Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C2P2

From Anandamakaranda

न्यायसुधा — अध्यायः 2, पादः 2

न्यायसुधा

स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥

॥ रचनानुपपत्त्यधिकरणम् ॥

१सु०- सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।

२सु०- नन्वनारम्भणीय एवायं पादः । तथा हि- साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शङ्क्यते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ॥

नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ॥ अत एव न चतुर्थः ॥

न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा,) बहुत्वेन वा स्यात् । सर्वथाऽपि नाधिकाशङ्कावकाशः, श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न, सूत्राणामुपलक्षणार्थत्वात्, अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात्, पादभेदश्चैवं सति न स्यात् ॥ न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ॥

३सु०- अत्र कश्चिदाह, स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोेधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति । तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारोऽध्यायार्थो न स्यादिति ।

४सु०- अपर आह, उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते, किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।

एतदप्ययुक्तम् । तथा हि । किमनेनोक्तं स्यात् । यदि; प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति; तदोक्तमेवोत्तरम् । अथ, युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणम् इति; तन्न, न्यायसाम्येन तासामपि शक्यनिराकरणत्वात्, (सार्वज्ञ्यं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।

५सु०- अतो नायं पाद आरम्भणीय इत्यत आह स्मृतीति ।

अनु०-स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥

श्रुतयो गुणा उपसर्जना(नि) यासां तास्तथोक्ताः । चतुर्विधा विरोधिप्रतीतयः । अन्वयं प्रति न विरुध्यन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । अभियोग आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि ।

एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः, तथाऽप्युक्तेऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनान•ं) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।

न्यायसुधा

न चोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥

६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं मन्द इति

मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति
अनादीति ।

अनु०-अनादिकालतो वृत्ताः समया हि प्रवाहतः । न चोच्छेदोऽस्ति कस्यापि समयस्येति

कपिलकणादादीनां प्रणेतॄणां स्मरणात् कथमनादित्वमित्यत उक्तं प्रवाहत इति । कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनाऽवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । एवं पूर्वेऽपि पूर्वतरैरित्येवं प्रवाहतोऽनादित्वाददोषः । तथैव च स्मरणानीति । इति हेतोः, आशङ्कत इति पूर्वेण सम्बन्धः ।

इदमुक्तं भवति । करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम्, अन्यथा अतिप्रसङ्गात् । तत्र यथा श्रुतीनामनादित्वात् करणदोषाभावः, तथा समयानामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम्, पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् । यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि । यदि करणदोषबाधकप्रत्ययोपेताः स्युः, तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः । न चैवम्, अतः कथमप्रामाण्यमश्नुवते । यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि । न च तासामाभासत्वमुक्तमिति वाच्यम्, सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् । एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम्; कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयः अभियोगतः तान् प्रवर्तयेयुः, कथं च प्रेक्षावन्तोऽनेकेऽभियोगेनैैवोपाददीरन् । तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।

७सु०- नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः; तथा चावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतोऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयानाम् इतरेषां चानुपलब्धेः इत्युक्तदिशा साङ्ख्यादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव; तत्कथं श्रुतिसमन्वयसिद्धेऽर्थे

पुनः शङ्केति । उच्यते । यो हि इतरेषां चानुपलब्धेः इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् । यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव । न चैवं

शास्त्रे नाधिक्रियेत । सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् । तदिदमुक्तं मन्द आशङ्कत इति । किमतो यद्येवमित्यत आह अत इति ।

अनु०- अतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥

भ्रान्ति पदं विप्रलम्भस्याप्युपलक्षणम् । पृथक् विस्तरेण । स्फुटं सुबोधम् । तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तम्, अत्र विस्तरेण स्फुट ं दर्शयन् तेषां भ्रान्त्यादिमूलत्वं ज्ञापयतीत्यर्थः ।

एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति । तदिदमुक्तमितरेषामित्यादि भाष्येण ।

न्यायसुधा

तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥

८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह तर्कैरिति ।

अनु०- तर्कैर्दृढतमैरेव वाक्यैरा(श्चा)गमवादिनाम् ॥

तर्क शब्दः सोपस्करानुमानार्थः । दृढतमैः परकयतर्कबाधकैः तदबाध्यैः (च), वाक्यैश्च दृढतरै(मै)रिति सम्बध्यते । पूर्वेण सम्बन्धः (अन्वयः) । वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम् आगमवादिनामिति । आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पूंसां समयानामिति सम्बन्धः । यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः, ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेति) (र्येति) भावः । अथवा आगमस्य वेदादेः प्रामाण्यवादिनां, शिष्याणां व्यपेक्षयेति शेषः, तथा च बौद्धाधिकरणान्तेन न विरोधः ।

यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथाऽपि श्रोतृमनःसमाधानार्थमुक्तमिति ।

९सु०- ननु चानाद्यनन्तकालेऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम्, न हि तथाविधस्योन्मत्तवाक्यादेरनाद्यनन्तकालेऽनुवृत्तिरस्ति । तदयं प्रयोगः । साङ्ख्यादिसमयाः; प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा; सर्वदाऽनुवर्तमानत्वात्, महाजनपरिगृहीतत्वात् (वा); वेदवदिति । तथा च वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।

मैवम् । किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यम्, उत एकस्य । नाद्यः, परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात्, परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च । न द्वितीयः, पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रागुक्तदोषानुषङ्गात्, अनभ्युपगमे तत्रैव व्यभिचारात्; वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः, अनभ्युपगमे च दृष्टान्तदोषः ।

भवेदेवम्, भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्येऽविद्यमाना अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह दौर्लभ्यादिति ।

अनु०- दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् । अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥

समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा । नैवमुन्मत्तवाक्ये विद्यते ।

नन्वाग्रहेऽपि किं कारणमित्यत उक्तं विद्वेषादिति ।

तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम्, कथं सदा इति; अत उक्तम् अनिशमिति ॥

ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम् अनादीति ।

वासनावशात् तेभ्यः तदेव रोचयत इति भावः ॥ नन्वनादिवासनाऽपि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम् असुराणामिति । विपरीतप्रयत्नादिप्रेरकाणां बुद्ध्याद्यभिमानिनामिति शेषः ।

ननु साधूनां विदुषां निवारणात् कुतो न निवर्तन्त इत्यत उक्तं दौर्लभ्यादिति । अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् । तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तं तामसत्वादिति । तत एव कुपण्डितनिमित्त मिथ्याज्ञानप्रसक्तितश्च । न चैतानि कारणानि स्वरूपतोऽप्यनादौ वेदे सम्भवन्तीति ।

यद्यप्येतत्पादान्ते वक्तव्यम्; तथाऽप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।

न्यायसुधा

इति विद्यापतिः सम्यक्समयानां निराकृतिम् । चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥

१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह तथापीति ।

अनु०-तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा । इति विद्यापतिः सम्यक् समयानां निराकृतिम् । चकार

यद्यपि कुसुमया न सर्वथा समुच्छेद्याः, तथापि । तमः अज्ञानम् । सुयुक्ति त्वस्य विवरणं सदाऽऽगमानुगता इति । प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च । इति इत्येवमर्थम् ॥ एतदुक्तं भवति । न साङ्ख्यादिसमयसमुच्छेदार्थोऽयं प्रयत्नः, येनोक्तदोषः स्यात्; किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।

नन्वेतदप्ययुक्तम् अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति, किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात् पुनरुद्भवति,

प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तं शुद्धबुद्धीनामिति । यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ॥

अयं भावः । वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति । तत्र नायोग्यानामज्ञानमपनेतुमयमारम्भः, किन्तु योग्यानामेव । ते च विशुद्धविज्ञानस्वभावाः । तथा च प्रमाणौरिदानीमेवोत्पन्नमपीदं मनोवृत्तिरूपं तत्त्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति, स्वभावस्य सर्वतोऽपि बलवत्त्वात् । न चैवं प्रमाणवैयर्थ्यम्, स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् । यथोक्तम् विना यत्नं न हठो नापि कर्मे ति ।

किञ्च सर्वतोऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् । अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते । तथा च तत्सचिवमिदं वृत्तिज्ञानम् अज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव । अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम् ईशानुग्रहयोगिनामिति । न चैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम्, ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् । तथा चोक्तम् फलप्रदो वासुदेवः अखिलस्ये ति । अखिलस्य योग्यताकर्मप्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।

११सु०- यद्येवं साधूनां कुसमयाहितमज्ञानमपनेतुं भगवान् समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात्, तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात्, तथा च एवंविधानि सूत्राणि कृत्वे त्यागमविरोध इत्यत आह निजेति ।

अनु०- निजभक्तानां बुद्धिशाणत्वसिद्धये

कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां, बुद्धिं प्रति, युक्तनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानादेरतिशयितनैश(य)त्यसिद्ध्यर्थमिति यावत् । पूर्वेणैव सम्बन्धः । कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावेऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात् तैरिदमादरणीयमिति भावः ।

१२सु०-

ब्र०सू०- ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥

तदेवं समर्थितः पादारम्भः ।

न्यायसुधा

तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति चेतनेति ।

अनु०- चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुः

चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । आहुः साङ्ख्या इति शेषः ।

ननु च विधान्तरासम्भवात् प्रामाणिकैः तत्त्वद्वयमेव वक्तव्यम्; तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तं निरीश्वरा इति । ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।

१३सु०- ननु साङ्ख्या मन्यन्ते, सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थो विकृतिरेव । कश्चित्प्रकृतिविकृतिः । कश्चिदनुभयः ॥ तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । सा हि विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति, महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः । प्रकृतयो विकृतयश्चेति । तथा

हि । महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः । एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ॥

पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात् । तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ॥

पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ॥ तदेवं विस्तरतः पञ्चविंशति तत्त्वानि । यथोक्तम्, मूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः इति । तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति; आह तदिति ।

अनु०- तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतन•

पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् । स चासौ विभागश्च । तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्त्वविभागस्थम् । तत् चेतनमचेतनं च तत्त्वद्वयमेव; सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।

ननु चेतनमचेतनं चासङ्ख्यातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह तदिति ।

अनु०- तदसङ्ख्यातं

तत् इत्युभयपरामर्शः । उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तोऽप्यवान्तरभेदेन तत्त्वद्वयम् असङ्ख्यातम् आहुरित्यर्थः ।

१४सु०- चेतनानामचेतनानां च प्रत्येकमसङ्ख्यातत्वसाम्येऽपि नोभयोर्भिन्नत्वेन साम्यम्, किं तर्हीत्यत आह भिन्नमिति ।

अनु०- भिन्नमन्यदि्भदोज्खितम्

चेतनमिति शेषः । चेतनं परस्परतो भिन्नम् आहुः । यथोक्तम्, जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैवे ति ॥ अन्यत् चेतनात्; अचेतनं भिदोज्खितम् आहुः ।

१५सु०- नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम्, तत्कथं नाङ्गीकुर्वन्तीत्यत आह अचेतनस्येति ।

अनु०- अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते

निगद्यते साङ्ख्यैरिति शेषः । तथा हि चेतनः सङ्घातपरार्थत्वादिहेतुसिद्धः । अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम्, अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् । न चैवमनान्यथासिद्धमीश्वरे प्रमाणमस्ति, अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेः इति मन्यन्त इति ।

नन्वचेतनं चेतनानधिष्ठितं क्कापि न प्रवृत्तिमदुपलब्धम्, ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तं स्वातन्त्र्येणेति । चेतनाधिष्ठानेन विनेत्यर्थः । त(य)थोक्तम्, वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषस्य विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ।

१६सु०- अन्यदि्भदोज्खितमित्युक्तम् । तदसत् । अचेतनानामपि चेतनावत् परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह परस्परेति ।

अनु०- परस्परविभेदश्च कार्याणामालयं भवेत्

आलयं प्रलयपर्यन्तम्, कार्याणां परस्परविभेदश्च भवेत् इति निगद्यते तैः ।

एतदुक्तं भवति । कार्यं तावत् कारणव्यापारात्प्रागपि सत्, असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ॥

किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वितीयः, असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वेऽपि कारणं तदेव करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत्, सा शक्तिः शक्यविषया वा स्यात् सर्वत्र वा ।

सर्वत्र चेत् सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । न च कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदोऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य, उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावः, यथा घटपटयोः, संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती, तस्मान्नार्थान्तरत्वम्, गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।

एवञ्च कार्याणां परस्परं भेदेऽपि स्वस्वकारणैरभेदात् क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव; इत्यनेनाभिप्रायेणान्यदि्भदोज्खितमित्युक्तमिति । तच्चोक्तम् असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमि ति ।

१७सु०- तेष्वपि मतभेदमाह भोक्तृतामिति ।

अनु०- भोक्तृतां चेतनस्याहुः केचित्तामपि नापरे

सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । क्रियावेशो हि कर्तृत्वम् । न च आत्मनः परिस्पन्दलक्षणा क्रियोपपद्यते, सर्वगतत्वात् ।

नापि प्रयत्नलक्षणा, तस्याः अन्तःकरणवृत्तित्वात् । न च विक्रियालक्षणा, निर्विकारत्वात् । यथोक्तम्, तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्चेति । तत्र केचिच्चेतनस्य भोक्तृतामाहुः, यथा भोक्तृभावादिति । अपरे तामपि नाहुः, यथा तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिरि ति ।

१८सु०- ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह स्वरूपेति ।

अनु०- स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम्

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् । तच्चात्मनः•) क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इत्याहुः । कुतो भोक्तृत्वमाहुरित्यत उक्तं स्वप्रकाशादिति । सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः । यथाऽऽह, भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति । न चैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम्, उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।

१९सु०- नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह प्रकृतेश्चेति ।

अनु०- प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु । अभोगवादिनो भोगमाहुः

भोगं भोगव्यवहारकारणम् ।

अयं तेषामाशयः, भोक्तृत्वं हि न पुरुषस्य स्वभावः, अपवर्गाभावप्रसङ्गात् । आगन्तुकं तु नोपपद्यते, अपरिणामित्वात् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । न च प्रतीतिविरोधः, प्रतीतेरभावात् । व्यवहार एव हि केवलं भोक्ताऽऽत्मेति, स च कर्तृत्वव्यवहारवत् प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।

२०सु०- स्यादेतत् । येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते, पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः इति वचनात् । न च प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह भेदग्रहादिति ।

अनु०- भेदग्रहात्तयोः । भोगिनां मुक्तिरुद्दिष्टा

तयोः प्रकृतिपुरुषयोः भोगिनां पुरुषस्य भोगमभ्युपगच्छतां, मते । अयमभिसन्धिः तेषाम् । प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः, किन्नामापवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति, विवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः, अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति, अविवेकख्यातिनिबन्धनो हि तदुपभोगो निबन्धनाभावे न भवितुमर्हतीति । तच्चोक्तम् दृष्टा मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्या । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति । तथा

रङ्गस्य दर्शयित्वा निवर्तते नर्तक यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिरि ति ।

न च निवृत्ताऽपि पुनः प्रवर्त्स्यतीति शङ्कनीयम्, प्रयोजनाभावात् । उक्तं च प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य इति । न च भेदग्रहसद्भावात् कैवल्याभावः, तस्यापि स्वेनैव निवृत्तेः ।

२१सु०- ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः, बन्धाभावात्; तथा च योगानुशासनवैयर्थ्यमित्यत आह स एवेति ।

अनु०- स एवाभोगवादिनाम्

स भेदग्रह, एव मुक्तिरुद्दिष्टा । भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः, स च भेदग्रहे सति निवर्तते, सैव मुक्तिः, न त्वपराऽस्तीत्यतः स एव इत्युक्तम् । न पुनर्भेदग्रह एव मुक्तिः, तस्यापि निवर्तनीयत्वात् । नापि विवेकख्यातिमि त्युक्तत्वादिति ।

२२सु०- एवमुपन्यस्तं मतमधुना निरसनीयम् ।

तत्र सूत्रकृता क्रममविवक्षित्वा रचनानुपपत्तेश्च नानुमानमि ति प्रथमं परपक्षोपालम्भं विधायानन्तरं प्रवृत्तेश्चेति स्वपक्षसाधनं विहितम् । भाष्यकारस्तु साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासस्य तत्स्थैर्यहेतोर्बहिरङ्गत्वेन तदुपन्यासस्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः, प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाह ईशस्येति ।

अनु०-ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि

असङ्ग्रहात् अनभ्युपगमात् । एव इत्यस्य दोषस्योल्बणत्वं सूचयति । तावुभावपि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ ।

२३सु०- नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्च इति सूत्रार्थतया ईश्वरे प्रमाणमाह चेतनेति ।

अनु०-चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥

यदा यस्मात् । तस्मादिति लभ्यते । एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् । अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः । केन इत्याक्षेपे ।

अयमत्र प्रयोगः । महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात् पटवदिति, यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात् पटोद्भववदिति प्रयोक्तव्यम् । प्रयोगद्वयसूचनाय पटोद्भवदृष्टान्तमुक्तवा वस्तुत्वादिति हेतुमाह, एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत । उपलक्षणं चैतत् । महदाद्युपादानं चेतनाधिष्ठितं उपादानत्वात् तन्तुवदित्याद्यपि द्रष्टव्यम् । न चान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्ध्यतीति ।

२४सु०- स्यादेतत् । महदादिकं न तावत्प्रत्यक्षसिद्धम्, अव्यक्तत्वात्, अतः साङ्ख्याचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमोऽभ्युपगन्तव्यः । तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः, अन्यथाऽऽश्रयासिद्धिरिति । मैवम्, वेदतस्तदवगमात् । उक्तं हीदम् अजामेकामि त्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति ।

ननु पुरुषश्चेतनो नान्तःकरणम् । इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य । अतः अप्रसिद्धविशेषणता बाधो वा, पटादेरप्येवम्भावाभावाद् दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न; आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् ।

२५सु०- तथाऽप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा । नाद्यः; प्रथमप्रयोगे असिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यविकलत्वाच्च । द्वितीये चाश्रयासिद्धेः, मया सत्कार्यवादस्य अभ्युपगतत्वात् ।

द्वितीयेऽप्येत एव दोषाः, त्वया व्यक्त्यनभ्युपगमात् इति चेन्न; असत्कार्यवादस्य साधितत्वात्, सत्कार्यवादे प्रमाणाभावाच्च ।

२६सु०- असदकरणात् इत्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात् सत्त्वमात्रं साध्यम्, उत अत्यन्तसत्त्वम् । आद्ये सिद्धसाधनम्, सदसत्त्वाभ्युपगमात् । द्वितीये त्वसदकरणादितिवत् सदकरणादित्यपि समानम्, न हि सन्नात्मा केनचित्क्रियते ।

२७सु०- नन्वसतः कथं कर्मत्वम् । सतः कथं कार्यत्वमित्यपि समानम् । अनेन घटो जायत इत्यपि प्रत्युक्तम् ॥ तर्हि घटं करोतीत्यादेः कोऽर्थः । मृत्तिकां घटीकरोतीति । मृत्तिका घटीभवतीति ॥ असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् । तदात्मकस्योपादानस्याभावादिति ब्रूमः । अन्यथा सत उत्पत्तावात्माऽपि कुतो नोत्पद्यत इति समानम् ।

२८सु०- य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उत असम्बद्धमेवेति

पृष्टम् । तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा ।

आद्ये जनयतीत्येव नेष्यते, किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति ।

द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् । अत एव नातिप्रसङ्गः ॥ शक्तिश्च कारणानां सदसद्विषया, अन्यथा निर्विषयत्वापातात् । न हि सत् कर्तुं शक्यं भवति ।

२९सु०- यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम्, भेदाभेदाङ्गीकारात् । अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम्, न हि स्वयमेव स्वस्य धर्मो भवति । न हि उपचारोऽनुमानप्रवृत्तेरङ्गम्, अतिप्रसङ्गात् ।

३०सु०- कथं च तन्तुधर्मत्वं पटस्य । तन्तुविशेषणत्वमिति चेन्न, पुरुषादिविशे

षणे दण्डादौ व्यभिचारात् । तदाश्रितत्वमिति चेन्न, अभेदेनासिद्धिप्रसङ्गात्, कुण्डबदरादौ व्यभिचाराच्च । तदात्मकत्वमिति चेन्न, साध्याविशिष्टत्वापत्तेः । अभेदेन भेदाभावःसाध्यत इति चेन्न, भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात्, अभ्युपगमेऽपि बाधात् । एवमुपादानोपादेयभावोऽप्यसिद्ध एव; न हि स्वयमेवोपादानमुपादेयं चेति युक्तम्, करणत्वकर्मत्वयोर्भेदनियतत्वात् । संयोगाप्राप्त्यभावश्चात्यन्ताभेदाभावादुपपत्स्यते । गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति ।

३१सु०- एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् । अभिव्यक्तिधर्मकत्वं चेद्युष्माकमि ति च निरस्तम् । तदिदमुक्तं केन वार्यत इति ।

३२सु०- तदेवं पटाद्युत्पत्तौ चेतनास्य कुविन्दादेः प्रवृत्तेरुपलम्भात्, तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमि त्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमि ति सूत्रं व्याख्यातुं पीठमारचयति न चेति ।

अनु०- न च काचित्प्रमोक्तार्थे

न केवलमस्मन्मते प्रमाणसद्भावः, किन्तु साङ्ख्योक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे, किमपि प्रमाणं न अस्ति ।

३३सु०- तथा हि । किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमोऽथवाऽनुमानं वा ।

नाद्यः, तद्ध्यस्मदादीनां वा योगिनां वा । न प्रथमः, अस्यार्थस्यातीन्द्रियत्वात् । न द्वितीयः, असिद्धेः । न हि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।

३४सु०- नाप्यागमः, स ह्यपौरुषेयः पौरुषेयो वा स्यात् । नाद्य इत्याह श्रुतिरेवेति ।

अनु०- श्रुतिरेव प्रमा हि नः

श्रुतिः नः अस्माकमेव मते प्रमा हि । सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति, प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति । तथा हि । यः सर्वज्ञः सर्ववित् , यो योनिमधितिष्ठत्येक इत्यादि । तथा च श्रुतिः परस्य प्रतिपक्षभूतैव ।

३५सु०- पौरुषेयोऽपि किं स्मृतीतिहासपुराणलक्षणः, उत साङ्ख्याचार्यप्रणीतः । नाद्यः, तस्याप्यस्मन्मतानुसारित्वात्, प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः इत्यादिवचनात् । न द्वितीयः, तत्प्रामाण्यस्यासम्मतेः । आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत् तत्राह आप्तत्वमिति ।

अनु०- आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते

उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या, श्रुतिविरुद्धभाषित्वादित्यर्थः । वक्तुः साङ्ख्यप्रणेतुः ।

यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण । साङ्ख्यशास्त्रेऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवोऽर्थाः प्रतिपाद्यन्ते ।

अथवा अविप्रलम्भस्तज्ज्ञानमित्याद्युक्तमार्गेण आप्तत्वनिश्चायकप्रमाणाभावात् इत्यर्थः ।

कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।

तथैवासुरये सर्ववेदार्थपरिबृंहितम् ।

सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ।

साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितमि

ति पुराणोक्तमार्गेणेति वा ।

ऋषिं प्रसूतं कपिलमि त्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् ।

एतेनैव आगमाद्योगिप्रत्यक्षावगम इत्यपाकृतम् ।

३६सु०- न केवलमुक्तमार्गेण आप्तत्वानुपपत्तिः, किन्नामानुपपन्नभाषित्वादपीत्याह अप्रामाण्येति ।

अनु०- अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि

अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति । ज्ञानानां प्रामाण्यमप्रामाण्यं च ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्ख्यः, तच्चानुपपन्नमित्यतोऽप्यसौ नाप्तः ।

३७सु०- कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह मायिवदिति ।

अनु०- मायिवत् । स्वोक्ताखिलनिषेधी स्यात्

प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्ख्यस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात्, परस्परविरोधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते, निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा ।

३८सु०- आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी; सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य स्वयमेव असद्विलक्षणमिति निषेधात्, असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात्; तथा साङ्ख्योऽपि स्वोक्ताखिलनिषेधी स्यात् । तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिकोऽर्थो यो लब्धः स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात्, अयाथार्थ्यस्य विषयविपर्यासानतिरेकात् ।

उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः ।

३९सु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु ।

४०सु०- नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिकोऽर्थस्तावत्सिद्ध्यतीत्यत आह न चेति ।

अनु०- न च किञ्चित्प्रसिद्ध्यति

न हि परस्परविरोधे किमपि सिद्ध्यतीति भावः । तर्हि प्रामाण्यस्य का गतिरिति चेत्, अप्रामाण्येऽपि दीयतां दृष्टिः ।

४१सु०- द्वितीये दोषमाह न चेति । ज्ञानं हि यथावस्थितमयथावस्थितं वाऽर्थं विषयीकुर्यात्, तृतीयप्रकारानिरूपणात् । तथा च प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात्, एवञ्च न साङ्ख्यवचनात् किञ्चित् प्रसिद्ध्यतीति ।

४२सु०- तृतीये तु जगदान्ध्यमेव स्यादित्याह न चेति ।

४३सु०- स्यादेतत्; यदा ज्ञानकरणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते, यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते; न हि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति, येनोक्तदोषः स्यादिति ।

उच्यते । किमर्थमित्थं कल्प्यते । ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत्, तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या । विरोधभयादिति चेत्, करणेऽप्युभयशक्तिविरोधात् कुतो न बिभेषि ।

४४सु०- यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव । प्रकृते च तथाऽभ्युपगमे द्वयोरपि परतस्त्वापत्तिः ।

किञ्च वचने कौ गुणदोषौ । आप्तानाप्तत्वप्रणीतत्वे इति चेत्, तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत नोत्पद्येत वा । अनाप्ताप्रणीतत्वं गुण इति चेत्, तर्ह्याप्ताप्रणीतत्वं दोषोऽपि किन्न स्यादिति स एव प्रसङ्गः ।

४५सु०- एतेन साङ्ख्याचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेने त्यपि निरस्तम्, अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः । अथ महाजनपरिग्रहात् तत्प्रामाण्यनिश्चय इति चेन्न; पूज्यार्थत्वेऽसिद्धेः, बह्वर्थत्वे सव्यभिचारत्वात् सन्दिग्धासिद्धेश्चेति ।

४६सु०- मा भूत् प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम्, मा च भूदागमः, अनुमानं तु भविष्यति । यथोक्तम्, भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्ये ति ।

अयमर्थः । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् ।

यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते, तस्मिन्नेवाव्यक्तभवन्ति; एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते । सन्त्येव च पृथिव्यादीनि कारणात् तन्मात्रात् । सन्त्येव च तन्मात्राण्यहङ्कारात् । सन्नेव चाहङ्कारो महतः । सदेव च महत्परमाव्यक्तादिति । सोऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे ॥ मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तोऽव्यक्तभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति । एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति । महान्प्रकृतिं स्वकारणं विशति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य ॥ तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्याम् अव्यक्तं कारणमस्तीति ।

इतश्च, शक्तितः प्रवृत्तेः । कारणशक्तितो हि कार्यं प्रवर्तते, अशक्तात्कारणात्कार्यस्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं भेदानां परिमाणादिति । महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः । इतश्च, समन्वयात् । सुखदुःखमोहसमन्वितानि हि कार्याणि । यानि च यद्रूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि, यथा मृद्धेमरूप

मनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः । तस्मादस्ति सुखदुःखमोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाऽव्यक्तं भेदानामिति ।

४७सु०- यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति तथाऽपि महदादिकारणतयैव तदेतैः सिद्ध्यतीति ।

४८सु०- अत्र वक्तव्यम् । किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्ध्यति, उत स्वातन्त्र्येणा(पीति)पि । आद्ये सिद्धसाधनम्, अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात्, शरीररूपके ति ह्युक्तम् । द्वितीयं निराकर्तुं सूत्रम् रचनानुपपत्तेश्च नानुमानमिति । तद्व्याचष्टे इदमिति ।

अनु०- इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् । इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥

महदादिकार्यमित्यर्थः । अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम् । प्रतिपन्नवत् । प्रधानवत् । आस्तां तावद्दूषणान्तरम ् इति प्रत्यनुमानेन एव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधिकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः ।

मूलानुमेति वाऽऽवर्तनीयम् । किम् आक्षेपे । अकार्यत्वमत्रोपाधिरिति चेन्न; पटादौ साध्याव्याप्तेः, पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकार्यत्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् ।

४९सु०- एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेन अनुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् । इदानीं तामेव विवृण्वन् प्रतिपक्षान्तरमाह स्वतन्त्रेति ।

अनु०- स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः

च शब्दोऽनुमानान्तरसमुच्चये । कुत एव इत्यन्वयः । अयमत्र प्रयोगः । प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात्, तन्त्वादिवदिति ।

५०सु०- नन्वचेतनत्वेऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः, तथा च विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह अचेतनत्वमिति ।

अनु०- अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम्

तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्क्यमाने स्ववचनस्वक्रियास्वन्यायप्रमाण•न्तरविरोधो न प्रादुष्यात् । न हि कश्चिदेवं शङ्कते, मूकोऽपि वक्ता किन्न स्यात् , शब्दोऽप्रतिपादकः किन्न भवेत् , अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् , अग्निरनुष्णः कुतो न भवेदि ति । न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपगच्छति । तस्मादेवमाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः । प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम्, स्वव्याहतं, प्रमाणविरुद्धं च । तस्मादचेतनत्वेऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति ।

५१सु०- नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः; न हि स्वातन्त्र्यं नाम चैतन्यम्, नाप्यचेतनत्वं नामास्वातन्त्र्यम्; कथं च प्रमाणविरोधः; इत्यतः स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति स्वेच्छेति ।

अनु०-स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः

प्रवृत्ताविति शेषः । विदो विदुः इत्यनेन सकलविद्वत्सम्मतमेतदित्याह । अत

एव हि स्वातन्त्र्याभावात् वृक्षस्तिष्ठती त्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः ।

५२सु०- तथाऽपि कथं स्वव्याहतिः; न ह्यचेतनत्वं नामेच्छाविरहः, किन्नाम चैतन्यविरह; इत्यत आह कुत इति ।

अनु०- कुत इच्छाऽचेतनस्य

अचेतनस्येच्छा कुतः कारणाज्जायते, न कुतश्चित् । ज्ञानमेव हीच्छाया जनकमित्यर्थः । तथाऽपि किमित्यत आह सेच्छं चेदिति ।

अनु०- सेच्छं चेत् किमचेतनम्

सेच्छं चेत् अङ्गीकृतं तदा तत् अचेतनं किं चेतनमेवेत्यर्थः ।

एतदुक्तं भवति । अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताऽचेतनमिच्छावदस्त्वित्युक्तं स्यात्, स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् । अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात्, अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात्, कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् । अचेतनं चेतनमिति च स्फुटा व्याहतिरिति ।

५३सु०- एतेनैतदपि निरस्तम्, अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादि ति । न ह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत् साक्षाद्विरोधोऽभिहितः, किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा ।

अनेनैव स्वातन्त्र्याङ्गीकारेऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति ।

५४सु०- एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति इच्छामीति ।

अनु०- इच्छाम्यहमिति ह्येव निजानुभवरोधतः । अचेतनेच्छापगता

हि शब्देनास्यानुभवस्य विश्वजनप्रसिद्धत्वं सूचयति । एव शब्दस्य अपगतैव इत्यन्वयः । निजानुभवः साक्ष्यनुभवः ।

अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते । न च सा द्विकर्तृका सम्भवति, क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् । ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)द् अनुभवविरोधादचेतनस्येच्छाऽपगता नास्तीति यावत् । इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः ।

५५सु०- ननु नायमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् । तस्यापि निमित्तं भेदाग्रहः । आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति; किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात्, तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते । भेदाग्रहे च निमित्तं सन्निधानम् ।

यथोक्तम्, तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन इति । अतोऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह यदीति ।

अनु०- यदि भेदाग्रहोऽत्र च । कथं स न घटस्य स्यात्

यदि एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्र च व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा स भेदाग्रहो घटस्य किं (कथं) न स्यात् । व्यवहारहेतुरिति शेषः ।

इदमुक्तं भवति । स्वप्रकाशानुभवापलापदोषस्तावत् । व्यवहारे च निमित्तं

नास्ति । न च भेदाग्रहः, विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात्; अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति ।

५६सु०- ननु गृह्यमाणयोर्भेदाग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् । न च घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् । किमयं विशिष्टो भेदाग्रहोऽन्तःकरणस्य, उतात्मनः ।

नाद्यः; तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः, उपपत्तौ वा स कथ ं विशिष्टो भेदाग्रहो घटस्य न स्यात्, तथा च व्यवहारोऽपि स्यात् । नन्वन्तःकरणेऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत्; किं तस्य निमित्तम्; सन्निधानमिति चेत्, तर्हि सर्वगतात्मसन्निधानं घटेऽप्यस्तीति कथं स न घटस्य स्यात् ।

ननु न संयोगमात्रं निमित्तम्, किन्तूपकार्योपकारकभावे सति; स चास्त्यात्मान्तःकरणयोः, पुरुषस्य दर्शनार्थमि त्युक्तत्वात् इति चेत्; तर्हि घटोऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात् ।

द्वितीये व्यवहारोऽपि किमात्मन उतान्तःकरणस्य । नाद्यः, तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः, उपपत्तौ वा किमिच्छयाऽपराद्धम् । द्वितीयेऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत् कथं स न घटस्य स्यात् ।

५७सु०- किञ्च यदि भेदाग्रहात् अन्तःकरणधर्म एवेच्छा आत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा घटस्य अपि आत्मना भेदाग्रहात् पृथुबुध्नोदराकारोऽहमिति व्यवहारः कथं न स्यात् इति गूढाभिसन्धेरुत्तरम् ।

यद्वा अत्र च आत्मान्तःकरणयोश्च, स्फुटं प्रतिभासमानभेदयोरपीति हृदयम्, यदि भेदाग्रहः स्यात् तदा कथं स घटस्य आत्मनश्च न स्यात् इति योजना ।

अथवैवं वदन् प्रष्टव्यः, भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति । नेति पक्षे कथं स घटस्य आत्मना पटादिना वा न स्यात् इत्युत्तरम् ।

५८सु०- ननु भेदग्रहो भेदाग्रहविरोधी, स चास्ति घटे; इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वे ति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशङ्क्याह मन इति ।

अनु०- मनो म इति भेदतः । मनसोऽपि गृहीतत्वात्

भेदत इति तृतीयार्थे तसिः । यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसोऽपि भेदेन गृहीतत्वात् नात्मना भेदाग्रहः स्यात् । तथा च भेदाग्रहनिमित्तः अहमिच्छामी ति व्यवहार इत्यसत्, किन्त्वनुभवनिमित्त एव ।

अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम्, भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् । न ह्यविदितभेदं सम्बन्धितया गृह्यते, आत्मन्यपि प्रसङ्गात् ।

५९सु०- केन पुनः प्रमाणेन मनो गृह्यते । साक्षिणेति वदामः ।

६०सु०- तथा हि । न तावच्चक्षुरादिना तदवगमः, अरूपिद्रव्यत्वात्, चक्षुराद्यव्यापारेऽप्युपलब्धेः ।

६१सु०- न चानुमानेन, लिङ्गाभावात् । नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । तथा हि । बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाऽधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते । तेन ज्ञायतेऽस्त्येतेभ्योऽन्यत्सहकारि, यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ।

६२सु०- अत्र कश्चिदाह आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् । मनसः अतीन्द्रियसंयोगव्यापारे क्रमवति कारणान्तरशून्येऽनैकान्तिकं च । फलस्य च वृक्षात्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च । इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चे ति ।

तदयुक्तम् । दृष्टानुसारिणी हि कल्पना । कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः । तथा हि, युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम्, तस्मान्नैष कर्तृधर्मो युक्तः कल्पयितुम्, किन्तु दृष्टत्वाद्द्रव्यान्तरमेवाव्यापकम् ॥ अनैकान्त्यं तु नास्त्येव, तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति ।

६३सु०- अत्रोच्यते । अस्ति तावदविवेकिनामपि मनःप्रतीतिः, मम मनोऽन्यत्र गतमित्यादिव्यवहारात् । न च ते युगपज्ज्ञानानुत्पत्तिं जानन्ति, प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते । अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् । तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति ।

अस्तु तर्हि बुद्ध्यादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः ।

मैवम् । प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः, अनुमित्यादौ लिङ्गज्ञानादेः, स्मृतौ भावनायाः, सुखादाविष्टार्थोपलब्ध्यादेरिति । नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न, विभाग(ज)शब्दजशब्दे व्यभिचारात् । अश्रावणत्वेन हेतुविशेषणान्नेति चेत्; यथा तर्हि विभागादिजशब्दे कारणान्तरदर्शनात् तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम्, असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् । निमित्तं तदिति चेन्न, असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति ।

न च सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः, साक्षिसिद्धतयाऽन्यथासिद्धेः ।

एवमनुमानान्तरमपि निरसनीयम् ।

६४सु०- न चागमो मनसि प्रमाणम् । जातिबधिराणामपि तत्प्रत्ययात् ।

तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः । तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमिति न भेदाग्रहनिबन्धनो व्यवहार इति ।

६५सु०- ननु च कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एवे ति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत् प्रतीयते । न च श्रौतेनार्थेनान्यथा भवितुं युक्तम् । अतो बलवद्बाधकोपनिपातात् इच्छाम्यहमि ति भेदाग्रहनिमित्तं व्यवहारमात्रमेतदङ्गीकरणीयम् । न त्वात्मन इच्छासम्बन्धानुभवः । न च मे मन इति भेदग्रहात् तदग्रहासम्भवः, मे चैतन्यमि तिवद्व्यवहारमात्रत्वात् । न चोक्तानुपपत्तिः ।

सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते । सा चांशत्रयवती । पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः । भवति ह्यहमिदं करोमीति । तत्र अहमि ति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः । इदमि ति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्पणस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः । एषैव दिगहमिच्छामीत्यत्रापीति ।

अत आह उभयेति ।

अनु०- उभयात्मकता यतः । कामस्य तु मनः कामः

तुशब्दोऽवधारणे । तत इत्युपस्कर्तव्यम् । यतः कारणात् कामस्योभयात्मकता अस्ति, आत्मधर्मता मनोधर्मता च । तत एव मनः काम इति श्रुतिरुपपद्यते ।

इदमुक्तं भवति । भवेदिदं भेदाग्रहकल्पनम्, यद्यात्मनः कामवत्त्वं पारमार्थिकं

न स्यात् । न चैतदस्ति, बाधकाभावात् । द्विविधो हि कामोऽस्ति, एक आत्मधर्मोऽपरोऽन्तःकरणधर्मः । तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते । न हि देवदत्तो गोमानि ति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति ।

६६सु०- स्यादेतदेवम्, यदि कामद्वैविध्यं प्रमितं स्यात् । एतदेव कुत इति चेत्, श्रुत्यनुभवबलात् तावत् । प्रकारसहस्रानुसरणेऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् । प्रमाणान्तरं चाह प्रियेति ।

अनु०- प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य

प्रियम् इत्यात्यन्तिकेष्टमुच्यते अप्रियमिति च तात्कालिकेष्टम् । विषयेण विषयिण उपलक्षणम् । अस्य कामस्य ।

अयमर्थः । अस्ति तावदास्तिककामुकस्य पुरुषस्य स्त्रक्चन्दनवनितादौ इदं मे स्यादित्येकतः कामः, अन्यतस्त्यजेयमिति । न चैक एवायम्, विरुद्धरूपत्वात् । न च द्वावपि मनोधर्मौ, यौगपद्यात्; युगपत्सजातीयधर्मजननायोगात् । न च यौगपद्यं नास्ति, अनुभवसिद्धत्वात्, बाधकाभावाच्च । तत्र योऽप्रियविषयः सोऽन्तःकरणधर्मः, यस्तु प्रियविषयः स आत्मधर्म इति ।

यद्वा प्रियाप्रिय शब्दाभ्यां मुक्तिसंसारावुच्येते । तत्सम्बन्धिविभेदेन काम द्वैविध्यं दृश्यत इति । अस्ति तावत्संसारे प्रचुरोऽयमन्तःकरणवृत्तिरूपः कामः । अस्ति चासौ मुक्तौ, स यदि पितृलोककामो भवती त्यादिश्रुतेः । न चैक एवायम्, मुक्तावन्तःकरणविलयात् । तथा चासावात्मधर्मोऽभ्युपेयः । न चागन्तुकधर्मसम्बन्धो मुक्तावि ति प्रागपि कामद्वैविध्यं सिद्ध्यतीति ।

६७सु०- श्रुतिबाधपरिहारस्य प्रयोजनमाह तस्मादिति ।

अनु०- तस्माद् भेदाग्रहः कुतः

श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात् कल्पनीयः । कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् । न कुतोऽपीत्यर्थः ।

६८सु०- अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानानामपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः; दृष्टान्तश्च साध्यविकलः, अचेतनस्वातन्त्र्यस्य क्काप्यसम्मतेरिति ।

६९सु०- सूत्रार्थमुपसंहरन् नानुमानमि त्येतत्प्रकारान्तरेण व्याचष्टे रचनेति ।

अनु०- रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ

तत् तस्मात् । सर्वज्ञानुमागतम् अनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादि ति सर्वज्ञसाधकानुमयाऽवगतम् । एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् ।

यद्वाऽनुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमा उच्यते ।

व्याख्यानान्तरस्य चेदं प्रयोजनम्, यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्ख्याचार्यवचनेन वाऽयमर्थः सिद्ध्यती ति तदपि सूत्रसूचितमेवेति ज्ञापनम् ।

यदा तु सर्वज्ञा भिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकया अनुमया अवगतम् अनुमानमिति योजना, तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् । जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम् ।

७०सु०- स्यादेतत् । परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते, तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च । तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव न तु स्वेच्छानुसारित्वम्, येनोक्तदोषः स्यात् । तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् । न चाचेतनस्य तदसम्भावितम्, अचेतनेष्वपि पयोऽम्बुप्रभृतिषु दर्शनात् । अचेतनमेव हि पयोऽन्यानधिष्ठितमपि वत्सविवृद्ध्यर्थं प्रवर्तते, दधिभावं चापद्यते; घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति, नादेयं चापसर्पति; तृणं च गवा जग्धं क्षीरीभवति; अयश्चायस्कान्तमभिसर्पति । न च इदं नाचेतनवशमि त्यादिप्रमाणविरोधः, तस्योक्तस्थानेष्वेवानैकान्त्यात् । न चेदं ब्रह्मवादिनां सम्मतम्, येन सिद्धसाधनं स्यात् इत्याशङ्कापरिहारार्थं सूत्रम् ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ इति ।

ब्र०सू०-ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥

तद्व्याचष्टे पयोऽम्ब्वादि चेति ।

अनु०-पयोम्ब्वादि च नोपमा । एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ॥

उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः । यथाऽत्र साध्यं व्यभिचरति तथा पक्षेऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् । तदत्र न युज्यते, चेतनाचेतनस्यैतत्प्रशास्तिवचनात् । पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः । आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे, द्वितीयस्तु न केवलमचेतनस्य किन्तूभयस्यापीति ।

एतदुक्तं भवति । कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते, असम्भावितत्वात्, उक्तानुमानविरुद्धत्वाच्च ।

७१सु०- यदुक्तमत्र पयोम्ब्वादिवदिति, तदसत्, तत्रापीश्वरप्रेरणाया एतस्य वा अक्षरस्य इत्यादिश्रुतिसिद्धत्वात् । अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावोऽपि परास्त इति ।

सूत्रे पयोऽम्बुवदित्युक्तेऽपि नोदाहरणमादरणीयम् । स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य व्यतिरेकानवस्थितेश्चानपेक्षत्वात् इति उत्तरसूत्रस्यापि व्याख्यानाय आदि पदप्रयोगः ।

यद्वा पयोऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्य आदि पदं प्रयुक्तम्; उत्तरसूत्रं तु कैमुत्यार्थम्, चेतनप्रवृत्तेरपि ईश्वरव्यतिरेकेण अनवस्थितेः अचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति । तद्व्याख्यानाय चेतनाचेतनस्य च इत्युक्तम् ।

७२सु०- किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः । सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते । सत्त्वादयश्च परिमिता एव । यथोक्तम् । अबग्नीरनभोऽहङ्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैः इति ।

न च प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् । न च परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति । सार्वत्रिककार्यानुत्पत्तिरिति चेन्न; सर्वत्र कार्यसद्भावे प्रमाणाभावात्, भावेऽप्यनेकैस्तदुत्पत्त्युपपत्तेः । युक्तं च परिमितानामेव कारणत्वम्, तन्त्वादिषु दर्शनात्, अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च । अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।

समन्वयादित्यप्यसत्, यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमि त्यस्या व्याप्तेरव्यक्ताद्व्यक्तजन्माङ्गीकारेणैव भग्नत्वात् । शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम्; अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरि त्यस्य सिद्धौ हि तथा स्यात्, तच्च सत्कार्यवादनिर्वाह्यमिति । अत एव विभागाविभागावपि निरस्तौ, विभागाविभागयोरेव सत्कार्यवादसिद्ध्यधीनयोरसत्त्वात् । स्वप्रक्रियामात्रेणार्थसिद्धौ स्थूलकार्यस्य लोष्ठादेरि त्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः ।

७३सु०- नन्विदं घट्टकुटीप्रभातमनुसरति । इच्छावत्त्वमात्मन एव न तु जडस्ये त्यत्र हि प्रथममनुभवः प्रमाणीकृतः । तत्र च श्रुतिविरोधे चोदितेऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् । एवञ्च आत्मन एवेच्छावत्त्वं न त्वचेतनस्ये ति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति द्वैविध्येऽपीति ।

अनु०- द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥

कामादेर्द्वैविध्येऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः प्रमाणात् अपोदितुं शक्यते न कुतोऽपीति योजना । श्रुत्यपेक्षया आदि पदग्रहणम् । अपोदितुमिति सम्प्रसारणं छान्दसम् ।

अयमत्रोत्तरक्रमः । सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति । तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः, अहं कामय इति साक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामं प्रत्युपादानत्वमेव, । यथा हि क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव ।

न च वाच्यं मनस एव कामस्वामित्वम्, अहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति; बाधकप्रमाणाभावात् । न च कौटस्थ्यं बाधकम्; अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात्, स्वामित्वमात्रेण च कौटस्थ्याविघातात्, अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति । तदिदमुक्तं क्कचिदिति ।

७४सु०- नन्वस्तु कामस्वामित्वमात्मन एव, मा भूच्च मनसः; तथाऽपि पूर्वोत्तरविरोधस्तदवस्थ एव; इच्छास्वामित्वाभावेऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्वादित्यत आह इच्छेति ।

अनु०- इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं न चापरम्

अचेतनेच्छापगते त्यादौ इच्छास्वामित्वमेवेच्छावत्त्वमुक्तम्, न च अपरम् इच्छोपादानत्वलक्षणम् ।

एतदुक्तं भवति । स्यादत्र पूर्वापरविरोधः, यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत । न चैतदस्ति । पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन

एव न त्वचेतनस्येत्युक्तम्, तस्यैव कर्तृत्वोपयोगात्; श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्त्वमिदानीं मनसोऽभ्युपगम्यत; इति कुतो विरोध इति ।

७५सु०- यद्वा कामस्य द्वैविध्येन मनसोऽपि कामवत्त्वात् कर्तृत्वमुपपत्स्यत इत्यत आह द्वैविध्येऽपीति । अनु. ६७२० पृष्ठे द्रष्टव्यम्) । द्वयोः कामवत्त्वेऽपि कामस्वामित्वमात्मन एव न तु मनसः, निरपवादसाक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामोपादानत्वमेवेति । ततः किमित्यत आह इच्छेति । (अनु. ६७२५ पृष्ठे द्रष्टव्यम्) । इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम्, न पुनरिच्छोपादानत्वलक्षणम् । यो हीच्छति स प्रयतते, न तु यदिच्छा भवति तदिति ।

तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य, तस्येच्छोपादानत्वेऽपीच्छास्वामित्वाभावादिति ।

७६सु०- स्यादेतत् । स्वं नाम तद्भवति, यद्यथेष्टविनियोगयोग्यम्, यथा गवादि । स्वामी च स उच्यते यो यथेष्टविनियोक्ता । न चेच्छात्मनोरेतदस्ति; यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतोऽपि (इच्छा) सा आविर्भवति, प्रयतमानस्यापि विहितेच्छा नोदेति; तत्कथमिच्छास्वमित्वमात्मनः स्यादि ति चेत्; किमिच्छा आत्मनः सर्वथापि वशा न भवति इत्युच्यते, उत किञ्चिद्वशत्वमङ्गीक्रियते । नाद्यः; अनुभवविरोधात्, इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च । द्वितीये तु सिद्धं स्वामित्वमित्याह किञ्चिदिति ।

अनु०- किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत्

प्रबलविरोधिवशादत्यन्तवशत्वाभावेऽपीच्छायाः किञ्चित् आत्म वशत्व मात्रेण अपि तां प्रत्यात्मनः स्वामित्वं भवेदे(वत्ये)व । कथम् । यथाऽत्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टं तथैव, अन्यथा तदपि न स्यादिति ।

७७सु०- नन्वेवं सत्येकं सन्धि(दि)त्सतो(परं प्रच्य)न्यच्च्यवत इत्यापन्नम् । अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं न तु मनस इति समर्थितम्, तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात्, तथा चेतरव्यपदेशादि त्यधिकरणविरोध इत्यत आह सर्वात्मेति ।

अनु०- सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः

यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्म ना तन्त्र मधीनं कामादि यस्यासौ तथोक्तः । सर्वेषामात्मनां तन्त्रं साधनं यः कामः तस्यादिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम् ।

एतदुक्तं भवति । जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः । तत्रेश्वरोऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति । जीवस्तु तद्दत्तस्वाम्योऽवतिष्ठते, यथोक्तं बुद्धिर्ज्ञानमि त्यादि । तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च, जीवस्य त्वमुख्यमेवेति । तथा चोक्तम् स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोग इति ।

७८सु०- यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति । तदयुक्तम् । कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्याऽपौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादि त्यत आह न चेति ।

अनु०- न चानुभवगं कामस्वामित्वं वेदवागपि । शक्ताऽपवदितुं

कामस्वामित्वम् आत्मन इति शेषः ।

कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे । कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् ।

स च तानात्मस्वामिकानेव विषयीकरोति । न चोपजीवकमुपजीव्यमपवदितुं शक्नोति । वेदस्योत्सर्गतो बलवत्त्वेऽप्युपजीव्यापेक्षया दौर्बल्यमेव । यथा आहुः,

प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।

उपजीव्यविरोधे तु न प्रामाण्यममुष्य च इति ।

अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति ।

७९सु०- तर्हि श्रुतेः का गतिरित्यत आह तस्मादिति ।

अनु०- तस्मात्सा तदन्याभिधायिनी

उपजीव्यत्वेन बलवताऽनुभवेन बाधितत्वादित्यर्थः । तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी ।

८०सु०- न केवलमुपजीव्यबाधात् किन्तूपपत्तिविरोधाच्चेत्याह मोक्षकाम इति ।

अनु०- मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः

यदि कामोऽन्तःकरणकर्तृकः स्यात् तदा मोक्षकामोऽप्यन्तःकरणस्यैव स्यात् । मोक्षस्तु आत्मन इति च प्रसिद्धम् । तथा च यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इत्युक्तं स्यात् । कामस्यान्यगतत्वे साधनानुष्ठाताऽप्यन्य एवेत्यङ्गीकर्तव्यम्, फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः । तथा च अकृताभ्यागमकृतविप्रणाशप्रसङ्गः ।

८१सु०- ननु नायं दोषः, पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् । दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति । अत्रेदमुपतिष्ठते मोक्षकामस्येति ।

अनु०- मोक्षकामस्य किं तेन

उपलक्षणमेतत् । साधनानुष्ठातेत्यपि द्रष्टव्यम् ।

परप्रयोजनार्थं प्रवर्तमानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः । तथाऽत्रापि प्रकृतेः प्रयोजनेन भाव्यम् । न च तदस्तीत्यर्थः ।

८२सु०- स्यादेतत् । स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यथा कृपालुत्वेन भवतामीश्वरस्ये त्यत आह स्वनाशार्थं चेति ।

अनु०- स्वनाशार्थं च को यतेत्

न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते । प्रकृतिलयो हि मोक्षो नाम । न हि कोऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति ।

यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम्, तथाऽपि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् ।

८३सु०- नन्विदमयुक्तम् । चेतनो हि स्वप्रयोजनमनुसन्दध्यात्, स्वनाशाच्च

बिभ्यत् परावर्तेत; प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति । एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत ॥ स्वभावोऽयं प्रधानस्येति चेत् । तर्हि कदाऽपि संसारोऽस्य न स्यात् ॥ भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत्, तर्हि मोक्षाभावः ॥ उभयस्वभावत्वे तूभयं न स्यात्, विरोधात् । अविरोधे वा युगपदुभयं स्यात्, व्यवस्थापकाभावात् ॥ भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न, भोगानामानन्त्येनापरिसमाप्तेरिति ।

८४सु०- अयं प्रसङ्गार्थः । यद्यात्मा न कामकर्ता स्यात् तदा मुमुक्षुरपि न स्यात्, ततश्च न तदर्थं प्रयतेत, तथा च न मुच्येत; परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति ।

बहुलमेतन्निदर्शनमि ति स्मरणात् यतेदिति परस्मैपदम् । तथा चाह चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमि ति ।

८५सु०- एवमनीश्वरसाङ्ख्यमतं साधारणदूषणैरपाकृत्य, ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते, तन्मतं दूषयति कर्तृत्वमिति ।

अनु०- कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते

यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति । येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात् तद्वैयधिकरण्याङ्गीकारेऽनुभवविरोध इत्यर्थः ।

भ्रान्तोऽयमनुभव इति चेन्न, बाधकाभावादित्याह विभागे चेति ।

अनु०- विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत्

तयोः कर्तृत्वभोक्तृत्वयोः । विभागे व्यधिकरणत्वे । अकृताभ्यागमकृतविनाशौ चैवं सति स्यातामिति ।

८६सु०- यदुक्तमात्मनो मोक्षो न स्यादिति, तदिष्टापादनम्, प्रकृतेरेव मोक्षाभ्युपगमात् । न च बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः बन्धस्यापि प्रकृतिगतत्वादि ति चेन्न, सकलश्रुतिस्मृतीतिहासपुराणानुभवैर्बन्धमोक्षयोः आत्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति सर्वेति ।

अनु०- सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् । मायावाद्युपमां यायात्

सर्वमानविरोध एव या प्रधान दुर्दीक्षा दुष्टोऽनुष्ठानसङ्कल्पः, तया दीक्षितोऽयं तु साङ्ख्यो मायावादिनामुपमात्वं प्राप्नुयात् । तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्ख्योऽयं दृष्टान्तभावमापद्यत इति ।

८७सु०- यत्पुरुषबहुत्वं साङ्ख्येनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव । जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम्, न तु स्वरूपे कश्चिदस्ति परस्परतो विशेषः । मायावादिनोऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव । न च प्रपञ्चसत्यत्वं विशेषः, कारणमात्रत्वाभ्युपगमेन कार्यप्रपञ्चस्य साङ्ख्येन निरस्तत्वादिति ।

८८सु०- याऽपि साङ्ख्यपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया साऽपि सर्वप्रमाणविरुद्धेत्युक्तं भवति ।

८९सु०- न केवलं साङ्ख्यस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृताऽपि सूचितमित्याह तदिति ।

अनु०- तत् चशब्दान्निराकृतः ॥

तस्मान्मायावादिसदृशत्वादेव हि साङ्ख्यो भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत् इति प्राक् पराकृतेन मायावादिना रचनानुपपत्तेश्च नानुमानम् इति चशब्देन समुच्चित्य निराकृतः ।

यद्वा प्रमाणविरोधोऽपि नोत्सूत्रित इत्यनेनाह ।

तस्मात् सर्वमानविरोधित्वादेव । चशब्दात् सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः ॥

९०सु०- इदं सूत्रं केचिदित्थं व्याचक्षते यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति, एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते । न तृणादिवत् स्वयमेव प्रधानस्य परिणामो वक्तव्यः, यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति । कुतः । अन्यत्रानडुहोपभुक्ते तदभावादि ति । अत्राशङ्कैव तावदनुपपन्ना; पयोऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात्, प्रत्युदाहरणं च सूत्रप्रणयनायोगात् । परिहारोऽप्ययमनुपपन्नः; गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात्, न पुनरीश्वरापेक्षत्वम् । अतो नायं सूत्रार्थः, किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति साङ्ख्यस्त्विति ।

अनु०- साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥

साङ्ख्यमतस्य निरस्तत्वात् किं पुनरुपन्यासेनेत्यतः अस्य मतस्य ततो विशेषं तुशब्देन सूचयति । तमेव विशेषं व्यनक्ति सेश्वर इति । सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तं क्षेत्रेति । तु शब्दोऽवधारणार्थोऽत्राप्यन्वीयते ।

यद्यपि सेश्वर इत्यनेनैव ईश्वरोऽस्तीति ब्रूत इति सिद्धम्, तथाऽपि तदनु

वादेन विशेषणविधानमेवैतत् य ईश्वरोऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति । क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्र मुपादानं प्रकृतिः । तदनुग्रहशक्ति रेवेश्वरस्य तेनाभ्युपगम्यते । अतो निराकरणीय एवासाविति ।

सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तं स्वयम्भात इति । स्वयमिन्द्रियाद्यनपेक्षमेव, भातः कर्तरि क्तः । ततश्च सर्वज्ञ इति लभ्यते ॥

ईश्वरत्वोपपादकं विशेषणान्तरमाह क्लेशेति । क्लेशकर्मविपाकाशयवर्जित इत्यर्थः । तथा चाह पतञ्जलिः, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति, तथा निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तकोऽनुग्राहकश्चे ति ।

तत्र अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अनात्मन्यात्मबुद्धिः

अविद्या । इदं मदीयमित्यभिमानः अस्मिता । विषयेष्वासक्त रागः । कोपो द्वेषः । भयम् अभिनिवेशः । एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहः तामिस्रोऽन्धतामिस्र इति व्यवह्रियन्ते । वार्षगण्यस्त्वेतानविद्येत्येवाह ।

कर्म इति विधिनिषेधावुच्येते । आशय शब्देन धर्माधर्मौ । विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति ।

इति शब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।

९१सु०- वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह क्षेत्रेति ।

अनु०- क्षेत्रशक्तिमती सैव प्रकृतिः

या जगदुपादानं सा प्रकृतिरेव उपादानत्व शक्तिमतीति ब्रूते । न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् ।

व्यावर्त्यान्तरमाह बीजेति ।

अनु०- बीजशक्तिमान् । जीवः, पर्जन्यवत्

अत्रापि एव इति सम्बध्यते । शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः । जीव एव तद्वानिति ब्रूते । न तु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् ।

यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह पर्जन्यवदिति । यथा हि पृथिव्याः कमलादिबीजानां चोपादानत्वबीजत्वशक्त यद्यपि स्वायत्ते तथाऽप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम्, तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वेऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।

तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह दैवेति ।

अनु०- दैवशक्तिमानीश्वरः स्मृतः

दैव शब्दोऽदृष्टस्वरूपत्वमाह । तेनान्वयव्यतिरेकाविषयत्वं लक्षयति ।

तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहकोऽङ्गीकरणीय इत्यत उक्तं स्मृत इति । मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि त्यादाविति शेषः । स्मृत इत्युपलक्षणम्, श्रुत इत्यपि ग्राह्यम् ।

प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह पृथिवीवदिति ।

अनु०- पृथिवीवत्प्रधानं तत्

यथा पृथिव्याः स्वायत्तोपादानत्वशक्तिः तथा, तत् तस्मात् उपादानत्वात्, प्रधानम् अपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः । उपलक्षणं चैतत् । कमलादिबीजवत् बीजत्वाज्जीवोऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।

९२सु०- ननु यथा लोके कमलादिबीजानां कश्चिदावपनकर्ताऽस्ति तथाऽत्रापि तत्स्थानीयेन केनापि भाव्यम्, न चासावन्योऽस्ति परमेश्वरात्; तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह जीव इति ।

अनु०- जीवः सन्निधिमात्रतः । बीजावपनकर्तैवेति

दृश्यते खल्वपत्यजीवो बीजभूतः, पितृजीवश्चावपनकर्तृस्थानीयः । तस्मात् किमीश्वरस्य तच्छक्तिकल्पनया । विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः ।

नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारेऽपसिद्धान्तः स्यात्, साङ्ख्यैर्जीवस्य कर्तृत्वानभ्युपगमात्; इत्यत उक्तं सन्निधिमात्रत इति । शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकर्त्री, तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति ।

९३सु०- एवमुपन्यस्तमतनिरासार्थं सूत्रमवतारयति अत्रेति ।

अनु०- अत्र प्राह स्वयं प्रभुः

अत्र एतन्मतविषये दूषणं प्राह इत्यर्थः । स्वयं साक्षात् नोपचारेण । प्रभुः इति सूत्रकृतो दूषणसामर्थ्यमाचष्टे ।

सूत्रं व्याचष्टे अन्यत्रेति ।

अनु०- अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येण

अन्यत्र प्रकृतौ, पुरुषे, तथा पृथिव्यां कमलादिबीजे च । काऽपीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्च इत्यर्थः । कथं तर्ह्युपादानत्वादिकमित्यत उक्तं स्वातन्त्र्येणेति ।

कुतो नास्तीत्यत आह ईशेति ।

अनु०- ईश एव हि । शक्तस्ताः प्रेरयत्यञ्जः

यस्मात् ईश एव ताः प्रधानादि शक्तः प्रेरयति इति श्रुत्यादिप्रसिद्धम्, तस्मात् अन्यत्र काऽपि शक्तिः स्वातन्त्र्येण नास्ति इति ।

न च प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्ता इत्युक्तम् अञ्ज इति । क्रियाविशेषणमेतत् । तदनेन परकयानुमानस्य बाधितविषयत्वं, दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।

९४सु०- न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः, परमेश्वरायत्तशक्तित्वं च; किं तर्हीत्यतः च शब्दसमुच्चितमर्थमाह तदधीनाश्चेति ।

अनु०- तदधीनाश्च सर्वदा ।सत्ता प्रधानपुरुषशक्तनां च प्रतीतयः । प्रवृत्तयश्च तास्सर्वाः

आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः, उत्तरावन्योन्यसमुच्चये ।

प्रधानपुरुषयोः तदीयानां शक्तनां च, सत्ता स्वरूपं, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्; ताः ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना । केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम्; तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति ।

९५सु०- नन्वेतदयुक्तम्; प्रधानादिसत्तादेर्नित्यत्वात्, नित्यस्य पराधीनताऽसम्भवात्; इत्यत आह नित्यमिति ।

अनु०- नित्यं नित्यात्मना यतः । यथाऽनित्यतयाऽनित्यं नित्यशक्त्या स्वयेश्वरः । नियामयति नित्यं च

यथा अनित्यं घटादिकम् अनित्यतया नियम्यते, तथा नित्यम् अपि नित्यात्मना नित्यं च सर्वदा एव ईश्वरो नियामयति । यत एवं तस्मादुक्तमुपपन्नमिति योजना ।

एतदुक्तं भवति । यथा हि घटादयोऽनित्य(त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति, तथात्वे चोत्पत्त्युत्तरक्षण एव विनाशप्रसङ्गात्; एवं नित्यस्यापि नित्यता यदि पराधीना तदा को दोषः । न चानित्यता पराधीनेति कदाचिद्घटादेर्नित्यता प्राप्ता, विनाशकारणोपनिपातध्रौव्यात् । तथा नित्यस्य नित्यतायाः पराधीनत्वेऽपि न जात्वनित्यताप्रसक्तिः, तन्नियमननियमादिति । तदिदमुक्तं नित्यं चेति ।

न चैतदलौकिकम्, नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात्, अनुवृत्तेर्नित्यतापादनानतिरेकात् । भवेदेतद(देवम)स्वरसनित्यस्य, न स्वरसनित्यस्येति चेन्न; ईश्वरातिरिक्तस्य तद्भावासम्मतेः ॥

इयांस्तु विशेषः । किञ्चिदस्मदायत्तनित्यत्वम्, किञ्चिच्चेश्वरायत्तनित्यत्वमिति । तदप्यस्मासु कस्मान्नायतते, तथाभूतं च कथमीश्वराधीनम्; इत्यत उक्तं नित्यशक्त्येति ।

प्रधानादिशक्तेः प्रकृतत्वात् तहणमिदमिति मन्दाशङ्कां वारयितुं स्वया इत्युक्तम् ।

९६सु०- यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवे ति, तत्कुत इत्यत आह नेति ।

अनु०- न ऋते त्वदिति श्रुतेः

न ऋते त्वत्क्रियते किञ्चनारे इति श्रुतेः । प्रागुक्तं प्रतिपत्तव्यमि ति शेषः । शक्तिरेव हि क्रियोच्यते ।

यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता, प्रमाणं तु तत्र किम्; इत्यत आह स्वभावेति ।

अनु०-स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेर्न सत्ताद्या अपि नारायणं विना

कर्म शब्देन धर्माधर्मव्यक्तयो गृह्यन्ते । क्रियाः परिस्पन्दाः । श्रुतिः वेदः । सन्तीति त्रिविधमपि सत्त्वं विवक्षितम् । सत्ताद्याः प्रधानादेः । नारायणं विना तत्प्रेरणां विना ।

९७सु०- तस्मात् अन्यत्र उपादानत्वादिशक्तेः अभावात्, तत्सत्तादेरपीश्वरायत्तत्वात् च, न,तृणादीनामुत्पत्तौ पर्जन्यस्य एव पृथिव्यनुग्राहकत्वम्, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्; किन्तु सर्वस्वातन्त्र्यमेव; इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव निरस्तम् । किं पुनः प्रयत्नेनेत्याशयवान् पूर्वमतेन सहैतस्य हेयतामुपसंहरति तदिति ।

अनु०-तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥

विन्ध्यः अनीश्वरः साङ्ख्यः । आदि पदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम्, तदवान्तरमतयोरपि निरस्तत्वात् ।

यद्वा पतञ्जलिविन्ध्यावदी यस्य तत्तथोक्तम् । पतञ्जलिनाऽङ्गीकृतोऽपीश्वरो अनी(निरी)श्वरकल्प एव । अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति ॥

९८सु०- केचिदिदं सूत्रमेवं व्याचक्षते प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम्, अथेदानीं प्रवृत्तेरभ्युपगमेऽपि तस्याः प्रयोजनाभावादि ति । तदयुक्तम् अभ्युपगमेऽपी त्येतावतो वैयर्थ्यात्, अर्थाभावाच्चे त्येतावतैव पूर्णत्वात् ।

किञ्च अर्थाभावेन किं साध्यम्; साङ्ख्यमतस्यासामञ्जस्यं वा, प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा । नाद्यः; व्यधिकरणत्वात्, कथञ्चिदेकाधिकरणतापादनेऽपि स्वमतेनानैकान्त्यात् ।

न द्वितीयः, अभ्युपगम(वाद)विरोधात्, न ह्यभ्युपगमवादेऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते । अनास्थां खलु तात्कालिकमभ्युपगमेन द्योतयन्ति, यथाऽस्तु शब्दो नित्योऽनित्यो वा, अनुशासनं तावत् कर्तव्यमिति । तस्मान्नायं सूत्रार्थः ।

९९सु०- किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः; किमीश्वरादिने त्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति चार्वाकैरिति ।

अनु०- चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्

चार्वी बुद्धिः । तत्सम्बन्धादाचार्योऽपि चार्वी । तस्येमे छात्राश्चार्वाकाः । तैः अक्षजं मानमुच्यते ॥ नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति नापरमिति । अनुमानमागमश्च मानं नोच्यत इत्यर्थः । एतदप्यस्माकमनुमतमेव ॥ प्रमेयविशेषे प्रत्यक्षस्यैव मानताऽभ्युपगमादित्यत आह क्वचिदिति ।

एतदुक्तं भवति । प्रमाणाधीना हि प्रमेयसिद्धिः । प्रमाणं च प्रत्यक्षमेव, नातोऽन्यदस्ति । न च प्रत्यक्षेणेश्वरं प्रतीमः । तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।

१००सु०- ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह देह इति ।

अनु०-देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि

ज्ञानवान् खल्वात्मा, ज्ञानं च देहधर्मः; यथोक्तम् पृथिव्यापस्तेजोवायुरिति

तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानमि ति । तस्मात् देह एव आत्मा, स च विनाशी; इत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्टः ।

पुरुषार्थौ तु कामार्थावेव, पुरुषान्वयसम्भवादिति । तत्रापि काम एव मुख्यो

ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् । इति चोच्यत इति सम्बन्धः ।

१०१सु०- एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह यदेवमिति ।

अनु०- यदेवं

यद्येवमतीन्द्रियं वस्तु न स्यात्, तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येते ति शेषः ।

तत्कथमिति चेत् । किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते, उत विनेया नराः ।

आद्यं दूषयति दर्शनेनेति ।

अनु०- दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि

किम् आक्षेपे । अर्थः विषयः प्रयोजनं च । लब्ध उपलब्धः प्राप्तश्च । प्रत्यक्षगोचरो हि इति तत्र हेतुः ।

ततश्चायमर्थः । न तावदनेन शास्त्रेण शास्त्रप्रणेत्राऽतीन्द्रियोऽर्थः उपलभ्यते, तदभावात्; नाप्यैन्द्रियकः, तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । अप्राप्ते हि शास्त्रमर्थवत् ॥

किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रं प्रणीतवान्, अन्यथा (तत्प्र)प्रणयनानुपपत्तेः । तथा च तं प्रति तमेवार्थमुपदर्शयत् कथं सविषयं स्यात् ॥

एवं प्रयोजनमपि न तावदतीन्द्रियम्, तदभावात् । नाप्यैन्द्रियकम्, तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ।

ननु हितोपदेष्टरि जनोऽनुरज्यते, जनानुरागप्रभवाश्च सम्पद इति चेत् । कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत्, तत्तु परेण त्याजितमिति ।

द्वितीयं दूषयति नरैरिति ।

अनु०- नरैः शास्त्रात् किं मोहनं विना

लब्धमि त्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् ।

स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः, तस्य प्रत्यक्षत्वेऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात् किं लब्धमि त्युच्यते ।

मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत्, उतोपपत्तिव्युत्पादनेन । नाद्यः, आगमप्रामाण्याभ्युपगमप्रसङ्गात्, नास्ति अतीन्द्रियं किमपी त्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः, उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् ।

शास्त्रं शङ्कामेव निवारयति, विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न; स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् ॥

शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ, नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत् (न), तस्यापि प्रमाणत्वात् । तदिदं दर्शनेने ति प्रकृतानुवृत्तौ सत्यां शास्त्रात्किम् इति वदता सूचितम् । अन्यथा नरैश्चे त्यवक्ष्यत् ।

मोहनं विना इत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणाऽयोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातोऽधिकमिति ।

१०२सु०- किमतो यद्येवमित्यत आह स्वेति ।

अनु०- स्वपरार्थविहीनत्वात्

निष्फलं शास्त्रम् इति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते । तच्चोपलक्षणम्, निर्विषयं चेत्यपि द्रष्टव्यम् ॥ विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम्, तृतीयप्रकाराभावात्, सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् । ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात् तद्व्याप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।

अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् । ततः किमित्यतः सूत्रं व्याख्याति स्वमतेनैवेति ।

अनु०-स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम्

यत एवं स्वमतेनैव निष्फलं निर्विषयं च । न केवलं परोपपादनेन । तस्माद्

वृथा विषयप्रयोजनशून्यम् । यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाऽभ्युपगतम्, तस्माद्विषयप्रयोजनशून्ये(मेवे)त्यर्थः । यस्माद् वृथा तस्मात् तत् शास्त्रं किमिति स्वयं प्रेक्षावान् प्रलपति । प्रेक्षावता नारम्भणीयमिति

यावत् । विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इति उन्मत्तवत् उपेक्षणीयः स्यादिति ।

यद्वा निष्फलमिति प्रयोजनाभावाभिधानम्, वृथेति विषयाभाववचनम् । तथा चैवं सूत्रयोजना । न केवलं परोपपादनेन किन्तु स्वाभ्युपगमेऽप्यर्थाभावात् अनारम्भणीयं शास्त्रमि ति शेष इति । अर्थाभावहेतोरसिद्धिपरिहाराय अभ्युपगमेऽपी त्युक्तम् ।

१०३सु०- ननु च प्रमाणानुरोधि प्रयोजनम्; न पुनः प्रयोजनमनुरुध्य अप्रामाणिकोऽप्यर्थोऽङ्गीकर्तुमुचितः, अतिप्रसङ्गात् । प्रमाणं च प्रत्यक्षमेव नान्यत् । न चैवं लोकव्यवहारोच्छेदः, सम्भावनयैव तदुपपत्तेः; संवादेन च प्रामाण्याभिमानात् । प्रत्यक्षेण च देह एवात्मोपलभ्यते, गौरोऽहं जानामी ति । तथा च कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात् कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयोऽङ्गीकर्तुं शक्यत इत्यत आह देहादिति ।

अनु०- देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत् सदा ॥

अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव । मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते । न चान्यताऽप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते । यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धावभास इति ।

१०४सु०- नन्वेवं प्रतिभास एव नास्ति, अपि तर्हि घटस्य स्वरूपमि तिवद्व्यवहारमात्रम्; इति चेन्न कल्पकाभावात् । विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते, न चैवं प्रकृते ॥ कस्यचित्कदाचिदपि देहोऽहमि ति प्रमाभावात् । तदिदमुक्तं शरीरिणां सदेति ॥ अत एव प्रतिभासोऽपि भ्रमोऽस्त्विति निरस्तम् ।

अस्ति गौरोऽहमि ति प्रमेति चेन्न, प्रतिपक्षतया बाधकत्वानुपपत्तेः ।

१०५सु०- किञ्च नायं देहात्मतावभासः, किन्तु देहधर्मस्यात्मधर्मतावभासः, न च व्यधिकरणयोर्विरोधोऽस्ति; तदभावे कथमसाविति चेत् । किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा । न प्रथमद्वितीयौ, अपसिद्धान्तात्, स्फटिकजपाकुसुमयोरभेदाप्रतिभासेऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च । तृतीये तु वक्ष्यते ।

१०६सु०- अस्तु प्रतीतिः, प्रत्यक्षमिति तु कुतः । अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् । अभ्युपगमे वा प्रामाण्यापरिहारात्, अपरोक्षतयाऽनुभवाच्च । तदिदमुक्तं व्यक्तमिति ।

न च तदेवासिद्धम्, लिङ्गाद्यनुसन्धानाभावेऽपि भावात् । अन्यथा देहप्रतिभासस्यापि तन्न स्यात् । एतदप्युक्तं सदेति ।

केचिदाहुः देहात्मभेदज्ञानं समाधिपरिपाकवतामेवे ति । तदसत्, आऽविपालगोपालं मम देह इति प्रतिभासस्यानपलपनीयत्वात् । अत एवाह शरीरिणां अ(शरीरा)भिमानिनामिति ।

१०७सु०- नन्वस्त्वात्मा देहातिरिक्तस्तथाऽप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् । वेदादिरागमोऽनुमानं चेति वदामः । तस्य प्रामाण्यमेव कुत इति चेत्, तत्राह प्रत्यक्षस्यैवेति ।

अनु०- प्रत्यक्षस्यैव मानत्वमिति केनावसीयते

यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् । प्रत्यक्षेणेति चेत्,

प्रत्यक्षस्य मानत्वमित्येव केनावसीयते । तथा च पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति ।

प्रत्यक्षज्ञानं तावत् प्रतीयते, प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम्; अतः कथमुक्तो दोषः । प्रामाण्यपरतस्त्ववादेऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरि त्यत आह यदीति ।

अनु०- यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्

यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकम् उच्यते । तर्हि तत् एव वेदप्रामाण्यविषये कथं साधकं न भवेत् । न हि वेदवाक्याज्ज्ञानं नोत्पद्यते, न च न प्रतीयते ।

अत्र वेदग्रहणमुपलक्षणम् । अत एव अन्या इति सामान्येन वक्ष्यति ।

१०८सु०- ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः, अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते, तत्कथं वेदादिप्रामाण्यसिद्धिः । परतस्त्वेऽपि बाधकाभावः कुत इति चेत्, सममेतत् प्रत्यक्षेऽपि । अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत्, तुल्यमेतद्वेदादावित्याह न चेति ।

अनु०- न चान्यामानता क्वापि प्रमाणेनावसीयते

प्रत्यक्षात् अन्य योरनुमानागमयोः अमानता । क्वापि विषये ।

१०९सु०- यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन् प्रष्टव्यः, किं त्वयाऽनुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य । आद्ये दोषमाह प्रत्यक्षस्यैवेति । इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्य एव प्रत्यक्षस्य मानत्वमिति केनावसीयते । द्वितीये दोषमाह प्रत्यक्षस्यैवेति । प्रत्यक्षस्य मानत्वमेव सर्वमपि प्रत्यक्षं प्रमाणम् इति केनावसीयते । अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य तत्प्रामाण्यस्य (वा) चावसायकं न किमपीत्यर्थः ।

परकयवचनेन चेष्टया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह यदीति । प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत् । अभ्युपगम इति शेषः ।

एवमनुमानागमाप्रामाण्यं प्रत्यपि विकल्पः । आद्यस्तु पूर्ववन्निरस्तः, अपसिद्धान्तश्च अधिकः । द्वितीयं दूषयति न चेति । अन्य योः परपुरुषादिवर्तिनोरनुमानागमयोः अमानता । पूर्ववदाश्रयाद्यसिद्धेः, तत्साधकाङ्गीकारे च व्याघातादिति भावः ।

११०सु०- नन्वर्थसन्निकृष्टकरणजन्यत्वात् प्रत्यक्षं प्रमाणम्, अनुमानागमयोः अतीतादिकमपि विषयीकुर्वतोस्तदभावात् कथं प्रामाण्यमिति । किं याथार्थ्यमेव प्रामाण्यं, तन्नियामकश्च सन्निकर्षः, अन्यथाऽतिप्रसङ्गादि त्यभिप्रायः, उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमि ति ।

आद्येऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव । आद्यं दूषयति

न चेति । एवं तर्हि अन्य योरनुमानागमयोः अमानता न अस्ति, अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः । द्वितीये दोषमाह क्वापीति । क्वापि प्रमाणे

चाक्षुषे श्रावणे च, नावसीयते नाभ्युपगम्यतेऽर्थसंयुक्तकरणजन्यता, परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात्, तदात्मकस्य चार्थसंयोगाभावात् । ततः प्रत्यक्षस्यापि कस्यचित् प्रामाण्यं न स्यादिति ।

द्वितीयं दूषयति न चेति । याथार्थ्यात् अन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या । कुत इत्यत आह क्वापीति । पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः । उपलक्षणं चैतत् । विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् ।

१११सु०- याथार्थ्ये सतीदं लक्षणमिति चेत्, तर्हि तदेवास्तु किं विशेष्येण । अनुमानादिव्यावृत्त्यर्थमिति चेन्न, तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह न चेति ।

११२सु०- ननु वेदाद्यर्थस्यानुपलम्भबाधितत्वात् कथं तत्प्रामाण्यमिति चेन्न, वेदादिनैवोपलब्धेः । तदन्येन नोपलभ्यत इति चेत्, तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् । अद्धेति चेत् तत्राह न चेति । प्रमाणान्तरसंवादलक्षणा मानता न इत्यर्थः । कुतो नेत्यत आह क्वापीति । अनावस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते यतः ।

यद्वा क्वापि स्वसुखादिज्ञाने प्रमा(ण)णे संवाद एव नावसीयते इति योज्यमित्यलम् ।

११३सु०- सूत्रार्थमुपसंहरति स्वमतेनेति ।

अनु०- स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥

स्वसम्मत्यैव अर्थरहितः विषयप्रयोजनरहितः । ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्षणः ॥

ब्र०सू०-ॐ पुरुषाश्मवदिति चेत्तथापि ॐ ॥

११४सु०- अ(त्रानीश्व)त्र निरीश्वरसाङ्ख्यैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते ।

नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् । सत्यम्, तथाऽप्यभ्यधिकाशङ्कानुसारेण इयमुक्तिः ।

तथा हि । परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः । तत्र मा भूत् केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम्, ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता) निराकृता । मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्क्य शरीरस्य चैतन्याश्रयताऽयोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीयेऽभिहितम् । इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगेऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते ।

न्यायसुधा

११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे सन्निधानादिति ।

अनु०- सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्

यथा खल्वचेतनमेव शरीरं चेतनस्य आत्मनः सन्निधान मात्रेण अश्मानयना

दिकं करोति, एवमचेतनाऽपि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति । तथा च प्रयोगः महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदि ति । एवञ्च किमीश्वरेणेति शङ्कार्थः ।

११६सु०-

अनु०- तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥

यद्यप्येवमभ्यधिकमाशङ्कितं तथाऽपि रचनानुपपत्तेरिति उक्तदोषः समो भवेत् न परिहृतो भवेत् ॥ कुतः । अबुद्धिपूर्वत्वात् प्रकृतेरिति शेषः । बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम्, ज्ञानेच्छाप्रयत्ना इत्यर्थः । न विद्यते बुद्धिपूर्वं यस्य तत् तथोक्तं, तस्य भावः तत्वम्, तस्मात् ।

एतदुक्तं भवति । ज्ञानेच्छाप्रयत्नवत्वं हि कर्तृत्वम् । न च पुरुषसन्निधाने(ऽपि)न प्रकृतेर्बुद्धिमत्वं सम्भवति, अचेतनत्वाङ्गीकारविरोधात् । न च बुद्ध्यभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः, तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।

११७सु०- नन्वात्मोपसर्जनस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम्, तत्कथ(मेतदि)मिति चेन्न; शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।

११८सु०- दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्-

ब्र०सू०-ॐ अङ्गित्वानुपपत्तेः ॐ ॥

तद्व्याचष्टे अङ्गित्वमिति ।

अनु०- अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ॥

च शब्दो दूषणान्तरसमुच्चयार्थः । एव शब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः । अङ्गित्वं प्रधानत्वं, शरीरं प्रतीति शेषः । तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात् । स्यात् साङ्ख्य इति शेषः ।

११९सु०- नन्वेतत्प्रकृतविरुद्धम् । परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः । तथा च अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमि ति चेन्न, जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलापे, इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादि त्याशयवानाह किम्विति ।

अनु०-किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखिलम् ॥

अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य । उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हि शब्देन सूचयति ।

१२०सु०- कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह यत इति ।

यतः कारणात् अखिल प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति, तस्मादिति पूर्वेण सम्बन्धः ॥

न्यायसुधा

१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।

तथा हि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य च उपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथा च तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ

च कर्तृत्वानुपलम्भात् प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया । एवञ्च किमीश्वरेणेति ।

१२२सु०- अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति । आद्यं दूषयितुं सूत्रं व्याचष्टे अङ्गित्वमिति ।

अनु०- अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥

यदि पुरुष(स्यैवाङ्गि)स्य अङ्गित्वं प्राधान्यं, कर्तृत्वमिति यावत् । प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथाऽनुमीयते । तत्रापि च पुरुषस्य अखिलं स्वातन्त्र्यं न अस्तीति पक्षो यद्यङ्गीक्रियते, तदा स्वतन्त्रोऽन्यः परमेश्वरोऽङ्गीकरणीय एव स्यात् । कुतः । प्रकृति प्रेरणे पुरुषस्य अशक्तत्वात् । मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा, । तथाऽपि प्रकृतिप्रेरणार्थमपेक्षणीय एवासाविति अपे रर्थः ।

एतदुक्तं भवति । न तावत् सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम्, सुप्तिप्रलयादावपि प्रसङ्गात्; किन्तु करणात्वादिना । न च कर्त्राऽप्रयुज्यमानस्य करणत्वादिकं दृष्टम् । न च तदेव तत्प्रेरणे करणादि, स्ववृत्ति

विरोधात् । तथा च प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्येऽवश्यमन्येन सहकारिणा भाव्यम् । न चासावप्येवंविध एव, तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । अतः स्वतन्त्र एवासावङ्गीकरणीयः । स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।

१२३सु०- द्वितीयं निषेधति न चेति ।

अनु०- न च स्वातन्त्र्यमस्यैव

तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।

अनेन विप्रतिषेधाच्चेति सूत्रं व्याख्यातं भवति ।

सूत्रस्यार्थान्तरमाह प्रत्यक्षादीति ।

अनु०- प्रत्यक्षादिविरोधतः

प्रत्यक्षादिप्रमाणौर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।

प्रकारान्तरेण व्याचष्टे हितेति ।

अनु०-हिताक्रियादिदोषाच्च

आदि पदेनाहितक्रियोपादीयते ।

१२४सु०- एवं पञ्च मतानि निराकृत्योपसंहरति भद्रमिति ।

अनु०- भद्रं नानीश्वरं मतम्

१२५सु०- पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात् तदप्यनीश्वरमेव मतमिति ।

१२६सु०- नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति, तानि कुतो न निराक्रियन्ते । उक्तदोषैरेव निरस्तत्वात्, अभ्यधिकाशङ्काऽभावाच्च इत्याह संसारिण इति ।

अनु०- संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥

संसारि पदमीश्वरातिरिक्तोपलक्षणम् । सर्वेशम् इति विशेष्यपदम् । तेन न पौनरुक्त्यम् । उपमैवौपमम्, स्वार्थिकोऽण्; नास्त्यौपमं यस्यासौ अनौपमः । यद्वोपमाया अयमौपमः, सोपम इति यावत्, ततो नञ्समासः । अस्य प्रपञ्चस्य । इमे कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीकुर्वतामिमे दोषाः, किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि; तथात्वे फलतस्तस्यानीश्वरत्वादिति ।

१२७सु०- किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह तस्मादिति ।

अनु०- तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥

न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेन इत्याद्युक्तम् । पर उत्कृष्ट उक्तविशेषणोपपन्नः । नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम्, सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात् प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात् सुनिश्चितम् इत्युक्तम् ।

प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेनात्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।

१२८सु०- नन्वेवं तर्हि उत्तराधिकरणानामनारम्भ एव, निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः ॥

न्यायसुधा

॥ अथ वैशेषिकाधिकरणम् ॥

ब्र०सू०-ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥

१सु०- अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते ।

ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव, तत्कथं तन्निरासायाधिकरणारम्भः इत्याशङ्क्य यद्यपीश्वरं स्वरूपेणाङ्गीकुर्वन्ति तथाऽपि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव, तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्ते, इत्यतो युक्तस्तन्निरासायाधिकरणारम्भः इत्याशयवांस्तन्मतमुपन्यस्यति नित्येति ।

अनु०- नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः । युक्तमीशं वदन्तोऽन्ये

ईशं वदन्तोऽन्ये इत्याहुरि ति वक्ष्यमाणेनान्वयः । नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः । सङ्ख्याद्यैः सङ्ख्यापरिमाणपृथक्तवसंयोगविभागैः । सावधारणं चैतत् । एवम् अष्टगुणकमेव वदन्त इति ।

नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव, द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सर्वत्रानित्या एवेति सिद्धत्वात् सङ्ख्यादौ विद्यमानोऽपि नित्यानित्यत्वविभागो नाभिहितः ।

ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।

२सु०- यद्यपि केचिदीश्वरं षड्गुणमाचक्षते तथाऽपि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् ।

एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।

यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् । तथा हि । जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणौर्युक्ताः । तत्र नित्ययथार्थज्ञानस्य मोहाभावात् तत्प्रभवस्य द्वेषस्याभावः, तदभावे तन्मूलयोर्धर्माधर्मयोरभावः । इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम्, धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव । नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावात् भावनाया अप्यभाव इति ।

अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।

३सु०- एवमीश्वरविषयां विप्रतिपत्तिम् उपन्यस्य सृष्टिविषयाम् उपन्यस्यति तदिच्छेति ।

अनु०- तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥

महाप्रलये हि वक्ष्यमाणो नित्यवर्गोऽनित्याश्च धर्माधर्मसंस्कारादयोऽवतिष्ठन्ते । ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते । तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति । ततस्तदिच्छया = सिसृक्षालक्षणेश्वरेच्छया अदृष्टैः = अदृष्टवदात्मसंयोगैश्चेति यावत् । चोदिताः प्रेरिताः, क्रियावन्त इति यावत् ।

प्राक् प्रविभक्ततयाऽवस्थिताः परमाणवश्चतुर्वर्गाः पार्थिवाः पाथसीयास्तैजसा वायवीयाश्च द्विशः संयुज्यन्ते ।

अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् । तेषां संयोगसद्भावेऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम्, अतस्तद्व्यावृत्तये चतुर्वर्गाः इत्युक्तम् । यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति ।

अखिला इति । द्विशः संयोगे नियमवचनम् । ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते तेऽखिला द्विशो द्वौ द्वावेवेति ।

४सु०- ततः किमित्यत आह परमाण्विति ।

अनु०- परमाणुद्वयेनैव द्व्यणुकं नाम जायते । द्व्यणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् । ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥

परमाणुपुञ्जवादं परिणामवादमनियमवादं च एव शब्देन व्यावर्तयति । परमाणुद्वयेनैव, न तु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, न च त्रयादिनेति । जायते इत्यसत्कार्यवादं सूचयति । जात्यपेक्षयैकवचनम् । ततश्च संयुक्तसजातीयपरमाणुद्वयैः ततोऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्व्यणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः ।

द्व्यण्युकत्रयेण त्र्यणुकं, जायते इत्यनुवर्तते, एवेति च । अत्रापि पूर्ववद् व्याख्यानम् । अणुत्वपरिमाणस्य परमाणौ द्व्यणुके च साम्याद् द्व्यणुकसंज्ञावत् त्र्यणुकसंज्ञाऽप्युपपद्यत एव ।

तैः सजातीयैः संयुक्तैः चतुर्भिः त्र्यणुकैः तदात्मकं चतुरणुकात्मकं, द्रव्यं जायते त्र्यणुकेष्वणुसंज्ञोपचारात् । केचित् द्व्यणुकैरेव चतुरणुकारम्भमभ्युपयन्ति । तन्मतानुसारेण तैर्द्व्यणुकैरिति व्याख्येयम् ।

द्व्यणुकानि त्रीणि (द्रव्यं) यत्कार्यमारभन्ते तत् त्र्यणुकम् । चतुर्भिरारब्धं चतुरणुकमिति । अत्र च संज्ञा मुख्यैव । ततः त्र्यणुकेभ्यश्चतुरणुकेभ्यो वा । तुशब्दो विशेषार्थः । तमेवाह अनियमेनैव एतावदि्भरेवेति सङ्ख्यानियमं विनेत्यर्थः । द्रव्यसमवायिकारणानि कार्यद्रव्याणि खण्डावयविनः । त्र्यणुकादेरन्त्यावयविनश्च मध्ये

नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् ।

ततः तैः खण्डावयविभिश्च अनियमेनैव सङ्ख्यानियमं विनैव सर्वावयवि नामन्त्यावयविनां शरीरेन्द्रियविषयाणां सम्भवः ।

तदनेन द्रव्योत्पत्तिरभिहिता । गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः ।

५सु०- सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् । कारणानि च समवाय्यसमवायिनिमित्तनामानि । तत्र य(त्सम)त्र समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । तत्स्वरूपेण दर्शयति कारणमिति ।

अनु०- कारणं समवाय्याख्यं परमाण्वादिरत्र हि

अत्र द्व्यणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायि कारणम् । कुतः । अत्र परमाण्वादौ द्रव्ये, हि यस्मात्, सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः ।

६सु०- समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् । तदुदाहरति ईशेति ।

अनु०- ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्

निमित्तं तु इत्यन्वयः । इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम् । एवमन्यदपि द्रष्टव्यम्, यथा तुरीवेमादिकं पटस्येत्यादि ।

७सु०- समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् । समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम् । सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति । तच्चासमवायिकारणं द्रव्यं समवायिकारणमि तिवन्नैकोक्त्या वक्तुं शक्यम्, प्रतिकार्यं पृथक्तवात् । अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कार्यज्ञानसापेक्षत्वात् कार्याकार्यविभागं तावदाह सामान्येति ।

अनु०- सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् । नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥

कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्त्या कार्याकार्यविभाग एव सिद्ध्यति ।

८सु०- षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवायाः भावरूपाः पदार्थाः । अभावः सप्तमः ।

विधिरूपो भावः । निषेधरूपोऽभावः ।

गुणाश्रयो द्रव्यम्, समवायिकारणं वा । सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः । चलनात्मकं कर्म । नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् । नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः, अत्यन्तव्यावृत्तिहेतवो वा । अयुतसिद्धयोः सम्बन्धः समवायः, अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ, नित्यः सम्बन्धो वा ।

९सु०- तत्र सामान्यमन्त्यविशेषश्च समवायश्च इत्येतत् त्रयं नित्यम् अकार्यं च ।

विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् । विशिष्यतेऽनेनेति हि विशेषः ।

द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति । गुणश्च निर्गुणाद् द्रव्यम् ।

कर्मापि निष्क्रियान्मूर्तम् ।

सामान्यं द्विविधं परमपरं च ।

परं सत्ता प्रचुराश्रयत्वात् ।

अपरं द्रव्यत्वादि अल्पाश्रयत्वात् । तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वेऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषोऽपि भवति । अतः तद्व्यावृत्त्यर्थमन्त्येत्युक्तम् । अन्त्ये द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः । अत्यन्तव्यावृत्तिहेतव इति यावत् । न हि दण्डादिकं तथा, दण्ड्यन्तरादिभ्योऽव्यावर्तकत्वात् ।

१०सु०- क्रिया उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपाः अनित्याश्च । चशब्दोऽवधारणे । न द्रव्यादिवदुभयरूपा इत्यर्थः ।

गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति । तथा हि । द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि । तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च च नित्यानि । द्व्यणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति । गुणाश्चानित्यद्रव्यगता अनित्या एव ।

पार्थिवपरमाणावैकत्वैकपृथक्तवपरिमाणगुरुत्वानि नित्यानि, रूपरसगन्धस्पर्शानेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।

(आप्ये च) पाथसीये च रूपरसस्पर्शैकत्वैकपृथक्तवपरिमाणगुरुत्वद्रवत्वस्नेहा नित्याः, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।

तैजसे च रूपस्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारा अनित्याः ।

वायवीये च स्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वसंस्कारा अनित्याः, आकाशे चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागशब्दा अनित्याः ।

काले दिशि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागा अनित्याः ।

आत्मनि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागा बुद्ध्यादयश्च नव अनित्याः ।

ईश्वरात्मनि विशेषोऽभिहितः ।

मनसि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । इति विवेकः ।

११सु०- एवं कार्याकार्यविभागमुक्तवा यस्य यदसमवायिकारणं तदाह कार्य इति ।

अनु०- कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥

कार्यकारणग्रहणमुपलक्षणम् । ततश्च कार्ये अकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः तथा समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च समवाय्यन्यकारणं असमवायिकारणम् । कर्मणश्च समवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् ।

आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति । द्वितीयस्य द्रव्यकारणं तु इत्यन्वयः ।

यद्वा द्वावप्यनुक्तसमुच्चयार्थौ । तच्चोक्तं तथा हि । कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्तवोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयोऽसमवायिकारणम् । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रवत्वस्य तद्गत एव तेजःसंयोगः । सर्वत्रानेकत्वानेकपृथक्तवयोराश्रयगतैकत्वैकपृथक्तवानि । संयोगविभागवेगानामाश्रयगतं कर्म । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतो मनःसंयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाः । कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति । द्रव्यस्य तु समवायिकारणानामवयवानां संयोगोऽसमवायिकारणमिति ।

१२सु०- उक्तस्य क्कचिदपवादमाह एवमिति ।

अनु०- एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः

कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमिति एवं सामान्यतः सिद्धान्ते स्थितेऽपि, तत्र परिमाणविशेषे विशेषो ऽन्यथाभावः कल्पितो वैशेषिकैः ।

कथमित्यत आह द्व्यणुक इति ।

अनु०-द्व्यणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् । न कारणं कार्यगुणे

चतुविंधं परिमाणम्; अणुत्वं, महत्त्वं, ह्रस्वत्वं, दीर्घत्वं च ॥ तत्राणुत्वं द्विविधं, नित्यमनित्यं च । नित्यं चतुर्विधपरमाणौ मनसि च, पारिमाण्डल्यमिति चोच्यते । अनित्यं द्व्यणुक एव ॥

महत्त्वमपि द्विविधं नित्यानित्यभेदात् । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं त्र्यणुकादौ कार्यद्रव्ये ॥

ह्रस्वत्वं द्व्यणुक एव ॥ दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव ।

केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति । तत्र द्व्यणुके

वर्तमानं ह्रस्वत्वम्; उपलक्षणमेतत्, अणुत्वं च; कार्यगुणे द्व्यणुककार्यत्र्यणुकपरिमाणे, विषयसप्तमीयम्; त्र्यणुकमहद्दीर्घत्वयोरसमवायि कारणं न भवति । तथा परमाणौ

वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्व्यणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य च असमवायि कारणं न भवति । त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति ।

१३सु०- कस्मादेवं कल्पितमित्यत आह वैरूप्यमिति ।

अनु०- वैरूप्यं तत्र कारणम् । इत्याहुः

तत्र द्व्यणुकपरमाणुपरिमाणानां त्र्यणुकद्व्यणुकपरिमाणानि प्रति कारणत्वाभावे वैरूप्यं विजातीयत्वं कारणम् । सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः ।

तथा च प्रयोगः । द्व्यणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती, विजातीयपरिमाणत्वात्, व्यतिरेकेण तन्तुपटपरिमाणवत् । एवं परमाणुद्व्यणुकपरिमाणयोरपि द्रष्टव्यम् । परमाणोरणुत्वं द्व्यणुकाणुत्वस्य कारणमस्त्विति चेन्न, तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात् ।

एवं चेत् द्व्यणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह वैरूप्यमिति । अनेकत्वमित्यर्थः । ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्ख्या द्व्यणुकेऽणुत्वं ह्रस्वत्वं च करोति । द्व्यणुकेषु चोत्पन्ना त्रित्वसङ्ख्या त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति ।

१४सु०- एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयति तानिति ।

अनु०- तानथोवाच विद्याधीशः स्वयं प्रभुः

उवाच महद्दीर्घवद्वेत्यादीति शेषः । प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तं स्वयं साक्षात्सर्वविद्यानामधीशस्तस्मात् प्रभुः इति ।

१५सु०- न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम्, तस्योपपत्तिविरुद्धत्वात् ।

१६सु०- तथा हि । यत्तावदुक्तं द्व्यणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्य असमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन् महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यामि ति सूत्रं व्याचष्टे महत्त्वं चेति ।

अनु०- महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् । तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥४४४ यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि । जायेत सदृशं कार्ये परिमाणं समत्वतः ॥

एव शब्दस्य त्र्यणुकाद्येष्वेवे ति, कल्पितमेवे ति वा सम्बन्धः । त्र्यणुकाद्येषु

द्रव्येषु । तस्मात् त्र्यणुकादौ कार्येऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् । च शब्दो वाक्यार्थसमुच्चये । कार्यं परिमाणम् ।

तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु । तथैवेत्येव शब्देन दृष्टान्तदार्ष्टान्तिकवैषम्यशङ्कामपाकरोति । कार्ये त्र्यणुके द्व्यणुके च । समत्वतः कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् । हि शब्दो व्याप्तिद्योतकः ।

१७सु०- यद्यपि महदादिशब्दा द्रव्यवचनास्तथाऽपि भावप्रधानत्वात् परिमाणवाचिनो(ऽपि) भवन्तीत्याशयेन महत्त्वम् इत्याद्युक्तम् ।

सूत्रकृतश्च भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण, कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महदि त्यादि हि तत् । महद्दीर्घवदिति षष्ठ्यर्थे वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा तस्मात् इत्युक्तम् ।

अत्रैतावदादौ वक्तव्यम् । यथा तस्मात्कार्येषु कार्यमुपजायते तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि कार्ये परिमाणं जायेत समत्वतो हीति ।

१८सु०- एतदुक्तं भवति । त्र्यणुकद्व्यणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजं कार्यपरिमाणत्वाच्चतुरणुकादिपरिमाणवत्, द्व्यणुकपरमाणुपरिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकपरिमाणवत्, त्र्यणुकद्व्यणुके वा परिमाणारभ्यपरिमाणवती कार्यद्रव्यत्वाच्चतुरणुकादिवत्, द्व्यणुकपरमाणू परिमाणासमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् त्र्यणुकवदिति ।

न च विवक्षितार्थासिद्धिः, अन्यथाऽनुपपत्त्या तत्सिद्धेः । न च यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात् । न चैवं सति बाधः, प्रचयकारणताया अनिवारणात् । न चोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि क्लृप्तशक्तित्वात् । द्व्यणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्व्यणुकपरिमाणाजनकम्, परिमाणत्वात् पटपरिमाणवत् इत्यादिना सत्प्रतिपक्षतेति चेन्न, तत्समवायिकारणपरिमाणत्वाभावस्योपाधित्वात्, त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकं परिमाणत्वात् पटपरिमाणवत् इत्याद्याभाससमानयोगक्षेमत्वाच्च । परमाणुपरिमाणं परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवदित्यपि न, द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात्; आप्यपरमाणुरूपं रूपानारम्भकं नित्यत्वात् गगनपरिमाणवत् , परमाणवो द्रव्यानारम्भका नित्यत्वाद्गगनवत् इत्याद्याभासतुल्यत्वाच्च ।

१९सु०- एतेन परमाणुद्व्यणुकपरिमाणे परिमाणानारम्भके अणुत्वान्मनःपरिमाणवदि त्यपि परास्तम् । न चानणुत्वमुपाधिः; वक्ष्यमाणन्यायेन परिमाणावान्तरजातेरपाकरणात्, पक्षीकृतात् ह्रस्वत्वात् अव्यावृत्तेश्च ।

२०सु०- ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकारणभावः, द्व्यणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात् कथं तथात्वमि त्यतो दृष्टान्तदार्ष्टान्तिकयोः सदृशम् इत्युक्तम् । यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते तथा द्व्यणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः ।

२१सु०- ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्व्यणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे, तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तं महत्त्वं चेति । कल्पनैवैषा वैशेषिकाणां, न तु परिमाणावान्तरजातिभेदे प्रमाणमस्ति, किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकर्षवत् इति भावः । अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या ।

२२सु०- ननु च द्व्यणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम्, द्व्यणुकादिपरिमाणस्य सङ्ख्ययैव जन्मसम्भवात् इत्याशङ्कां परिहरन् वा शब्दं व्याख्याति न चेदिति ।

अनु०- न चेन्महत्त्वतश्चैव दीर्घत्वादपि नो भवेत्

चापि शब्दावितरेतरयोगे । एव शब्दो नो भवेदेव इति सम्बध्यते ।

२३सु०- इदमिह वक्तव्यम्, द्व्यणुकादिपरिमाणेऽसमवायिकारणलक्षणमस्ति

न वेति ।

आद्येऽसमवायिकारणलक्षणसद्भावेऽपि त्र्यणुकादिपरिमाणं द्व्यणुकादिपरिमाणजं न चेत् भवेत् तदा त्र्यणुकादिगतान् महत्त्वतो दीर्घत्वाच्च नो भवेदेव, चतुरणुकादिपरिमाणमिति शेषः । इदमुक्तं भवति । यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावेऽपि नासमवायिकारणत्वं तदेदमतिव्यापकत्वादलक्षणं स्यात् । तथा च न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति ।

द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम् । नाद्यः, द्व्यणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्व्यणुकादौ समवेतत्वस्य प्रमितत्वात् । समवायिकारणसमवेतत्वाभावात् न चेत् द्व्यणुकादिपरिमाणात् त्र्यणुकादिपरिमाणस्योत्पादः, तदा त्र्यणुकादिगताभ्यां महत्त्वदीर्घत्वाभ्यां चतुरणुकादिपरिमाणमपि नो भवेत्, तस्यापि समवायिकारणसमवेतत्वाभावात् । न द्वितीयः । अनान्यथासिद्धनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम्, तच्चास्ति द्व्यणुकादिपरिमाणे । एवमपि न चेत् ततः त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव ।

२४सु०- सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत् । किमिदं विसदृशत्वम् । किं जातिभेदः, उत वैलक्षण्यमात्रम् । नाद्यः, परमाणुद्व्यणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात् । द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात्; न हि त्र्यणुकचतुरणुक

महत्त्वे न विलक्षणे, सोत्कर्षत्वस्यानुभवसिद्धत्वात् ।

२५सु०- अथ सङ्ख्यात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत्; तथाऽप्युक्त एवातिप्रसङ्गः, चतुरणुकादिपरिमाणस्यापि सङ्ख्यात एव जननोपपत्तेः । यत्र तु नियामकविशेषस्तत्र परिमाणमप्याद्रियतामिति । यद्यपि परिणामवादिनां नायं पन्थाः, किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति; तथाऽपि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः ।

२६सु०- एवं परमाणुपरिमाणाद् द्व्यणुकपरिमाणस्योत्पादः, ततस्त्र्यणुकपरिमाणस्य जन्म, तेषां चैकजातीयत्वमि त्यनुमानेन साधितम् । तदसत् । प्रतितर्कपराहतत्वात् । तथा हि । किं परमाणुपरिमाणाद् द्व्यणुके द्व्यणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते, उत महत्त्वस्य, अथ ह्रस्वत्वस्य, यद्वा दीर्घत्वस्य ।

सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीते सदृशस्य हीति ।

अनु०- सदृशस्य हि कार्यस्य नैव योगः कथञ्चन

योगः घटना । कथञ्चन उक्तप्रकारेषु केनापि प्रकारेण ।

२७सु०- कुत इत्यतः प्रथमपक्षेऽनिष्टमाह अप्रत्यक्षत्वमिति ।

अनु०- अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वतः । इति चेत्

यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्व्यणुके, द्व्यणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते तदा सर्वकार्येषु अणुत्वप्रसङ्गेन अस्मदा द्यप्रत्यक्षत्वमेव स्याद्यतस्तस्मान्नेति ।

द्व्यणुकस्याप्रत्यक्षत्वमिष्टमेवेत्यतोऽवधारणाम् । सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात्, न तु (यस्य) कस्यचित्प्रत्यक्षत्वमिति । द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम् । तथा च त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात् ।

एतेन तृतीयोऽपि परास्तः । त्र्यणुकादेरपि ह्रस्वत्वे महत्त्वाभावेनाप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात् ।

२८सु०- द्वितीये तु परमाणुद्व्यणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः । न चोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः, त्र्यणुकादावपि तदा(दभावा)पत्तेः ।

अत एव चतुर्थोऽपि परास्तः ।

दीर्घत्वे महत्त्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम् ।

यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्त्या परिहृतमेव तथाऽपि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः ।

२९सु०- अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णाति न महत्त्वं चेति ।

अनु०- न महत्त्वं च परमाणावणावपि

च शब्दो दीर्घत्वसमुच्चयार्थः । अणौ द्व्यणुके । कथं न कथ्यत इति वक्ष्यमाणमत्रापि सम्बध्यते ।

यदुक्तं किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद् द्व्यणुके महत्त्वम्, द्व्यणुकमहत्त्वात् त्र्यणुकमहत्त्वमुत्पद्यत इत्येषः पक्षस्तावत्परिगृह्यत इत्यर्थः ।

यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथाऽपि तदभावमेवोपपादयितुं गूढाभिसन्धिना पक्षपरिग्रहः कृत इति ज्ञातव्यम् ।

३०सु०- अत एव पक्षान्तरमपि गृह्णाति कथमिति ।

अनु०- कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते

परमाणोरणुत्वाद् द्व्यणुकेऽणुत्वं, द्व्यणुकाणुत्वात् त्र्यणुकेऽणुत्वं ततश्च चतुरणुकेऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः ।

३१सु०- नन्वेवं सति पक्षद्वयोक्तदोषापत्तिर्व्याघातश्चाधिकः । तथा हि । परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूत(रूप)स्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात्, अणुत्वे चाप्रत्यक्षत्वं स्यात् । न च परमाण्वादेः प्रत्यक्षत्वं, त्र्यणुकादेरप्रत्यक्षत्वं युक्तम् । प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते, यत्प्रत्यक्षं घटादि न तदप्रत्यक्षम्, यच्चाप्रत्यक्षं गगनादि न तत्प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः ।

किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते । (तदाह) यथा आह सूत्रकारः दृष्टान्ताच्च इति । न च कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादि त्याशङ्क्य प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्टापादनत्वं वदन् व्याहतिं परिहरति प्रत्यक्षत्वेति ।

अनु०- प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले

परमाण्वादौ अखिलेऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ । न च व्याहतिः । पुरुषभेदापेक्षया व्यवस्थोपपत्तेरिति । एतच्चोत्तरत्र स्फुटीभविष्यति ।

३२ सु०- इदानीमणुत्वमहत्त्वव्याघातं परिहरति अणुत्वं चेति ।

अनु०- अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया

अखिले त्यनुवर्तते । अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते । न तु विरुद्धे । कथम् । यतो वस्तुव्यपेक्षयाऽणुत्वं च महत्त्वं च तदेवोच्यत इति योजना ।

एतदुक्तं भवति । स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत् परिमाणेऽणुत्वमहत्त्वादिजातियोगः स्यात् । न चैवम्, प्रमाणाभावात् । किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव उत्कर्षापकर्षवत्परेणाङ्गीकृतम्, यथा चाणुत्वं परमाणुद्व्यणुकयोः, एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते । तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाऽणुत्वमित्युच्यते, तदेव द्रव्यान्तर्वर्तिनोऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते । एवञ्च कुतो विरोधः । यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं न विरोधास्पदम् । अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधोऽप्यपास्तः । तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात्, न चैवम्, किन्तु पुरुषाणामिन्द्रियपाटवापाटवनिमित्तत्वमेव । अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत ।

तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न, उद्भूतरूपाभावात् ।

द्व्यणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात् पवनानुपलम्भवदि त्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम् ।

तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेन्न, अपकर्षविशेषस्य विवक्षितत्वात् । नासौ व्यवस्थितोऽस्तीति चेत् । सत्यम् । अत एव पुरुषापेक्षयेत्युक्तमिति ।

३३सु०- अस्त्वेवं परिमाणेऽवान्तरजात्यभावस्तथाऽपि न सर्वत्र महत्त्वाणुत्वाभ्युपगमो युज्यते । उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम् । तच्च द्व्यणुकादिपरिमाणे सम्भवति, न च परमाणुपरिमाणे । न हि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति, यदपेक्षया तन्महत्त्वं स्यात् । अतः परमाणोरणुत्वमेव । तथा च न महत्त्वं चे त्यसदित्यत आह तारतम्येति ।

अनु०- तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च

यस्मात् सर्वे अपि पदार्थाः परिमाणतारतम्येनैव स्थिताः । स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः; सर्वाण्यपि द्रव्याणि कुतश्चित्परिमाणादुत्कृष्टेन, कुतश्चिदपकृष्टेन परिमाणेन उपेतानीति वा । तस्मात्परमाणोरपि महत्त्वं युज्यत इति सम्बन्धः ।

अयमत्र प्रयोगः । परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयाऽपकृष्टपरिमाणवानिति वा, द्रव्यत्वात् तन्तुवदिति । न च परमाणोरपकृष्टद्रव्याभावाद्बाधितविषयत्वम्, तद्भागानां वक्ष्यमाणत्वात् । न च तेष्वेव व्यभिचारः, तेषामपि भागवत्त्वात् ।

३४सु०- तदेवं परमाणुद्व्यणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमानमिति सिद्धम् ।

३५सु०- यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः, अन्यथा सङ्ख्याया अप्यकारणात्वापत्तेः, परिमाणस्यैवमिति नियमस्य निर्मूलत्वात्; तथाऽपि वस्तुस्थितिरेव वक्तव्येति परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् ।

३६सु०- परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तम्, तदाक्षिपति यथेति ।

अनु०- यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते । परिमाणत्वतश्चेत्

यथा महत्त्वस्य विश्रान्तिस्तथा परिमाणत्व(तो) हेतोः अणुत्वस्य च विश्रान्तिः इष्यते चेत् इति योजना ।

अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते । ताभ्यां च तत्तारतम्यमुपलक्ष्यते ।

परिमाणत्वत इति । परिमाणतारतम्यत्वादित्यर्थः । तथा चाणौ सिद्धेऽणुत्वसिद्धिस्तत्सिद्धौ च तत्(अणुत्व)सिद्धिरिति परस्पराश्रयदोषः परास्तः ।

तदयमर्थः । परिमाणापकर्षतारतम्यं क्कचिद्विश्रान्तं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदि त्यनुमानेन परिमाणापकर्षतारतम्यस्य क्वचिद्विश्रान्तिसिद्धौ यत्रेदं विश्रान्तं, यतः परमाणुर्नास्ति स परमाणुरि ति परिमाणापकर्षकाष्ठाश्रयतया सिद्धस्य परमाणोः कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम्, धर्मिग्राहकप्रमाणेन स्ववचनेन (च) व्याघातादिति ।

३७सु०- अत्र वक्तव्यम् । केयं क्वचिद्विश्रान्तिर्नाम । किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं, न ततोऽपकृष्टमस्तीति; किंवा क्कचिद्द्रव्ये वृत्तिः, अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत्सर्वं क्वचिदाश्रितमेवेति ।

३८सु०- तत्राद्ये साध्ये दृष्टान्तः साध्यविकल इत्याह नेति ।

अनु०- न महत्त्वस्यापि विश्रमः

दृष्टान्तीकृतस्य महत्त्वस्य, परिमाणोत्कर्षतारतम्यस्य अपि, विश्रमः उक्तरूपो न अस्ति । न केवलं पक्षस्येति अपे रर्थः ।

३९सु०- कुतो नास्तीत्यत आह दृश्यत इति ।

अनु०- दृश्यतेऽनन्त इत्येव

परिमाणोत्कर्षतरतमभावः अनन्तः अनवधिक इत्येव दृश्यते, न त्वियत्तापरिच्छेदवानिति; बाधकप्रमाणसद्भावात्, साधकाभावाच्चेत्यर्थः ।

४०सु०- कालात्ययापदिष्टं चास्मिन्पक्षेऽनुमानमित्याह तथेति ।

अनु०- तथानन्त्यमणावपि

तथा शब्दो दूषणसमुच्चये । न केवलं परिमाणोत्कर्षतरतमभावोऽनन्त इति दृश्यते, किन्त्वसौ अणौ परिमाणापकर्षतारतम्ये ऽपि आनन्त्यम् अनवधिकत्वं दृश्यत, इत्यर्थः ।

४१सु०- दृश्यतेऽनन्त इत्येवे तीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इति एवशब्देन उक्तम् । तद्विशदयति नेति ।

अनु०- न महत्तत्त्वगुणत एतावानिति हीश्वरः । परिच्छिन्नः

महत्तत्त्वम् इति द्रव्यविशेषस्येयं(स्यैव) संज्ञा । तेन आन्महत इत्येष विधिर्न भवति । दृष्टानुगतिर्हि संज्ञाछन्दसोः इष्यते । यथाऽऽह बहुलं तणी ति । गुण शब्दोऽत्र तन्त्रेण द्विः उपात्तः । तत्राद्यस्य परिमाणाख्यो गुणविशेषोऽर्थः । द्वितीयस्य गुणनम् ईश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम् । परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथा सति दृष्टः स्यात् । यदि महत्तत्त्वादिपरिमाणगणनया ईश्वरादिः एतावान् पञ्चगुणपरिमाणवान् षड्गुणपरिमाणवान् वा इति परिच्छिन्नः स्यात् । न चैवम् । तथा सति परममहत्त्वानुपपत्तेरिति हि शब्दार्थः ।

अत्र महत्तत्त्व ग्रहणेनेदं सूचयति । यदुक्तं वैशषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणि इति तदसत्, महदहङ्कारादीनामपि सत्त्वात् । न च तत्र प्रमाणाभावः, श्रुत्यादेः प्रमाणस्य विद्यमानत्वात् । न च त्र्यणुकादिकमेव तथोच्यते, अव्यक्तत्वादिश्रवणात् । न च बाधकं किञ्चित् विद्यते, येनोपचारकल्पनेति ।

ईश्वरग्रहणेन जीवात्मनामपि यत्परैः परममहत्त्वमुक्तं तदसदिति सूचयति । उपपादयिष्यते खल्वणुत्वं जीवस्येति ।

४२सु०- दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाह तथेति ।

अनु०- तथाणोश्च नैतावद्भागता क्वचित्

यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्यते नातोऽधिकमिति साध्यं नास्ति, अतः तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य चैतावद्भागता त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्यते नातोऽधिकमितीयत्ता क्वचित् द्रव्ये न सिद्ध्यति ।

न हि महाह्रदं सपक्षीकृत्य पर्वतेऽग्निमत्त्वं शक्यसाधनम् । तदसिद्धौ च न विवक्षितार्थलाभः । अस्मादेतावद्भागमेव परिमाणमपकृष्यते नातोऽधिकमित्यस्यार्थस्य हि सिद्धावपकर्षकाष्ठाश्रयभूतं कुतश्चिदप्यनुत्कृष्यमाणं द्रव्यं सिद्ध्यतीति ।

४३सु०- यद्वाऽनेन वाक्येन प्रतिपक्षमाह । तथा हि । समर्थितं तावत्परिमाणोत्कर्षतारतम्यं न क्वचिद्विश्रान्तम्, अस्मादेतावद्गुणमेव परिमाणमुत्कृष्यत इतीयत्ताभावादिति । तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति । अत्रायं प्रयोगः । परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम्, परिमाणतारतम्यत्वात्, परिमाणोत्कर्षतारतम्यवदिति ।

४४सु०- द्वितीयं शङ्कते विश्रान्त इति ।

अनु०- विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते

विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतः अनन्तांशः द्रव्यविशेषः कश्चिदस्तीति अर्थ इति द्वितीयपक्षो गम्यत अभ्युपगम्यते यदि इत्यर्थः ।

इदमु(एतदु)क्तं भवति । परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव, किन्त्वनन्तांशरूपमपि तत्क्वचिदाश्रितमिति ।

४५सु०- निराकरोति नेति ।

अनु०-नावसाययितुं शक्यो विरोधादेव केवलम्

तर्हीति शेषः । कश्चिदिति वर्तते । एवं साधने कश्चिदपि द्रव्यविशेषो नावसाययितुं शक्यः । अयमेव सर्वतोऽपकृष्टपरिमाणवान्नातोऽपकृष्टपरिमाणोऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते । कुतः केवलं साक्षात् विरोधात् । परिमाणापकर्षोऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत् । भवितव्यं चावसानेन, अन्यथा सर्वस्याप्युत्कृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात् । एव शब्देन विरोधस्यापरिहार्यत्वं सूचयति ॥ तदनेनापसिद्धान्तोऽभिहितो भवति ।

४६सु०- यदि चानन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात्, तथाऽपि न सिसा(षा)धयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात् ।

यथा आकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थ इति चेत् । सत्यम् । नायमितो लभ्यत इति उच्यते ।

परिमाणापकर्षतारतम्यं क्वचिन्निरतिशयं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदिति विवक्षितमिति चेत् । कोऽयमतिशयो नाम । किमाधिक्यमुत न्यूनता अथ साधारणं किञ्चित् । आद्ये बाधः । द्वितीये दृष्टान्तस्य साध्यविकलता । न तृतीयः, तदभावात्, शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः ।

यथाऽऽकाशादिपरिमाणमुभयावधिमन्न भवति, तथा त्र्यणुकावयवावयवपरिमाणमपि साध्यमिति चेन्न, हेत्वभावात् । परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात् । नित्यपरिमाणत्वस्याश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः । परिमाणकाष्ठात्वस्य च साध्यत्वात् ।

एवं तात्पर्यान्तराण्यपि निराकार्याणीति ।

४७सु०- परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम् । तत्केन प्रमाणेन इत्याशङ्क्य कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्ववन्तीष्यन्ते । तत्र कालाकाशयोस्तावत्परिमाणोत्कर्षस्यानन्त्यं साक्षिसिद्धमि त्याह केवलमिति ।

अनु०- केवलं साक्षिमानेन कालो देशोऽपि नान्तवान्

केवल शब्देन प्रमाणान्तराभावं प्रतिजानीते । देश इत्याकाश उच्यते । नान्तवान् इत्यनवधिकपरिमाणोत्कर्षवान् । दृश्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । कालाकाशौ हि केवलं साक्षि(वेद्या)सिद्धावित्युपपादितं प्रथमाध्याये, अतस्तत्परिमाणोत्कर्षस्यानवधिकत्वमपि तेनैव गम्यत इति ।

४८सु०- परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम्, तत्केन प्रमाणेन इत्याशङ्क्य कालाकाशयोस्तावत्साक्षिणैवे त्याह अपर्यवसितिश्चेति ।

अनु०- अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः

द्वयोः काले गगने च । अणोश्च परिमाणापकर्षतारतम्यस्य चेत्यर्थः । अपर्यवसितिः आनन्त्यम् ।

नन्वेतदनुपयुक्तम्, परमाणुपरिमाणतोऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालाकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य प्रयोजनाभावादिति ।

मैवम् । न हि परेण साक्षादेवमुक्तम्, किन्तु परिमाणोत्कर्षपरम्परावत् तदपकर्षपरम्पराऽपि पर्यवसानवतीति । तथा च कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः ।

नन्वस्तु कालाकाशयोः परिमाणप्रकर्षोऽनवधिकः, तदपकर्षानन्त्यं तु कथम्, व्याहतत्वात् । मैवम्, साक्षिसिद्धत्वात्, प्रमितेऽर्थे विरोधानवकाशात् ।

४९सु०- कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत् । किं साक्षिणा नावगम्यते, उतावगतोऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति ।

आद्यं शङ्कते यदीति ।

अनु०- यदि नो साक्षिगम्यं तत्

तत् इति कालादेः परिमाणापकर्षस्यानन्त्यं सामान्येन परामृशति ।

दूषयति महत्त्वमिति ।

अनु०- महत्त्वं केन गम्यते

कालाकाशयोरि ति वर्तते । महत्त्वम् अनवधिकः परिमाणोत्कर्षः । तर्ही ति

शेषः ।

अयमभिसन्धिः । कालादौ परिमाणोत्कर्षस्यानन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते । तत्र वक्तव्यम् । प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति । साक्षिणेति चेत्, अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम् । तत्तेन नावगम्यत इत्युक्तमिति चेत्, इदमपि (तदपि) तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम् । अनुभवापलापो न युक्त इति

चेत्, समं प्रकृतेऽपि । यथा हि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति तथा अपकर्षानन्त्यमपीति किमेकत्र पक्षपातेन । अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति ।

५०सु०- स्यादेतत् । न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः, किन्तु अनुमानगम्यम्, तथा च न प्रतिबन्दीग्रह इत्यत आह विश्रान्तिरिति ।

अनु०- विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः

परिमाणोत्कर्षपरम्पराया इति शेषः । अनुमानत इति तृतीयार्थे तसिः । नानुमानेन कालादावनवधिकपरिमाणोत्कर्षसिद्धिः । हि यस्मात् तारतम्येन अनुमानेन तत् विश्रान्तिः दृश्यते । परिमाणोत्कर्षतारतम्यं इयत्तावत्परिमाणतारतम्यत्वात् तदपकर्षतारतम्यवदि ति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत् । न च दृष्टान्तोऽस्माकं साध्यविकल इति वाच्यम्, अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्यानन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादि त्युच्यमानत्वात् । तथा च साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम् । कथं तर्हि स एव कालादावनवधिकापकृष्टपरिमाणं न साधयेदिति ।

५१सु०- अस्तु तर्ह्यागमात्कालादावनवधिकोत्कृष्टपरिमाणसिद्धिरित्याशङ्क्याह यदीति ।

अनु०- यद्यागमादनन्तं तन्महत्त्वमवगम्यते । अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥

आगमात् स एषोऽनन्त इत्यादेः । तन्महत्त्वं कालादिपरिमाणोत्कर्षः । अणुत्वं परिमाणापकर्षः ।

एतदु(इदमु)क्तं भवति । नागमः कालाद्यनन्ततां स्वयं प्रतिपादयति, तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात्, किन्त्वनुवाद एवायम् । प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः, यस्मादागमात्कालाद्युत्कर्षोऽनवधिकः प्रतीयते तस्मादेवापकर्षानन्त्यप्रतीतेः । अनन्त शब्दो ह्यनवच्छेदमात्रमाचष्टे । स च यथा परिमाणोत्कर्षविषयो व्याख्यायते तथा तदपकर्षविषयोऽपि शक्यते व्याख्यातुमिति ।

५२सु०- परिमाणोत्कर्षवत् तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽऽगमेन वा प्रतीयत एव, तथाऽपि न तत्सत्यम्, न हि प्रतीतत्व(ति)मात्रेण सत्यतानिश्चयोऽतिप्रसङ्गादि ति द्वितीयं निराकरोति महत्त्वेति ।

अनु०-महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते

कालादौ परिमाणोत्कर्षापकर्षयोः विश्रान्तिः इयत्तावच्छेदो बलवत्प्रमाणेन नैवोपलभ्यते । अत्र महत्त्व ग्रहणं दृष्टान्तार्थम् ।

इदमुक्तं भवति । यथा कालादौ परिमाणोत्कर्षस्यानन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात् सत्यमेव तथा तदपकर्षस्यापि । विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकषांनन्त्यं कालादावसत्यं चेत् तदुत्कर्षानन्त्यमप्य(कालादाव)सत्यं स्यात्, अविशेषात् । ततश्चापरिच्छिन्नपरिमाणताऽङ्गीकारो (भज्येत) नङ्क्ष्येत । अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति ।

५३सु०- नन्वस्त्येव परिमाणापकर्षस्यानन्त्याभ्युपगमे बाधकम् । तथा हि ।

अपकर्षो नामाल्पता, आनन्त्यं चानल्पता । न च विरुद्धयोर्विशेषणविशेष्यभावः सम्भवति, न हि भवति पीतोऽपीत इति । अतो बाधकसद्भावात्प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आह अन्यदेवेति ।

अनु०- अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम्

न अनन्तत्वं नाम अनल्पत्वम् । किन्तु अन्यदेव परिच्छेदाभावरूपम् । तस्मात् परिमाणोत्कर्षापकर्षयोः समानो धर्म इति युज्यते ।

अत्रापि महत्त्वग्रहणं दृष्टान्तत्वेन, यथा महत्त्वस्य विशेषणं तथा अणुत्व

स्यापीति ।

यद्यनन्तत्वं नामानल्पत्वं स्यात् तदोत्कर्षस्यापि विशेषणं न स्यात् । न हि तदेव तस्य विशेषणं भवति, पीतः पीत इत्यदर्शनात् । अतस्तत्रानन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः । तथा प्रकृतेऽपीति । यथा हि परिमाणोत्कर्षो गगनादावधिकस्तथा तदपकर्षोऽप्यनवधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न कोऽपि दोष इति ।

५४सु०- आनन्त्यं नामानल्पत्वादन्यदित्येतत्प्रत्याययितुं दृष्टान्तान्तरमाह बहुत्वेति ।

अनु०- बहुत्वाल्पत्वयोर्यद्वत्सङ्ख्यायामुपलभ्यते । आनन्त्यम्

यद्वत् यथा सङ्ख्यायां बहुत्वाल्पत्वयोः विशेषणतया आनन्त्यमुपलभ्यते, बहुत्वमनन्तमल्पत्वं चानन्तमिति, तथा प्रकृतेऽपीति ।

यद्यनन्तत्वं नामानल्पत्वं स्यात् तदा; न बहुत्वस्य विशेषणं स्यात्, तस्यैव तद्विशेषणत्वायोगात्; नाप्यल्पत्वस्य, विरोधात्; अतः, अवच्छेदाभाव एव अनन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्वं (चानन्त)चापर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः । तथा परिमाणोत्कर्षापकर्षयोरपीति ।

५५सु०- ननु च नास्त्येव सङ्ख्यायां बहुत्वाल्पत्वयोरानन्त्यम् । बहुत्वस्य परार्ध

एव पर्यवसितत्वात् । अल्पत्वस्य चैकत्वावधित्वात् । यथोक्तम्, सा चैकत्वादिपरार्धपर्यन्ता इति । अतः कथमयं दृष्टान्त इत्यत आह एकेति ।

अनु०- एकभागानां तावत्वं ह्यवगम्यते

सङ्ख्यामधिकृत्य हि गणितशास्त्रं प्रवृत्तम् । तत्र च कलासवर्णनप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेषु एकभागानां तावत्त्वम् अनवधिकत्वं गम्यते हि यस्मात्, तस्मात् अवगम्यते अस्त्येकत्वादप्यपकृष्टानवधिका सङ्ख्येति । परार्धात्परतोऽपि सङ्ख्यासद्भावः स्फुट एवेति नोपपादितः । सम्भवति हि परेषामपीश्वरापेक्षाबुद्ध्या परमाण्वादौ परार्धात्परतोऽपि सङ्ख्योत्पत्तिः । ततःपरं संज्ञाकरणं तु गणकानां प्रयोजनाभावात् । एतामेव विप्रतिपत्तिमपनेतुं सङ्ख्यादृष्टान्तोपादानं कृतमिति ।

५६सु०- एवं कालाकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयति अणीयांश्चेति ।

अनु०- अणीयांश्च महीयांश्च भगवानागमोदितः

अणोरणीयान्महतो महीयानात्मे ति आगमेन भगवान् ईश्वरोऽणोरपि अणीयान् महतोऽपि महीयानुदितः । न च तत्राणुमहच्छब्दाभ्यां किञ्चिद्व्यवस्थितमुच्यते, विशेषणाभावात् । ततो यद्यदपकृष्टपरिमाणं ततस्ततोऽप्यपकृष्टपरिमाणो यद्यच्चोत्कृष्टपरिमाणं ततस्ततोऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात् । तथा चेश्वरगतयोः परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते ।

नन्वणीयान्महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात् कथं तयोः अनवधिकत्वमित्यत आह अणीयानिति । अणीयान्महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति ।

नन्वेवं सति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम् । को नेत्याह । यथा चैतत्तथा वक्ष्यते ।

५७सु०- श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याह आनन्त्येति ।

अनु०-आनन्त्यवाचकश्शब्दो द्विधाऽऽनन्त्येऽपि मानताम् । याति

सत्यं ज्ञानमनन्तं ब्रह्मे ति ब्रह्मण आनन्त्यस्य वाचकः अनन्तशब्दः तावद्देशतः कालतो वस्तुतश्चानन्त्यमाह । तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम् । कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम् । वस्त्वानन्त्यं नामापरिच्छिन्नसङ्ख्यागुणकर्मविग्रहवत्त्वम् । तत्र यदा परिमाणानन्त्यस्य वाचकः तदा द्विधाऽऽनन्त्येऽपि उत्कर्षापकर्षाभ्यामानन्त्येऽपि मानतां याति; न तूत्कर्षानन्त्यमात्रे, विशेषाभावादिति ।

५८सु०- नन्वनेकार्थत्वमन्यायः । कोऽत्र न्यायविरोधः । निरर्थकशब्दप्रयोगायोगात् तावदेकोऽर्थोऽङ्गीकार्यः, द्वितीयाङ्गीकारे तु न किञ्चिद्बीजमिति कल्पनागौरवम् ।

उच्यते । यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारस्तत्रैवमेतत् । न चैवं प्रकृते । अनन्तशब्दो हि परिच्छेदाभावमाह । परिच्छे(दश्च)दो हि देशतः कालतो वस्तुतश्च भवन् युगपदेव प्राप्नोति । न च तत्र कस्यचित्प्राथम्यमस्ति, नाप्यन्यतमपरित्यागे कारणम् । एवं परिमाणानन्त्येऽप्युत्कर्षापकर्षपरिग्रहो द्रष्टव्य इति ।

५९सु०- नन्वेवं कालतो गुणतश्चानन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात्, अन्यथाऽल्पपरिमाणवत्त्वमपि न स्यात् अविशेषादिति चेत् । किमिदं कालतो गुणतश्चाल्पत्वमापाद्यम्; किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति, किंवा सर्वकालगतस्याल्पकालेऽप्यवस्थितिः स्यात् महागुणस्य चाल्पोऽपि गुणः स्यादिति ।

आद्यं दूषयति नैवेति ।

अनु०- नैव गुणाल्पत्वं कालाल्पत्वं च मानगम्

गुणाल्पत्वं कालाल्पत्वं च मानगम् अनन्तं ब्रह्मेति श्रुतिप्रतिपाद्यं नैव भवेदिति गूढाभिसन्धेः प्रतिज्ञा । हेतुमुत्तरत्र वक्ष्यति ।

द्वितीयमाशङ्क्याङ्गीकरोति सर्वेति ।

सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः । महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ॥

इति चेत् आपाद्यते । तत् भवेद् एव इत्यर्थः । अत्र गुण ग्रहणं क्रियादेरप्युपलक्षणम् ।

गुणकालयोर्यथेष्टमुपादानं प्राथम्यनिरासार्थम् । तेनोक्तकल्पनागौरवपरिहारं सूचयति ।

६०सु०- ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते, कथं तर्हि नैव गुणाल्पत्वमि ति निराकरणमित्यतोऽभिसन्धिमुद्घाटयति तावत्त्वमेवेति ।

अनु०- तावत्त्वमेव नैव स्यात्

अल्पत्वम् एव इत्यर्थः । इत्युक्तं प्रागि ति शेषः । कुतो न स्यादिति चेत्, आपादकाभावादित्याह देशेऽपीति ।

अनु०- देशेऽप्येतन्न नो मतम्

परिमाणे अपि इत्यर्थः । एतत् तावत्त्वमेव । नः अस्माकम् ।

एतदुक्तं भवति । परिमाणविषयेऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते, आपादकान्तराभावात् । न च परिमाणेऽस्माभिरेवं व्याख्यायते अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमि ति, द्विधानन्त्येऽपीत्युक्तत्वात्; अतो निर्मूलमेतदापादनमिति ।

६१सु०- नन्वेतदीश्वरादेरनवधिकोत्कृष्टापकृष्टपरिमाणसमर्थनमयुक्तम्, सूत्रकारेण क्वाप्यनुक्तत्वात्; महद्दीर्घवद्वे ति सूत्रस्य, विजातीययोरपि कार्यकारणभावोपपादनेन, व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा, समर्थयितुं शक्यत्वादित्यत आह महत इति ।

अनु०- महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित्

निरवधिकपरिमाणोत्कर्षवतो(ऽपि) ब्रह्मणोऽल्पपरिमाणवत्त्वं च व्योम दृष्टान्तीकृत्य व्योमवच्चे ति सूत्रखण्डेन प्राह सूत्रकारः ।

अतो ब्रह्मणो गगनस्य वाऽनवधिकपरिमाणोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति ।

६२सु०- किञ्च योऽर्थो निरवकाशप्रमाणसिद्धो यद्विपर्यये चानिष्टं स सर्वोऽपि सिद्धान्त एव । तत्र कालाकाशयोरी(रपी)श्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणा आगमेन च सिद्ध इत्युक्तम् । तद्विपर्यये बाधकमाह यदीति ।

अनु०- यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्

कालादेरि ति वर्तते । सर्वत्रापि संस्थानं इति च ।

कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम् । सर्वगतत्वं च सर्व(त्र)देशे संस्थानम् । तथा च यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात्, तदा सर्वत्रावस्थानमपि नो भवेत् ।

कुत इत्यत आह स्थितस्य हीति ।

स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् । एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥

ध्रुवम् इत्यवधारणे । अल्पदेशेषु स्थितस्यैवेति । यथा खल्वेकैकं वर्णमुच्चारयत एव सर्ववेदोच्चारणम्, न त्वेकमपि वर्णमनुच्चारयतः; तथा अल्पाल्पतरदेशेषु स्थितस्य एव हि सर्वदेशगतत्वं भवेत् । एकैकत्रापि देशे अनवस्थितस्याखिलदेशस्थता कुत एव भवेत् ।

अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोति(त्येव) , यश्चैकदेशान्न व्याप्नोति नासौ तत्समुदायमि त्यन्वयव्यतिरेकौ दर्शितौ ।

६३सु०- न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः किन्तु शशविषाणादिवत्सत्ताऽपि न स्यादित्याह शून्यत्वमेवेति ।

अनु०- शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः

एवञ्च कालादीनामल्पाल्पतरदेशावस्थानेऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः । अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम् । सर्वत्रापि नो भवेदि त्येव वा द्रष्टव्यम् । न हि परममहत्त्वाभावे सर्वगतत्वं सम्भवति, तथा चाह विभुत्वान्महानाकाश इत्यादि ।

अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम्, न चैवमाकाशादीति चेत् । तत्किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत, किन्त्वेकमेव; तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत् तदा तत्तत्परिमाणं भवत्येव (भवेदेव) । यदि तव तत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेन्न, तस्य सांशत्वेनान्यथासिद्धत्वात् ।

६४सु०- ननु च सर्वमूर्त(द्रव्य)संयोगित्वमेव सर्वगतत्वं, न सर्वत्र संस्थानम्; आकाशादेरनाश्रितत्वात् । संयोगश्च तत्तत्परिमाणाभावे(ऽपि) भवेदेव, न हि घटो गगनेन संयुज्यमानो भवति परममहान्नापि परमाणुना संयुज्यमानः परमाणुः । तत्कस्य हेतोः । संयोगस्य प्रदेशवृत्तित्वादिति ।

मैवम् । सर्वपरिमाणानामप्याकाशे सत्त्वात् परमाणुना च घटांशस्यैव संयोगात् । तथा हि । विशेषशक्त्या, निर्भेदमप्याकाशमनन्तांशोपेतम् । तत्र अनवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते । ततश्च घटो वितस्तिपरिमाणेनैवाकाशेन संयुज्यते, स्वयं च तत्परिमाण इति को दोषः । घटांश एव परमाणुसंयोगो वर्तते न घट, इति कथं घटस्य परमाणुता । तर्ह्याकाशप्रदेशा एवाल्पाल्पतरप्रदेशसंयोगिन इति त एव तत्तत्परिमाणाः स्युर्नाकाशमिति चेन्न; तेषामप्याकाशात्मकत्वात्; अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद्व्याघातादिति ।

६५सु०- कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरति अत इति ।

अनु०- अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित्

क्वचित् कालादौ त्रये ।

६६सु०- यद्वाऽनुमानदूषणोपसंहारोऽयम् । ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति ।

६७सु०- कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरानन्त्यमस्तीत्युक्तम् । न केवलं तेष्वेव । किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरेऽपीत्याह उभयेति ।

अनु०-उभयानन्त्ययुक् तस्माद्यदि मुख्यं महद्भवेत्

तस्मादिति । कालादिषूक्तन्यायात् ॥ मुख्यं महत् परममहत् ।

६८सु०- यदि कालादेरप्यानन्त्यं स्यात् । कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते, न ह्यतिव्याप्तं लक्षणं भवतीत्यत आह तच्चेति ।

अनु०- तच्च ब्रह्म परं साक्षात्

परम् इति केवलार्थे ।

यद्यपि कालादिकमप्यनन्तं, तथाऽपि ब्रह्मैव तदनन्तमित्युच्यते । कुतः । साक्षात् परानपेक्षयाऽनन्तत्वात् । अपराधीनत्वापेक्षयेति यावत् ।

पक्षान्तरमाह सर्वेति ।

अनु०- सर्वानन्त्ययुतं

नास्यां श्रुतावानन्त्यमात्रं लक्षणत्वेनोच्यते, किन्तु देशतः कालतो गुणादितश्च । तादृशं च ब्रह्मैवेति न दोषः । यथोक्तम्

देशतः कालतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः इति ।

पक्षान्तरमन्वाचिनोति सदेति ।

अनु०- सदा

पूर्वेणैव सम्बन्धः । तथा च कालक्षणेषु देशतोऽनन्तेष्वपि नातिव्याप्तिरिति ।

६९सु०- परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् । तदसत्; परिमाणस्य द्रव्याश्रयत्वात्; परमाणुतोऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् । मैवम्, परमाणुभागानां सत्त्वात् । न च तेषु विश्रान्तिः, तेषामपि (भागसत्वात्) सभागत्वात् । अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं, साक्षी नाम प्रमाणमेव नास्ती ति वदतो बाधकं तावदाह यदीति ।

अनु०- यदि साक्षी स्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वम्

साक्षी नाम मानं यदि न इष्यते, तदा अक्षजादेः ज्ञानस्य मानत्वम्, च शब्दाद्बहिः कालाकाशादिकमन्तःसुखादिकं च, केन प्रमाणेन गम्यते । न केनापि, ताहकस्य प्रमाणान्तरस्य अभावात् । न च तन्मा भूदिति वाच्यम्, तद्व्यवहारविलयप्रसङ्गादिति ।

नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम्, साधकं (तु) किमि त्यत आह स्वयम्भात इति । यस्तु स्वयं प्रकाशमानेऽपि साक्षिणि विप्रतिपद्यते सः अक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदि ति प्रसङ्गसूचितेनानुमानेन बोधनीयः । प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति । धर्मिग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम्, अत एव मानम् इत्युक्तम् ।

७०सु०- न साक्षिणोऽनभ्युपगमेऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते, प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वाऽनुमानेन तत्सिद्धेरि त्यत आह अनवस्थेति ।

अनु०- अनवस्थाऽन्यथा भवेत्

अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे ।

तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न, तस्य स्वप्रकाशत्वादिति । तदिदमुक्तं स्वयम्भात इति ।

७१सु०- किमतो यद्येवं साक्षी नाम प्रमाणमस्तीत्यत आह अत इति ।

अनु०- अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।

सर्वदिक्ष्वपि सम्बन्धात्

साक्षित इत्यर्थः । सर्वपदार्थानां परमाणोस्तद्भागानां चेत्यर्थः । सन्त्येव इति सिद्धमि ति शेषः ।

७२सु०- यद्वा सर्वपदार्थानामि त्यनेनानुमानमपि सूचयति परमाणुः सभागः पदार्थत्वाद्घटवत् इति । न चाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा, साक्षिणा परमाणुसिद्धेरुक्तत्वात् । तेन च सभागतयैव सिद्धेः ॥ न चैवमनुमानवैयर्थ्यम्, प्रमाणसम्प्लवाङ्गीकारात्, सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च ।

७३सु०- अनुमानान्तरमाह सर्वदेति । युगपदित्यर्थः । सर्वदिक्षु स्थितैर्द्रव्यैः सम्बन्धात् संयोगात् अपि भागाः सन्ति इत्यवगम्यते ।

७४सु०- यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम्, गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभावात्; तथाऽपि बहुभागसाधनाय विशेषणोपादानम् । तथा हि, परमाणुर्दशभागवान्युगपद्दशमूर्तसंयोगित्वात् (प)घटवदि ति ।

७५सु०- ननु द्रव्यत्वेनैवालं किं संयोगित्वेन । (हेतूच्छित्तिरूप) विपक्षे बाधकसूचनार्थमिति ब्रूमः ।

७६सु०- तथा हि । अस्ति तावत्परमाणोः परमाण्वन्तरसंयोगः, अन्यथा द्व्यणुकाद्यारम्भानुपपत्तेः । न चैकेनैवेति नियमः; कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात्, पाषाणादिमध्यवर्तिनः परमाणोः परितोऽवस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च । न च मूर्तानां युगपदे(दने?)कदेशावस्थानं सम्भवति ।

७७सु०- प्रदेशवर्तिनश्च संयोगाः, साक्षिसिद्धत्वात्, घटादौ तद्दर्शनेन च परमाणौ(णावप्य) तदनुमानाच्च; तथा च, यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्येते ति ।

७८सु०- ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव, न तु घटसंयोगो घटावयवे वर्तत इति; तत्कथं भागाभावे संयोगानुपपत्तिरिति । मैवम्, प्रत्यक्षादिसिद्धस्य अवयववृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात् । वक्ष्यते चैतत् ।

७९सु०- ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् । यो हि सर्वतोऽपकृष्टो, यतः १परमाणुर्नास्ति, तं परमाणुमाचक्षते । तस्य सावयवत्वेऽवयविनोऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात् कथं न व्याहतिरित्यत आह अविभाग इति ।

अनु०-अविभागः पराणुता

स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् । न चैवम्, सावयवतया साक्षिसिद्धे तदसम्भवात् । किन्तु अविभागः, पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम् । तथा च कुतो व्याघात इति ।

८०सु०- नन्वविभाग इति कथमिदं विज्ञायते । सर्वथा विभागलक्षणगुणाभाव इति चेन्न, गुणादेरपि परमाणुत्वप्रसङ्गात् । द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न, असम्भवात् । यत्किञ्चिाद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् । अवयवविभागाभावोऽभिमत इति चेन्न; गगनादेरपि परमाणुत्वापत्तेः, अवयवनाशादेव नष्टस्यावयविनोऽपि तदापत्तेः इति ।

मैवम् । यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदाऽपि भवितुमर्हति स परमाणुरिति व्याख्यानात् ।

८१सु०- एतेनावयवपरम्परावि(श्रान्त्यभा)श्रमाभावेऽनवस्थेत्यपि परास्तम्, मूलक्षयाभावस्य सूचितत्वात् ।

८२सु०- यद्वा विभिद्यते विभज्यते इति विभागः, तदभावः परमाणुतेति । यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं (वस्तु) नास्ति स परमाणुरिति यावत् ।

८३सु०- नन्वेवमवयवपरम्पराविश्रान्त्यभावेऽनन्तावयवारब्धत्वाविशेषात् सर्षपमहीधरयोः परिमाणाविशेषः स्यात् । न च कारणसङ्ख्याऽविशेषेऽपि तत्परिमाणप्रचयविशेषात् सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम्, अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति ।

८४सु०- उच्यते । किमयं प्रसङ्गः, उतानुमानम् ।

आद्ये ह्ययमर्थः । यदि सर्षपमहीधरावविश्रान्तावयवपरम्परौ स्यातां तदा अनन्तावयवारब्धौ प्रसज्येयाताम्, तथा च समपरिमाणौ भवेतामिति । तत्रोभयत्रापि व्याप्त्यभावः । यदविश्रान्तावयवपरम्परं तदनन्तावयवारब्धम्, यच्चैवं तत्तुल्यपरिमाणमिति । किन्नाम भवतोपलब्धम् ॥

किञ्चावयवपरम्पराविश्रान्त्यभावे ते सर्वेऽपि सम्भूयानन्ताः स्युः । सर्षपमहीधरारम्भकाणामानन्त्यं तु कुतः ॥ अत एव द्वितीयप्रसङ्गस्यापादकासिद्धिः ॥

एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्ख्यावयवारब्धत्वं, ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादितीत्यपि परास्तम्; व्याप्त्यसिद्धेः, समसङ्ख्यावयवारब्धत्वासिद्धेश्च ।

द्वितीये त्विदमुक्तं स्यात्, सर्षपमहीधरौ नानन्तावयवारब्धौ विसदृशपरिमाणत्वात्, विमतौ नाविश्रान्तावयवपरम्परौ अनन्तावयवानारब्धत्वादि ति । आद्ये सिद्धसाधनम् । न हि सर्षपादेरवयवपरम्पराविश्रान्त्यभाववादिनाऽनन्तावयवारब्धत्वमङ्गीकृतम्, किन्तु सम्भूतानामनन्तत्वम् । तदभावसाधने मां प्रति दृष्टान्ताभावः, गुणादौ साधनाभावात् ॥ द्वितीयस्य त्वप्रयोजकतेति ।

८५सु०- स्यादेतत् । सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश एवे त्यापादनार्थ इति चेन्न, पार्थिवपरमाणूनामनन्तत्वेऽपि मूर्तान्तरावकाशदर्शनात्, सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च । अत एव हि आकाशादीनामप्यनवधिकामंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम् ।

८६सु०- ननु मा भूत् साक्षात्सर्षपमहीधरारम्भकाणां समसङ्ख्यत्वम्, तथाऽप्यवयवपरम्पराया विश्रान्त्यभावे सम्भूतावयवानां समसङ्ख्यत्वात् परिमाणभेदो न स्यादि(त्युच्यत इति)ति चेन्न, आनन्त्येऽपि तारतम्यसम्भवात् । अनन्ता हि पार्थिवपरमाणवोऽनन्ताश्चान्त्यविशेषाः, न च ते समसङ्ख्याः; तथा सत्याप्यपरमाणुषु तदभावापातात् ॥ तथा सर्वकल्पेषु संसारिणोऽनन्ताः । तथाऽप्यपवर्गवशात् तारतम्यमुपेयमेव ।

एवमनेकमुदाहरणमिति ।

८७सु०- यदेतत्सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम्, तदुपलक्षणमात्रम् । अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान् द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोति तत्संयोगादिति ।

अनु०- तत्संयोगादनियतात्पदार्थानां जनिर्भवेत्

अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तोऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव संयोग(स्यासमवायिका)स्य कारणत्वमित्याद्याचक्षते ।

तदश्रद्धेयम् ॥ किन्नाम तेषां कारणानामनियतादुक्तनियमरहितात्संयोगात्पदार्थानां द्रव्याणां जनिर्भवेत्, किञ्चित्कार्यं द्वयोः परमाण्वोः संयोगादुपजायते तद् द्व्यणुकमुच्यते, कदाचित् त्रयाणां तत् त्र्यणुकम्, चतुर्भिः परमाणुभिरारब्धं च(तच्च)तुरणुकम्, एवमन्यदपि । तथा किञ्चित्सजातीययोः परमाण्वोः संयोगात्, किञ्चिद्विजातीययोः । एवं किञ्चित्परमाण्वोरेव संयोगात् किञ्चित्परमाणुद्व्यणुकयोरित्यादि । एवं द्व्यणुककार्योत्पत्तावप्यनियमो द्रष्टव्यः ।

८८सु०- कुत इति चेत् उक्तनियमे प्रमाणाभावादित्याह द्वयोरेवेति ।

अनु०- द्वयोरेव तु संयोग इति केनावसीयते

तुशब्दो विशेषार्थः । तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते । संयोगः आदिकार्यस्यासमवायिकारणमिति शेषः । केन प्रमाणेनेत्याक्षेपे । उपलक्षणमेतत् । त्रयाणामेव द्व्यणुकानामित्यपि द्रष्टव्यम् ।

ननु सावयवस्यानेकसंयोगः सम्भवति, परमाणुस्तु निरवयवः, इति द्वयोरेवेति नियमसिद्धिरित्युक्तोत्तरम् । निरवयवत्वे द्वयोरपि संयोगो न सम्भवति, संयोगस्यांशवृत्तित्वात् ।

८९सु०- ननु सजातीयसंयोग एवारम्भक इति नियमो न निष्प्रमाणकः, परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात् । तथा हि । पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत, पार्थिवतैजसाभ्यामुत्पन्नमगन्धरूपं उत्पद्येत, एकस्य गन्धादेरनारम्भकत्वात्; अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्यारम्भकत्वसिद्धिरि त्यत आह कारणस्येति ।

अनु०- कारणस्य गुणास्तेन भवेयुः कार्यगा अपि

तेनेति । द्वयोरेवेति नियमाभावेनेत्यर्थः ।

स्यादेतद्विजातीयारम्भकत्वे बाधकम्, यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान् स्यात् । न चैवम् । तथा च बहूनां परमाणूनां विजातीयानां संयोगात् कार्यारम्भे कारण गता गन्धादयो गुणाः (सद्वितीयाः) सजातीयाः सन्तः (कार्यगाः) कार्यगतगन्धाद्यारम्भका अपि भवेयुः, को दोषः ।

९०सु०- नन्वनियमवादिना द्वयसंयोगस्यारम्भकत्वं तावदिष्यते । तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेन्न, एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात् ।

अपेक्षणीयान्तराभावात् सन्ततोत्पत्तिप्रसङ्गो बाधक इति चेन्न; कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात्, समवायिकारणाभावे कार्यानुत्पादात्, अन्यथाऽनेकगन्धाद्यभ्युपगमेऽपि समानो दोषः ।

तदिदमुक्तं कार्यगा इति ।

९१सु०- एतच्च परमतरीत्योक्तम् । वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः, ततश्च विजातीयारम्भकत्वे को दोषः ।

एवं तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत् । ततः किम् । व्यवहारविलोपः स्यादिति चेन्न, वैशेष्यात्तु तद्वाद इति परिहरिष्यमाणत्वात् ।

तथाऽपि सम्प्रतिपन्नसजातीयारब्ध(कार्य)दृष्टान्तेन विप्रतिपन्नानामपि सजातीयारब्धत्वमनुमास्यत इति चेन्न, विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात् ।

९२सु०- स्यादेतत्, यदि बहूनां परमाणूनां संयोगस्यारम्भकत्वं स्यात् । न चैवम् । आरम्भकसङ्ख्यापकर्षतारतम्यं क्वचिद्विश्रान्तम्, तारतम्यत्वात्, परिमाणतारतम्यवदि त्यनुमानेनारम्भकसङ्ख्यापकर्षस्य क्वचिद्विश्रान्तिसिद्धौ एकस्यारम्भकत्वे सन्ततोत्पत्त्यादिप्रसङ्गात्, त्र्यादिकल्पने गौरवात्, द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेः इत्यत आह तारतम्येनेति ।

अनु०- तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः

यतः कारणात् तारतम्येन सर्वेऽपि अर्था महान्तश्चाणवश्च, समर्थिताः, ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वात्, द्वयोरेव तु संयोग इति केनावसीयत इति सम्बन्धः ।

किञ्च अनेनैव न्यायेन द्व्यणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते बहुत्वा

भावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादि ति चेन्न; यतः तारतम्येन सर्वेऽपि महान्तश्चाणवश्च, समर्थिताः, तेन द्व्यणुकमहत्त्वात् तदुत्पत्त्युपपत्तेः ।

परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति ।

९३सु०- अस्त्वेवमुक्तनियमेषु प्रमाणाभावस्तथाऽप्यनियमसृष्टौ किं मानमिति चेत्; साक्षी तावत्, लोष्ठादिकार्याणामनियतसङ्ख्यैर्विजातीयैविंसदृशैश्चारम्भदर्शनेनानुमानं च, आगमाश्चात्र बहुलं भवन्ति ।

९४सु०- तद्दर्शनं भ्रान्तिरिति चेत् । किं नियमग्राहकप्रमाणविरोधादेवमुच्यते, उत केवलया वैशेषिकादिकल्पनया विरोधात् ।

आद्यं दूषयति न चेति ।

अनु०- न च तत्प्रोक्तसृष्टौ तु मानं

सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु

मानं नास्ति, यत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य बाधकं स्यात् । तथा चोक्तम् (प्राक्) ।

द्वितीयं दूषयति केवलेति ।

अनु०- केवलकल्पना । कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥

निर्मूलेत्यर्थः । साक्षी इत्युपलक्षणम् । अस्य अनियमारम्भस्य । कल्पनामात्रस्य प्रामाणिकनिवारकत्वेऽतिप्रस(ङ्ग इति)ङ्गादिति भावः ।

९५सु०- अत्र तत्प्रोक्तसृष्टावि ति सामान्यतो वदताऽन्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम् । तथा हि ।प्रकृतेर्महान्महतोऽहङ्कारः अहङ्कारात्क्रमेणाकाशादीनि महाभूतानी त्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता ।

विनैव बाधकेन आकाशाद्वायुर्वायोरग्निरि त्यादिपञ्चमी भाक्त स्वीकृता ।

अत्यन्तासत एव च जनिरङ्गीकृता ।

९६सु०- सर्वाऽपि सृष्टिः समवाय्यादिकारणत्रयाधीनाऽभ्युपगता । तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम्; अत एवासमवायिकारणमपि, तदधीननिरूपणत्वाच्च तल्लक्षणस्य, समवायिनिमित्तयोरतिव्याप्तेश्च ।

तथा हि । तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवायिकारणम्, स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः, समवायिकारणतयाऽवधृतसामर्थ्यश्च । शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापेक्षाबुद्धिर्निमित्तम्, सा च द्वित्वसमवायिकारणात्मसमवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना ।

समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभि(हि)मतम्, न च तथा प्रकृत इति चेत्; तथाऽपि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः, न ह्यन्यगतं व्याप्यबुद्ध्याद्यन्यगतस्य व्यापकबुद्ध्यादेर्निमित्तं भवति ।

आत्मनि प्रदेशभेदान्नेति चेन्न; आद्यादिशब्दानां द्वितीयादिशब्दासमवायिकारणत्वाभावापत्तेः, एकाकाशगतत्वेन तत्सम्भवे प्रकृतेऽपि समानम् ।

९७सु०- एवमन्यत्राप्यतिव्याप्तिरूहनीया ।

९८सु०- सङ्केतोऽयमाचार्यस्य, अतो नातीवात्र निर्बन्धः करणीय इति चेत्; एवं तर्हि निर्मूलैवेयं प्रक्रियेति सिद्धमेव ।

९९सु०- पाकजप्रक्रियां चाप्रामाणिकमङ्गीकुर्वन्ति । त(त्र)च्च वक्ष्यत इत्यलम् ॥

१००सु०- ननु परमाणुद्व्यणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः । तत्कथमुक्तं साक्षिमितस्ये ति । तत्राह यदीति ।

अनु०- यदि साक्षिमितं नैतत्

एतदिति । परमाण्वादिकम् । तर्हि तदप्रामाणिकमेवापद्यत इति शेषः ।

१०१सु०- स्यादेतत् । यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः । बहिरस्वातन्त्र्यान्मनसोऽपि । आगमादि तु नानुमानादि्भद्यते, भेदेऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नागमस्य विषयः । तथाऽप्यनुमानं तत्र (प्रमाणं) भविष्यति । तत्कथं परमाण्वादेः साक्षिवेद्यत्वाभावेऽप्रामाणिकत्वापत्तिरित्यत आह नेति ।

अनु०- नानुमा तत्र वर्तते

१०२सु०- कथमिति चेत्; किं परमाण्वादिकमेव पक्षीकृत्य तत्साध्यते, उतान्यत् ।

१०३सु०- आद्ये तत्प्रमाणान्तरतः सिद्धं न वा । पक्षद्वये दोषमाह पक्षीकर्तुमिति ।

अनु०- पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत्

सिद्धत्वे पक्षलक्षणाभावादसिद्धत्वे न्यायाविषयत्वात् परमाण्वादेः पक्षीकर्तुमशक्यत्वात्, तत्पक्षीकारेण अनुमा दूरनिरस्तेति ।

१०४सु०- ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आह यत्रेति ।

अनु०-यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्

यथा तथे त्यध्याहर्तव्यम् । यत्र यद्विषये । विषयं देशम् ।

यथा हि विषयप्राप्तेः पदन्यासः कारणम्, स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतु(क)त्वात्; अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति; तथाऽनुमोत्पत्तौ पक्षीकरणं कारणम् । न हि पर्वतादिर्वा वह्न्यादिर्वा अनुमानस्य विषयः, किन्तु तत्सम्बन्धः। न च सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति । अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति ।

१०५सु०- द्वितीयमपि निराकरोति पक्षीकर्तुमिति ।

द्व्यणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः, कार्यमेवात्र प्रमाणमि त्युक्तत्वात् । तच्चेदानीमप्यसिद्धमिति पक्षीकर्तुमशक्यत्वात् कुत एव तत्कारणपरमाण् वनुमा भवेत् ।

१०६सु०- अनुमितं द्व्यणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेन्न ।

१०७सु०- तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते तदोक्त एव दोष इत्याह पक्षीकर्तुमिति । अद्याप्यसिद्धस्य परमाणोः पक्षीकर्तुमशक्यत्वात् कुत एव तत्कार्यद्व्यणुका नुमा भवेत् ।

१०८सु०- नन्वणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदि त्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेन्न, विकल्पानुपपत्तेः । अणुपरिमाणशब्देन किं परिमाणापकर्षोऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्व्यणुकपरिमाणम्, यदि वोभयपरिमाणम् । नाद्यः, दूषितत्वात् ।

उत्तरपक्षत्रयं दूषयति पक्षीकर्तुमिति । परमाणुद्व्यणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः, एकैकत्र तारतम्यस्य अभावाच्चेति भावः ।

१०९सु०- यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत्त्र्यणुकमित्युच्यते ॥ तदिदं महत्, चाक्षुषद्रव्यत्वात्, घटवत् । कार्यं च; महत्त्वे सति चाक्षुषत्वात्, महत्त्वे सति क्रियावत्त्वाद्वा । सावयवं च, कार्यद्रव्यत्वात् ॥ तदवयवाश्च द्व्यणुकनामानः । तेऽपि कार्याः सावयवाश्च, महद्द्रव्यारम्भकत्वात् तन्तुवत् ॥

यश्च तदवयवः स एव परमाणुः, तदवयवकल्पनायां प्रमाणाभावाद्बाधकसद्भावाच्च ॥ अतोऽनुमानेनैव परमाणुद्व्यणुकसिद्धिरित्यत आह पक्षीकर्तुमिति । प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधनाय पक्षीकर्तुमशक्यत्वात् कुत एव द्व्यणुकपरमाण्वोः अनुमा भवेत् ।

११०सु०- महत्त्वात् कथमसौ परमाणुरिति चेन्न, महत्त्वासिद्धेः । चाक्षुषद्रव्यत्वात् तत्सिद्धिरिति चेन्न, कस्यचिदमहतोऽपि चाक्षुषत्वे बाधकाभावात् । महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत्; सत्यम्, क्वचिदन्यदपि कारणं कल्पयिष्यते । गौरवं तथा सति स्यादिति चेन्न, धर्मिकल्पनातो धर्ममात्रकल्पनायाः लघुत्वात् ।

अस्तु वा महत्त्वम् । तथाऽप्यणुत्वेन तस्य समावेशे को विरोधः । कार्यत्व

साधनं चाप्रयोजकम्; महतोऽप्यात्मनः प्रत्यक्षवच्चाक्षुषत्वोपपत्तेः, परममहत्त्वाभावेन क्रियासम्भवाच्च । महत्त्वस्य कारणबहुत्वं कारणमिति चेन्न, नित्यत्वोपपत्तेः । चाक्षुषमहत्त्वान्नेति चेन्न, बाधकाभावात् ॥ अत एव कार्यद्रव्यत्वमसिद्धम् ।

सन्तु वा तदवयवास्त एव परमाणव इति तेषां पुनरवयवसाधनाय पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् ।

ननु महद्द्रव्यारम्भकत्वात् तेऽपि सावयवा एवेति चेन्न, निरवयवस्य म(हा)हद्द्रव्यारम्भकत्वे बाधकाभावात्, बहुत्वेनैव महत्त्वारम्भोपपत्तेः, द्रव्यारम्भे सावयवत्वस्यानुपयोगात् ।

सन्तु वा द्व्यणुकावयवास्तेऽपि कुतः परमाणवः, महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् । अनवस्था बाधिकेति चेन्न, तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः । कथं चेयमनवस्था दूषणम् । मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता । घटादिकार्यानुत्पत्तिरिति चेन्न; सावयवस्यैव नित्यत्वोपपत्तेः, यथोक्तम् अविभागः प(राणु)रमाणुते ति ।

१११सु०- एवं परमाणुद्व्यणुकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्यानुमानिकत्वं न युज्यत इति यदुक्तं तत्प्रपञ्चयति देशान्तरेति ।

अनु०- देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत्

योऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण

युक्तो देशत्वाद्धस्तादिदेशवदि त्याद्यनुमानैः खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम् । त एते देशान्तरादिशब्दाः देशान्तरादिसाधकानुमानप्रयोगाः । शशृङ्गादिशब्दवत् शशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते । अनेनैव प्रकारेण शशृङ्गादिकमप्यनुमातुं शक्यत इति यावत् । शब्दमात्रमेवैतत्, न त्वनुमानमिति सूचयितुं शब्दा इत्युक्तम् ॥

न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम्; अपि तु, सम्प्रतिपन्नानि सर्वश्राृङ्गाणि श्राृङ्गान्तरवन्ति श्राृङ्गत्वाद्गोश्राृङ्गवत् , विमताः सर्वे पुत्राः पुत्रान्तरोपेताः पुत्रत्वाद्देवदत्तपुत्रवदि ति शशृङ्गादिसाधकानुमानाभाससमानयोगक्षेमं च इत्यर्थः ।

११२सु०- न (च) वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे येनातिप्रसङ्गः स्यात् । किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तो देशत्वाद्धस्तादिदेशवत् , सोऽप्येवं, सोऽप्येवम्; एवं कालेऽप्यनुमातव्यम् । न चैवं शशृङ्गानुमानं शक्यम्, तस्यात्यन्तासतोऽनुपलभ्यमानस्य गवादिृङ्गैः सादृश्यसाजात्ययोरभावात् । न च आकाशादेरप्येकैकत्वात् सादृश्याद्यभावः, औपाधिकभेदेन तदुपपत्तेः । इत्यत आह सदृशं चेति ।

अनु०- सदृशं च सजातीयं नास्मत्पक्षे किमेव हि

सम्प्रतिपन्नदेशादिना सदृशं सजातीयं (च) वा अस्मत्पक्षे गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे किमेव न भवति । किन्तु भवत्येवेति । तथा च सम्प्रतिपन्नदेशस्य, ततः स्थूलेनात्मना, सदृशेन सजातीयेन वोपेतत्वस्य सिद्धत्वात्सिद्धसाधनता स्यात्; आकाशादिपरमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति ।

सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं ब•धितं सम्बन्धाभावादिति चेन्न, देशान्तरेणापि सम्बन्धाभावात् । एतेन शशविषाणादिसाधकानुमानेऽपि बाधाभिधानं परास्तम्, देशान्तरानुमानेऽपि साम्यात् ।

तदेवं परमाणुद्व्यणुकयोराकाशादिपरिमाणोत्कर्षानन्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम् ।

११३सु०- एवमागममनादृत्येश्वरधर्मानुमानमप्ययुक्तमिति प्रसङ्गादाह येनैवेति ।

अनु०-येनैव च प्रकारेणात्यसिद्धमनुमीयते । तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥

अत्यसिद्धम् इत्यनेनागमानादरं दर्शयति । शशृङ्गादेः इति अप्रामाणिकस्योपलक्षणम् । एतच्च तत्र तत्र लेशतो दर्शितम् ।

११४सु०- न (च) शशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानाम् अप्रामाण्यं युक्तम्, तथा सति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात् । तत्रापि हि शक्यते वक्तुं, यदि धूमवत्त्वात् पर्वतोऽग्निमान्, तदा पशुत्वाच्छशोऽपि विषाणवान् स्यादि ति । अथोच्येत तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः, अन्यथाऽतिप्रसङ्गात्; न चात्र तुल्ययोगक्षेमता; धूमानुमानस्य व्याप्त्यादिसामर्थ्यसहितत्वात्, शशृङ्गाद्यनुमानस्य तदभावादि ति; सममेतत्प्रकृतेऽपि । प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वात् इत्यत आह प्रत्यक्षमिति ।

अनु०- प्रत्यक्षमागमो वाऽपि भवेद्यत्र नियामकः । सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥

वा शब्दः समुच्चये । अपिः अनुमानस्य समुच्चयार्थः । नियामको ग्राहकः । मानम् अनुमानमानत्वोपयोगिनी । अन्या प्रत्यक्षाद्यगृहीता । सन्दिग्धमूलतः सन्दिग्धाव्यभिचारत्वतः, अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम् ।

तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्निना । आगमगृहीता यथा ब्राह्मणो न हन्तव्य इति । अनुमानगृहीता यथा व्यतिरेकिप्रयोगे ।

एतदुक्तं भवति । प्रत्यक्षाद्यवधृतं हि व्याप्त्यादि अनुमानमाना(नता)ङ्गम्,

न स्वसमयमात्रसिद्धम्, सन्दिग्ध•)व्याभिचा(र)रित्वात्, समयानां सन्दिग्धमूलत्वाच्च । विद्यते च धूमाद्यनुमानानां प्रमाणावधृतं व्याप्त्यादी ति न प्रतिबन्दीग्रहमात्रेण तद् भङ्गः; न परमाण्वाद्यनुमानानाम्, इति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव ।

११५सु०- ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण । तत एवाप्रामाण्यसिद्धेरिति । सत्यम्, प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्येऽतिप्रसङ्गो वा तदप्रामाण्ये दृष्टान्तो वा प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति ।

११६सु०- सत्यमेतत् प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति; सा च धूमानुमानवत् परमाण्वाद्यनुमानेष्वप्यस्त्येव, धूमस्याग्निनेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनात्; इत्यत आह सहेति ।

अनु०-सहदर्शनमात्रेण न व्याप्तिरवसीयते

न धूमादीनामप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते, येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततोऽवसीयेत; तथा सत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात्, सहदर्शनमात्रस्य तत्रापि सत्त्वात् । व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत् । किं सकलदेशकालनिष्ठोऽनुपलम्भः,

किं वा तद्विशेषनिष्ठः । नाद्यः, अस्मदाद्यशक्यत्वात् । न द्वितीयः, अतिप्रसङ्गादिति ।

११७सु०- कथं तर्हि व्याप्त्यध्यवसायः स्यादित्यत आह यदैवेति ।

अनु०-यदैवाव्यतिरेकेऽस्य ह्यक्षजं वाऽऽगमो भवेत् । तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥

अव्यतिरेके साध्याभिमतव्यतिरेकेणासत्त्वे । अस्य साधनाभिमतस्य धर्मस्य । युक्तेर्व्याप्तिनिश्चयहेतुत्वेऽनवस्था( स्या)नात्, तद्व्याप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तं तन्निर्धारितेति । व्याप्तिशब्दोऽध्याहार्यः । तेन प्रत्यक्षेणागमेन वा निर्धारितव्याप्तिकेत्यर्थः । अपरा साहित्यदर्शनमात्रनिबन्धना, न हि ।

११८सु०- अयमर्थः । नियतः सम्बन्धो हि व्याप्तिर्न सम्बन्धमात्रम् । नियमश्च व्यभिचाराभावः । अतः साहित्य इव व्यभिचाराभावेऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः । न चैतदशक्यम्, अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः । प्रकारस्तु चिन्त्यते ।

तत्र धूमस्याग्निना सम्बन्धस्तावत्प्रत्यक्षेणावगम्यते, परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते, देशान्तरादिगते तु व्यभिचारे सन्देहोऽवशिष्यते । स च न तावद्व्यभिचारचिह्नदर्शनजन्यः, किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः, धर्मश्चायमि त्येवमुत्पद्यते । तत्र यद्ययमेतत्सहवृत्तिस्वभावस्तदाऽन्यत्रापि सहैव वर्तेत, स्वभावस्यानपायात् । यदि चासहवृत्तिस्वभावस्तदाऽत्रापि न सह वर्तेत । असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत । सहवृत्तिस्वभावस्यापि निमित्तान्तराद्व्यभिचारो भविष्यतीति तु निर्बीजा शङ्का नोदेत्येव, सर्वव्यवहाराभावप्रसङ्गात् ।

तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्निसम्बन्धं गृह्णद्व्यभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव । अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सु(गम)ग्रह एवेति ।

११९सु०- नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात् कथं परमाण्वादावनुमानाप्रवृत्तिरिति चेन्न, पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात् । अथ तस्योपाधित्वं नास्तीत्युच्येत तदा बाधकमाह अन्यथेति ।

अनु०- अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत् । अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥

पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेेनैवानुमानेन परमाण्वादिसिद्ध्यभ्युपगम इत्यर्थः । मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान् रसत्वाल्लवणवदित्या द्यनुमया । अनिष्टानि च सर्वाणि दहनशैत्यादीन्यापतेयुः । कुतः । यस्मादेवंविधा अनुमा कामचारिणी ।

ननु च सप्तमरसादेरनुपलम्भादिबाधितत्वात् पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्; समं प्रकृतेऽपि, परमाण्वादेरप्यनुपलम्भबाधितत्वात् । अयोग्यं तदिति चेत्, तुल्यं सप्तमरसादावपि । अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम्, कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वमिति चेत्; एतदपि तादृगेव । अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत्; समाधिसाम्यम्, प्रमिते न गौरवं दोष इत्येतदपि समानम् ।

१२०सु०- तस्मात्परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति ॥

१२१सु०- ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥

ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ इति सूत्रम्, तत् नित्यमेव च भावादि त्यागामिसूत्रव्याख्यानन्यायेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वन्(त्) समवायाभ्युपगमाच्च साम्यादनवस्थितेरि त्येतत्सूत्रं व्याचष्टे कार्येति ।

अनु०- कार्यकारणयोश्चैव

समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । अनेन समवायप्रतिपादकं परेषां इहेति यतः कार्यकारणयोः स समवाय इति सूत्रमर्थतोऽनुवदति ।

अत्र कार्यकारण शब्दाववयव्यवयववाचकौ । तौ चोपलक्षणपराविति सूचनार्थः चशब्दः । एवशब्दः समवायस्येहप्रत्ययसिद्धत्वं सूचयति ।

१२२सु०- तदेतत्स्वयमेव विवृणोति गुणादेरिति ।

अनु०- गुणादेः पञ्चकस्य च । भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥

गुणादेः पञ्चकस्येति गुणावयविक्रियासामान्यविशेषाणामित्यर्थः । च शब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति ।

ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा, तत्किं समवायेनेत्यत उक्तं भिन्नस्यैवेति । तु शब्दो विशेषार्थः, न ययोः कयोश्चिद्गुणगुणिनोः समवायः, किन्त्वयुतसिद्धयोरेवे ति । स गुणगुण्यादिस्वभाव एव चेत्, न पदार्थान्तरसिद्धिः, इत्यत उक्तम् अन्य इति । ईर्यते वैशेषिकादिभिः अतोऽपि तद्दर्शनमयुक्तमि ति शेषः ।

अयमर्थः । वैशेषिकादयोऽवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योः विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति । ततोऽप्यनुपपन्नभाषिण इति ।

१२३सु०- ननु च गुणगुण्यादीनामत्यन्तभेदस्तावद्व्यपदेशभेदादिप्रमाणसिद्धः, अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात् । अस्ति चेह तन्तषु पटः, इह पटे रूपम् , इह मूर्ते कर्म , इह गवि गोत्वम् , इह नित्यद्रव्ये विशेषः इत्यबाधितः प्रत्ययः ।

न च इहेदमि ति प्रत्ययो विनाऽतिरिक्तेन सम्बन्धेनोपपद्यते, इह कुण्डे बदराणी ति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात् । स चायमयुतसिद्धयोः सम्बन्ध इति संयोगादि्भद्यते । युतसिद्धयोर्हि सम्बन्धः संयोगः, द्रव्यमात्रवृत्तिश्च । तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आह भिन्नत्वेति ।

अनु०- भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम्

भिन्नत्वसाम्यत इत्युपलक्षणम्, इह प्रत्ययसाम्यतश्चे त्यपि द्रष्टव्यम् । तस्य समवायस्य । ताभ्याम् अवयवावयव्यादिसम्बन्धिभ्यां, सह । योगः सम्बन्धः ।

एतदुक्तं भवति । इह तन्तुषु पटः इत्यादिप्रत्ययः, सम्बन्धपूर्वकोऽबाधितेहप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवदि ति समवायमनुमिमानेन योऽबाधितेहप्रत्ययः, स सम्बन्धपूर्वकः इति व्याप्तिरवश्यमङ्गीकरणीया । विद्यते च इह तन्तुपटयोः समवायः इत्यबाधितइहप्रत्ययः । तेन समवायस्यापि तन्तुपटाभ्यां समवायोऽभ्युपगन्तव्य एव स्यात् । न चाभ्युपगम्यते । अतस्तत्र अनैकान्तिकमनुमानमिति ।

ननु तन्तुपटयोः समवायः सिद्धो न वा । सिद्धश्चेत् किमुत्तरकालभाविनाऽनैकान्त्येन, न चेत् क्वानैकान्त्यम् । मैवम् । आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात् ।

१२४सु०- नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम् । न हि भिन्नत्वं हेतूकृतमिति । सत्यम् । अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम् । विभिन्नवस्त्वभावे खलु इह प्रत्ययो बाधितः स्यात् । इह तन्तुपटयोः समवायः इति प्रत्ययोऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेन्न; आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिसाधयिषितत्वात्, अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात्, इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च ।

१२५सु०- ननु अनवस्थितेरि ति सूत्रं कथम् । इत्थम् । यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते, तदाऽनवस्थितिरिति ।

इह केचित्समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः, तत्स्थेम्ने अनुमानमाचक्षते । तेषाम् इह प्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव । तन्मते स्फुटैवानवस्था ।

ये तु प्रत्यक्षतां नाभ्युपगच्छन्ति, सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणवत्वमाहुस्तेषाम्; अवस्थितिः = सिद्धान्तः तद्विरोधोऽनवस्थितिः इत्यनवस्थितिशब्दोऽपसिद्धान्तवाची व्याख्यायते;

यद्वेह कुण्डे बदराणीतिवत् सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या । कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना । सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेन्न, सत्यपि संयोगे कुतश्चिद्व्यवधानादप्रतीयमाने नेह बुद्धिर्भवति । भवति चासत्यपि संयोगे तद्विपर्ययादि त्यन्वयव्यतिरेकयोः कल्पकत्वात् । स्वस्वामिभावादयोऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टा नान्यथा ।

न ते सम्बन्धा अद्विष्ठत्वादिति चेन्न, संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात् । किञ्चैवं समवायोऽपि न सम्बन्धः स्यात्, तस्यानाश्रितत्वाभ्युपगमात् ।

नन्वेवं तर्हि नानैकान्त्यम्, अनवस्थयैव बाधितत्वेनाबाधितइह प्रत्ययत्वस्य तत्रावृत्तेरिति चेन्न, अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात् । साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात् ॥ तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव । किन्त्वारोपित एवासौ सम्बन्ध इति चेन्न, अनवस्थाऽनिस्तारात् । आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेयमनवस्थोक्तेति कथं (तन्निस्ता)निस्तारः ॥

किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात् ।

अपि चाबाधितोऽपि इह प्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत् तदा तन्तुपटादावपि किन्न भवेदिति समवायासिद्धिः । क्वचित्सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेन्न, स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात् । अन्यथा समवायेऽपि समवायान्तरारोपो न स्यात्, समवायान्तरस्य क्वाप्य(सत्त्वात्)सम्भवात् ।

समवाये भेद एवारोप्यते न समवायान्तरमिति चेन्न, तावन्मात्रेण इह प्रत्ययायोगात् । सम्बन्धिसम्बन्धभावोऽप्यारोप्यत इति चेन्न, तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति ।

१२६सु०- ननु समवायेऽपि इहेदम् इति प्रत्ययः समवायाधीन एव । न चापसिद्धान्तोऽनवस्था वा, तस्यैव समवायस्य स्वनिर्वाहकत्वात् । य एव हि समवायोऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावयव्यादिष्वात्मना सम्बन्ध इत्याशङ्कते स इति ।

अनु०- स स्वनिर्वाहकश्चेत्स्यात्

सः अवयवावयव्यादिसमवायः ।

एवं तर्हि किं समवायेन; द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरति द्रव्यमेवेति ।

अनु०- द्रव्यमेव तथा न किम्

तर्हीति शेषः । तथा स्वनिर्वाहकम् । किं कस्मात् ।

अयमाशयः । यदि इहेदमि ति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा, क्वचित् स्वनिर्वाहकत्वात्; तर्हि द्रव्यगुणादीनाम् इहेदमि ति प्रत्ययोऽपि नातिरिक्तसम्बन्धाधीनोऽङ्गीकार्यः, द्रव्यस्यैव स्वनिर्वाहकतयाऽपि तदुपपत्तेरिति । समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेन्न; तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः, संयोगस्यापि स्वनिर्वाहकतापत्तेश्च । तस्यानित्यत्वान्नेति चेन्न, समवायनित्यत्वस्यासिद्धेरिति ।

१२७सु०- एवं द्रव्याद्गुणादीनामत्यन्तभेदेऽपि न तत्सम्बन्धः समवायलक्षणोऽपरः सिद्ध्यति; समवायवत् द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः, कल्पनालाघव(त्व•च्चेत्युक्तम् । इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान् हेतूनपाकर्तुं तावदुपोद्घातमाह विशेष इति ।

अनु०- विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते । गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥

अभिन्ने समवाय इति शेषः । अवसीयते अङ्गीक्रियत इति यावत् । गुणक्रियादिरूपस्य विशेषस्येति शेषः । केन हेतुना न केनापि ।

इदमुक्तं भवति । समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम्, आश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इति वचनात् । न चानित्यद्रव्यगुणकर्मसामान्यविशेषाणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति, तस्याभिन्नत्वात् । अतस्तद्गतत्वं (नाम) समवायस्वरूपमेवेत्यङ्गीकर्तव्यम् । परतन्त्रतयोपलब्धिस्तद्गतत्वमिति चेन्न,

तस्याः समवायधर्मत्वानुपपत्तेः । तद्विषयत्वात् तद्धर्मत्वमिति चेन्न, विषयत्वस्यापि समवायस्वरूप(त्व•नतिरेकात् ।

१२८सु०- एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयोऽपि समवायेऽभ्युपगताः, न समवायस्वरूपादि्भद्यन्ते । भेदे हि तेषां समवायेन सम्बन्धो वक्तव्यः, अन्यथा कथमेते तत्र स्युः । न च सम्बन्धो युक्तः; संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात् ॥

तत्र पृच्छामः । समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथम् अपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत इति । न ह्य(चा)त्रोपचारादिकल्पना युक्ता, मुख्यप्रयोगादेरदर्शनात् । न तद्गतत्वादि समवायतन्मात्रं येनानुपपत्तिः स्यात्, किन्तु समवायाभिन्नमपि तद्विशेषात्मकम्,

अतो व्यपदेशभेदादि युज्यते । विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतया तत्र समाधिरभिधानीयः । तथा च यद्यभिन्नेऽपि समवाये तद्गतत्वादिविशेषोऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु न तु तन्मात्रम्; समवायधर्मस्तद्विशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावात् इति ।

१२९सु०- किमतो यद्येवमित्यत आह द्रव्यमेवेति ।

अनु०- द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा । नानाव्यवहृतेर्हेतुः

समवायधर्मवद्गुणादीनां द्रव्यविशेषत्वादित्यर्थः । अनन्त शब्दो यत्र यावन्तो व्यवहाराः तावतामुपलक्षकः । नानाव्यवहृतेः व्यपदेशभेदादेरित्यर्थः ।

१३०सु०- एतदुक्तं भवति । गुणगुण्यादेः अत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्ध्यति । गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः । तथा हि । न तावत् तत्र प्रत्यक्षं प्रमाणं, गवाश्वादिवदनुपलम्भात् । अतो गुणगुणिनावत्यन्तभिन्नावपर्यायशब्दवाच्यत्वात् घटपटवदि त्याद्यनुमानमेव वक्तव्यम्; तच्चानैकान्तिकम्, समवायस्य तद्धर्माणां (च) भेदाभावेऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च । यथा समवाये तद्गतत्वादिधर्माणां भेदाभावेऽपि विशेषापरनामकात्स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकं उपपादनीयं गत्यन्तराभावात् तथा गुणगुण्यादीनाम(त्यन्ता)भेदेऽपि गुणादीनां द्रव्यविशेषत्वे(न द्र) तद्द्रव्यमेव विशेषशक्त्यैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुः भविष्यति । तथा च विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति ।

१३१सु०- यद्वा विशेषस्तद्गतत्वादिरित्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते । यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषोऽभ्युपेयते विशेषेणैव च व्यवहारा निर्वहिष्यन्ते, तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात् केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः (करिष्यते) क्रियते । गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत् ।

१३२सु०- अन्यथासिद्धिमेव प्रकटयन्नुपसंहरति द्रव्यमेवेति । समवायवदि ति वक्ष्यमाणमत्रापि सम्बध्यते । यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम्, तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति ।

नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहाराणामङ्गीकृत्य हेतूनां दूषणं शक्यम्, तत्किं विशेषाङ्गीकारेण । नैवं शक्यम् । औपचारिकत्वादौ हि कदाचिन्मुख्यो व्यवहारः स्यात्, न हि तीरादौ सदा गङ्गादिव्यवहारोऽस्ति; न चैवं प्रकृते, सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात् । यदाप्यभेदबोधाय रूपमेव घट इति वा विज्ञानं ब्रह्मेति

वा व्यवह्रियते तदापि न पर्यायतामुपेत्य, तथाऽननुभवात् । अतो वक्तव्यमेवात्र निमित्तम् । तदिदमुक्तं सदेति ।

१३३सु०- नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत्; किं माता वन्ध्येतिवत् साक्षाद्विरोधः, किंवा कृतकं नित्यमितिवद्व्याप्त्या । नाद्यः; यतोऽनन्तत्वं सङ्ख्याविशेषः, एकत्वं चाभेदः । न द्वितीयः; यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात्, न चैवम्, भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्ख्यानिर्वाहात् । इत्याह अनन्तत्वमिति ।

अनु०- अनन्तत्वं विशेषतः

ईश्वराख्यद्रव्यविशेषाणाम् अनन्तत्वम् अन्यत्रानेकत्वमिति द्रष्टव्यम् । अत्रापि समवायवदि ति सम्बध्यते । एक एव हि समवायोऽनेकधर्मात्मकोऽङ्गीयते ।

१३४सु०- नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव कथं तर्हि (तद्द्रव्य) द्रव्यस्य विशेषः स्यात्, तदीयताया भेदव्याप्तत्वात् । मैवम्, विनाऽपि भेदेन तत्प्रतिनिधिना विशेषेणैव विशेषस्य तदीयतोपपत्तेः । एवं तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आह विशेषश्चोति ।

अनु०- विशेषश्च विशेषी स स्वेनैव समवायवत्

यथा समवायः स्वेनैव समवायी, न सम्बन्धान्तरेणे त्यभ्युपगम्यानवस्था परेण पराक्रियते, तथा स द्रव्येऽनेकव्यवहारनिर्वाहहेतुः, विशेषश्च स्वेनैव विशेषी न पुनर्विशेषान्तरेण; अतो न कश्चिद्दोष इति ।

समवायवत् इत्युपलक्षणम्, सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम् । यथा द्रव्यगुणकर्मसु सद्व्यवहारहेतुः सत्ता स्वेनैव सती स्वीकृता, यथा च नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुः अन्त्यो विशेषः स्वेनैवात्यन्तव्यावृत्तस्तथैवेति ।

१३५सु०- अथाऽपि स्यात् ॥ गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमि ति व्यवहारनिर्वाहाय समवायोऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम्; अभेदं (अभ्यु)चाभ्युपगच्छता त्वयाऽपर्यायशब्दवाच्यतादिसिद्धये विशेषोऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वम्; इति पक्षद्वये समाने को विशेषोऽभेदपक्षे, येन

स परिगृह्यते । समवायस्याप्रामाणिकत्वमिति चेत्, समं विशेषेऽपि । अपर्यायव्यवहारादिना स सिद्ध इति चेत्, तर्हि समवायोऽपि इहेदमि त्यादिना सिद्ध इति तुल्यम् । तदनैकान्तिकमित्युक्तमिति चेत्, अपर्यायव्यवहारादिकमपि घटपटादावनैकान्तिकमिति समानम् । अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेन्न, अभेदेऽपि प्रमाणाभावात् ।

गवाश्वादिवद्विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत्, तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम् । तद्व्यभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत्; अभेदप्रमाणमपि तादृगेव, तस्यापि क्षीरनीरादौ व्यभिचारात्, अयुतसिद्धत्वेनान्यथासिद्धेश्च ॥ तस्मान्निर्निमित्तोऽयमभेदपक्षपात इत्यत आह कल्पनेति ।

अनु०- कल्पनागुरुतादोषात्पदार्थान्तरता न हि

पदार्थान्तरता गुणगुण्यादीनामिति शेषः । यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यं, तथाऽपि भेदपक्षे कल्पनागुरुतादोषात् गुणगुण्यादीनां पदार्थान्तरता न अङ्गीक्रियते, कल्पनालाघवादभेद एवोपेयत इति ।

१३६सु०- कथं भेदवादे कल्पनागौरवमित्यत आह कल्पयित्वेति ।

अनु०-कल्पयित्वा षट्पदार्थान्साभावानपि केवलम् । एकस्मिन्स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥

केवलमि त्येतत् षडि त्यनेन एकस्मिन् इत्यनेन च सम्बध्यते । एकस्मिन् समवाये, सः विचित्रव्यवहारहेतुश्चेदङ्गीक्रियते इति शेषः । किं कस्मात् । पूर्वं द्रव्य इत्यर्थः । तस्य विशेषस्य ।

१३७सु०- अयमभिसन्धिः । व्यपदेशभेदादिप्रमाणमवलम्ब्य वैशेषिकादिभिः द्रव्यादयो भावपदार्थाः षडेव, अभावोऽपि सप्तम इति कल्पितम्, समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम्, किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युत्पत्तिरि ति च । तत्रान्ततोऽप्यङ्गीकर्तव्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्येऽपि तन्निर्वाहो वक्तव्यः, सप्तपदार्थीनिरूपणं न कर्तव्यम् ॥

यद्वा द्रव्यवत्समवायेऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः । तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः । विशेषकारणेन विना क्वचिद्भेदस्य क्वचिद्विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात् । तदभावे वाऽभेदवादे कथं कल्पनालाघवं न भवेदिति ।

भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते ।

अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्याङ्गीकर्तव्यताऽपि समर्थिता वेदितव्या । अत एव केवलशब्दसम्बन्धः । सप्तैव हि पदार्थाः । न च तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तैर(तेऽ)ङ्गीकर्तव्या इति ।

१३८सु०- न केवलं सर्वथाऽङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय (एव) एकस्मिन्विशेषाभ्युपगमे कल्पनागौरवमिति भेदमतमपहार्याभेदपक्षपातः क्रियते, किन्तु समवाये प्रमाणाभावादपि ।

१३९सु०- तथा हि । न तावत् तत्र प्रत्यक्षं प्रमाणम्, कुण्डदध्नोः संयोग इति

वत् तन्तुपटयोः समवाय इत्यप्रतीतेः । सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेन्न । तस्या असम्मतेः ।

१४०सु०- एतेन अयं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यो अनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात् पटप्रत्ययवत्, अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयस्तन्तुपटसम्बन्धत्वादेतत्तन्तुपटान्तरसंयोगवदि ति समवायप्रत्यक्षतासाधनमप्यपास्तम्, तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्ध्या आश्रयासिद्धेः । सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यात् । दण्डीकुण्डलीत्यादौ तस्य तत्पूर्वकत्वदर्शनादिति चेन्न, समवायोऽस्तीत्यादौ व्यभिचारात् ।

१४१सु०- नाप्यनुमानम् । इहेदमि ति प्रत्ययस्य दूषितत्वात्, इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च । भावमात्रविषयत्वेन विशेषणाददोष इति चेन्न, अभाववद्भावेऽप्युपपत्तौ अन्यथासिद्धेः, इह घटे ज्ञानमि ति प्रत्यये व्यभिचारापरिहाराच्च । बाधितोऽयमिति चेन्न, अन्यथाप्रत्ययानुपलब्धेः ।

१४२सु०- एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धनियतो भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात् सघटं भूतलमिति व्यवहारवदि त्यपास्तम्, ज्ञातो घटः , अस्ति समवायः इत्यादौ व्यभिचारात् ।

१४३सु०- एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वात् भूतलवत्, अयं पट एतत्तन्तुसम्बद्ध एतदाश्रितत्वादेतदाश्रिततृणादिवदि त्यप्यसत्, तन्तुपटयोराश्रयाश्रयिभावासिद्धेः । इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्ययात् तत्सिद्धिरिति चेन्न, इह समवायेऽस्तित्वमित्यादौ व्यभिचारात् ।

१४४सु०- भूतलरूपादयो भूतलसम्बद्धा भूतलविशेषणत्वात् घटवदित्यपि, भूतलविशेषणे ज्ञाने व्यभिचारादयुक्तम् ।

१४५सु०- इह तन्तुषु पट इत्यादिप्रत्यय एतज्जनकसंयोगत्वरहितसम्बन्धजन्य इहेतिप्रत्ययत्वात् इह कुण्डे बदराणी ति प्रत्ययवत्, न चेह भूतले घटाभाव इति प्रत्यये व्यभिचारः, तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वात्; इत्यपि न युक्तम्, अयं पट एतज्जनकतन्तुत्वरहितोपादानजन्यः पटत्वात् पटान्तरवदित्याभाससमानयोगक्षेमत्वात् ।

१४६सु०- रूपादयः सम्बन्धवन्तः प्रमेयत्वात् घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात् । तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेन्न; तस्य परेण सम्बन्धत्वानङ्गीकारात्, अङ्गीकारे वा तेनैवार्थान्तरत्वात्, मतुबर्थस्याभावाद्बाधितविषयत्वाच्च । समवायः स्वेनैव सम्बन्धी (इत्यादि) स्यादिति निरस्तम् ।

१४७सु०- इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकं चक्षुष्ट्वादन्यचक्षुर्वत् , अहं मन्निष्ठसंयोगज्ञानत्वरहितसबन्धज्ञानवानात्मत्वादात्मान्तरवत् , अयं काल इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान् कालत्वादन्यकालवत् इत्यादीनि आभाससमानयोगक्षेमत्वात्, विशेषणविशेष्यभावादिनाऽर्थान्तरत्वाच्चापास्तानि ।

१४८सु०- संयोगत्वं सम्बन्धव्यावृत्तं जातित्वाद्गोत्ववदि ति सिद्धसाधनम्, जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद्व्यावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च । विवादाध्यासिता मृद्घटसम्बद्धा द्रव्यत्वादाकाशवदि ति च घटान्तरसंयोगेनार्थान्तरम्, एतद्घटसम्बद्धेति निर्देशेऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्येऽनैकान्तिकम् । तत्रापि परम्परासम्बन्धोऽस्तीति चेत्, तर्हि सिद्धसाधनम्, मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात् ।

१४९सु०- तन्तुपटौ नित्यसम्बन्धसम्बद्धौ द्रव्यत्वादाकाशवदि ति, दृष्टान्तस्य साध्यविकलत्वादपास्तम् । संयोगः स्वव्यतिरिक्तसम्बन्धादि्भन्नः प्रमेयत्वात् घटवदि त्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता, एकस्य संयोगस्य संयोगान्तरादि्भन्नत्वात् । संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम् । विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम् ।

१५०सु०- अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यो मेयत्वाद्घटवत् इत्याद्याश्च आभाससमानयोगक्षेमत्वादुपेक्षणीयाः ।

१५१सु०- तदेवं समवाये प्रमाणाभावान्न भेदपक्षोऽङ्गीक्रियते ॥

१५२सु०- ननूक्तमत्राभेदपक्षोऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभावादिति, तत्राह येनेति ।

अनु०-येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् । भावाभावविभागोन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत् ॥

प्रत्यक्षसिद्धेन इत्यनेन प्रत्यक्षसिद्ध इति लभ्यते । येनाखिलो व्यवहारो भवेत् ।

यं विना न भवेत् इत्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता, व्यवहारान्यथाऽनुपपत्तिश्च विशेषे प्रमाणं, तदनङ्गीकारे व्यवहारोच्छेदप्रसङ्गश्चे त्युक्तं भवति । अखिल इत्यस्यैव विवरणं भावाभावविभागेन विधिनिषेधभेदेन (इति) । द्विविधस्तावदिति शेषः ।

ननु भेदपक्षेऽपि समवायाभ्युपगमेनाखिलोऽपि व्यवहारो घटिष्यते । अत्यन्ताभेदेऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम् । तत्किं विशेषेणे त्यत उक्तं कथञ्चनेति ।

एतादृशे सर्वव्यवहारनिर्वाहहेतौ, को द्वेषः किन्निमित्ताऽनुपादित्सा । प्रमाणाभावो ह्यनुपादाननिमित्तम्, सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः । मा भूद्व्यवहार इत्यत उक्तं वादिनामिति । उपलक्षणं चैतत् । ज्ञातॄणां चेत्यपि द्रष्टव्यम् । विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः ।

१५३सु०- किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षोऽङ्गी

क्रियते । ननूक्तमत्राभेदेऽपि प्रमाणं नास्तीति, तत्राह अभेदेनेति ।

अनु०- अभेदेन प्रतीतिश्च कार्यकारणपूर्वके । अभावान्ते पदार्थेऽस्मिन्सविशेषाऽवसीयते ॥

इहापि कार्यकारण ग्रहणेनावयव्यवयवावुच्येते । पूर्व शब्देन गुणगुण्यादिकम् । अभाव शब्देनान्योन्याभावो गृह्यते, तस्यैव धर्म्यभिन्नत्वात् । यद्वाऽभावतद्धर्मावनेनोपलक्ष्येते । अवसीयते साक्षिणा ।

१५४सु०- तथा हि । तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणाऽनुव्यवसीयते उताविलक्षणा । न तावत् द्वितीयः, प्रतीत्यपलापानुपपत्तेः । आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम् । सम्बन्धेन वि(शे)शिष्यत इति चेन्न, कुण्डबदरप्रतीतितोऽपि वैलक्षण्यानुभवात् । सम्बन्धिनोरयुतसिद्धत्वात् तथेति चेन्न, आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात् । अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं प्रत्युपयोगा(योगा)भावाद्वैलक्षण्यं नानुभूयेत । अनुभूयते च तन्तुपटादि

बुद्धिः कुण्डबदरादिबुद्धेर्विलक्षणा । इत्यभेदविषयैव साऽवसीयते ।

१५५सु०- किञ्च पटोत्पत्तेः प्राक् यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति पटोऽपि तावन्तमेव । न च मूर्तयोः समानदेशत्वं युज्यते । तेन ज्ञायते तन्त्वभिन्नः पट इति ।

न चावयवावयविनो रूपरसादि(वत् )द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम् ।

१५६सु०- नन्वभेदश्चेत्प्रत्यक्षेणैवेक्ष्यते तदा कथं शुक्लः पटश्चलति (पट) इत्यादिसामानाधिकरण्यादिव्यवहारः, तस्य दण्डी कुण्डलीतिवद्भेदविषयत्वात् । न हि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तं सविशेषेति । विशेषेण विषयेण उपेता ।

अयमर्थः । यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति, यथा घटः कलश इति । अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते । विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यवहारं प्रसूत इति ।

१५७सु०- नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं कथं कुर्यात्, करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न कुर्यात् । मैवम् । न हि प्रतीतिरस्तीत्येव व्यवहारः किन्तु प्रयोजनेऽपि सति । प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः । यदा त्वभेदव्यवहारः प्रयोजनवान् तदा सोऽपि दृश्यत एव यथा विज्ञानमानन्दं ब्रह्मेत्यादि ॥

१५८सु०- यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम् । तत्कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयति अभेदेनेति । अनुक्तसमुच्चयार्थश्चशब्दः । पदार्थ इत्येकवचनं जातिविषयम् । अस्ति यतः तस्मात् सा सविशेषाऽवसीयत इति योजना ।

ततश्चायमर्थः । अस्ति तावदवयवावयव्यादिपदार्थसार्थेऽभेदेन प्रतीतिः, कुण्डबदरादिप्रतीतितोऽस्या व्यावृत्ततयाऽध्यवसायात् । न च अभेदमन्तरेण व्यावृत्तिहेतुरस्ति । अतोऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति ॥ अस्ति च तथाऽपि सामानाधिकरण्यादिव्यवहारः । तत्र यदीयमभेदमात्रविषया स्यात्

तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात्, घटः कलश इति व्यवहारादर्शनात् । ततो ज्ञायतेऽधिकोऽपि विषयोऽस्या विद्यत इति । न च भेदोऽसाविति वाच्यम्, भेदाभेदवादेऽप्यन्ततो विशेषस्याङ्गीकार्यत्वात् । तथा चेयमभेदप्रतीतिरिन्द्रियजा सविशेषावसीयत इति ।

१५९सु०- प्रागुक्तं समवाये विशेषोऽङ्गी(कर्तव्य)क्रियत इति; तन्न तावदेव, किन्तु सर्वेष्वपि पदार्थेष्वि ति दर्शयन्विशेषस्य व्यवहारान्यथाऽनुपपत्तिसिद्धतां चोपपादयति सामान्यादीति ।

अनु०- सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः । कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥

तन्निष्ठत्वादयः व्यक्तिनिष्ठत्वादयः । कथम् इत्याक्षेपे । वस्त्वैक्येऽपि धर्म्यैक्येऽपि । कुतो न निवार्यन्त इत्यत उक्तं वादिभिरिति । अविसंवादिव्यवहारसिद्धत्वादिति यावत् ।

१६०सु०- एतदेव प्रपञ्चयति कार्यस्येति ।

अनु०-कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः । कथं विशेषो नैवास्ति

अस्ति तावदवयविनोऽवयवनिष्ठत्वं नाम धर्मः । गुणानां केषाञ्चिद्रूपादीनामाश्रयव्यापित्वम्, केषाञ्चित्संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम्, कर्मणश्च आश्रयव्यापित्वमनित्यत्वं पञ्चत्वं मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वं नित्यत्वमनुगतत्वं द्विविधत्वमित्यतिबहुलोऽयं पदार्थधर्मसमूहः । न चायमाश्रयतो भिन्न एवेति युक्तम् । अस्ति च धर्मधर्म्यादिव्यवहारः, तन्तुषु पटः , प(घ)टो न भवति घ(प)ट इत्यादिः । स चायमत्यन्ताभेदेऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति ।

१६१सु०- सत्यम् । सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु ते ते धर्माः, किन्नामाश्रयतो भिन्ना एव । तथा च तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमि त्याशयेन शङ्कते स चेति ।

अनु०- स च धर्मोऽपरो यदि

न केवलं गुणादि द्रव्यादितो भिन्नम् । किन्तु सः तत्तन्निष्ठत्वादिधर्मः च अपरः स्वाश्रयादि्भन्नो यदि अङ्गीक्रियत इत्यर्थः ।

निराकरोति षडिति ।

अनु०-षट् --- पदार्थातिरेकः स्यात्

तर्हि धर्माणां षड्भ्यः पदार्थेभ्यः अतिरेकः स्यात् । तथा च षडेव पदार्था इति नियमो भज्येतेति ।

१६२सु०- ननु स्वाश्रयतो विभिन्ना अपि धर्मा न ष(ड्भ्यः)ट्पदार्थेभ्योऽतिरिच्यन्ते, किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते । यथाऽऽह यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते । किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्ती ति । अन्यत्रापि तेषां धर्मास्त एव परस्परं विशेषणीभूताः इति । तत्कथं नियमभङ्ग इति । मैवम्, तन्निष्ठत्वादीनां षट्सु पदार्थेष्वन्तर्भावयितुमशक्यत्वात् ।

१६३सु०- तथा हि । आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः इत्यभ्युपगतं कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद् द्रव्यादिकम्, गुणादिवृत्त्यनुपपत्तेः; नापि समवायः, तस्य स्ववृत्त्यनुपपत्तेः, किञ्चाधार्याधारभूतयोः सम्बन्धः समवाय इष्यते, तथा च कथं स एवाधारित्वमाधारत्वं च स्यात् ।

१६४सु०- तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति, तेषां गुणवृत्तित्वासम्भवात् । समवायस्तूक्तरीत्या निरस्तः ।

१६५सु०- अपि च वृत्तित्वमात्रं समवायः, व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्य(र्वाच्य)म् । कृत्स्ने स्वाश्रये समवायस्तदिति चेन्न, द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात् । स्वाभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेन्न, तस्याप्यन्तर्भाव्यत्वात् । अभावोऽसाविति चेन्न, निराकरिष्यमाणत्वात् ।

१६६सु०- एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम् ।

१६७सु०- उद्भूतत्वं च न जातिविशेषः, रूपत्वादिना परापरभावानुपपत्तेः । यदि हि रूपत्वं परं स्यात् तदा स्पर्शस्योद्भूतत्वं न स्यात् । यदि चोद्भूतत्वं परं भवेत् तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात् ।

१६८सु०- चतुर्विंशतित्वं च न सङ्ख्या, गुणानां निर्गुणत्वाङ्गीकारात् । उपचारोऽयमिति चेन्न, निमित्ताभावात् । न तावदेकार्थसमवायो निमित्तम्, द्रव्ये चतुर्विंशतित्वनियमाभावात्, प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च । अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न, शब्देऽपि चतुर्विंशतित्वाभावात् । चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेन्न, बधिरादीनां रूपादिषु सङ्ख्याव्यवहाराभावप्रसङ्गात् ।

१६९सु०- एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः ।

१७०सु०- कश्चिदाह, धर्मपदार्थोऽभावेऽन्तर्भवतीति । तदसत्, निषेधबुद्धिबोध्यत्वाभावात्, अभावेऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च । द्रव्यादिषड्लक्षणान्यतमराहित्यमभावत्वम्, न तु निषेधबुद्धिबोध्यत्वमिति चेन्न; लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावः , तल्लक्षणरहितोऽभाव इत्यपि कल्पनाप्रसङ्गात् । अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः । तथा चाह भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यत इति । न च विशेषमपहाय अवस्थाभेदः शक्यनिरूपणः ।

१७१सु०- ननु धर्मा धर्मितो भिन्ना एव । न चोक्तदोषः, नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात्, धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च । तथा च भिन्नधर्मसंसर्गवशात् सर्वव्यवहारोपपत्तौ न तदन्यथाऽनुपपत्त्या विशेषसिद्धिरित्यत आह पदार्थेति ।

अनु०- पदार्थानियमेऽपि हि । धर्मस्य धर्मसन्तानादनवस्था(ऽऽकरो खनिर्भवेत् ॥

पदार्थानां षडेवेति नियमाभावपक्षेऽपि हि यस्मात् धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेत् अयं पक्षः, तस्माद्धर्मधर्माणामाश्रयाभेदेऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथाऽनुपपत्त्या विशेषोऽङ्गीकरणीय इति योज्यम् । खनिः आकरः ।

१७२सु०- एतदुक्तं भवति । धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन् प्रष्टव्यः अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति न वा । नेति पक्षेऽनुभवविरोधः, अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च; अन्यथा द्रव्यादिष्वपि तदभावापत्तिः । आद्ये तदाश्रयतो भिन्नमभिन्नं वा । आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात् । द्वितीये त्वस्ति तावत् तत्रापि धर्मधर्म्यादिव्यवहारः, स चानुपपद्यमानो विशेषं गमयतीति । किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नाः तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धं येन ते द्रव्यादितो भिद्येरन्, योगक्षेमसाम्यात् । ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथाऽनुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः (इति) ।

१७३सु०- नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम् । तच्चाश्रयतो भिन्नमेव । न चैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः, उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात् । यथाऽऽहुः मूलक्षयकरीं प्राहुरनवस्थां हि दूषणमि ति । यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा । ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आह सामान्यस्यापीति ।

अनु०- सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः । नाङ्गीकृतः

सामान्यस्य गोत्वादेः, सामान्यं सत्तालक्षणम्, गुणस्य च रूपादेः, सङ्ख्यापृथक्तवादि गुणः, अतः अनवस्थाभयादेव, हि नाङ्गीकृतः ।

१७४सु०- अयमाशयः । सामान्यस्यापि सामान्यं तावत्परेण नाङ्गीकृतम्, तथा गुणस्यापि गुणो नाङ्गीकृतः; तत्कस्मादिति वक्तव्यम् ।

न तावत्प्रतीत्यभावात्, सद्गोत्वं , चतुर्विंशतिगुणाः , रूपाद्रसः पृथगि ति प्रतिभासस्य दुरपह्नवत्वात् । न च न सद्गोत्वमि त्यादि बाधकमस्ति, येन प्रतीतस्यापि परित्यागः । गोत्वं न सत्तावदपरसामान्यशून्यत्वाद्विशेषवत् , गुणा न गुणवन्तोऽद्रव्यत्वात् क्रियावदि त्यादि बाधकमस्तीति चेन्न, विपक्षे बाधकाभावेनाप्रयोजकत्वात्, दृष्टान्तयोः(श्च) साध्यविकलत्वाच्च ॥

यदि गोत्वादौ सत्ता स्यात् तदा सत्तायामपि स्यात् तथा चात्माश्रयत्वमिति चेन्न, सत्तान्तरत्वोपपत्तेः ॥

किञ्च प्रतीते किमात्माश्रयता करिष्यति, अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात्, आत्माश्रयभयाद्यतः प्रमेयत्वादिव्यावृत्तिः तस्यैव विपक्षत्वात् ।

उक्तं च कथं स्ववृत्तिरिष्टा चेद्यथाऽन्यत्रेति गृह्यताम् । प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयते इति ॥

गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद् द्रव्यतापत्तिरिति चेन्न, प्रतीतिमनुरुध्य लक्षणान्तरस्य कर्तव्यत्वात् ।

तस्मात्सामान्ये सामान्यं गुणे च गुणः अनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम् । यथाऽऽह व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः इति ।

१७५सु०- न चानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः । तथा च यथा सा दूषणं तथा प्रकृताऽपि दूषणमेव । न चेत्साऽपि न स्यात् । इति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात् ।

यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पाद्येत, तर्हि वयमप्यत्र तद् व्युत्पादयिष्याम इति ।

१७६सु०- यदि कश्चिद्वैयात्याद् ब्रूयात् अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणो निर्बाधप्रतीतिसिद्धत्वात्, उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात्, अतो नैतन्न्यायेन धर्मपरम्परा अनवस्थाभयान्निवारणीये ति; तत्राह स चेति ।

अनु०- स च यदि नानवस्था क्वचिद्भवेत्

स च गुणस्यापि गुणः । चशब्दात्सामान्यस्यापि सामान्यं, यदि अङ्गीक्रियते, तदा ब्रूमो नानवस्था क्वचिद्भवेदिति ।

१७७सु०- अयमाशयः । एवं वदन् क्वचिदनवस्थादूषणमङ्गीकरोति न वेति वाच्यम् ॥ न चेत् दूषणान्तरमपि नाङ्गीकुर्यात्, अविशेषात् । तथा च कथायां नाधिकारी स्यात् ॥ नाद्यः, धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात् । विशेषहेतोरभावात् ।

१७८सु०- नन्वपर्यवसितपरम्परामात्रसाम्येऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम्, यत्र तदभावस्तत्रादूषणत्वमिति चेत्; किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम् । अनवस्था हि तर्कविशेषः, तर्कश्चानिष्टप्रसञ्जनम्, उत्पत्त्यादिप्रतिबन्धश्च अनिष्टः प्रामाणिकपरित्यागरूपत्वात्, उत्पत्त्यादेः प्रामाणिकत्वात्; अतस्तदप्रतिबन्धे तर्कत्वायोगात् कथं दूषणत्वम् ॥

एवमेव दूषणत्वेऽतिप्रसङ्ग इति चेत्, किं प्रामाणिकपरित्याग एवानिष्ट उत अप्रामाणिकस्वीकारोऽपि । नाद्यः, नियामकाभावात् । द्वितीये, कथं न प्रकृतानवस्था दूषणम्, अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात् । अथाप्रामाणिकस्वीकारो न दूषणम्, तर्हि प्रामाणिकपरित्यागोऽपि न (दूषणं) स्यादिति नानवस्था क्वचिद्दूषणं भवेत् ॥

अथानिष्टापत्तिहेतुरनवस्थादूषणं न पुनरनिष्टरूपेति चेन्न, अनिष्टरूपैवानवस्था दूषणम्, न त्वनिष्टापत्तिहेतुरि त्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताऽप्यनवस्था न दूषणं भवेत् । तस्मात् प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा तद्धेतुर्वाऽनवच्छिन्नपरम्पराऽनवस्थेति वाच्यम् । अत एव नातिप्रसङ्गः ।

तथा च धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः ।

एवं चोक्तन्यायेन व्यवहारान्यथाऽनुपपत्त्या विशेषसिद्धिरिति ॥

१७९सु०- अपि च यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति तेनानवस्थातो बिभ्यता गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया, विनैव बाधकेन भ्रान्तिर्वा वाच्या । प्रतीत्यपलापादितो वा बिभ्यतोऽनवस्था स्यादित्येकं सन्धित्सतोऽन्य(त्प्र)च्च्यवते । अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयमतोऽपि तत्पक्षपातः इत्याशयवानाह अस्मत्पक्ष इति ।

अनु०- अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः । अनन्यत्वान्नानवस्था

धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः । गुणाद्या गुणाः सामान्यानि च । तद्वन्तो गुणवन्तः सामान्यवन्ति च । तेन चतुर्विंशतिगुणाः , सद्गोत्वमि त्यादिप्रतीतिविरोधो नास्तीति शेषः । अनन्यत्वात् धर्मधर्मिणोरिति शेषः । अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा । अनन्यत्वे कथं तद्वत्त्वमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तं विशेषतो हि तद्वन्त इति । भेदसम्बन्धकार्यकारी हि विशेष इति ।

१८०सु०- एवमवयवावयव्यादीनामभेदोऽत्र निरूपितः । इदानीं क्वचिद्भेदाभेदावपि भवत इति तदपवादमाह भेद इति ।

अनु०- भेदो नाशे भवेत्तथा

यद्वा यद्यवयव्यादयोऽवयवाद्यभिन्नाः, कथं तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आह भेद इति ।

तथा शब्दः समुच्चये । अवयवादिषु सत्स्वेवावयव्यादीनां नाशे भेदः अभेदश्च भवेदित्यर्थः । अत्र नाश इत्युपलक्षणम् । यत्र सत्स्वेवावयवेष्ववयविनोऽभावः सति गुणिनि गुणस्याभावस्तत्र भेदाभेदावित्यादि द्रष्टव्यम् । अन्यथा यत्रावयवावयव्यादीनां युगपद्विनाशः तत्र भेदाभेदावुक्तौ न स्याताम् ।

१८१सु०- इदमुक्तं भवति । सत्यपि तस्मिन्नसत्त्वादित्यनेन हेतुनाऽवयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यतेऽत्यन्तभेदो वा ॥ आद्ये सिद्धसाधनता भागासिद्धिश्च । तथा हि । सत्यप्यु(त्यु)पादाने कदाचिदुपादेयमसत्, यथा पटः । एवं सत्यपि द्रव्ये केचिद्गुणा असन्तो यथा पाकजादयः । तथा सत्यप्या(त्येवा)श्रये काश्चित् क्रिया असत्यो, यथा पटचलनादयः ।

जातिश्च काचित् सति जातिमत्यसती, यथा ब्राह्मण्यम् । तत्र भेदाभेदयोरङ्गीकारात् भेदसाधनं सिद्धविषयम् । गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावात् भागासिद्धत्वं हेतोः इति ॥

न द्वितीयः, कालात्ययापदिष्टत्वात् । अभेदस्य प्रागुपपादितत्वादुपपादयिष्यमाणत्वाच्चेति ।

१८२सु०- स्यादेतत् । यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता, तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषेणैव निर्वाहः क्रियताम्, किं भेदाभेदाभ्युपगमेन ।

मैवम्, विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात्, सकलभेदकार्यकारित्वे विशेषो भेद एव न तत्प्रतिनिधिः स्यात् ।

किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाश्रयेणात्यन्ताभेदे सत्याश्रयाणामपि परस्परभेदः प्रसज्यते, तत्परिहारार्थं तावदवश्यं तत्र भेदोऽङ्गीकरणीयः । न चावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदाश्रयभावित्वमेव ग्राह्यम् । तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम् ।

किञ्च प्रमाणानुसारिणी व्यवस्था न तु स्वेच्छानुसारिणी । प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते ।

ननु अनित्यद्रव्याश्रिता एकत्वादयोऽपि गुणाः किं भेदवन्तः, तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति । मैवम्, उक्तोत्तरत्वात् । उक्तं ह्येतत् उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति ।

१८३सु०- ननु भेदाभेदावेकत्र विरुद्धौ । तत्कथमयावदाश्रयभाविनामवयविगुणकर्मसामान्यानामवयवादिभिर्भेदाभेदाभ्युपगम इत्यत आह विशेषमेवेति ।

अनु०- विशेषमेव संश्रित्य

भेदाभेदावेकत्र भवत इति सम्बन्धः । अवधारणं कालादिभेदव्यावृत्त्यर्थम् ।

१८४सु०- कथं विशेषाश्रयणे विरोधशान्तिरित्यत आह विशेष इति ।

अनु०-विशेषो बलवान्यतः

बलवान् भेदकार्यकरण इति शेषः । ततो विशेषं समाश्रित्य एकत्र भेदाभैदौ भवत इत्यन्वयः ।

अयमर्थः । भेदो हि विरोधशान्तिहेतुः । तथा हि । क्वचिदाश्रयभेदो यथा मधुराया• देवदत्तसद्भावः, स्रुघ्ने तदभावः । क्वचित्कालभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ । क्वचित्प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति । भेदप्रतिनिधिश्च विशेष इत्युक्तम्, अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति ।

१८५सु०- एवं तर्ह्यतिप्रसङ्गः, सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादि त्यत आह दृष्टीति ।

अनु०- दृष्टिप्रमाणतश्चैव

दृष्टिश्च तत्प्रमाणं च । प्रमाणभूता दृष्टिरित्यर्थः । ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः । चशब्दो विशेषेण सह दृष्टेः समुच्चये । न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावोऽभिधीयते येनातिप्रसङ्गः स्यादिति एवशब्दः । उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति, सम्बद्धवस्तुबुद्धितो विलक्षणतयाऽनुव्यवसायात्; अस्ति च भेदग्राहिणी, सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति । न चैते बाध्यबाधके, अन्यतराननुवृत्तिप्रसङ्गात् । नापि प्रतिपक्षभूते, प्रतिपत्तॄणामुभयोदासीनतापत्तेः । न चैवम्, अतो द्वयोरपि प्रामाण्यमेषितव्यम् । प्रमाणतश्च भेदाभेदयोरवगतयोर्न विरोधः । तदिदमुक्तं प्रमाणत इति ।

१८६सु०- ननु भ(व)वेतां भेदाभेदावेकत्रैवैकदेव प्रमितौ, तथाऽपि कथं विरोधशान्तिरित्यत आह विरोध इति ।

अनु०- विरोधो दर्शने कथम्

सह दर्शने सति कथं विरोधो वक्तुं शक्यते । सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः ।

एतदेव विवृणोति विरोधो हीति ।

अनु०- विरोधो ह्यविरोधश्च यतो दर्शनमानकौ । ततो दृष्टे विरोधस्तु सदि्भरापाद्यते कथम् ॥

सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं सहानवस्थानलक्षणविरोधे प्रमाणम्, क्वचित्सहदर्शनं चाविरोधे, अन्यस्यानिरूपणात् । अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये विरोधः कथम् उच्येत । सहदर्शने ह्यविरोधः स्यात्, पुनर्विरोधकथने व्याघातानिवारणादिति । हि शब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति ।

तु शब्दस्य दृष्टे तु इति सम्बन्धः । सदि्भः विद्वदि्भरित्युपहासः । वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद्विरोधो नास्तीति वदन्तः पुनरत्र सहदर्शनेऽपि विरोधमुद्भावयन्तः स्वव्याहतभाषिणः स्वोक्तविस्मरणशीलाः स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः । सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते तं प्रत्येव विरोधोद्भावनं क्रियते नान्यथेति ।

१८७सु०- धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम्, तत्किं सर्वेष्वपि द्रव्येषूत केषुचिदेवेत्यपेक्षायामाह अभिन्न इति ।

अनु०- अभिन्नो भगवान् स्वेन तदन्येन विभेदवान्

भगवान् इति चेतनामात्रोपलक्षणम् । स्वेन स्वावयवगुणक्रियादिभिः । तदन्येन प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ न त्वेकविषयावित्यर्थः ।

अ(?)यावद्द्रव्यभाविधर्मैः भेदाभेदौ कुतो न स्यातामित्यत आह नित्या इति ।

अनु०- नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः

तु शब्दोऽवधारणे । अस्मात् कारणात् । अस्मात् भगवतः । द्वित्वादिसङ्ख्याव्यतिरिक्ता इति शेषः ।

१८८सु०- क्व तर्हि भेदाभेदावित्यत आह सामस्त्येति ।

अनु०-सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपिणः । भावे

अन्यत्र परमेश्वरात् । जडे वस्तुनी ति यावत् । सत्येव धर्मिणि सामस्त्येनोच्छेद वन्तो ये धर्माः ते उभयरूपिणः भिन्नाभिन्ना इत्यर्थः ।

अभिभवव्यावृत्त्यर्थं सामस्त्ये त्युक्तम् । यद्वा सामस्त्ये द्रव्यस्याविकलत्वे नाशाभावेऽपि ये उच्छेदिन इति व्याख्येयम् ।

किं स्वसद्भाववेलायामभेदिनोऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तं भाव इति । स्वसद्भावदशायामेवोभयरूपका इत्यर्थः, विनष्टस्यासत्त्वेन भेदचिन्तानवकाशात्, प्रागत्यन्ताभेदे विनाशासम्भवाच्च ।

कुतो भिन्नाभिन्ना इत्यत आह त एवेति ।

अनु०- त एव चोच्छेदात्तदन्ये च समस्तशः

प्रत्यक्षबलेन, त एव धर्मिस्वरूपभूता एव, उच्छेदात् सत्येव धर्मिण्यसत्त्वाद्धेतोः, तदन्ये । चशब्दौ मिथः समुच्चयार्थौ । समस्तश इत्ययावद्द्रव्यभाविविवक्षयोक्तम् ।

१८९सु०- यदुक्तं यावदवयवभाविनोऽवयविनोऽवयवैरत्यन्ताभेदः, अयावदवयवभाविनस्तु भेदाभेदाविति, तेनान्यदपि चोद्यं परिहृतमित्याह अंशांशिनोरिति ।

अनु०- अंशांशिनोरभेदेन त्वंशसंयोग एव हि । अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः ॥

तथा हि । सर्वदिक्ष्वपि सम्बन्धादि ति यदंशतः संयोग इत्युक्तं तदयुक्तम्, अनवस्थापत्तेः । घटसंयोगो हि घटांशसंयोगपूर्वकः, सोऽपि तदंशसंयोगपूर्वकः । न चेयं निरंशे परम्परा विश्राम्यतीति वाच्यम्, अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात् । अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति । तदिदमसङ्गतम् । यद्यप्यंशत एव संयोगो यद्यपि चांशेष्वंशपरम्पराया अविश्रमः; तथाऽपि अंशांशिनोरभेदेनैवांशसंयोग एव हि यस्मात् अंशिनः संयोगः अतो नानवस्थेति ।

१९०सु०- अयमभिसन्धिः । स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः संयोगः अंशसंयोगेनैव जायत इत्यभिप्रायः स्यात् । न चैवम्, किन्तु यो यस्य अंशिनः संयोगः स तदंशे वर्तते, निरंशस्य तु संयोगः क्व नाम वर्तताम् । अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशोऽङ्गीकरणीय इति । न ह्येवं सति काचिदनवस्थाऽस्ति, अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात् ।

एतावत्तु भवेत् । घटसंयोगो घटांशवृत्तिरित्यप्ययुक्तम्, अतिप्रसङ्गात् । तथा सति हि पटवृत्तिरपि घटसंयोगः स्यात्, प्रमाणविरोधाच्च । घटसंयोगो घटवृत्तिस्तद्गुणत्वात् तद्रूपवदिति, घटांशवृत्तिः संयोगो न घटसंयोगः तदन्यवृत्तित्वात् पटसंयोगवदिति ।

एतदप्यनवकाशम्, अंशांशिनोरभेदस्य साधितत्वात् । अतिप्रसङ्गो हि तदा स्याद्यदि पटवद्घटांशोऽपि घटादत्यन्तभिन्नः स्यात्, अभेदे तु क्वातिप्रसङ्गः ।

अनुमानस्याप्याद्यस्य सिद्धसाधनता, अंशवृत्तेरेव घटवृत्तित्वात्, अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात् । द्वितीयस्तु हेतुः स्वरूपासिद्धोऽन्यथासिद्धो वेति । यदि घटसंयोगो घटांशे वर्तते तर्हि घटांशसंयोगः क्व वर्तत इति चेत्, अनेन (एव) न्यायेन तदंशे सोऽपि तदंश इति ब्रूमः । न चैवमनवस्था, सर्वेऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरेतरापेक्षाया अभावात् ।

एवं तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत् । को नेत्याहेति ।

१९१ सु०- अंशसंयोग एव ह्यंशिनः संयोगः, अतो नानवस्थे त्युक्तमनवस्थापरिहारं विवृणोति एकस्मिन्निति ।

अनु०- एकस्मिञ्जात एवान्यः संयोगो जायते यदि । अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥

अवयवपरम्पराया अविश्रममभ्युपगम्य एकैकस्मिन् अवयवसंयोगे जात एवान्यः अवयव संयोगः जायत इति यदि अङ्गीकुर्मः तदैव अनवस्था स्यात् । संयोगैक्ये अवयविसंयोगः क्रियातो जातः तदवयवे वर्तते, अवयववृत्तेः संयोगादपरोऽवयविनः संयोगो नास्ती ति वादे तु, क्व सा अनवस्थेति ।

१९२सु०- एतेनैतदपि निरस्तम् ।

यदाहुः, संयोगस्त्रिविधोऽन्यतरकर्मजोभयकर्मजसंयोगजभेदात् । तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन । उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातो, यथा मल्लयोः । संयोगजस्तु संयोगः कारणाकारणसंयोगात् कार्याकार्यसंयोगो, यथा हस्ततरुसंयोगात् कायतरुसंयोग इति ।

न हि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगोऽस्ति येनासौ तज्जन्यः स्यात्, प्रमाणाभावात् । किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात् कायसंयोगो भवति ।

अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयोऽप्युपपद्यन्ते ।

१९३सु०- अत एव विभागजोऽपि विभागो निरस्तः ।

द्विविधं हि तमाचक्षते, कारणाकारणविभागात् करणविभागाच्चेति । तत्राद्यो यथा हस्ततरुविभागात् कायतरुविभागः । द्वितीयो यथा द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद्विभागं करोति । विभागात्तन्त्वोः संयोगो नश्यति । ततो द्वितन्तुकविनाशः । तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद्विभागं करोती ति ।

१९४सु०- तत्राद्यस्तावदनुपपन्नः, हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात् । हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद्धस्तकायगुणो भवति । अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः कर्मैकार्थासमवेतत्वात् शब्दवदित्यसिद्धतया निरस्तम् ।

१९५सु०- द्वितीयस्त्वनुपपन्नतरः, तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः । अन्यथाङ्गुलिकर्मणाङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात् ।

नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति, तयोर्विभागयोरविरुद्धत्वात्; तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं (च) न कर्तुमर्हति, तयोर्विभागयोः द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात् । न ह्यविरुद्धात्कारणाद्विरुद्धकार्योत्पत्तिः सम्भवतीति । मैवम् । एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात्, तन्तुकर्मणा द्रव्यारम्भकानारम्भकतन्त्वराकाशसंयोगजन्माङ्गीकाराच्च । अन्यथा कारणाकारणसंयोगजसंयोगवत् कारणमात्रसंयोगजोऽपि संयोगः स्वीकार्यः स्यात् ।

१९६सु०- ननु संयोगस्य न स्वरूपतो विरोधोऽस्ति, यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः । द्रव्यानारम्भकं च द्रव्यं सप्तविधम् । आरब्धद्रव्यम्, अन्त्यावयवि, स्पर्शरहितं, विनश्यदवस्थं, विनश्यदवस्थसंयोगं, निष्फलारम्भं विजातीयं चेति । ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति ।

एवं तर्हि विभागयोरपि को विरोधः, द्रव्यारम्भानारम्भप्रयुक्तत्वाद्विरोधप्रतीतेः । तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकं द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात् द्रव्यान्तरारम्भकसंयोगविरोधिविभागजनककर्मवत् इत्याभाससमानयोगक्षेमम् । तन्तुकर्म न तन्त्वन्तरविभागजनकं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् । तत्र प्रमाणबाध इति चेत्, सममन्यत्रापि; विभागद्वययौगपद्यानुभवात्, तन्तुकर्म आकाशविभागजनकं कर्मत्वादिति प्रतिपक्षश्च ।

आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात्सिद्धसाधनमिति चेन्न, जनकशब्दस्यासमवाय्यर्थ

त्वात् ।

१९७सु०- एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं

न भवति कर्मत्वादि ति निरस्तम्, विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति कर्मत्वात् श्येनकर्मवदि त्याभासतुल्यत्वात्, सत्प्रतिपक्षत्वाच्च । यदाकाशविभागजनकं कर्म न तद्द्रव्यारम्भकसंयोगविरोधिविभागजनकं यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे तन्त्वन्तरविभागजनकत्वं न स्यादिति चेन्न, यद्यत्प्रदेशविभागजनकं न भवति न तत्तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न स्यादिति प्रतिप्रसङ्गसम्भवात् ।

किञ्च तन्तोराकाशविभागो यदि विभागजो न तु कर्मजः तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात्, विभागस्योभयत्रापि साम्यात् । उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेन्न । आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात् । अवधारणे वाऽसमवायित्वस्य अनिवारणात् । अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण ॥

१९८सु०- एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोति अंश इति ।

अनु०- अंशे संयोगदृष्टेश्च

अंशि संयोग स्यांशवृत्तित्व दृष्टेश्च नानवस्थादोष इत्यर्थः ।

दृष्टत्वे कथमदोषत्वमित्यत आह दृष्ट इति ।

अनु०- दृष्टे का साऽनवस्थितिः

आपादकेऽर्थे दृष्टे सति सा अनवस्थितिः का, न दूषणमिति यावत् ।

एतदुक्तं भवति । यद्यंशतः संयोगः स्यात् तदा अनवस्था स्यात्, ततश्च संयोगाभाव एवापद्येत, न चासौ युक्तः, तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम्; अनवस्थायास्तर्कत्वात्, विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात् ।

१९९सु०- अत्रांशतः संयोगो न भवतीति कोऽर्थः यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति, तर्ह्योमिति वदामः ।

यद्यंशिसंयोगोंऽशवृत्तिर्न भवतीति; तन्न घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात् ।

घटसंयोगो घट एव वर्तते, किन्त्वव्याप्यवृत्तित्वात्तदंशवृत्तिरिवावभासत इति

चेत् । केयमव्याप्यवृत्तिता नाम अन्या अंशवृत्तित्वात् । स्वाभावसमानाधिकरणत्वमिति चेन्न, विरुद्धत्वात् । दृष्टत्वादविरोध इति चेन्न, किमंशभेदेन भावाभावौ दृश्येते उत घट एवेति सन्देहात् । न ह्यविरुद्धविषयत्वे सति विरुद्धविषयताऽङ्गीकर्तुमुचिता । उपाधिभेदादविरोध इति चेत्, के त उपाधयः । अंशा एवेति चेत्, त एव सन्तु तर्हि संयोगभावाभावाश्रयाः किमं(शि)शवृत्तित्वेन विरुद्धेन अङ्गीकृतेन, अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति ।

२००सु०- प्रतितर्कपराहतत्वाच्चाप्रसङ्गोऽयमित्याह यदीति ।

अनु०- यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम्

यदि कारणानां संयोगः तद् अंश वृत्तिः न स्यात् तदा तदारब्धेषु कार्येषु कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः ।

अयमभिसन्धिः । कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत् सर्वत्र प्रचयजन्यः, द्वितूलके तथा दर्शनात्, प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च । प्रचयश्च कारणयोः प्रशिथिलः संयोगः । प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः केषुचिदवृत्तिरेव; नान्या, अनिरूपणात् । ततः संयोगस्यांशवृत्तित्वाभावे प्रचयोऽसौ

न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति ।

२०१सु०- अस्त्वन्यत्र संयोगो यथातथा, प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेन्न; अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात्, कारणाभावे च कार्याभावनियमात्, परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्व्यणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात् ।

नन्विदमिष्टापादनं परमाणुतो द्व्यणुके परिमाणोत्कर्षाभावादि त्यत आह परमाणोरिति ।

अनु०- परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः

परमाणुपरिमाणात् अणोः द्व्यणुकस्य महत्ता परिमाणोत्कर्षो नास्तीति वचोऽद्भुतं स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः । अयमाढ्योऽयं परमाढ्य इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति ।

द्वितन्तुकपरिमाणवद(संमृदि)समुदितावयवजन्यद्रव्यपरिमाणत्वेन द्व्यणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगतत्वाच्चेति ।

२०२सु०- ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्यम् । त्र्यणुकपरिमाणवद् द्व्यणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति, किन्तु कारणसङ्ख्याजन्यमेव । तत्कथं परमाणोः प्रचयाभावे द्व्यणुके परिमाणोत्कर्षानुत्पादापादनम् इत्यत आह अणूनामिति ।

अनु०- अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः । परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥

द्व्यणुकानां परिमाणोत्कर्षा पेक्षां विनैव सङ्ख्यामात्रेण त्र्यणुके स परिमाणोत्कर्षो जायते । तथा परमाणोर्महत्त्वं परिमाणोत्कर्षं विना केवलसङ्ख्यया, द्व्यणुके परिमाणोत्कर्षो जायत, इत्येतद्वचः कथं घटते । महद्दीर्घवद्वे ति निरस्तत्वादिति भावः । चापि शब्दावितरेतरसमुच्चये ।

अत्र परिमाणमात्रग्रहणे कर्तव्ये प्रथिमेति महत्त्वमिति चोक्तिर्विसदृशपरिमाणत्वस्यानपेक्षाहेतोः निराकरणं स्मारयितुमिति ।

२०३सु०- अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चे ति यदुक्तं तद्विशदयति अंशिन इति ।

अनु०- अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाभिदा

यथा गगनादेर्यावदंशभाविनः अंशिनः स्वांशैः अत्यन्ता भेदः तथा पटादेः अंशिनः अपि सर्वैः अंशैः अत्यन्ताभेदः । एकैक ांशेन तु भिदाभिदा । अयम् इत्युत्तरवाक्येन सम्बध्यते ।

नन्वेतदयुक्तम् । सर्वतन्तुभावेऽपि कदाचित्पटस्याभावात्, खण्डिते भेदाभेदस्वीकारात्; अत एकेनेव सर्वैरपि तन्तुभिः पटस्य भेदाभेदावेवोचितौ । तथा चोक्तं ब्रह्मतर्के,

तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः । अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेदि ति ।

उच्यते । व्यतिषङ्गविशिष्टा हि तन्तवोऽवगम्यन्ते, न च तद्भावे कदाऽपि पटाभावः; तस्माद्व्यतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव । अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवे ति न कश्चिद्विरोधः ।

नन्वेवं तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति । मैवम् । यथा हि गुणानां द्रव्याभेदे(ऽपि) न द्रव्यं निर्गुणम्, यथा च परेषां सामान्यादावतिरिक्तसत्ताभावे(ऽपि) नासत्त्वम्; तथा व्यतिषक्ततन्तव एव पटस्तथाऽपि न पटाभावः, किन्तु सन्ति व्यतिषक्तास्तन्तवः पटश्च । स च तेभ्यो न भिद्यत इति । कथमेतदिति चेत्, विशेषशक्त्यैवेति ब्रूमः ।

२०४सु०- ननु व्यतिषक्तसर्वतन्तुभ्योऽपि पटस्य भेदोऽङ्गीकार्यः, तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात् । कथं चैकैकतन्तुनाऽभेदः एकैकत्र पटबुद्ध्यभावादित्यत आह सर्वेति ।

अनु०- सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते

उक्तः अयमर्थः सर्वप्रत्यक्षविषयो यस्मात् तस्मात् कथमेवापोद्यते ।

एतदुक्तं भवति । अस्ति तावद्व्यतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम्, तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात् । न च भेदे प्रमाण

मस्ति, येन सोऽपि स्वीकरिष्यते । जायतां नाम तन्तुव्यतिषङ्गानन्तरं पटस्तथाऽपि न विवक्षितार्थहानिः; न हि तन्तुव्यतिषङ्गं पटमाचक्ष्महे, किन्तु व्यतिषङ्गे सति यत्तन्तूनां विशिष्टं रूपम् । न चैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति, अतस्तत्राप्य

स्त्येवाभेदप्रतीतिः । एकैकत्र पटबुद्ध्यभावस्तु भेदमाक्षिपति, न तु प्रत्यक्षसिद्धमभेदमपवदतीति ।

२०५सु०- अथापि स्यात् । अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते, एको ह्यवयव्यनेके चावयवाः; तदभेदेऽवयवानामप्यभेदोऽवयविनो वा भेदः प्रसज्येत । तथा गुणाश्च केचिदनेकाश्रिताः, एकैव हि संयोगव्यक्तिर्द्वयोर्द्वयोर्वर्तते; तथा विभागव्यक्तिरपि । सङ्ख्या च द्विविधा, एकत्वानेकत्वभेदात्; तत्रैकत्वस्यैकद्रव्यगतत्वेऽपि द्वित्वादिकमनेकाश्रितम् । एवं पृथक्तवमपि द्विविधम्, एकपृथक्तवमनेकपृथक्तवं च; तत्रैकपृथक्तवस्यैकद्रव्यवृत्तित्वेऽपि द्विपृथक्तवादिकमने(कद्रव्याश्रि)काश्रितमेव । एवञ्च गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा संयोगादिभेदो वाऽऽपद्येत ॥ सामान्यं चैकमनेकाश्रितम्, तस्य व्यक्त्यभेदे व्यक्तनामप्यभेदः सामान्यस्य वा भेदः प्रसज्येत इत्यतः संयोगविभागपृथक्तवानां तावदनेकाश्रितत्वं नास्तीत्याह संयोगश्चेति ।

अनु०- संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक्

भेद इति पृथक्तवमुच्यते । चशब्दा इतरेतरयोगे । पृथक्पृथगेव एकैकद्रव्याश्रिता एवेत्यर्थः । ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्यापादकासिद्धिः, अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्टापत्तिर्दूषणमित्युक्तं भवति ।

२०६सु०- ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयाऽनुभूयन्ते, तत्कथमेकैकाश्रिताः, तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्गः; इत्यत आह अन्योन्येति ।

अनु०- अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते

प्रतियोगः = प्रतियोगित्वम् । अन्योन्यस्य प्रतियोगः = अन्योन्यप्रतियोगः । यत्संयोगादिः उभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि निमित्तेन । अत्र उभयोरपि इत्यनेकोपलक्षणम्, भेदस्य बहुसम्बन्धितयाऽपि प्रतीतेः ।

एतदुक्तं भवति । घटप्रतियोगिकः संयोगादिः पटेऽस्ति, तथा पटप्रतियोगिको घटेऽस्ति । तस्मादुभयसम्बन्धितया प्रतिभासोऽतिप्रसङ्गाभावश्च युज्यत इति ।

२०७सु०- स्यादेतद्यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात्, तदेव नास्तीत्यत आह अन्योन्येति । पृथक् पृथगेवे त्यनुवर्तते । अन्योन्यप्रतियोगेन हेतुना संयोगादिकमुभयोरपि पृथक् पृथगेव हि दृश्यते ।

अयमर्थः । पटो, घटेन संयुक्तो, घटाद्विभक्तो, घटादि्भन्न, इति पटधर्मः संयोगादिः, घटप्रतियोगिकतया प्रतीयते । यश्च यत्प्रतियोगिको नासौ तद्धर्मः, यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः । तस्मान्नायं संयोगादिर्घटधर्मः । एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति । तथा च पृथक् पृथगेव संयोगादिरनेकधर्मोऽवगम्यत इति ।

२०८सु०- नन्वस्तु संयोगविभागयोरियं गतिः, न तु पृथक्तवे । यद्धि घटात्पटः पृथक् , पटाच्च घटः पृथगि त्यन्योन्यप्रतियोगिकतया प्रतीयते, तदेकपृथक्तवं पृथक् पृथगेवाभ्युपगम्यते ।

यत्तु भिन्नाविमौ , भिन्ना इमे इति प्रतीयते तदनेकपृथक्तवमनेकाश्रितमेव, प्रतियोग्यनिरूप्यस्यैकाश्रित(श्रय)त्वे मानाभावादि त्यत आह भिन्ना इति ।

अनु०- भिन्ना इति तु भेदानां समुदायो हि दृश्यते । यथैव च पदार्थानाम्

इमे भिन्ना इति आदिप्रतीतौ भेदानां समुदायः अनेकत्वं हि दृश्यते । कथम् । यथैव च पदार्थानाम् ।

एतदुक्तं भवति । यथा हि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषणानि शौक्ल्यान्यवभासन्ते, तथा भिन्ना इमे इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम् । न च विशेषप्रमाणमस्ति, येनात्रान्यो विधिर्भविष्यतीति । एतेन संयुक्ताविमावि त्यादिप्रतीतिरपि व्याख्याता वेदितव्या ।

२०९सु०- ननु अनयोर्भेदः , अमीषां भेदः इति प्रतीतावनेकाश्रितं पृथक्तवमुपलभ्यते, तत्कथमेतदिति चेत्; किमत्रानेकस्य धर्मितयाऽवभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम् । पक्षत्रयेऽप्युत्तरमाह अनयोरिति ।

अनु०- अनयोर्भेद इत्यपि । इतोऽमुष्यामुतोऽमुष्य भेदो दृष्टो द्विधर्मिकः ॥

अस्यामपि प्रतीतौ इतो घटात् अमुष्य पटस्य अमुतः पटात् अमुष्य घटस्य भेद इत्येवं द्विधर्मिको भेदो दृष्टः । तथा चानेकस्य धर्मित्वेऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति । अनेनैव अनयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या ।

२१०सु०- ननु वचनलिङ्गा हि वक्तुरभिप्रायाः । भेद इति चैकवचनं प्रयुज्यते । तेन अनुमीयतेऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति । तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषायत्वं प्रतीतेर्न वक्तुं शक्यमि त्यत आह तत्रेति ।

अनु०- तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा

तत्र अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा । भोजनम् इत्येकवचनम्, यथा तथेत्यर्थः । एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमानेऽनैकान्तिकत्वं समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति । अवयविनस्त्वेकत्वेऽपि न कश्चिद्दोषः, आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्य अङ्गीकृतत्वात् । पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदोऽभिहितः स एक एव । व्यतिषाक्तानां तन्तूनां विशिष्टाकारो ह्यसौ ।

स चागन्तुकत्वात् तन्तुभ्यो भिन्नाभिन्न एव । एकैकेन तन्तुना सर्वैश्चाभेदेऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम् ।

२११सु०- नन्वेवं तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम्, अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति । सत्यम् । तथाऽपि वस्तुस्थितिरियमुक्तेत्यदोषः ।

२१२सु०- अपि चाजसंयोगे नायं समाधिः सम्भवति । स एव नास्ति प्रमाणाभावादिति चेन्न, परमाणोः आकाशादिसंयोगाङ्गीकारात् । सोऽपि परमाणुकर्मज इति चेन्न, प्रागसंयोगप्रसङ्गात् । अंशभेदान्नेति चेन्न, स्वाभाविकस्यानभ्युपगमात्, औपाधिकस्य च निराकरिष्यमाणत्वात् ।

२१३सु०- किञ्चाकाशमीश्वरेण संयुज्यते द्रव्यत्वाद्घटवत् । न च मूर्तत्वमुपाधिर्विशेषणवैयर्थ्यात् । परिच्छिन्नपरिमाणवत्त्वं हि मूर्तत्वम्; तत्र परिमाणवत्त्वेनैवालम्, परिच्छिन्नत्वविशेषणं तु व्यर्थमेव ।

आकाशमीश्वरेण न संयुज्यते अमूर्तत्वाद्रूपवदिति चेन्न, अद्रव्यत्वस्योपाधित्वादिति ।

२१४सु०- इदानीं सामान्यस्यैकैकाश्रितत्वमाह नरत्वादिकमिति ।

अनु०- नरत्वादिकमप्येवं

एवं संयोगादिवदेकैकवृत्तीत्यर्थः । सामान्यमपी ति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं नरत्वादिकम् इत्युक्तम् । उपपादनं च नैकप्रकारमिति योगविभागः ।

कुतो नरत्वादिकं प्रतिव्यक्ति भिन्नमित्यत आह तत्तदिति ।

अनु०-तत्तद्धर्मतयेयते

यथा हि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते । तथा नरत्वादिकमपि तत्तत् नियत धर्मतया एव ईयते दृश्यते, इति प्रत्यक्षमुक्तम् ।

१५० असु०- यद्वा योऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि; प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमि त्यनुमानमनेन सूचयति ।

१५१सु०- किञ्च नरत्वादिकं नानेकानुवृत्तं धर्मत्वाद्रूपादिवत् अस्याभासोद्धारं करोति नेति ।

अनु०- न सर्वधर्म एकोऽस्ति

सर्वधर्मः ।अनेकवृत्तिधर्मः । तेन धर्मत्वं न भग्नव्याप्तिकमिति शेषः । पक्षधर्मता तु स्फुटैवेति ।

१५२सु०- नन्वनेकत्वसङ्ख्या तावदनेकाश्रिता, एकैकस्मिन्द्वित्वादेः शङ्कितुमप्यशक्यत्वात् । न हि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते, न च प्रतियोगिनिरूप्यम्, धर्मितयैवानेकेषामनुभवात् । अतो धर्मत्वहेतोस्तत्रानैकान्त्यमि त्यत आह समुदायस्त्विति ।

अनु०- समुदायस्तु भिन्नगः

समुदायः अनेकत्वं भिन्नगः अनेकाश्रितः ।

सत्यमनेकत्वसङ्ख्याऽनेकाश्रिता, तथाऽपि तदन्यत्वेन हेतुविशेषणाददोष इति भावः । सा चापोक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाश्रययोरभेदापत्तिः ।

१५३सु०- प्राभाकरास्त्वाहुः सादृश्यं तावदेकमनेकानुगतं, तत्र धर्मत्वहेतोर्व्यभिचारः ॥ न च वाच्यं सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति, जातिसङ्करप्रसङ्गात् । अस्ति हि कयोश्चिदश्वरासभव्यक्त्योः सादृश्यं; तत्र यदि सादृश्यमश्वत्वात्परं तदा सर्वेषामप्यश्वानां रासभसादृश्यं स्यात्, यदि चापरं तदा रासभव्यक्तावप्यश्वत्वं स्यात् । एवं रासभत्वेऽपि वाच्यम् ॥ न सादृश्यमश्वरासभवृत्ति ब्रूमः, किन्तु तदवयववृत्ति, द्रव्यगुणावयवकर्मवृत्तीनि सामान्यान्येव हि सादृश्यनामान्यभ्युपगच्छामोऽतो न जातिसङ्करदोष इति चेन्न; गौर्गवयेन सदृशी त्यादिव्यवहाराणाममुख्यत्वप्रसङ्गात् । न च सामान्यं प्रतियोगिनिरूप्यम्, तन्निरूप्यं च सादृश्यमि ति स्फुटोऽनयोर्भेद इति । अत आह एतादृशं चेति ।

अनु०- एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक्

भवतु सादृश्यं सामान्यतो भिन्नं तथाऽपि तत्पदार्थेषु पृथक् पृथक् एवेति न तेन धर्मत्वहेतोर्व्यभिचारः । एतादृशम् इति तत्रोक्तहेत्वतिदेशः । न हि सादृश्यस्यानेकवृत्तित्वे प्रमाणमस्ति, सदृशाविमावि त्यादेः शुक्लाविमावि त्यादिवदुपपत्तेः, अनयोः सादृश्यमि त्यादेश्च अस्य अनेन सादृश्यम् , अस्य अनेन सादृश्यमि त्युपपत्तेः । एकवचनस्य (च) विप्राणां भोजनमि त्यादिवदुपपन्नत्वात्, प्रतियोगिनो धर्मित्वासम्भवाच्च । एकाश्रितत्वेऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति ।

१५४सु०- नरत्वादिसामान्यस्य प्रतिव्यक्ति भिन्नत्वेऽनुमानान्तरमाह एकस्मिन्निति ।

अनु०- एकस्मिन्स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते

एकस्मिन् नरे नष्टे तदाश्रितं तावन्नष्टम्, तथा अपि स नरत्वलक्षणो धर्मः अन्यत्र नरान्तरे दृश्यत एव यतः अतोऽपि नरत्वादिकमि त्युक्तेन सम्बन्धः ।

यद्वा विनष्टं विनाशः, सह विनष्टेन वर्तत इति सविनष्टं, तस्मिन्विनाशवतीति यावत् ।

अथवा आश्रयेण सह विनष्टं सविनष्टं तस्मिन्निति योजना ।

अयमत्र प्रयोगः । नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माश्रयत्वाच्छायाऽऽतपवत् । न चासिद्धो हेतुः; नष्टाश्रयस्य नरत्वस्य नष्टत्वात्, अन्यस्य तु दृश्यमानत्वेन अविनष्टत्वात् ॥ यद्वेदं नरत्वं विनष्टान्नरत्वादि्भद्यतेऽविनष्टत्वाद्घटवत् ॥ यदि वा तन्नरत्वमविनष्टान्नरत्वादि्भद्यते विनष्टत्वाद्घटवदिति ।

१५५सु०- भवेदेतद्यदि विनष्टनराश्रितमपि नरत्व• विनश्येत् । न चैतदस्ति तस्य नित्यत्वादित्यत आह कुत इति ।

अनु०-कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते

भस्मत्वमाप्तस्य नरस्येति शेषः । पुनः आश्रयनाशोत्तरकालम् । इष्यते अस्तित्वेनेति शेषः ।

नष्टस्ये ति वक्तव्ये भस्मत्वमाप्तस्ये ति वचनमवस्थान्तरापत्तिरेव विनाशो न तु तार्किकादीनामिव सर्वथा नास्तित्वमि ति सूचयितुम् । आश्रयनाशोत्तरकालं सामान्यसत्त्वं; विमतं विनाशवत् विनाशवदाश्रयसमवेतत्वाद्रूपादिवत् इत्यादिप्रमाणविरुद्धम्, अप्रामाणिकं चेत्यर्थः ।

१५६सु०- नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकं प्रत्यक्षसिद्धत्वात् । नष्टानष्टनराश्रितं नरत्वं तावदेकम्, तच्चाविनष्टे नरे पुनरुपलभ्यते । अत एवानुमानमपि बाधितविषयमि त्यत आह एकत्व इति ।

अनु०- एकत्वे नास्ति मानं च

स्यादेतद्यद्येतयोः एकत्वे मानं स्यात्, न च तद् अस्ति इत्यर्थः । न च प्रत्यभिज्ञानं प्रमाणम्, तस्य स्वरूपतः प्रमाणत्वेन च सन्दिग्धत्वात् । चशब्देनान्योन्याश्रयत्वं समुच्चिनोति, एकत्वे हि पुनः (तस्य) सत्त्वसिद्धिस्तत्सिद्धौ चैकत्वसिद्धिरि ति ।

१५७सु०- एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्तवा श्रुतिमप्याह श्रुतिरपीति ।

अनु०- श्रुतिरप्याह सादरम् । भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि ॥ स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः । अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥ न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना । इति

आह सामान्यादीनां प्रत्याश्रयं भेदमि ति शेषः । भिन्नाः परस्परतो भेदवन्तः । अन्योन्यं भिन्ना धर्मा येषां ते भिन्नधर्माः । भिन्नधर्मा इत्यनेनाश्रयतोऽपि भेदोऽभिहित इति शङ्कानिरासार्थमुक्तं स्वैरिति । स्वरूपैरपि यथा भगवान् मत्स्यादिभिः । स्वैः स्वैर्धर्मैरभिन्नाश्च इत्यस्यापवादः अनिवृत्ते ति । अनिवृत्तेऽप्याश्रये विनाशो येषां ते तथोक्ताः । यथाऽऽमघटश्यामतादयः । उभयरूपका भिन्नाभिन्नाः । न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति । अत्र सर्वश इत्यादिवचनादुक्तविवरणाच्चादरः प्रतीयते ।

१५८सु०- ननु घटादेरामद्रव्यस्याग्निना सम्बद्धस्य, अग्न्यभिघातान्नोदनाद्वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः, विभागेभ्यस्संयोगविनाशाः । संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मिन्विनष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ््यामादीनां विनाशः । पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात् पाकजा जायन्ते । तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति । तत्कथमामाघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते ।

मैवम् । अत्र प्रमाणाभावात् ।

१५९सु०- नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणाम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः । तथा रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्व्यणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, साऽदृष्टवदात्मसंयोगे इति चेन्न, परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः । पार्थिवावयविरूपादयः, स्वाश्रयविनाशादेव विनश्यन्ति, अवयविरूपादित्वात् दग्धपटरूपादिवत्; कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवे ति चेन्न । क्वचित्सत्याश्रयेऽपि रूपा(दीनां वि)दिविनाशेऽग्निसंयोगजत्वे च विरोधाभावात् । अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति कार्यद्रव्यत्वात् द्व्यणुकवदि त्यादिकमपि स्यात् ।

१६०सु०- नन्वग्निसंयोगः सर्वावयवेष्वस्ति न वा । न चेत्तत्र रूपादिविनाशोत्पादासम्भवः, तथा चावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात् । आद्येऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेन्न, अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः, संस्थानापगमाभावेनावयविविनाशायोगात्, तथाविधस्यैवोदाहृतत्वादित्यलम् ॥

१६१सु०- एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम् । तदयुक्तम् । तस्यानेकवृत्तित्वाभावे बाधकसद्भावात् ।

तथा हि । सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् ।

१६१असु०- वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति । न च प्रतिपिण्डं व्यवहारादिकमस्ति, तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात्; अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् । अथ विनैवैकेन निमित्तेनोपदेशाद्यभावेऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं) सङ्केतं गृह्णीयात्; तदाऽश्वपिण्डेऽपि किन्न गृह्णीयात्, अविशेषात् ।

अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनाऽवगते नायं दोषः प्रादुष्यात् । तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथाऽनुपपत्त्याऽनुगतमेकमभ्युपगन्तव्यमेव ।

१६२सु०- ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गति

ग्रहणम् । उच्यते । तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः, उपाधीनां व्यावृत्तत्वेऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् ।

१६३सु०- किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात्; ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् ।

कार्यकारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् । न च व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते, नियमव्यभिचारयोर्दुर्ज्ञानत्वात् ।

१६५सु०- उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् ।

१६६सु०- अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावेऽनुपपन्नं स्यात्, व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः ।

१६७सु०- सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् । द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् । भिन्नविषयत्वे नापवादविषयोऽस्ति । अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः । न चासौ व्यावृत्तेषु सम्भवति, भ्रान्तत्वप्रसङ्गात् । न चैतत्सर्वमन्यापोहनिबन्धनम्, तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् ।

अनुगतत्वे वा किमपराद्धं सामान्येन । तथा च विधिरूपः प्रत्ययोऽपि समाहितः स्यात् ।

१६८सु०- एवञ्चाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यम् ।

१६८असु०- इत्यत आह व्युत्पत्तिरपीति ।

अनु०- व्युत्पत्तिरपि हि सादृश्येनैव गम्यते

अपि पदं कार्यकारणभावावधारणादिसमुच्चयार्थम् । हि शब्दो यस्मादित्यर्थे । गम्यते अभ्युपगम्यतेऽवगम्यत इति वा ।

अस्ति तावत्सादृश्यं नाम पदार्थान्तरम्, गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् । तेनैव चोपपद्यते व्युत्पत्त्यादिकम् । तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् ।

१६९सु०- सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते सर्वेष्विति ।

अनु०- सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते

बहवो हि शब्दसङ्गतिग्रहणोपायाः । तत्र यदोपदेशतो व्युत्पद्यते तदाऽयं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते । कथम् । सादृश्योपधानेन सर्वेषु गोपिण्डेषु, युगपद् एककालम्, अयमित्यादि शब्दः, प्रवर्तते । अयं गौरि त्यस्यायमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थो वक्त्रा अभिप्रेयते, श्रोत्रा चावधार्यत इति यावत् । द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः ।

१७०सु०- यदि अयं गौः इत्यादिवाक्यं नैकपिण्डमात्रविषयम्, किन्तु अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्याः इति व्याप्तिपरं तदा सङ्गतिग्रहणोत्तरकालं गामानय इत्युक्ते गोशब्दात्सर्वगोप्रतिपत्तिः स्यात् । अभीष्टगोप्रतिपत्तिस्तु जायते सा कथमि ति तटस्थस्य चोद्यं परिहरति तथाऽपीति ।

अनु०- तथाऽपि प्राप्तितस्त्वेकवचनाच्च विशेषतः । अभीष्टावगतिश्च स्यात्

यद्यप्युपदेशो नैकपिण्डविशेषगोचरः तथाऽपि गामानयेत्युक्ते अभीष्ट गोपिण्ड ावगतिः स्यात् एव । कथम् । प्राप्तितः योग्यत्वात् । अतीतानागतानाम् अत्यन्तविप्रकृष्टदेशस्थानां गवाम् आनयनयोग्यताऽभावमालोच्य तत्परित्याग इत्यर्थः । तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवतीति चेन्न, गामिति एकवचनात् । तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात्, नाभीष्टस्यैवे ति चेन्न, शबलां बहुलां कालाक्षीमित्यादि विशेषणात् ।

एतदुक्तं भवति । गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः, किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति ।

१७१सु०- अस्तु अयं गौः इत्यादिवाक्यं व्याप्तिपरम् । ततः किमित्यत आह शक्तिरिति ।

अनु०- शक्तिः सादृश्यगा यतः । तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥

यतः वाचकत्व शक्तिः शब्दस्य सादृश्यगा सादृश्यसम्बन्धिनी सादृश्य(स्य) व्यापिकेति यावत् । अस्माद्वाक्यादवधारितेति शेषः । अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं स्फुटं ज्ञापयति ॥ कथमित्यतः प्रयोगप्रकारं दर्शयति तादृश इति ।

चः यस्मादित्यर्थे । अयं परिदृश्यमानो यस्मात् तादृश उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात् । तच्छब्दः स शब्दो यस्य वाचकोऽसौ तथोक्तः । इति शब्दः प्रकारवाची ।

१७२सु०- अयमत्र समुदायार्थः । व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम्, सादृश्येनैव तदुपपत्तेः । न च वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम्, व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति । न हि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते, किन्नाम लिङ्गतया । यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव; तथा ते ते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यादिभिर्निमित्तैस्तत्तच्छब्दवाच्याः । सादृश्यं तु व्यावृत्तमपि तदवबोधे लिङ्गतयोपयुज्यते । तथा हि । यदा अयं गौः इत्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम्, अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्याः इत्येवम्परत्वात् । व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदर्शनेन सादृश्यव्याप्यताऽवगमो भवति । ततश्चैतद्वाक्यादिनाऽवगतव्याप्तिरनुमिमीते अयं गोशब्दवाच्यो भवितुमर्हति, तत्सदृशात्वात्, यस्तत्सदृशस्स गोशब्दवाच्यः, तथा चायं तत्सदृशः, तस्माद्गोेशब्दवाच्यः इति ।

१७३सु०- नन्वत्र को दृष्टान्तः । उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न, तस्य तत्सदृशत्वाभावात् । मैवम् । दृष्टान्तनियमस्य निरस्तत्वात् ।

न च सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम्; तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात्, सादृश्यस्य तु व्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् ।

सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः । न च वाच्यं गोसादृश्यमश्वेऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्गः इति, जातिनिमित्तत्वेऽप्येवं प्रसङ्गस्य समानत्वात् ।

जातिविशेषो निमित्ततयाऽङ्गीक्रियते योऽव्यभिचारीति चेत्, तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः ।

१७४सु०- एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम्, सादृश्येनैव तदुपपत्तेः । अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः, तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् । तथाऽप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि । तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति ।

१७५सु०- एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् । यस्तु मन्यते अनुगतसामान्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह जातितश्चेदिति ।

अनु०- जातितश्चेत्कथं तासु

यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादि त्यादिव्याप्तिज्ञानमित्यादिकं स्यात् । जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः ।

१७६सु०- यदि वैयात्यात् कश्चिद् ब्रूयात् अस्ति जातिष्वपि जातित्वं नाम जातिः तद्वशात् तत्र सर्वमुपपद्यते इति; तं प्रत्याह तत्र चेदिति ।

अनु०- तत्र चेदनवस्थितिः

यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदा अनवस्थितिः स्यात् ।

तथा हि; गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते, स्ववृत्तेरप्रामाणिकत्वात्; अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् । तथा च स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपेऽपि । अतस्तस्यां तद्व्यतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् । तत्राप्येवमेवेत्यनवस्थेति ।

१७७सु०- ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः, जातित्वे तूपदेशाधीनो भवतु तस्या एकत्वादिति । मैवम् । न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दवृत्तौ ज्ञापकतयोपेयते, येन क्वचिदुपदेशो निवेश्यते; किन्तु निमित्ततया । तत्रोपदेशोपन्यासस्य क्वोपयोगः ।

१७८सु०- स्थानान्तरेऽपि बाधकमाह तथैवेति ।

अनु०-तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम्

यथा जातिविज्ञानं जातित्वाभावेन दूषितं, तथैव व्यक्तिविज्ञानं व्यक्तनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्त व्यक्तित्वजात्यभावेन दूषितम् ।

द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते । न च तत्र व्यक्तित्वं नाम सामान्यमस्ति, सत्तया परापरभावाभावात् । तस्मात् तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् । मा भूद्व्यतिरिक्तं व्यक्तित्वं, सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यती ति चेन्न; सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात्, सद्व्यक्तिशब्दयोरपर्यायत्वात्, अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् ।

१७९सु०- ननु शब्दमात्रस्य जातिनिमित्तत्वात् सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह यदीति ।

अनु०- यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः

तर्हि तस्य व्यक्तित्वस्य अपि विशेषेषु व्यक्तिषु प्रवेशः स्यात् । तथा चानवस्थितिः इति योजना ।

तथा हि । यः शब्दोऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते, तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं नाम जातिरङ्गीकर्तव्या स्यात् । ओमिति चेत् । तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात्, न च सा स्वरूपे वर्तते; ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम् । तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति साऽपि तदाश्रयतया व्यक्तिः स्यात् । तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति ।

१८०सु०- स्थलान्तरे बाधकमाह कथमिति ।

अनु०- कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि । एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ॥

अत्र स्वरूपमि त्यध्याहर्तव्यम् ।

ततश्चायमर्थः । यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिः तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते, अनुगतस्य स्वरूपत्वसामान्यस्याभावात् । स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति ।

ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयाऽतो नोक्तदोष इत्यत उक्तं स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते तदा अनवस्थादिदूषितं भवती ति । तथा हि । सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपमेव । न च तत्र स्वयमेव वर्तते, आत्माश्रयत्वस्यालौकिकत्वात्; अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तयेऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम्, तदपि स्वरूपमेवेत्यनवस्था ।

आदि पदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारेऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् । समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् ।

अनवस्थाद्यनिष्टप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति एकव्युत्पत्तिपर्यन्तमिति ।

एकं केवलमनुगतसामान्यहीनमिति यावत् । तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिः, तत्पर्यन्तं, तावदिदं दूषणमुपप्लवत एव । यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीनेऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः । अनवस्थादिपरिहारायानुगतसामान्येन विनाऽपि व्युत्पत्तिरङ्गीकरणीयेति भावः ।

१८१सु०- नन्विदं सकलमप्यसङ्गतम् ॥ तथा हि । यदुक्तं जातितश्चेत् कथं तास्वि ति; तत्तावदसत् । जातिषु जात्यन्तराभावेऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः । अस्तु वा जातिषु जातित्वं नाम जातिः; न चानवस्था, जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः ॥ तथैव व्यक्तिविज्ञानमि त्येतदप्यसत् । व्यक्तित्वाभावेऽपि जातिव्यञ्जकत्वेपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः । व्यक्तित्वजात्यङ्गीकारेऽपि नानवस्था, व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् ॥

यदपि कथमि त्यादि तदयुक्तम्, प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः । स्वरूपत्वाभ्युपगमेऽपि नानवस्था, तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् । अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः । समवायादौ स्वरूपमेव सम्बन्धः ॥ इत्यतो न कश्चिद्दोषः इत्याशङ्कां परिहरन्ननुगतसामान्यदूषणमुपसंहरति कल्पनेति ।

अनु०- कल्पनागौरवात्तेन युक्ता नानुगकल्पना

सर्वत्र व्यावृत्तमेव वाच्यं, शब्दप्रवृत्तौ निमित्तं च । व्युत्पत्तिस्तु सादृश्यनिबन्धने त्येकरूपकल्पनेन सर्वसामञ्जस्ये, क्वचिदनुगतं सामान्यं निमित्तं, क्वचिदुपाधिः, क्वचित्स्वरूपमेवेत्यनेककल्पने कल्पनागौरवं स्यादित्यर्थः । तेन बाधकसद्भावेन साधकाभावेन च ।

नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम् । अननुगतत्वेऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति ।

१८२सु०- एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं च तत्त्वं भावेने ति सूत्रेणोक्तम्, तत्त्वं, समवायस्य सर्वत्रैकत्वं नित्यत्वं च, भावेन, सत्तया, व्याख्यातमि ति । तदपि निराचिकर्षुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति औपाधिकेति ।

अनु०- औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः । अन्यत्

औपाधिकः पाचकयाजकादिः, विशिष्टः नीलाग्निमदादिः । आद्य ग्रहणादुपलक्षितग्रहणम् । अपि शब्दो दूषणान्तरसमुच्चयार्थः । तद्वस्तु उपाध्यादित्रयम् । कि ं शब्दस्योभयतः सम्बन्धः । तत उपाध्यादित्रयात् । वस्तु इत्येतद् औपाधिकविशिष्टाद्यमि त्यनेनापि सम्बध्यते ।

१८३सु०- अयमर्थः । समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् । एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते । स पाचकयाजकादिरौपाधिकोऽर्थः किं पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्योऽनन्य उतान्य इति ।

तथा समानाधिकरणं व्यावर्तकं विशेषणम्, यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः; व्यधिकरणं तु व्यावर्तकमुपलक्षणम्, यथा नीलरूपगतं नीलत्वमुत्पलस्य ।

अन्ये तु कार्यप्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते, यथा लम्बकर्ण आनीयताम् , चित्रगुरानीयताम् इति । अपरे तु शाब्दसामानाधिकरण्यवैयधिकरण्याभ्याम्, यथा दण्डी देवदत्तः , जटाभिस्तापसः इति । केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् । तत्र विशिष्टं नीलमग्निमान् वा, विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद्वा ।

उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद्वेति ॥

१८३असु०- तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव । न हि पाचकादिः पचनादित्रयातिरिक्तोऽनुभूयते; न च योग्यस्याननुभवे सत्त्वं सिद्ध्यति, नाप्यग्निमदादिः पर्वताद्यतिरिक्तोऽनुभूयते; अतिरिक्तत्वे चौपाधिकविशिष्टादेः द्रव्याद्यन्तर्भावासम्भवात् षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् ॥ यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानये त्युक्ते पुरुषाद्यानयनं न क्रियेत, इत्याद्युपपत्तिविरोधः ।

१८४सु०- नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ट्यं त्रितयादि्भन्नमेवेति चेन्न ।

अवच्छित्तेरनिरूपणात् । सा किमुपाधिसम्बन्धो वा, पुरुषस्यैकत्वं वा, स्वगतो भेदो वा । आद्ये न त्रयातिरेकः, द्वितीये त्वनौपाधिकादविशेषः, तृतीये त्वसत्त्वप्रसङ्गः ।

व्यवच्छित्तिर्वैशिष्ट्यमिति चायुक्तम्, तस्या नीलादिपदार्थत्वाभावात् । सा हि वैशिष्ट्यप्रतीतिफलविषयतया अनुभूयते ।

१८५सु०- विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् । यथाऽऽह विशेषणं विशेष्यं च तत्सम्बन्धफलार्पकम् । ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कर्तितमि ति । तन्न, विशिष्टस्य बाह्यार्थतयाऽनुभवात् । अन्यथा साध्यधर्मविशिष्टः पक्षः, सोऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् । तस्मादतिरेकपक्षोऽनुपपन्न एव ।

१८६सु०- अस्तु तर्ह्यौपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह तदेवेति ।

अनु०-तदेव चेदग्निमत्त्वं किं तत्र भण्यते

प्रतिपत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतः अऽग्निमत्त्वमि ति । धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः । औपाधिकादेरप्युपलक्षणमेतत् ।

अयमर्थः । अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यदङ्गीक्रियते तदाऽपि वक्तव्यम्, किं तत्त्रितयमपि प्रत्येकं विशिष्टमुत(तत्र•न्यतमम् । द्वितीयेऽपि किं विशेषणभूतोऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः । संयोगपक्षेऽपि किं निर्विशेषणसंयोगः किंवाऽग्निना संयोगः ।

उत्तरत्रापि किमग्निसंयोगमात्रम्, उत पर्वतस्याग्निसंयोग इति ॥

एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः ।

१८७सु०- अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोति अग्नीति ।

अनु०- अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम्

अग्निसंयोगमात्रम् इति सर्वपक्षोपलक्षणम् । चेत् अग्निमच्छब्दार्थ इति शेषः । तत् धूमवत्त्वाद्यनुमानम् । अग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे, धूमानुमानं सिद्धसाधनं स्यात् । विशिष्टस्यानुमानसाध्यत्वात्, अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति ।

१८८सु०- अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपोऽग्निमच्छब्दार्थोऽनुमानसाध्य इत्यन्तिमः पक्षः, तत्रोक्तदोषाभावात्, पर्वताग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वेऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरि ति शङ्कते भूधरस्येति ।

अनु०- भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः

अग्निमच्छब्दार्थो विशिष्टोऽनुमानसाध्य इति शेषः । दूषयितुं पृच्छति षष्ठ्यर्थ इति । पर्वतस्याग्निसंयोगस्य च सिद्धत्वेऽपि पर्वतस्य योऽग्निसंयोगः स न सिद्ध इत्यतः, स एव विशिष्टोऽग्निमच्छब्दार्थोऽनुमानवेद्य इति वदता, पर्वतस्येति षष्ठ्या निर्दिष्टः सम्बन्ध एव विशिष्टोऽग्निमच्छब्दार्थोऽनुमानवेद्य इत्युक्तं भवति; अन्यस्य सर्वस्य सिद्धत्वात् । षष्ठ्यर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः, अतः कोऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः । एव शब्दः तस्यैव प्राधान्यद्योतनार्थः ।

१८९सु०- उत्तरं शङ्कते समवाय इति ।

अनु०-समवायो यदि हि

संयोगो हि गुणः, पर्वतश्च गुणी, गुणगुणिनोश्च समवायः सम्बन्धः, इति प्रसिद्धमिति हि शब्दार्थः । षष्ठ्यर्थ इति वर्तते ।

निराकरोति अस्य चेति ।

अनु०- अस्य चैकत्वात्सिद्धसाधनम्

पर्वतादेरिव अस्य समवायस्य च सिद्धत्वादिति शेषः । सिद्धसाधनं धूमाद्यनुमानमिति शेषः । कथं समवायस्य सिद्धत्वमित्यत उक्तम् एकत्वादिति ।

यस्तन्तुपटयोः समवायः, स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः । तन्तुपटयोः समवायश्च प्रत्यक्षेण वाऽनुमानेन वा सिद्ध एवेति ।

१९०सु०- अयमत्र समुदायार्थः । यद्येक एव सर्वत्र समवायः स्यात् तदा सर्वानुमानानां सिद्धसाधनता स्यात् । यद्यपि याथार्थ्यमेव प्रामाण्यं तथाऽपि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव ।

तथा हि । सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम्, तस्यासिद्धावाश्रयासिद्धेः, सिद्धौ च सिद्धसाधनत्वात्; किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् । तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम्, अनुपलम्भादिबाधात् । त्रयानन्यत्वेऽपि न विशेषणमात्रम्, तस्य अनुमानात्प्राक् सिद्धत्वात्; असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः, अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च ।

नापि धर्मिस्वरूपमात्रम्, उक्तदोषात्, पर्वतोऽग्निमानि त्येतयोरेकार्थत्वापत्तेश्च । न च सम्बन्धमात्रम्; संयोगो हि क्वचित्सम्बन्धः स्यात् यथाऽग्निपर्वतयोः, क्वचित्समवायः यथा रसाद्रूपानुमाने, द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव । संयोगमात्रस्य सिद्धत्वेऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम्, तस्यापि महानसादौ सिद्धत्वात् ।

अथ पर्वतादेरग्न्यादिसंयोगः साध्यः । अत्रापि विवेक्तव्यम्, कस्यात्रासिद्ध्या साध्यत्वमिति । अन्यस्यासम्भवात्, षष्ठ्यर्थस्य समवायस्येति वक्तव्यम् । स च सर्वत्रैक एव चेत् पुनः सिद्धसाधनतैव स्यात् । अतः सर्वानुमानोच्छेदप्रसङ्गात् सर्वत्र समवायैक्यमयुक्तमिति ।

१९१सु०- ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः समवायस्य भेदोऽप्यस्ति; ततः सिद्धत्वेऽपि साध्यत्वमुपपद्यत इत्यत आह यदीति ।

अनु०-यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते

यदि अस्य समवायस्य साध्यत्वसिद्ध्यर्थम् औपाधिको भेद इष्यते तदा एकत्वं कुत इष्यते ।

समवायस्यैकत्वं हि न सङ्ख्याविशेषः, निर्गुणत्वात्; किन्त्वभेदः । न च भेदाभेदौ क्वापि परेणाङ्गीकृतौ । तस्मात् समवाये भेदस्याङ्गीकृतौ तद्विरुद्धोऽभेदो नाङ्गीकर्तुमुचित इति ।

१९१असु०- ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्ध्यते न पुनरौपाधिकेन, स्वभावतः अभिन्नेऽपि गगनादावौपाधिकभेददर्शनात् । समवाये चौपाधिक एव भेदोऽभ्युपगतः । तत्कथं स्वाभाविकैकत्वाङ्गीकारोऽनुचित इति । अत आह नेति ।

अनु०-नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः । सत्यत्वात् को विशेषः स्यात्

विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति, यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः । देशभेदेन वा, यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः । व्यक्तिभेदेन वा, यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः । पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा, यथा गगने रूपतदभावयोः ।

तत्र तावत् समवायेऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् ।

नापि चतुर्थी विधा सम्भवति । समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा । आद्ये सिद्धसाधनत्वं तदवस्थमेव । द्वितीये त्विदमुपतिष्ठते । हि यस्मात् तेन वैशेषिकादिना अनिर्वाच्यं वस्तु नेष्टमतः असत्त्वानिर्वाच्यत्वाभावाद् औपाधिकस्य स्वाभाविकस्य च सत्यत्वात् को विशेषः स्यात् । औपाधिकस्यापि स्वाभाविकवत् सत्यत्वात् पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभावादौपाधिकत्वाद्युक्त्या न किञ्चित् कृतं स्यादिति भावः ।

१९२सु०- इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत् तदा को दोष इति चेदपसिद्धान्त इत्याह मायेति ।

अनु०- मायावाद्यन्यथा वदेत्

अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः ।

१९२असु०- ननु प्रकारभेदेनापि विरोधशान्तिर्भव(विष्य)ति, यथा तत्रैव तदैव नीलपटसद्भावेऽपि पीतपटाभावः, तथा समवायेऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धी त्यत आह उपाधीति ।

अनु०-उपाधिजन्यं तद्गम्यमिति चौपाधिकं भवेत्

उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति औपाधिकम् इति भवति ।

ततः किमित्यत आह उभयत्रेति ।

अनु०-उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः

एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम्, तथा च पक्षद्वये अपि अनन्ताः समवायाः स्युः । तत्कथमि त्यत आह इतस्तत इति । सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादि ति शेषः ।

१९२ सु०- उपाधीनामनन्तत्वेऽपि समवायानन्त्यं कुत इत्यत आह भिन्नत्वमिति ।

अनु०-भिन्नत्वं चैव तेष्वस्ति

चः यस्मादित्यर्थे । न ह्यौपाधिको भेदो नामोपाधीनामेव भेदः, तथा सति समवायस्येति न स्यात्, उक्तदोषपरिहारश्च न भवेत्; किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति । भेदहेतवश्चोपाधयोऽनन्ता इति कथं न समवायानन्त्यम् ।

१९२सु०- तथाऽप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह क इति ।

अनु०- को विशेष उपाधिगे

उपाधिगः तत्सम्बन्धी औपाधिक इति यावत् । औपाधिकभेदे को विशेषो येनासावभेदं न विरुणद्धीत्यर्थः ।

१९३सु०- एतदुक्तं भवति । नीलपटसद्भावेऽपि पीतपटाभावः इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः, नीलपीतपटयोर्भिन्नत्वात् । न चैवं प्रकृते, भेदविशेषाभावेऽपि भेदान्तराभ्युपगमापत्तेः । तथा चैकत्वोक्तिरयुक्तैव । न हि पार्थिवपरमाणौ रूपादयोऽग्निसंयोगजा न त्वाप्यपरमाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितोऽसौ भवति ॥

यदि च विशेषणविषयौ, तदा समवाये भेदोऽस्त्येव । स तु सम्बन्धिभिरुपाधिभिः कृतो न त्वकृत्रिम इत्युक्तं स्यात् । तथा च घटादिभेदेन तुल्य इति रिक्तैवाभेदोक्तिः । उपाधीनां च सर्वदाऽनपायान्न भेदस्यागन्तुकत्वं युक्तमिति ।

१९४सु०- उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कते अविद्यमान एवेति ।

अनु०- अविद्यमान एवान्यः समवायोऽधिगम्यते । उपाधिना

सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदोऽधिगमश्च न प्रमा, येनासौ भेदः पारमार्थिकः स्यात्; किन्तु विभ्रम एव । न चैवं भेदस्यासत्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम्, यतः अविद्यमान एवान्यः समवायोऽधिगम्यते तत्तद् उपाधिना इति ब्रूमः । यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रोऽधिगम्यते, तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते । त एते समवाया औपाधिकभेदभिन्ना इत्युच्यन्ते । त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः । तथा च न समवायैकत्वहानिः, चन्द्रवदारोपितानामनेकत्वेऽप्यनारोपितस्यैकत्वाविरोधात् । नाप्यनुमानानां सिद्धसाधनता, तथाविधसमवायानां प्रागसिद्धत्वादिति ।

१९४असु०-परिहरति तद्गमकमिति ।

अनु०- तद्गमकमनुमानं न मा भवेत्

यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानं तथाऽपि तद्गमकम् अविद्यमानसमवायसत्तां प्रतिपादयद् अनुमान जातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत् ।

उपलक्षणं चैतत् । उपाधीन्विना समवायावभासस्य क्वाप्यभावात्, सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् ॥

१९४ सु०- तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति ॥

एतच्चोपलक्षणम् । आगमापह्नवश्च समवायैक्ये स्यात्, पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् ।

१९५सु०- इदानीं समवायस्य नित्यत्वं निराकरोति एवमेवेति ।

अनु०- एवमेवासतः सत्तासमवायो जनिर्मता

यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम्, एवमेव तन्नित्यत्वाभ्युपगमे, प्राक् असतः सत्तासमवायो जनिः दुष्टा मता । समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः । तत्कथमित्यत आह तत्रापीति ।

अनु०- तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्

उक्तदोषाणां सिद्धसाधनत्वादीनाम् ।

तथा हि । प्रागसतः सत्तासमवायो जनिरि ति परेण जनिलक्षणमभिहितम् । तत्र यदि समवायो नित्यः स्यात् तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् । ज्ञप्तौ हि सिद्धस्यापि साधनं घटते, किन्तु क्वचिदनपेक्षत्वमित्येव । कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् ॥

अथ समवायस्य नित्यत्वेऽपि प्रागसतः सत्तासमवायः साध्यः अस्तु को दोष इति चेन्न, समवायैक्यव्याघातात् । औपाधिकः समवायस्य भेद इति चेत्, यथासम्भवं सर्वमुक्तमनुसन्धेयम् । न हि प्रागसद्विषयो व्यापारः सम्भवति, तस्य सत्करणातिरिक्तकर्तव्याभावात्, सत्करणस्य सत्तासमवायानतिरेकात् । स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत्, एवं तर्हि किमपरेण सत्तासमवायेन ।

१९५सु०- तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाऽप्ययुक्ते इति ।

यद्वा समवायनिराकरणप्रसङ्गात् परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामञ्जस्यप्रदर्शनाय औपाधिके त्यादिना निराकृतं (च) वेदितव्यम् ।

१९६सु०- नन्वेतत्सर्वं व्याहतम्, युष्माभिरपि लोकवेदव्यवहारं परिपालयदि्भर्विशिष्टादेः अङ्गीकरणीयत्वात् । तत्राप्युक्तदोषानुषङ्गादि त्यतो विशिष्टादिनिरूपणे तावद्दोषाभावं स्वमते दर्शयति अस्मदिति ।

अनु०- अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः । नास्ति दोषः क्वचित्

विशिष्टाकारो न विशेषणं नापि सम्बन्धः, किन्नाम विशेष्यम् । न च तन्मात्रम् । द्विविधो हि विशिष्टाकारः, यावद्विशेष्यभाव्ययावद्विशेष्यभावी च ।

तत्राद्यो विशेष्येणात्यन्ताभिन्नः, यथेश्वरः स्वरूपेण सर्वज्ञः । एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टाकारोऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः ।

तथाऽपि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति । ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः, भेदे तु न निरवकाशं प्रमाणमस्तीति ।

द्वितीयस्तु विशेष्येण भिन्नाभिन्नः, यथा पर्वतेनाग्निमान् । यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते तथा आगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते । तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ, तथाऽपि अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः । तदिदमुक्तं क्वचिदिति । अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः ।

१९७सु०- यद्वा क्वचिद् इति औपाधिकादित्रय इत्यर्थः, तस्याप्युक्तप्रकारत्वात् ।

एतेन भेदहीनेऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम्, विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति ।

जनिनिरूपणे दोषाभावं स्वमते दर्शयति अस्मदिति । विशेषस्य परिणामस्य, जनित्वेन अङ्गीकृतत्वतो न कश्चिद् दोषोऽस्ति इति योजना । मृदादीनां घटाद्याकारापत्तिरेव घदादिजनिर्न तु समवाय इत्यर्थः ।

१९८सु०- स्यादेतत् । क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते, यथा घटो न जानाति, प्रकृतिर्न कर्त्री ति । क्वचिच्चाभावो विशेष्यो विशिष्टाकारश्च भावः प्रतीयते, अभावोऽस्ति, अभावः प्रमेय इति । न च विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते । तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह भावो हीति ।

अनु०- भावो ह्यभावश्च स एव हि

क्वचिदि त्यनुवर्तते । यो भावः स एव क्वचिद् अभावो भवति, यश्च अभावः स एव क्वचिद् भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः । वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हि शब्दद्वयम् ।

तत्कथमित्यत आह अभावस्य चेति ।

अनु०- अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः

अस्ति तावदिदं यद् अभावस्य अपि भावा धर्माः स्युः तथा तेषां च भावानां च ते अभावा धर्माः स्युः इति । अखिला इति बहुत्वोपलक्षणम् ।

एतदपि नाङ्गीकरोमीत्यत आह प्रत्यक्षेति ।

प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम्

प्रत्यक्ष ग्रहणमुपलक्षणार्थम् । यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इति एतत्सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम् । अतो न वारयितुं शक्यम् ।

१९९सु०- अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम्, तथाऽपि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्ती त्यत्र किमायातमित्यत आह सर्व इति ।

अनु०-सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा

यतोऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम्, सिद्धश्च धर्मधर्मिणोरभेदः, तेन कारणेन सर्वे भावाः पदार्था अभावाश्च भवन्ति, अभावाश्च सर्वे पदार्था भावा भवन्ति, इत्युक्तमुपपन्नमित्यर्थः ।

१९९असु०- यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं, तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमि त्यत आह तथाऽपीति ।

अनु०-तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः । सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥

निषेधस्य बुद्धेः इति सामानाधिकरण्यम् । परो भावः ।

यद्यप्येषोऽर्थः प्रागेवोक्तः तथाऽपि प्रसङ्गात् पुनः स्मारित इत्यदोषः ।

२००सु०- अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम्, तत्कथमि त्यत आह तस्मादिति ।

अनु०- तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते

प्रध्वस्तं प्रध्वंसो भेदः पृथक्तवम् । आदिपदेन प्रमेयत्वादिग्रहणम् । यस्मादभावस्य भावधर्मत्वमस्ति, तस्मादेव हि प्रध्वंसाभावादेः पृथक्तवप्रमेयत्वादिभावधर्मजातमस्त्येवेति अवगम्यते । प्रत्यक्षादिने ति योजना । प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयोऽभिधेयश्चेत्यवगम्यते । अभावस्य (च) भावधर्मानभ्युपगमे तद्विरोधः स्यादिति भावः ।

घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् ।

२०१सु०- एवमभावभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति अस्तीति ।

अनु०- अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता । इत्यादि युज्यते सर्वं

तस्मादि त्यनुवर्तते । यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम्, तस्माद् अभावोऽस्ति, प्रध्वंसोऽस्ति; देहाभावो, भस्मता इत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदः, तथा घटो न जानाती ति भावो विशेष्योऽभावश्च विशिष्टाकारः तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः ।

२०२सु०- यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटोऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादीति ।

अनु०- प्रत्यक्षादिप्रमाणतः

सिद्धमिति शेषः । भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धं न तु घटतदभावयोः, अतो नातिप्रसङ्ग इत्यर्थः ।

यद्वा भावाभावयोर्धर्मधर्मिभावो, धर्मधर्मिणोश्च अभेदः प्रामाणिक इत्येतत् किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकं किंवा सम्भावनाहेतुः । आद्ये तूक्तोऽतिप्रसङ्गः । द्वितीये साधकं वाच्यम् इत्यत्र इदमुक्तम् । अनेन क्वचिदि त्युक्तं विवृतं भवति ।

२०३सु०- अथवा भावो ही त्यादिना परिणामवादः प्रपञ्च्यते । तथा हि । केचित्परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः, तद्व्युदासार्थमाह भावो हीति । अत्र भावाभाव शब्दौ सदसत्परौ । यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मना अभावः, स एव तदात्मना भावश्च ।

यद्वा स घटः प्रागुत्पत्तेः भावः सन्, स एव तद् अभावः असंश्च ।

अथवा यः कुलालादिव्यापारात्प्राक् अभावः घटात्मनाऽसन्मृत्पिण्डः, स एव तदनन्तरं भावः घटात्मना सन् भवतीति ॥

एतदुक्तं भवति । कार्यं कारणेन भिन्नाभिन्नम् । तत एव प्रागुत्पत्तेः सदसत् । अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति ।

नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धं तथैतदपी त्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयति अभावस्ये ति सार्धश्लोकद्वयेन । पूर्ववदेव व्याख्यानम् ।

अस्त्वियं सम्भावना, निश्चायकं तु किमि त्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति तस्मादिति । प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः । आदि पदेनानुत्पन्नस्य कारकत्वं गृह्यते । नष्टानामपि वस्तूनां भेदो नैव विनश्यती ति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं (च) वा, तत् तस्मात् कार्यस्य कारणाभेदात्, प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते । न ह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते, नाप्यत्यन्तासतः कारकत्वम् । न च कार्यस्य पृथगेव सत्त्वमस्ति, अनुपलम्भात्; अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः । न च विनैव बाधकेनोपचारत्वकल्पना युक्ता, अतिप्रसङ्गात् । तदिदमुक्तम् अवगम्यत एव इति । न केवलं व्यवह्रियत इत्यर्थः ।

अभावस्य च भावाः स्युर्धर्माः, ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम्, तद्विशदयति अस्तीति । आदि पदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते ।

२०४सु०- स्यादेतत् । अन्योन्याभावस्य भावधर्मत्वेऽपि तस्य भावात् पृथक्तवेन कथं भावस्याप्यभावत्वमुच्यते । अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न, स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् ॥ यच्चोक्तमभावेऽपि पृथक्तवमस्तीति तदसत्, प्रमाणाभावात्, स्वरूपभेदेनैवासङ्करोपपत्तेः । पृथक्तवस्य च स्वरूपभेदातिरिक्तत्वादि त्यत आह अन्योन्येति ।

अनु०-अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक् । यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ॥

पृथक् पृथक् विभिन्नानीत्यर्थः । च शब्दो दूषणान्तरसमुच्चयार्थः । गतं प्रागेव निराकृतम्, अनेन पुनरुक्तिदोषः परिहृतो भवति ।

२०५सु०- कथं कल्पनागौरवादिकमित्यत आह पर्यायत्वेनेति ।

अनु०-पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि

क्रमप्रयोज्यत्वेनेत्यर्थः । सर्व एव लौकिका वैदिकाश्च ।

२०६सु०- अत्र मायावादिनश्चोदयन्ति । स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथाक्तवयोर्भावाभावधर्मत्वोपलम्भात् सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम्, भेदस्य वस्तुस्वरूपत्वानुपपत्तेः । तथा हि । भेदस्तावद्विदारणात्मा, भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य । तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात्, तथा तदेकदेशानामपि भेदः स्वभाव इति तत्रापि विदारणं भवेत्, इत्यनेन क्रमेण सर्वशून्यता स्यात् ।

किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात्, अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् । एकत्वाभावेऽनेकत्वमपि न स्यात्, तत्समाहाररूपत्वात्, तत्कार्यत्वाद्वा तस्य । एकत्वानेकत्वविकलं च शून्यमेवापद्यते ।

अपि च यदि भेदो वस्तुस्वरूपं स्यात् तदा प्रतियोग्यनपेक्षः प्रसज्येत, स्वरूपस्यानपेक्षत्वात् । न हि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति । घटो भिन्नः, घटस्य भेदः इति विशेषणविशेष्यभावसम्बन्धप्रतिभासोऽपि भेदस्य वस्तुस्वरूपत्वे दुर्घटः स्यात्, न हि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति । संशयविपर्ययौ चैवमुच्छिद्येयाताम्; भेदाग्रहनिमित्तौ हि तौ भवतः; तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदोऽपि गृहीत इति क्व तयोरवकाशः, न चेन्निर्विषयत्वात् सुतराम् । यदि चास्मादयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् तदा तस्य सपरिकरस्य भेदस्य स्वरूपेऽन्तर्भावात् प्रतियोगिनोऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति ।

२०६असु०- तानपाकरोति भेदस्येति ।

अनु०- भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥

तु शब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन् ये त्वि ति सम्बध्यते । स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे । शून्यतां सर्वस्यापीति शेषः । च शब्दः पूर्वोक्तदूषणसमुच्चयार्थः । अद्भुता आश्चर्याः, न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् । तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोति यत इति । यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततः अन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतः तस्माद् अद्भुतास्त इति सम्बन्धः ।

२०७सु०- अन्यस्य प्रतियोगित्वेऽपि कथमुक्तदोषपरिहार इत्यत आह प्रतियोगिनो हीति ।

अनु०- प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात्

हि शब्दः पूर्ववद्धेतौ । अयमि त्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति । स्वस्मात् धर्मिस्वरूपात् ।

इदमुक्तं भवति । विदारणात्मा हि भेदो यस्य यतस्तं विदारयेत् । न तु यं कमपि यतः कुतश्चित् । न (हि) च घटस्वरूपस्य भेदस्य घट एव प्रतियोगी, येन स्वस्मिन्विदारणं स्यात्; किन्तु घटादन्य एव । ततो विदारणं तु नानिष्टम्, तस्य शून्यतानापादकत्वादिति ।

२०७असु०- किञ्च भिद्यतेऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् । न चैवम्, भावसाधनत्वाङ्गीकारात् । अतोऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाह कथञ्चनेति ।

अनु०- कथञ्चन

इदमुदितमिति शेषः ।

२०८सु०- किञ्च विदारणमपि लवित्रादि, यत्सम्बन्धि तद्विदारयति न तु स्वात्मानम् । अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम्, स्वरूपभेदवादे तु क्वास्यावकाशः ।

२०८सु०- भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् ।

न ह्येकताऽनेकते स्वरूपेण विरुद्धे, एकस्यैव घटस्यान्यापेक्षयाऽनेकत्वदर्शनात्; किन्तु यदपेक्षयाऽनेकस्तदपेक्षयैवैक इति विरुद्धम् । तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः ।

अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा । आद्ये नैकताया भेदेन विरोधः, भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् । न द्वितीयः, एकं द्वित्वमिति दर्शनात् ।

एकत्वानेकत्वाभावेऽपि शून्यत्वं कुतः, वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति ।

२०९सु०- ननु भेदो वस्तुस्वरूपं चेत् प्रतियोगिनिरूप्य एव न स्यात्, स्वरूपस्य तदभावात् । अतो नायं परिहारो युज्यते । तथा च स्वस्मिन्नेव विदारणे पुनः शून्यतैवे ति चेन्न, स्वतः परतोऽपि व्याप्त्यसिद्धेः । यथा (हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपं मायावादिनाऽङ्गीकृतम्, अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम्; तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः ।

२१०सु०- किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् । एतावत्तु स्यात्, एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् । तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते, किन्तु प्रतीतिद्वयमेतत् । तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः ।

२११सु०- अस्तु वा स्वरूपविदारणम्, तथाऽपि शून्यतापादनमयुक्तमेवे त्याशयवानाह विभागेनेति ।

अनु०- विभागेनाल्पतैव स्यात्कुत एव तु शून्यता

लोष्ठादेः खलु, अवयवविभागेन लोष्ठादिविनाशे सति, अल्पपरिमाणावयवावशेषोऽवगतो, न तु सर्वशून्यता । तथा सर्वत्रापि विभागेनाल्पता अल्पावयवावशेषता एव स्याच्छून्यता तु कुत एव स्यात् ।

२१२सु०- ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषेऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह नेति ।

अनु०- न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते

यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति, यथा तन्तुसंयोगेनोत्पन्ने पटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः । एवञ्च यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात् तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् । न चैवं प्रामाणिकैः इष्यते । अतोऽसङ्गतं सर्वशून्यतापादनमिति ।

भावो जन्म ।

२१३सु०- ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम्, किन्तु सूक्ष्मतमत्वमेव; तच्चानिष्टमि त्यत आह विदारणेति ।

अनु०- विदारणार्थो धातुश्च विभागगुणवाचकः

स्यादेतद्यदि भेदो विदारणात्मा भवेत् । न चैवम्, प्रमाणाभावात् ।

अङ्गीकृत्यैव तु पूर्वः परिहारोऽभिहितः ।

ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते, स हि भिदेर्धातो रूपम्, स च विदारणार्थतया व्याख्यात इति । अत्रोत्तरम् । यदा भिदि धातुर्विदारणार्थो विवक्षितः तदा भेदशब्दो विभागाख्यगुणवाचको न तु अन्योन्याभावलक्षणभेदवाचक इति ।

एतदुक्तं भवति । क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः इति वचनादि्भदिर्विभागवचनोऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्यन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति ।

ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न, गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपात्तः, अन्यता चान्योन्याभावः; इति स्फुटो भेदः ।

२१४सु०- यस्तु गुणादिप्रक्रियां न मायावादी मन्यते । तं बोधयितुमाह अविदारणेऽपीति ।

अनु०- अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च

आस्यस्ये त्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् । तस्य च मायावादिन एव । यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावेऽपि ओष्ठौ भिन्नौ अन्योन्याभावलक्षणभेदवन्तौ भवत एव । यदभावे च यदस्ति तत्ततोऽन्यदिति च प्रसिद्धमेव, अतो विभागाद्भेदोऽर्थान्तरमेवेति ज्ञायते । तस्य च इत्यनेन नातःपरं स्वरूपभेदे काचिदनुपपत्तिः सम्भाविताऽस्तीति सूचितम् ।

ननु कथं नास्ति, विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न; स्वरूपत्वेऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः, अन्यथा आनन्दं ब्रह्म , आनन्दं ब्रह्मणः इत्यादेरनुपपत्तिप्रसङ्गात् ।

संशयविपर्ययानुपपत्तिरपि नास्ति, सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः । अन्यथाऽऽत्मस्वरूपे स्वयम्प्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनियमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् । अविद्यावशात् तत्र तथेति चेत्, अत्रापि सादृ(श्यादिव)श्यवशात् तथेति सन्तोष्टव्यम् ।

२१५सु०- यच्चाद्वैतपर्यवसानमुक्तम्, तत्कुत इति वक्तव्यम् । यदि मन्येत यथा हि लम्बकर्ण आगतः , नीलमानीयतामि त्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि त(त्र निम)न्निमज्जनं स्यादि ति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या; नाद्यः प्रशिथिलमूलत्वात्, न द्वितीयः चित्रगुरानीयताम्, काशीनिवासी समागत इत्यादौ तदभावात् । पारमार्थिकं दृष्टिमवलम्बमानस्य तदप्यसिद्धमिति चेत्; अहो पक्षपातोऽस्य यत्परस्यानिष्टं प्रसञ्जयन् व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते, व्यभिचारे तु तत्रोदास्ते । परसिद्धेन परस्यैवानिष्टापादनमिति चेत्, तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते । वैचित्र्यं किन्निमित्तमिति चेत्, व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः ।

२१६सु०- तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम्, किं निराकरणेने त्याशयवानुपसंहरति अत इति ।

अनु०- अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः

नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात् सूत्रकृता कुतोऽत्र न निराकृतमि त्येतदनेन परिह्रियते । उपेक्षितः सूत्रकारेणेति शेषः ।

२१७सु०- एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्ख्याविप्रतिपत्तिं निराकरोति न चेति ।

अनु०-न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥

ईश्वरोऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः । कुतः, अप्रमितत्वतः, अष्टगुणत्वे प्रमाणाभावात् । किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः । अर्णव इवार्णवः; क्षीरार्णवः सुधास्यन्दी भवति, अयञ्चानल्पविदोषानन्दसुधास्यन्दी । सः, अनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयोऽस्मिन्नित्यनन्तगुणः, अयमप्यानन्दादयोऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः । अमन्दसदानन्दस्यन्दी चासौ अनन्तगुणश्चासौ अर्णवश्चेति विग्रहः ।

२१८सु०- अष्टगुणत्ववदनन्तगुणत्वेऽपीश्वरस्य प्रमाणं नास्तीत्यत आह मयीति ।

अनु०-मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः । नारायणः परोऽशेषचेतनेभ्यः परं पदम् । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते । अनन्तगुणता विष्णोः

अनन्ता असङ्ख्याता गुणा यस्यासौ अनन्तगुणः ।

गुणतोऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते । अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् । उत्तरं वेदवाक्यम् ।

गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम् । माहात्म्यं परिमाणातिशयः । परं पदमि त्युद्दिश्य अन्यदुच्यत इति न लिङ्गव्यत्ययदोषः ।

नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आह कथमेवेति ।

अनु०- कथमेव ह्यपोद्यते

बाधकवशात् हि मुख्यार्थोऽपोद्यते, न चात्र तदस्ति; इत्यतोऽनन्तगुणता विष्णोः कथमेवापोद्यते ।

२१९सु०- यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत्, अनन्तं गुणत इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् ।

२१९असु०- तदनङ्गीकारे चाह यदीति ।

अनु०- यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः । कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते

तत्तद्विषयता घटादिविषयता, विधीयते अस्तित्वेनाङ्गीक्रियते । मा भूत् तत्तद्विषयत्वमित्यत उक्तं सार्वज्ञार्थमिति । उपलक्षणं चैतत्, सर्वकर्तृत्वाद्यर्थं चे त्यपि द्रष्टव्यम् । अत्र अनन्तविशेषा इति यथागमसिद्धोक्तिः ।

वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्, तदा तत्तद्विषयत्वं न स्यात् । तदा च तस्य सार्वज्ञादिकं न स्यात् । सर्वविषयज्ञानवान् हि सर्वज्ञो नाम, तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान् सर्वकर्ता, सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता । अङ्गीकृतं च सार्वज्ञादि परेण परमेश्वरस्य, अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम्, कथं च तथा सति निर्विशेषत्वमिति ।

२२०सु०- एतेनैतदपि निरस्तम् । यदाहुः, अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत, नित्यस्य तु किं विषयेणे ति ।

विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः ।

२२१सु०- स्यादेतत् । निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम्, तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते; एवमखण्डैव तस्येच्छा अस्तु इत्येवमाकारा । तथाऽपि तैस्तैः सृष्ट्याद्युपाधिभिः सिसृक्षा सञ्जिहीर्षेत्याद्युच्यते, तथा प्रयत्नोऽपि । अतः स्वतो विशेषाभावेऽप्यौपाधिकविशेषवशात् तत्तद्विषयता सार्वज्ञादिकं च युक्तमित्यत आह औपाधिकेति ।

अनु०- औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥

औपाधिकोऽपि विशेषोऽस्ति न वा । अस्ति चेत् कथं निर्विशेषत्वम् । न चेत् पुनः सार्वज्ञाद्यभावः इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः ।

किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेदसम्बद्धो वा । आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्टव्या । द्वितीयेऽतिप्रसङ्गः ।

अपि च अस्तु इत्येवमाकारेणैवेच्छादिना सृष्ट्यादिकं भवति, उत सृष्ट्यादिकं भवतु इत्येवमाकारेण । नाद्यः, अतिप्रसङ्गात् । द्वितीये स्वतः सविशेषत्वमित्येषा दिक् ।

२२२सु०- वैशेषिकादयः केचिदीश्वरज्ञानं स्वप्रकाशं न भवतीत्याहुः, तानपाकरोति स्वप्रकाशत्वमपीति ।

अनु०- स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य

यैस्तु इति सम्बन्धः । केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं तु शब्दः । ज्ञानस्य ईश्वरज्ञानस्य । तेषां पक्ष इति शेषः । तस्य ईश्वरस्य ।

कथं स्वप्रकाशत्वाभावे सर्वज्ञताऽभाव इत्यत आह स्वेति ।

अनु०- स्वज्ञानाधिगमं विना

स्वज्ञानाधिगमाभावादित्यर्थः । एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति, न तु स्वरूपम्, इति कथमीश्वरः सर्वज्ञः स्यादिति ।

२२३सु०- स्वप्रकाशज्ञानाभावेऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कते ज्ञानमिति ।

अनु०- ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः । इति चेत्

विश्वाधिगं स्वव्यतिरिक्तसमस्तविषयम् । तज्ज्ञानं विषयो यस्य तत् तथोक्तम् ।

स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यान्न चैवम् । द्वे खल्वीश्वरज्ञाने; तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम्, द्वितीयं तु तज्ज्ञानविषयीकारि । एवञ्च ज्ञानस्य स्वविषयत्वाभावेऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति ।

तथाऽपीश्वरस्य असार्वज्ञं तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशवान् उत्तरमाह एष एवेति ।

अनु०- एष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्यात्

आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः । ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञोऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिः एष एवार्थः ईश्वरेण ज्ञायते न वा । नेति पक्षे तस्य सार्वज्ञं न स्यात् । आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण ।

प्रथमस्येदमुत्तरम् ॥ एष एवार्थः तयोरन्यतरेण ज्ञानेन अवसितो विषयीकृतो यदि, तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेव इति ।

तत्कथमित्यत आह ज्ञानं हीति ।

ज्ञानं ह्येतद्विशेषणम्

यद्यप्येतज्ज्ञानं निष्कृष्टं स्वस्य स्वविषयतामापद्यते, तथाऽपि ज्ञानविषयस्यैतस्य ज्ञानद्वयवानहमित्यादेरर्थस्य विशेषणं भवत्येव । तथा च विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव, न हि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति ।

द्वितीये दोषमाह ज्ञानान्तरेणेति ।

ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः

ज्ञानान्तरेण तृतीयेन ज्ञानेन, यद्येषोऽर्थो विषयीक्रियते । अत्र अस्मिन्पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत् ।

यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः, किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति । द्वितीये तु पुनरसार्वज्ञम् । आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन । नाद्यः स्वप्रकाशतापत्तेः । द्वितीये पुनरनवस्थैव । एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् ।

२२४सु०- नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न, कल्पनागौरवाद्वरं एकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति स्वप्रकाशत्वमिति ।

अनु०- स्वप्रकाशत्वमेतस्माद् दुर्निवारं समापतेत्

ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः(दि )विरुद्धं स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) । यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्व्याप्तिसिद्धिः, विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमि त्याशयवतो वोपसंहारः ।

२२५सु०- यदुक्तमीश्वरोऽनन्तगुण इति तदनुपपन्नम्, चतुर्विंशतेरधिकानां गुणानामभावात्, तत्रापि केषाञ्चिदीश्वरेऽनुपपत्तेः । तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति । मैवम् । शौर्यौदार्यप्रागल्भ्यप्रभृतीनां गुणानां भावात्, परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च ।

तथा हि । सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् । ईश्वरः सुखरहितो दुःखरहितत्वात् घटवत् । सुखवांश्चेद् दुःखवान् प्रसज्यते देवदत्तवदि ति विपक्षे बाधकोपपन्नादनुमानादिति चेत्, तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाह सुखवानिति ।

अनु०-सुखवान्दुःखवांश्चेत्स्यादिति व्याप्तिश्च नो भवेत्

यदीश्वरः सुखी स्यात्, तदा दुःखी प्रसज्येतेत्येतत्त कर्ममूलभूता यः सुखवान् स दुःखवांश्च स्यादिति व्याप्तिर्नो भवेत् । चशब्देन वक्ष्यमाणरीत्या विपर्ययावसानं समुच्चिनोति ।

२२६सु०- कथं व्याप्त्यभाव इत्यत आह निर्दुःखत्वमिति ।

अनु०- निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते

यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम्, तथाऽपीश्वरे निर्दुःखेऽपि वर्तमानं व्याभिचारित्वाद्व्याप्तिविकलं भवति । व्याप्त्या विना प्रसञ्जने चातिप्रसङ्गः ।

नन्विदमयुक्तम्, आपादनस्थले व्याप्तिभङ्गाङ्गीकारे प्रसङ्गमात्रोच्छेदापत्तेः । न च वाच्यं प्राक् प्रसञ्जनाद्व्याप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति, सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादि ति । मैवम् । स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् । न चैवं प्रकृते, श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य )व्यभिचारोपपादनात् ।

तदिदमुक्तं श्रुत्यैव भण्यत इति । प्रत्येकं सम्बन्धादेकवचनम् ।

२२६असु०- काऽसौ श्रुतिरित्यतोऽर्थतस्तामुदाहरति य इति ।

अनु०- योऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान्विपाप्मेत्यादिका च सा

अनेन योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येती ति श्रुतिमुपादत्ते । विपाप्मेत्यनेन य आत्माऽपहतपाप्मे त्यादिश्रुतिम् । सा निर्दुःखत्वाद्यभिधात्री ।

२२७सु०- नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यते इत्यतोऽङ्गीकृत्य तावत्सोपाधिकत्वमाह ईश्वरस्येति ।

अनु०- ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥

तथेष्टत्वं दुःखी भवत्वि तीष्टत्वम् । दुःखित्वोपाधिः दुःखित्वप्रयोजकम् । अपि पदेनाधर्मादिमत्त्वं समुच्चिनोति । अनादरो विना बाधकेन प्रतीतार्थपरित्यागः, मा भूत् तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति; सोपाधिकसम्बन्धस्य व्यभिचारनियमादि ति ।

२२८सु०- यः सुखी स दुःखी भवत्वि तीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह न चेति ।

अनु०- न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते

ईश्वरस्य हि आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुतेः सुखित्वेऽपि नोपाधिमत्त्वम्, कस्यापि आत्मदुःखितेच्छा ऽभावाद् अत एतद् उपाधेर्व्याप्याभिमतव्यापकत्वं निवार्यते ।

यद्यप्ययं नियमो न दर्शनमात्रेण सिद्ध्यति, अतिप्रसङ्गात्; नियामकं तु नास्तीति वक्तुं शक्यते; तथाऽपि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् ।

२२८असु०- भवेदेतद्यद्यानान्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति, तस्या दुःखाभावपरत्वादिति चेत्; किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव ।

न तावद् द्वितीयः, दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्टापत्तितापत्तेः ।

आद्ये, न तावत् प्रत्यक्षमागमो वा बाधकोऽस्ति, ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् ।

तदुभयमपि व्याप्तिबलप्रवृत्तं वा स्यात् सहदर्शनमात्रबलप्रवृत्तं वा ।

२२८आसु०- नाद्यः इतरेतराश्रयत्वप्रसङ्गात्, सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिः, तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरि ति ।

२२९सु०- नन्वेतद्भवतामपि समानम्, श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमि ति । मैवम् । यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते, न स्वार्थपरत्वे बाधकाभावम्, तस्य प्रतीत्यैव सिद्धत्वात् ।

२२९ सु०- द्वितीये त्वतिप्रसङ्गः स्यादित्याह सहेति ।

अनु०- सहदर्शनमात्रेण श्रुतीनामपलापकः । यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः । नानुमाति कथं

आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य वा तत् सहदर्शनम्, तन्मात्रेण, श्रुतीनाम् ईश्वरस्यानन्दवादिनीनाम्, अपलापकः स्वार्थप्रच्यावकः । यज्ञादे रित्यादिपदेन गोभ्यो यवसदानं गृह्यते । युतेः योगात् । यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थापलापः क्रियेत तदा या हिंसा सा पापहेतुरि ति सहदर्शनेन ज्योतिष्टोमादिश्रुत्यर्थापलापोऽपि क्रियतामविशेषादिति भावः ।

२३०सु०- नन्वविशेषोऽसिद्धः, हिंसात्वपापसाधनत्वयोः साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् । न च सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति । ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्ट इत्याशङ्कते तत्रेति ।

अनु०- तत्र यद्युपाधिर्निषिद्धता

अस्तीत्युच्यते इति शेषः ।

२३१सु०- केयं निषिद्धता नाम । अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् । केयमकर्तव्यताऽपि । करणानर्हता वा कर्तुरनिष्टहेतुता वा । नाद्यः, ब्रह्महिंसाया अपि क्रियमाणत्वात् । द्वितीयेऽपि किं साक्षादनिष्टसाधनत्वं परम्परया वा । नाद्यः, हिंसानन्तरमेव दुःखोत्पादादर्शनात् । द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरि त्युक्तं स्यात्, एवञ्चात्राप्युपाधिसद्भावादविशेष एवे ति परिहरति अदुःखित्वेनेति ।

अनु०-अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत्

अदुःखित्वेनानुक्तिरिति दुःखित्वेनोक्तिरित्यर्थः । काऽसौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आह अदुःखमिति ।

अनु०-अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते । इति श्रुतिर्हि परमा

प्रवर्तते दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः ।

२३२सु०- एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीम् ईश्वरो न सुखी निर्दुःखत्वात् घटवदि त्यनुमानमपि दूषयति श्रुत्युक्तिरिति ।

अनु०- श्रुत्युक्तिर्यदि कारणम् । किं कार्यमनुमानेन गलस्तनसमेन हि ॥

कारणं प्रमायाः । आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुतिः प्रमाणं न वा । नेति पक्षे अपसिद्धान्तः । आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः ।

२३३सु०- ननु श्रुतिः प्रमाणमेव, किन्त्वनुमानविरुद्धत्वात् प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्ये त्याशङ्क्य; नैवम्, अनुमानस्य श्रुतिबाधकत्वादर्शनात् । क्वचिदुपजीव्यत्वादिनैव बाधकत्वात् । एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादि त्याह अनुमानेनेति ।

अनु०- अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते ।

पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च । स्यात्तत्फलं च

पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन । नेश्वरः स्यात् श्रुतिदृष्टोऽपीश्वरोऽनुमानविरोधात् त्याज्यः स्यादिति यावत् । धर्मश्च नैव स्यात् , तत्फलं च नैव स्यात् इत्यत्राप्येवमेव तात्पर्यम् । यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् , धर्मो वा न सुखसाधनमादृष्टत्वादधर्मवदि त्याद्यनुमानसम्भवात् ।

अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह तेनेति ।

अनु०-तेनात्र श्रुतिरेव प्रमा भवेत्

यस्मादुपजीव्यत्वादिरहितेनानुमानेन आनन्दश्रुतेर्बाधाभ्युपगमेऽनिष्टप्रसङ्गः, तेन कारणेन एषा श्रुतिरत्र ईश्वरस्यानन्दवत्त्व एव प्रमा प्रमाणं भवेत् न पुनरन्यथा योज्येति ।

२३४सु०- मा भूत् श्रुतिरप्रमाणं, मा च भूदनुमानबाधयाऽर्थान्तरपरा, तथाऽप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदि त्यत आह ईशस्येति ।

अनु०- ईशस्यानुमयाऽसिद्धेः श्रुतिर्धर्मिप्रमा भवेत् । तया सर्वगुणैः पूर्ण ईश उक्तो यतस्ततः । अनानन्दानुमानस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत्

अनुमया इति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् । धर्मिप्रमा धर्मिग्राहकं प्रमाणम् । अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा । अत्र चेश्वरो धर्मी, न चासावनुमानेन सिद्ध्यती ति समर्थितं प्राक्, प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम्, ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्टव्यम् ।

तथा चानेनानुमानेन श्रुतिप्रामाण्यमनुमतम्, अन्यथा स्वस्यानुत्थानप्रसङ्गात् । सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे । ततः तद्विरोधादनुमानमप्रमाणमेव अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति । न च वाच्यं यः सर्वज्ञः इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् । अन्यथा अग्नि ग्राहकमेवोपजीव्यम्, न तु तदौष्ण्यग्राहकम् इत्यपि स्यात् ।

२३५सु०- अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति तस्मादिति ।

अनु०- तस्मान्नानुमाऽत्रोपयोगिनी

अत्र ईश्वरविषये । अत एव सर्वगुणैः पूर्ण इत्युक्तम् । अन्यथा आनन्दवानित्यवक्ष्यत् ।

२३६सु०- अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयन् नित्यमेव च भावात् इति सूत्रं व्याख्याति नित्येच्छत्वादिति ।

अनु०- नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥

वैशेषिकादयो हि कालविशेषे द्व्यणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति, तत् तदीयप्रक्रियापर्यालोचनायां नोपपद्यते; किन्तु तत्पक्षे कार्यं सदा भवेत्, यदाऽभिलष्यते ततः प्रागपि भवेत् ।

कुतः । कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः । तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत् सदा विद्यन्ते । निमित्तकारणं चेश्वरेच्छा नित्यैव । तथा कालो दि(क्च)क् । यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथाऽपि प्रलयेऽस्तीत्यङ्गीक्रियत एव । वृत्तिलाभस्तदा नास्तीति चेन्न, तस्यापीश्वरेच्छादिकारणकस्य, तद्भावेऽभावानुपपत्तेः । अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्टिरिति निरस्तम्, संयोगानुत्पादस्याप्यनुपपत्तेः । तत् असमवायिकारणकर्माभावादिति चेन्न, तदनुत्पादस्याप्ययोगात् । न चातोऽन्यद् द्व्यणुकादेः कारणमस्ति, यद्वैकल्यात् अभिलषितसमयात्प्राक् कार्याभावो भवेत् । सत्यां चाभिमतसामग्रयां कार्यानुदये पश्चादपि नोत्पद्येत, नियामकाभावादिति ।

सदात्वं सदातनत्वम् । भावात् प्रलयेऽपी ति शेषः । एव शब्दस्य सदैव इति सम्बन्धः । कार्यं भवेदि ति चाभ्युपगम्योक्तम् । वस्तुतस्तु तत्पक्षे कदाऽपि द्व्यणुकाद्युत्पत्तिर्न सम्भवति, विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् । कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारेऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति । अत एव सृष्ट्यादीति वक्ष्यति ।

२३७सु०- स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् । न चैवम् । किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते । तथा नेश्वरेच्छामात्रं सृष्ट्यादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्ट्यादिव्यवस्था स्यादिति चेन्न । किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः । नाद्यः निरस्तत्वात् । द्वितीये त्वपसिद्धान्तः इत्याह न हीति ।

अनु०-न हि कालविभेदोऽस्ति तत्पक्षे

हि शब्देन आकाशकालदिशामेकैकत्वादि त्यादि तद्वाक्यं स्मारयति । कालेतीश्वरेच्छाया अप्युपलक्षणम् ।

२३८सु०- नन्विदं दूषणं भवतामपि समानम् । तथा हि । महदाद्युपादानकारणं प्रकृतिर्नित्यैव । तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि । तदेव च प्रलयकारणम् । अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घटः इत्यत आह अस्मन्मत इति ।

अनु०-अस्मन्मते हरेः । विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥

यद्यपि अस्मन्मते हरेरिच्छा सदातना । प्रकृत्याद्युपलक्षणमेतत् । तथाऽपि विशेषकाल एवैतस्य महदादेः सृष्ट्यादि भवतीति योजना ।

अस्माभिः काले स्वभावत एव भेदोऽभ्युपगम्यते । तथा च कालविशेषस्यैव सृष्टिं संहारं च प्रति कारणत्वात् तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्ट्यादिसमयनियमो युज्यत इति भावः ।

२३८असु०- ननु कालविशेष इति वाच्यम् । मैवम् । विशिष्यत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् ।

ननु सदातनीति भवितव्यम् । मैवम् । नायं ट्युट्युलोरन्यतरः प्रत्ययः, किन्तु भ•)वार्थे तनप्रत्ययोऽयम् । अथवा तनोति तनोते रूपमेतत् ।

२३९सु०- ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः, व्यर्थश्च कालभेदाभ्युपगमः । अनित्यत्वे तत्कारणं वाच्यमिति चेत् सत्यम् । उपादानं तु प्रकृतिरेव । निमित्तमाह विशेषाश्चेति ।

अनु०- विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा

न केवलं महदादि किन्तु कालस्य विशेषाश्च क्षणलवादयः । एव शब्दस्य हरेरेवे ति सम्बन्धः । सदेत्यनेन न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात्, किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति ।

२४०सु०- ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आह सर्व इति ।

अनु०-सर्वे निमेषा इति हि श्रुतिरेवाह सादरम्

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिम् आह हि इत्यर्थः ।

विशेषेण द्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः = कालभेदा अधिजज्ञिरे = यथास्वं जायन्त इति ।

ननु एषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, न तु कालस्य; तथा सति काष्ठाकलामुहूर्ताश्चेत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात् । न हि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति, उपाधयस्तु निमेषादिरूपाः पृथगेव, इति न तत्र पुनरुक्तिदोष इति अत उक्तं सादरमिति । यत्सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः । उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति ।

२४१सु०- ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः । अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमि त्यतोऽत्र स्पष्टां श्रुतिं चाह उदीरयतीति ।

अनु०- उदीरयति कालाख्यां शक्तिमित्यस्य वागपि

सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाण इति अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहे त्यर्थः ।

कालात्मिकां कालाख्यां सहकारिशक्तिम्, उदीरयाणः जनयन्नित्यर्थः । अत्र कालशब्दात्, ईश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च, नार्थान्तरकल्पनावकाशः ।

२४२सु०- स्यादेतत् । कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् । न च कालस्योत्पत्तौ कालान्तरमस्ति । तत्कथं तस्योत्पत्तिः ॥ पूर्वकालः परकालस्य निमित्तमिति चेन्न, इदानीं जातः , तदानीं जातः इत्यधिकरणतया कालस्य कारणतावधारणात् । अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातः , गोष्ठे जातः इत्यादौ निश्चितत्वात् इत्यत आह कालस्येति ।

अनु०- कालस्य कालगत्वेन न विरोधोऽपि कश्चन

कालस्य उत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः, किन्तु कश्चन विरोधोऽपि न अस्तीति योजना । एतच्च प्रपञ्चयिष्यते ।

२४३सु०- एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्ट्यादेः समयनियम इति समर्थितम् । प्रकारान्तरेण तं समर्थयते असङ्ख्यातेति ।

अनु०- असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा

सर्वदा विद्यमानाया इति शेषः । सर्वदा विद्यमानाया अपि ईश्वरेच्छायाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वा द्यसङ्ख्यातविशेष(वत्त्वा)त्वात् तद्व्यक्त्यव्यक्तिप्रयुक्तः सृष्ट्यादेः समनियमो युज्यत इत्यर्थः । यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् । कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते, तथाऽपि वस्तुस्थितिरियं दर्शिता वेदितव्या ।

२४४सु०- कालस्य कालगत्वेने त्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः । नाद्यः, स्वस्कन्धारोहणवद्विरुद्धत्वात् । न द्वितीयः, तदभावात्; भावे वा कालान्तरसृष्टिवैयर्थ्यात्, तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गात् इत्यतः सप्रमाणकमुक्तं विवृणोति ईश इति ।

अनु०- ईशो देशश्च कालश्च स्वगता एव सर्वदा

देश इति अव्याकृताकाशाभिधानम् ।

२४५सु०- स्वगताः इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति ईशाधीनाविति ।

अनु०- ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु । तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥

विशेषणत्रयेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते । श्रुतिरपीति साक्षिणं समुच्चिनोति । यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम्, अतः कालस्य स्वगतत्वतः स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्ट एव काले तत्तत्कालसृष्टिमेव वाञ्छति इत्यन्वयः ।

२४६सु०- एतदुक्तं भवति । कालातिरिक्तकार्याणामेव कालोऽधिकरणतया कारणं, न कालस्य । केवलं, श्वो घटं स्रष्टाऽस्मी तिवत् कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नोऽवशिष्यते । तत्र यः सृज्यः स एवेत्युत्तरम् । न हि सृज्यस्य प्राक् सत्त्वमस्ति, येनोद्देश्यत्वं सत्त्वमपेक्षेत । अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते । अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति ।

२४७सु०- यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिर्भवति । यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवती ति, तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम्; न च कालविशेषो निमित्तमिति युक्तम्, तस्येश्वरेच्छायत्तत्वात्; नापि पुरुषार्थायत्तम्, पारतन्त्र्यापत्तेरि त्यत आह स्वभावादेवेति ।

अनु०- स्वभावादेव हीच्छैषा

एषा विचित्रा । तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः ।

कुत एतदित्यत आह देवस्येति ।

अनु०-देवस्यैष इति श्रुतेः

एतदवगम्यत इति शेषः ।

२४८सु०- अपर आह किमानया कालादिवैचित्र्यकल्पनया, यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः । अन्ततोऽपि हि स्वभाववादोऽभ्युपगन्तव्यः, ततो वरमादावेव स्वभाववादाभ्युपगमः इति । अत आह स्वभावोऽपीति ।

अनु०- स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा

पुरा चेतनानां विशेषो य इत्यादौ । स्वभाववादमभ्युपगच्छताऽपि तन्नियामकतयेश्वरः अङ्गीकार्यः, ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्तेऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः ।

२४९सु०- न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम्, किन्तु प्रमाणान्तरमप्यस्तीत्याह नित्या इति ।

अनु०-नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ॥

तत इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः । श्रुतिः सर्वस्येश्वराधीनतामाहेति शेषः ।

२५०सु०- अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयत् ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ , ॐ उभयथा च दोषात् ॐ इति सूत्रद्वयं व्याचष्टे रूपेति ।

अनु०- रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ।अनुमेया

परमाणोः इति जात्यपेक्षमेकवचनम् ।

पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयन्ति वैशेषिकादयः । तदनुपपन्नम्; पार्थिवाः पाथसीयास्तैजसाश्च परमाणवोऽनित्या रूपवत्त्वात् पटवत् , यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् , एवं पार्थिवा आप्याश्चानित्या रसवत्त्वात्पटवत् , पार्थिवा अनित्या गन्धवत्त्वात् तद्वदेवे त्याद्यनुमानविरुद्धत्वात् ।

न च सावयवत्वमुपाधिः, गुणादौ साध्याव्याप्तेः । न च द्रव्यत्वावच्छिन्ने साध्येऽस्योपाधित्वम्, यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् । न च धर्मिग्राहकविरोधः, साक्षिणैव परमाणुसिद्धेरुक्तत्वात् ।

अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः ।

यदि च रूपादिमन्तोऽपि परमाणवो नानित्यास्तदा घटादयोऽप्यनित्या न स्युरविशेषात्, तथा(च)ऽपि न परमाणूनां मूलकारणत्वम् । न चेश्वरे हेतूनां व्यभिचारः, भौतिकत्वेन विशेषणात् । तथाच वक्ष्यति भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मत इति ।

२५१सु०- नन्वस्माभिर्भूतसूक्ष्माणां नित्यताऽङ्गीक्रियते, तत्कथमेवमनुमीयते । मैवम् । न हि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि, विकृताकाराश्च अनित्या एवेति ॥

२५२सु०- ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ इति सूत्रं व्याचष्टे श्रुतीनां चेति ।

अनु०- श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।

उपादेयमतश्चायमविरुद्धः समन्वयः ॥

सम्बन्धमात्रे षष्ठी, अन्यथा तृतीया स्यात् । श्रुतयश्च आत्मन आकाश इत्याद्यास्तत्र तत्रोदाहृता ज्ञातव्याः ।

२५२असु०- वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आह अतश्चेति । अयं सकलगुणपरिपूर्णपरब्रह्मविषयः । अविरुद्ध इति न वैशेषिकादिमतविरोधेनासमञ्जसो मन्तव्य इति भावः ॥

न्यायसुधा

॥ अथ समुदायाधिकरणम् ॥

ब्र०सू०-ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥

१सु०- अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ॥

१असु०- विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति वैभाषिकाश्चेति ।

अनु०-वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत्

आहुः इति वक्ष्यमाणेन सम्बन्धः । क्षणिकं क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात् कथं क्षणभङ्गित्वमित्यत उक्तं स्वरसेति । स्वभावेनैव क्षणिकम् । स्वभाव एवायं वस्तुनो यद्विनाशित्वं, तत्र का कारणापेक्षा; मुद्गरादयोऽपि न वस्तुविनाशहेतवः, किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।

२सु०- ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम्, तत्कार्येणाप्येवम्; इति कथं क्षणिकत्वं जगतः इत्यत आह अणूनामिति ।

अनु०- अणूनां समुदायं च

जगदाहुः । अणुसमुदाया एव गोघटादिबोधबोध्याः, न तु तदतिरिक्तोऽवयवी नामास्ति, येन क्षणिकता विरुध्येत ।

अणुमात्रमिति वक्तव्ये समुदायग्रहणम् एको महानि ति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् । प्रत्येकमणूनामप्रत्यक्षत्वेऽनेकत्वेऽमहत्त्वेऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः ।

३सु०- समुदायो हि मेलकेन (केनचित्) पुंसा भवति, न चास्मदादिस्तथेतीश्वरोऽभ्युपगन्तव्यः स्यात् । तथाऽवयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादि त्यत आह कालेति ।

अनु०- कालकर्मनिमित्ततः ।उत्पत्तिकाले युक्तानां

कालकर्मणी च ते निमित्ते च, ततः । उत्पत्तिकाले आदिसृष्टौ । अन्यदा तु निमित्तान्तरमस्तीति भावः । युक्तानां सन्निकृष्टतयोत्पन्नानां अणूनां समुदायमि ति सम्बन्धः । कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते यथा यथा गोघटादिविचित्राकारावभासः स्यात्; तत्र किमीश्वरेण, किं वाऽवयविना । सिद्धान्तिनाऽपि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम्, संयोगश्चावयव्युत्पादानुगुणः; तावतैव सर्वमुपपद्यत इति ।

४सु०- किमनात्मप्रपञ्च एव क्षणिकः ? नेत्याह आत्मानमिति ।

अनु०- आत्मानं च क्षणस्थितम्

क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः ।

क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह नित्यमिति ।

अनु०- नित्यं सन्तानमेतेषां

एतेषाम् अणूनाम् । सन्तान विषया प्रत्यभिज्ञेति भावः । न चैवं सत्त्वस्यानैकान्त्यम् । सन्तानस्य सत्त्वाभावात् ।

५सु०- एवं सामान्यतो निरूप्य विभागमाह पञ्चेति ।

अनु०- पञ्चस्कन्धात्मना स्थितम्

जगद्वृक्षं पञ्चस्कन्धात्मना स्थितम् आहुः ।

पञ्चस्कन्धानाह संस्कारेति ।

अनु०- संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः

स्थितिः स्कन्धानामिति शेषः ।

समनन्तरप्रत्ययः संस्कारस्कन्धः । रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । सविकल्पकं ज्ञानं संज्ञास्कन्धः । वेदनाऽपरपर्यायं दुःखं चैकस्कन्धः ॥

अत्र रूपस्कन्धो बाह्यः, अन्ये चत्वार आभ्यन्तराः । इत्याहुरिति सम्बन्धः ।

६सु०- सुखादीनां पदार्थान्तराणां विद्यमानत्वात् कथं पञ्चैव स्कन्धाः, इत्यत आह दुःखाभावमिति ।

अनु०-दुःखाभावं सुखं चाहुः

च शब्देन केचित्सुखं वेदनास्कन्धेऽन्तर्भावयन्तीति सूचितं भवति । यद्वाऽनुक्तसमुच्चयार्थश्चशब्दः, यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्ख्यादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव, देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनं क्षणिकस्य वास्तवकर्मायोगात्, सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः, अतद्व्यावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्ये त्यादि ।

अनु०- अरूपज्ञानसन्ततिम् । मोक्षं

अरूपेति । सन्तन्यमानं ज्ञानमेवात्मा, तस्य विषयोपप्लवः संसारः । अरूपा निर्विषया या ज्ञानसन्ततिस्तामेव मोक्षम् आहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति ।

७सु०- एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्य अवान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुः, यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्ती ति तन्निराकर्तुं समुदाय उभयहेतुकेऽपि तदप्राप्तिः इति सूत्रं व्याचष्टे स इति ।

अनु०- स समुदायो हि नैकस्मादेव युज्यते

योऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः, स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः ।

नाद्यः । एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः, न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते; समुदायकल्पनं वानर्थकमापद्येत, महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् । अनेन अपिशब्दलब्धोऽर्थो दर्शितः ।

७ सु०- द्वितीयं निराकरोति नेति ।

अनु०-नोभयोश्च

उभय ग्रहणम् नेकमात्रोपलक्षणम् । सकाशादि ति शेषः । चशब्देन समुदायो युज्यत इत्यनुकृष्यते ।

सु०- कुतो न युज्यत इति चेत् । अनेकहेतुकत्वेऽपि किमसमुदितानेकहेतुकोऽथ समुदितानेकहेतुक इति वक्तव्यम् ।

आद्ये सर्वत्र•पि) गोघटादिबुद्धिप्रसक्तिः; असमुदितपरमाणूनां सर्वत्र भावात्, समुदायस्य च तन्मात्रहेतुकत्वात्, समुदायाङ्गीकारवैयर्थ्यप्रसङ्गश्च ।

८सु०- द्वितीयानुपपत्तौ हेतुमाह उभयत्वमिति ।

अनु०- उभयत्वं यत्समुदायव्यपेक्षया

यत् यस्मात् उभयत्वं समुदितानेकत्वं, समुदायसापेक्षम् । जाते हि समुदायेऽनेकेषां समुदितत्वं (सं)भवति । तस्मान्नेति सम्बन्धः ।

समुदितानेकत्वस्य समुदायसापेक्षत्वेऽपि कुतस्ततः समुदायोत्पादो न युज्यते इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति अत इति ।

अनु०- अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते

समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः । समुदायानु(त्पत्तौ)पपत्तौ चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरताऽयोगादवश्यमङ्गीकरणीयोऽवयवीति ।

८असु०- किञ्चायं समुदायः किं परमाणूनां संयोगः, किंवाऽनेकत्वसङ्ख्या, उत द्रव्यान्तरम् । नाद्यद्वितीयौ; अनङ्गीकारात्; अङ्गीकारेऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः । तृतीये स एवावयवी ।

८आसु०- सांवृतोऽसाविति चेत्, तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव । भ्रान्तिरियमिति चेत् (न), भ्रान्तेरभ्रान्तिपूर्वकत्वे क्वचिन्महत्त्वादेः वास्तवत्वप्रसङ्गात् । अनादिवासनावशादनादिरेवेयं भ्रान्तिरिति चेन्न, नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् ।

९सु०- ननु विषममिदमुच्यते, अवयविनि बाधकसद्भावात् । तथा हि । अवयवी किमवयवेषु प्रत्येकं कार्त्स्येन वर्तते किं वैकदेशेन ? आद्येऽनेकत्वप्रसङ्गः । न द्वितीयः, तस्यावयवान्विहायेकदेशाभावात्; भावे वा (त) अत्रापि वृत्तिविकल्पप्रसङ्गात् ।

किञ्च केषुचित्तन्तुषु चलत्सु तद्गतोऽवयवी चलति न वा । नेति पक्षे युतसिद्धिप्रसङ्गः । आद्ये तु निश्चलावयवाश्रितो न चलती ति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः ॥

एवमावृतानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति ।

९असु०- उच्यते । नास्माभिरवयवेभ्योऽत्यन्तभिन्नोऽवयवी गृह्यते, किन्तु तत्परिणामविशेष एव; तत्र कुतो वृत्तिविकल्पावकाशः । चलाचलत्वादिविरोधस्तु भेदाभेद•दि)विरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः ।

९आसु०- न च वाच्यं समुदायो भवदि्भरङ्गी(क्रिय)कृत एव, त(तश्च)त्राक्षेपसमाधानसाम्यमिति; यतोऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायोऽभ्युपगम्यते, स चामिलितेभ्य एव भव(ती)ति । स्थायितायां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति ।

१०सु०- उक्तमर्थमाक्षिप्य समादधत्सूत्रम् ॐ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ इति ल२२७२(८)श । तत्राक्षेपांशं तावद्व्याचष्टे अन्योन्येति ।

अनु०-अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् । स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् । इति चेत्

भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात्, न चैवम्, सदातनं त्विममभ्युपगच्छामः । एवं तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेन्न, यतस्तस्य समुदायस्य सदातनत्वेऽपि पुंसः समुदायत्ववेदनं स्यात्, कदाचिदिति शेषः । ततस्तदपेक्षया सृष्ट्यादिव्यवस्थोपपद्यत इति भ•वः ॥

समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तं तच्चेति । तत् समुदायत्ववेदनं परमाणु सामीप्यहेतुकम् । न च सामीप्यं सदाऽस्तीति वेदनस्य कादाचित्कत्वमिति ॥ समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आह अन्योन्येति । अन्योन्य परमाणुज्ञाना पेक्षया हि तद्भवति, न चान्योन्यज्ञानं सामीप्येन विना भवतीति ।

ननु वेदनमेव पुमानिति सौगता मन्यन्ते, तत्कथं पुंसो वेदनमिति । उच्यते । ज्ञानं हि द्विविधं भवति, प्रवृत्तिज्ञानमालयज्ञानं चेति । तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते । प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः ।

एतदुक्तं भवति । अनेके परमाणव एव समुदायः । तदनेकत्वं च समुदायत्वम् । तत् मिलितेष्विव विरलेष्वपि विद्यते । किन्तु न सदा समुदायत्ववेदनं भवति, इतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति, अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । न चेतरेतरप्रत्ययो विरलेषु परमाणुषु सम्भवति । न हि म(थु)धुरापाटलिपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः ।

१०असु०- किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः । अधिपतिः इन्द्रियम् । न च विरलानां परमाणाूनामिन्द्रियालम्बनताऽस्ति । नापि तेष्विन्द्रियाणामाधिपत्यम् ॥ अतोऽदृष्टादिसहकारिवशादिन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते । अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि । अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते । तेन नान्योन्याश्रयत्वम्, नापि सृष्ट्याद्यनुपपत्तिरिति ।

१०आसु०- एतेन पक्षान्तरमपि सूचितम् । विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते, तदेव तेषां समुदायत्वम्, अतो न कश्चिद्दोष इति ।

११सु०- समाधानांशं व्याचष्टे कार्येति ।

अनु०- कार्यसम्भूतिमात्रव्यापृति कारणम् । न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ॥

कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तम् । कारणं कार्यसम्भूतिमात्रव्यापृति यतः, ततो नेति शेषः ।

यथाश्रुतमेतन्न परिहारक्षममतोऽभिप्रायमाह न त्विति ।

विशिष्यन्त इति विशेषाः । कार्याण्येव विशेषाः कार्यविशेषाः । कारण मिति जातावेकवचनम् ॥ कारणानि खलु स्वसदृशकार्यजननव्यापाराणि, न तु विसदृशकार्यजनने व्यापृतानीत्यर्थः ।

१२सु०- किमतो यद्येवमित्यत आह अत इति ।

अनु०- अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः । संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ॥

सदृशकार्यजनकत्वनियमादित्यर्थः । संयोगिरूपे = ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता । अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता ।) सा नैवोपपद्यते । कुतः । संयोगिरूपराहित्यात् । कारणयोरर्थेन्द्रिययोर्ग्राह्यग्राहकरूपराहित्यात् । आत्मनोऽपि, कार्यस्य तत्समुदायविषयं ज्ञानं यस्यासौ तज्ज्ञानः, त(द्भा)स्य भावस्तज्ज्ञानता, नैवोपपद्यते । कुतः । हि यस्मात्, कारणस्यात्मनो नैव तज्ज्ञानताऽस्तीति योजना ।

१३सु०- इदमुक्तं भवति । कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा ।

तत्र यद्याद्यः कल्पोऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन्, न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः । इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन्, न जात्वर्थाधिपतीन्द्रियाणि । आत्मनश्चासमुदायज्ञानात् तादृश एवात्मा जायेत, न कदाचित् तज्ज्ञानवान् । अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात्, इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः । उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति ।

१४सु०- द्वितीयमाशङ्कते विशेषेति ।

अनु०- विशेषकार्यजनकं यदि कारणमिष्यते

तथा च इन्द्रियानालम्बनविरलपरमाण्वादिभ्यः तदालम्बनमिलितपरमाण्वादिजनिः उपपद्यत इति भावः ।

निराकरोति कुत इति ।

कुतः समानरूपत्वं कार्याणामपि सर्वशः

तर्हीति शेषः । सर्वशोऽपि कार्याणामिति सम्बन्धः । अत्र कार्यग्रहणं परमतानुसारेण । कारणस्य विसदृशकार्यजननस्वभावतायामाकपालभावात् सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात्, किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्येत । तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत । नीलानुवृत्तिस्तु न स्यादिति ।

१५सु०- अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न, विरोधेनैकस्याप्यजननप्रसङ्गात् । अविरोधे त्वाह अत इति ।

अनु०- अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम्

प्रकृतपक्षद्वयं समाहृत्य अत इति परामृशति । अनियत्या घटो घटस्यैव , नीलो नीलस्यैवे ति नियतिं विना । यत्किञ्चित् घटादिकं नीलादिकं वा । यस्य कस्यापि घटादेरघटादेः, नीलादेरनीलादेश्च । कारणं स्यात् ॥ घटक्षणस्योभयविधकार्यजननस्वभावत्वेऽसौ तदुभयं जनयेत्, तथा चोपलभ्येतेति यावत् ।

केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते । सर्वशोऽपि कार्याणां समानरूपत्वं न स्यात् । किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति ।

१५असु०- न चतुर्थः । अर्थक्रियारहितस्यासत्त्वप्राप्तेः, अर्थक्रियाकारित्वं सत्त्वमिति (हि) सौगताः ।

१५आसु०- ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आह अत इति । बुद्धिस्थमिमं कल्पमत इति परामृशति । अतिप्रसङ्गस्तु न तिरोहितः ।

१६सु०- स्यादेतत् । यथा भवन्मते प्रमाजननस्वभावत्वेऽपीन्द्रियादेर्दोषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वेऽप्यदृष्टादिसहकारिसामर्थ्यात् कदाचिद्विसदृशकार्यजननं भविष्यति । यद्वा यथा साङ्ख्यानामिन्द्रियादीनि प्रमाऽप्रमाजननस्वभावानि । तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वेेऽप्यदृष्टादिवशात् तदन्यतरजन्मोपपत्स्यते ।

अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि, गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः; तथा कारणं कार्यजननस्वभावमेव, अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यती त्यत आह अदृष्टमपीति ।

अनु०- अदृष्टमपि तस्यैव विशेषापादकं कुतः

अत्रादृष्टग्रहणमुपलक्षणं (सहकारिमात्रस्य) ।

१७सु०- अदृष्टमपि विशेषस्य; आद्ये विसदृशकार्यजनकत्वस्य, द्वितीयेऽन्यतरप्रतिबन्धस्य, तृतीये तूभयजनकत्वस्य, आपादकं कुतः इत्येकं वाक्यम् । तथा हि । पूर्वपूर्वतराद्यदृष्टक्षणा विशेषानापादकास्तदापादका वा । आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्ध्यति, कारणाभावात् । विशेषानापादकादृष्टक्षणजन्योऽप्य(यम)दृष्टक्षणः सहकारिवशात् विशेषमापादयिष्यतीति चेन्न, तत्सहकारिण्यप्यस्य साम्यात् । (अ)तत्रापि सहकार्यन्तरानुसरणे गौरवमिति ।

तस्यैव कारणस्य, विशेषापादकं कुतः इत्यपरं वाक्यम् । तथा हि । विशेषापादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा । नाद्यः नियामकयोः कारणाज्ञापकयोरभावादिति । येभ्य इन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते, यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य, यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः, तदिदं तस्यैवेत्युच्यते ।

१८सु०- उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयति यस्येति ।

अनु०- यस्यकस्यापि यत्किञ्चिद्विशेषमुपपादयेत्

अत्रापि यत्किञ्चिद् अदृष्टं विशेषमुपपादयेदि त्येकं वाक्यम् । यदि पूर्वपूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वं तर्हि तदपि पूर्वपूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव, समर्थस्य क्षेपानभ्युपगमात् । तथा च समुदायप्रतीतेः समयनियमो न स्यादिति ।

यस्य कस्यापि विशेषमुपपादयेदि ति द्वितीयम् । यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते तदा सर्वेषामपि कारणानां विशेषमुपपादयेत् । तथा च घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात्, न तु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत्, न च युगपत्सर्वसमुदायो दृश्यत इति ।

१९सु०- अथ मतम् सर्वमिदं स्वव्याहतम् । तथा हि । तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् । यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् किन्तु पाथसीयं किमपि जायेत । उभयस्वभावत्वं तु विरुद्धम् । अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः । सहकारिवशाद्व्यवस्थाङ्गीकारे सहकारिष्वपीदं समानम् । अथोच्येत । अस्ति(स्तु) तावत्तन्तुपटयोः कार्यकारणभावः, प्रमितस्यापह्नवानर्हत्वात्; स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति । सममेतन्ममापीत्यत आह कार्यं चेति ।

अनु०- कार्यं च कारणं चैवं यत्किञ्चिद्यस्य कस्यचित् । भवेन्नियामकाभावात्

नित्यविनाशित्वे इत्येतद्वक्ष्यमाणमत्रापि सम्बध्यते । यत्किञ्चिन्नीलादिकं यस्य कस्य चिदेव पीतादेः कार्यं स्यात्, यत्किञ्चित्पीतादिकं यस्य कस्यचिदेव नीलादेः कारणं स्यात् । कुतः । नीलं नीलस्यैव कार्यं स्यात् न पीतस्य, नीलमेव नीलस्य कारणं न पीतमि(त्यत्र)ति नियामकाभावात् इति योजना । च शब्दौ मिथः समुच्चये ।

२०सु०- एतदुक्तं भवति । सम्भवति स्थिरवादे परिहारोऽयम्, यद्यत्र समवेतं यद्येनाकारेण परिणतं वा, तत्तस्य कारणं कार्यं चे ति नियामकसद्भावेन कार्यकारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः । क्षणभङ्गनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कार्यकारणभावावधारणोपाय एव नास्ति, समवायपरिणामयोरभावात् । तथा च कस्य बलादुपपादकं कल्पयिष्यत इति ।

२१सु०- समवायपरिणामयोरभावेऽपि यत् यदपेक्षया पूर्वभावि तदेव तस्य कारणम्, यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावोऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोति इदमस्यैवेति ।

अनु०-इदमस्यैव कारणम् । इति नित्यविनाशित्वे केन मानेन गम्यते ॥

इदं नीलम् अ(स्य नील)स्यैव कारणम्, न तु पीतस्य; इत्येवं नीलस्य नीलकार्यत्वं, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन गम्यते न केनापि । पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयाऽपि सत्त्वादिति भावः ।

सादेश्यं सारूप्यं वा नियामकमिति चेन्न; विरलपरमाणुभ्यो मिलितानाम्, मिलितेभ्यश्च विरलानाम्, उत्पत्त्यङ्गीकारात् ।

२१असु०- कारणनियममप्यपाकरोति इदं नेति ।

अनु०-इदं न जायतेऽमुष्मादित्यत्रापि न कारणम्

इदं नीलम् उष्मात् पीतात् न जायते, किन्तु नीलादेव इत्यत्र नीलस्य कारणत्वावधारणे अपि, कारणं प्रमाणं, न अस्ति । नीलस्येव पीतस्यापि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः ।

२२सु०- ननु यथा भवतां समवायपरिणामयोरभावेऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आह इदमस्येति । नित्यविनाशित्वे आत्मन इति शेषः ।

युज्यतेऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणम् अन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम्, न तु परस्य; अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात्, परेण(च) क्षणिकतास्वीकारात् । न हि तथाविधः अन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्ट इति भावः । योजना तु पूर्ववदेव ॥

२३सु०- एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः ।

तथा हि । न केवलं समुदायो नोपपद्यते किन्नाम सर्वस्य क्षणिकता च; तत्र प्रमाणाभावात् ।

ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति; तद्धि वर्तमानमात्रगोचरमर्थस्य वर्तमानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते, न पूर्वोत्तरक्षणसम्बन्धिनीमपि; तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति ।

उच्यते । किमिदं क्षणिकत्वं नाम । किं क्षणसम्बन्धिसत्त्वम्, किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम्, यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् । आद्यस्त्विष्ट एव, स्थायिनोऽप्यर्थस्यैकक्षणसत्तास्वीकारात् । द्वितीयतृतीयौ दूषयति विनाशेति ।

अनु०- विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः

अनेकपदार्थसम्बन्धित्वेन बहुवचनम् । च शब्दस्तृतीयपक्षसमुच्चयार्थः । एव शब्दस्य नैवेति सम्बन्धः । सदातनाः प्रतिक्षणभाविन्यः ।

प्रत्यक्षं खल्वर्थानां वर्तमानकालसत्तामवगाहते; न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि, नापि क्षणान्तरासम्बन्धित्वम्; तथा च कथं तेन क्षणिकता सिद्ध्येदिति ।

२४सु०- ननु च प्रत्यक्षं पूर्वोत्तरक्षणवर्तित्वमप्यर्थस्य गृह्णाति न वा । नाद्यः, वर्तमानमात्रग्राहित्वात् । द्वितीये तु प्रत्यक्षानुपलम्भेन पूर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(द्ध्येदिति)द्धे ति चेत् ।

द्वितीयं तावदुररीकुर्मः; न चैवं क्षणिकतासिद्धिः, योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् । न च पूर्वोत्तरकालवर्तिता प्रत्यक्षयोग्या, वर्तमानमात्रग्राहितायाः परेणैवोक्तत्वात् ।

अस्तु वाऽऽद्यः पक्षः । कस्यचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादि त्याशायेनाह दृश्यत इति ।

अनु०- दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु

विषयीक्रियत इत्यर्थः । तृतीयार्थे तसिः । एकस्यैवानेकक्षणसम्बन्धित्वं स्थिरत्वम् ।

२४असु०- एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति । किन्तु स्थायि(तां)त्वमपि गोचरयती त्यपीति वदता, परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्चोदितो भवति ।

२५सु०- अनेन अनुस्मृतेश्चे ति सूत्रं कृतव्याख्यानं वेदितव्यम् ।

२५असु०- सर्ववस्तुषु इत्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति न त्वस्मन्मतमिति सूचयति ।

तथा हि । किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते किंवा घटादिषु । नाद्यः, तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् । न द्वितीयः, घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् । यदा हि घटादौ सूच्यग्रादिनैकोऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्व्यणुकेन, विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् । द्व्यणुकनाशे समवायिकारणनाशात् त्र्यणुकनाशः, इत्यनेन क्रमेण घटनाशोऽप्यवश्यम्भावी ।

न च परमाणुः प्रत्यक्षः, येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ । न च वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति, तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् । निबिडावयवत्वं च न विभागायोग्यावयवत्वम्, विभागस्य प्रत्यक्षसिद्धत्वात्; किन्तु घटादितोऽप्युत्कृष्टकारणापेक्षत्वम् । न च तद्विशेषाभावः शक्योऽस्माभिरवगन्तुम् । दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः । न चावयवानपगमे स सम्भवतीति ।

नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्ध्यति, तस्यापि कस्यचिदतीन्द्रियत्वात् । कस्यचिद्घटादितुल्यत्वात् । सामान्यादिकं तु स्वरूपतो नास्त्येव, सत्त्वेऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति ।

२६सु०- अत्रोच्यते । स्यादयं दोषः परमाण्वारम्भवादिनाम् । न परिणामवादिनामस्माकम् । तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते, न पुनरन्यदेव भवती ति हि परिणामवादिनो मन्यन्ते । अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति ।

ननु भवन्मतेऽपि प्रत्यभिज्ञा भ्रान्तिरेव (भ्रम एव), परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात्, तदेवेदमिति च प्रत्यभिज्ञयाऽत्यन्ताभेदस्यावगाहनात् । उच्यते । यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयोऽङ्गीक्रियते तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वेऽपि तदिदमि ति तु न भ्रमः, तेनैव च स्थायित्वसिद्धे(द्धि)ः । यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति ।

२६असु०- नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलकलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न), बाधकाभावात् । एवमेव भ्रान्ति(न्त)त्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)ः । न च प्रत्यक्षं बाधकमित्युक्तम् ।

२७सु०- प्रत्यक्षस्याबाधकत्वेऽप्यनुमानं बाधकं भविष्यतीति शङ्कते फलादीनामिति ।

अनु०- फलादीनां विशेषेण सर्वत्राप्यनुमीयते । सत्त्वेन क्षणिकत्वं चेत्

आदि पदेन देहदीपादिग्रहणम् । विशेषेण परिमाणभेदेन । क्षणिकत्वं (तावत्) अनुमीयत इति सम्बन्धः । ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्तेऽपि वस्तुनि, सत्त्वेन हेतुना, क्षणिकत्वमनुमीयते ॥ एतदुक्तं भवति । यत् सत् तत् क्षणिकम् यथा फलादि, सन्तश्च पञ्चस्कन्धाः इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति । न च फलादिदृष्टान्तः साध्यविकलः, यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति ॥

२७असु०- परिहरति आकाशस्येति ।

अनु०- आकाशस्याविशेषतः । अविशेषोऽखिलस्यापि सत्त्वात्किन्नानुमीयते

अविशेषतः पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः । अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम् । अखिलस्यापि विप्रतिपन्नस्य ।

इदमुक्तं भवति । यत् सत् तत् क्षणिकम् यथाऽऽकाशम्, सच्च नीलादी ति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति । न चाकाशदृष्टान्तः साध्यविकलः, आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतमि ति परेणैवाङ्गीकृतत्वात्, क्षणिकतासाधकस्य परिमाणभेदादेराकाशेऽभावाच्च ॥ तदिदमु(मप्यु)क्तम् अविशेषतः परिमाणभेदादिरहितत्वत इति ।

२८सु०- यद्वा आकाशस्याविशेषतः परिमाणभेदरहितत्वतः । तद्दृष्टान्तेन अखिलस्यापि फलादेः अविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः, सत्त्वात् किं नानुमीयत इति योजना ॥

एतदुक्तं भवति । नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति, अनुमानस्य प्रत्यक्षतो दुर्बलत्वेन तद्बाध्यत्वात् । अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् । न ह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषोऽस्ति । तथा च तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात् साध्यविकलता स्यात् । ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् । अन्यथाऽन्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् । तच्च समं प्रकृतेऽपीति ।

२८असु०- एतेन आकाशे चाविशेषादि ति सूत्रं व्याख्यातं भवति ।

२८आसु०- तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽऽकाशेऽ(ना)नैकान्त्यमपि सूचितम् ।

२८इसु०- भवदनुमानस्यापि फलादिनाऽनैकान्त्यमिति चेन्न । तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) ।

२९सु०- भवेदिदं यद्याकाशस्य सत्त्वं स्यात्, न चैतदस्ति, मूर्ताभावत्वादाकाशस्य । भावत्वं हि सत्त्वमत्र विवक्षितम् । सस्वरूपत्वेऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमि त्याशङ्क्याह यदीति ।

अनु०-यद्याकाशस्य सत्त्वं न कुत एव नरादिषु

यद्याकाशस्य सत्त्वं न अस्तीत्यङ्गीकृत्य प्रत्यनुमानेऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं, स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते; तदा देहादिषु सत्त्व• कुत एव सिद्धमिति ब्रूमः । तथा च परकयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् ।

यदि च विधिमुखप्रत्ययवेद्यत्वात् देहादीनां भावत्वं, प्रमाविषयत्वात् सत्त्वं चोच्यते; तदा आकाशेऽपि समानमिति ।

३०सु०- प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाह सधर्मीति ।

अनु०- सधर्मिप्रतियोगित्वमभावस्य नियामकम्

यत्राभावः स धर्मी, यस्याभावः स प्रतियोगी, तदुभयवत्त्वम् अभावस्य नियामकं व्यापकम् । योऽभावः स सर्वोऽपि धर्मिप्रतियोगिसहित एव; यथा घटाद्यभावः, स हि भूतलादिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति ।

३१सु०- नन्विदमनुपपन्नम् । अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः । आद्ये धर्मिणा सादेश्यं तावन्नास्ति; भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः । प्रतियोगिना तु विरुद्धमेव । द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित्स्यात्, तथाऽपि प्रतियोगिना नास्त्येव; प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादि त्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयति तौ विनेति ।

अनु०- तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन

अत्र दृष्ट इति प्रकरणात्, तौ विनेति तज्ज्ञानं विनेत्यर्थः । चशब्दोऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः । हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति । तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेः धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति ।

यद्वा तौ इत्यनेन न ज्ञानमुपलक्षणीयम् । अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एव अत्रेदं नास्ती त्यादिरूपेण प्रतीयते, न तु तौ विना केवलः इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम् ॥ प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः ।

३२सु०- किमतो यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह अधर्मीति ।

अनु०- अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते

प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्व्यावर्त(र्त्य)ते । यस्मात् आकाशः इत्येवावगम्यते न तु अत्रेदं नास्ती ति ।

इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः, प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धात् अतादृशी व प्रकाशत इति चेन्न; नीलादिप्रतीतेरपि तथात्वप्रसङ्गात्, अनानुभाविकत्वस्योभयत्रापि साम्यात्; तथा च परस्याप्यसिद्ध्याद्यापातः, व्यापकनिवृत्त्या (च) व्याप्यनिवृत्तिरवश्यम्भाविनीत्याकाशस्य नाभावत्वमिति ।

तदयं प्रयोगः । आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति ।

किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादोऽवशिष्यते ।

वक्ष्यते चैतद्वियदधिकरण इति ।

३३सु०- सूत्रद्वयार्थमुपसंहरति स्वीकारेति ।

अनु०- स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु । गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥

अदृष्टस्य क्षणिकत्वादेः स्वीकृति(कार)तः । दृष्टस्य स्थिरत्वादेः त्यागतः । असौ सौगतः । अधिकं स्वत इति शेषः । उन्मत्तमपि स्वस्मादधिकविवेकवन्तं ख्या(स्था)पयतीत्यर्थः । न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति ।

३३असु०- ननु (च) यदि नीलादिकं क्षणिकं न स्यात् तदा सन्न स्यात् । अर्थक्रियाकारित्वं हि सत्त्वम् । व्याप्तं च क्रमयौगपद्याभ्याम्, तृतीयप्रकाराभावात् । न च स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् ॥ तथा हि । स्थायीभावः किं स्वक(स्वी)यामर्थक्रियां क्रमेण कुर्याद्युगपद्वा । आद्ये कालान्तरभाविनीमर्थक्रियां प्रति इदानीं समर्थो न वा । प्रथमे तामपीदानीं(नीमेव) कुर्यात् । समर्थस्य क्षेपायोगात् । द्वितीये तदाऽपि न कुर्यात्, इदानीमसमर्थोऽपि तदानीं समर्थत्वात्करिष्यतीति चेत्, तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् । द्वितीये तु आद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणेऽसत्त्वमवर्जनीयमेव ॥

तदेवमनुकूलतर्कबल्लब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात् प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति ।

३३आसु०- मैवम् । एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽऽभासत्वात् ।

तथा हि । यद्यात्मानात्मप्रपञ्चः सर्वोऽपि क्षणिकः स्यात् तदा प्रमाऽप्रमारूपः सर्वो(कलो)ऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत । तर्कस्याप्यस्य नोत्थानं स्यात् ।

३४सु०- तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयःसम्बन्धावगमे (न) तादात्म्यतदुत्पत्त्यवधारणेन (वा) चोपाध्यभावा(द्य)वधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम्, अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च, ततोऽनुभूतव्याप्तिस्मरणम्, अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षेऽस्तीत्यनुसन्धानम्, अथेदानीमनुमितिरित्यनुमानप्रक्रिया । न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति; येन हि सकृत् धूमो दृष्टः, नष्ट एवासौ; कस्य भूयोदर्शनं, कस्य च व्याप्त्यवधारणादि; यस्मिंश्च पर्वते धूमो दृष्टः, नष्ट एवासौ; कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम्, कुत्र च साध्याध्यवसायः ।

३५सु०- एवमागमेऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, समयग्रहः, वाक्यार्थज्ञानमित्यनेकसंवि(कानुसन्)धानम्, नात्मनः क्षणिकतायामुपपद्यते ।

३५असु०- प्रत्यभिज्ञानमपि येन पूर्वावस्थोऽर्थो ज्ञातस्तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति, तत्कथं क्षणिकस्यात्मनः स्यात् ।

३५आसु०- अनुमानेन तर्कोऽपि व्याख्यातः ।

३५इसु०- प्रतिक्षणमात्मनोऽनात्मनश्च भेदेऽप्यनुमा(ना)द्यङ्गीकारेऽतिप्रसङ्गः स्यात्; यस्य कस्यचिद्व्याप्तिज्ञाने नारिकेलद्वीपवासिनोऽप्यग्निप्रमा स्यात् (भवेत्), पर्वते लिङ्गदर्शनेन ह्रदेऽप्यग्निरनुमीयेतेत्यादि ।

३५ईसु०- पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नोऽनुमानादिव्यवहार इति चेत् (न), अन्यत्वस्यानपायात् । अन्यथोपाध्यायशिष्यबुद्ध्यादावपि प्रसङ्गात् ।

३६सु०- अथ मतम्, कारणक्षणाः कार्यक्षणेषु संस्कारानर्पयन्ति, अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहारो युज्यते, पर्वतादयोऽपि (पूर्व)पूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति । एतन्निराकरणाय सूत्रम् ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ इति । तद्व्याचष्टे उत्तरेति ।

अनु०- उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुनः । न संस्कारार्पकत्वं च युज्यते कस्य चित्क्वचित् ॥

कस्य चित् कारणस्य, क्वचित् कार्ये ।

ततः किमित्यत आह अत इति ।

अनु०- अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः

आत्मनः क्षणिकत्वात्, संस्कारार्पणस्य च(व•सम्भवादित्यर्थः । यत् मया व्याप्तत्वेन ज्ञातं, तदत्र विद्यत, इत्यादि यथा भवति तथा, न ज्ञेयं ज्ञातुमशक्यम् । ततश्च अनुमा कुतः । आगमादेरप्युपलक्षणमेतत् ।

३७सु०- नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात् । तद्बलेनालौकिकमपि असहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आह एकत्वमिति ।

अनु०- एकत्वमनुभूतिस्थं त्यक्तवा निर्मानिका भिदा । कुत आत्मादिकेषु स्यात्

किमनुमानादिव्यवहारान्यथाऽनुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽऽत्मादेः क्षणिकत्वेऽपि सति । नाद्यः, आत्मादेः स्थायित्वेनैव तदुपपत्तेः । द्वितीयस्तु स्यात् । यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात्; न च तदस्ति, प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः ।

एकत्वं, भिदे त्यत्र पूर्वोत्तरकालयोरिति शेषः । अनुभाूतिस्थं प्रत्यभिज्ञासिद्धम् । कुतः अङ्गीकार्ये त्यध्याहारात् समानकर्तृतासिद्धिः ।

३८सु०- ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम्, तत्कथमात्मादेरैक्यं ततः सिद्ध्येदित्यत आह बल्येवेति ।

अनु०- बल्येवानुभवो यतः

तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात् प्रत्यभिज्ञानं भ्रान्तं स्यात् । यदा तु तर्कस्योक्तविधायाऽऽभासत्वं; तदा कुतः क्षणिकत्वानुमानप्राबल्यम्, कुतश्च प्रत्यभिज्ञायास्तद्बाधः । अबाधितश्च प्रत्यभिज्ञा नुभवः, यतः बल्येव; अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः ।

एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम्, तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् ।

३९सु०- नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथाऽपि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आह कार्यकारणयोश्चेति ।

अनु०- कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगि स्यादुत्तरो नियमेन च ॥

उत्तरोत्पाद एव पूर्वस्य निरोधात् कार्यकारणयोः एककालीनत्वं तावन्नास्तीति लभ्यते । एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते । नियमेन च इत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रे ति सूचयति । यद्वा एककालीनत्व एव संस्कारार्पकत्वं दृष्टं, न भिन्नकालत्व इति व्याप्तेरित्यर्थः ।

४०सु०- नन्वेककालीनत्वाभावेऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह सम्बद्धा एवेति ।

अनु०- सम्बद्धा एव संस्कारमन्यत्रादधतेऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥

यस्मात् अखिलाः संस्काराधायकाश्चम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति नियमः । न च भिन्नकालीन(ल)योः सम्बन्धो युज्यते । तस्मादुत्तरेण असम्बद्धः पूर्वः तस्मिन् उत्तरे वासनां न कुर्यादिति ।

उक्तमर्थं बुद्ध्यारोहार्थं सङ्कलय्याह एककालतयेति ।

अनु०- एककालतया योगं विना संस्कारतः कथम्

अत्र एककालतया विना कार्यकारणयोर्योगो न युज्यते योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते , संस्कारतो विना कथमनुमानादिव्यवहारः इत्यध्याहारेण योजना । यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाध•यकत्वे हेतुत्वं ज्ञायेत ॥ सर्वत्र साध्यनिर्देशात् तत्र को दोषः । उक्ताकाङ्क्षाकुण्ठितत्वमेवेति ।

अत्रैते प्रयोगाः । पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात्; यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः ॥

यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः ॥ असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् । असम्बद्धश्च पूर्व उत्तरेण, ततो भिन्नकालीनत्वात्, सम्प्रतिपन्नवत् ॥

भिन्नकालीनयोरपि सम्बन्धेऽतिप्रसङ्गः । भिन्नकालीनश्च पूर्व उत्तरेण, तदुत्पाद एव विनष्टत्वात्, सम्मतवत् । प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति ।

ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत् किन्न स्यादिति चेत् (न) । तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् । अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्ध्यादि शङ्कनीयमिति ।

४१सु०- भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात्, स एव कुतः सिद्धः इत्यत आह क्षणमात्रमिति ।

अनु०-क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु

कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम्, यौगपद्ये कार्यकारणभावव्याघातात् । ततः पूर्वक्षणवर्ति कारणं यदि कार्यक्षणेऽपि स्यात् तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत । अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति ।

४२सु०- स्यादेतत्, कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न कोऽपि दोषः इत्यत आह पूर्वेति ।

अनु०-पूर्वमध्यापरकलाविकलः क्षण इष्यते

अत्र विभागमात्रं कलोच्यते । पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः । इष्यते सौगतैः ।

४३सु०- एवं तर्कस्य प्रतितर्कपराहतिमभिधाय इदानीं यथा स्थायिनः सत्त्वानुपपत्तिः एवं क्षणिकस्यापि तदनुपपत्तेरननुकूलता नाम तर्कदोषः इति प्रतिपादयितुं सूत्रम् ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ इति । तद्व्याचक्षाणस्तावद्विकल्पेन तत्पृच्छति पूर्वेति ।

अनु०- पूर्वभावभवं कार्यमुत तन्नाशसम्भवम्

अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम्, तच्च वक्ष्यमाण(वि)कल्पद्वय(येन )व्याप्तं तृतीयप्रकारानिरूपणात्; न च तत्क्षणिके सम्भवति । तथा हि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति, कारणसत्तासमानकालीनसत्तमिति यावत्; उत तस्य कारणस्य नाशे सति सम्भवतीति ।

आद्ये दोषमाह यौगपद्यमिति ।

यौगपद्यं सति भवेदुत्पाद्यानामशेषतः

सति कारणे । कार्यं भवति चेत्, तर्ही ति शेषः । क्षणिकं हि कारणम् । कार्यं च तत्सत्तासमानकालीनसत्तं चेत् कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् । क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य) मशेष कार्याणां यौगपद्यं स्यात्, तच्च प्रत्यक्षादिविरुद्धमिति ।

अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणं तथाऽपि तच्छिष्यैरेव ज्ञातुं शक्यत इति, उभयथा च दोषादि ति सूत्रे कथितमिति वा(चा)त्र नोक्तम् ।

द्वितीयं निराकरोति विनाशे चेदिति ।

अनु०-विनाशे चेन्न तत्कार्यम्

कारणस्य, कार्यं भवेत् तर्ही ति शेषः । तत् तस्य, कार्यं, न, भवतीत्यापन्नम् । अन्यथा सर्वस्य सर्वं कार्यं स्यात् । न ह्यानन्तर्यमात्रेण कार्यकारणभावः, तथात्वे विनाशकार्यत्वप्रसङ्गात्, आनन्तर्यस्यान्यापेक्षयाऽपि सत्त्वात्, सादेश्यादेरपाकृतत्वात् ।

एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा । उभयथाऽपि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति ।

४३असु०- सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम्, भाष्यकृता त्वभावस्य भावसापेक्षत्वात् तेन क्रमेण, अतोऽर्थविरोधाभावः ।

४४सु०- नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः । न च कार्यं कारणेन विनोत्पत्तुमलम्, तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः, अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति, पक्षान्तरं वा ग्राहयिष्यती त्यत आह कार्योत्पत्तौ चेति ।

अनु०-कार्योत्पत्तौ च का प्रमा

स्यादेतद्यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात्, न चैतदस्ति; न च स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यम् अतिप्रसङ्गादिति ।

४४असु०- नन्वस्ति, यत् सत् तत् क्षणिकं यथा देहादि, सच्च विवादपदमि ति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेन्न, अस्यैव निराक्रियमाणत्वात्, देहादीनाम(देर)पि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च ।

४४आसु०- ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिः इत्युक्तम्, इत्यत आह अभेदेऽपीति ।

अनु०- अभेदेऽपि विशेषेण देहदीपफलादिषु । विशेषदर्शनं युक्तमस्माकम्

पूर्वोत्तरक्षणयोरि ति शेषः । विशेषेण आरम्भवादाद्वैलक्षण्येन । आदि पदेनाङ्कुरादि । विशेषदर्शनं परिमाणभेददर्शनम् । अस्माकं परिणामवादिनां मते ।

अयमर्थः । आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति, अवयवसङ्ख्यातिशयानतिशयायत्तत्वात् परिमाणभेदस्य, अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात्; अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव । अस्माकं तु अवस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम्, तत्र परिमाणभेदो न भेदमाक्षिपतीति ।

४५सु०- किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः । आद्ये सिद्धसाधनम्, भेदस्यास्माभिरप्यङ्गीकृतत्वात्, तावता क्षणभङ्गासिद्धेः । द्वितीये दोषमाह अनुभूतित इति ।

अनु०- अनुभूतितः । विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ॥

तदिदं फलमि ति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमि ति शेषः । भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत्, तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः । परिमाणभेददर्शनं बाधकाभावात् प्रमाणमेवेति चेत् तत्राह विशेषेति ।

तर्हि स्थैर्यदृक्कुतो न मानम्, तस्या अपि बाधकरहितत्वात् । विशेषदर्शनं बाधकमिति चेत्, तर्हि स्थैर्यदर्शनं कुतो न बाधकम् । अतः अनुपलभ्यमानविशेषयो(रनयो)र्बाध्यबाधकभावायोगात्, अन्योन्यप्रतिपक्षताननुभवाच्च अन्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम्; अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्टं स्यादिति । एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् ।

४६सु०- नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो) व्याख्यातानि । उच्यते । उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्य अन्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता, भाष्यकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेण आदौ प्रत्यभिज्ञामभिधाय अनन्तरं तद्बाधकानि परिहृतानीति ।

४६असु०- प्रतिसङ्ख्येत्यादिसूत्रद्वयं भाष्य एव स्पष्टमिति नात्र व्याख्यातम् ।

४७सु०- दुःखाभावं सुखं चाहुरि ति यदनूदितं तन्निराकरोति दिगिति ।

अनु०- दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेत्

खदृष्टान्तादि त्याकाशस्य भावत्वे यो न्यायोऽभिहितस्तस्मादिति हेत्वतिदेशः । धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः । सत् भावः क्वचिद्भवेत् चेत् तद्दृष्टान्तेन इति शेषः ।

अनेन अन्यथा रूपादीनामपि भावत्वं न स्यादविशेषादि ति बाधकं सूचयति ।

यद्यपि दिशो नाकाशादि्भद्यन्ते, तथाऽप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् । एकवचनं तु जात्यभिप्रायम् ।

एतेन आकाशे चाविशेषादि ति सूत्रं प्रकारान्तरेण व्याख्यातं भवति ।

आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमि ति निरस्तम् ।

आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्टम् (विरुद्धम्), क्षणभङ्गिताया निरस्तत्वात् । ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् ।

मोक्षस्तु चतुर्थे परीक्षिष्यते ॥

४८सु०- स्यादेतत् । वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः, स एव सूत्रकृता निराकृतः । यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः, प्रमाणं तावद् द्विविधम्, प्रमेयद्वैविध्यात् । तत्र ज्ञानातिरिक्तः सर्वोऽपि रूपादिप्रपञ्चोऽनुमेय एव न तु प्रत्यक्षः । ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यमि ति, स कस्मान्न निराकृत इत्यत आह विश्वमिति ।

अनु०-विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥

तयोः वैभाषिकसौत्रान्तिकयोर्मध्ये यः सौत्रान्तिकः, विश्वं रूपादिकं, प्रत्यक्षगं त्यक्तवा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत्, अनुमितं वदेत् रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात्, मायावादिना तुल्यं वर्तत इति मायावादिवत् ।

एतदुक्तं भवति । यथा सर्वान् दुःसमयानपाकुर्वता(ऽपि) सूत्रकृता न मायावादोऽत्र पादे निराकृतः, तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या । न त्वीषत्सदलैः साङ्ख्यादिसमयैः सह निरास इति ज्ञापनार्थम्, तथा बाह्यानुमेयतावादोऽपीति ।

ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी, तस्य कथं निरासप्रसक्तिः । मैवम् । अनादिकालतो वृत्ता इत्युक्तत्वात्, अन्यथा साङ्ख्यादिनिरासस्याप्यप्रसक्तेरिति ।

४९सु०- ननु अप्रतिषिद्धमनुमतं भवती ति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवे ति कुतो न कल्प्यते । न चैवं (नैवं) शक्यम् । प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः, न चायमर्थस्तथा इत्याशयवानाह सर्वेति ।

अनु०- सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा । कथं नु तस्य बुद्धित्वं

अयमत्रोत्तरक्रमः । नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते, नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात्, इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च ।

अथ मतम् येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति, तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते, अतोऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोषः इति । अत्रेदमुपतिष्ठते । यदपरोक्षतयाऽवभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धं, तस्य कथं नु बुद्धित्वम् अङ्गीक्रियते ।

बहिर्मुखतयेदन्त्वेन ह्ययं नीलाद्याकारोऽपरोक्षमवभासते, न जात्वन्तर्मुखतयाऽहं नीलमिति; तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते; तेनानुमीयतेऽनेन बहिरर्थ एव साक्षात्कृत इति । न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते; अतिप्रसङ्गात् ॥

मध्येऽनुमानं तु निरसिष्यते ॥

एवमाप्तोऽपि किमपरोक्षतया पश्यसी ति पृष्टः अङ्गुलिं प्रसार्य इदमि ति बाह्यमेव ब्रवीति । अतस्त्रिभिरपि प्रमाणैरपरोक्षतयाऽवभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते । न चेदं सर्वं भ्रान्तम्, कदाऽप्यन्यथाप्रतीत्यभावात्, विनैव बाधकेन भ्रान्तित्वाभ्युपगमेऽतिप्रसङ्गात् ॥ अतोऽपरोक्षतयाऽवभासमानो नीलाद्याकारो बाह्य एव, न तु बुद्धिगत इति ।

५०सु०- किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात्, प्रमाणाभावात्; तथा च बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह विश्वमिति ।

अनु०- विश्वमन्यच्च किंप्रमम्

अन्यत् ज्ञानमिति शेषः । का प्रमा यस्य तत् किंप्रमम् ।

५०असु०- अनुमेयो बाह्याकार इति चेत् (न); सर्वथाऽसिद्धस्य पक्षीकरणायोगात्, लिङ्गाभावाद्व्याप्त्यसिद्धेश्च ।

स्यादेतत्, बुद्धिगतस्तावदाकारोऽपरोक्षमवभासते, स कादाचित्कत्वात्किमपि कारणमपेक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति । मैवम्, बाह्यतयैव नीलाद्याकारस्य स्फुरणात् ।

कुत्र चेदमुपलब्धम् यत्कादाचित्कं तत्कारणवदि ति । ज्ञान एवेति चेत् (न) बाह्याप्रत्यक्षत्ववादे तत्रापि कारणवत्त्वानवधारणात् । ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत्, तर्ह्याकारोऽपि पूर्वाकारजन्यः कल्प्यताम्, किं बाह्यार्थव्यसनेन । नीलज्ञाना(नोत्पादा)नन्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत् (न), सदृशजन्यत्वस्य परेण क्वाप्यनुपलब्ध(गन्तव्य)त्वात् ।

५१सु०- किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृशमपि(मेव) ज्ञानं जनयतीति कल्पनीयम्, न बाह्यम्; दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः; अतो बाह्योऽ(प्य)र्थः प्रत्यक्षसिद्धः, इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् ।

५१असु०- यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाह सर्वेति ।

अनु०- सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा । तस्यापलापिनः किन्न निष्प्रमाणकवादिनः ॥

माध्यमिकादयोऽपि बाह्यार्था(द्य)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृतसत्त्वाद्यभ्युपयन्ति, ततः सर्वैरनुसरणीय एवायमनुभवः । तमपि यः सौत्रान्तिकः; अपलपति = अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात्; तथा निष्प्रमाणकं वदति नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात्; तस्य•प्य) अनुभवस्य, अपलापिनः निष्प्रमाणकवादिनः, तस्य सौत्रान्तिकस्य; किं, दूषणं, न, भवेत्; सर्वमपि भवेदिति ।

५२सु०- एकत्वमनुभूतिस्थं खदृष्टान्तात् तस्यापलापिन इति परपक्षे तत्र तत्र अनुभवविरोधोऽभिहितः, स कथम् इत्यतः अभिनयेन तं दर्शयति सोऽहमिति ।

अनु०- सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥

अत्र स एवाहमि त्यात्मैकत्वग्राही प्रत्यभिज्ञाऽनुभवो दर्शितः । तदिदमि त्यनात्मनः । अहं सुखी ति सुखस्य विधित्वानुभवः । सत् भावरूपं, गगनं, दिशः, सत्याः भावरूपाः इति गगनस्य (च) दिशां च भावत्वानुभवः । आदि पदात् इदं नीलं , नाहं नीलमि त्यादेः (परिग्रहः) ग्रहणम् । तत्प्रतिपक्षगाः तदभ्युपगतार्थविरुद्धविषयाः ।

५३सु०- वैभाषिकसौत्रान्तिकसमय(मत)निराकरणमुपसंहरति अत इति ।

अनु०- अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।

दुर्मतं को नु गृह्णीयाद्विनाऽसुरततिं क्वचित् ॥

अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम्, अत एव दुर्मतम् । दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात् कथं को नु गृह्णीयादि त्याक्षेप इत्यत उक्त• विनेति । सत्पुरुषविषय एवायमाक्षेप इति भावः । न चैवं निराकरणवैयर्थ्यम्; उक्तार्थानुसन्धाने को नु गृह्णीयादि ति व्याख्यानादिति ॥

॥ इति समुदायाधिकरणम् ॥

न्यायसुधा

॥ अथ असदधिकरणम् ॥

ब्र०सू०-ॐ नासतोऽदृष्टत्वात् ॐ ॥

५४सु०- माध्यमिकमतमत्रापाक्रियते ।

तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति अपर इति ।

अनु०- अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च

अपरो माध्यमिक, इति ब्रूत इति वक्ष्यमाणेन सम्बन्धः । शून्यम् एव तत्त्वं न ततोऽन्यदस्ती ति शेषः ।

ननु पञ्चस्कन्धास्ततोऽतिरिक्ताः सन्तीत्यत उक्तम् अखिलमिति । पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततोऽन्यदित्यर्थः । तच्छून्यं कुतः सिद्धमित्यत उक्तं स्वयम्भातमिति । स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम् । किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तं मन इति । प्रमाणमात्रोपलक्षणमेतत् । कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात्, सधर्मक एव प्रमाणप्रवृत्तिः इत्युक्तं निर्विशेषमिति । निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह निर्लेपमिति । लेपो धर्माधर्मसम्बन्धः । दोषा दुःखादयः । वस्तुतश्चानन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् ।

यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते, तत्कथं निर्विशेषमित्यु(मु)च्यत इत्यत एतदुक्तम्; लेपादिदोषाभावमात्रेण शुद्धमुच्यते, देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, न तु कमपि धर्ममाश्रित्येति ।

५५सु०- उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः । अतस्तत्त्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति तदस्मीति ।

अनु०-तदस्मीति नित्योपासाऽपरोक्षितम् । रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥

तत् शून्यम् अहम् अस्मीति नित्योपासयाऽपरोक्षीकृतम् । तत् शून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेत् इति सम्बन्धः । यथोक्तम् । प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः (तापिनः) (भाविनः) इति ।

५६सु०- यदि शून्यमुक्तरूपं कथं तर्ह्यखिलं शून्य(मित्युक्त)मित्यत आह तस्यैवेति ।

अनु०- तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् । सदिवाभाति

शून्यस्य एव । संव्रियतेऽनयेति संवृतिः अविद्या । संवृतेः सत्यत्वेऽद्वैतहानिः आरोपितत्वे तु संवृत्यन्तरापेक्षेत्यतः अनादि इत्युक्तम् । नानाभेदात्मकं पञ्चस्कन्धात्मकम् ।

शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते, न पुनस्तदेव तदिति; तत्किमसदेवेदम्; तथात्वे वा कथं सदिति प्रतिभासः । सत्त्वारोपात् ।

५७ सु०- पक्षान्तरमाह सत्यत्वमिति ।

अनु०- सत्यत्वं सांवृतं तस्य चेष्यते

तस्य आरोपितस्य अपि जगतः, सांवृतं सत्यत्वमिष्यते, अतो न सत्प्रत्ययविरोधः ।

अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत्, येन सदिवाभाती त्युक्तमित्यत आह पारमार्थिकेति ।

अनु०- पारमार्थिकसत्यत्वं शून्यादन्यस्य न क्वचित्

सर्वथाऽबाध्यत्वं पारमार्थिक(स)त्त्वं तदभावादसदिदं जगदुद्गीयत इति ।

पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह सांवृतेनैवेति ।

अनु०- सांवृतेनैव सत्त्वेन व्यवहारोऽखिलो भवेत् ॥

अखिलः हानोपादानोपेक्षाऽभिज्ञाऽभिवदनार्थक्रियालक्षणः । व्यवहारस्याप्यसत्त्वात् । स्वप्न इवे ति शेषः । पारमार्थिकसत्त्वमेव व्यवहारविरोधि, तस्य सर्वक्रियारहितत्वात्, न तु तदभावः, इति भावेनोक्तं सांवृतेनैव सत्त्वेनेति ।

५८ सु०- सृष्टिप्रलयविष(यं)ये विगानं दर्शयति ८ शून्यादिति ।

अनु०-शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते

सृष्टिकाले प्रवर्तते जायते । शून्यस्य निाष्क्रियत्वात् कथं विश्वकर्तृत्वमित्यत उक्तं संवृतियोगेनेति । अन्ते प्रलयकाले । स्तिमितं निष्क्रियम् । अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते । स्वाप्नगजादिरिवे ति शेषः ।

५९सु०- एवमुपन्यस्तमतनिरासार्थत्वेनाधिकरणमवतारयति तमुद्दिश्येति ।

अनु०- तमुद्दिश्य जगाद जगतां गुरुः

जगाद इदमधिकरणमिति शेषः ।

५९असु०- यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ॐ नासतोऽदृष्टत्वात् ॐ इति । तद्व्याचष्टे नासत इति ।

अनु०- नासतो जगतो भावो

असतः सर्वविशेषविनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्यात् जगतो भावो जन्म नोपपद्यते ।

कुत इत्यत आह न हीति ।

अनु०- न हि दृष्टाऽसतो जनिः ।४४४सतः क्वचित्

सतो भवतः कार्यस्येति यावत् । क्वचित् असतो जनिर्न दृष्टा यतः ।

अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम् ।

६०सु०- स्यादेतत् । प्रमाणाभावः प्रमेयाभावं साधयति । न पुनः प्रमाणविशेषाभावः । मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः, तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः, अदृष्टत्वादिति प्रत्यक्षाभावकथनं तु कथम्, अनैकान्तिकत्वादि त्यत आह प्रमाणं चेति ।

अनु०- प्रमाणं च दृष्टिरेवाखिलाद्वरम्

दृष्टिः प्रत्यक्षम् एव अखिलात् अनुमानादागमात् ८च वरं प्रमाणम् ।

अयमभिसन्धिः । नासतो जगतो भाव इति प्रतिज्ञाय, कुतः इत्याकाङ्क्षायां, तत्र प्रमाणाभावादि ति हेतुं मनसि निधाय, कथं तत्र प्रमाणाभावः इति जिज्ञासायाम्; अनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणामिति आदौ अदृष्टत्वादि ति तदभावोऽयं दर्शितः, न तु प्रधानप्रतिज्ञायां हेतुत्वेन, येनोक्तदोषः स्यादिति ।

तर्ह्यनुमानाद्यभावो(ऽपि) वक्तव्य इत्यत आह प्रमाणं चेति । अयमाशयः । वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते, तदीयागमस्य त्वस्माभिः; इत्यतो नास्त्यत्रागमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम् । प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव, प्रत्यक्षस्यानुमानोपजीव्यत्वात्, प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन (क्वचित्) साधनीयम्; अतोऽनुमाना(द्य)भावस्यानुक्तावपि लाभात् अदृष्टत्वादि त्येवोक्तं सूत्रकृतेति । अत एव प्रागुक्तं क्वचिदिति ।

६१सु०- मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम्, मा च भूदागमः, तथाऽप्यनुमानं भविष्यति; असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः । कारणस्य हि सत्त्वे निषिद्धेऽसत एव जन्म सेत्स्यती त्याशङ्क्यानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम् ॐ उदासीनानामपि चैवं सिद्धिः ॐ इति । तद्व्याचष्टे यद्येवमिति ।

अनु०- यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥

यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव सप्तमरसाज्जनस्य पीनता स्यात् , गोः ृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादि त्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्ध्यविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति ।

६२सु०- प्रकारान्तरेण व्याख्याति कार्यार्थीति ।

अनु०-कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन

यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत । असत एव पटाद्युत्पत्तेः ।

अतिप्रसङ्गान्तरमाह नेति ।

न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात्

न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः, किन्त्विष्टाय पटाद्युत्पादाय न प्रवर्तेत, न प्रयतेत च । कुतः । शून्यादेवेष्टसम्भवात् ।

एतेन तन्त्वाद्युपादाना दु(द्यु)दासीनानां चिकर्षादिरहितानां च पुंसां पटादि सिद्धिः स्यादिति सूत्रं व्याख्यातं भवति ।

६३सु०- प्रकारान्तरेण व्याख्याति देशेति ।

अनु०-देशकालादिनियमो न हि शून्यात्सतो भवेत्

शून्यात्सतः शून्यादेव भवतः कार्यस्य, देशकालवयोवस्थानियमो न भवेत् । तथा हि । यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते, न पाण्डुभूमौ , वसन्ते किंशुकाः पुष्पिता भवन्ति, न वर्षासु , त्रिहायिण्येव गौर्गर्भं धत्ते, नान्यथा , सतुषा एव व्रीहयोऽङ्कुरानुत्पादयन्ति, नेतरथे त्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात्, शून्यस्य सर्वत्राविशिष्टत्वात् ।

अनेन उदासीनानां देशकालादिनियमानपेक्षाणाम् अपि कार्याणां सिद्धिः उत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति । शून्यादेव कार्योत्पत्तौ कर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः ।

६४सु०- नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा, अन्यदा तु कर्त्रादिकारणगणादेव, अतो नातिप्रसङ्गः; इत्यत आह पुरुषेति ।

अनु०-पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते । किन्नानुमीयते तद्वद्वस्तुत्वात्पुरुषोद्भवः ।४४४ सर्वस्यापि

किञ्चित् इति अधुनातनं कार्यम् । वस्तुत्वात् कार्यत्वात् । सर्वस्यापीति । आदिकालीनस्यापि कार्यस्येत्यर्थः ।

अनेन ना पुरुषः, सतः आदिकालीनस्य कार्यस्य, कर्ताऽनुमातव्यः । कुतः । दृष्टत्वात् अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादि ति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति । सूत्रभाष्ययोः पुरुषग्रहणं तु उपादानाद्युपलक्षणम् ।

६५सु०- नन्विदं सर्वमपि स्वव्याहतम् । तथा हि । यदुक्तं नासतोऽदृष्टत्वादि ति तत्सतः कारणत्वेऽपि समानम् । न हि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम् ।

ननु च मधुरादिव , गोः ृङ्गमिवे त्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम्, मैवम्, सर्वस्यापि जगतोऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात् ।

यश्चायमतिप्रसङ्गः असतः कारणत्वे सप्तमरसादेरपि मधुरादि(वत्) कार्यकारित्वप्रसङ्गः इति, सोऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः । तथाऽपि कारणत्वमात्रं सतोऽस्तीति चेत् (न), तत्सत्त्वासम्मतेरुक्तत्वात् । न हि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम् । मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषेऽपि सद्बुद्धिभावाभावाभ्यां विशेषात् ।

यदपि कार्यार्थी त्यादि । तत्, ईश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात् तन्त्वाद्युपादानं न स्यात्, कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम् ।

एतेन देशकालादीति प्रसङ्गोऽपि समीकृतो वेदितव्यः । यच्च पुरुषेच्छानुसारेणेत्युक्तं (तदपि) तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति ।

६६सु०- अत्र यद्विश्वस्यासत्त्वमुक्तं तत्तावन्निराकर्तुं सूत्रम् ॐ नाभाव उपलब्धेः ॐ इति । तद्व्याचष्टे न चेति ।

अनु०- न चाभावो विश्वं सदिति गम्यते । यतो

भवतीति भावः, न भावोऽभावः, असदिति यावत् । सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् ।

प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आह अनुभवेति ।

अनु०- अनुभवरोधे तु वचनं वादिनः कुतः

अनुभव(वि)रोधे तु क्रियमाण इति शेषः । (तत्र) यदि सत्त्वेनोपलभ्यमानमप्यसत् स्यात् तदोत्तरं वदत्यपि शून्यवादिनि नोक्तं त्वयेत्यतस्तेऽप्रतिभे ति ब्रुवाणं परं प्रति शून्यवादिनः स्ववचनसाधको(नो)पायाभावात् पराजय एवापद्येत । यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्ती ति ब्रूयात् तदा अङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमि ति सत्त्वेन तदवगतं विश्वं कथमसत्स्यादिति ।

६७सु०- उक्तदोषपरिहारं शङ्कते स्वप्नेति ।

अनु०-स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ।४४४ यदि सत्त्वेन

स्वप्नश्च भ्रान्तिश्च तयोरिव स्वप्नभ्रान्तिवत् ।

यद्यपि परस्य स्वप्नोऽपि भ्रान्तिरेव, तथाऽपि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः । यथा स्वप्ने भ्रान्तौ चासदेव गजादिकं सर्पादिकं च सदित्युपलभ्यते, तथाऽसदेव इदं विश्वं स(त्यत्वे)त्त्वेन उपलभ्यते; एतदेव विश्वस्य शून्यकारणत्वं नाम, नापरम्; तत्र कथं सदित्युपलम्भेन विश्वस्य स(त्य)त्वसिद्धिः ।

न चैवम् अधिष्ठानस्य द्रष्टुः करणानां तद्दोषाणां च सत्त्वमङ्गीकार्यम्, अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरि ति वाच्यम्, असत्प्रकाशनशक्त्या संवृत्यैव सर्वस्योपपत्तौ तदङ्गीकारवैयर्थ्यात् । एवञ्च न वचनासिद्धिः, सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः, तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति ।

६८सु०- एतत्परिहाराय ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ इति सूत्रम् । तद्व्याचष्टे किञ्चेति ।

अनु०- किञ्चात्र भ्रमो नैव निवर्तते

भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात् । न चैवम् । तथात्वे अत्र प्रपञ्चे सत्त्व भ्रमः किं इति नैव निवर्तते । ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम्, सम्प्रतिपन्नस्थले तथा दर्शनात् । प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद्रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात्, न चैवं क्वचिद्दृष्टम् । न च प्रपञ्चसत्तावगमस्य बाधकं पश्यामः । ततो न भ्रमत्वावधारणं युक्तमिति ।

स्वप्नस्य भ्रान्तित्वाभावो, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितोऽत्रानुसन्धेयः ।

६९सु०- स्यादेतत् । किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते उतोत्तरकालेऽपि । आद्ये न तावता भवतोऽपि विश्वसत्यत्वावधारणं, शुक्तिरजतादौ तदयोगात् । द्वितीयस्तु नास्ति प्रपञ्चप्रत्ययो बाधिष्यते प्रत्ययत्वात् सम्प्रतिपन्नवत् इत्यागामिबाधसिद्धेरित्यत आह अनादेरिति ।

अनु०- अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥

अनादितोऽनुवृत्तस्येत्यर्थः । विश्वस्य तत्प्रत्ययस्य, निवृत्तिः बाधः । निवर्तेत बाध्येत । यदि प्रत्ययत्वात् प्रपञ्चप्रत्ययस्य बाधोऽनुमीयते, तदाऽवश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम्, अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः । बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः ।

तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव । न केवलमिदमापादनं किन्तु सम्भावितं चैतत् । यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वम्, अनादितोऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात्, कादाचित्कस्य संवादविधुर(रुद्व)त्वेन भ्रमत्वसम्भवादिति ।

७०सु०- ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव; तच्च परमार्थरूपं, न कल्पितम्, अदृष्टत्वात्; तत्कथं तत्प्रत्ययस्य बाध्यता स्यात्; किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात् तत्प्रत्यय एव बाध्यः, हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह दृष्टस्येति ।

अनु०- दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः

भ्रान्तिताभ्रम शब्दाभ्यां कल्पितत्वमुच्यते ।

इदमुक्तं भवति । विपरीतमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् । केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम्; प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति ।

७१सु०- एतदेव दृष्टान्तेन दर्शयति गवामिति ।

अनु०- गवामृङ्गिभावेन न हि स्याच्छशृङ्गिता

अृङ्गिभावेन सहितेति शेषः ।

कश्चिद्गवां ृङ्गित्वमस्ती त्याह कश्चिच्छशस्येति । तत्र परोक्तरीत्या गवां ृङ्गिता कल्पिता, दृष्टत्वात्; शशृङ्गिता त्वकल्पिताऽदृष्टत्वादि ति स्यात् । न ह्येवं लोके प्रतीतिः, लोकानुसारेणैव च परमार्थो बोद्धव्यः, नान्यथा; लोकन्यायस्यैव तद्बोधोपायत्वादिति ।

७२सु०- तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता, तद्बाधकशङ्का च परिहृता; ततः किं सिद्धमि त्यतो यदुक्तं पूर्वपक्षिणा सतोऽपि कारणत्वे प्रमाणाभावः इति तत्परिहृतमि ति वदन् समीकरणान्तरमपि परिहरति अस्माकं त्विति ।

अनु०-अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।

उक्तभङ्ग्याऽऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥

सत्कारणत्ववादिनाम् अखिलं परेणाक्षिप्तं युज्यते । कथम् । बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ट्यादिकारणानां सत्त्वसिद्धेः । तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः । न हि सत इवासतोऽपि स्वभावभेदोऽसत्त्वव्याघातात् । प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव । प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्वयुक्तैव, अन्यथा सद्बुद्ध्याऽवगतात्सप्तमरसादपि पीनता सती स्यात् । ईश्वरस्य सर्वकारणत्वेऽपि तन्त्वाद्यपेक्षा, पुरुषप्रयत्नाद्यपेक्षा, देशकालादिनियमश्च युज्यत एव; तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात् ।

न चैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते । न चैतदप्रामाणिकम्, आरम्भणाधिकरणोक्तरीत्या अत्र आगमानुमानादीनां प्रमाणत्वात् । न च वेदाद्यागमप्रामाण्यमसिद्धम्, प्रथमसूत्रोक्तरीत्या आगमप्रामाण्यस्य सिद्धत्वात् । अनुमानेऽतिप्रसङ्गोऽप्यागमप्रामाण्येनैवापास्त इति । ब्रह्मादीन्सृष्ट्यादावीश्वरस्तेषु कृपयाऽपेक्षते, परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादि ति ज्ञापयितुं प्रसादादित्युक्तम् ।

७३सु०- प्राक् विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्क्य तत्परिहारत्वेन ८वैधर्म्याच्च न स्वप्नादिवदि ति सूत्रं व्याख्यातम् । इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्व्या)व्याख्यातुं मिथ्यात्वेऽनुमानं तावच्छङ्कते दृश्यत्वादिति ।

अनु०- दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत्

सर्वं मिथ्ये त्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात्, अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् । विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदि त्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्)सत्यत्वमङ्गीक्रियत इत्यर्थः ।

७४सु०- दूषयितुं पृच्छति इयं चेति ।

अनु०- इयं च मा

तिष्ठतु तावद्विश्वम्, इयं च मा इदमेव दृश्यत्वानुमानम्, मिथ्या सत्यं (त्या वे) वे ति शेषः ।

आद्यं दूषयति मिथ्येति ।

अनु०- मिथ्या चेत्साध्यसिद्धिर्न

न हि शब्देऽविद्यमानेन चाक्षुषत्वेन शब्दनित्यत्वं सिद्ध्यतीति भावः ।

द्वितीये दृश्यत्वं दृश्यमदृश्यं वा ॥ प्रथमं दूषयति व्यभिचार इति ।

अनु०- व्यभिचारो न चेद्भवेत्

दृश्यत्वं मिथ्या न चेत्, अथ च दृश्यम्; तदा (दृश्यत्वस्य) दृश्यत्व एव व्यभिचारो भवेत् ॥ द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः ।

७५सु०- स्यादेतत् । मिथ्यैव दृश्यत्वमिति ब्रूमः । न चैवं साध्यासाधकत्वम्, वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात्, चाक्षुषत्वादीनां त्वारोपाभावात्, आरोपेऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादि त्यत आह साधकत्वमिति ।

अनु०- साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः

यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं सम्मतं तत्र मिथ्यात्वे, विप्रतिपत्तितोऽसत्यस्य साधकत्वं साध्यम् एव; न पुनरस्माकं सिद्धमिति ।

७६सु०- विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् । किं सत्येन प्रमाणेनोत मिथ्याभूतेन । आद्ये तूक्तमेवोत्तरम् । द्वितीये दोषमाह तस्य चेति ।

अनु०-तस्य च

न हि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् । अतस्तस्यापि साधकत्वं साध्यमेव ।

तस्यापि साधकत्वं साधयिष्यामीत्यत आह इतीति ।

अनु०- इत्यनवस्था स्यात्

पूर्वोक्तप्रकारेणेत्यर्थः । न हि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति, नापि सद्वादी कदाऽपि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात्, येनानवस्थाशान्तिर्भवेदिति ।

७७सु०- एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाह सत्त्वं चेति ।

अनु०- सत्त्व• चास्यानुभूतितः

अस्य प्रपञ्चस्य । अनुभूतितः सिद्धम् अतो बाधितविषयं चानुमानमि ति शेषः ।

७७असु०- न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वेऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह अनुभूतीति ।

अनु०-अनुभूतिविरोधेन मिथ्यात्वे मा न काचन

उपलक्षणमेतत्, पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् । तथा हि । जडत्वादिकं सत्यं मिथ्या वा ॥ आद्ये जडत्वादिमन्न वा । प्रथमे व्यभिचारः । द्वितीयेऽपसिद्धान्तः ॥ मिथ्या चेत्साध्यसिद्धिर्नेति ।

७८सु०- भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत्, न चासावस्ति । मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम्; न च तदभावः प्रत्यक्षेण वेद्यः, तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनबाधाभावविषयत्वेऽपि कालान्तर(गत) भाविबाधाभावविषयत्वायोगादि त्यत आह अतीतेति ।

अनु०- अतीतानागतौ कालावपि नः साक्षिगोचरौ

अत्र अतीत ग्रहणं प्रासङ्गिकम् । न केवलं वर्तमान इत्यपेरर्थः । नः सर्वेषाम् । अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः ।

७९सु०- किमतो यद्येवमवर्तमानोऽपि कालः साक्षिगोचर इत्यत आह तदिति ।

अनु०- तत्सम्बन्धितया सत्त्वमपि

कालान्तरसम्बन्धितया सत्त्वम् अबाध्यत्वम् । न केवलं वर्तमानकालीनबाधाभावोऽनुभववेद्यः, किन्तु सर्वकालगतोऽपीत्यर्थः । तत्कथमित्यत उक्तम् दृष्टस्येति ।

अनु०- दृष्टस्य साक्षिगम्

प्रत्यक्षादिप्रतीतिविषयस्य । प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः ।

८०सु०- न हि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् । यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत् तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् । तथा च तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्ध्येदि त्यतो दृष्टशब्दं व्याख्याति दृढेति ।

अनु०- दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम्

यन्निर्दोषत्वेनावधृतया प्रतीत्या विषयीकृतं, तदेव दृष्टमित्युक्तम् । कुतः । इतरस्य सम्मुग्ध(स्य)दृष्टस्य दृष्टाभासत्वात् । मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात् । कृतव्युत्पादनं चैतत्प्राक् ।

८१सु०- सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाह भ्रान्तेरिति ।

अनु०-भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् । तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ॥

भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजतादिकादित्यर्थः, संवृतिसत्यस्य तथात्वेनाभ्युपगतस्य विश्वस्य विशेषो वैलक्षण्यम्, अव्यभिचारवान् कदाचित्क्वचिदपि सम्प्रतिपन्नमिथ्याभावे अवर्तमानः, तेन शून्यवादिना अपि, सम्यगिति असन्देहेन । स एव विशेषो, नः अस्माकं, मते विश्वस्य, सत्यत्वं साधयिष्यती ति शेषः । ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति ।

अत्र तेनापि सम्यगङ्गीकृतः इत्यनेन पक्षधर्मता समर्थिता । अव्यभिचारवानि त्यनेन तु व्याप्तिः ।

अयमत्र प्रयोगः, विश्वं कालत्रयाबाध्यम्, प्रातीतिकविलक्षणत्वात्, व्यतिरेकेण शुक्तिरजत•दि)वदि ति ।

८२सु०- ननु च शुक्तिरजतादीनां प्राक् शून्यतत्त्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिः भवति, प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यती त्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम्, न चेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधात् इत्यत आह विज्ञानादिति ।

अनु०-विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा । नैव दृष्टा

व्यभिचारः निवृत्तिः । नायं विशेषोऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् । न ह्यप्रामाणिकेन ृङ्गेणाश्वोऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति ।

८२असु०- ननु इदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदि त्यनुमानस्य सत्त्वात् कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयति प्रमेति ।

अनु०- प्रमा सा च न भवेत्स्वविरोधतः

या च शङ्क्यते सेत्यर्थः ॥ स्वविरोधत इति । स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः । अन्यथा व्यभिचारापत्तेः ।

यस्य विषयोऽसन्, (यत्) स्वयं च बाध्यं, कथं तत्प्रमाणं भवेत् ।

अतोऽस्य विशेषस्याप्रामाणिकत्वेनाङ्गीकर्तुमशक्यत्वे योऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सोऽस्माकं सत्यत्वे हेतुर्भविष्यतीति । स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम् ।

८३सु०- ननु तर्ह्येवमेव कुतो नोच्यते । तथोच्यमाने प्रमाणानां तत्त्वावेदकत्वम्, अर्थक्रियायाः सत्त्वम्, असति तदभावः इत्यादि बहु संविधेयं स्यात् । लाघवार्थं त्वेवमुक्तम् । तदपि यथावसरमुपपादितमेव ।

८४सु०- यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम् । तथा हि । जगतो बाध्यत्वमबाध्यत्वं च प्रसक्तम्, तृतीयप्रकाराभावात् । बाध्यत्वं च प्रसिद्धपदार्थतत्त्वज्ञानेन, अन्येन वा । तत्राद्यं वादिप्रतिवादिभ्यामनभ्युपगतम् । द्वितीयं तु प्रमाणाभावनिरस्तम् । परिशेषादबाध्यत्वमेव सिद्ध्यतीति ।

८४असु०- अथवा व्यापकानुपलब्धिलिङ्गकमनुमानम् (अनेन) एतेन श्लोकद्वयेनोक्तम् । बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्त्वज्ञाननिवर्त्यत्वेन व्याप्तम् । तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमपि व्यावर्तयतीति ।

८५सु०- एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च, परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते भेद इति ।

अनु०- भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि । अन्योन्याश्रयताहेतोर्दुर्ग्राह्य इति यत्

आदि पदेन विशेषणप्रतियोगिनोर्ग्रहणम् । यदि गृह्यत इति शेषः । तर्ही ति च ।

अयमर्थः । यदि प्रपञ्चो सांवृतो न स्यात् तदा प्रत्यक्षोऽप्यसौ न स्यात् । तथा हि । अनेकभेदभिन्नो हि प्रपञ्च इष्यते; भेदस्य चाप्रत्यक्षतायां सोऽप्यप्रत्यक्ष एव, विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः, न च भेदप्रतीतिरुपपद्यते । भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोर्विशेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः; भेद इत्येव प्रतीतेरभावात् । यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्टव्यम् ॥

तत्रोभयत्राप्यन्योन्याश्रयत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः, न हि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदापेक्षम्, न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् ॥

तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानं, तन्निरूप्यत्वात्; भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते, तथात्वे घटाद्घटस्य भेद(इत्यपि)प्रतीतिः स्यात् । न च परस्पराश्रयाणि कार्याणि सम्भवन्ति ।

अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिमय एवायमङ्गीकरणीय इति ।

८६सु०- निराकरोति नेति ।

अनु०- न तत्

यदुक्तं भेदस्य दुर्ग्राह्यत्वं तत् नास्तीत्यर्थः । तत्कथमित्यत आह स्वरूपमिति ।

अनु०- स्वरूपं वस्तुनो भेदो

यत् यस्मात् भेदो वस्तुनः स्वरूपं तस्मात्, तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति, किन्तु वस्तुग्रह एव भेदग्रहः । तथा च क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति ।

भेदस्य वस्तुस्वरूपत्वं कुत इति चेत् । यो हि भेदमेव नाङ्गीकुर्यात्, किं तस्यार्द्रकवणिजो वहित्रचिन्तया । यस्तु भेदमङ्गीकृत्य तस्य वस्तुस्वरूपत्वं नाभ्युपैति तं प्रत्याह यदिति ।

अनु०-यन्न तस्य ग्रहेऽग्रहः

यस्माद्वस्तुनो ग्रहे तस्य भेदस्य अग्रहः नास्ति तस्मात् भेदो वस्तुनः स्वरूपमिति सम्बन्धः ।

अयमत्र प्रयोगः । विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहेऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति ।

८६असु०- यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् । तदर्थं तस्य ग्रहेऽग्रहो ने त्युक्तम् । न हि घटग्रहे गृह्यमाणोऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमोऽस्ति । यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डोऽप्यवश्यं स्फुरत्येव, न चासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या ।

८७सु०- किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पक्षे न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति, किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम्, आशुभावाच्च न क्रमो लक्ष्यते । यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम्, न हि दण्डिप्रतीतौ दण्ड(स्य )स्फुरणेऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः )स्फुरणमस्तीति ।

८८सु०- भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत । न चैवम् । किन्नाम वस्तुप्रतीत्युत्तरकालमेव । निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते, भेदस्तु वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते, यथा सादृश्यमभावश्चेत्यत आह अन्यथेति ।

अनु०- अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते

यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदाऽस्यामुना भेद इत्युत्तरकालं सविकल्पक(वि)ज्ञानमपि न जायेत । तथा च, तथा व्यवहारोऽपि न स्यात् । अस्यामुनेति (हि) धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते । न चागृहीतभेदं तथोद्देष्टुं शक्यते, एकस्मिन्नपि तत्प्रसङ्गात् । भेदसत्तामात्रेण तदुपपत्तिरिति चेत् (न) दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात् । दोषात्तत्र तथेति चेन्न, भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति ।

८९सु०- न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतः अस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते, किं तर्हि इत्यत आह अगृहीत इति ।

अनु०- अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः । स्यात्

यदि घटदर्शनोऽपि तद्भेदो न दृष्टस्तद•ऽ)नन्तरं स्मर्यमाणो गृह्यमाणो वा प्रतियोगी पटोऽपि विना भेदेनोपलब्धव्यः । भेदादर्शने चावश्यमभेदज्ञानं स्यात् । तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति ।

अस्त्वेवमित्यत आह प्रतीतीति ।

अनु०-प्रतीतिविरोधाच्च

च शब्दस्योत्तरत्र सम्बन्धः ।

पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते, न जातु स्वस्मात्स्वयं भिन्न इति, अतः; प्रतीतिविरोधात् एवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः ।

किञ्च यदि स्वस्मात् स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात्, तदा कदाचित् तथाविधो वाग्व्यवहारोऽपि स्यात्, न चैवमित्याह न हीति ।

अनु०- न हि कश्चित्तथा वदेत्

एतेन किमेकप्रतीतिविरोधः, उत सर्वप्रतीतिविरोधः । नाद्यो व्यभिचारात् । न द्वितीयः असिद्धेः इत्यपि परास्तम्, कदाऽपि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति । अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात् तत्स्वरूपत्वमेवेति ।

९०सु०- नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् । तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनोऽपि । न तावद् द्वितीयः, एकस्यैव भेदस्योभयस्वरूपत्वेऽद्वैतप्रसङ्गात् । आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वं तथाऽपि प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयत्वं कथं परिहरणीयम् ॥ मैवम् । भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात्, प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् ।

९०असु०- अस्तु तर्हि विशेषज्ञानेऽन्योन्याश्रयत्वम् । तद्धि घटात्पटो भिन्न इत्युत्पद्यते । तत्र धर्मिणो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा । न तावद् द्वितीयः, स्वतोऽपि भेदप्रतीत्यापत्तेः । आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः । तथा च पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति । मैवम् । वस्तुतोऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धकेऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति ।

९१सु०- एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह धर्मित्वेति ।

अनु०- धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥

उपलक्षणं चैतत् । धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् ॥ तद्भावो विशेषणत्वं विशेष्यत्वं च । अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः ॥

अयमर्थः । किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ ।नाद्यः । तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् । तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः । युगपदेव सर्वस्येन्द्रियसन्निकृष्टत्वात्, दर्शनयोग्यत्वाच्च ।

ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययोः (च) तद्भावोऽपरो भिन्नभेदवादिभिर्नेष्यते, तत्कथमेतत् । मैवम् । भूषणकारादिभिस्तस्याङ्गीकृतत्वात् । तेषामेव चायं परिहार इति ।

ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्ती ति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न, असन्निहितवत् सन्निहितस्याप्यज्ञानसाधने प्रतीतिविरोधात् । यत्र (च) प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना । तदिदमुक्तं को विरोध इति ।

अनु०- को विरोधः

द्वितीयं निराकरोति स्वरूपेणेति ।

अनु०- स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥

अस्यामुष्मादिति उपलक्षणम् । अनयोर्भेदो , भिन्नाविमावि त्यपि ग्राह्यम् । निर्विकल्पकप्रतीतार्थानामन्योन्यवैशिष्ट्यमात्रं सविकल्पकज्ञानेऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति । तथा(चा)हुर्भिन्नभेदवदिनः, एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिंकृत्वै)धीकृत्यैतस्मादयं भिन्न इति सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षेऽन्योन्याश्रयत्वमि ति ।

९२सु०- ननु किमर्थमयं परमतोपन्यासः । भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकमप्ययमे(प्येवमे)व परिहार इति ज्ञापनार्थम् । तर्हीदमेव वाक्यं तथा व्याख्यायताम् । नै(चै)वं शक्य(ङ्क्य)म्, तद्भेदश्चे ति पृथग्भेदग्रहणविरोधात् । विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकारादि्भद्यत इति वैशेषिकपरीक्षायामुक्तम् । अतो नात्र व्युत्पादनमपि कृतमिति ।

९३सु०- एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते किञ्चेति ।

अनु०-किञ्च

अन्यच्चेत्यर्थः ॥ कथमिति चेत् । किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादिति ।

९३असु०- आद्ये दोषमाह भेद इति ।

अनु०- भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः ॥

कथम् इत्याक्षेपे । परिपृच्छति इति मृदूक्तिः, आक्षिपतीति यावत् । धार्म्यादिभेदग्रहणात् धर्म्यादिग्रहणसापेक्षभेदग्रहणात् । कथमिदं लभ्यते । धार्म्यादिपदस्य तहणोपलक्षणत्वात् । आदिपदस्य च कारणार्थस्याऽऽवृत्तेः । तदेतत्परस्परं व्याहतमिति शेषः । तथा हि । भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते । अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यात् । तथा च न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धार्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् । तथा च भेदो दुर्ग्रहः , प्रतीयते च इत्येतयोः कथं न पूर्वोत्तरविरोध इति ।

९३आसु०- द्वितीये पृच्छामः, किं परेण क्वापि भेदो न गृहीतः, किंवा क्वचिद्गृहीतः इति ।

९४सु०- आद्यं दूषयति अन्यत्वेति ।

अनु०- अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः

यद्यन्यत्वं क्वापि न गृहीतं तदाऽन्योन्याश्रयत्वापादनमेव न शक्यम्, निराश्रयत्वात् । तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापाद्यते । अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहेऽनुत्थानमेवापादनस्य ।

द्वितीयं दूषयति अन्यत्वमिति ।

अनु०- अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः

सिद्धं प्रतीतम् । अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात् । न ह्यन्योन्याश्रयाणि कार्याणि क्वापि दृष्टानि प्रकल्प्यन्ते । तथा चास्ति चेद्भेदप्रतीतिः नूनमाभासभूतमेवेदमन्योन्याश्रयत्वमप्रतिबन्धकत्वादिति ।

अस्ति भेदप्रतीतिः सा न प्रमेति तु तात्पर्यमिति चेन्न । किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबध्नातीति मतं, किंवा तद्धर्मम् । आद्ये कथमप्रमाऽपि भेदप्रतीतिरुत्पद्यते । न द्वितीयः, अन्ययोरन्योन्याश्रयत्वमन्यत्तु लुप्यत इत्यस्यान्यायत्वात् । सांवृती प्रतिपत्ति(तीति)रिति चेत्; तत्किं पटः सावृत इति, येभ्यस्तन्तुभ्यो जातस्तेषामेव कारणं भ(व)विष्यतीति ।

९५सु०- नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आह एतादृशस्येति ।

अनु०- एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ । मायी माध्यमिकश्चैव

९५असु०- न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् ।

९५अ१सु०- तथा हि । भेदस्यापि भेदान्तरभेद्यत्वेऽनवस्थेति । तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था । अभिन्ने भेदनिवेशश्चेत्स्वतोऽपि पटस्य भेदापत्तिरिति ।

९५इसु०- तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते, भेद इत्येव प्रतीतेः अननुभवात् । वस्तुनोऽपि प्रतीतौ; न तावद्भेदपूर्वं वस्तुप्रतीतिः, उक्तदोषात्; नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः, अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः; न च युगपत्, भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् । न च प्रकारान्तरमस्तीति ।

९५ईसु०- तथा सत्तावत्कारणं वा, कारणे सत्ता वा । आद्ये कारणस्यासत्त्वम् । द्वितीयेऽसत एव कारणत्वमित्यादि ।

९५उसु०- तत्सर्वं जात्युत्तरमिति ज्ञापयितुम् एतादृशस्ये त्युक्तम्; सर्वस्यापि स्वव्याघातकत्वात्, भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः एवाङ्गीकरणाच्च ।

९५ऊसु०- कतमेयं जातिरिति चेन्न; सामान्यलक्षणसद्भावेऽस्य निर्बन्धस्य व्यर्थत्वात्, ओतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च ।

९५ऋसु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः ।

९५ऋ१सु०- शून्यवादिनिरासे(नैव)न मायावादोऽपि निरस्तो वेदितव्यः इत्यतिदेशज्ञापनाय मायी चे त्युक्तम् ।

९५ऋ२सु०- एवशब्दस्योत्तरत्र सम्बन्धः ।

९६सु०- नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह तदिति ।

अनु०- तदुपेक्ष्यौ बभूषुभिः

तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव, न तु परिहाराय प्रतिवादीकर्तव्यौ । एतदुक्तं भवति । सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम्, अन्यथाऽतिप्रसङ्गात् । एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता ।

९६असु०- अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति ।

९७सु०- स्यादेतत्; शून्यवादी शून्यं जगत्कारणं मन्यते, मायावादी तु ब्रह्म, तत्कथं नासतोऽदृष्टत्वादि त्यादिशून्यवादनिरासस्य मायावादेऽतिदेशः । मतवैषम्येऽतिदेशासम्भवादित्यत आह यदिति ।

अनु०- यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः

तस्मादतिदेशो युक्त इति शेषः । तत्कथमित्यत आह न हीति ।

अनु०- न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः

लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः; न (च) असौ शून्यब्रह्मणोः सम्भवति, द्वयोरपि निर्विशेषत्वाङ्गीकारात् ।

ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावेऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाऽङ्गीकृतम्, न शून्यस्य शून्यवादिना; तेन ब्रह्मशून्ययोर्भेदो भविष्यती त्यत आह अनृतादीति ।

अनु०- अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम्

ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनोऽन्यस्यासम्भवात्, अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धमि ति तद्व्याख्यानाच्च । अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते, जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदि ति वचनात् । ततो नैतदपि भेदकमिति युक्त एवातिदेशः ।

९८सु०- स्यादेतत् । प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदि ति सूत्रम् । तत्र यत् भ्रान्तेः संवृतिसत्यस्ये ति दूषणमुक्तम्, तदेव वैधर्म्यादिति सूत्रे प्रतीयते; यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात् तस्य मिथ्यात्वं वाच्यम्, तथा चासाधकत्वमि ति, तत्सूत्रे न दृश्यते; तत्कथमेतद्व्याख्यानम् इत्यत आह स्ववाक्येति ।

अनु०- स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः । तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः । अप्रयत्नान्निराचक्रे

अत्र वाक्यमि ति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते । तत्पक्ष इति विषयसप्तमी, तन्मिथ्यात्वसाधनविषय इति यावत् । इति शब्दो हेतौ । अप्रयत्नात् प्रयत्नमविधाय, वैधर्म्याच्च न स्वप्नादिवदि त्येव निराचक्र इति सम्बन्धः ।

एतदुक्तं भवति । दृश्यत्वस्य मिथ्यात्वं शून्यवादिनैवाभ्युपगतम् । मिथ्याभूतस्य (च) असाधकत्वं सुप्रसिद्धमेव । अत ए(वै)तद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव, स्फुटदूषणव्युत्पादने सूत्रत्वव्याघातात् । तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः । अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति ।

९९सु०- तथाऽपि सत्त्वं चास्यानुभूतित इति यत्प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम्, यच्च मिथ्यात्वे मा न काचने ति निष्प्रमाणत्वं, तदुभयं सूत्रे न दृश्यत इत्यत आह चेति ।

अनु०-चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥

अस्य मिथ्यात्वस्य ।

नन्वनुक्तसमुच्चयार्थेन च शब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्यायते तथा तदपि च शब्दार्थतया व्याख्यायताम्, किमनुक्तत्वाङ्गीकारेण । मैवम्, न कृत्यं प्रतिवादिनः इत्युक्तत्वात् ।

सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु, किं च शब्दस्योभयसूचकत्वग्रहणेन । न, सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः ।

९९असु०- स्वप्नादिवदि ति सूत्रं स्वप्नवदिति व्याख्यातम् । कोऽत्राभिप्रायः । उच्यते । बहुस्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हती ति पूर्वपक्षिणोऽभिमानं सूचयितुं सूत्रकारेण आदि पदं प्रयुक्तम्; तथाऽपि प्रयोगवेलायामेक एव दृष्टान्त उपादेयोऽन्यथाऽऽधिक्यं प्रस(ज्यते)ज्येतेति । यथाऽऽह, हेतूदाहरणादिकम् अधिकमि ति । एतज्ज्ञापनाय भाष्यकारेण स्वप्नवदि त्येवोक्तमिति सर्वं सुस्थम् ॥

॥ इति असदधिकरणम् ॥

न्यायसुधा

॥ अथ अनुपलब्ध्यधिकरणम् ॥

ब्र०सू०- ॐ न भावोऽनुपलब्धेः ॐ ॥

१००सु०- अत्र योगाचाराणां मतमपाक्रियते ।

तदर्थं तदुपन्यस्यति ज्ञानमेवेति ।

अनु०- ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते

विज्ञानमेव तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यर्थः ।

१००असु०- विज्ञानाङ्गीकारेऽपि विशेषमाह एकमिति । अद्वितीयमित्यर्थः ।

१००आसु०- ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं, तत्कथं विज्ञानमेव तत्त्वमि त्यत आह अखिलेति । ज्ञानमेव ज्ञेयाकारम्, न ज्ञेयं नाम ज्ञानादि्भन्नमस्तीत्यर्थः ।

१००इसु०- कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह प्रभासत इति । ज्ञानं हि प्रकाशते, तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां, नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः ॥ यद्वा प्रभासते नीलादिना सहैवेति शेषः । तेन सहोपलम्भनियमादभेदो नीलतद्धियोरि त्युक्तं भवति ।

१०१सु०- नन्वयुक्तो ज्ञानज्ञेययोरभेदः, भेदस्य प्रतिभासनात् । एकमिति चायुक्तम्; विज्ञानसन्ततीनां भेदस्य, एकैकस्यामपि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् । किञ्च आस्तामन्यो भेदः, भेदाभावस्तावदभ्युपगम्यते; तेनैव विज्ञानस्य सद्वितीयत्वप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह तत्रेति ।

अनु०- तत्र सन्ततिभेदश्च स्वभेदो(ऽ)भेद एव च । कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥

तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः । सन्ततिभेदः सन्ततीनां परस्परं भेदः । स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः । कल्पिता एव इति सम्बन्धः । नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु ॥

यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी । तदुक्तम् भेदस्तु भ्रान्तिबुद्ध्यैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वय इति ।

१०२सु०- एवमनूदितं मतमपाकरोति इत्येतदपीति ।

अनु०- इत्येतदपि नो युक्तं

पूर्वमतसमुच्चयार्थोऽपिशब्दः ।

अनेन न भाव इति सूत्रांशो व्याख्यातः । जगत्, भावो = ज्ञानं, न, भवती त्यर्थः, भवतेरनुभवार्थत्वात्; उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव ।

१०३सु०- कुतो न युक्तमिति चेत्; किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मकमु(मित्यु)च्यते, किंवा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः जगतो ज्ञानाभेदे प्रमाणाभावात् ।

१०३असु०- न तावत् तत्र प्रत्यक्षमस्तीत्याह न हीति ।

अनु०-न हि ज्ञानतया जगत् । भासते

अनेन अनुपलब्धे रित्येतद्व्याख्यातं भवति ।

१०३आसु०- मा भूत् प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह अनुभवस्यैवेति ।

अनु०- अनुभवस्यैव विरुद्धत्वादपेशलम् । तन्मतं

सम्बन्धमात्रे षष्ठी । एव शब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति । तन्मतं तदभिमतमनुमानमिति शेषः, ज्ञानज्ञेययोरैक्यमिति वा (च) । ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात् कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः ।

अनेन अनुपलब्धेरि त्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।

१०३इसु०- ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न, बाधकाभावात् । अनुमानं बाधकमिति तु न वाच्यम्, प्रत्यक्षस्यानुमानतो बलवत्त्वात्; अन्यथा कालातीततोच्छेदप्रसङ्गात्; प्रत्यक्षस्य भ्रा(न्ति)न्तत्वेऽनुमानप्रामाण्यं तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।

१०४सु०- अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् ॐ क्षणिकत्वाच्च ॐ इति । तद्व्याचष्टे क्षणिकत्वाच्चेति ।

अनु०- क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण

आशुतरविनाशित्वादित्यर्थः । न च ज्ञानस्य क्षणिकत्वं भ्रान्तम्, अबाधितप्रत्यय(तीति)सिद्धत्वात् । स्थिररूपतः आशुतरविनाशितारहित(त्वात्)त्वतः, अनुस्मृतेश्चे त्याद्युक्तप्रकारेण । अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः ।

१०५सु०- एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम् ॐ सर्वथाऽनुपपत्तेश्च ॐ इति । तद्व्याख्याति सर्वेति ।

अनु०-सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥

श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव । अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा । तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति ।

नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते । उपसंहारार्थमित्यदोषः । यद्वा तदीयप्रमेयान्तरेऽपीति ॥

॥ इति अनुपलब्ध्यधिकरणम् ॥

न्यायसुधा

॥ अथ नैकस्मिन्नधिकरणम् ॥

ब्र०सू०- ॐ नैकस्मिन्नसम्भवात् ॐ ॥

१०६सु०- जैनमतमत्र निराक्रियते ।

निराकार्यांशज्ञापनाय तदुपन्यस्यति आहेति ।

अनु०- आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥

द्विविधं तावद्विश्वं, जीवाजीवात्मकं, निरीश्वरम् ।

१०६असु०- तत्पुनः षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशनामानि । तत्र जीवास्त्रिविधाः, बद्धा योगसिद्धा मुक्ताश्चेति । धर्मो गतिहेतुर्जगद्व्यापी । अधर्मः स्थितिहेतुर्व्यापक एव । पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम्; तत् द्विविधम्, परमाणुरूपं सङ्घातरूपं च । कालः अभूत् भवति भविष्यती ति व्यवहारहेतुरप्यणुरूपः । आकाश एकोऽनन्तप्रदेशश्च; स द्विविधो, लोकाकाशोऽलोकाकाशश्चेति ।

(ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि, अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायोऽधार्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।

१०६आ सु०- अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः ॥

जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । आस्रवः तद्भोगोपकरणमिन्द्रियादिकम् ।

बन्धो द्विविधः, घातिकाघातिकचतुष्टयभेदात्; आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम्, द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् ।

निर्जरो मोक्षसाधनं तपः ।

संवर इन्द्रिय(निरोधः)निग्रहः ।

मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गोऽपि सङ्गृहीतः, स च म्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।

१०६सु०- तदेतद्विश्वं, सप्तभङ्गि प्रत्येकं सप्तप्रकारकम(मित्य•ह क्षपणकः । कथम् । सत् इत्येकप्रकारः । असत् इति द्वितीयः । द्वयं सदसदात्मकमिति तृतीयः । अद्वयम् अवक्तव्यमिति चतुर्थः । द्वयाद्वयम् इति पञ्चमषष्ठौ; तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । अतत्सर्वम् इति सप्तमः; सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् ।

तत्किं कालभेदेन सप्तभङ्गि; नेत्याह सदातनमिति ।

एतच्चोपलक्षणम् । नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणाप्यनेकान्तवादोऽवगन्तव्यः ।

१०७सु०- अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे नैतदिति ।

अनु०- नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः

एतत् सप्तप्रकारत्वम् । कुतः, असम्भवात् । सोऽपि कथं, दृष्टिविरोधतः ।

सर्वं हि स्वोपाधौ सत् परोपाधावसत्, स्वरूपेण भावोऽन्यात्मत्वादिनाऽभावः, द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम्, स्वरूपादिनाऽभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते । नातोऽन्येन प्रकारेण । अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेन असम्भवादयुक्तमेवानेकान्तमतमिति ।

१०८सु०- नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधोऽसम्भवमावहतीत्यत आह भावेति ।

अनु०- भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥

येन रूपेणे त्यस्यैव विवरणं भावाभावतयेति । तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् । यद्वा भावाभावतया अन्येन च येन सत्त्वादि(ना )रूपेणेति योजना । अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम् । यदि वा भावाभावतये त्यस्य विशेषणमेतत् । येन व्यवस्थितेन रूपेणे ति । केन प्रमाणेनेत्याक्षेपः ।

भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम्, यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात्, न चैतदस्ति । न च बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तम्, अतिप्रसङ्गादिति ।

१०९सु०- नियमस्य बाधकमाशङ्कते तत्तदिति ।

अनु०- तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदि

सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपंस्तदनङ्गीकारे दोषांश्च न्यरूरुपन् । एवमसद्वादिनोऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः, तथाऽन्येऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः । तथा च यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्जेत । एवमसत्त्वाद्यनङ्गीकारेऽपि । अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता । तथा चानेकान्ते प्रबलप्रमाणसद्भावात् कथं नियमे बाधकाभाव इति ।

११०सु०- परिहरति तैरिति ।

अनु०-तैरखिलैर्दोषैर्लिप्यते(ऽ)चलदर्शनः

तर्ही ति शेषः । इदमत्र वक्तव्यम् सद्वादिमतानुसरणसमयेऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति । एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति । एवमन्येष्वपि पक्षेषु विकल्पः ।

यद्याद्यस्तदा असौ अचलदर्शनः , सदा सकलपक्षाङ्गीकारवान् तैर्दोषैरखिलै(तैरखिलैर्दोषै)र्लिप्यते । तथा हि । सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः । एवमसद्वादिनोऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरताः, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः ।

एवमन्येऽपि । तथा च सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ॥

अथ मन्यसे न ते दोषाः किन्त्वाभासाः, ते च नानेकान्तवादं बाधन्त इति । तदा कथं तानि प्रमाणानि । अनङ्गीकारे दोषाश्च नाभासाः, येनानुस(ये नानुस)रणीयाः । तस्मात्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागोऽपि कार्यः स्यात् । तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यात् ॥

ननु अनेकान्तो द्वेधा, क्रमाक्रमभेदात् । तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ, अक्रमानेकान्तेऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः; तथा च सप्तभङ्ग्यङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्ती ति नोक्तदोषः ।

मैवम्, तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् । न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि, तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ॥

अपि चैवमपि सप्तभङ्ग्यङ्गीकारो निर्मूल एव, न ह्येवंवादिनो वादिनः प्रसिद्धाः । सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा, सम्भावनावका(को)शस्य निःसीमत्वात् ॥

किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।

द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम्, अपसिद्धान्ती स्यात् इति ।

तदेवं सप्तभङ्ग्यङ्गीकारः प्रमाणविरुद्धोऽप्रामाणिकश्चेत्युक्तम् ।

अखिलैर्दोषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।

१११सु०- एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारेऽतिप्रसङ्गं चाह अतिहायेति ।

अनु०- अतिहाय प्रमाणाप्तनियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा । सर्वप्रकारं वदतो

अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति । सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम्, सर्वश्चासौ प्रकारश्चेति वा ।

ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः, अक्रमानेकान्तेऽपि रूपभेदेने त्यत उक्तं सदा सर्वप्रकारं वदत इति । सदेति रूपाभेदस्याप्युपलक्षणम् ।

११२सु०- अयमाशयः । यदि क्रमेण वा रूपभेदेन वाऽनेकप्रकारत्वं तदा नायमनेकान्तवादः समर्थनीयः; सर्वैरपि वादिभिरङ्गीकृतत्वात्, न हि कोऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणोऽस्ति यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत, केवलं क्षणभङ्गो वाऽत्यन्तसत्कार्यवादो वाऽवस्थावस्थावतोरत्यन्तभेदो वाऽपाकरणीयः । अतः अनेकान्तवादमवतारयता क्षपणकेन, सदा, रूपाभेदेनैव च, सर्वप्रकार(क)त्वमि त्येव वक्तव्यम् । तथा च न व्याघातनिस्तार इति ।

११३सु०-

अनु०-दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥

अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात् । निर्मानं च सदा सर्वप्रकारं वदतो अमग्रहो अप्रामाणिकस्वीकारः स्यात् । व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना । दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थ मित्याद्या इत्युक्तम् ॥ हि शब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः ।

अयमर्थः । यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात्, प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात्; अविशेषात् । यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात्, प्रमाणाभावेन परमतनिरासोऽपि न कार्यः स्यात् । तद(प्य)भ्युपगमनीयमेव भवेदविशेषात्, तथा च दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् ।

यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यात्वं, जिनोपदेशस्य प्रमाणतयाऽभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमि त्यादि सर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात्, अन्यथाऽनेकान्तभङ्गप्रसङ्गात् । एवञ्च न शास्त्रप्रणयनप्रयासः कार्यः, मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति ।

११४सु०- एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति वक्तति ।

अनु०- वक्ति स्वप्रभमात्मानं देहमानम्

क्षपणक इति वर्तते । स्वप्रभं स्वप्रकाशम् । देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः । अत्र देहमानत्वमेव विप्रतिपन्नोऽर्थः, स्वप्रभत्वं तु सम्मतमेवास्माकम् ।

यद्वा स्वप्रभमिति क्रियाविशेषणम्, विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तति ।

अथवाऽनेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभासमनुवदति । तत्र स्वशब्देन स्वीयो देह उच्यते, तत्र प्रभा यस्यासौ तथोक्तः । तथा च प्रयोगः । देवदत्तात्मा, तद्देह एव तत्र सर्वत्रैव च विद्यते, तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात्, यो यत्रैव यत्र सर्वत्रैव स्वासाधारणागुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्र (एव) च विद्यते, यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः, तथा चायं, तस्मात्तथेति; अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राल्हा(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः, तथा च सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति ।

यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति ।

११५सु०- अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् ॐ एवञ्चात्माकार्त्स्न्यम् ॐ इति, तस्य तात्पर्यमाह तदपीति ।

अनु०- तदप्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥

कुतः, अकार्त्स्न्यादिप्रसङ्गादिति शेषः । पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकार्त्स्न्यं स्यात्, गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहेऽतिरेकः स्यात्, इत्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति । एतदर्थत्वेन (वा) च नानाशरीरेष्वि ति वाक्यं योज्यम् । तत्र अन्यथाभवात् इति कायपरिमाणत्वाभावापत्तेरित्यर्थः ।

११५असु०- स्यादेतत्, यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ इति । तस्य तात्पर्यमाह तदप्यलमिति ।

चित्तस्थं परिमाणपर्यायं तत् शब्देन परामृशति । नानाशरीरेषु प्रवेशादन्यथाभवादि ति स्थूलसूक्ष्मशरीरेषु प्रवेशात् स्थूलसूक्ष्मपरिमाणोपज(न)ने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः ।

११६सु०- अस्त्वात्मन एवान्यथाभावस्ततः को दोष इत्यत आह अन्यथेति ।

अनु०- अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः । तन्मते

स्थितिः व्याप्तिः । तन्मते जैनदर्शने । अङ्गीकृते ति शेषः ।

ततोऽपि किमित्यत आह तदिति ।

अनु०- तदनित्यत्वं

यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मात्, आत्मनः अनित्यत्वं आपततीति शेषः ।

११६असु०- अत्र दृष्टान्तः पुद्गलस्येति ।

अनु०- पुद्गलस्य

इवशब्दोऽध्याहार्यः, पुद्गलस्य देहस्येवेति ।

यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची ।

(यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः, यथाऽऽहुः पुद्गलो निरयं गिरन्नि ति ।

११६आसु०- नन्ववस्थापर्यायरूपेणा(प्या)त्मनोऽप्यनित्यत्वमङ्गीक्रियत एव, तत्कथमनित्यत्वापादनमि त्यतो वा पुद्गलस्य देहस्येवेत्युक्तम्; यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमात्मनोऽप्यापाद्यत इति ।

११६इसु०- ननु अन्यथाभावस्यैवंविधानित्यत्वेन व्याप्तिर्नास्ति, परमाण्वादौ व्यभिचारात् । तत्कथमापादनम्; मैवम्, परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतोऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात्; तदिदमुक्तम् अनिवारितमिति ।

अनु०- अनिवारितम्

११७सु०- नन्वस्मन्मतवद्भवन्मतेऽप्यात्मनोऽन्यथाभावोऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् । अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा । तस्माद्भवन्मतेऽप्यात्मनोऽनित्यता दुर्वारा इत्यत आह नेति ।

अनु०- नानित्यताऽस्मत्पक्षे तु

अन्यथाभाववतोऽप्यात्मनः प्रसज्यत इति शेषः ।

११७असु०- तत्कथमित्यत आह चैतन्यादेरिति ।

अनु०- चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यात्

अस्मन्मत इति वर्तते, अनित्यते ति च । तुशब्दोऽवधारणे; अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तौ एव विशेषिणः लक्षणवतः अर्थस्य अनित्यता स्यात्, न तु जैनानामिवान्यथाभावमात्रेण ।

एतदुक्तं भवति । यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यतानिबन्धनं, नान्यथाभावमात्रमिति ।

एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात्, चेष्टाश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तं विशेषिणो लक्षणस्येति । विशेषवतो लक्षणस्य, न तु लक्षणमात्रस्येत्यर्थः ।

किमतो यद्येवमित्यत आह नेति ।

अनु०- न तच्चेतने क्वचित्

तत् इति सामान्येन वाक्यार्थं परामृशति । अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचित् अपि न स्यात्, अतस्तस्यानित्यताऽपि न स्यात् ।

यद्वा तत् इति लक्षणपरामर्शः । चेतने क्वचिन्न । निवर्तत इति शेषः ।

११८सु०- विशेषिणो लक्षणस्य निवृत्तौ लक्ष्यस्यानित्यता स्यादित्युक्तम् । तद्विशदयति ओतेति ।

अनु०- ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥

ओतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः, पटे लक्षणमि ति शेषः । अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः । आदि शब्दः प्रकारवचनः । अनित्यता लक्ष्यस्येति शेषः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम्, तादृशं चात्मनश्चैतन्यम्, तच्च कदाऽपि न निवर्तते; इति कथं तस्य विनाशप्रसङ्ग इति ।

११९सु०- यदुक्तम् आत्मा स्वप्रभ इति तदप्यसत्; स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः, रूपादिमत्वाच्च विनाशित्वापत्तेः, यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति ।

ननु सिद्धान्तेऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव, रूपादिमतोऽनित्यत्वमिति व्याप्तिश्च, रूपादिमत्त्वाच्च विपर्ययो दर्शनादि त्युक्तत्वात्, तत्कथमनित्यत्वपरिहारः इति ।

११९असु०- अत आह भौतिकं त्विति ।

अनु०- भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते

तु शब्दो विशेषार्थः । स एव भौतिकम् इति विवृतः । न रूपादिमात्रमिति एवार्थः । न च भौतिकं रूपादिकमात्मन्यस्ति, तस्मान्नानित्यताप्रसङ्ग इति भावः ।

११९आसु०- यथा भवदि्भरन्यथाभावो विशेष्यते । यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपोऽन्यथाभावोऽनित्यत्वव्याप्त इति, रूपादिमत्त्वं च भौतिकत्वेन; तथाऽस्मन्मतेऽपि विशेषणप्रक्षेपे नोक्तदोषः इत्यत आह नैवमिति ।

अनु०-नैवं तस्य

तस्य क्षपणकस्य मते नैवम् अन्यथाभावो रूपादिमत्त्वं च विशेष्यते, किन्तु सामान्यमेवानित्यत्वव्याप्ततयाऽङ्गीक्रियते; ततो नोक्तदोषपरिहार इत्यर्थः ।

तत्कथमित्यत आह अन्यथेति ।

अनु०- अन्यथाभावो यस्यानित्यत्वमीरितम् । रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥

भूभूधरादेः जगतो नाशित्वसिद्धये यस्यान्यथाभावः तस्य अनित्यत्वमीरितं क्षपणकेन । तथा शब्दः समुच्चये । रूपादियुक्तस्य अपि अनित्यत्वमीरितम् इति ।

यद्वा यत् रूपादियु(क्तं तत्त)क् तत् तथा अनित्यम् ईरितम् इति योजना । तस्य इत्यस्य यस्य इत्यनेनान्वयः ।

अन्यथा तु यच्छब्दश्रवणात् तच्छब्दाध्याहारः ।

पूर्ववाक्यात् तस्येत्यनुवर्तते वा ।

११९इसु०- एतच्चोपपादयिष्यते ।

१२०सु०- उक्तमुपसंहरति व्याप्त्येति ।

अनु०-व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत्

यदन्यथाभावि तदनित्यं , यच्च रूपादिमत्तदनित्यमि ति व्याप्त्या । अन्यथाभावात् इत्युपलक्षणम्, रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् ।

१२०असु०- स्यादेतत्; सम्प्रतिपन्नव्याप्तिकव्याप्यारोपे(ण) अनिष्टव्यापकारो(पः)पणं तर्कः, अत्र च न चेद्व्याप्तिः सम्मता, कथं तर्हि तर्कत्वम् ।

मैवम्, व्याप्यवद्व्याप्तेरपि पराभ्युपगतत्वेऽपि तर्कत्वाविरोधात् । एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः ।

वक्ष्यति चैतत् परन्यायैस्तु दूषणमि ति ।

१२१सु०- क्षपणकोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ इति ॥ तत्र अन्त्यावस्थितेश्चे त्येतावत् तावद्व्याख्याति नित्येति ।

अनु०-नित्योर्ध्वगतिरप्येेषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥

अपि शब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः । च शब्दः परिमाणपर्यायेण सह समुच्चये । या एषा नित्योर्ध्वगतिर्मुक्तिरिति जैनैः कथ्यते सा च कथम् आत्मनो विकृतिर्नो भवेत् । भवेदेव ।

तत्कथम्, अलोकाकाशमाप्तस्य । प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्याऽलोकाकाशमाप्नोति, तथा चान्यथाभावादात्मनोऽनित्यत्वापत्तिरिति भावः ।

अनेन अन्त्या (या) अवस्थितिः सन्ततोर्ध्वगतिलक्षणा, ततश्च आत्मनोऽनित्यत्वापत्तिरि ति सूत्रखण्डस्यार्थ उक्तो भवति ।

१२२सु०- नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम्, नापि मदीयः पक्षः; तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनोऽनित्यत्वप्रसञ्जनमि त्यतो जैनपक्षोऽयमि ति समर्थयितुं तावत्पृच्छति कदृशश्चेति ।

अनु०- कदृशश्चान्यथाभावो नाशहेतुतयेष्यते

क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम्; द्रव्याकारस्य कदाऽप्यनपायान्नित्यत्वम्, पर्यायोऽन्यथाभावः तस्मादनित्यत्वमि ति । तत्र वक्तव्यम् । कदृशोऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते, किं संस्थानादिलक्षणापगमरूपो वा, साधारणो वेति भावः ।

१२३सु०- आद्यं शङ्कते संस्थानेति ।

अनु०- संस्थानापगमश्चेत्

संस्थानग्रहणं लक्षणोपलक्षणम् । नाशहेतुतयेष्यत इति सम्बन्धः ।

प्रतिषेधति स नेति ।

स न हि भूसागरादिषु

वक्तुं शक्यत इति शेषः । कुतो नेत्यत आह स न हीति । यावल्लक्ष्यभाविलक्षणापगमलक्षणोऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु, न हि, इदानीं प्रमितः, ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः । प्रमितत्वे तु तस्यानित्यत्वेऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।

१२४सु०- तर्हि द्वितीयोऽस्त्विति शङ्कते यः कश्चिदिति ।

अनु०-यः कश्चिदन्यथाभावो यदि

पूर्ववदेव सम्बन्धः । अविवक्षितविशेष इत्यर्थः ।

एवं तर्हि मुक्तात्मनोऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाह मुक्तिश्चेति ।

अनु०-मुक्तिश्च तादृशी

तादृशी अन्यथाभावस्वरूपा ।

एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात्, अन्यथा हेतोरनैकान्त्यात् । तदिदमुक्तं सूत्रकृता उभयनित्यत्वादिति ।

अवयवोपचयापचयलक्षणोऽन्यथाभावोऽनित्यत्वे हेतुरिति चेत् (न), स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् । रूपादिमत्त्वं सविशेषणमुपादीयते चेत् को दोष इति चेन्न, परस्य वैयर्थ्यप्रसङ्गात्, न हि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति । आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव; यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव । रूपादिमतोऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः ।

१२५सु०- क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति देहेति ।

अनु०- देहमाने विकारः स्यादिति स्थास्नूननात्मनः । आह

देहमाने देहमानत्वे । प्रमिते( सती) ति शेषः । विकारः स्यात् स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः । इति स मा भूदित्येवमर्थम् । स्थास्नून् वृक्षादीन् । अनात्मनः आत्मानधिष्ठितान् । आह क्षपणकः ।

अत्र क्षपणकः स्थावराननात्मन आहे त्येतावत्येव वक्तव्ये यद् आत्मनो देहपरिमाणत्वस्य प्रमितत्वात्, वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तौ, अङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत तन्मा प्रसाङ्क्षीदित्येतद(प्रसञ्जीत्येवम)र्थमि ति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् । यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात्, तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात्; न हि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति, किन्त्वन्यथाभावमात्रमिति ।

यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।

१२६सु०- तदिदं विकारित्वापत्तिभयात् स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम्, तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकार्यत्वप्रसङ्गात् । तत्कथमित्यत आह हस्त्यादीति ।

अनु०- हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः

पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेषु अन्यथाभवः स्यात् हि तस्मात् इति ।

अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते । हस्त्यादिसर्वदेहेष्वपि आत्मनः अन्यथाभावः स्यात्; उत्पत्तिसमये देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात्, यौवने तूत्कृष्टपरिमाणत्वादिति ।

अनेन अविशेषादि ति सूत्रखण्डस्यार्थ उक्तो भवति ।

१२७सु०- ननु च विषमोऽयमुपन्यासः । अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः, वृक्षादौ तु महती; ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमि त्यत आह अणुदेहस्येति ।

अनु०- अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥

अणुदेहस्य पिपीलिकादिदेहस्य जीवस्य गजत्वे प्राप्ते, यद्वोत्पत्तिसमये अणुदेहस्य हस्तवितस्त्यादिपरिमितदेहस्य, महा गजत्वे प्राप्ते, देहव्याप्तौ (या) यावती विकृतिः, स्थास्नुतनौ च, नुः पुरुषस्य, या विकृतिः, तस्याः तस्याः च परस्परं को विशेषः । न कोऽपि ।

अयमर्थः । आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या, किंवा विकृतिमात्रम् । नाद्यः; महत्त्वस्यापरिनिष्ठितत्वात्, परिनिष्ठाकल्पनेे केषुचिद्वृक्षादिषु तदभावात्, तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् । द्वितीये तूभयोर्विकारित्वेनाविशेषात् वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् । हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति ।

एतेन अविशेषादि त्यस्यार्थान्तरमुक्तं वेदितव्यम् ।

१२८सु०- स्यादेतत् । न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे, किन्तु सात्मकत्वे प्रमाणाभावात्, बाधकप्रमाणसद्भावाच्च । वृक्षादीनां देहत्वे तद्व्यापकमिन्द्रियवत्त्वमपि स्यात्; न च तदस्ति, तत्कार्यस्य श्रवणादेरभावात्, सोऽपि तज्ज्ञापकस्याभावात् । ओहत्वे च न सात्मकत्वं शिलादिवदि त्यत आह गीतादिति ।

अनु०- गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥

गीतात् तावद्वृक्षस्यापि पुष्पफलावाप्तिः दृश्यते, तया श्रवणमनुमीयते विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदि ति; न चायं स्वभाव एव, राजादेरपि तत्प्रसङ्गात् । श्रवणेन च श्रोत्रसद्भावोऽनुमीयते । एवं शीतोष्णस्पर्शविशेषात् कार्श्यं दृश्यते; तेन सुकुमारशरीरवत् स्पर्शज्ञानमनुमीयते, तेन च त्वगिन्द्रियसत्त्वम् । तथोदकादिरसात्स्थितिरशुष्यतोऽवस्थानं दृश्यते; तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावोऽनुमीयते । एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलकवृक्षस्योपलभ्यते; तेन दर्शनकामौ, ततो नयनमनसी सिद्ध्यतः । धूपोपयोगेन चातिशयदर्शनाद् घ्राणसिद्धिः । इति प्रसिद्धशरीराविशेषात् स्थावराणामनात्मता न सिद्ध्येत् ।

केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमिमते । तदसत्, भस्मगुलिकादौ व्यभिचारात् ।

एतेन अविशेषादि त्येतत्प्रकारान्तरेण व्याख्यातं भवति ।

१२९सु०- वक्ति स्वप्रभमि त्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोति एवञ्चेति ।

अनु०-एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥

इति त्रिसूत्रीमिति शेषः । तत एव तदर्थमेव, उक्तस्यार्थस्य प्रतिपादनार्थमेव । एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्यानेऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति ॥

॥ इति नैकस्मिन्नधिकरणम् ॥

न्यायसुधा

॥ अथ पत्युरधिकरणम् ॥

ब्र०सू०- ॐ पत्युरसामञ्जस्यात् ॐ ॥

१३०सु०- इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते ।

ते चतुर्विधाः- शैवाः, पाशुपताः, कालामुखाः, महाव्रताश्चेति । तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति सर्वज्ञत्वादिकैरिति ।

अनु०- सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् । जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । आहुः पाशुपताः

पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते । ते, सदाशिवं जगद्विचित्ररचनाकर्तारम् आहुः । ततो जन्माद्यस्य यतः इत्युक्तमसदिति ।

अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तं दोषवर्जितमिति ।

सार्वज्ञाद्यभावेऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तम् इत्युक्तम् ।

यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमि ति प्रधानलक्षणविरुद्धार्थोपन्यासः, जगद्विचित्ररचनाकर्तारमि ति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिः, इत्यवगन्तव्यम् ।

१३१सु०- तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाह तच्चेति ।

अनु०- तच्च बहुश्रुतिविरोधतः । नोपादेयं मतं हि

च शब्दः पूर्वतनैः (मतैः) सह समुच्चयार्थः । हि शब्दो हेतौ । तत् पशुपतेः सर्वजगत्कारणत्वादिकं, मतं नोपादेयम् । कुतः । पत्युः पशुपतेः । असामञ्जस्यात् दोषित्वात् । तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना ।

कास्ताः श्रुतय इत्यतस्ता उदाहरति अस्येति ।

अनु०-अस्य देवस्य स्तुहि गर्तगम् । उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् । यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया । धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः । घ्नंच्छिश्नदेवानेकोऽसावासीन्नारायणः परः । तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् । यज्ञेन यज्ञमयजन्ताबध्नन्पुरुषं पशुम् । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥

अनेन अस्य देवस्य मीळ्ळुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावदि ति श्रुतिमुपादत्ते ।

स्तुहि गर्तगमि त्यनेन स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृला जरित्रे रुद्र स्तवानोऽन्यं ते आस्मन्निवपन्तु सेनाः इति (ऋ. २३३११) ।

उत्पिपेषे त्यनेन रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेषे ति ।

गृणीष इत्यनेन कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे इति (ऋ. २३३१२) ।

पदमि त्यनेन तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनामि ति (ऋ. ५३३) ।

हन्तुमि त्यनेन अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ इति (ऋ. १०१२५६) ।

यं कामये इत्यनेन यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामि ति (ऋ. १०१२५५) ।

मे त्यनेन मा शिश्नदेवा अपि गुर्ऋतं न इति ।

घ्नन् इत्यनेन घ्नंच्छिश्नदेव अभिवर्पसाऽभूदि ति ।

एकोसावि त्यनेन एको नारायण आसीन्न ब्रह्मा न च शङ्कर इति ।

तस्मादि त्यनेन स रुष्टः स प्रसन्नो यद्रुष्टो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूतामि ति ।

वैष्णवमि त्यनेन तेषां मखं वैष्णवं यश आर्छदि ति ।

यज्ञेनेति , अबध्नन्निति, यो भूतानामिति प्रसिद्धम् ।

कथमेताभिः श्रुतिभिः पशुपतेर्निर्दोषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह इत्यादीति ।

अनु०- इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः । पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः । प्रतीयन्ते

अभवः अभावः । प्रतीयन्ते पशुपतेरिति शेषः ।

१३२सु०- अस्य देवस्ये त्यनेन पराधीनापदप्राप्तिः प्रतीयते । मीळ्ळुषः सेचकस्य, एषस्य इच्छारूपस्य, अस्य विष्णोर्देवस्य, प्रभृथे प्रभरणे पूजायामिति यावत्, हविर्भिः कृते सति, वया बन्धको रुद्रो, रुद्रियं महित्वं रौद्रं पदं, विदे विविदे लेभे, हि यथा तथा, हे अश्विनौ युवामपि, इरावत् अन्नवत्, वर्ति वर्तनं, यासिष्टं अयासिष्ट प्राप्तवन्तौ स्थ इति ।

स्तुही त्यनेन स्तावकतया पारतन्त्र्यम् । हे रुद्र, त्वं, श्रुतं प्रसिद्धं, गर्तसदं हृदयगुहानिवासं, युवानं, मृगं न भीमं सिंहमिव भीषणम्, उग्रम् उग्राणां दैत्यानाम्, उपहत्नुम् उपहन्तारं, नृहरिं, स्तुहि स्तौषि । स एवं स्तवानः स्तुवंस्त्वं, जरित्रे स्तोत्रे, त्वां स्तुवन्तं माम् । मृल मृडय सुखय । ते सेनाश्चास्मदन्यमेव निवपन्तु घ्नन्त्विति ।

रुद्रस्ये त्यनेनाज्ञत्वं पारतन्त्र्यं मृतिश्च । आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां (वम्रिरू)कामरूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निः उत्पिपेष चिच्छेदेति ।

कुमार इत्यनेनापि पारतन्त्र्यं जनिश्च । हे रुद्र, कुमारः पुत्रो भवान्, जगद्व्यामोहनाय कैलासमुपयन्तं, त्वां वन्दमानं पितरं कृष्णं प्रति, ननाम । तेन स्तुतस्त्वं, भूरेः पुरुषार्थस्य, दातारं, सत्पतिं, गृणीषे स्तौषि स्तुतवानसि । एवम्भूतः त्वम् अस्माभिः स्तुतः , अस्मे अस्मभ्यं, भेषजा भेषजानि, संसारव्याधिनिरसनानि ज्ञानानि, रासि ददासि देहीति ।

तव श्रिय इत्यनेन पराधीनपदप्राप्तिर्जनिः पारतन्त्र्यं च । हे रुद्र यत् येभ्यः ते जनिम जन्माभूत्, ते मरुतो ब्रह्माणोऽतीतवर्तमानाः, तव श्रिये सम्पदे, चारु सुन्दरं, चित्रम् आश्चर्यं, उपमं उप समीपे मा लक्ष्मीर्यस्य संवहनकर्त्री तत्तथोक्तम्, यत्, विष्णोः पदं, मर्जयन्तः शोधितवन्तः क्षालितवन्तः । तत्, त्वया हृदि, निधायि न्यधायि । तेन कारणेन, त्वं, गोनां गवां (वाचां) मध्ये, गुह्यं नाम नारायणादिकं, पासि जपोपदेशादिना पालयसीति ।

अहमि त्यनेन मृतिः । अहं, ब्रह्मद्विषे ब्रह्मद्विषां दैत्यानां, शरवे हिंसकाय हिंसकं, रुद्राय रुद्रं, हन्त वै हन्तुमेव, प्रलये, धनुः, आतनोमि विस्तारयामीति ।

यमि त्यनेन पराधीनपदप्राप्तिः । अहं यं यं रुद्रं कर्तुं कामये, तं तम्, उग्रं रुद्रं, कृणोमि करोमि, एवं, तं ब्रह्माणं तमृषिं तं सुमेधां सुमेधसं, करोमीति ।

मे त्यनेन अज्ञत्वम् । अतीतानागतवर्तमाना गुह्याभिमानिनो देवा रुद्रा अपि नः अस्माकमुपास्यम् ऋतं ज्ञानरूपं ब्रह्म, मा गुः न ज्ञातवन्त इति ।

घ्नन्नित्यनेन मृतिः । गुह्याभिमानिदेवान् घ्नन् ईश्वरो वर्पसा बलेन सर्वम् अभ्यभूत् अभिभूतवानिति ।

एक इत्यनेन प्रलयेऽभावो जनिश्च ।

तस्मात् इत्यनेन जनिः । परमेश्वररोषजो रुद्र इत्यर्थः । सम्प्रसादो ब्रह्मा ।

तेषामि त्यादिवाक्यैः पारतन्त्र्यम् । तेषां देवानां, यशो, वैष्णवं मखं विष्णुमखे पशुत्वेन नियुक्तं रुद्रम् आर्छत् प्राप्तवदिति ।

देवा यज्ञेन रुद्रेण पशुना यज्ञं विष्णुम् अयजन्त इति ।

देवाः पुरुषं रुद्रं पशुमबध्नन् इति ।

यो भूतानामधिपती रुद्रः स विष्णोराज्ञारूपायां तन्त्यां चरति वृषा प्रसिद्धतन्त्यामिवेति ।

१३३सु०- एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वाचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यष्टीकातश्चावगन्तव्यम् । अत एव सामर्थ्यात् इत्युक्तम् ।

१३४सु०- सूत्रार्थमुपसंहरति सदोषत्वादिति ।

अनु०- सदोषत्वान्नेशः पशुपतिस्ततः

ततः श्रुतिबलेन सदोषत्वात् पशुपतिः ईश ः जगत्कर्ता न भवति, दोषि(णो)यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति ।

१३५सु०- युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् ॐ सम्बन्धानुपपत्तेश्च ॐ इति । तस्यार्थमाह अशरीरत्वत इति ।

अनु०-अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् । कर्तृत्वेन न युज्येत

तस्य शिवस्य । अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात् कथमेतदित्यतः सम्बन्धमेव व्याख्याति, क्वचित् कार्ये, कर्तृत्वेन इति कार्यकर्तृत्वलक्षणः सम्बन्धो न युज्यत इत्यर्थः । क्वचित् इत्यनेन कुतः सर्वकर्तृत्वमिति सूचयति ।

अयमत्र प्रयोगः । शिवो न कर्ताऽशरीरत्वात् सुप्तप्रलीनवदिति ।

ननु शिवः सिद्धो न वा । न द्वितीयः, आश्रयासिद्धेः । आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः ।

किञ्च भवन्मते(ऽपि) शिवस्य कर्तृत्वं शरीरित्वं चाङ्गीक्रियत एव, तथा चापसिद्धान्तान्यतरासिद्धी स्यातामिति । उच्यते । इदमत्राकूतम् । पशुपतेर्जगत्कारणत्वं वदन् प्रष्टव्यः, किं पाशुपतादिशास्त्राण्यनुमानानि (चा)वाऽऽश्रित्येदमुच्यते, उत श्रुत्यादिकम् । आद्ये त्वतिप्रसङ्गोऽयमुच्यते, यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात्, तथा च कर्तृत्वानुपपत्तिरि ति, अत एव न युज्येतेति लिङ्प्रयोगः । द्वितीये तु वक्ष्यत इति । एवञ्च न कश्चिद्दोषः; शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्ध्यभावात्, परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद्धर्मिग्राहकविरोधाद्यभावात् ।

एतेन पाशुपतादिविरोधात् श्रुतयोऽन्यथा योज्या इति निरस्तम् ।

१३६सु०- ननु अशरीरस्यापि कर्तृत्वे बाधकाभावाद्व्याप्तिविधुरोऽयं प्रसङ्गः, कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमि त्यत आह देहिन इति ।

अनु०-देहिनो ज्ञानदृष्टितः

सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वं न शरीरित्वमिति । तच्च न प्रयत्नेन विना सम्भवति, न चेच्छामन्तरेण प्रयत्नः, न च ज्ञानाद्विनेच्छा, न च शरीरादृते ज्ञानम्, देहिनामेव जाग्रतां ज्ञानदर्शनात्, ओहिनां सुप्तप्रलीनानां चादर्शनात् । ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद्व्यावर्तमानं तदपि व्यावर्तयतीति ।

१३७सु०- ननु ज्ञानजन्मन्येव शरीरस्योपयोगः, ज्ञानस्येन्द्रियजन्यत्वात्, इन्द्रियाणां च शरीरसंयोगनियमात्; नित्यज्ञानश्च भगवान् शिव इति किं तस्य शरीरेणेति । एवं तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छाऽपि न स्यात्, तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात् ।

अथ न प्रयत्नमात्रं कर्तृत्वम्, अपि तर्हि ज्ञानेच्छे अपि । परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत्, तथाऽपीच्छात्यागे बाधकाभावात् । कुतश्चैवं कल्पनीयम् । कुलालादौ तथा दर्शनादिति चेत्; किं तत्र शरीरं न दृष्टम् । दृष्टमप्यनुपयुक्तमिति चेत्; किन्नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद्वा । नाद्यः, व्यभिचाराभावात् । शरीरप्रेरणेऽपरं शरीरं नास्तीति चेन्न, तेनैव सशरीरत्वात् । न द्वितीयः, निरस्तत्वात्; अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः ।

कुतश्चास्य नित्यज्ञानत्वसिद्धिः । आगमादिति चेन्न, परस्पराश्रयप्रसङ्गात्; सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिः, तत्सिद्धौ चागमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति ।

१३८सु०- उक्तदोषपरिहारमाशङ्क्य तन्निरासाय सूत्रम् ॐ करणवच्चेन्न भोगादिभ्यः ॐ इति । तन्नेत्यन्तं तावद्व्याचष्टे न चेति ।

अनु०- न च देहादिवद्विश्वमस्य स्यात्

यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति, तदसत् । कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं शरीरमपेक्षन्ते । अस्य तु विश्वं कार(क)चक्रमेव, देहवत्स्यात् साक्षात्प्रयत्नाधिष्ठेयं स्यात्, ततः किमपरेण शरीरेण । अत एव भगवान्विश्वमूर्तिरिति गीयते । न चादिसृष्टेः प्राक् कारकाभावः, मायादेरनादेर्विद्यमानत्वात्, अन्यथा सृष्ट्यनुपपत्तेरिति । आदि पदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः । तदिदं नोपपद्यत इत्यर्थः ।

१३९सु०- कुतो नेत्यतः सौत्रहेतुं व्याख्याति भोगेति ।

अनु०- भोगसम्भवात्

यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात् तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात्, साक्षात्प्रयत्नाधिष्ठेयेऽस्मदादिशरीरे तथा दर्शनात् । कर्मार्जितस्यैव तथात्वमिति चेन्न, साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेः । भोगादिमतश्च नेश्वरत्वम् । अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति ।

१४०सु०- हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् ॐ अधिष्ठानानुपपत्तेश्च ॐ इति सूत्रं व्याचष्टे अधिष्ठान इति ।

अनु०- अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन्प्रतीयते

यः कर्ता कुलालादिः स पृथिव्यादौ अधिष्ठाने स्थित एव घटादि कार्यं कुर्वन् प्रतीयते, न तु निरधिष्ठानः कश्चित्किञ्चित्कुर्वाणः । अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति । ततः किमित्यत आह नास्येति ।

अनु०- नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा

अस्य शिवस्य । तदा आदिसृष्टिसमये । कुतो नास्ति । प्रागुत्पन्नानां पृथिव्यादीनां महा भूतानां प्रलये सति । तस्मात्कर्तृत्वमपि तस्य नोपपद्यत इति शेषः ॥ ननु कारकाणामेव अधिष्ठानत्वं भविष्यति; मैवम्, साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात् ।

नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात्कुलालादिव अकर्तुः सपक्षाद्घटादेरपि व्यावृत्तत्वादसाधारणः; मैवम्, गगनादौ सपक्षे वृत्तेः ।

नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम् । सम्बन्धानुपपत्त्यधिष्ठानानानुपपत्त्योरुभयोरपि परिहारः करणवच्चेदित्यनेन निरस्यत इति ज्ञापनार्थम् । यदि खलु यथाक्रममेव व्याख्यायेत तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत, व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति । अत एव भाष्येऽधिष्ठानादिरूपमित्युक्तमत्र तु देहादिवदिति ।

१४१सु०- ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वात् । शरीरं हि गुरुत्वात् प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते, अनवस्थितशरीरस्य कर्तृत्वायोगात् । ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानेन । इहेदं जातमित्यादिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आह ओहश्चेदिति ।

अनु०- ओहश्चेदसर्वज्ञः शिलाकाष्ठादिवत्सदा

सदा इत्यनेन व्याप्तिमुपपादयति, अत एव शिलाकाष्ठादिवत् इत्यनेकदृष्टान्तोपादानम् । तथा च कुतः सार्वज्ञम्, कुतश्च सर्वकर्तृत्वमिति भावः ।

स्यादेतत् न सर्वथा सदाशिवः अशरीरः, किन्तु लीलया शरीराण्यपि गृह्णाति, ततो नायं दोषः; न च भोगादिप्राप्तिः, लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादि त्यत आह देही चेदिति ।

अनु०- देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥

अन्तवान् मरणवान् स्यात् । उपलक्षणं चैतत्, दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम् ।

नन्वसौ विग्रहो न तद्धेतुरित्युक्तम् । मैवम्, शरीरं, न भोगायतनं चे त्यस्य व्याहतत्वात्, शरीरत्वेनैव तदनुमानाच्च । तदिदमाह एवेति ।

एतेन अन्तवत्त्वमसर्वज्ञता वे ति सूत्रं व्याख्यातं भवति ।

पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम् ।

१४२सु०- ननु एवं शिवस्य जगत्कारणत्वमपाकुर्वतां कोऽभिप्रायः; किमकर्तृकमेवेदं विश्वमिति, किंवा विष्णुकर्तृकमिति । नाद्यः; कार्यस्याकर्तृकत्वे विरोधात्, अपसिद्धान्तप्रसक्तेश्च ।

न द्वितीयः, विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन (स्व)व्याहतत्वात् । तथा हि यदुक्तमसामञ्जस्यं शिवस्य तत्तावद्विष्णावपि समम्, जनितोत विष्णोः इत्यादौ जन्मादिदोषश्रवणात् । सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवे त्यत आह न चेति ।

अनु०-न चैतदखिलं विष्णौ

एतदखिलं दोषजातं, विष्णौ अपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम् । कुतः, श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात् ।

१४३सु०- ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव, ततः को विशेष इत्यत आह श्रुतीति ।

अनु०- श्रुतिप्रामाण्यगौरवात्

पाशुपतादितोऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात् ।

एतदुक्तं भवति । पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत, निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरि त्यन्योन्याश्रयतया दुरवधारणप्रामाण्यम् । अन्यतः शिवस्यैवंविधतासिद्धावलमनेन । न चान्यत्तादृशं प्रमाणमस्ति, अनुमानानां दूषितत्वात् । न चैवं श्रुतिप्रामाण्यम्; अपौरुषेयत्वेन करणदोषाणां, बाधकप्रत्ययस्य चाभावे सति, तस्य निष्कम्पमेव स्वतो निश्चितत्वात् । अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्ध्यत्येवेति ।

१४४सु०- कास्ताः श्रुतय इत्यतस्ता उदाहरति मन इति ।

अनु०- मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः । स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता । देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत् । एको नारायण आसीन्न ब्रह्मा न च शङ्करः । अजस्य नाभावध्येकमर्पितं मात्रया परः । सद्देहस्सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः । आनन्द एक एवाग्र आसीन्नारायणः प्रभुः । प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः । आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् । मनसोऽस्याभवद्ब्रह्मा ल्लाटादपि शङ्करः । पक्षयोर्गरुडः शेषो मुखादासीत्सरस्वती । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥

अनेन बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवानि ति श्रुतिमुपादत्ते ।

य एवे त्यनेन यदात्मको भगवांस्तदात्मिका व्यक्तिः, किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मक इति ।

ऊर्जिता बलवती, सर्वत्राप्रतिबद्धा । एतदात्मको भगवांस्ततस्तस्य देहोऽप्येतदात्मक इति श्रुतिलब्धोऽर्थः ।

न ते विष्णवि त्यनेन न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमापे ति ।

वासुदेव इत्यनेन वासुदेवो वा इदमग्र आसीदि ति ।

कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाह इत्यादीति ।

अनु०-इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः । विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥

नित्यश्चासौ गुणात्मा चेति तथोक्तः, तस्मात् ।

तत्र बुद्धी ति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते । अङ्गं देहः, प्रत्यङ्गानि हस्तादीनि, लक्षयामहे ज्ञापयामः । कथं, बुद्धिमानित्यादि ।

यदात्मको भगवान् इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वम् । व्यक्तिः देहः ।

न ते विष्णो इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वमनादिनित्यत्वम् । जातादिभिरप्राप्यमहित्वस्यान्यथाऽनुपपत्तेः ।

वासुदेव इति श्रुतिद्वयेनानादिनित्यदेहत्वम् ।

अजस्य इत्यनया देहवत्त्वं तस्याप्यजत्वम् ।

परो मात्रया इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम् ।

सद्देह इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम् । सद्देहः जन्मादिदोषरहितदेहः । सुखगन्धः सुगन्धः । ज्ञानभाः न तु तैजसभाः । ज्ञानज्ञान इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः ।

प्रियादिशब्दाः सुखविशेषवाचिनः । अन्यत् प्राकृतादिकम् ।

मनस इत्यादिश्रुतिद्वयेन देहवत्त्वं ततो जगतो जन्म च । ब्राह्मणोऽस्ये त्यादिवाक्यशेषात् । पक्षयोः पार्श्वयोः ।

अत्र कासुचिच्छतिषु विवक्षितार्थो न स्फुटं प्रतीयते, किन्तूपपत्तिसाध्य इत्याशयवतोक्तं बलादिति । आविरासीत् इत्यनेन सत्कार्यवादं सूचयति । ईयते ज्ञायते ।

अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिद्ध्यत्येव; न हि दोषेषु सत्सु तत्सम्भवति, तथाऽपि दोषाभावोऽपि श्रौतोऽस्ति किमुपपत्तिगवेषणयेत्याशयेन सोऽपि दर्शितः । तत्र देहवत्त्वेन देहाभावप्रयुक्तानि दूषणानि प्र(त्)युक्तानि, तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारोऽपि सिद्धः । जनितोतेत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथाव्याख्येयम् । तदिदमुक्तं सन्दर्भबलादिति ।

१४५सु०- स्यादेतत् देहो ज्ञानानन्दादिगुणात्माऽनादिनित्यश्चेत्येतच्छशो विषाणवानितिवद्विरुद्धम्, यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात्; ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमि त्यतो देहस्याभौतिकत्वादिना विरोधं तावदपाकरोति मानवत्त्वादिति ।

अनु०- मानवत्त्वाद्विरोधः को

क इत्याक्षेपे । नास्ति विरोध इत्यर्थः । इदानीं शशविषाणप्रतिबन्दीं मोचयति नेति ।

अनु०-नामानं क्वचिदिष्यते

अङ्गीकुर्मः शशविषाणमपि यदि परमेश्वरविग्रहस्यानन्दाद्यात्मकत्वमिव प्रामाणिकं, स्यात् । न चैवम् । न ह्यप्रामाणिकं केनापि कदाऽपि क्वचिदप्येष्टुं शक्यत इति ।

ननु प्रामाणिकत्वेऽपि विरोधाभावः कथमित्यत आह अविरोध इति ।

अनु०- अविरोधो विरोधश्च मानेनैव हि गम्यते

ययोः क्वचित्सहदर्शनं तयोरविरोधः, ययोस्तु नियमेन व्यधिकरणतयैव दर्शनं तयोः विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन (हि) वस्तूनामविरोधविरोधाववगन्तव्यौ, तन्नियामकस्यान्यस्याभावात् । अतः प्रमाणेन सह दृष्टेऽर्थे विरोधः कथं स्याद्व्याघातादिति ।

उपसंहरति अत इति ।

अनु०- अत उक्तं समस्तं च वासुदेवस्य युज्यते

प्रमाणैः सह दृष्टेऽर्थे विरोधस्यानाशङ्कनीयत्वात् । उक्तम् उदाहृताभिः श्रुतिभिः । समस्तं चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम् । एतच्चारूपवदेवेत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽऽचार्येणात्रोक्तमिति ज्ञातव्यम् ।

१४६सु०- ननु एतदस्माकमपि समानम् । तथा हि । यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावं तथाऽपि ज्ञात्वा शिवं शान्तिमत्यन्तमेति , एको रुद्रो न द्वितीयाय तस्थे , स इमान् लोकानीशत ईशनीभिः इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते, शिवादिनामोपेतत्वात्; न च तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयोऽन्यथा योज्याः । अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति, तद्घटकं वा किमपि कल्पयिष्यती त्यत आह शिवादीति ।

अनु०- शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः

भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः, न चैवम्, किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव ।

नन्वेतत्कुतः, एवं सत्यस्माभिरपि वक्तुं शक्यत एव एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति; मैवम्, शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् । नारायणादिनाम्नां शिवे शक्त्यभावात् । अत्रापि किं मानमित्यत आह नामानीति ।

अनु०- नामानि सर्वाणि च यमेको यो देवनामधाः । विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् । न नारायणनामानि तदन्येष्वपरे हरौ । इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥

अनेन नामानि विश्वाभि न सन्ति लोक इत्यादिकां श्रुतिमुपादत्ते ।

एक इत्यनेन यो देवानां नामधा एक एवे ति । नामानि धत्त इति नामधाः ।

नान्यस्य वाचकानि । न तदन्येषु वर्तन्ते । अपरे शिवादिशब्दाः ।

उक्तः समन्वयश्च तत्र मानम् इति सम्बन्धः ।

समन्वयग्रहणेनैतदपि परिहृतम्, एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामी ति, उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति ।

१४७सु०- मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति । न च तान्यपि विष्णुपराणि, उपक्रमादिबलेन शिवविषयतया निश्चितत्वादि त्यत आह पुराणानीति ।

अनु०-पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा

पुराणाद्यैः वैष्णवैः । विरुद्धत्वात् प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात्, तदुत्तरं बाधितत्वाच्च । तत् तत्र, शिवस्य जगत्कारणत्वे ।

१४८सु०- न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम्, किन्तु शैवप्रमाण(पुराण)विरुद्धत्वादपी त्याह तदिति ।

अनु०- तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः

तद्विरुद्धेषु शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु, नो मानं शैवपुराणमिति शेषः । कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आह पूर्वेति । एतच्चान्यत्र दर्शितम् ।

किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमतेऽर्थे न मानमित्याह समेति ।

अनु०- समब्राह्मविरोधाच्च

इदमप्यन्यत्र दर्शितम् ।

एवं तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात्, तेषामपि शैवब्राह्मपुराणविरुद्धत्वात् पूर्वापरविरोधाच्चे त्यत आह नियमादिति ।

अनु०- नियमाद्वैष्णवेष्वपि

एकप्रकारत्वात् । पूर्वापरविरोधाभावात् । शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादिति अपेरर्थः । तेषां नाप्रामाण्यमिति शेषः ।

ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकं विष्णुना तदीयस्तुत्यादिकरणं च प्रतीयत एव, तत्कथं नियम उच्यत इत्यत आह मोहार्थमिति ।

अनु०- मोहार्थमुक्तितश्चैव

शिवादीनां जगत्कारणत्वादेरयोग्यजनव्या मोहनार्थं एव उक्तितः, च शब्दाद्विष्णाुना शिवस्तुत्यादेः मोहार्थं कृतस्यानुवादतश्च नियमो न विरुद्ध इति ।

कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामर्थ्यमित्यत आह मोहार्थमिति । शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात् । चशब्देन वैष्णवानां तत्त्वज्ञानार्थमेव कृतत्वात् । अत्र चार्थेऽन्यत्र प्रमाणान्युक्तानि ।

१४९सु०- अधिकरणार्थमुपसंहरति विष्णुरिति ।

अनु०- विष्णुरेको गुणार्णवः

तस्मादिति सिद्धमिति शेषः ।

ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतोऽत्र न निराक्रियन्त इत्यत आह स्कन्देति ।

अनु०- स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।

निराकृतानि

अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः । अतो न निराक्रियन्त इति शेषः ।

कथमनेन न्यायेन तन्निराकरणमित्यत आह अशेषेणेति ।

अनु०- अशेषेण सिद्धान्तस्याविशेषतः ॥

कार्त्स्न्येन तदीयसिद्धान्तानां पाशुपत सिद्धान्तस्य च अविशेषतः । केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः, प्रक्रिया तु सर्वत्र समानैव; अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः ॥

॥ इति पत्त्युरधिकरणम् ॥ ॥

न्यायसुधा

॥ अथ उत्पत्त्य(शक्त्य)धिकरणम् ॥

ब्र०सू०- ॐ उत्पत्त्यसम्भवात् ॐ ॥

१५०सु०- शाक्तं मतमत्रापाक्रियते ।

न निराकर्तव्यमेवैतत्, स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् । यथा हि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वाऽसामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्य(ते )मेव; अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात् ।

अथोच्येत शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात् तत्सिद्धान्ताविशेषो नास्तीति, तन्न सौरादिमतेष्वपि तस्य विद्यमानत्वात् । अथ किं तेन; देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान एवेति ब्रूषे, तच्छाक्तेऽपि समानम्; इत्यतो नैतदपि पृथगपाकरणीयमित्यत आह निराकृताविति ।

अनु०- निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते

सत्यम्, स्कान्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः । अत एवोक्तदोषग्रासविषयत्वमपि; तथाऽपि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात् तद्विवक्षया शक्तिमतं पृथग्भङ्ग्या दूष्यते सूत्रकारेण ।

उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् । एतच्च वक्ष्याम इति ।

१५१सु०- एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यति महतीति ।

अनु०- महती देवी ह्रीङ्कारी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साऽभिधीयते ॥

शक्तिमतमिति वर्तते । सर्वस्यागामिना इतिशब्देन सम्बन्धः । देवी महती सर्वोत्कृष्टेति शक्तिमतमिति ।

कथं महतीत्यत उक्तं सर्वकारणमिति । सकलजगत्सृष्ट्यादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति ।

ननु इदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् । भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते, त्रिपुरातन्त्रे तु त्रिपुरैव, तथा भैरवीतन्त्रे भैरवी, एवं कुब्जिकादितन्त्रेष्वन्या चान्या च । न च बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तं ह्रीङ्कारी, त्रिपुरा, भैरवीत्यादिनामभिः सा भगवत्येकैव अभिधीयते । अतो न (नान्योन्य)व्याघात इति ।

शाक्ताश्च त्रिविधाः । महावामा मध्यवामा अणुवामाश्चेति । एत एव क्वचिच्छाक्तशाम्भवाणवशब्दैरुच्यन्ते ।

१५१असु०- तत्राद्यानां मतविशेषं दर्शयति तस्या इति ।

अनु०-तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ।

भूतभौतिकमप्येतदिति

तस्याः केवलाया एव शक्तेः । सदाशिव ग्रहणेन मतान्तराद्भेदो दर्शितः, तत्र सदाशिवस्य शाक्तितो जन्मानभ्युपगमात् ।

एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह तदिति ।

अनु०- तन्नोपपद्यते

निरन्तरोपन्यस्तं महावाममतं तत् इति परामृशति ।

१५२सु०- कुत इत्याकाङ्क्षायां सूत्रम् उत्पत्त्यसम्भवादि ति । तद्व्याख्यातुं तावद्व्याप्तिमुपपादयति दृष्टेति ।

अनु०- दृष्टा पुंभ्यः सदा सृष्टिः स्त्रीपुंभ्यो वा विशेषतः । केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । नार्च्यं महावाममतं

अत्र सृष्टि शब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम्, तस्य केवलाभ्योऽपि स्त्रीभ्यो दर्शनात् । सदा इति व्यभिचाराभावं सूचयति । वा शब्दस्तुशब्दार्थः । विशेषतः प्राचुर्येण ।

केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा ।

ननु अचतुरा दिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम्, स्त्रीपुंभ्य इति कथम् । समासान्तो विधिरनित्य इति भविष्यति । यद्वा द्वन्द्वात्परः समासान्तोऽसौ निपातितः । अत्र तु स्त्रीभिः पुमांसः (स्त्रीपुमांसः) तेभ्य इति न द्वन्द्व इति न भविष्यति ।

केवलाभ्यः पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः ।

ततः किमित्यतः सूत्रं व्याख्याति तत इति । यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला, शिवादीनां ततो जन्माङ्गीकारात् । ततः कारणात्, ततः शक्तेरपत्यो त्पत्त्यसम्भवात् इत्यर्थः ।

१५३सु०- अयमत्र प्रयोगः । आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात्; याऽपत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका, यथा सम्प्रतिपन्ना । सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा, न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा; येनोक्तव्याप्तेर्व्यभिचारः स्यादिति ।

यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् । अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टे त्यादि तद्व्यभिचारपरिहारार्थमिति ज्ञातव्यम् ।

यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात् तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमोऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टे त्याद्युक्तम् । असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुंभ्य इत्युक्तम्, केवलाभ्य इति तु व्याप्त्युपपादकम् ।

अथवा यत् निराकृतौ विशेषस्य भावादि त्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टे त्याद्युपन्यासः ।

१५४सु०- इदानीमधिकाशङ्कया मतान्तरमुत्थापयति वामैरिति ।

अनु०- वामैरन्यदुदीर्यते

मध्यवामैरित्यर्थः । अन्यत् महावामसिद्धान्तात् ।

किं तदित्यत आह शिवेति ।

अनु०- शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । इति

शिव उपसर्जनं यस्याः सा शिवोपसर्जना । इदं इत्यस्यैव व्याख्यानं समन्ततः देशे काले च वर्तमानं कार्यमिति ।

एतदुक्तं भवति । नोत्पत्त्यसम्भवोऽस्मन्मतेऽस्ति, अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् । न चैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते, शिवस्य शक्तिं प्रत्युपसर्जनत्वाङ्गीकारादिति ।

एतत्प्रतिषेधति तच्चेति ।

तच्चोपपन्नं न

अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।

१५५सु०- तत्कथमित्यत्र सूत्रम् ॐ न च कर्तुः करणम् ॐ इति । तद्व्याचष्टे शिवस्येति ।

अनु०- शिवस्याकरणत्वतः । ओहत्वात्

अकरणत्वत इत्यस्यैव स्वपदस्य वर्णनम् ओहत्वात् इति । यद्वा अकरणत्वतः ज्ञानादिकरणाभावादित्यर्थः । तदेव कथमित्यतः अकरणत्वतः निरिन्द्रियत्वादित्युक्तम् । तदपि कुत इत्यत उक्तम् ओहत्वादिति ।

एतदुक्तं भवति । देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम्, न विदेहेन; तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः । न च शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति, प्रागुक्तदोषात्; अन्यथाऽत्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च । न च शिवसहितायाः, विदेहस्य साहाय्यकरणानुपपत्तेः । अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति ।

१५६सु०- मतान्तरमुत्थापयति अपि हीति ।

अनु०- अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । अणुवामा

अन्येऽपि इत्यन्वयः । तानेव विशेषनाम्नाऽऽह अणुवामा इति । अस्य मतस्य लोके प्रचुरतां सूचयितुं हि शब्दः । सर्वज्ञं इत्युपलक्षणं जगत्सृष्ट्याद्युपयुक्तसकलकरणोपेतम् । इदमुक्तं भवति शिवसहिता शक्तिर्जगज्जननीत्यभ्युपगच्छतो मम नोक्तदोषः, शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात्, लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरि ति । तदिदं दूषयति न तदिति ।

अनु०- न तद्युक्तम्

१५७ सु०- कुत इत्यत्र सूत्रम् ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ इति । तस्यार्थः । शिवस्य विज्ञानादिभावे अङ्गीकृते तस्य प्रतिषेधो न क्रियत इति ।

नन्विदं मतमनुमतं न वा । नाद्यः, उक्तार्थविरुद्धत्वात्, न तद्युक्तमि त्यस्य चायोगात् । द्वितीये कथं तदप्रतिषेध इत्युक्तम् । कथं च न तद्युक्तमि त्यत्रास्य हेतुत्वमित्यतः तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह ईशेति ।

अनु०- ईशवादप्रवेशनात्

शैवमतप्रवेशापत्तेरित्यर्थः ।

१५८सु०- ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति, शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान् सिद्धान्तभेदः; तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषोऽयमित्याशयवानाह सार्वज्ञादीति ।

अनु०- सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । न युज्यते

सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति, तत्तु न युज्यते, कल्पनागौरवात् । तथा हि । न तावत् सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम्, परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात्; नाप्यागमेन, शाक्तागमस्य प्रामाण्यसन्देहात्, अपौरुषेयागमस्य परेण प्रामाण्यानादरणात्, आदरणे वा तत एव स्वमतहानेः । ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् । एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव, तथा च वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव । अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति ।

ततः किमित्यत आह तत इति ।

अनु०-ततस्त्वीश एक एव प्रयोजकः

उक्तहेतोरेकस्यैव सार्वज्ञादिमतोऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गात् ईश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात् । एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति ।

१५९सु०- किमतो यद्येवम् । शाक्तस्यापसिद्धान्तेन पराजयः स्यादि ति चेत्सत्यम्, तावताऽपि भवत्सिद्धान्तानवक्लृप्तिरेव । शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकर्तव्यत्वादित्यतः तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति उक्तेति ।

अनु०- उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते

यतः शैवपक्षो निरन्तरातीताधिकरण एव उक्तदोषः अतः अत्र न पुनः दूष्यते पुनरुक्तिदोषभयादिति ।

१६०सु०- एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् ॐ विप्रतिषेधाच्च ॐ इति । तद्व्याचष्टे श्रुतीति ।

अनु०- श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्

सतां मध्ये जुगुप्सितत्वात् गोप्तुमिष्टत्वात् । यद्वा कर्तृकर्मणोः कृती ति कर्तरि षष्ठी, सदि्भर्निन्दितत्वादित्यर्थः । हि शब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति ।

१६१सु०- केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते । तथा हि । पाञ्चरात्रिकाः वासुदेवात् सङ्कर्षणो नाम जीवो जायते, सङ्कर्षणात् प्रद्युम्नसंज्ञकं मनो जायते, प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इति प्रक्रियामाहुः ॥

तत्र सूत्रम् उत्पत्त्यसम्भवादिति । वासुदेवात् सङ्कर्षणो नाम जीवो जायते इति तावदयुक्तम्, जीवस्य उत्पत्त्यसम्भवात् । उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन्, ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्; न जायते (न) म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ॥

न च कर्तुः करणम् । सङ्कर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकस्य मनसो जन्म अपि पञ्चरात्रोक्तं नोपपद्यते । न हि लोके कर्तुः देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं करणं दृश्यते । यदा चोत्पद्यते तदा कर्मैव न करणम् । जीवश्च कर्ता मनश्च करणम् । ततस्तन्न ततो जनिमद्भवितुमर्हति । एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चे तीश्वरादेव मनोजननश्रवणाच्च । एतेन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यपि प्रत्युक्तम् ॥ अथापि स्यात् । नैवैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते, किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । तस्मान्नायं दोष इति ॥

अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः । परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादि षाड्गुण्यसद् भावे तत एव चेश्वरत्वेऽभ्युपगम्यमानेऽपि तस्यो त्पत्त्यसम्भवदोषस्य अप्रतिषेधः प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः । तथा हि । न तावदेते चत्वारः परस्परं भिन्नाः, अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः । अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत्, निरतिशयत्वात् । न चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन्, तद्व्यूहानामनन्तत्वाभ्युपगमात् ॥

विप्रतिषेधाच्च । परस्परविरोधश्च पञ्चरात्रे भवति; ज्ञानैश्वर्यबलवीर्यशक्तितेजांसि भगवतो गुणा इति क्वचिदुच्यते, आत्मान एवैते भग(वतो)वन्तो वासुदे(वा इ)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यादि ॥

वेदप्रतिषेधश्चात्र भवति; भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन् यः सर्वपरो धर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् । तथा चान्यत्र

अधीता भगवन् वेदाः साङ्गोपाङ्गाः सविस्तराः ।

श्रुतानि च मयाऽङ्गानि वाको वाक्ययुतानि च ।

न चैतेषु समस्तेषु संशयेन विना क्वचित् ।

श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यती ति ।

तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।

तामिमामपव्याख्यां प्रत्याख्याति पञ्चरात्रेति ।

अनु०-पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि । सूत्राण्यतिविरुद्धं तत्

आचक्षते व्याचक्षते । यदित्यस्यार्थे यदि शब्दः । तद्व्याख्यानमति (अति) शयेन विरुद्धं स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः ।

तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति यत इति ।

अनु०- यत आह स भारते

यस्मात्सूत्रकार एव पञ्चरात्रस्य प्रामाण्यम् आह । तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।

१६२सु०- तद्भारतवचनमुदारहरति पञ्चरात्रस्येति ।

अनु०- पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते । इति

साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यतामि ति ज्ञानकरणत्वाज्ज्ञानशब्दवाच्यानि साङ्ख्यादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति प्रश्नस्य साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणे ति परिहारोऽभिहितः । ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्यायोगादेतेषु किं प्रमाणमिति जिज्ञासायां, साङ्ख्यस्य वक्ता कपिल इत्यादिना साङ्ख्यादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्ततमेन नारायणेन प्रणीतत्वात् प्रामाण्यमित्यनेन वाक्येनोच्यते । वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् । फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति पञ्चरात्रविद इत्यनेन वाक्येनोच्यते । यथाक्रमपरा देवतातारतम्यपराः । एकान्तभावोपगताः अव्यभिचारिणीं भक्तिं प्राप्ताः ।

प्रकारान्तरेण स्वव्याहतिमाह गीता चेति ।

गीता च तच्छास्त्रसङ्क्षेप इति हीरितम्

तच्छास्त्रसङ्क्षेपः पञ्चरात्रसङ्क्षेप इति हीरितम् ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात्पाण्डवेषु तत् । तेषामेवावतारेषु सेनामध्येऽर्जुनाय च । प्रादाद्गीतेति (वि)निर्दिष्टं (विज्ञातं) (विख्यातं) सङ्क्षेपेणायुयुत्सवे (ते) इत्यादिना पुराणवाक्येनेति शेषः । ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति ।

स्वव्याहतिं प्रकारान्तरेण दर्शयति वेदेनेति ।

अनु०- वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि । इति वाराहवचनं

एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति ।

१६३सु०- एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति श्लोका इति ।

अनु०-श्लोका इति वचः श्रुतौ

वचः अस्तीति शेषः । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानी त्यस्यां श्रुतौ ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे श्लोका इति पञ्चरात्रमुपात्तम् ।

पञ्चरात्रविदो मुख्या इति प्रकृतपञ्चरात्रविषयत्वेन ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः । कृतं शतसहस्रं हि श्लोकानां हितमुत्तममि ति श्लोकशब्दस्य भारते प्रयोगात् ।

छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयोऽशेषो(ऽवगम्यते) ज्ञायते । अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः ।

स्पष्टश्रुतिविरोधं च दर्शयति वेदैश्चेति ।

अनु०- वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः

वेदपञ्चरात्रोक्तप्रकारेणेत्यर्थः । संहिताभेदात् पञ्चरात्रैः इति बहुवचनम् । परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तं पञ्चरात्रं चेति ।

अनु०- पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।

इत्यादिवेदवचनैः

इत्यादिवेदवचनैश्च पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः ।

ततः किमित्यत आह पञ्चरात्रमिति ।

अनु०- पञ्चरात्रमपोद्यते । कथमेव

यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च, अतोऽत्र सूत्रकारेण पञ्चरात्रं अपोद्यत े दूष्यत इति कथमे(वं)व वक्तुं शक्यते । न हि व्याहतभाषी भगवानिति ।

१६४सु०- स्यान्मतम् । नास्त्ययं व्याघातः, योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्य व्यवस्थितः । तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादनेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इत्यादेः पञ्चरात्रोदितस्यार्थस्य स्वीकृतत्वात्, तत्परतयैव भारतादिवाक्यानामुपपत्तेरिति । मैवम् । एवं सति साङ्ख्यादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः, कृत्स्नस्ये ति विशेषणानुपपत्तेश्च, ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् । वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलमि त्यखिलशब्दविरोधाच्चेति ।

१६५सु०- इतश्च न पञ्चरात्रदूषणं युक्तमित्याह अत्रेति ।

अनु०- अत्र दोषः कः

अत्र पञ्चरात्रे को दोषो येन तन्निराक्रियेत, न कोऽपीत्यर्थः ।

ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतोऽङ्गीकारवादेनाह उत्पत्तिरिति ।

अनु०- उत्पत्तिर्ज्ञोऽत इत्यपि । इहैवोक्ता

किं जीवोत्पत्त्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते उताभूतभवनरूपजीवोत्पत्त्यभिधानम् । आद्ये तूत्पत्तिमात्रं इहैव , प्रमाणतयाऽभ्युपगते मीमांसाशास्त्रे, ज्ञोऽत एव इति सूत्रेणोक्तम् । अपि पदेन सर्व एव (वै) त आत्मानो व्युच्चरन्ती ति श्रुतौ उक्ता इति समुच्चिनोति । ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात्, अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः । ज्ञोऽत एवे ति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहर्तव्या ॥

स्यादेतत् । द्वितीय एव हेतुरुपादीयते । न चासौ श्रुतिसूत्रयोर्वर्तते । तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते । न त्वभूतभावलक्षणेत्यत आह न चेति ।

अनु०- न चाभूतभावस्तत्रापि कथ्यते

तत्रापि पञ्चरात्रेऽपि । यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम्, ततश्च स्वरूपासिद्धो हेतुरिति भावः ।

१६६सु०- ननु विषमोऽयमुपन्यासः । श्रुतिसूत्रयोः खलु अनादिमायया सुप्तः , नानादित्वादि त्यादिनाऽनादिकर्म(कर्मादि)सम्बन्धोऽभिधीयते, न ह्यभूत्वा(भवतो)भाववतो जीवस्यासावुपपद्यते, अतस्तदनुरोधात् तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव । न च तथाविधं बाधकमिहास्ति, येन मुख्यार्थं परित्यज्यामुख्यार्थं प्रतिपद्येमहि । ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह अनादीति ।

अनु०- अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥

तद्वचः पञ्चरात्रवाक्यम् । श्रुतिसूत्रवत् पञ्चरात्रेऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात् तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव, । पक्षपाते कारणाभावात् । तथा च हेतोरसिद्धिस्तदवस्थेत्यर्थः ।

१६७सु०- अथापि स्यात् । न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम्, अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् । एतदपि समानमत्रेति भावेनाह न हीति ।

अनु०- न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित्

अनेनैव न्यायेन न च कर्तुः करणमि त्येतदप्यपाकरणीयम् इति । तथा हि । किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति । नाद्यः, व्यभिचारात्, अन्यथा करणानामनुत्पत्तिप्रसङ्गात् । न द्वितीयः, प्रकृतेऽपि तथाभावासिद्धेः । एतस्माज्जायत इति श्रुतिविरोधोऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् उत जननविशेषाभ्युपगमे । नाद्यः, अन्नमशितं त्रेधा विधीयत इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः । न द्वितीयः, तथात्वस्य प्रकृतेऽप्यसम्मतेः । एवं मनसोऽप्यहङ्कारजन्मनि दोषः परिहरणीयः ।

१६८सु०- एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारोऽ(वि)भिहितः । इदानीं वासुदेवात् सङ्कर्षणो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह जीवेति ।

अनु०- जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनोभिमानिनः कामस्यैवं

जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं जीवाभिमानी त्युक्तम् । सङ्कर्षणस्य भगवतो जनेरभावात् तद्व्युदासाय नाम्ना सङ्कर्षणस्य शेषस्ये त्युक्तम् । प्रोक्ता वासुदेवादित्यादिना वाक्येन । ततः सङ्कर्षणात् । तथा शब्दः समुच्चये । जनिः प्रोक्तेत्यर्थः । मनोभिमानिनः कामस्ये त्यस्य पूर्ववदेव प्रयोजनम् । एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति । प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति ।

१६९सु०- नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः, शेषादीनामपि जीवत्वादिति । मैवम् । न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते, किन्तु जायत इति जनिरुच्यते । जनिश्च प्रादुर्भावः, जनी प्रादुर्भाव इति पठन्ति । प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः । तदिदमुक्तं जनिः प्रोक्तेति । अत एव पूर्वोऽभ्युपगमवादः ।

अर्थान्तरमप्याह साक्षादिति ।

अनु०- साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तो

शेषादयोऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यन्ते । तद्व्युदासाय साक्षात् इत्युक्तम् । साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त इत्यन्वयः । नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं व्यूहो विभाग एव उक्तः न तूत्पत्तिरिति । यदप्युक्तं किमेतेऽन्योन्यं भिन्ना उत नेति, तस्योत्तरं हरेः एकस्य एव इति । नन्वेवं तर्हि निरतिशयत्वात् कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तं नित्येति । किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः ।

यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्ख्यायामेव परिनिष्ठिताः अनन्तत्वादिति । तत्रोत्तरं क्वचिदिति । कालविशेषे प्रयोजनविशेषे चेत्यर्थः ।

अनभिज्ञो भ(ग)वान् भागवतसम्प्रदायस्य । आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव, ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः, सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते; तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति ।

एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव, यथोक्तम् एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिरि ति ।

अनु०- अन्यथाऽनूद्य कथं दुष्टत्वमुच्यते

एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा अनुवादं विधाय दूषणाभिधानं कथं क्रियते, छलप्रसङ्गादिति । न च जीवादिशब्दानामनुपपत्तिः, भगवत एव मुख्यतः प्राणधारणादिमतस्तदर्थत्वात् । यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातोऽस्ति पञ्चरात्र इति तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम्, भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति । समर्थितश्च भेदपदेऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः ।

१७१सु०- यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति । तत् निराकरोति यदीति ।

अनु०- यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।

पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्याद्विचक्षण इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते तथाऽत्रापि पञ्चरात्राद्वेदपूरणम् एवाभिप्रेतं इति व्याख्याने सति, शाण्डिल्यवर्तने अभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति कुतः न प्रतीयत इत्यर्थः । यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो द्वेषः कुतो येन यदि विद्यादि त्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय भगवान् शाण्डिल्य इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति ।

अयमत्रोत्तरक्रमः । यद्येतद्वाक्यबलात् पञ्चरात्रस्य वेदविरोधित्वं कल्प्यते । तदा यदि विद्यादि ति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात् (मविशेषात्) । अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः, अत्रापि स एव कल्प्यतां विशेषाभावात् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि त्युत्तरवा(क्यविरो)क्यानुरोधात् तथा कल्पनं युक्तमिति चेत्, अत्रापि वेदार्थपूरकं ज्ञेयं पञ्चरात्रमि त्यादिवाक्यानुरोधात् तथा कल्पनमिति न कश्चिद्विशेषः । अन्यत्र विद्वेषादिति (?) परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् ।

१७२सु०- अपव्याख्याननिराकरणमुपसंहरति अतः परमेति ।

अनु०- अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥

वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः । तर्हि कस्मादुदितमित्यत उक्तं परमेति । परमशास्त्रं पञ्चरात्रम् । द्वेष एव किं निबन्धन इत्यत उक्तं आसुरैरिति । भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषोऽसुराणाम्, न तु दोषदर्शननिमित्तः । एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः । आसुरैः एव उक्तं न तु सूत्रकारेण इत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।

१७३सु०- एतेनैतदपि प्रत्युक्तम्, यत्केचिदिदमधिकरणं साङ्ख्यादिवत् पञ्चरात्रस्याप्यप्रामाण्यमाशङ्क्य तन्निरासार्थमिति वर्णयन्ति । तथा हि । उक्तरीत्या उत्पत्त्यसम्भवात् , न च कर्तुः करणम् इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा विज्ञानादिभावे वा तदप्रतिषेध इति सिद्धान्तितम् ।

वाशब्दात् पक्षो विपरिवर्तते । विज्ञानं चादि चेति परंब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्ध्यते ।

विप्रतिषेधाच्च । प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे । यथोक्तं परमसंहितायाम् । अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते । प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चित इति (इति) ।

पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः सार्थकः स्यात् । न च व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते । न हि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति । अतिप्रसङ्गात् ॥

प्रकरणाननुगुणं चैतत् । परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् । कृतं च तत् न विलक्षणत्वात् इत्यादिना ॥

सूत्राक्षराननुरूपं चैतद्व्याख्यानम् । न ह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् । तदप्रतिषेध इति च व्यर्थम्, न प्राज्ञत्वादित्येव वक्तव्यम् । लघु चैवं सूत्रं व्यक्तं च स्यात् ॥ तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।

मात्रये त्यनेन परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति इति ।

१७४सु०- पादार्थमुपसंहरति अतोऽशेषेति ।

अनु०- अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥

साङ्ख्यादिविरोधिसमयानां निरस्तत्वात्, प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।

१७५सु०- स्यादेतत् । न निगृह्य कथां कुर्यादि त्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव, तत्कुतः साङ्ख्यादिनिराकरणं कृतमिति चेन्न, अस्य निषेधस्य सद्विषयत्वात् । कुतः सङ्कोच(?) इति चेत्, श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् । श्रुतौ च परनिराकरणस्य कर्तव्यतया अवगतत्वादित्याशयवान्

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति मन्त्रद्वयमर्थतोऽनुवदति अन्धमिति ।

अनु०- अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवायान्ति एतस्या नैव निन्दकाः । ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतां विद्ययाऽमृतमश्नुते ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥

अविद्याम् अविद्याकल्पितमविद्यमानार्थम् । आयान्ति तमः । इव शब्दः किञ्चिदर्थः । उ शब्दोऽवधारणार्थः । ये केवलं विद्यायामेव रताः इत्युक्त्या लब्धस्यार्थस्य कथनम् एतस्या नैव निन्दका इति , अन्यथा विद्ययाऽमृतमश्नुत इत्यनेन विरोधः स्यात् । ततः अविद्यानिराकरणाभावे दोषसद्भावात् । सह इति समुच्चयनियमं द्योतयति । दोषज्ञानादतीत्यैताम् इत्यनेन अविद्यया दुष्टत्वेन ज्ञातया मृत्युं तामेवाविद्यां तत्कार्यं दुःखादिकं चातीत्य तीर्त्वा इत्यर्थो ज्ञायते ।

यद्यपि तत्त्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति यावत्परपक्षप्रमाणं न निराक्रियते, सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात्; अतस्तत्त्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरासोऽपि विधेय एवे त्युपपत्तिसिद्धोऽयमर्थः, तथाऽप्यागमावष्टम्भेन प्रत्यवतिष्ठमानस्तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम् ॥

इति श्रीमत्पूर्णाप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽयं समयचरणः पर्यवसितः ॥

॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥