ।।
एतच्च सगुणनिर्गुणभेदं निराकुर्वताऽऽचार्येण निरस्तमिति नेह पुनः प्रक्रान्तम् । तथा च भाष्यम्, नान्यथा तददृष्टेरि ति ।
सु०- नन्वेवमध्यायस्य समन्वयप्रतिपादनलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किंनिबन्धनः । अवान्तरार्थोपाधिभेदादिति भावेनाह तत्रेति ।
चतुर्विधा (हि) वैदिकाः शब्दाः । केचिद्ब्रह्मण्येव प्रसिद्धाः, अन्येऽन्यत्रप्रसिद्धाः, केचिदुभयत्रप्रसिद्धाः, अपरे त्वन्यत्रैवप्रसिद्धा इति । सर्वेऽपि प्रत्येकं नामलिङ्गात्मकतया द्विविधाः । साक्षाद्धर्मिवाचिनो नामात्मकाः, धर्मद्वारा धर्मिणि वर्तमाना लिङ्गात्मकाः । तेषु ब्रह्मणिप्रसिद्धानां समन्वयो न वक्तव्यः, विवादाभावात्, तत्रैव च मीमांसाऽवतारात् ।
तत्र वक्तव्यसमन्वयेषु त्रिविधेषु, शब्देषु अन्यत्रप्रसिद्धानां नामात्मकानां शब्दानां, विष्णावेव समन्वयम् । तत्र प्रथमेऽध्याये । प्रथमे पादे वदत्यजः । अन्येषामन्येष्विति तत्र तत्र वक्ष्यति । क्रमनियमे तु हेतुरुपरिष्टाद्वक्ष्यते ।
प्रथमे स्पष्टब्रह्मलिङ्गानां, द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः, चतुर्थे प्रधानस्य शाब्दत्वनिराकरणमित्ययुक्तम्; द्वितीयतृतीयपादोदाहरणवाक्यानामपि बहुलं स्पष्टब्रह्मलिङ्गत्वात्, द्वितीयतृतीययोर्भेदाभावप्रसङ्गाच्च । सगुणनिर्गुणप्राचुर्येण तद्भेद इति कश्चित्, तन्न निराकृतत्वात्, प्रधानशाब्दत्वनिरासस्येक्षत्यधिकरणानन्तर्यं विहाय विक्षेपे कारणाभावाच्च ।
सु०- ननु अत्र पादे सप्ताधिकरणानि समन्वयविभागार्थानि । तत्र सप्तानां शब्दानां ब्रह्मणि समन्वयः सिद्ध्येत् । तत्कथमन्यत्रप्रसिद्धानां नामात्मकानां सर्वशब्दानां समन्वयसिदि्धरत्र स्यात् । अन्यथा समन्वयसूत्रेणैवालम्, किमनेनात्यल्पप्रपञ्चनेन इति । मैवम् । एकैकत्राधिकरणे समानन्यायानामनेकशब्दराशीनां निर्णीयमानत्वात् । वाक्यविशेषग्रहणस्य पूर्वपक्षविशेषोपादानस्य, सिद्धान्तप्रमाणविशेषस्वीकारस्य चोदाहरणार्थत्वात् । प्रत्येक(कं)निर्णये शास्त्रस्यापर्यवसानप्रसङ्गः, विश्वतोमुखता च सूत्राणां न स्यात् ।।
तर्हि निर्णेतव्यशब्दावच्छेदकोपाधयो वक्तव्याः, अन्यथाऽस्येदमुदाहरणमिति ज्ञातुमशक्यत्वात्, सर्वोदाहरणत्वे च सर्वथाऽधिकरणान्तरानारम्भप्रसङ्गादिति । सत्यम् । सन्ति प्रत्यधिकरणं निर्णेतव्यार्थावच्छेदकोपाधय इत्याशयवानानन्दमयाधिकरणनिर्णेयशब्दोपाधिमाह गुणीति ।
आनन्दमयादिशब्दा हि गुणिसामान्यं वदन्ति । न शतक्रत्वादिशब्देभ्य इवैतेभ्यो गुणिविशेषप्रतीतिरस्ति । ते च मयट्प्रत्ययादिना ब्रह्मणोऽन्यत्प्रत्याययन्ति इति भवन्त्यत्रप्रसिद्धाः । गुणवाचिनस्त्वानन्दादयः, ते गुणिनि ब्रह्मणि वर्तितुं नार्हन्ति, इत्यन्यत्रप्रसिद्धाः । गुणगुणिनोरभेदस्त्वहिकुण्डलाधिकरण एव साक्षात् सूत्रकृता वक्ष्यते । अभेदेऽपि शब्दादिसाङ्कर्याभावश्चेति ।
५सु०- तैत्तरीयके स वा एष पुरुषोऽन्नरसमय इत्यादिनाऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पठ्यन्ते । तत्र संशयः, किमेतेऽन्नमयादयः परमात्मैव, उत तदन्यः कश्चिदि ति, सर्वत्र ब्रह्मशब्दश्रवणात्तस्य च विष्णावन्यत्र च प्रयोगात् ।।
किं तावत्प्राप्तम् । अन्य एवान्नमयादिशब्दार्थ इति । कुतः । अन्नमयादिशब्दा हि विकारवाचिनः, मयट्प्रत्ययस्य विका(रे)रार्थेऽनुशासनात्(म्) । विकारस्य च शरीरादिकोशेषु सम्भवात्, सर्वविकारात्मकत्वेन प्रकृतौ वोपपत्तेः, जीवानां वा विकाराभिमानिनामन्नमयत्वादिकं युक्तम् गौरः श्याम इत्यादिवत्, अधिष्ठात्रीणां ब्रह्मादिदेवतानां वाऽयं शब्दः सम्भवति, अशनिरिन्द्र इतिवत् । न च विकारत्वं परस्य ब्रह्मणः सम्भवति, निर्विकारोऽक्षरः शुद्ध इत्यादेः ।
यद्यपि विकार इव प्राचुर्येऽपि मयट्प्रत्ययोऽस्ति, तथाऽप्यन्नमयशब्दस्तावद्विकारार्थोऽङ्गीकार्यः, ओषधीभ्योऽन्नमन्नात्पुरुषः इत्योषधिजनितान्नविकारं पुरुषशब्दाभिधेयं शरीरं प्रकृत्य स वा एष पुरुषोऽन्नरसमयः इत्युक्तत्वात् । तस्येदमेव शिरः इत्यपरोक्षतया निर्देशात् । तथा च द्वैविध्यकल्पनाऽनुपपत्तेः सर्वत्र विकारार्थ एवाङ्गीकार्यः ।
किञ्चान्नमयादयः पञ्च, ब्रह्म त्वेकमेव; अतः कथं तदेतैः शब्दैरुच्येत । अपि चैते परस्परमन्यतया शरीरशरीरिभावेनान्तरत्वेन चोच्यन्ते । न चैवं ब्रह्म भवितुमर्हति । न च तर्ह्यानन्दमयोऽस्तु ब्रह्म सर्वान्तरत्वादिति वाच्यम्, विकारप्रवाहपतितत्वात् । अन्नमयाद्यान्तरत्वमात्रेण सर्वान्तरत्वानिश्चयात् ।
किञ्च ब्रह्मविदाप्नोति परमिति प्रकृतं परं ब्रह्म आनन्दमयस्य ब्रह्म पुच्छं प्रतिष्ठे त्यवयवतया प्रतीयते । न चावयव एवावयवी, विरोधात् । अतो न अन्नमयादयः पञ्चापि ब्रह्म किं त्वन्य एवेति ।
अत्र, तैत्तिरीयके अन्यासु (च) चैतद्रूपासु शाखास्वपि सहस्रशः । आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् इत्येतावता आनन्दमयो ब्रह्मे ति प्रतिज्ञाभागो व्याख्यातः । तत्र तैत्तिरीयक इत्युदाहरणवाक्यग्रहणम्, अन्यास्विति निर्णेतव्यव्यपदेशः ।
एतद्रूपास्विति गुणिसामान्यगुणवाचिनामवतीष्वित्यर्थः । तत्र हेतुरभ्यासादिति । तद्व्याख्यानं येऽन्नमिति । येऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते, आनन्दं ब्रह्मणो विद्वान्, विज्ञानं ब्रह्म चेद्वेद, असद्ब्रह्मेति वेद चेत् इत्यन्नमयादिविषयतयोदाहृतेषु श्लोकेषु ब्रह्मशब्दस्याभ्यासादित्यर्थः । एकविषयासकृदुक्तिर्मुख्योऽभ्यासः, न चैवमत्रास्ति, किं त्वसकृदुक्तिमात्र(मितिज्ञाप)मिति शङ्कायाम्, एकविषयताऽप्यस्तीति ज्ञापयितुमित्यादेरित्यनुक्तवा इत्यादिरूपात् इत्युक्तम् । अन्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वादित्युक्तं भवति, ब्रह्मशब्देन कथमयं निश्चय इत्यत आह ब्रह्मशब्दस्येति । तदपि कुत इत्यत आह श्रुतिरिति । तदेव ब्रह्म परमम् इति सावधृतिः श्रुतिः विष्णुमेव ब्रह्मशब्दवाच्यं जगौ यतोऽत इति योजना । तत्रापि तदिति परामर्शविषयो विष्णुरिति कुत इत्यत उक्तं समुद्रशायिनमिति । व्याख्यातमेतत्प्रथमसूत्रे ।
सु०- नन्वानन्दमय इत्येव सूत्रे प्रतिज्ञा, तत्कथमानन्दमय इत्याद्यैरिति व्याख्यानमित्यत आह उपलक्षणत्वमिति ।
आनन्दमयश्चासौ पूर्वश्च, स एषामस्ति त आनन्दमयपूर्विणः, तेषाम् ।
स्यादयं व्याख्यानव्याख्येययोर्विसंवादो यद्यत्रानन्दमयशब्दः स्वमात्रस्य ग्राहकः स्यात् । न चैवम् । किं त्वत्रानन्दमयशब्दस्य समानन्यायानामन्नमयादिशब्दानामुपलक्षक(ण)त्वम् । एवमुत्तरत्राप्याकाशादिशब्दानामपि स्वसमानन्यायशब्दान्तरोपलक्षणत्वमवगन्तव्यमिति । अजहल-लक्षणा चैषा । तेनानन्दमयस्य त्यागो न मन्तव्यः । अत एव विकारशब्दादित्याद्याक्षेपाणां तत्परिहाराणां स्वतन्त्रयुक्तीनां चोपलक्षणत्वं द्रष्टव्यम् ।
८सु०- स्यादेतत् । मुख्यार्थबाधे तद्योगे प्रयोजने च सति लक्षणा दृष्टा । तदत्र वाचकशब्दप्रयोगे सम्भवति किं लाक्षणिकशब्दप्रयोगे प्रयोजनं सूत्रकारस्य । न चेयं रूढलक्षणा, येन प्रयोजनानपेक्षा, इत्यत आह सूत्रस्येति ।
यदि मुख्य एव प्रयोगः क्रियते, तदाऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इ(ति)त्येव प्रयोक्तव्यं स्यात् । तथा च सूत्रस्याल्पाक्षरत्वलक्षणं हीयेत । श्रुत्याऽर्थाद्वा ज्ञायमानस्यार्थस्यावचनं ह्यल्पाक्षरत्वम् । अयं चार्थोऽर्थाज्ज्ञायत इति वक्ष्यामः । अतः सूत्रस्याल्पाक्षरत्वेन प्रयोजनेन लाक्षणिकप्रयोगः सूत्रकारस्येति ।
९सु०- ननु सूत्रे यथाश्रुतमेव चेद् गृह्यते तदा कदृशो दोषो येन लक्षणा व्याख्यातव्येत्यत आह सर्वेति । प्रवृत्तत्वादिति शेषः । यदि हि सूत्रे श्रुतमात्रं गृह्येत(ह्यते) तदा सूत्रशतेन वाक्यशतसमन्वय एव सिद्ध्येत्, न तु सर्वशाखानिर्णयः । सर्वशाखानिर्णयार्थं प्रवृत्तानि चैतानि, सूत्रान्तराभावात् । अतः सर्वशाखानिर्णायकत्वस्यान्यथाऽनुपपत्त्या यथाश्रुतमात्रपरित्यागेन लक्षणा व्याख्येयेति गम्यते । लक्षणाऽऽश्रयणे हि सर्वशाखानिर्णयः सिद्ध्यतीति ।
१०सु०- ननु यथा यथाश्रुतग्रहणे बाधकमस्ति सूत्राणां विश्वतोमुखत्वासम्भवः, तथोपलक्षणाऽऽश्रयणेऽपि बाधकसद्भावः समानः, आनन्दमयशब्देनान्नमयादीनामिव सर्वशब्दानामुपलक्षयितुं शक्यत्वेनोत्तराधिकरणारम्भानुपपत्तेरिति चेत् । किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गो बाधकः, किंवा न्यायान्तरविषयशब्दान्तरगोचराधिकरणानारम्भप्रसङ्गः । नाद्यः, इष्टत्वात् । न द्वितीयः, वैषम्यात् । अन्नमयादयो हि समानन्यायतया सम्बन्धेनोपलक्षणया गृह्यन्ते, तदितरेषां तूपलक्षणायां कः सम्बन्धः । न हि सम्बन्धेन विना लक्षणा दृष्टा । शब्दत्वेन सन्दिग्धत्वेन चोपलक्षणमुपप्लवः । तथा सति तत्तु समन्वयादित्यनेनैव पूर्णत्वात् ।
अथ समानन्यायविषयत्वेऽपि अधिकरणान्तरारम्भो दृश्यते, उपलक्षणपक्षे स न स्यादित्यापाद्यत इत्यत आह पुनश्चेति । तत्र पूर्वाधिकरणव्युत्पादितन्यायविषयेऽप्यर्थे यदधिकरणान्तरमारभ्यते तत्पूर्व(र्वाधिकरण)न्यायाच्छादका(द)धिकाशङ्कालक्षणात्पुनरधिकरणान्तरारम्भप्रापकाद्धेतोर्विद्यमान(त्व•द्युज्यते । इदमुक्तं भवति । समानेऽपि न्याये पुनरधिकरणान्तरारम्भान्यथाऽनुपपत्त्या यथाश्रुत एव सूत्रार्थ इति यदुक्तं तन्न, अन्यथोपपत्तेः । अधिकाशङ्कया तन्न्यायविषयत्वाभावे परेणाशङ्कितेऽधिकाशङ्कानिराकरणेन पुनस्तन्न्यायविषयत्वप्रदर्शनार्थत्वादधिकरणान्तरारम्भस्य । विश्वतोमुखत्वभङ्गस्तु निरवकाश इति लक्षणाऽऽश्रयणमेव न्याय्यमिति ।
सु०- ननु सर्वशाखानिर्णायकत्वमेवैषां सूत्राणां नास्ति । सर्वशाखानां कार्यनिष्ठत्वेनाब्रह्मविषयत्वात् । ब्रह्मनिष्ठस्तु वेदान्तभागोऽल्पीयान् विनापि लक्षणाऽऽश्रयणेन यथाश्रुतार्थैः सूत्रैः शक्यो निर्णेतुमिति किं लक्षणाऽऽश्रयणेनेत्यत आह सर्वे वेदा इति ।
सर्वेषामपि वेदानां ब्रह्मनिष्ठतामाहेति शेषः ।
सु०- यद्यत्रोपलक्षणमभिप्रेतं स्यात्तदा प्रथमप्राप्तत्वादन्नमयशब्दमेवोपादद्यात् । आनन्दमयशब्दं तूपाददत्सूत्रकारस्तन्मात्रविवक्षां सूचयतीत्यत आह आनन्दमयेति ।
अन्नमयादीनामब्रह्मत्वे विकारशब्दः साधारणोपपत्तिः । आनन्दमयरूपे तु, ब्रह्मविदाप्नोति परमित्युक्तस्य ब्रह्मणो, ब्रह्म पुच्छं प्रतिष्ठा इति पुच्छत्वोक्तया, समस्तस्य अवयविन आनन्दमयस्य अब्रह्मत्वप्राप्तिः अधिकाऽप्युपपत्तिरस्तीत्यतोऽत्रावहितैर्भवितव्यमिति ज्ञापयितुम् आनन्दमयनाम गृहीतं सूत्रकृतेत्यन्यथोपपत्तिरुक्ता भव(ती)ति । यद्यानन्दमयो ब्रह्म स्यात्तदा तदवयवस्य समस्ताया मुख्याया आब्रह्मतायाः सम्यग्ब्रह्मताया अप्राप्तेः इति वा । ततश्च तद्वेदनात्परप्राप्तिः श्रुता बाध्येतेति ।
नन्वन्नमयेऽप्यधिकाऽनुपपत्तिरस्ति । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः इति, तस्येदमेव शिरः इति च । मैवम् । अस्यापि विकारोपपादकत्वेन तदन्तर्भावात् ।
यद्वा अथातो ब्रह्मजिज्ञासे ति जिज्ञास्यतयोक्तस्य ब्रह्मणः, पुच्छत्वोक्तया, समस्ताब्रह्मताप्राप्तेः, आनन्दमयविचारस्य प्रकृतेन सङ्गतत्वात्, आनन्दमयनामग्रहणमिति योज्यम् ।
सु०- ननु सूत्राणामुपलक्षणत्वाभावे सर्वशाखानिर्णयाभावप्रसङ्गेनास्तूपलक्षणत्वम्, आनन्दमयशब्दस्यान्नमयाद्युपलक्षणत्वमित्ययं विशेषः कुत इत्यत आह ब्रह्मशब्दस्येति ।
आनन्दमयस्य ब्रह्मत्वे हि हेतुत्वेन (यो) ब्रह्मशब्दाभ्यासोऽभिहितः सोऽन्नमयादिष्वपि समानः । तथा चान्नमयादीनामब्रह्मत्वेऽनैकान्तिकः कथमानन्दमयस्यापि ब्रह्मत्वं साधयेत्, अतोऽन्नमयादिसाधारणं ब्रह्मशब्दाभ्यासं हेतुत्वेन वदता सूत्रकारेण तेषामपि पक्षत्वमङ्गीकृतमिति ज्ञायते । चशब्देन अस्मिन्नस्य च तद्योगं शास्ती त्यादिहेतूनामपि साधारण्यं सूचयति । आदिग्रहणादानन्दादीनां ग्रहणम् । तस्मादुक्त एव सूत्रार्थ इति ।
१४सु०- नन्वानन्दमयस्य कथं ब्रह्मत्वम्, ब्रह्म पुच्छमि ति ब्रह्मणस्तत्पुच्छत्वाभिधानात् । न च ब्रह्मशब्दोऽन्यपरः, तथा सत्यत्रैवानैकान्त्यापत्तेः । न च निरपवादो ब्रह्मशब्दो हेतुः न ब्रह्मशब्दमात्रमिति वाच्यम्, ब्रह्म पुच्छमि त्यत्राप्यपवादाभावात् । ब्रह्मावयवत्वमिति चेन्न अद्याप्यानन्दमयस्य ब्रह्मत्वासिद्धेरिति ।।
अत्र प्रष्टव्यम् । किमवयवस्य पूर्णत्वेऽवयविनः पूर्णत्वं नोपपद्यत इत्यभिप्रायः, किं वा आनन्दमयस्यावयविनः पूर्णत्वे तदवयवस्य पूर्णत्वाभावापादनम्, उतावयवावयविनोर्भेदादवयवस्य परमात्मत्वे नावयविनस्तत्त्वमिति । आद्ये दोषमाह ब्रह्मतेति ।
यदाऽवयवेऽपि ब्रह्मता, तथा सत्यवयविनि सा स्वतोऽनायासेन स्यात्, अवयविनोऽवयवापेक्षया महत्त्वस्य दृष्टत्वात् । ततश्चावयवस्य पूर्णत्वेऽवयविनः पूर्णत्वानुपपत्तिरिति विरुद्धमेतत् ।
द्वितीये व्याप्त्यभावं दर्शयति यथैवेति ।
एतच्च उद्बबर्हात्मनः केशौ इत्यादिना पुराणे प्रसिद्धम् । अखिला निरुपचरिता । तथाऽऽनन्दमयावयवस्यापि भविष्यतीति शेषः ।
अत्र प्रमाणमाह दर्शिता चेति ।
पार्थदर्शनं च द्यावापृथिव्योरि त्यादि तद्वाक्यादवगम्यते । चशब्दः पुराणाद्युक्तिसमुच्चयार्थः । एवशब्दस्त्वेवं प्रमितैव न वाङ्मात्रेणोच्यत इति सम्बध्यते ।
ननु लोके योऽवयवः स परिच्छिन्नो दृष्टस्तत्कथमेतदित्यतः परमेश्वरस्याघटितघटकतया सर्वत्राप्रतिबद्धया शक्तयाऽन्यत्रादृष्टमपि घटते काऽत्र कथन्तेत्याह निःसीमा इति ।
सीमसीमे स्त्रियामुभे इति सीमन्शब्दपर्यायसीमाशब्दोत्तरपदोऽयं समासः । सीमन्शब्दोत्तरपदत्वेऽपि डाबुभाभ्यामन्यतरस्यामि ति साधु ।
तृतीयेऽप्येतदेवोत्तरम् । निःसीमा इति ।
हि शब्दो हेतौ । शिरो नारायण इत्यादिप्रसिदि्धद्योतको वा ।
सु०- स्यादेतत् । ब्रह्मशब्दबलेनान्नमयादीनां विष्णुत्वं न निश्चेतुं शक्यते, ऋतं सत्यं परम्ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नील-लोहितम् इति तापनीयवाक्ये रुद्रेऽपि परम्ब्रह्मशब्दश्रवणादि त्यतः पूर्वोत्तरार्धे भिन्नविषयतया व्याख्याति ऋतमिति ।
विरूपाक्षाख्यमपरं ब्रह्मोक्तं तद्व्रते स्थितम् । इति पूर्वार्धे, विष्ण्वाख्यं परम्ब्रह्मोक्तमिति योजना । अन्यत्र उत्तरार्धे, विरूपाक्षाख्यमुक्तम् । इति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुक्तम् ।। भिन्नविषयत्वेऽन्वयः कथमित्यत उक्तं तत्प्रति ऊर्ध्वरेतमिति । अनेन ऋतमित्यादीनि द्वितीयान्तानि, ऊर्ध्वरेतमित्यादीनि प्रथमान्तानि, इत्युक्तं भवति ।
तर्हि नपुंसकलिङ्गप्रयोगः कथमित्यत उक्तम् अपरं ब्रह्मेति । अमुख्यया वृत्त्या जीवेऽपि ब्रह्मशब्दसद्भावात्तदपेक्षया नपुंसकलिङ्गमिति ।
तत्प्रत्यूर्ध्वरेतमिति विवृणोति तद्व्रते स्थितमिति ।
सु०- एकविषयतया प्रतीयमानयोः पूर्वोत्तरार्धयोः कुतो भिन्नविषयता कल्प्यत इत्यत आह समानेति ।
समानमेकमधिकृतमधिकरणं विषयो ययोः पूर्वोत्तरार्धयोस्ते समानाधिकृते तयोर्भावः । यदि पूर्वोत्तरार्धयोरेकविषयत्वं स्यात्तदोत्तरम् उत्तरार्धोक्तं नील-लोहितम् कृष्णपिङ्गलरूपेण पूर्वार्धोक्तेन निमित्तेन पुनरुक्तं भविष्यति, कृष्णपिङ्गलनील-लोहितशब्दयोरेकार्थत्वात् । अतः प्रतीतमप्येकविषयत्वं परित्यज्य भिन्नविषयत्वग्रहणं न्याय्यमिति ।
१७सु०- किञ्च ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिरि त्युत्तरवाक्ये ब्रह्म अधिपतिर्यस्य रुद्रस्य असौ ब्रह्माधिपतिरिति रुद्रस्य ब्रह्मा अधिपतिः प्रतीयते । यस्य चाधिपतिरस्ति कथं तस्य परब्रह्मता स्यादित्यतश्च पूर्वार्धो न रुद्रविषय इत्याशयवानाह ब्रह्माधिपतिरिति ।
ऋतं सत्यमि ति वाक्यं यद्गतम्, अत्र तापनीयश्रुतौ, ऋतमित्यस्मात् पुरः पुरतः उपरिष्टादिति यावत् । ब्रह्माधिपतिरिति रुद्रस्य पराधीनताप्रतिपादकं पदमस्तीति योजना ।
स्यादेवं यदि ब्रह्माधिपतिशब्दस्य बहुव्रीहित्वं स्यात्, न चैवम्, षष्ठीतत्पुरुषे कर्मधारये वा सम्भवति बहुव्रीहित्वनिश्चायकाभावादित्यत आह स्वरितेति ।
यस्माद्ब्रह्माधिपतिप्रातिपदिकं स्वरितब्रह्मशब्दान्तं तस्माद्बहुव्रीहित्वमेव प्राप्नोति, न समासान्तरत्वम् । तथात्वेऽन्तोदात्तत्वेन अनुदात्तं पदमेकवर्जमि त्यस्य प्रसङ्गेन (पूर्वपदस्य स्वरितान्तता) स्वरितपूर्वपदान्तता न स्यात् ।
अथवोन्थमेव पूर्वोक्तमर्थमुक्तवोक्तशङ्कोत्तरत्वेन समस्तोऽपि श्लोको योज्यः ।
यद्यपि बहुव्रीहित्वं पूर्वसिद्धमेव, तथाऽपि तन्निश्चयापेक्षयैष्यतीति प्रयोगः ।
ननु पूर्वपदान्तस्वरस्य स्वरितत्वेऽपि कुतो बहुव्रीहित्वमिति चेत्, उदाहरणदर्शनादित्याह स्वाहेति ।
यद्यस्मात्स्वाहेन्द्रशत्रुर्वधस्वेत्यत्रेन्द्रशत्रुप्रातिपदिकं स्वरितेन्द्रशब्दान्तं बहुव्रीहितां प्राप्तं तस्मादिदमपि तथाविधं बहुव्रीहिरेवेति ।
सु०- इन्द्रशत्रुप्रातिपदिकस्यापि कुतो बहुव्रीहित्वम् । षष्ठीसमासत्वसम्भवादित्यत आह तस्मादिति ।
यस्मादिन्द्रशब्दः स्वरितान्त उपात्तस्तस्मात् । मन्त्रस्याभिमतस्वरहीनतादोषात् ।
अस्य वृत्रस्येन्द्रः शत्रुः शातयिताऽभवत् । न पुनस्त्वष्टुरभिप्रायानुसारेणेन्द्रस्य शत्रुरभवत् । इत्युत्तरवाक्यबलादिदं ज्ञायते यदिन्द्रशत्रुप्रातिपदिकं बहुव्रीहिर्न तत्पुरुष इति । तथा चाहुः
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधादिति ।
सु०- न केवलं पूर्वपदान्तस्वरितत्वे बहुव्रीहित्वमुदाहरणबलात् उदाहरणेऽप्युत्तरश्रुतिबलात् कल्प्यते; किं नामानुशासनमप्येवमस्तीत्याह पूर्वान्तस्वरित इति ।
पुंसोः पुलि-लङ्गयोः समस्यमानयोः, पूर्वपदान्ते स्वरे, स्वरिते सति, तत्समासप्रातिपदिकं बहुव्रीहित्वमेष्यतीति सूत्रार्थः ।
अत्र केचिद्व्यभिचारमुद्भावयन्ति, तदसत् । सामान्यलक्षणप्राप्तं (हि) (पुनः) विशेषलक्षणैरपोद्यत इति व्याकरणप्रक्रिया । यथोक्तम्, सामान्यविशेषवता लक्षणेनेति । तत्र विशेषलक्षणान्यपर्यालोच्य सामान्यलक्षणे व्यभिचारोद्भावनं कथं युज्यते ।।
किञ्चानेन सूत्रेण बहुव्रीहौ पूर्वपदे प्रकृतिस्वरत्वमुपलक्ष्यते, ब्रह्मेन्द्रशब्दयोः स्वरितान्तत्वात् । तथा च कुतो व्यभिचारः । यथाऽऽह पाणिनिः, बहुव्रीहौ प्रकृत्या पूर्वपदमि ति । अत एव स्वरविनिर्णये इत्याह । अन्यथा समासनिर्णय इत्यवक्ष्यत् ।।
अपि च सन्देहे सति स्वरेण समासनिर्णयार्थमिदमुच्यते । यथोक्तम् । असन्देहं प्रयोजनं व्याचक्षाणेन भाष्यकृता स्थूलपृषतीमनड्वाहीमालभेतेत्यत्र स्थूलपृषतीशब्दे तत्पुरुषबहुव्रीहिसन्देहं व्युत्पाद्य यदि पूर्वपदप्रकृतिस्वरत्वं तदा बहुव्रीहिः, (तदा) यदि च समासान्तोदात्तत्वं तदा तत्पुरुष इत्यादि । तथा चासन्दिग्धे व्यभिचारोद्भावनमसङ्गतमिति ।।
ननु पूर्वान्तस्वरित इति कथम्, सामर्थ्याभावेन समासानुपपत्तेरिति । मैवम्, समासप्रातिपदिके पूर्वान्तस्वरिते सतीति व्याख्यानात् । तथापि स्वरितपूर्वान्त इति स्यात्, बहुव्रीहौ विशेषणस्य पूर्वनिपातात् । न । विशेषणविशेष्यभावस्य कामचारित्वात् । आहिताग्न्यादित्वाद्वेति ।
सु०- एवं पुनरुक्तिप्रसङ्गेनोत्तरवाक्यबलेन च ऋतं सत्यमि ति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुपपाद्य सङ्क्षेपेण व्याख्यातं वाक्यं विस्तरेण व्याख्याति ऋतमिति ।
इत्यादीति सुपां सुलुगि ति प्रथमाया लुक् । इत्यादिपूर्वार्धस्थं यत्पदजातं तत्रस्ये(स्थमि)ति वा । द्वितीयेत्येतावत्युच्यमाने कर्मणि द्वितीयैव प्रतीयेत, प्राबल्यात्कारकविभक्तेः । न च तत्सम्भवति, क्रियापेक्षत्वात्कर्मत्वस्य । अत्र च क्रियाऽभावात् ।
अत उद्देश्यद्वितीयेत्युक्तम् । तर्हि प्रतिशब्देन भाव्यम्, सत्यम्, अध्याहरिष्यते ।। श्रौतप्रयोगदर्शनादकारान्तो रेतशब्दो वा समासान्तो डप्रत्ययो वाऽनुसर्तव्यः ।। ऊर्ध्वरेतादिरिति । ऊर्ध्वरेतमित्यादिपदावयवभूता । एवं रुद्रगोचरेतिवत्पूर्वं विष्णुगोचरेत्यपि द्रष्टव्यम् ।
एवं विषयविभक्ती तदर्थं चोक्तवा योजनामाह तस्मादिति ।
उक्तयुक्तिसमुदायात् ।। ऊर्ध्वरेता इत्येतदुलपक्षणमित्याशयेनोक्तम् व्रते स्थित इति ।
सु०- न केवलमुपपत्तिबलादेवं श्रुत्यर्थो व्याख्यायते, अपि तु श्रुत्यन्तरसमाख्यानादपीत्याह ऋतमिति ।
ध्यायति । तमेव । अनेन ध्यायतीत्यध्याहारेण कर्मणि वा द्वितीयेति ज्ञायते । आथर्वणीत्युक्ते प्रसङ्गात्तापनीयश्रुतिरित्येव प्रतिभाति, अत उक्तम् परा अन्येति । तर्हि किंनामधेया । नीलग्रीवश्रुतिः ।
एवं पूर्वोत्तरार्धयोर्भिन्नविषयतया व्याख्यानेन लब्धमाह परं ब्रह्मेति । ऋतं सत्यमित्यस्यां श्रुतौ प्रतीतमिति शेषः । तस्मात् पूर्वार्धस्य विष्णुविषयत्वात् ।
सु०- बाधकान्तरमाह तदेवेति ।
ऋतं सत्यं परं ब्रह्मे ति पूर्वार्धोऽपि यदि रुद्रविषयः स्यात्तदा तदेवर्तं तदुसत्यमाहुस्तदेव ब्रह्म परमं कवीनामि ति श्रुतिः तस्य विष्णोः, ऋतत्वादिकं, कथम्, अञ्जसा कवीनां सम्मत्या, प्राह । परस्परविरोधेनान्यतरश्रुतेरप्रामाण्यं प्रसज्येतेति भावः । ऋतमिति श्रुती रुद्रस्य ऋतसत्यब्रह्मत्वादीन्याह । तदेवेति (च) श्रुतिर्विष्णोः ।
तत्र श्रुतिद्वयबलाद्द्वयोरपि ऋतादिशब्दवाच्यत्वे क्वास्ति विरोध इत्यत उक्तम् तस्यैवेति । तत्कथमित्यत उक्तम् अवधारयन्तीति । विरोधे चाऽद्यश्रुतेरेव बाधो युक्तः, तदेवेति श्रुतेः प्रबलत्वात् । तच्चैतच्छत्या आपातप्रतीतिजभ्रान्तिबाधात्मकत्वादवसीयते । न ह्यप्राप्तप्रतिषेधो युज्यते । नापि श्रुत्याभासाद्विना तत् प्रापकमस्तीति ।
सु०- ननु तर्हि रुद्रस्य विष्ण्वात्मकत्वेनाविरोधोऽस्तु । पुनरुक्तिपरिहारायोत्तरार्धोक्तो विरूपाक्षस्त्वपरो भविष्यति । एवं तर्हि विष्णोरेव ब्रह्मशब्द इति क्वास्ति सौत्रस्य हेतोर्व्यभिचारः । न हि पक्षे व्यभिचारः शङ्क्यत इति ।। किञ्च रुद्रादीनां सर्वेषां प्रलयेऽसतां सृष्टावीश्वराज्जन्मवतां ब्रह्मत्वं कथमुपपद्यते । जन्मादिमत्त्वमेव तेषां कुतोऽवगम्यत इत्यत
आह एक इति ।
इत्यादिवाक्यतो रुद्रादीनां प्रलयेऽभावो विष्णोरुत्पत्तिश्चावगम्यते ।। उत्पत्तिमत्त्वेनाब्रह्मत्वे विष्णोरपि तथात्वं स्यात्, तस्यापि रामकृष्णादिरूपस्योत्पत्तिसद्भावादि त्यत आह विष्णोरिति । उत्पत्तिः उत्पत्तिवाक् । अवतारगा प्रादुर्भावविषया, न तु शरीरादिलाभलक्षणा । कुत एतदित्याशङ्कायाम् एक इत्यादिपूर्ववाक्यं सम्बद्ध्यते । इत्यादिवाक्यतो विष्णोर्महाप्रलयेऽप्यवस्थानावगमादित्यर्थः । स्वरूपमात्रेणावस्थानेऽपि शरीरादिलाभलक्षणोत्पत्तिः किं न स्यादिति चेन्न, स्वरूपसत्त्वस्य ब्रह्मशङ्करादावपि समानत्वेन न ब्रह्मे त्याद्यनुपपत्तिप्रसङ्गादिति ।
सु०- ननु यदि ब्रह्मशब्दो विष्णोरेव तदा जीवादौ व्यवहारो न स्यात् । तथा च ब्रह्मत्वापेक्षया नपुंसकप्रयोग इति न स्यात्, ब्रह्मणोऽधिपतिरित्यपि व्याहतं स्यादित्याशङ्कां परिहरन्नुपसंहरति मुख्यमिति ।
अन्येष्वमुख्यया वृत्त्या ब्रह्मशब्दाङ्गीकारान्नोक्तदोष इति भावः । अत एवापरं ब्रह्मेति प्रागुक्तम् ।
२५सु०- ननु यद्यमुख्यतया ब्रह्मशब्दस्य विष्णोरन्यत्र वृत्तिरङ्गीकृता तर्ह्यन्नमयादयोऽप्यमुख्यब्रह्मतया कुतो न व्याख्यायन्ते । न ह्यत्र मुख्यब्रह्मत्वज्ञापकं किञ्चिदस्तीत्यत आह प्रस्ताव इति ।
अत्र हि ब्रह्मविदाप्नोति परमिति परस्यैव ब्रह्मणः प्रस्तावः प्रसङ्गोऽस्ति । तेनोत्तरेषामपि ब्रह्मशब्दानां परब्रह्मविषयत्वनिश्चयान्नात्रामुख्यार्थाऽऽशङ्का कार्या । अपिशब्दो वक्ष्यमाणसमुच्चयार्थः ।
सु०- अङ्गीकृत्य चेदं ज्ञापकमुक्तम्, वस्तुतस्तु शक्तिग्रहणसामर्थ्येन प्रथमप्राप्तत्वात् बाधकाभावाच्च नामुख्यार्थकल्पना युक्तेत्याह मुख्येति ।
मुख्ययोगेऽप्यमुख्यग्रहणं किं न स्यादिति चेत् (न), मुख्यासम्भव एवामुख्याङ्गीकार इति व्याप्तेरित्याह असम्भवे हीति । यद्वा कथं तर्हि ब्रह्म वेद ब्रह्मैव भवती त्यादौ ब्रह्मशब्दस्यामुख्यार्थग्रहणमित्यत आह क्वचिदसम्भवे हीति ।
सु०- ननु नान्नमयादयः परमात्मा, विकारवाचिनो मयट्शब्दस्य श्रवणात्, परमात्मनोऽन्नादिविकारत्वानुपपत्तेः । न च ब्रह्मशब्दानुपपत्तिः, अमुख्यार्थसम्भवात् ।
न च प्रस्तावविरोधो मु(ख्या)ख्येऽर्थे बाधकाभावश्चेत्युक्तमिति वाच्यम्, विकारार्थस्य मयट्प्रत्ययस्य बाधकत्वात्, तत एव प्रस्तावस्याप्यपवादादि त्याशङ्क्य तत्परिहाराय सूत्रम्
ॐ विकारशब्दान्नेति चेन्न प्राचुर्यादिति ।
तत्रानन्दमयविषयावेवाक्षेपपरिहाराविति प्रतीतिनिरासाय सिद्धान्तांशं व्याचष्टे प्राचुर्यार्थाश्चेति ।
चशब्दोऽवधारणे । अत्र श्रुतौ । कुत इत्यत आह प्रतिपादिता इति ।
अयमर्थः । मयट्शब्दो हि विकार इव प्राचुर्येऽपि मुख्यः, तत्प्रकृतवचने मयडि त्यनुशासनात् । न च ब्रह्मशब्दोऽन्यत्र मुख्यः । न च सावकाशेन निरवकाशस्य बाधोऽस्ति, अतो निरवकाशब्रह्मशब्दबलात्सावकाशस्य मयटः प्राचुर्यार्थत्वोपपत्तेर्न तद्बलादन्नमयादीनामपरमात्मत्वं कल्प्यमिति ।
एतेन विकारप्रवाहमध्यपतितत्वान्नानन्दमयशब्दः प्राचुर्यार्थ इत्येतद्गर्भस्रावेणैव गतम्, अन्नमयादिष्वपि मयटः प्राचुर्यार्थतास्वीकारात् । परेणापि हि प्राणमये न विकारार्थत्वं वक्तुं युक्तम्, प्राणानां प्राणविकारत्वासम्भवात् । यथाकथञ्चिद्विकार(त्व)(वि)कल्पने मुख्यार्थपरित्यागात् ।
२८सु०- स्यादेतत्, अन्नविकारत्ववदन्नप्राचुर्यमपि नेश्वरस्य सम्भवति, तदि्ध पार्थिवशरीराणामन्नोपजीविनां स्यादिति चेन्न, अत्रान्नशब्दस्य प्रसिद्धान्नार्थत्वाभावात् । स्वयमेव हि श्रुतिः अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते इत्यन्नशब्दं निर्वक्ति । अदिधातोः कर्मणि कर्तरि च क्तप्रत्यये सति रूपमेतत् । न च भूतात्तृत्वं प्रसिद्धान्नस्य सम्भवति । तस्मादन्नशब्दोऽयं भावप्रधानो भूताद्यत्वं भूतात्तृत्वं च वक्ति ।
तथाऽपि न तत्प्राचुर्यं परमेश्वरस्य युज्यते, भूतात्तृत्वस्य संहर्तृत्वेन सम्भवेऽपि भूताद्यत्वस्य कथमप्यसम्भवादित्यत आह भोग्यत्वमिति ।
अत्राद्यत्वं नाम गौण्या वृत्त्या भोग्यत्वमेव । भोग्यत्वं च हरेः सर्वभूतोपजीव्यतया युज्यते । एवं प्राणमनोविज्ञानशब्दानामपि वाय्वन्तःकरणबुदि्धलक्षणप्रसिद्धार्थतां परित्यज्य प्राणा(णनाव)बोध(न)विज्ञानार्थतामुपादाय तत्प्राचुर्यमशरीरेऽपि परमात्मन्युपपादनीयम्, तत्रोदाहृतश्लोकार्थानां प्रसिद्धार्थेऽनुपपत्तेरिति ।
मयटः प्राचुर्यार्थत्वेऽपि नान्नमयादित्वं परमात्मनो युज्यते, तत्प्रचुर इत्युक्ते तद्विरुद्धस्याप्यल्पस्य प्रसक्तेः । ब्राह्मणप्रचुरोऽयं ग्राम इति यथा । न हि परमात्मन्यज्ञानदुःखादिलेशोऽप्यस्ति । मैवम्, विरुद्धार्थप्राप्तेरशाब्दत्वात् । तत्प्रचुरशब्दो हि तस्य तस्मिन्महत्त्वमात्रमाह, विरुद्धसद्भावस्तु प्रमाणान्तरगम्यः, अन्यथाऽन्नप्रचुरो मखः प्रकाशप्रचुरः सवितेत्युक्ते मखे सवितरि च दुर्भिक्षान्धकारलेशप्रसङ्गात् ।
सु०- ननु प्राचुर्यं प्रतियोग्यपेक्षयैव भवति । सत्यम् । पदार्थान्तरगताल्पतद्धर्मापेक्षयोपपत्तेरि त्याशयवान्यथा विरुद्धप्रतीत्यवकाशो न भवेत्तथाऽन्नमयादिशब्दतात्पर्यार्थानाह महाभोक्तेति ।
अन्नमये परमेश्वरे, अन्नमयशब्देनोक्त इति शेषः । महाप्राणो महाव्यापार इति प्राणमयशब्देनोक्तार्थो भवेदिति योज्यम् ।
मनु अवबोधन इत्यस्माद्भावेऽसुन्प्रत्यये मनो बोधः । अत्रापि इत्यर्थो मनोमयशब्दस्य विज्ञानमयशब्दस्य भवेदिति योज्यम् । अपिशब्दान्महानन्द इत्यानन्दमयशब्दार्थो भवेदिति ग्राह्यम् ।
सु०- नन्वन्नमयादित्वे परमात्मनोऽनेकत्वप्रसङ्गात् एकमेवे ति श्रुतिविरोधः स्यात् । तथा विज्ञानं प्रचुरमस्मिन्नानन्दः प्रचुरोऽस्मिन्निति विज्ञानादीनां परमेश्वरस्य च भेदप्रसङ्गेन विज्ञानमानन्दं ब्रह्मे त्यादिश्रुतिविरोधः स्यात् । तथा मनश्शब्दस्यावबोधार्थत्वे मनोविज्ञानशब्दयोरेकार्थत्वेन विज्ञानमयो मनोमय इति पृथगुक्तिर्नोपपद्यत इत्यत आह विशेषेति ।
अत्रैवं विवक्षाभेदेन परिहारत्रयं द्रष्टव्यम् । एकस्य निर्भेदस्यापि हरेर्विशेषबलेनानेकत्वसङ्ख्यावत्त्वाद्विभागतोऽन्नमयाद्यनेकत्वोक्तिर्युज्यते । एवं ज्ञानरूपस्य ज्ञानानन्दाद्यात्मकस्यापि हरेर्विशेषशक्तयैव विभागतस्तद्वत्त्वेनोक्तिर्युज्यते । एवं मनश्शब्दस्यावबोधार्थत्वेऽपि (विज्ञानं) विज्ञानमय इति मनोमय इत्यपि विभागतः पृथगुक्तिर्युज्यते । कथम् । विशेषसामान्यतया विशेषसामान्यविषयतया । विज्ञानशब्दो हि विशेषज्ञानमाह,
सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः । देवादीनां तु तज्ज्ञानं विज्ञानमिति कर्तितमि ति वचनात् ।
मनःशब्दस्तु ज्ञानमात्रवाची विज्ञानशब्द(स्य )सहपाठबलात्सामान्यज्ञाने पर्यवस्यति । विद्येते हि परमार्थतः सामान्यविशेषाकाराविति समस्ततद्विषयज्ञानमुपपन्नमेवेश्वरस्येति ।
सु०- तथाऽपि नान्नमयादयः परमात्मा । तस्माद्वा एतस्मादन्नरसमयात्, अन्योऽन्तर आत्मा प्राणमय इत्यादिनाऽन्नमयादीनामन्योन्यमन्यत्वावगमात् । परमात्मनि तु भेदाभावादित्यत आह अभेदेऽपीति ।
भेदप्रतिनिधितया भेदकार्यनिर्वाहकेण विशेषेणैव, न तु भेदेन, येन विरोधः स्यादित्यर्थः ।
न चात्र यतिभङ्गः शङ्कनीयः, पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् इति वचनात् ।
सु०- विशेषो भेदकार्यं व्यवहारादिकं निर्वहतीति पूर्वमेवोक्तम् । अत्र विशेषनिष्ठमागमं चाह भेदशब्दा इति ।
भेदनिमित्ता अन्यादिशब्दा भेदशब्दाः ।
हरौ विशेषं ब्रूयुरित्यस्यापवादमाह हरेरिति ।
एवम् अन्यत्र भिन्नताम् इत्यस्यापि क्वचिदपवादो द्रष्टव्यः ।
न केवलं पूर्वोक्तोपपत्तिर्ब्रह्मतर्कवचोऽप्येवमावेदयतीत्यपेरर्थः ।
सु०- यदुक्तं प्रागेकस्यापि विभागत उक्तिरिति, न तत्रोपपत्तिरभिहिता । एतामेवोपपत्तिं प्रतिज्ञामात्रेणोक्ते तत्राप्यतिदिशति अत इति ।
विशेषबलादेवेति ।
३४सु०- एकोऽपीति वा अपिशब्दसम्बन्धः । इत्यादीति क्रियाविशेषणम् ।
सु०- किञ्चोत्तरस्मिन्ननुवाके, वरुणो भृगोः, एतस्मिन्ननुवाके प्रतिपादितमेव वस्तु ब्रह्मत्वेनोपदिशति, अतश्चान्नमयादिकं परं ब्रह्मेत्याह भृगोरिति ।
अनुवाकस्योत्तरत्वेन वदिष्यतीत्युक्तम् । तस्य च ब्रह्मत्वमुपरिष्टादुपपादयिष्यते ।
तथा च ब्रह्मशब्दादुत्तरानुवाकसंवादाच्चान्नमयादीनां पञ्चानामपि ब्रह्मत्वे सिद्धे मयट्प्रत्ययादीनां प्राचुर्यार्थत्व(द्यर्थतया)व्याख्यानं युक्तमिति ।
सु०- नन्वत्रान्नमयादिशब्दाः श्रूयन्ते, उत्तरत्र (तु) मयट्प्रत्ययहीना अन्नादिशब्दा एव । शब्दभेदे च निमित्तभेदेनाभिधेयभेदेन चावश्यं भवितव्यम् । न चान्नमयादिशब्दा अन्नादिशब्दपर्याया इति युक्तम्, प्रत्ययार्थस्याधिकस्य विद्यमानत्वात् । न च भीमसेनो भीमो, बलभद्रो बलः, सत्यभामा सत्या, पुनर्नवा नवा, काचमाची माची त्यादिवत्स्यादिति वाच्यम्, वैषम्यात् । भीमादिशब्दा हि प्रत्येकं तद्वाचकाः ।
न चान्नशब्दमात्रमन्नमयस्य वाचकम्, प्रत्ययस्य स्वार्थिकत्वप्रसङ्गात्, प्राचुर्यार्थश्च मयडित्युक्तम् । न ह्यन्नमयो यज्ञ इति वक्तव्येऽन्नशब्दमात्रं प्रयुज्यते । तस्मात्तत्रात्र च पृथग्वस्तुप्रतिपादनात्कथं तत्संवादेनात्रापि ब्रह्मप्रतिपादनमित्युच्यते । किं त्वत्रान्नमयादयः कोशास्तत्र तु ब्रह्मेत्यत आह प्राप्यत्वेनेति ।
एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादिप्राप्यत्वेन निर्देशे मयटः स्पष्टोक्तेस्तत्रा(त्रा)पि नान्यदुच्यते ।
सु०- एतद्विवृणोति प्रचुरान्नादिरेवेति ।
यथा हि ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेतेति कालविशेषविधिपरे वाक्ये ज्योतिश्शब्दो ज्योतिष्टोमस्याभिधायकः । न हि तत्र शब्दयोः पर्यायत्वम्, राजशब्दस्यापि राजपुरुषशब्दपर्यायत्वप्रसङ्गात् । ज्योतिषां स्तोमो हि ज्योतिष्टोमः । अत एव न प्रत्येकं वाचकत्वं, किं त्वधिकारबलादेकदेशोत्कर्तनेन समग्रशब्दलक्षणामङ्गीकृत्य निमित्ताभिधेयैक्यमङ्गीकरणीयम् ।
एवमत्राप्यन्नप्राणाद्येकदेशोत्कर्तनेनान्नमयशब्दादिलक्षणयाऽन्नादिशब्दानामन्नमयादिशब्दानां चैक्यमङ्गीकृत्य (तन्नि)निमित्ताभिधेयैक्यम(ङ्गीक्रि)भ्युपेयते, प्राप्यतयोक्तिस्थाने मयट्प्रयोगसामर्थ्यात् । न ह्यन्यविद्ययाऽन्यप्राप्तिर्युक्तेति भावः ।
अन्नमयेति प्रातिपदिकमात्रग्रहणम् । इतिशब्द आद्यर्थे, प्रत्येकं चाभिसम्बद्ध्यते ।
तथा च अतः प्राप्यत्वेन मयट्प्रोक्तिसामर्थ्यात्, अन्नमित्यादीनां अन्नमयमित्यादीनां च शब्दानाम्, अविशेषेण स्वरूपैक्येन कारणेन तैः शब्दैः प्रचुरान्नादिशब्दैः, प्रचुरान्नादिनिमित्तवान्परमात्मैव उच्यते, न पुनरनुवाकद्वये प्रतिपाद्यभेदमङ्गीकृत्य इह अनुवाके ब्रह्मणो अन्यत्किञ्चित् शरीरादिकोशरूपम् उच्यत इति योजना ।
आद्यो हिशब्दो न ह्यन्यविद्ययाऽन्यप्राप्तिर्युक्तेति न्यायसूचनार्थः, द्वितीयस्तु शब्दैक्ये निमित्ताभिधेयैक्यप्रसिद्धेर्द्योतकः ।
सु०- एवं सूत्रद्वयेनान्नमयादिशब्दपञ्चकस्येश्वरवाचित्वं, मयटश्च सर्वत्र प्राचुर्यार्थत्वमुपपादितम् । इदानीमानन्दमयशब्दस्य विष्णुवाचित्वं, तद्गतस्य मयटश्च प्राचुर्यार्थत्वं हेत्वन्तरेणोपपादयत् तद्धेतुव्यपदेशाच्चेति सूत्रं व्याख्याति महानन्दत्व एवेति ।
ब्र०सू०- ब्र०सू०-ॐ तद्धेतुव्यपदेशाच्च ॐ ।
आनन्दमयप्रकरणे को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादि त्यस्य विष्णोरेव महानन्दत्व एव (च) हेतुरुक्तः । तेन ज्ञायते विष्णुरेवानन्दमयशब्दार्थ इति, मयट् च प्राचुर्यार्थ इति । यदि ह्यानन्दमयो विष्णोरन्यः स्यात्, मयट् च विकारार्थो भवेत्; तदा श्रुतिरन्यस्यानन्दविकारत्वे हेतुं कमपि ब्रूयात्, विष्णोर्महानन्दत्वे हेतुकथनं त्वसङ्गतमेव ।
अनेन (सूत्रे) तदिति षष्ठ्यन्तं सप्तम्यन्तं च तन्त्रेणोपात्तमित्युक्तं भवति । तस्य विष्णोस्तत्र महानन्दत्व इत्युक्तत्वात् ।
३९सु०- नन्वत्राकाशस्यानन्दत्वाभावेऽननं प्राणनं च कस्यापि न स्यादित्येतावदुच्यते, न तु विष्णोर्महानन्दत्वे कश्चिदपि हेतुरुच्यत इत्यत उक्तम् स्फुटमिति । तत्कथमिति चेत्, आकाशशब्दस्तावद्विष्णुपर इति वक्ष्यते आकाशस्तलि-लङ्गादिति । तथा च विष्णोरनानन्दत्वे जगतो निश्चेष्टत्वप्रसङ्गमापादयन्त्या श्रुत्या जगच्चेष्टकत्वं हेतुत्वेन विवक्षितमिति विवक्षुस्तस्यानन्दत्वेन व्याप्तिं तावदुपपादयति श्रुत्यन्तर इति ।
यस्मात् इत्यस्योपरि सम्बन्धः । श्रुत्यन्तरे छन्दोगश्रुतौ इत्युक्तमि त्युत्तरेणान्वयः । यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोती ति श्रुत्यन्तरे परमेश्वरव्यापारस्यानन्दाविनाभूतत्वमुक्तमित्यर्थः ।
आनन्दशब्द(स्य)श्च पूर्णानन्द एव मुख्यवृत्तिरित्यत्रापि श्रुतिमाह भूमेति ।
यौ वै भूमा तत्सुखं नाल्पे सुखमस्ती ति छन्दोगश्रुतौ सुखशब्दस्य पूर्णानन्द एव मुख्यवृत्तिरित्युक्तमित्यर्थः ।
यद्यपि भूमशब्दो भाववाची, बहोर्लोपो भू च बहोरि ति वचनात् । तथाऽपि भावभवित्रोरैक्याद्भूमेति पूर्ण एवोच्यते नाल्प इत्युक्तत्वात्, स च सन्निधानात्सुखेनेति गम्यते ।
सु०- ईश्वरप्रवृत्तेः पूर्णानन्दत्वेन व्याप्तिं श्रुत्योपपाद्योपपत्त्याऽपि समर्थयते यत्प्रवृत्तिश्चेति ।
अत्रापि यत् यस्मादित्यस्योपरि सम्बन्धः ।
प्रवृत्तिः चतुर्विधा भवति । सुखोद्रेकात् दुःखोद्रेकात् सुखरागाद्द्वेषाच्चेति शेषः ।। सुखोद्रेकात्प्रवृत्तेरुदाहरणमाह नृत्तेति । उन्मत्तस्येति शेषः । दुःखोद्रेकात्प्रवृत्तिमुदाहरति दुःखादिति ।।
केचिदाहुः सुखदुःखतत्साधनरागद्वेषावेव प्रवर्तकाविति, यथोक्तं प्रवर्तनालक्षणा दोषा इति । तन्निरासार्थम् एव शब्दः । सुखादेव दुःखादेवेति । न ह्युन्मत्तस्य क्वचिदनुसन्धानमस्ति, येन सुखरागात्तत्साधनमेतदित्यनुसन्धाय नृत्तादौ प्रवर्तेत, किं तूद्रिक्तं सुखमेव तत्प्रवृत्तौ हेतुः ।
नापि दुःखं द्विषतोऽपि नारकिणो रोदनादिकं तत्परिहारहेतुरित्यनुसन्धानमस्ति, किन्तु दुःखोद्रेक एव तत्र कारणमित्यनुभवसिद्धम् । सुखरागा त्तत्प्राप्त्यर्था भोजनादौ प्रवृत्तिर्दुःखद्वेषाच्च तन्निवृत्त्यर्था कण्टकोद्धरणादौ प्रवृत्तिः सुप्रसिद्धेति नोदाहृता ।
किमतो यद्येवं चेतनसम्बन्धिनी प्रवृत्तिश्चतुर्विधेत्यत आह सर्वकर्तृत्वत इति । सुखानवाप्तिश्चेति शेषः ।
ततश्च दुःखोद्रेकनिमित्ता तन्निवृत्त्यर्था सुखावाप्त्यर्था चेति प्रवृत्तित्रयं परमेश्वरे नोपपद्यत इति भावः ।
सु०- तथाऽपि किमित्यत आह अत इति ।
अतः परिशेषादीश्वरः प्रवर्तको भवन् केवल-लीलया आनन्दोद्रेकादेव भवेदिति सिद्धः परमेश्वरप्रवृत्तेः पूर्णानन्दाविनाभावः ।
एवमुपोद्घातमुक्तवा प्रयोगमाह अत इति । यत एवं परमेश्वरप्रवृत्तेः सिद्धः पूर्णानन्दाविनाभावः, अतः प्रवर्तकोऽयं केवल-लीलया पूर्णानन्देन युक्तो भवेदिति । अयमत्र प्रयोगः, ईश्वरः सुखी भवितुमर्हति प्रवृत्तिकारणत्रयरहितत्वे सति प्रवृत्तिमत्त्वादुन्मत्त
वदिति । कार्यानुगुणत्वाच्च कारणस्य महाप्रवृत्त्या महानन्द एव सिद्ध्यतीति ।
सु०- एवं श्रुतेरभिप्रायसिद्धं हेतुं व्याख्याय वाचनिकं विपक्षे बाधकं विवृणोति न चेदिति ।
एष परमात्मा, आसमन्तात्काशनादाकाशः पूर्णानन्दो, न चेत् तदा कारणान्तराभावात्, न किञ्चित्प्रवर्तयेत् । न चेदेष किञ्चित्प्रवर्तयेत्तदा कः पुमान्प्राण्यादन्याच्च । न कोऽपि लौकिकं वैदिकं वा प्रवृत्तिं कुर्यात् । स्वातन्त्र्याभावादिति योज्यम् ।
सु०- अन्नमयादीनां पञ्चानामपि युक्तयन्तरेण परब्रह्मत्वं प्रतिपादयितुं सूत्रम् ॐ मान्त्रवर्णिकमेव च गीयत इति ।
ब्र०सू०- ॐ मान्त्रवर्णिकमेव च गीयते ॐ ।।
तस्यार्थः सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णप्रतिपादितमेव वस्तूत्तरेण ग्रन्थेन गीयते, अतश्चान्नमयादयः परं ब्रह्मेति । स्यादेतद्यदि मन्त्रवर्णोऽपि परब्रह्मविषयः स्यात् । तदेव कुतः, मन्त्रवर्णे ब्रह्मेत्येव श्रवणात्, तस्य चामुख्यया वृत्त्याऽन्यत्रापि सम्भवात् । कथं च मान्त्रवर्णिकार्थप्रपञ्चनार्थमुत्तरो ग्रन्थः । इत्यतः सूत्रार्थं विवरितुमुपोद्घातमाह ब्रह्मविदिति ।
ब्रह्मविदाप्नोति परमि त्यनुवाकस्य प्रथमवाक्ये सूचितं तावत्परब्रह्मैव, परशब्दश्रवणात्, तज्ज्ञानस्य मोक्षहेतुत्वोक्तेश्च । तदेव च, मन्त्रवर्णेन, सत्यं ज्ञानमनन्तवदन्तवन्न भवतीति लक्षितम् असाधारणधर्मोपेततया प्रतिपादितम्; अतो मान्त्रवर्णिकं परं ब्रह्मैव ।
ब्रह्मविदाप्नोति परमि त्युक्ते हि शङ्कात्रयमुदेति ।। किं लक्षणकं तद्ब्रह्म । न हि लक्षणेन विना वस्तु समस्तव्यावृत्ततया शक्यते ज्ञातुम् ।। कथं च तद्वेदनम् । किं प्रतीयमानाकारस्यारोपितत्वमुपेत्य तदेवास्मीत्युतान्यथा । ब्रह्मेति पूर्णं प्रतीतम्, न (हि) च तादृशस्य साक्षात्कारोऽस्माकं सम्भवतीति ।। का नाम तत्प्राप्तिर्या ज्ञानसाध्या । सर्वगतत्वेन नित्यप्राप्तत्वादिति ।
तत्परिहाराय मन्त्रवर्णमुदाहरति श्रुतिः तदेषाभ्युक्तेति ।तदभि (ए)तदाशङ्कात्रयं प्रति, तत्समाधानतयेति यावत् । एषा ऋग् उक्ता उच्यत इत्यर्थः ।
तत्र सत्यं ज्ञानमनन्तं ब्रह्मे ति लक्षणशङ्काया उत्तरम् । एतच्च प्रत्येकं लक्षणम्, वक्ष्यमाणप्रकारेण सत्यत्वादीनामव्यभिचारित्वात् । अत एव समुदितं लक्षणमभ्युपेत्य विशेषणकृत्यान्वेषणे परेषां क्लेशः परास्तः । यो वेदे ति द्वितीयशङ्कोत्तरम् । परिपूर्णपरिमाणमपि शक्तिवशाद्भक्तानुकम्पयाऽल्पपरिमाणं प्रकटयत्सर्वजीवतदुपकारिकार्यकारणप्रेरकत्वेन हृदयगुहावस्थितं ज्ञेयमिति । सोऽश्नुत इति तृतीयशङ्कोत्तरम् । न संयोगमात्रं तत्प्राप्तिः, नाप्यैक्यापत्त्यादिः, किन्तु तद्व्यक्तिस्थाने ततोऽत्यन्तभिन्नतया सत्यकामत्वादितत्सारूप्याभिव्यक्तिरेवेति ।
सु०- अस्त्वेवं प्रथमवाक्यसूचितार्थस्य परब्रह्मत्वात्तदुत्थशङ्कापरिहारार्थस्य मन्त्रवर्णस्यापि तत्परत्वम्, तथाऽपि किं प्रकृत इत्यतः सूत्रार्थं विवृणोति तत्रेति ।
तत्र लक्षणेषु, सत्यत्वं, सृष्ट्या तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति सृष्टिप्रकरणेन, स वा एष पुरुषोऽन्नरसमय इति तस्माद्वा एतस्मादन्नरसमयादि ति च अन्नप्राणयोः अन्नमयप्राणमययोः प्रकरणाभ्याम् उ(मप्यु)क्तम् । ज्ञानं तु ब्रह्मलक्षणं, मनसा तस्माद्वा एतस्मात्प्राणमयादि त्यादिना मनोमयप्रकरणेन । विज्ञानेनापि तस्माद्वा एतस्मान्मनोमयादि त्यादिना विज्ञानमयप्रकरणेनापि उदीरितम् तथा शब्दः समुच्चये । अनन्तत्वम् अपि ब्रह्मलक्षणम्, आनन्दमयवाचा तस्माद्वा एतस्माद्विज्ञानमयादि त्यादिना आनन्दमयप्रकरणेन । अपि पदेनोत्तरवाक्यैरपि उदाहृतम् ।
अत उत्तरेषां षण्णामपि प्रकरणानां मान्त्रवर्णिकपरब्रह्मलक्षणविवृतित्वात् परं ब्रह्मैवान्नमयादय इति सूत्रार्थः ।
सु०- सत्यत्वं सृष्टिप्रकरणेनोक्तमित्युक्तम्, तत्कथमित्यत आह सद्भावमिति ।
सच्छब्दः सद्भाववाची, सद्भावे साधुभावे च सदित्येतत्प्रयुज्यत इति वचनात् । सद्भावो जन्म, यथोक्तम् सद्भावशब्देन प्रजननं सूचितमि ति । तथा च सच्छब्दे जन्मवाचिनि कर्मण्युपपदे यातेरन्तर्णीतण्यर्थात् आतोऽनुपसर्गे क इति कप्रत्यये कृते अयस्मयादीनि छन्दसी त्युपपदस्य भसंज्ञायां सत्यमिति भवति । ततः, सत् सद्भावं जन्म, यापयेत् प्रापयेत्, स्वव्यतिरिक्तं सर्वं, यस्मात् तस्मात् तत् ब्रह्म सत्यं कथ्यत इति सकलजगज्जन्मकारणत्वं सत्यशब्दार्थं हृदि कृत्वा, आत्मन आकाश इत्यादिश्रुत्या इह अनुवाके सृष्टिः प्रोक्ता इत्यर्थः ।
अस्तु जगत्स्रष्टृत्वं सत्यशब्दार्थः । तथाऽपि आत्मन आकाश इत्यादिसृष्टिप्रकरणं तद्व्याख्यानमिति न युक्तम्, अवयवार्थकथनादेरभावादित्यत आह जगदिति ।
सत्यशब्देन यत् जगत्सद्भावयापकं ब्रह्म इत्युक्तं तस्यार्थस्य स्थापनायैव सृष्टिः प्रोक्ता नावयवार्थकथनाद्यर्था । एतदुक्तं भवति । नावयवार्थकथनादिकमेव व्याख्यानम्, किं तूक्तस्थापनमपि । प्रकृते च सत्यं ब्रह्मे ति लक्षणेऽभिहिते, असम्भवीदं, पञ्चानां महाभूतानामेव जगज्जन्मादिकारणत्वादि त्याशङ्क्य, महाभूतानामपि ब्रह्मैव कारणं तदन्तर्गतं तत्सत्तादिप्रदं चातो ब्रह्मैव जगज्जनकमि ति तत्स्थापनम् आत्मन आकाश इत्यादिना क्रियत, इति भवतीदं तद्व्याख्यानमिति ।
सु०- अन्नमयप्रकरणं सत्यशब्दार्थ इत्युक्तं, तत्कथमित्यत आह सत्त्वमिति ।
न केवलं जन्मैव सच्छब्दार्थः, किन्तु जीवनं च प्राणधारणलक्षणं सत्त्वमेव सच्छब्दप्रवृत्तिनिमित्तमेव, अस्ति देवदत्त इत्युक्ते जीवतीति प्रत्ययात् ।। विशीर्णता च शैथिल्यलक्षणा सत्त्वं सच्छब्दप्रवृत्तिनिमित्तं स्यात् । कुतः । यत् यस्माद्विशीर्णं वस्तु सन्नमित्याहुः । एव शब्दः षद्ऌविशरणगत्यवसादनेष्वि ति पाठान्मुख्य एवायं प्रयोग
इति सूचयति ।। तथा चास्तेः शत्रन्तस्य सदेः क्विबन्तस्य वा सदिति रूपम् । भावप्रधानं चैतत् । सत् सत्त्वं जीवनं विशरणं वा भूतानां यापयतीति सत्यमित्युक्तं भवति ।
किमतो यद्येवमित्यत आह अत इति ।
यत एवं सकलभूतानां जीवनविनाशहेतुत्वं सत्यशब्दोक्तम्, अतः सत्यशब्दार्थ एवान्नत्वम् अन्नशब्दप्रवृत्तिनिमित्तम् । तत् कथम् । हि यस्मात्, उपजीव्यत्वलक्षणा अद्यता विनाशकत्वलक्षणा अत्तृता च तदिति ।
सु०- प्राणमयप्रकरणं च सत्यशब्दार्थ इत्युक्तम्, तत्कथमित्यत आह प्राणमिति ।
देवा आदयः प्राणं परमात्मानम् अनु तत्प्रेरणया प्राणन्ति चेष्टन्ते । स प्राणः परमात्मा सर्वेषाम् आयुः जीवनहेतुश्चातोऽसौ प्राण उच्यत, इति मन्त्रेण प्राणन्ति प्रवर्तन्ते जीवन्ति वा सर्वभूतान्यनेनेति प्राणशब्दार्थतया गतिजीवने भूतानां गतिजीवनप्रदत्वमिति यावत्, उक्ते, यत् यस्मात् । यतश्च सदिति धात्वर्थो गतिर्जीवनं चास्ति धात्वर्थः । ताभ्यां च शतरि क्विपि च कृते सदिति भवति । तच्च भावप्रधानं विवक्षित्वा सत् सत्त्वं गतिं जीवनं वा भूतानां यापयतीति सत्यशब्दोऽपि गतिजीवनप्रदत्वमाह । अतः सत्यता प्राणत्वं सत्यप्राणशब्दयोरेकार्थत्वमिति व्याख्येयम् ।
अनेनान्नमयप्राणमयप्रकरणे सत्यशब्दार्थप्रपञ्चनेन तद्व्याख्याने इत्युक्तं भवति ।
सु०- ज्ञानशब्दार्थो मनोमयप्रकरणमित्युक्तम्, तत्कथमित्यत आह अवबोधार्थ इति ।
प्रकर्तितो मनु अबबोधन इति व्याख्यातः । ततश्च तस्माद्भावेऽसुन्प्रत्यये विहिते मन इति ज्ञानमिति चैकार्थता भवति ।
विज्ञानमयप्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टमेवेति न प्रपञ्चितम् ।
अत्र ज्ञानं ब्रह्मेति लक्षणेऽभिहिते सकलचेतनसाधारण्यादलक्षणमेतदित्याशङ्कायां नावबोधमात्रं ज्ञानमिह विवक्षितं किन्तु सकलपदार्थसामान्यविशेषाकारविषयमित्यतो नातिव्याप्तिरित्याभ्यां प्रकरणाभ्यां लक्षणस्यातिव्याप्तिपरिहाराय प्रपञ्चनं कृतमिति ।
सु०- आनन्दमयप्रकरणेनानन्तत्वं व्याख्यातमित्यभिहितम्, तत्कथमित्यत आह नाल्प इति ।
नानन्दमयप्रकरणमनन्तपदनिर्वचनरूप(पर)त्वादिना रूपेण तद्व्याख्यानम्, किं नाम अनन्तत्वलक्षणस्य असं(भवा)भावनाशङ्कायाम् आनन्दमयतोक्तया अनन्तत्वं सुनिर्णीतम् उपपादितम्, परमेश्वरोऽनन्तः पूर्णानन्दत्वादिति ।
ननु साध्यसाधनयोः क्वाप्यदर्शनेन व्याप्त्यभावात् कथमेतत् । मैवम् । नाल्पे सुखमस्ति इति श्रुत्युक्तया हि यस्मात् अल्पके अन्तवति पूर्णानन्दो न अस्तीति निश्चीयते । व्यतिरेकव्याप्तिरस्तीत्यर्थः । नन्वनन्तत्ववत्पूर्णानन्दोऽप्यसिद्ध एव । सत्यम् । अत एव को ह्येवान्यादि त्यादिनोपपादयति श्रुतिः । उक्तं चैतत् आनन्दमयवाचाऽपी ति ।
सु०- सूत्रार्थमुपसंहरति अत इति ।
अत इत्युक्तप्रकारेण । हि शब्दः प्रसिद्धौ । तुशब्दोऽवधारणे । परया मन्त्रवर्णादुत्तरया श्रुत्या । तस्मात् विष्णुरेवान्नमयादिशब्दवाच्य इति पूर्वेण सम्बन्धः ।
सु०- एवम् आनन्दमयोऽभ्यासादि त्यादिसूत्रैः स्वपक्षसाधनं विधाय परपक्षप्रतिक्षेपार्थं सूत्रम् नेतरोऽनुपपत्तेरिति ।
तत्र प्रतिज्ञांशं व्याख्याति इतर इति ।
इतरो जीवो वा शरीरादिकोशो वा प्रकृतिर्वा अत्र अन्नमयादिप्रकरणे न कथ्यते । कुतः । अनुपपत्तेः सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते , सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासत इत्यादिनाऽन्नमयादिज्ञानान्मोक्षः प्रतीयते, अन्नमयादिशब्दानां च जीवादिवाचित्वे तदनुपपत्तेरित्यर्थः ।
कुतोऽनुपपत्तिरित्यत आह पुरुषमिति ।
अनेन तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते इति श्रुतिं सूचयति ।
नन्वत्र तमित्युच्यते न विष्णुमिति । मैवम् । सहस्रशीर्षा पुरुष इत्यादौ प्रकृतपुरुषस्य तमिति परामर्शादित्यभिप्रेत्योक्तम् पुरुषमिति । यत्शब्दश्रवणात् स इति द्रष्टव्यम् । मुच्येत् मुच्येत, व्यत्ययो बहुलमि ति वचनात् । अन्यः परमपुरुषज्ञानात् पन्था मोक्षस्य । हि शब्दः श्रुतेः प्रसिद्धत्वद्योतकः ।
नन्वस्तु पुरुषज्ञानादेव मोक्षः, पुरुषोऽप्यन्यश्चेत्कथं नान्यज्ञानान्मोक्ष इत्यत आह पुरुष इति ।
स्वयं मुख्यया वृत्त्या । एतानि नामानि ।
कुत एतेषां भगवन्नामत्वम् इत्यत ॐशब्दस्य विष्णुवाचित्वे तावद्युक्तिमाह तस्मादिति ।
तस्मात् ओङ्कारस्य विष्णुनामत्वादेव हि, ये विष्णुमुद्दिश्य यज्ञदानादि कुर्वते ते ओमित्युदाहृत्य एव । अन्यथा तन्न स्यात् । न ह्यन्योद्देशेन कर्म कुर्वाणैरन्यविषयो मन्त्रो जप्यत इति ।
पुरुषशब्दस्य विष्णुवाचित्वे युक्तिमाह सूक्तेनेति ।
य एनं नारायणं यजन्ति ते पौरुषेण सूक्तेन यजन्ति । तेन ज्ञायते पुरुषशब्दो विष्णुवाचीति । इति पैङ्गिश्रुतिः पुरुषशब्दस्य भगवदेकवाचितामाह यतः तेन तमेवं विद्वानि त्यस्य विष्णुपरत्वादिति ।
५२सु०- नन्वितरपरिग्रह इवेश्वरपरिग्रहेऽप्यनुपपत्तिः समाना । तथा हि । ओषधीभ्योऽन्नमन्नात्पुरुष इत्योषधिकार्यान्नविकारं शरीरं पुरुषपदेनोक्तवा स वा एष पुरुष इति तं परामृश्य अन्नरसमय इत्युच्यते । तस्येश्वरत्वेऽनुपपत्तिरेव । तत्प्रवाहपतिताश्च प्राणमयादयः इत्याशङ्कां परिहर्तुं पीठिकामारचयति ब्रह्मशब्दोदित इति ।
ब्रह्मविदाप्नोति परं , सत्यं ज्ञानमनन्तं ब्रह्मे ति ब्रह्मशब्दोदिते तस्मिन् विष्णौ तस्माद्वा एतस्मादात्मन इति आत्मशब्दं च प्रयुज्य इति योज्यम् । तस्मात् इत्यनुसन्धानात्, आकाशसृष्टिं च प्रोवाच आकाशः सम्भूत इत्यनेन । अत्र अनुवाके ।
आत्मशब्दं प्रयुज्य सृष्टिं च प्रोवाचे त्यनेनात्मत्वमपि विधेयमिति सूचयति ।
चतुर्विधाकाशसम्बन्धित्वात् सृष्टेश्चतुर्विधत्वम्, न स्वतः, त्रैविध्यस्य वक्ष्यमाणत्वात् । तथा च चतुर्विधस्याकाशस्य(धाकाश)सृष्टिं च प्रोवाचेत्यर्थः ।
आकाश(स्य)चातुर्विध्यं कथमित्यत आह भूतमिति ।
भूतम् आकाशशब्दोक्तमित्यादिसम्बन्धः । अन्तर्नियामक एषां त्रयाणाम् । तत्रापि न समानकक्ष्यतया चतुर्णामाकाशशब्दार्थत्वमित्याह मुख्यत इति । चशब्दस्तुशब्दा(र्थः)र्थे । तत्कथमित्यत आह आसमन्तादिति । आ इत्यनुवादेन समन्तात्काशनं ह्याकाशशब्दार्थः । ततश्च यत् यस्मात् हरिरेव मुख्यतः समन्तात्काशते तस्मात्स एव मुख्यत आकाश इति योज्यम् ।
सु०- एवं मुख्यामुख्यभेदेन चतुर्विधादाकाशात् आकाशाद्वायुरि त्युक्तविधया चतुर्विधस्य वायोः सृष्टिं प्रोवाच । तत्रापि वायुशब्देन मुख्यतो हरिरेवोच्यत इति योज्यम् (वक्तव्यम्) । तत्कथमित्यत आह बलेति ।
व शब्दो बलवाची । आयु रिति ज्ञानमुच्यते, अयतेर्गत्यर्थत्वात्, गत्यर्थानां ज्ञानार्थत्वात् । तथा वायोरग्निरि ति चतुर्विधाद्वायोश्चतुर्विधस्याग्नेः सृष्टिं प्रोवाच । तत्रापि (हरिरेव मुख्यतो) मुख्यतो हरिरेवाग्निशब्देनोच्यत इति स्थिते; तत्कथमित्यत आह अग्निरिति ।
न गच्छति स्वतो न प्रवर्तत इति अगं विश्वम् । अगशब्दे कर्मण्युपपदे नयतेःक्विप् । तत्सन्नियोगेनोपपदलोपो धातोश्च ह्रस्वता निर्वचनत्वात् । ततः अग्नेराप इति चतुर्विधादग्नेश्चतुर्विधानामेवापां सृष्टिं प्रोवाच । तत्राप्याप इति मुख्यतो हरिरेवोक्त इति वाच्यम्; कथं तदित्यत आह आप इति ।
आङ्पूर्वस्य पाते रूपमेतत् । उपसर्गह्रस्वता धातुलोपश्च निर्वचनत्वात् । चशब्दोऽनुक्तसमुच्चयार्थः । तेन स्त्रीरूपत्वात्स्त्रीलिङ्गं बहुरूपत्वाद्बहुवचनं चेत्युक्तं भवति । एव शब्दो हरिरेवेति सम्बद्ध्यते ।
एवम् अद्य्भः पृथिवी ति चतुर्विधाभ्योऽद्य्भश्चतुर्विधायाः पृथिव्याः सृष्टिं प्रोवाच । तत्रापि हरिरेव मुख्यतः पृथिवीशब्दवाच्य इति सिद्धे; तदुपपादयति पृथिवीति ।
प्रथितो यतः ततः पृथिवी इति योजना । पृथु विस्तारे ।
सु०- तथा च चतुर्विधायाः पृथिव्याः पृथिव्या ओषधय इति चतुर्विधौषधिसृष्टिं प्रोवाच ।। भूतानां समाप्तत्वात्तत्स्थाने भौतिकग्रहणम(मि)तःपरं कार्यम् ।। तत्राप्योषधिशब्देन मुख्यतो हरिरेवोच्यत इति स्थिते, कुत इत्यत आह उष्टानामिति ।
दग्धानाम् । उष्टा ओषाः । कर्मणि घञ् । ओषा धीयन्तेऽस्मिन्नित्योषधिरित्यर्थः । कर्मण्यधिकरणे चे ति किप्रत्ययः ।। कथमोषध्यन्तर्गतस्योष्टाश्रयत्वमित्यत आह ओषधीषु स्थित इति ।
क्षुधितैः जाठराग्निनोष्टैः ।
ओषधीभ्योऽन्नमि ति चतुर्विधोषधीभ्यश्चतुर्विधस्यान्नस्य सृष्टिं प्रोवाच । तत्राप्यन्नशब्दो विष्णावेव मुख्यः । अद्यतेऽत्ति चे ति व्याख्यानस्य तस्मिन्नेव सम्भवादिति प्रागेव सिद्धत्वान्नोक्तम् ।
ततः अन्नात्पुरुष इति चतुर्विधान्नाच्छरीरतदभिमानितदन्तर्यामिरूपस्य त्रिविधस्य पुरुषस्य सृष्टिं प्रोवाच । तत्रापि पुरुषशब्देन मुख्यतो हरिरेवोक्त इति स्थिते; तत्कथमित्यत आह पुरीति ।
अथ तस्मात् । पुरि शरीरे । अत्रोपपदस्य सप्तम्या अलुक् । तस्य चेकारस्योकारः । धातुशकारस्य षकारो निर्वचनत्वात् । अधिकरणे शेतेर्डः ।
एवमात्मादिशब्दान्व्याख्याय तेषां सृष्टिं विवृणोति क्रियेति ।
साक्षाज्जन्मैव किं न स्यादित्यत आह नान्येति । हिशब्दो नित्यो नित्यानामि त्यादिश्रुतिप्रसिदि्धसूचकः ।। अभिमाना ममेदमिति बुदि्धः । जनिरिति सम्बन्धः ।। भूतस्य इत्युपलक्षणम् ओषध्यादिभौतिकस्य (स्येति) (चेति) चेत्यपि ग्राह्यम् । साक्षादुद्भव एव जनि रित्यन्वयः ।
सु०- यद्येवमात्माकाशवाय्वग्न्यप्पृथिव्योषध्यन्नपुरुषपदैः मुख्यतो हरिरेवोक्तः, अन्यदमुख्यतः, ततः किं प्रकृते; इत्यत आह एवमिति ।
अत्र देह शब्दात्प्राक् आत्म शब्दोऽध्याहार्यः । स वा एष पुरुष इति श्रुतिः
प्रकृतमपि भूतादिकं सर्वं त्यक्त्वा आत्मादि देहपर्यन्तमागतं (तैः) तैः शब्दैः प्रकृतंहरिमेव परामृशति । तस्यैव सृष्टिकर्तुः शरीरेऽन्नमयादि पञ्चरूपत्व ज्ञापनायेति ।
इदमुक्तं भवति । नान्नमयादीनां परब्रह्मत्वपरिग्रहे स वा एष (पुरुष) इति परामर्शविरोधः । आत्मपदोदितस्य परामर्शोऽयमिति स्वीकारात् । न च नासौ परम्ब्रह्म, तस्मात्परप्राप्तिकामेन ज्ञातव्यतयोक्तादेतस्मात्पुनः सत्यज्ञानानन्तत्वेन लक्षितादात्मन इति प्रकृतानुसन्धानात् । न च सन्निहितपरामर्शपरित्यागेन दूरप्रकृतपरामर्शाङ्गीकारोऽनुचित इति वाच्यम्, आत्मादिपुरुषान्तसर्वशब्दैरपि तस्यैव प्रकृतत्वाङ्गीकारात् ।
न चेश्वरस्योत्पत्तिरनुपपन्ना, प्रादुर्भावापेक्षया व्याख्यानात् । न चैतदप्रामाणिकं व्याख्यानम्, कारणत्वेनेत्युपपादयिष्यमाणत्वात् । न चैवं भूतादिसृष्टेरप्रामाणिकता(त्वा)पत्तिः, आकाशादिशब्दानां भूतादिपरत्वस्यापि स्वीकारात्, अनेकार्थतायाश्चोपपादयिष्यमाणत्वात् । न चैवं तेषामपि प्रादुर्भावमात्रापत्तिः, सामान्यतः श्रुतस्य सम्भवशब्दस्य यथायोग्यं व्याख्यानोपपत्तेः ।
न चैवमप्यन्नरसमयस्य प्रकृतसर्वात्मकत्वापत्तिः, प्रकृतानामपि भूतादीनां परित्यागेन हरेरेव परामर्शाङ्गीकारात् । न चैतदन्याय्यम्, आकाशादिशब्दानां हरावेव मुख्यत्वेन तस्यैवोत्कटतया बुदि्धसन्निधानात् ।
न चेश्वरपरामर्शो व्यर्थः, तस्यैवान्नमयादिपञ्चरूपताज्ञापनाय प्रकरणान्तरारम्भार्थत्वात् । तस्य च लक्षणविवरणार्थत्वेनोपयोगस्योक्तत्वात् । तथा चान्नमयस्य ब्रह्मत्वेऽनुपपत्त्यभावान्न तत्प्रवाहपतितानां प्राणमयादीनामब्रह्मत्वं कल्पनीयमिति ।
५६सु०- ननु किमनेन बहु(ना)धा संवि(न्नि)धानेन । शरीरमात्रपरामर्शोऽयं किं न स्यात् । मैवम् । तथा सति एष पुरुष इत्येतावता पूर्णत्वेन स इत्यस्य वैय्यर्थ्यापत्तेः । भवत्पक्षेऽपि तत् समानमिति चेन्न इत्यभिप्रेत्याह स इति ।
एष इति जीवशरीरगः परामृश्यते । शरीरग इत्येवोक्ते परमेश्वरस्य शरीरित्वं प्रतीयेत । अतो जीवेत्युक्तम् ।
किञ्च शरीरपरामर्शे स वा एष पुरुषोऽन्नमय इत्येव वक्तव्यम्, रसशब्दस्तु व्यर्थः, प्रयोजनानुपलब्धेः, अन्नात्पुरुष इत्येव प्रकृतत्वाच्च । न चास्मत्पक्षेऽपि रसशब्दस्य वैय्यर्थ्यम्, अन्नमय इत्येवोक्ते प्राकृतान्नमयत्वं (इत्येव) प्रतीयेत, तन्निवृत्त्यर्थत्वेन सार्थक्यादित्याशवानाह सारेति ।
रसशब्दो हि सारवाची, रसस्सारो वरश्चेति शब्दाः पर्यायवाचका इति वचनात् । ततश्च अन्नरसः अन्नसारः, अन्नशब्दार्थेषु मुख्यार्थोऽत्तृत्वादि(लक्षण)स्तत्प्रचुर इत्युक्तं भवति । तस्य तात्पर्यार्थः सारान्नमय इति । (इति) इति ज्ञापयितुमि ति शेषः । विशिनष्टि श्रुतिः । अपि च । शरीरपरामर्शोऽयं चेत् तस्येदमेव शिरः अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठे ति सर्वं व्यर्थमेव स्यात्, शरीरशिरःप्रभृतेः प्रत्यक्षसिद्धत्वेनोपदेशानपेक्षणात् ।
सु०- नन्वीश्वरेऽप्यनुपपत्तिरेव, तस्य शिरःप्रभृत्यवयवाभावात् । न, प्रकाशवच्चेति वक्ष्यमाणत्वात् ।
तथाऽप्यनुपपत्तिः, ईश्वरे(र)शिरःप्रभृतीनामप्रत्यक्षत्वेनेदमिति निर्देशायोगादिति चेन्न, लक्षणयोपपत्तेरित्याशयवानाह इदमिति ।
इदमिति निर्देशोऽप्रत्यक्षेऽपि परमेश्वरशिरःप्रभृतौ लक्षणया भवेदेव । विभोः शिरआदेः , जीवशिरआदौ प्रत्यक्षे व्यवस्थिते रिति लक्षणाबीजं सम्बन्धं दर्शयति ।
ननु मुख्यप्रयोगं परित्यज्य ला(क्षि)क्षणिकं प्रयुञ्जानस्य प्रयोजनं वाच्यम्, दृष्टं हि गङ्गायां घोष इत्यादौ पावित्र्यादिज्ञापनमिति चेन्न; प्रकृते रूढलक्षणत्वादिति भावेनोक्तं वस्त्रप्रावृतवदिति । सप्तम्यर्थे वतिः । यथा अप्रत्यक्षेऽपि जानुनि वस्त्रप्रावृते प्रत्यक्षवस्त्रसन्निधानात् इदमिति निर्देशस्तथा प्रकृतेऽपीत्यर्थः ।
ननु मुख्ये बाधकाभावात्कुतो लक्षणाश्रयणमिति चेन्न, शरीरपरिग्रहे वैय्यर्थ्यस्य स्फुटत्वात् ।
सु०- किञ्च सर्वमेव त आयुर्यन्ती ति प्राण(अन्न)मयज्ञानान्मोक्षः श्रूयते । कदाऽपि मरणाभावो हि सर्वमायुः । न चासौ विना मोक्षाद्युज्यते । न च शरीरपरिग्रहे तद्युज्यते, तमेवंविद्वानिति(त्यादि) श्रुतिविरोधात् इत्याह तमिति ।
तं परमात्मानं, विदित्वा साक्षात्पश्यत इति शेषः, तेन समानकर्तृता । ब्रह्मशब्दादयोऽप्यत्र बाधकतया वक्तव्याः ।
ननु च विकारशब्दादि ति सूत्रकारेणान्नमयादीनां ब्रह्मत्वाङ्गीकृतावेकामनुपपत्तिं परिहरता लक्षणया सर्वानुपपत्तिपरिहारोऽपि सूचितः; अत एव भोग्यत्वमत्र चाद्यत्वमि त्यादिना भाष्यकृता तत्रैवानुपपत्तिपरिहारः कृतः । ब्रह्मशब्दोदित इत्यादिकमपि तत्रैव कर्तुमुचितम्, व्यवधाने कारणाभावात्, अन्यथोत्सूत्रितत्वप्रसङ्गादिति ।
मैवम् । तत्सूत्रसूचितस्याप्यर्थस्य व्यवधाने प्रयोजनसद्भावात् । अन्नमयादीनां पञ्चानामप्यब्रह्मत्वोपपादकोपपत्त्याऽऽभासास्तत्र निराकृताः, अन्नमयमात्रविषयानुपपत्तिपरिहारस्त्वत्रेत्यनेन ज्ञाप्यते ।
किञ्च नेतरोऽनुपपत्तेरि ति सूत्रं केचित् न तावदन्नमयः परमात्मा, परामर्शाद्यनुपपत्तेरि ति व्याकुर्वते । तदपि निराकर्तुमत्रेदमुदितमिति ।
५९सु०- अत्राह । जीव एवान्नमयादिशब्दार्थः । स ह्यन्नविकारशरीरावच्छिन्नत्वाद्भवत्यन्नमयः । प्राणमनोबुद्ध्यानन्दोपाध्यवच्छिन्नश्च भवति प्राणादिविकारो, घटाकाशमिव घटविकारः । तेन प्राणमयत्वाद्युपपत्तिः । तथा च स वा एष पुरुष इति परामर्शस्तदुपाधिविषयतया हि श्लिष्टतरो भवति ।।
रसशब्दश्चान्नस्थस्थविष्ठभागव्यावृत्त्यर्थो भविष्यति ।। इदमिति निर्देशश्च मुख्यार्थः सम्पद्यते । प्राणमयादिषु सर्वत्र शिरःप्रभृत्यवयवानां वक्तव्यत्वेन तत्प्राये(त्पाठे) सिद्धस्यापि कथनोपपत्तेः । शरीरित्वमवयवित्वं प्रियादियोगो ब्रह्मपुच्छत्वं चेत्येतत्सर्वं समञ्जसं भवति ।
न च वक्तव्यं शरीरादिकोशा एव कुतस्तर्हि नाङ्गीक्रियन्ते, तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्तामिति श्रुत्यन्तरानुगुण्यं च स्यादि ति, कोशेषु ब्रह्मशब्दाद्यनुपपत्तेः । अन्यत्वमन्तरत्वं शरीरत्वं चोपाध्यपेक्षया जीवेऽप्युपपद्यन्ते ।
सु०- ननु जीवपक्षेऽप्यनुपपत्तिरस्ति, ब्रह्मशब्दो हि निराबाधो(धारो) न परमात्मना विनोपपद्यते । अद्यतेऽत्ति चेति सर्वाद्यत्वं सर्वात्तृत्वं, प्राणं देवाः इति सर्वदेवादिचेष्टकत्वं, यतो वाच इति वाङ्मनसागोचरत्वं, विज्ञानं देवा इति सर्वदेवोपास्यत्वं ज्येष्ठत्वं, सोऽकामयत इति सङ्कल्पपूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वमित्यादीनि नाल्पतरज्ञानशक्तयादिसम्पन्ने जीवे सम्भवन्ति । तद्धेतुव्यपदेशश्चासङ्गतः स्यात् । मान्त्रवर्णिकव्याख्यानता च बाध्येत ।
न च जीवज्ञानान्मोक्षो युज्यत इति । मैवम्, उपनिषदर्थानवबोधात् । अत्र हि जीवब्रह्मणोरेकत्वं विवक्षितम् । तत्र यानि वाक्यानि शुद्धविरोधीनि तान्युपहितसंसारिस्वरूपापेक्षाणि । ब्रह्मशब्दादीनि तु तत्स्वभावसिद्धपरमात्मस्वरूपापेक्षाणि । ऐक्यविवक्षा चात्र वाक्यशाबल्यान्यथाऽनुपपत्त्यैव गम्यते ।।
न चैवं विनिगमनायां कारणाभावात् परमात्मैवान्नमयादि(शब्द)वाच्योऽस्त्वि ति युक्तम्, विशुद्धविरोधिनां वाक्यानां परमात्मनि सर्वथाऽनुपपत्तेः । सत्यप्यभेदे महाकाशधर्म एवावच्छिन्नाकाशे व्यवह्रियते, यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इति, न तु परिच्छिन्नधर्मो वितस्तिमात्रत्वं महाकाशे । न च ब्रह्म पुच्छं प्रतिष्ठे त्यनुपपन्नम्, अस्य जीवस्य ब्रह्म पुच्छम् आयतनम् अधिष्ठानं निजं स्वरूपमित्यर्थोपपत्तेः । तस्मात् नेतरः इत्यनुपपन्नमित्याशङ्कां परिहर्तुं भेदव्यपदेशाच्चेति सूत्रम् ।
६१सु०- तत्र चशब्दः प्रतिज्ञासमुच्चयार्थ इति भावेन सूत्रं व्याचष्टे आदित्य इति ।
स्यादेतदेवं कथञ्चित् यद्यस्यामुपनिषदि जीवपरमात्मनोरभेदो विवक्षितः स्यात् । न चैवम्, स यश्चायं पुरुषे यश्चासावादित्ये स एकः इति पुरुषादित्यशब्दोपलक्षितापकृष्टोत्कृष्टसकलजीवानां नियम्यतयाऽधिकरणत्वेन परमात्मनश्च नियामकतयाऽधिष्ठातृत्वेन भेदस्यैवात्रोपदेशात् । तथा रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति इति लब्धृलब्धव्यतया, यदा ह्येवैषः इत्युपासकोपास्यतया, उपसंक्रामति इति प्राप्तृप्राप्यतया भीषाऽस्मात् इति नियम्यनियामकतया च भेदोपदेशा द्रष्टव्याः ।
यदुक्तं वाक्यशाबल्या(न्यथाऽ)नुपपत्तिरत्र प्रमाणमिति, तदयुक्तम्, केवलं ब्रह्मपरतयैव वाक्यानां समञ्जसीकृतत्वात् । ततो न जीवोऽन्नमयादिशब्दवाच्य इति ।
सु०- ननु कथमुच्यते नास्य परमात्मनोऽभेदोऽस्ति जीवेने ति, अनुमानतस्तदभेदस्य प्रमितत्वात् । तथा चोक्तविधयाऽन्नमयत्वादिकं जीवस्य किं न स्यात् ।
न चोक्तभेदोपदेशविरोधः, अनुमानविरोधेन तस्यैवान्यपरत्वोपपत्तेरित्याशङ्कापरिहाराय सूत्रं कामाच्च नानुमानापेक्षेति ।
सम्प्रतिपन्नस्वशरीरेषु सिद्धसाधनतापरिहाराय विमतानि इत्युक्तम् । यत् यस्मात् । शरीराणि शरीरत्वादित्यर्थः । मच्छरीर•दि)वदिति दृष्टान्तः ।।
आदि ग्रहणाद्विप्रतिपन्नानीन्द्रियाणि ममैव करणानि इन्द्रियत्वात्सम्प्रतिपन्नवदित्यादीनामुपादानम् ।
नन्वेतान्यनुमानानि प्रतिक्षेत्रं क्षेत्रज्ञानामभेदं साधयन्ति, न तु जीवानां परमात्माभेदम् । तेन विमता आत्मानः परमात्मनः (तत्त्वतो) न भिद्यन्ते आत्मत्वात्परमात्मवदित्याद्यनुमानमत्र शङ्कनीयम्, न त्विदमिति । मैवम् । न हि जीवानामुपहितस्वरूपाणामेव साक्षादभेदः सम्भवति, प्रत्यक्षादिविरोधात् । ततश्च निरुपाधिकेन रूपेणाभेदेऽनुमानं पर्यवस्यति । तथा च कथं न प्रकृतसङ्गतिरिति ।
तत्त्वज्ञाने तत्त्वज्ञानार्थम् । नापेक्ष्यते तत्त्वज्ञानकारणं न भवतीत्यर्थः । कुतः, प्रत्यक्षादिविरुद्धत्वात् । हि शब्दो दृष्टान्तसूचकः ।
तदयं प्रयोगः । विमतानि शरीराणीत्यादिका अनुमा अनुमानत्वेन पराभिमता, यथार्थज्ञानकारणं न भवति, प्रमाणविरुद्धत्वात्, दहनानुष्णतासाधनानुमानवदिति ।
प्रत्यक्षादिविरुद्धाऽपि सदनुमा किं न स्यादित्यत उक्तं कामचारिणीति ।
तद्विवृणोति अक्षेति ।
अक्षं प्रत्यक्षम् । अनुमानमप्यत्रोपसङ्ख्येयम् । अक्षागमभयोज्खितेति तद्विरोधभयोज्खितेत्यर्थः । कामवृत्ता पुरुषेच्छानुसारिप्रवृत्तिमती ।
नन्वनेन किं विपक्षे बाधकमुक्तमित्यत आह कुत्रेति ।
किमाक्षेपे । सर्वत्राप्यवसरं व्रजेदित्यर्थः ।
सु०- तत्कथमित्यत आह जड इति ।
आत्मा जडो ज्ञानानाश्रयो वस्तुत्वाद्घटवत् । आकाशो घनो निबिडावयवः । प्रमेयत्वात्पाषाणवत्; इति साक्षिप्रत्यक्षविरुद्धम् । जडं घटादिकम्, चितिः चेतनम्, प्रमेयत्वादात्मवत्; इति अनुमानविरुद्धम्, चैतन्यकार्यस्य सर्वथाऽप्यनुपलम्भात् । आद्य पदेन ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदि त्यागमविरुद्धस्य ग्रहणम् । केन इत्याक्षेपे । यदि प्रत्यक्षादिविरोधिनोऽप्यनुमानत्वं स्यादि ति शेषः, प्रत्यक्षादिविरुद्धमपि यद्यैक्यानुमानं प्रमाणं स्यात्तदोदाहृतमपि किं न स्यादविशेषादि त्युक्तं भवति ।
नन्वत्र कथं प्रयोक्तव्यम् । यथान्यासमवेत्येवकारेणाह । तर्हि प्रतिज्ञापदव्याघातः स्यादिति चेत्, अस्तु, न हि प्रत्यक्षादिविरोधादयं गरीयान्, समश्च परानुमाने, तत्परिहारोऽप्यत्र तुल्यः ।
नन्वाकाशो घन इति साधने कालादौ व्यभिचारः, न, पक्षतुल्यत्वात् । यदत्र वक्तव्यं तदुपरिष्टाद्वक्ष्यत इति ।
६४सु०- ननु अथातो ब्रह्मजिज्ञासा इत्यत्रैव जीवेशभेदः समर्थितः । तथा जन्मादिसूत्रेणापि, अतो जीवैक्यमि त्युक्तत्वात् । अत्रापि पुनस्तत्साधने पुनरुक्तता स्यादित्यत आह न जीवेति ।
अत्र शास्त्रे । तत्र तत्र प्रकरणे, ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदात् न पुनरुक्तता शङ्क्या । तथा हि । जिज्ञासावाक्येष्वभेदशङ्कायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम्, जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादि स्वयमूह्यम् । एवमेव भेदव्यपदेशाच्चान्यः इत्यादावपि पुनरुक्ततादोषः परिहरणीयः ।
नन्वेवं सत्यभेदः स्वरूपेण कुत्रापि न निराकृतः स्यादित्यत आह पृथगिति ।
पूर्णता प्रधानता । भेदसाधनस्य स्वातन्त्र्येण विचारितत्वात् । यद्यपि प्रकरणविशेषविषयतयाऽभेदे निराकृतेऽपि स्वरूपनिराकरणमर्थात्सिद्ध्यति, तथाऽपि वस्तुस्थितिकथनमेतदित्यदोषः ।
अथवा पुनरुक्तिपरिहारस्यैवंजातत्वात् अत एव चोपमे त्यादिसूत्राण्यापातप्रतीतभाष्यदिशा भेदपराणीव प्रतिभान्ति, तन्निरासार्थमिदमुक्तम्; पृथगुपदेशात् इत्यत्र एव भेदसमर्थनस्य पूर्णता पर्यवसानमिति ।
यद्यप्येतत् करिष्यमाणव्याख्यानादेव ज्ञास्यते, तथाऽपि स्पष्टार्थमुक्तमित्यदोषः ।
सु०- शरीरादिकोशा एवान्नमयादिशब्दवाच्या इति पक्षोऽपि नेतरोऽनुपपत्तेरि ति साधारणदोषेण दूषित एव । विशेषदोषेण दूषयितुं सूत्रम् अस्मिन्नस्य च तद्योगं शास्तीति ।
ब्र०सू०- ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ
तद्व्याचष्टे योगमिति ।
यत् यस्मात्, अस्य स य एवंविदि त्युक्तस्य ब्रह्मविदः, फलत्वेन, अन्नमयादिभिः, योगं तत्प्राप्तिं, स्थानद्वयेऽपि अनुवाकद्वयेऽपि, शंसति कथयति, श्रुतिः एतमन्नमयमात्मानमुपसङ्क्रामती त्यादि, एतमन्नमयमात्मानमुपसङ्क्रम्ये त्यादि च । अत एते अन्नमयादयः कोशा इति एतद्व्याख्यानम् अतिसाहसं पूर्वोत्तरापरामर्शमूलम् । न हि शरीरादिकोशप्राप्तिर्ब्रह्मविद्याफलमिति सम्भवति, तरति शोकमात्मविदि त्यादिविरोधात्, शरीरादेश्च शोकरूपत्वात् ।
स्यादेतत् यद्यत्रान्नमयादिप्राप्तिरुच्येत, न चैतदस्ति, उपसङ्क्रमशब्दस्यातिक्रमार्थत्वादित्यत आह उपसङ्क्रमणं चेति ।
द्वितीयोद्देशितं प्रति द्वितीयया कर्मत्वेनोक्तमन्नमयादिकं प्रति, यदुपसङ्क्रमणम् उच्यते तत् अतिक्रमं वदन्तम्, उपसङ्क्रमणपदवाचिपदमतिक्रमार्थं व्याकुर्वन्तमिति यावत् । उपशब्दो निवारयेत् तस्योपशब्दविरोधः स्यात्, उपपूर्वस्य क्रमेः प्राप्त्यर्थत्वात् ।
दोषान्तरमाह अश्रुतस्येति ।
पुनः इति दोषान्तरसमुच्चयार्थः ।
वाक्यद्वयतात्पर्यमाह श्रुतेति ।
एवं व्याकुर्वाणेन हि श्रुतमुपशब्दं त्यक्तवा तत्स्थानेऽश्रुतोऽतिशब्दोऽध्याहार्यः । तथा च श्रुतपरित्यागोऽश्रुतकल्पनं च स्यात् । तदुभयं च लज्जाहेतुरिति ।
६६सु०- न वयं श्रुतपरित्यागेनाश्रुताध्याहारं कुर्मो येनायं दोषः स्यात्, किं नामाव्ययानामनेकार्थत्वादुपशब्दोऽतिशब्दार्थो व्याख्यायत इति चेन्न, नियामकेन विना प्रसिद्धार्थत्यागाप्रसिद्धार्थस्वीकारानुपपत्तेः । न ह्यव्ययान्यनेकार्थानीत्येतावताऽन्तःशब्दस्य बहिरित्यर्थो गृह्यते, किन्तु प्रयोगादिकमनुसृत्यैवेति स्थितेऽभ्युपगम्यापि दोषमाह मृतावेवेति ।
हि यस्मात् अन्नमयस्य कोशस्य चशब्दात् प्राणमयस्य च परित्यागो मृतावेव कृतो भवति, मृतेः शरीरत्यागरूपत्वात्, तस्मात् अस्माल-लोकात्प्रेत्ये ति मरणोक्तयैवान्नमयाद्यतिक्रमस्योक्तत्वात् पुनः एतमन्नमयमात्मानमुपसङ्क्रामती ति तदतिक्रमोक्तौ पुनरुक्तिः प्रसज्येतेति ।
६७सु०- किञ्च ब्रह्मविदाप्नोति परमि त्युपक्रमानुगुण्यं च प्राप्तिपरत्वे स्यात् । अतो नान्नमयादयः कोशाः किन्तु विष्णुरेव । शुदि्धप्रार्थनलिङ्गाद्वाक्यान्तरोक्तानां कोशत्वेऽपि न कश्चिद्विरोधः । अपि च तेऽन्नमयादयः, एते तु अन्नरसमय इत्युपक्रमात् रसो वै स इति वाक्यशेषाच्चान्नरसमयादय इति शब्दान्तरन्यायेनाप्यन्ये भविष्यन्तीति सर्वमनवद्यम् ।।
सु०- एवमन्नमयादीनां पञ्चानामपि परब्रह्मत्वप्रतिपादनपरतया सूत्राणि व्याख्याय परेषामपव्याख्यां प्रत्याख्यातुमुत्तरोऽयं ग्रन्थसन्दर्भ आरभ्यते ।
तत्र मायावादिनोऽन्नमयादयः पञ्चापि कोशा इति मन्यमाना ब्रह्मपुच्छं प्रतिष्ठे त्युक्तस्य ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकान्येतानि सूत्राणीति व्याचक्षते । तथा हि । अन्नमयादयश्चत्वारस्तावदन्नादिविकाराः कोशा एव । तथा च विकारार्थे मयट् प्रवाहे सत्यानन्दमय एव)कस्मादर्धचरतीयन्यायेन कथमेव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयते । मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अन्नमयादीनामन्तरस्यान्यस्य श्रवणादब्रह्मत्वमानन्दमयस्य तु तदभावाद्ब्रह्मत्वमिति चेन्न, तत्रापि सत्यं ज्ञानमनन्तं ब्रह्मे ति प्रकृतस्य ब्रह्मणो ब्रह्म पुच्छं प्रतिष्ठे त्यानन्दमयाश्रयतयोक्तत्वात् । तद्विजिज्ञापयिषयैवान्नमयादयः पञ्चापि कोशाः कल्प्यन्ते ।
नन्वन्नमयादीनामिवानन्दमयस्य पुच्छत्वेनोक्तं ब्रह्म कथं स्वप्रधानं स्यात् । न, स्वप्रधानतया प्रकृतत्वात् । न चानन्दमयावयत्वेनापि ब्रह्मणि ज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्मत्वादिति वाच्यम्, तथा सति तदेवावयव्यवयवश्चेत्यसामञ्जस्यप्रसङ्गात् । अन्यतरपरिग्रहे च पुच्छस्यैव ब्रह्मत्वं युक्तम्, ब्रह्मशब्दश्रवणात्, न त्वानन्दमयस्य तत्र ब्रह्मशब्दाश्रवणात् । असन्नेवे ति श्लोकस्य ब्रह्मपुच्छमित्युक्तब्रह्मविषयत्वात् । न ह्यत्रानन्दमयोऽन्वाकृष्यते, किन्तु पुच्छतयोक्तं ब्रह्म स्वप्रधानतया । न चानन्द(मय)स्यानुभवसिद्धस्य भावाभावशङ्का युज्यते । कथं तर्हि पुच्छत्वोक्तिः । पुच्छवत्पुच्छमित्याश्रयार्थत्वात् ।
किञ्चानन्दमयस्य प्रियाद्यवयवयोगशारीरत्वाभ्यां सविशेषत्वाद्ब्रह्मणोऽपि सविशेषत्वप्रसङ्गः । निर्विशेषं च ब्रह्म, वाङ्मनसागोचरत्वश्रुतेः । मयटः प्राचुर्यार्थत्वेऽप्यानन्दप्रचुर इत्युक्ते दुःखाल्पत्वमपि गम्यते, प्राचुर्यस्य लोके प्रतियोग्यल्पतासापेक्षत्वात् । न च ब्रह्मणि दुःखं सम्भवति ।
किञ्च प्रियादीनां प्रतिशरीरं भेदेनानन्दमयस्यापि भेदे ब्रह्मणोऽपि प्रतिशरीरं भेदः प्रसज्येत । न च तद्युक्तम्, अनन्तत्वश्रुतेः । न चैवं भार्गवी वारुणी विद्या विरुद्ध्येत, तत्र मयटोऽश्रवणेन भिन्नविषयत्वात् । एतमानन्दमयमात्मानमि ति चान्नमयादीनामिवानन्दमयस्यातिक्रमणीयतयोक्तस्याब्रह्मत्वात् । अन्ते मयटः श्रवणेन पूर्वमपि तदध्याहारे पूर्वमपि नानन्दमयो ब्रह्मास्तु । ब्रह्मज्ञानार्थिनस्तु तदुपदेशो द्वारतयोपपन्नो भविष्यतीति ।
नन्वेवं तर्हि कथं सूत्राणि । आनन्दमयस्य ब्रह्मताप्रतिपादनपरतयोपलम्भात् । मैवम् । वेदसूत्रयोर्विरोधे गुणे त्वन्याय्यकल्पनेति न्यायेन सूत्राणां कथञ्चिद्योज्यत्वात् । तस्मादानन्दमयादयः पञ्चापि कोशा न ब्रह्म इति ।
६९सु०- तदेतत्सूत्रव्याख्यानेन निराकृतमपि शिष्यहिततया स्फुटं निराकरोति येऽन्नमिति ।
इत्यादि इति क्रियाविशेषणम् । पञ्चस्वरूपाणाम् इति विशेषणसमास एवायं न द्विगुः, तदि्धतार्थाद्यभावात् । तत्प्राप्तिवादिनी ज्ञानफलत्वेनेति शेषः । स्थानद्वयम् अनुवाकद्वयम् । तदपलापिनाम् अन्नमयादीनां ब्रह्मत्वापलापिनां मायावादिनाम् ।
इदमुक्तं भवति । अन्नमयादिपञ्चकं यदि न ब्रह्म तदाऽन्नमयादीन्प्रत्युदाहृतश्लोकेषु येऽन्नं ब्रह्मोपासत इति प्रथमानुवाके अन्नं ब्रह्मेति व्यजानादि त्युत्तरानुवाके च ब्रह्मतयोक्तिविरोधः स्यात् । न हि पुच्छस्यापि ब्रह्मत्वे प्रमाणमस्त्यन्यदतो ब्रह्मशब्दात् ।। नन्वेतद्ब्रह्मज्ञानद्वारतयोपदिष्टं न तु ब्रह्मतयोपदिष्टमिति चेन्न, सामानाधिकरण्येनोक्तत्वात् ।।
न च सामानाधिकरण्यमपि गौणम्, तथा सति विदुषस्तत्प्राप्तिरुक्ता विरुद्ध्येत । न च तत्रातिक्रमोऽर्थ इत्युक्तम् ।। न चानन्दमये ब्रह्मशब्दो नास्ति श्लोकस्य पुच्छविषयत्वादिति वाच्यम्, तथा सत्यन्नमयादिश्लोकानामपि तथात्वप्राप्तेः ।।
किञ्च बाधकवशादित्थमाश्रीयते, एवमेव वा । नाद्यः, बाधकानां परिहृतत्वात् । द्वितीये तु निर्निमित्तं वेदार्थभूतब्रह्मापलापिनो बौद्धस्येव वेदाभिमानिकोपेन नरकप्राप्तिः स्यादिति ।
सु०- स्थानद्वयगते त्युक्तम् । प्राक् च भृगोश्चैतद्वदिष्यती ति । तत्रोत्तरानुवाकोक्तस्य ब्रह्मत्वं प्रपञ्चयति अधीहीति ।
अधीहि अध्यापय, ण्यर्थस्यान्तर्णीतत्वात् । भगवो भगवन्, मतुवसो रुः सम्बुद्धौ छन्दसी ति वचनात् । उक्तो भृगुणा पृष्टो वरुणः भृगुर्वै वारुणिः । वरुणं, पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रंमनोवाचमित्ये वं ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वादन्नादिकं ब्रह्मैव भवितुमर्हतीत्यर्थः ।
ननु तत्र मयटोऽश्रवणादि्भन्नविषयत्वमिति चेन्न, उक्तोत्तरत्वात् । किञ्च तथा सत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषु मयटोऽश्रवणादि्भन्नविषयत्वं स्यात् । अस्त्विति चेन्न, तथा सति तदुदाहरणस्यासङ्गतिप्रसङ्गात् । यस्यान्नादेर्विकारास्ते तत्प्रशंसापरतया सङ्गतिस्त्विति चेन्न, मनोमयश्लोके तदयोगात् । तर्हि तत एवानुपपत्तेरन्नादिशब्दैरन्नमयादय एवोच्यन्त इति कल्प्यत इति चेत्, तर्ह्यत्रापि प्रकरणवशादन्नमयादय एवोच्यन्त इत्यङ्गीकार्यम् । उक्तेऽर्थे हि संवादित्वेनेयमाख्यायिकोक्ता, तस्मादन्नमयादय एवात्रोच्यन्ते, ते च ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वान्यथाऽनुपपत्त्या ब्रह्मैवेति ।
यद्यपि सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिते ति साक्षाद्ब्रह्मविद्यात्वमुच्यते, तथाऽपि मीमांसार्थं युक्तयुपन्यासः । अथवा, अस्यापि समानयोगक्षेमत्वादिति ।
सु०- स्यादेतत् । ब्रह्मप्रश्नोत्तरतयोक्तिमात्रेण न वरुणोक्तानामन्नादीनां ब्रह्मत्वं सिद्ध्यति, ब्रह्मज्ञानोपायतयाऽपि तदुपदेशोपपत्तेः । तथा हि । द्वितीयाचन्द्रप्रश्नेऽचन्द्ररूपापि शाखा चन्द्रतयोच्यते चन्द्रज्ञानोपायत्वात् । यथा वाऽरुन्धतीप्रश्ने तत्समीपवर्तिनी पृथुला तारकाऽरुन्धतीत्वेनोपदिश्यते, अरुन्धतीज्ञानद्वारत्वात् । द्वारत्वं चान्नादिशब्दोदितानां शरीरादीनां बहिर्वृत्तिनिवारणद्वारा ब्रह्मज्ञानं प्रत्युपपद्यत एवेति । मैवम् । किमनेन व्यभिचारश्चोद्यते, किंवाऽन्यथासिदि्धः सम्भाव्यते, उत सा निश्चीयते । पक्षत्रयमसम्बद्धमित्याह द्वारमिति ।
तत् अन्नादिकम् । उपसत्ति ब्रह्मज्ञानार्थोपसत्त्युत्तरकालीनं गुरूपदेशप्रकारमित्यर्थः । कथम् इत्याक्षेपे, न विद्युरित्यर्थः । गुरूपदेशप्रकाराज्ञानविजृम्भितेयं शङ्केति भावः । तत्कथं न विद्युरित्यत आह उपसन्नायेति ।
ब्रह्म । एव वक्तव्यम्, न पुनर्यत्किञ्चित् । अबोधेऽपि पुनः पुनः तदेव शब्दान्तरेण (शब्दान्तरेण तदेव) वक्तव्यम् । द्वारं च द्वारतयैव वक्तव्यम्, न तु तदात्मकत्वेन । न हि धूमोऽग्न्यात्मकत्वेन प्रदर्श्यते । चन्द्राद्युदाहरणमप्यसिद्धमेवेति । आगमा । वेदाः । सम्प्रदायविदः । स्मृतीतिहासपुराणकर्तारः । अपिचौ । इतरेतरसमुच्चयार्थौ ।
तर्हि उपदेशप्रकाराज्ञतया वरुणोऽन्यदुपदिशतीत्यस्तु । मैवम् । लोकपालस्यैतावज्ज्ञानाभावासम्भवादि त्याशयेन द्वारोपदेशशङ्कानिराकरणमुपसंहरति तदिति ।
तत् तस्मात् । यत्किञ्चिद् द्वारम् ।
सु०- नन्वब्रह्मैव ब्रह्म पृष्टवते वरुणेनोक्तं व्यामोहनायेति किं न स्यादित्यत आह न वदेदिति ।
किम् आक्षेपे, ब्रह्मैव वदेदित्यर्थः । तत्र हेतुः मायावी न ही ति, आप्तत्वादित्यर्थः । विवक्षितार्थतत्त्वज्ञानं हि वरुणस्य दिक्पतेः प्रसिद्धम् । अविप्रलम्भकत्वं च पितृत्वात् । भृगोर्ब्रह्मज्ञानयोग्यत्वात् । उपसन्नायेति प्रसङ्गदोषस्य निरस्तत्वात् । वारिराडिति भूताभिमानित्वेनोक्तस्यापटुकरणत्वासम्भवात् । विवक्षायाश्चोपदेशादेव सिद्धेः । अत एव श्रुतिः वारुणिः(र्वरुणं) पितरमुपससारे त्याह ।
तदनेनाप्तेन ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वमन्नादीनां ब्रह्मत्वे हेतुरित्युक्तं भवति ।
७३सु०- ननु वरुणेनोक्तेष्वन्नादिष्वन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि, अन्नादिशब्दानामत्तृत्वाद्यर्थतयाऽनुपपत्त्यभावात्; चक्षुःश्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात्, चक्षुरादिशब्दानां चष्टेऽनेनेति चक्षुः, शृणोत्यनेनेति श्रोत्रम्, वदत्यनयेति वागि ति करणार्थत्वात्, ब्रह्मणश्च करणत्वानुपपत्तेरि ति चेन्न, कर्तर्यपि तद्व्युत्पत्तिसम्भवादित्याह चष्ट इति ।
एव शब्देन करणसाधनतां निराकरोति ।
किञ्च यतो वा इमानि भूतानि जायन्ते इति सकलभूतानां सृष्टिस्थितिसंहारकारणत्वं च ब्रह्मलक्षणमन्नादिषूपदिष्टम् । ततश्चैतद्ब्रह्मेत्याह सृष्टीति ।
यतः सृष्ट्यादिकारणमुक्तमतोऽपि ब्रह्मेति सम्बन्धः ।
सु०- ननु तथाऽपि नानुवाकद्वयोक्तमेकं वस्तु भवितुमर्हति, सङ्ख्याभेदात्संज्ञाभेदाच्च । पूर्वं खल्वन्नमयादयः पञ्चोक्ता, न चक्षुःश्रोत्रवाचः; उत्तरत्र चान्नादयः षट्, न विज्ञानानन्दाविति; तत्राह तच्चेति ।
च शब्दो हेत्वर्थः । यस्मात् वाधूलशाखायां विज्ञानानन्दसहितं तदन्नादिषट्कमिति अष्टरूपं ब्रह्मतया उदाहृतम् । तस्मात्तदनुसारेण प्रथमानुवाके चक्षुरादित्रयस्योत्तरत्र विज्ञानानन्दयोरध्याहारेण सङ्ख्यासंज्ञैक्यं भविष्यतीति भावः । हेत्वन्तरसमुच्चये वा चशब्दः । अत्रापि हि विज्ञानं ब्रह्मेति व्यजानात् , आनन्दो ब्रह्मेति व्यजानादि युत्तरवाक्यपर्यालोचनयाऽपि ह्यत्र विज्ञानानन्दयोरध्याहारो गम्यते । न हि अन्यद्वरुणेनोपदिष्टं भृगुस्त्वन्यद्व्यजानादि ति युज्यते ।
ननु वाधूलशाखोक्तमपि कुतो ब्रह्मेत्यत आह पृथगिति । अनेकशाखाविदामेवात्र सम्यगधिकारज्ञापनायैतदुक्तम् ।
ननु वाधूलशाखायामिवात्रोभयत्राष्टकमेव कस्मान्नोक्तमित्यत आह आवापेति ।
क्वचिदन्यत्रानुक्तावापेन क्वचिदन्यत्रोक्तोद्वापेन क्वचिदुभयतया क्वचित्सामग्रयेण परमेश्वरस्वरूपं प्रतिपादयन्तीति शाखानां स्वभावो यतोऽतो न कश्चिद्विरोध इति ।
सु०- ननु तथाऽपि वरुणोपदिष्टानामन्नादीनां ब्रह्मत्वं नोपपद्यते, तद्विज्ञाय पुनरेव वरुणं पितरमुपससार इति लब्धोपदेशस्यापि भृगोः पुनरुपसरणवचनात् । पूर्वोक्तस्यैव ब्रह्मत्वे अधीहि भगवो ब्रह्मे ति पुनरुपसरणं व्यर्थं स्यात् ।
अनेन तु ज्ञायते न पूर्वोपदिष्टं ब्रह्मेति । यथा हि कश्चित्सुवर्णं याचितवते रजतं ददाति, सोऽपि गृहीत्वाऽऽलोच्य पुनः(पुनः) सुवर्णं देहीति याचते, तेन पार्श्वस्थो जानाति प्राग्दत्तमन्यदेव किञ्चिन्न सुवर्णमि ति । तथेहापी त्याशङ्कां परिहरति यत इति ।
अयमर्थः न पुनरुपसरणान्यथाऽनुपपत्त्या पूर्वोपदिष्टस्याब्रह्मत्वं कल्प्यम्, पुनरुपसरणस्यान्यथोपपत्तेः । तथा हि । वरुणो ह्युद्देशलक्षणाभ्यां भृगवे ब्रह्मोपदिश्योवाच न श्रवणमात्रेण कृती भवान्, श्रवणमात्रस्य ब्रह्मसाक्षात्कारासाधनत्वात्, साक्षात्कारस्यैव मोक्षसाधनत्वात् । अतस्त्वया मनननिदिध्यासनरूपं तपः करणीयमि ति । स चैवमुपदिष्टाष्टरूपो युगपत्सर्वस्य साक्षात्कर्तुमशक्यत्वान्मनननिदिध्यासनाभ्यामन्नाख्यं भगवद्रूपं साक्षात्कृत्य गुरुप्रसादलब्धमपूर्वतमं धनं तस्मै निवेदयितुं प्राणाख्यरूपान्तरसाक्षात्काराय मनननिदिध्यासने चिकर्षुर्गुरोरनुज्ञामादातुं च पुनर्गुरुमुपससार ।
एवं रूपान्तरेऽपि । तत्र अनुजानीहीति वक्तव्ये यदधीहि भगवो ब्रह्मेति वदति तदहङ्कारनिरासार्थमिति ।
नन्वेवमस्त्वर्थापत्तिरन्यथोपपत्त्यो(त्त्यु)पक्षीणा, तथाऽपि किं पूर्वस्याब्रह्मत्वात्पुनरुपसरणम् उतोक्तरीत्याऽनुज्ञानार्थमिति सन्दिह्यते । सन्देहे चान्नमयादीनां न ब्रह्मत्वावधारणं सम्भवतीति । मैवम्, यतो वा इमानि भूतानि जायन्त इत्यादिलक्षणयोगात्तपसैवापरोक्षितत्वलिङ्गाच्चोत्तरपक्षावधारणोपपत्तेः ।
न हि देहादाविदं लक्षणं सम्भवतीति । न च तस्य स्वभावसिद्धज्ञानस्य साक्षात्काराय तपोऽपेक्षितम् ।
किञ्च पूर्वस्याब्रह्मत्वेन पुनरुपसरणे स तपस्तप्त्वाऽन्नमब्रह्मेति व्यजानात्, नान्नाद्ध्येव खल्वित्यादि ब्रूयात्, एवं ब्रह्मत्वज्ञापकेषु श्रुतेष्वप्यश्रुतमब्रह्मत्वं कल्प्यतां श्रुतहानिरश्रुतग्रहापत्तिश्च स्यादित्यलम्; निर्दलपक्षप्रतिक्षेपेऽस्माकमेव लज्जा जायत इति ।
अक्षरार्थस्तु स्फुट एव ।।
सूत्राक्षराणामनानुगुण्यं तु भगवता न व्युत्पादितम्, तस्य परेण स्वयमेवाङ्गीकृतत्वात् । यो हि स्वयमेव स्वव्याख्यानस्यास्वारसिकत्वं मन्यते, तं प्रति तद्व्युत्पादनं मृतमारणमिव निराकर्तुरेव लज्जाकरम् । अत एवाह । इति प्रकारेण तदुक्तिषु विषयभूतासु दूषणाभिधानेऽस्माकमेव लज्जा इति ।
सु०- यच्च भेदव्यपदेशाच्चे ति सूत्रं व्याख्यायोक्तं परेण मिथ्याभूतं जीवात्मपरमात्मभेदमाश्रित्य भेदव्यपदेशाच्चेत्युक्तमि ति तदनुपपन्नमिति भावेनाह समीप इति । इति
एतमानन्दमयमात्मानमुपसङ्क्रम्ये त्यादौ परमेश्वरस्य समीपे । सोऽश्नुत इत्यादौ तेन सह । न हि सामीप्यं साहित्यं च भेदेन विनोपपद्यते । न च मोक्षेऽपि शिष्यमाणं मिथ्या भवितुं युक्तम्, आत्मस्वरूपस्यापि मिथ्यात्वप्रसङ्गात् ।
अथवा भेदव्यपदेशादि त्युक्ते मिथ्याभेदोऽयं किं न स्यादित्याकाङ्क्षानिरासार्थत्वेन अस्मिन्नस्य च तद्योगं शास्ती ति सूत्रं प्रकारान्तरेण व्याख्याति ।
सु०- एवं पञ्चकोशवादिनां मायावादिनां व्याख्यां निराकृत्य ये तु भास्करादयो यथाश्रुतसूत्रानुसारिणः अन्नमयादयश्चत्वारः कोशाः, आनन्दमयस्त्वेक एव परमात्मे ति व्याचक्षते, तन्मतमतिदेशेन निराकरोति एतेनेति ।
एतेनैव अन्नमयादीनां पञ्चानामपि ब्रह्मत्वोपपादनेन । तदन्येषां पञ्चकोशत्ववादिभ्योऽन्येषां चतुष्कोशवादिनाम् । सत्संसत्सु विद्वत्सभासु ।
अधिकं चात्र दोषमाह मयटो द्वैविध्येनार्थकल्पनाच्चेति । अन्नमयादिषु विकारार्थत्वमानन्दमये प्राचुर्यार्थत्वमि ति यदत्र नियामकमुक्तं तत्प्रागेव निराकृतमिति ।
ननु प्राणमय एव विकारप्रक्रमो भग्नः । तर्हि तत्र (तत्र तर्हि) प्रत्ययस्य स्वार्थिकत्वकल्पनादधिको दोषः स्यादिति ।
सु०- ननु सूत्रव्याख्यामुपक्रम्य परापव्याख्यानिराकरणमसङ्गतमिति चेन्न, स्वव्याख्यानदार्ढ्यार्थत्वादिति भावेनाधिकरणार्थमुपसंहरति अत इति ।
गुणिसामान्यवाचिनां गुणवाचिनां च शब्दानां समन्वयाय प्रवृत्तेऽप्यधिकरणेऽधिकरणसिद्धान्तन्यायेन सिद्धमप्यर्थान्तरमुपसंहरति अध्यात्मगैश्चेति ।
अत एव नाधिकरणोपक्रमविरोध इति ।
सु०- समस्तैर्गुणिसामान्यवाचकैर्गुणवाचकैरध्यात्मविषयैः(च) प्राणवागादिभिरधिभूतविषयैश्चान्नौषध्यादिभिश्शब्दैर्भगवानेव मुख्यतयोदित इत्युपसंहारो नोपपद्यते, अस्यार्थस्य प्रागनुक्तत्वात् ।
ननूक्तमुपलक्षणपरोऽयमानन्दमयशब्द इति । सत्यम् । उपलक्षणं हि प्रकृतोपयुक्तस्योपपन्नस्य चार्थस्य भवति, अन्यथाऽतिप्रसङ्गात् । न चैतेषां सर्वशब्दानां मुख्यया वृत्त्या भगवदेकवाचित्वसमर्थनं प्रकृतोपयुक्तं नाप्युपपन्नम् । तथाहि । जन्माद्यस्य यत इति सूत्रे जगज्जन्मादिकारणत्वादीन्यष्टौ लक्षणानि ब्रह्मणोऽभिहितानि । तत्रैव शास्त्रं प्रमाणमुक्तं तृतीयसूत्रे । समन्वयसूत्रे च तेषामेव वाक्यानां ब्रह्मणि समन्वयः प्रतिज्ञातः । अतो जगज्जन्मादिकारणत्वं यत्र यत्र प्रतीयते तेषामेव वाक्यानां परमेश्वरे समन्वयसमर्थनं प्रकृतसङ्गतम्, न सर्वेषाम्, सर्वत्र जगज्जन्मादिकारणत्वप्रतिपादनाभावात् ।
किञ्च यन्निष्ठतया जगज्जन्मादिकारणत्वं प्रतीयते तद्वाचिनः शब्दस्य यया कयाचन वृत्त्या भगवत्परत्वे समर्थितेऽपि लक्षणस्यातिव्याप्तिः परिह्रियत एव । न हि गङ्गापदलक्ष्यस्य तीरस्य घोषावासत्वं न सिद्ध्यति । अतो मुख्यवृत्तिसमर्थनस्य क्वोपयोगः । नोपपद्यते च सर्वशब्दानां भगवत्येव मुख्यवृत्तिसमर्थनम् । रूढियोगौ हि मुख्यवृत्ती । तत्रापि योगाद्रूढिर्बलवती । न च शब्दानां भगवति रूढिरस्ति, किन्तु तदितरत्रैव ।
योगस्तु सम्भवति, तथाऽपि स तदितरसमानः । तथा चार्थान्तर एव मुख्यवृत्तयः शब्दाः, रूढेर्योगस्य च सत्त्वात्; नेश्वरे, योगमात्रस्य कथञ्चित्सम्भवात् ।
अतः सूत्रकारस्य सकलशब्दानां मुख्यया वृत्त्या भगवत्येव समन्वयसमर्थने सङ्गत्युपपत्त्योरभावादपव्याख्यानमेतदित्याशङ्क्य सङ्गतिं तावद्दर्शयति जन्मादीति ।
अथातो ब्रह्मजिज्ञासे ति प्रथमसूत्रे ब्रह्मशब्देन जिज्ञास्यस्य सकलगुणपूर्णत्वं जीवादिव्यावृत्त्यर्थमुपात्तम् । जन्माद्यस्य यत इति द्वितीयसूत्रेण तत्सिद्धये जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणं प्रोक्तम् । अतः सूत्रद्वयेन साध्यतया साधकतया चानन्दादिसकलगुणपूर्णत्वं जगज्जन्मादिकारणत्वं च प्रकृतमिति ।
विवृतं चैतत्पूर्वमस्माभिः ।
किमतो यद्येवमित्यत आह शास्त्रमूलमिति ।
तदुभयं प्रधानमप्रधानं च लक्षणमनुमानादिनाऽतिव्याप्तौ शङ्कितायां तन्निवृत्त्यर्थं तृतीयसूत्रे शास्त्रमूलं शास्त्रैकप्रमाणकमुक्तं यतस्ततश्चतुर्थे सूत्रे शास्त्रस्यान्यपरत्वशङ्कायां सर्वशब्दानां भगवत्यन्वयः प्रतिज्ञातुमुचितो न कतिपयशब्दानामिति शेषः ।
सर्वगुणपूर्णत्वे शास्त्रस्य प्रमाणतयाऽभिधानेऽपि कुतः सर्वशब्दसमन्वयः प्रतिज्ञातव्य इत्यत आह अन्वय इति ।
यतः सर्वशब्दानामन्वय एव गुणसर्वस्ववेदको न कतिपयशब्दानाम्, अतः सर्वशास्त्राद् गुणसर्वस्वसिद्धये स एव प्रतिज्ञातव्य इति सम्बन्धः । अन्यथा यस्यैव शब्दस्य समन्वयो न प्रतिज्ञायते तदर्थो गुणो न भगवति (भगवति न) सिद्ध्येदतिव्याप्तिश्च स्यात् । प्रतिज्ञाते च समन्वयसूत्रेण सकलशब्दसमन्वये तत्प्रपञ्चनं सूत्रकारस्य कथमसङ्गतं भवतीति ।
एतेन मुख्यवृत्तिरपि सङ्गता द्रष्टव्या, तस्या अपि समन्वयसूत्रे प्रतिज्ञातव्य(तत्वात्)त्वात्, अमुख्यवृत्तौ तदभिधेयगुणालाभप्रसङ्गात्, अभिधेयेऽतिव्याप्तिप्रसङ्गाच्चेति ।
सु०- एवमसङ्गतिं परिहृत्य यदुक्तं परेण न परमेश्वरस्यैव सर्वशब्दमुख्यार्थत्वं युक्तम्, योगस्य परमेश्वर इवान्यत्रापि सम्भवात्, ईश्वरे रूढेरभावेनान्यत्र तदाधिक्यादिति ।
तत्र योगस्योभयत्र साम्यं तावन्निराकरोति शब्देति ।
इन्द्रादिशब्दप्रवृत्तिहेतूनां परमैश्वर्यादीनां तस्मिन्परमेश्वरे मुख्यसम्बन्धादिन्द्रादिशब्दानां तद्वाचकत्वमेव । तस्यैव हि परमैश्वर्यमनवधिकं स्वतन्त्रं च । अन्यत्रापि तथा चेत्को विशेष इति तत्रोक्तम् अन्यार्थेष्विति ।
यतः अन्यार्थेषु पुरन्दरादिषु हेतोः शब्दप्रवृत्तिहेतोरैश्वर्यादेः अल्पता, देशतः कालतः स्वरूपतश्च सावधिकत्वात्, अल्पस्यापि भगवन्निमित्तत्वाच्चेति । एतदुक्तं भवति । अवयवार्थमनुसृत्य वृत्तिर्हि योगः । अवयवार्थश्च यथा यथोत्कृष्यते तथा तथा योगवृत्तेरप्युत्कर्षेण भाव्यम् । निमित्तवैचित्र्ये नैमित्तिकावैचित्र्यस्यानुपपत्तेः । अवयवार्थश्च परमेश्वरेऽनवधिकः स्वतन्त्रश्च, अर्थान्तरेऽल्पः पराधीनश्च । अतः कथं योगस्योभयत्र साम्यम् । किन्त्वीश्वरे महायोगोऽन्यत्र योगमात्रमिति स एव शब्दमुख्यार्थ इति ।
सु०- यदुक्तमीश्वरे शब्दानां रूढिर्नास्तीति तन्निराकरोति बहुलेति ।
बहुलातिप्रयोगतो हेतोः शब्दजातं हरौ रूढमेवेति साध्यं स्यात् । अयं प्रयोगः । विमताः शब्दाः, हरौ रूढाः, बहुलातिप्रयोगवत्त्वात्, नारायणादिशब्दवदिति ।
प्रयोगवत्त्वं च यौगिकेष्वमुख्येषु चास्तीत्यतो बहुले त्युक्तम् । अज्ञातमुख्येष्वमुख्येष्वपि बहुलप्रयोगोऽस्तीत्यतः अतिप्रयोगत इत्युक्तम् । पूज्यप्रयोगो हि अतिप्रयोगः । पूज्यता चाविवेकपूर्वकत्वाभावः । न च रूढयोगे रूढोपचारे(रो) रूढलक्षणायां व्यभिचारः, तत्रापि रूढिसद्भावेन सपक्षत्वात् । समाहारवृत्तयो हि ताः ।
नन्वसिद्धोऽयं हेतुः, इन्द्रादिशब्दानां परमेश्वरे प्रयोगस्यैव अभावादित्यत आह रूढिरिति ।
अत्र रूढिः इति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते । आप्तिः सम्बन्धः । तत्र अविद्वसम्बन्धिनो बहुलातिप्रयोगस्याभावेऽपि विद्वत्सम्बन्धिनो भावात् न असिदि्धरिति भावः ।
८२सु०- अस्त्वेवमीश्वरे(ऽपि) रूढिः शब्दानाम् । तथाऽपि लोकेऽपि तद्भावात् साम्यमेव । ततश्च हरिरेव मुख्यवाच्य इति नोपपद्यत इत्यत आह मुख्येति ।
विदुषां बहुलातिप्रयोगानुमिता सा रूढिः मुख्या हि यस्मात् तस्मान्न साम्यमि ति शेषः ।
सु०- कथं मुख्यत्वमित्यत आह विद्वदिति ।
वैदिकबहुलप्रयोगानुमिता हि विद्वद्रूढिरित्युच्यते । सा च लौकिकमात्रप्रयोगानुमिताया मुख्येति स्फुटमेवेति ।
ननु वैदिकेति कथम्, टिढ्ढाणञ् इत्यादिना ङीपा भवितव्यम् । मैवम् । परमवैदिकत्वख्यापनार्थत्वात् । अथवा वैदिकाः प्रयोगा अस्यां सन्ति ज्ञापका इति अर्श आदिभ्योऽच् इत्यचि कृते वैदिकेति भवति । यद्वा वैदिकानां पुरुषाणामास्यादिति तत्प्रयोगात्सिद्धेति ।
हेत्वन्तरमाह सेति । ल्यब्लोपनिमित्ता पञ्चमी । यतः सा विद्वद्रूढिर्योगमविहायैवोपलभ्यते । न त्वविद्वद्रूढिवत्सङ्केततुल्यातोऽपि सा मुख्येति ।
सु०- ततः किमित्यत आह तस्मादिति ।
यस्मादेवं विष्णौ महायोगो मुख्या च रूढिः, अन्यत्र योगमात्रममुख्यरूढिश्च । तस्मात्सर्वशब्दमुख्यार्थता विष्णोरुपपन्नेति ।
८५सु०- उपसंहरति इति कृत्वेति ।
एतां सङ्गतिमेतां चोपपत्तिं हृदि कृत्वा सूत्रकृदानन्दमयोऽभ्यासादित्यशेषगुणिसामान्यवाचकादिशब्दानां मुख्यया वृत्त्या हरौ समन्वयं साधयति, अतो युक्तमेवैतद्व्याख्यानमिति ।।
८६सु०- स्यादेतत् । यदि आनन्दमयोऽभ्यासादि ति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वात् अन्तस्तद्धर्मोपदेशादि त्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः ।
यथोक्तं भाष्ये । तत्रान्यविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृतिनिमित्तसापेक्षस्य निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतोऽधिकरणान्तरस्यावकाशः ।
सत्यम् । तथाऽप्यभ्य(प्यधि)धिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्तिरित्याशयवांस्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्याद्यधिकरणतात्पर्यं दर्शयति देवानामिति ।।
तैत्तिरीयाः पठन्ति, अन्तःप्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति । तत्र संशयः, किमयमन्तःप्रविष्टः परमात्मोतान्य इति । अन्य इति तावत्प्राप्तम् । कुतः ।
इन्द्रो राजा जगतो य ईशे । त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् ।
दिव आत्मानं सवितारं बृहस्पतिमि तीन्द्रादिश्रुतेः, सप्त युञ्जन्ति रथमेकचक्रमि त्यादित्यलिङ्गाच्च । अन्नं ब्रह्मे त्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः । न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते, पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च ।।
८७सु०- ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वात् अमुख्यतेति । सत्यम् । तदन्नौषध्यादिपदार्थेषु स्यात्, न तु पुरन्दरादिषु, तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः । अशक्तेषु खलु सामन्तादिष्वैश्वर्यादिकमल्पं परायत्तं च भवति । देवास्तु अप्रतिहतशक्तयः कथमेवं भवेयुः । तथा च श्रुतिः, इन्द्रो वै देवानामोजिष्ठ इत्येवंजातीयका ।।
रूढिरपि पुरन्दरादिष्विन्द्रादिशब्दानाम् इन्द्रस्य नु वीर्याणि प्रवोचम् इत्यादिमन्त्रेषु बहुलप्रयोगदर्शनेन विद्वत्सम्बन्धिनी मुख्यैव । तेषामतत्परत्वे तद्यजनादौ विनियोगानुपपत्तेः । न च स्वतन्त्रानवधिकैश्वर्यादिकमनेकेषां विरुद्धमिति वाच्यम्, इन्द्रादीनां परमेश्वरात्मकत्वात्, स एव हि कार्यवशात्तत्तदुपाधिभेदभिन्नस्तास्ताः संज्ञा लभते ।
कुत एतदिति चेत् । एतत्प्रकरणगतवाक्यशाबल्यान्यथाऽनुपपत्त्येति तावद् ब्रूमः । तथाहि । अदृश्येऽनात्म्य इत्यानन्दमयलक्षणत्वेनोक्तमदृश्यत्वमिह न विजानन्ति देवा इत्युच्यते । समानाधिकरणानि चेन्द्रादिश्रुतिलिङ्गानि ।।
न चैकं वाक्यमनेकविषयं (सं)भवति व्याघातात् । यथोक्तम् । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादि ति । न चात्रैकोपादानेनापरपरित्यागे कारणमस्ति । तथा च पुराणवाक्यम्, अहं भवो भवन्तश्च सर्वं नारायणात्मकमि त्यादि । अत एव भेदव्यपदेशस्तदितरविषयो व्याख्येयः । न चैवं सति विनिगमने कारणाभावः, अनुपहितधर्माणामुपहिते संभवाद्वैपरीत्यस्यासंभवात् । तस्मादिन्द्रादय एवान्तःप्रविष्टत्वेन प्रतिपाद्यन्त इति ।
एवं देवानाम् इन्द्रादीनां तत्र स्वतन्त्रानवधिकेन्द्रादिशब्दप्रवृत्तिनिमित्तवत्तायां शक्तताम् । ततश्चेन्द्रादिशब्दानां तत्र महायोगवृत्तिमिति शेषः । तथा तच्छब्दानाम् इन्द्रादिशब्दानां तत्र पुरन्दरादि(षु)देवेषु स्वयमपि साक्षादपि विद्वत्सम्बन्धिनीमपीति यावत्, रूढिं च अभ्यधिकामाशङ्क्य ।
स्वयं सूत्रकारः अन्तस्तद्धर्मोपदेशादि ति सूत्रेणान्तःप्रविष्टो विष्णुरेव, समुद्रेऽन्तः कवयः , यस्याण्डकोशशुष्ममाहुः , ब्रह्मा तपसाऽन्वविन्ददि ति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतपोलभ्यत्वादिधर्मोपदेशात्; तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् ।
न चेन्द्रादिश्रुतिलिङ्गविरोधः, निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । न च तेषामपि निरवकाशत्वम्, इन्द्रं मित्रं वरुणमग्निमाहुरि त्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात्; महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्यपेक्षयाऽऽधिक्यमात्रमेव न तु निरर्गलत्वमपि, अन्यथानेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव ।
इत्येवं समुद्रान्तःस्थितत्वाद्यैः विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानाम् इन्द्रादिशब्दानामपि विष्णुरूढताम् । उपलक्षणमेतत्, तत्र यौगिकत्वं च साधयित्वा ।
ननूक्तरीत्या देवानां परमेश्वरात्मकत्वेन समुद्रान्तःस्थितत्वादिकं (सर्वं) सम्भवतीत्येवं तैर्देवै(री)रेवेश्वरस्य अभिदां च पुनराशङ्क्य भेदव्यपदेशाच्चान्य इति सूत्रेण, अन्यश्चासाविन्द्रादिदेवेभ्योऽन्तःप्रविष्टः, इन्द्रस्यात्मे त्यादिविशेषविषयभेदव्यपदेशादभेदे प्रमाणाभावाच्च ।
न च वाक्यशाबल्यम्, सर्वस्येश्वरपरताया उक्तत्वात् । पुराणस्येश्वरसन्निधानातिशयविषयत्वादि त्येवं न्यवारयत् इत्यर्थः । अत्र पुनः इत्याशङ्का(नि)ऽऽवृत्तिमात्रमाचष्टे । तैः एवेत्यवधारयता प्रकारान्तरेण भेदसूत्रस्य पुनरुक्तता निरस्ता भवति ।
९०सु०- यद्यप्ययं लिङ्गात्मकः शब्दस्तथाऽपीन्द्राद्यनेकनामसमन्वयलाभादत्र निर्णीत इत्यदोषः ।
९१सु०- केचिदेतत्सूत्रद्वयम् अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते , य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते, तद्वा निराकर्तुम् एव इत्युक्तम् ।
तथात्वे हि अन्तर उपपत्तेरि त्यस्यानारम्भप्रसङ्गः । य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचे त्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न, वाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गात् । सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः ।।
नन्वधिकाशङ्कया तदारम्भो भविष्यति तथाहि एष दृश्यत इति तावत्प्रत्यक्षेऽर्थे प्रयुज्यते, ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति । युज्यते चैतत्प्रतिबिम्बे । प्रथमावगतात्प्रत्यक्षाभिधानाच्छायापुरुषेऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमाना अमृतत्वादयः स्तुत्या कथञ्चिद् व्याख्येया इति । तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् । यतो अत्रापि य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति, तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का ।
तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यं तत्रान्तःप्रविष्टमित्याद्यन्यद्भविष्यतीति चेन्न, स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् ।तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति ।।
सु०- एवं अधिदैवविषयशब्दसमन्वयमभिधाय अधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः आकाशस्तल्लिङ्गादिति ।
छन्दोगाः पठन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त इति । तत्र संशयः, किमयमाकाशः परमात्मोत भूतमिति । भूतमिति तावत्प्राप्तम्; कुतः, आकाशशब्दस्य योगरूढिभ्यां भूते प्रसिद्धत्वात् । आकाशनमवकाशत्वं खल्वाकाशशब्दनिर्वचनलब्धम् ।
तच्च भूते सुप्रसिद्धम् । प्रयोगश्च लोकवेदयोराकाशशब्दस्य भूतविषयो बहुलः ।।
ननु च सर्वाणि ह वे त्याद्युक्तलिङ्गबलात्परमात्मा किं न स्यात् । लिङ्गाच्छतेर्बलवत्त्वादिति ब्रूमः ।।
न च बहुत्वेन लिङ्गानां प्राबल्यम्, तथाऽपि साम्येनानिर्णयात् । न च साम्यमपि; यथाऽऽहुः, द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोः स्वभावो बलवान् उपजीव्यादिकश्च सः इति । कृत्रिमाकृत्रिमयोरकृत्रिमं हि ज्यायः । अतः प्रथमावगतस्वभावबलवच्छत्यनुरोधेन लिङ्गानि कथञ्चिद्योज्यानीति । नन्वन्तस्तद्धर्मोपदेशादित्यनेनैव परिहृतमेतत् । इन्द्रादिशब्दवदाकाशशब्दस्यापि भूतेऽमुख्यया वृत्त्या प्रवृत्तस्य महायोगविद्वद्रूढिभ्यामीश्वरवाचिनस्तद्बुद्ध्याधायकत्वमेव हि न्याय्यम् । सुतरां च निरवकाशलिङ्गबलादिति । न च काचिदभ्यधिका शङ्काऽस्तीत्यतोऽनारम्भणीयमिदं सूत्रमिति ।
९३सु०- तत्राभ्यधिकां शङ्कां दर्शयति चेष्टा हीति ।
युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम्, निरवधिकस्य प्रवृत्तिनिमित्तस्यैश्वर्यादेरसंभवात्, अल्पस्यापि परमेश्वरायत्तत्वात् । युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् । न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न संभवति, क्वचित्कदाचिदप्यभावाभावात् ।
नापीश्वरायत्तम् । ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतनसम्बन्धिनी चेष्टा । सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात् स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽऽयत्तेति युज्यते । आकाशाऽऽदिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम्, अचेतनाश्रितत्वात् ।
नापि स्वरूपतः, स्वभावत्वादनागन्तुकत्वात् । न चाकाशशब्दस्येश्वरे योगः संभवति, तस्य मनागप्यवकाशत्वाभावात् । तस्मात् आकाशशब्दं भूतमेवेत्यभ्यधिका शङ्कानिवृत्त्यर्थं सूत्रमिति शेषः ।
विवराऽदि रिति भावप्रधानो निर्देशः । आदि ग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति । ततः परमेश्वरात्, तदायत्त इति यावत् । कथम् इत्याक्षेपे ।
सु०- नन्वत्राकाशः परमात्मा तलि-लङ्गादित्येतावदुच्यते, न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति ।
आकाशनामबलात्खलु परेण भूतमाशङ्कितम् । न च तद्युक्तम् । यतो निरवकाशात् परोवरीयस्त्वादेरनेकस्मालि-लङ्गादाकाश इति नाम च हरेर्भवेत् । वाचकमिति शेषः ।
अत्रोपसर्जनतया समासे निर्दिष्टेनापि वरीयस्त्वेन बुद्ध्या विविक्तेन परतोऽपीत्यस्य सम्बन्धो नानुपपन्नः ।
९५सु०- सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम्, प्रथमप्रतीतस्यापि सर्वभूतकारणत्वादेर्भूतेऽपि कथञ्चिद्व्याख्यातुं शक्यत्वात्, परोवरीयस्त्वादेः सर्वथाऽपि तत्र नेतुमशक्यत्वात् । तथाहि । अस्य लोकस्य का गतिरि ति पृथिवीगतिप्रश्नस्याकाश इत्युत्तरमभिधाय कथमेतत्, अपां कार्यं हि पृथिवी, तत्रैव (च) लीयत इति तासामेव पृथिवीगतित्वोपपत्तेरित्याशङ्क्य, मैवम्, मूलकारणत्वादित्याह सर्वाणीति । न च तर्हि आत्मन आकाशः संभूत इति श्रुतेरात्मा वक्तव्य इति वाच्यम्, भूतविषयविचारे वियत एव वक्तव्यत्वात् । न च आकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम्, इदं सर्वमसृजते तिवत् तद्व्यतिरिक्तग्रहणोपपत्तेः । न चावधारणानुपपत्तिः, परम्परया भूतोपादानस्यापरस्याभावात् । कथमस्य भूतोत्पत्त्यादिहेतुत्वम्, भूतेषु ज्येष्ठत्वादित्याह आकाशो ह्येभ्य श्चतुर्भ्यो भूतेभ्यो ज्यायानि ति । न केवलमुत्पत्तिलयकारणत्वाद्गतिः, किं नाम कारणेषु स्थितं कार्यमि ति श्रुतेराश्रय(णीय)त्वादपीत्याह आकाशः परायणमिति । न च अस्य लोकस्ये ति प्राणिनिकायाभिधानम्, येन सर्वभूतशब्दोऽपि तत्परः स्यात् । न प्रतिष्ठां लोकमतिनयेदि ति पृथिव्याः प्रकृतत्वात् ।
९६सु०- न च परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिद्व्याख्यातुम्; निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम्, अन्यथा ज्यायानित्यनेनैव गतार्थत्वप्रसङ्गात् । उद्गीथत्वं च ओमित्येतदक्षरमुद्गीथमि त्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते । आरोपोऽयमिति चेन्न, बाल-लीलाऽर्थत्वप्रसङ्गादुपनिषदाम् ।।
अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव । आपेक्षिकं तु प्रकृतविरुद्धम् । पृथिव्याः सामगतित्वम् अन्तवद्वै खलु सौम्य (सौम्य साम्ये) ते सामे ति निराकृत्य स्वयमप्यन्तवन्तमाकाशमभिदधता किमधिकमाचरितं स्यात् । अतोऽनन्तत्वमपि निरुपचरितमेवेति ।
९७सु०- नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् । सत्यम् । दुरुक्तं तत् । न हि देशकालाभ्यां परिच्छिन्नस्याकाशस्यावकाशदातृत्वं निरवधिकं संभवति । नापि स्वतन्त्रं, परमेश्वरायत्तत्वात् । तत्कुत इत्यत आह नभ इति ।
आदिग्रहणेन सर्वभूतगुणैर्युक्तमि त्यादेः सङ्ग्रहः । तेन यदुक्तं परमेश्वरे योगानुपपत्तिरि ति तदपि समाहितं भवति । आकाशेऽवकाशदातृत्वस्येश्वरायत्तत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः । उपपत्तिं तु वक्ष्यामः ।
सु०- तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् ।।
९९सु०- इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात् प्राणशब्दसमन्वयार्थं सूत्रयामास अत एव प्राण इति ।
तैत्तिरीयके श्रूयते, तद्वै त्वं प्राणोऽभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः यद्देवान्प्राणयो न वे ति । तत्र संशयः । किमयं प्राणः परमात्मोत मुख्य इति । वायुवृत्त्यादेः प्राणशब्दप्रवृत्तावपि वाक्यार्थस्य सर्वथाऽप्यनुपपत्तेर्न संशयविषयत्वम् । न ह्यचेतनं प्रति त्वमेवमभव इति बुदि्धमतोच्यते । किं तावत्प्राप्तम् । मुख्य इति । कस्मात् । प्राणशब्दस्य लोकवेदयोर्मुख्यप्राणे प्रयोगप्राचुर्यात्प्राणन्त्यनेनेति निरुक्तिसम्भवाच्च ।।
नन्वेतदपि पूर्वन्यायेन परिहृतं न सूत्रारम्भं प्रयोजयतीति । अतोऽभ्यधिकाशङ्कां दर्शयति अध्यात्ममिति ।
आत्मानमधिकृत्य तस्य भोगायतनत्वेन वर्तत इति अध्यात्मं शरीरं, तस्मिन् प्राणः प्राणनं जीवनम् । आदिग्रहणाच्चेष्टोपादीयते । मुख्यस्येति शेषः । मुख्य एवात्र प्राणो भवितुमर्हतीति वाक्यशेषोऽत्राध्याहार्यः ।
१००सु०- ततश्चायमर्थः । उपपद्यते तत्रेन्द्रादिश्रुतेराकाशादिश्रुतेर्वाऽपहारः, प्रवृत्तिनिमित्तस्यान्यत्र मुख्यस्यासंभवात्, परमात्मनि च संभवात् । न चैवं प्रकृते । जीवनचेष्टाहेतु(त्वं)ता हि प्राणशब्द(स्य)प्रवृत्तिनिमित्तम् । तच्च मुख्ये संभवति । शरीरे, सति मुख्ये, जीवनादिकं भवति, नासती त्यन्वयव्यतिरेकाभ्यां मुख्यस्य जीवनादिहेतुतादृष्टेः ।।
ननु वायुविकारान्वयव्यतिरेकानुविधायित्वं जीवनादेः प्रतीयते । मुख्यस्य तु तद्धेतुता साध्यत इति किं केन सङ्गतम् । मैवम् । वायुविकारशरीरत्वान्मुख्यस्येति ।
अथवा प्राणादिहेतुताया अदृष्टेरि ति व्याख्येयम् । परमात्मन इति शेषः ।। अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या । न च परमात्मनःप्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वयव्यतिरेकौ पश्याम इति भावः ।
यद्वा यदत्र वाक्ये न व देवान्प्राणय इतीन्द्रियप्राणनमुक्तम्, यच्च प्रजापत्युपलक्षितानां सकलजीवानां भोगकारणत्वम्, तदुभयमप्यध्यात्ममन्वयव्यतिरेकाभ्यां मुख्यस्य दृश्यते न परमात्मनः । अतो युक्तिसंवादान्मुख्यविषयमेवेदं वाक्यमिति ।। न चात्र वाक्ये पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति, येन श्रुतिबाधं प्रत्येष्याम इति पूर्वपक्षशेषः ।
१०१सु०- नन्वेवं चेन्न सूत्रमेतदाच्छादकमित्यतस्तस्य तात्पर्यमाह अतिदेशो हीति ।
हिशब्दो हेतौ । एवमधिकाशङ्कया पूर्वपक्षे प्राप्ते सूत्रकृता तादृशः पूर्वोक्तसमानस्य परिहारन्यायस्यातिदेशः कृतो यस्मात्तस्मादुक्ताशङ्काच्छादकं भवत्येवेदं सूत्रमिति योज्यम् ।
यद्वा किमनेनाधिकाशङ्काव्युत्पादनेन, यथाभाष्यमेव पूर्वपक्षः किं न स्यादित्यत्रेदमुक्तम् । तादृशो ह्यतिदेशो यत् आशङ्काया आधिक्ये सति परिहारस्य समानत्वम् । यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात्, प्रत्युदाहरणं शङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् । यदि च परिहारोऽविशेषितो न स्यात्कथं तर्हि अत एवे त्यतिदेश इति मन्दव्युत्पादनार्थमिदमुक्तम् । भाष्येऽप्यस्य सर्वस्यापि स्वीकारार्थं प्रसिद्धेरि त्याह ।
सु०- अतिदेशार्थमाह लिङ्गमिति ।
हरिरि ति वक्ष्यमाणं सिंहावलोकनन्यायेनात्रापि सम्बध्यते, तेन एव शब्दस्य सम्बन्धः । अथवा सौत्रस्यैवशब्दस्यानुवादेन बलवदिति व्याख्यानम्, शब्दादेव प्रमितः इति यथा । यतस्तस्मादित्यध्याहार्यम् । ततश्चायमर्थः । हरिरेवात्र प्राणः स्यात् । कुतः? यतोऽत्र वैष्णवं लिङ्गं श्रूयते
तस्मात् । श्रीश्च ते लक्ष्मीश्च पत्न््नयौ इति सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्य मनसाऽप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वात् इति ।
ननूक्तं प्राणश्रुतिरपि निरवकाशा । शब्दप्रवृत्तिनिमित्तस्य प्राणनादिहेतुत्वस्यान्वयव्यतिरेकाभ्यां मुख्ये दृष्टत्वात् परमेश्वरे तदभावादित्यत्राप्येतदेवोत्तरम् । प्राणनादिहेतुत्वलिङ्गं प्राणशब्दप्रवृत्तिनिमित्तो धर्म इति यावत्, हरावेव मुख्यं स्यान्न मुख्य इति ।
१०३सु०- कुतो जीवनादिहेतुत्वं हरौ मुख्यम्, अन्वयव्यतिरेकयोरभावादित्यत आह प्रेरक इति ।
अस्य जीवनादेर्मुख्याधीनतया प्रतीतस्यापीत्यपेरर्थः । यत् यस्मात् श्रुतः इति शेषः । अयमर्थः । मा भूतामन्वयव्यतिरेकावीश्वरस्य जीवनादिहेतुतासाधकौ, तथाऽपि श्रुतिबलात्सेत्स्यति । न ह्यन्वयव्यतिरेकावेव कारणतायां प्रमाणम्, तथा सति स्वर्गादावग्निहोत्रादेः कारणता न स्यादिति । तर्हि प्रमाणद्वयबलाद् द्वयोरपि जीवनादिहेतुत्वे कुतो हरावेव तन्मुख्यमिति च न वाच्यम्, यतः अस्य मुख्यस्य अपि हरिः प्रेरकः श्रूयत इति । मुख्ये कथं न मुख्यं जीवनादिहेतुत्वमित्यस्याप्येतदेवोत्तरम् । न हि परप्रेरणया भवत्तस्मिन्मुख्यमिति संभवतीति ।
अथवा जीवनादिहेतुतासाधनाय यदन्वयव्यतिरेकानुविधायित्वं लिङ्गमुक्तं तद्विष्णुपक्ष एव मुख्यं स्यात्, न मुख्यपक्ष इति योज्यम् । उभयत्र हेतुमाह प्रेरक इति । यथा वायुविकारनिष्ठान्वयव्यतिरेकौ तस्य मुख्यशरीरत्वान्मुख्यविषयावङ्गीक्रियेते, तथा अस्य मुख्यस्य अपि हरिः प्रेरकः इति तद्विषयाविति । मुख्ये न मुख्यं लिङ्गमित्यस्याप्येतदुपपादकम् । अनन्यथासिद्धान्वयव्यतिरेकौ हि कारणक्ऌप्तिं कुर्वाते । न चेह तथाऽस्ति ।
यतः परमेश्वरावस्थानमेव जीवनकारणम्, मुख्यस्तु तदायत्तस्तच्छरीररूपस्तस्मिन्नवस्थितेऽवतिष्ठते निर्गते निर्गच्छतीति । संवदतीमं सर्वमप्यर्थं श्रुतिः, न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इत्येवंजातीयका । एवमेव युक्तयानुकूल्यपरिहारायापि लिङ्गम् इत्यादिकमेव योजनीयमिति ।
अत्र केचित् प्राणस्य प्राणं , प्राणबन्धनं हि सोम्य मनः इति चोदाहरन्ति । तदयुक्तमित्यपरे, शब्दभेदात्प्रकरण(वश•च्च संशयानुपपत्तेः ।
यथा पितुः पिते ति प्रयोगेऽन्यः पिता षष्ठीनिर्दिष्टोऽन्यः प्रथमानिर्दिष्टः पितामह इति गम्यते, तद्वत् प्राणस्य प्राणमि ति शब्दभेदात् प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्ट इति गम्यते, यथा ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति; तथा परस्य
ब्रह्मणः प्रकरणे प्राणबन्धनं हि सोम्य मनः इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् ।
किन्तु प्रस्तोतर्या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते कतमा सा देवता इति । प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता इत्येतदुदाहरणवाक्यमिति । एतदप्ययुक्तम्, संशयपूर्वपक्षयोरनुत्थानात् ।
ननु प्राणबन्धनं हि सोम्य मनः , प्राणस्य प्राणमि ति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तु प्रसिद्धो लोकवेदयोः, अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः । मैवम् । वायुविकारे देवताशब्दस्य प्रस्तावमन्वायत्तत्वस्य चासंभवात् । चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं(नत्वं) चोपपन्नम् ।
किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते, तेन पूर्ववत् तहणमेव युक्तम्, कुतः पूर्वपक्षस्यावकाशः । यतो वा इमानि भूतानी ति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति । सुप्तिजागरयोरपि सता सोम्य तदा संपन्नो भवती त्यादि ।
ननु मुख्येऽपि प्राणे संवेशनोद्गमने दृश्येते, यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रम् । यदा प्रतिबुद्ध्यते प्राणादेवाधि पुनर्जायन्ते इति । एवं तर्हि संशयः स्यान्न पूर्वपक्षः, समबलत्वात् ।
किञ्च यदा वै पुरुष इति श्रुतिरपि मुख्यप्राणविषयेति कुतोऽवगतम्; स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले च प्रादुर्भवन्तीति प्रत्यक्षानुगुण्यान्मुख्यप्राणविषयत्वं प्राबल्यं च निश्चीयत इति चेन्न, इन्द्रियाणामतीन्द्रियाणां मुख्यप्राणे संवेशोद्गमनयोरप्रत्यक्षत्वात् । अनुमानमस्त्विति चेन्न, परमात्मनोऽप्यपरिलुप्यमानस्य विद्यमानत्वेनावधारणानुपपत्तेः ।
किञ्चेन्द्रियाणां मुख्यप्राणे संशयोद्गमनयोः श्रुत्यनुमानसिद्धत्वेऽपि किमायातम् । सर्वभूतसम्बन्धिनोस्तयोः इन्द्रियसारत्वात् भूतानां नासङ्गतिरिति चेत् । किमेतदनुमानं संभावना वा । नाद्यः व्याप्त्यभावात् । द्वितीये तु श्रुत्यनुमानाभासमूलसंभावनामात्रेण श्रुतिबाधया पूर्वपक्ष इति सुभाषितम् ।
नन्वादित्योऽन्नं चोद्गीथप्रतिहारदेवते तावद्ब्रह्मणोऽन्ये, तत्सा(म्या)मान्यात् प्राणस्यापि न ब्रह्मत्वमिति पूर्वपक्षोऽस्त्विति चेन्न, निर्णायकाभाव एव प्रायपाठस्यानुसरणीयत्वात् । स्पष्टं चात्र पारमेश्वरं कर्मेत्युक्तम् । अन्यथा छत्रचामराद्यसाधारणलिङ्गसद्भावेऽपि सामन्तसन्निधिमात्रेण राजा न राजा स्यात् ।
कथं चावधारितमादित्योऽन्नं च न ब्रह्मेति । श्रूयते हि तत्रापि सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति इत्यादि ब्रह्मलिङ्गम् ।। अन्नमेव प्रतिहरमाणानि इति तु प्रायपाठादुपजीवनार्थं ग्राह्यम् ।
ज्योतिश्चरणाभिधानादित्यत्राधिकाशङ्का भाष्य एव दर्शिता । यदाह अग्निसूक्तत्वादि ति । तेन वक्तव्याभावादुत्तरं गायत्र्यधिकरणमेव विव्रियते ।।
सु०- अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायत्र्याः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम् छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनमिति ।
छन्दोगाः पठन्ति । (छां. ३।१२।१) गायत्री वा इदं (सर्वं) भूतमि त्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं (वा) वर्णसमावेशलक्षणो मन्त्र इति ।। मन्त्र एवेति तावत्प्राप्तम् । कुतः । गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धत्वात् ।। नन्वेतदपि पूर्वन्यायेनैव परिहृतमित्यतोऽभ्यधिकाशङ्कया पूर्वपक्षयति नित्यत्वादिति ।
भवेदाकाशादिशब्दानां परमात्मपरत्वम्, अन्यगतस्य शब्दप्रवृत्तिनिमित्तस्येश्वरपरतन्त्रत्वेन तत्र मुख्यवृत्त्ययोगात् । यद्यपि विवरत्वादिकं कारणतः स्वरूपतोऽप्यनागन्तुकम्, तथाऽपि धर्मिण एवाकाशादेरुत्पत्तिविनाशवतो जन्मस्थितिलयेष्वीश्वराधीनत्वे धर्मस्यापि तथाभावोऽवर्जनीयः । न चाकाशोऽनादिनित्य इति युक्तम्, आत्मन आकाशः संभूत इत्यादिश्रुतिविरोधात् ।
यस्तु अनादिर्वायमाकाश इत्युक्तोऽव्याकृताकाशः सोऽनादिनित्योऽपि न तत्र पूर्वपक्षिणो विवक्षितः, भूतप्रकरणत्वात् । न चैवं प्रकृते संभवति । गायत्रीशब्दप्रवृत्तिनिमित्तं हि गानत्राणकर्तृत्वम् । यथाऽऽह श्रुतिः, गायति च त्रायते च तस्माद्गायत्रीति (छां. ३।१२।१) । तत्र गानकर्तृत्वं नाम अर्थप्रतिपादकत्वम् । त्राणकर्तृत्वं चाध्येतॄणां पापाद्रक्षणशक्तिः । तदुभयमपि कथं केन प्रकारेण हरेः अधीनं स्यात्, न केनापि ।
तथा हि । विवरत्वादिवद्धर्मिणा सहैव तदधीनं वा स्यात्, ध्वनिवत्स्वयमेव वा । नाद्यः, धर्मिणः शब्दस्य वेदस्य नित्यत्वात ् अनादित्वाच्च । धर्मिण एव नित्यत्वे तेन सह पराधीनत्वं कुत इति एवा र्थः । न द्वितीयः, अर्थप्रतिपादनादिशक्तेस्तत्स्वभावत्वात् ।
११८सु०- किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् । न चात्र तथाविधं किमपि पश्यामः । प्रत्युत (छां. ३।१२।१) गायत्री वा इदं सर्वं वाग्वै गायत्री इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते । कथं च तेषां, विना बलवद्बाधकोपनिपातेन । अन्यार्थता कल्पयितुं युक्ता, अव्यवस्थाप्रसङ्गात् । न च छन्दसः सर्वात्मकत्वानुपपत्तिः, ब्रह्मणोऽपि साम्यात् ।
११९सु०- नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते (छां. ३।१३।७) अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यादिना, ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् ।
मैवम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वेऽप्यत्र तदनुपपत्तेः ।
तत्र हि कर्णादिविदूरत्वमुक्तम्, अत्र पुनः तदेतद् दृष्टं च श्रुतं चेति तद्विपरीतम् ।।
युज्यते च ज्योतिरिति पदं छन्दसि, तत्पर्यायस्य तेजो वै ब्रह्मवर्चसं गायत्री ति तेजःशब्दस्य तत्र दर्शनात् ।
अस्तु वा अथ यदतः परो दिवो ज्योतिरि त्युक्तं ज्योतिर्ब्रह्म, तथाऽपि गायत्री छन्द एव, उपदेशभेदेन भिन्नप्रकरणत्वादिति ।
सु०- एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति ।
तत्र ब्रूम इत्यध्याहार्यम् । तत् ज्योतिःप्रकरणं गायत्रीप्रकरणं च, हरेरेव प्रतिपादकम् । न च गायत्रीपदविरोधः । यतः तत् हरेरेव वाचकम् । कथम् । यस्मात् तत् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव । अन्यगतं च हरेरेवाधीनम् ।। न च ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः, यतः तत् अधिष्ठानादिद्वारा कर्णादिविदूरस्यैव हरेः उपपद्यते । न चोपदेशभेदानुपपत्तिः, यतस्तद्दिवःपरत्वं दिविस्थितत्वं च विवक्षाभेदाद्धरेरेव युज्यते ।
कुत एतत् । श्रुतिलिङ्गयोर्बाहुल्यात् । तथा हि ततो ज्यायांश्च पुरुषः , यद्वैतद्ब्रह्म , य एतामेव ब्रह्मोपनिषदं वेदे ति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्, एतामेव नातिशीयन्त इति सर्वोत्तमत्वम्, इत्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात् तत् प्रसिद्धबहुलशब्दजातमपि हरेरेव इति ।
ननूक्तमत्र नित्या गायत्री, प्रवृत्तिनिमित्तं च तत्स्वभावः , तत्कथं हरेरधीनमित्यत आह तादृशत्वाच्चेति ।
पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः, यन्नित्यानित्यस्वभावास्वभावसर्वविषया, अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत्, तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत्, सत्यम्, अनादीश्वरशक्तयैवेति वदामः । उक्तं चात्र प्रमाणमिति ।
अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरि ति वाक्ये चरणाभिधानाभावात् ।
चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत्, एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमि ति पुनरुक्तं स्यात् । न स्यात्, तात्पर्यभेदात् । तथा हि । पूर्वस्मिन्वाक्ये तावानस्य महिमे ति चतुष्पाद्ब्रह्म निर्दिष्टम् । तत्र यच्चतुष्पदो ब्रह्मणः त्रिपादस्यामृतं दिवी ति द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धात् प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातामित्यत्राभिप्रेयते । तत्र तु भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति ।
उच्यते । एवं हि व्याकुर्वता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुः, उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् । तथा च श्रुतहानाश्रुतकल्पने स्याताम् ।
अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् । लघु चैवं स्पष्टं च सूत्रं स्यात्, पादाभिधानादित्येव वा वदेत् । श्रुत्यनुगमो ह्येवं सति स्यात् । इत्युक्तमेवोपपन्नमिति ।।
सु०- नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता (वा) एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न, उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न, अदर्शनात् । सद्भावे वा तदनन्तरमेव आरम्भणीयत्वात् इत्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति ।
पूर्वाधिकरणे हि गायत्र्याद्यन्यवाचिशब्दबाहुल्यसद्भावेऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् । अस्ति चात्रापि परकयश्रुतिलिङ्गबाहुल्यम् ।
तथा हि । चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते । न च किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति, येनाप्रधानप्रायपाठस्यापवादः स्यात् । युज्यते चेन्द्रजीवमुख्यप्राणानाम्; इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात्, जीवस्येन्द्रियजन्यफलाश्रयत्वात्, मुख्यस्य च सर्वेन्द्रियस्वामित्वात् । प्राणो वा अहमस्म्यृष इतीन्द्रश्रुतिः । ता अहिंसन्ते त्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि । तथा तं शतं वर्षाण्यभ्यार्चदि ति शतायुष्ट्वं, प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि ।
सति चैवमन्यदीययोः श्रुतिलिङ्गयोर्बाहुल्येऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम्, अन्यथोक्तन्यायस्यानैकान्त्यापातात् । न च वाक्यभेदो दोषः, अनन्यगतिकतया प्राप्तत्वादिति ।
अमुख्यया वृत्त्याऽत्र मुख्यप्राणस्य वाच्यत्वं सिद्धान्तिनाऽप्यभ्युपगम्यत इत्यतो मुख्येत्युक्तम् । इतिशब्दः शङ्कासमाप्तिद्योतकः ।
सु०- सिद्धान्तयत्सूत्रं व्याख्याति तन्नेति ।
किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः ।
अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यत् अन्यस्य इन्द्रादेः प्राणशब्द मुख्यवाच्यत्वं पूर्ववादिनोक्तं तन्नेति ।
ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाऽपि अस्त्यत्र वैषम्यम्, निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानी त्याह अत्रगस्येति । इन्द्रादिगतस्य ।। हि शब्दो हेत्वर्थः, तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिदि्धद्योतको वा ।। आद्यः तु शब्दो न्यायविशेषसूचकः । प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि । पुनः तु शब्दोऽप्यर्थे, इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । न च मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम्, अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वात्; इत्याशयेन मुख्यत इत्युक्तम् । शतं वर्षाणीत्यतोऽपि परस्तादितिशब्दो योज्यः । प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरि त्यादिसूत्रतात्पर्यमुक्तं भवति ।
केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां श्रुतं प्राणोऽस्मि प्रज्ञात्मे त्यादिवाक्यमुदाहरन्ति । तेषां वक्तुरि ति न श्रुत्यनुगतम् ।। वक्तृत्वं हीन्द्रस्य आत्मोपदेशादित्यनेनैव लब्धम् । न च वक्तुरि तीन्द्रप्रतिपत्त्यर्थम्, तस्य तदप्रत्यायकत्वात् ।।
अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रोऽन्यथोपदेष्टुमर्हतीति युक्तिद्योतनाय सार्थकमिति ।
सु०- पादार्थमुपसंहरति तस्मादिति ।
अन्यत्रगैः नामात्मकैरिति शेषः । तस्मात् इत्यस्यैव विवरणम् उक्तन्यायैरिति । उक्तो न्यायो येषु ते तथोक्ताः । समन्ततः सर्ववेदगतैः । एको मुख्यार्थः ।। नात्र संशय इति ।
लक्षणयाऽयं समन्वयोऽभिधीयत इति केषाञ्चिन्मतं, मुख्यवृत्त्येति सिद्धान्तः; अतोऽविप्रतिपत्तेरत्र संशयो न कार्यो निर्णायकस्योक्तत्वादित्यर्थः ।
अथवोक्तेऽपि न्यायेऽनादिवासनानिमित्तोऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे ।
सु०- सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृत्तेन भगवताऽऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात्, तां निराकर्तुमाह वासुदेवादीति ।
वासुदेवादित्वेनेत्यर्थः । चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः । प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति, तन्निरासायोक्तं सर्वशः सर्वेष्वपि पादेषु । अथवेति निपातसमुदायः पक्षान्तरे । पञ्चमूर्तिः नारायणादित्वेन । प्रति शब्दो वीप्सायां कर्मप्रवचनीयः । अथाऽपि वेति त्रयो निपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बध्यन्ते ।
अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति ।
न्यायशब्दः प्रकारवचनः, श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा । तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गश्रुतिसमाख्यादिव्यावर्तकैर्विवेको ज्ञातव्य इति शेषः ।
ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह योग्यतेति ।
सर्वेऽपि पक्षाः सूत्रकृतो विवक्षिताः । पुरुषाणां योग्यताऽनतिक्रमेण प्रतीयन्ते । तदपेक्षया विकल्पो युज्यत इति योज्यम् ।
एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति ।
एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः । बह्वर्थ इति वक्ष्यमाणं चात्र सम्बध्यते । तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह बह्वर्थमपीति ।
सूत्रजातमिति शेषः । उच्यते व्याख्यायते ।
बुदि्धशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः । ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै । मनोऽर्थत्वे ग्रहणं ग्रहः ।
सु०- न चैवं सूत्रार्थलेशव्याख्यानपरोऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह ग्रन्थ इति ।
समग्रार्थव्याख्यानमकुर्वन्नपि ।
अयमित्युक्तत्वात्सत्यपि तस्मिन्पुनरस्य विरचनाद्भाष्यमल्पार्थमिति नाशङ्कनीयमित्याह भाष्यं चेति ।
अतिशयितेनार्थेन विस्तरो यस्येति व्यधिकरणबहुव्रीहिर्गमकत्वात् ।
बह्वर्थत्वमनयोरनुपलम्भबाधितमिति चेन्न । व्याख्यानसामग्रीवैकल्यनिमित्तत्वात् तदनुपलम्भस्येत्याशयेनाह बहुज्ञा एवेति ।
एतयोः भाष्यानुभाष्ययोः ।
१३१सु०- एवं प्रासङ्गिकमुक्तवोपपादितस्यान्यत्रप्रसिद्धनामसमन्वयस्य फलं लक्षणसिदि्धमुपसंहरति तस्मादिति ।
सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः । कथं तन्मात्रेण महागुणत्वम् । नाम्नां यौगिकत्वादपुनरुक्तितश्चेति ।।
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृता वयं पूर्वेऽ(र्वा)ध्याये प्रथमचरणः पर्यवसितः ।।
इति प्रथमाध्यायस्य प्रथमः पादः ।।