Anuvyakhyana/Vyakhya/Nyayasudha/C4P1
न्यायसुधा — अध्यायः 4, पादः 1
अथ चतुर्थाध्यायः
अथ चतुर्थाध्यायस्य प्रथमः पादः
१सु०- यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः ।
नन्दन्त सततं मुक्ताः संश्रये तं श्रियः पतिम् ।।
फलं निगद्यतेऽस्मन्नध्याय इति भाष्यम् । फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह समन्वयेति ।
अनु०- समन्वयाविरोधाभ्यां सिे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः ।
नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।
चिन्त्यते प्रथमं तत्र
समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फल-प्रतिपादनस्यावसरप्राप्तिः । जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् । अतो मोक्षलक्षणं फलमत्राध्याये निगद्यते इति वाक्यशेषः ।
पादचतुष्टयप्रतिपाद्यं सङ्गतिं च लाघवाय एकत्रैव वक्ष्यति । ततश्च फलविषये अस्मन् अध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति । तस्यापवादमाह विशेषत इति । तत्र (अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चत्सूत्रैः, साधनमेव चिन्त्यते । कथम् । विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति । कुतः । यतो मोक्षसिावत्यन्तमवश्यम्भावि ।
इदमुक्तं भवति । तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमा-दरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते । तथाऽनुष्ठान एव मोक्षस्य भावादन्यथाऽभावात् । एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवाऽत्रेदमुच्यते । तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्तया फलान्तरङ्गत्वम् । अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति ।
ब्र०सू०- ॐ आवृत्तिरसकृदुपदेशात् ॐ ।।
२सु०-अधिकरणोत्थानकारणं दर्शयति श्रवणादीति ।
अनु०- श्रवणादिसकृत्क्रया ।
आवृत्तिर्वेति सन्देहे
प्रथमं तत्रेति वर्तते । श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनार्थं श्रवणादिकं विधीयते । तस्य श्रवणादेर्ज्योतिष्टोमादिवत् सकृत्क्रया वा व्रीह्यवघातादिवत् आवृत्तिर्वेति सन्देहे सति । उपलक्षणमेतत् । सकृत्क्रया इति पूर्वपक्षे च सतीत्यपि ग्राह्यम् । इदमधि-करणमारभ्यत इति शेषः । पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् । सूत्रं व्याख्याति कर्तव्येति ।
कर्तव्याऽऽवृत्तिरेव हि ।
उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ।।
श्रवणादीनामिति वर्तते । हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसित्वं द्योतयति । यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशोऽनर्थकः स्यात् । तेन ज्ञायते कर्तव्या श्रवणा-वृत्तिरिति ।
३सु०- अनेन श्रवणावृत्तेः कर्तव्यता सिा । त्रयाणामप्यावृत्तिं साधयङ्गिाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति लिङ्गादित्यादिना ।
ब्र०सू०-ॐ लिङ्गाच्च ॐ ।।
अनु०- लिङ्ग•तव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ।
सार्धं परार्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।
तत्त्रभागमुपासां च चक्रे सम्भृतमानसः ।।
लातव्यः आदातव्यः शिष्यैरुपासितव्यः । तस्मात् । ब्रह्मत्वत इति षष्ठीबहुवचनान्तात् तसिः । ब्रह्मत्वानां शतात्पूर्वम् इति ऋजोर्विशेषणम् । यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् । सार्धं परार्धमित्यन्तसंयोगे द्वितीया । तत्त्रभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् । उपासां मनननिदिध्यासनरूपाम् । सम्भृतमानसः इति उपासितव्य एवार्थे धृतचित्तः ।
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात् सुमनसः सुनन्दो नाम चाृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।
अृण्वतां सुमनसो मन्वन्तरमुपासताम् ।
ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतप आदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्त्वसंज्ञिते ।।
दश मन्वतराणि यस्मन् काले स तथोक्तः । गरुत्मतः पदयोग्यादिति । गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः । सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ । अृण्वतां अृणुताम् । व्यत्ययो बहुलमिति द्विविकरणता । सुमनस एव । मन्वन्तरं मन्वन्तरावच्छन्नं कालम् । उपासताम् उपासाताम् । छान्दसो वर्णविकारः ।
नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते । न पुनरावृत्तिः । श्रुतस्यैव वाक्यस्य पुनः श्रवणामित्यादिरूपा हि सेति । मैवम् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनःपुनस्तेनान्येन वा अवगतिः श्रवणावृत्तिः । एवमेकया युक्तयाऽनुसंहितस्य भूयो भूयः तयाऽन्यया वाऽनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् ।
नन्वेवं चेत् सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् । सत्यम् । तस्यैवात्यन्तावश्य-कत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव । एवमुत्तरत्रापि द्रष्टव्यम् ।। ४ ।। १ । १ ।।
।। इति आवृत्त्यधिकरणम् ।।
।। अथ आत्मोपगमाधिकरणम् ।।
सु०-
ब्र०सू०- ॐ आत्मेति तूपगच्छन्त ग्राहयन्त च ॐ ।।
३असु०-एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह आत्मेति ।
अनु०- आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।
यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम् । मुख्ये च सम्भव-त्यमुख्यं न युज्यते । तस्मादत्र सूत्रेऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्य-माणेनान्वयः ।
४सु०- किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह आत्मेति ।
अनु०-आत्मा ब्रह्म महास्तारः परमेशः शुचिश्रवाः ।
विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।
इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः ।।
इति नामभिः । पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह । चशब्दः श्रुत्यन्तरसमुच्च-यार्थः । श्रुतिरेव न तु मानुषप्रणीतमभिधानमिति एवशब्दः । तेन क्षेत्रज्ञ आत्मा पुरुष इत्यादि-विरोधो नाशङ्कनीयः । ओमात्मेति परमश्रुतिः ।
ओमात्मा भगवान्वष्णुरात्मानन्दोऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान् ।
इति भागवते चैव तस्मादात्मा जनार्दनः ।।
आत्मानन्देति समस्तमेकं नाम । अनसूयेति भागवते च आत्मशब्दस्य भगवत्येव प्रयोगोऽस्त । तथैवेति तत्र प्रकृतेन समुच्चयार्थम् । जज्ञे जनयामास । अन्तर्णीत(णिजर्थोऽत्र)-ण्यर्थो वा अत्र जनिः । आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् । सह भवन्तीति
सम्भवाः । अत्र दत्तदूर्वाससौ विष्णुशिवावेव । सोमो ब्रह्मणा सहभूतः । तर्मोऽन्ययोरप्युप-चारादुच्यते । छत्रिण इति यथा ।
५सु०- अस्त्वात्मशब्दो विष्णुपरस्तथाऽपि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति ।
अनु०- तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ।
यस्मादात्मशब्दो विष्णुपरस्तस्मात् । अयं प्रतिज्ञार्थः । आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च ।
हेत्वंशं व्याचष्टे तथैवेति ।
तथैवोपासते सन्तस्तथैवोपदिशन्त च ।
अनेनात्म(त्मेति)शब्दस्याऽऽवृत्तिः तुशब्दश्चावधारणार्थ इत्युक्तं भवति । सतामेवो-पासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिौ । उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च ।
तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् ।
६सु०- नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति । ततश्च किमनेन कृतं स्यात् ।
न ह्यविष्णुत्वेनोपास्तरत्र प्रसक्तेत्यत आह आदानेति ।
अनु०-आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।
अयं सूत्रगत आत्मशब्दः पतिं च वदेत् । कथम् । आदानार्थत्वत आदानकर्तृत्वार्थ-त्वात् । आङ्पूर्वात् दाञः आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचन-
त्वात् । तथा चोक्तं यच्चाप्नोति यदादत्त इत्यादि । पतिर्हि स्वीयतया भृत्यानादत्ते ।
७सु०- ततः किमित्यतः सूत्रार्थं विवृणोति स्वामीति ।
अनु०- स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ।
अत्र सूत्रे द्वावात्मशब्दौ । एकोऽनुवादार्थो द्वितीयो विध्यर्थः । आत्मात्मेत्युपास इति द्वावपि विष्णुविषयौ । तत्राद्योऽविवक्षितावयवार्थः संज्ञात्वेन वर्तते । द्वितीयो विवक्षिता-वयवार्थः स्वामिनं वदति । तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवती-त्यर्थः । अञ्जसा परमादरेण । नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् । सत्यम् । सर्वथो-पास्यत्वस्य ज्ञापनाय पुनर्वचनम् । तदिदमुक्तं नित्यदैवाञ्जसेति ।
८सु०-अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह स्वामीति ।
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ।
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।।
विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणाविशेष्यभावेन एव । न तु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः । कथञ्चन आधि-व्याधिसत्त्वेऽपि । परम् उपरितनम् । मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति सर्वस्येति ।।
।। इति आत्मोपगमाधिकरणम् ।।
।। अथ प्रतीकाधिकरणम् ।।
ब्र०सू०- ॐ न प्रतीके न हि सः ॐ ।।
९सु०- मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते । तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् । प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव । अतोऽन्यथा प्रतिज्ञां व्याख्याति प्रतीकेति ।
अनु०-प्रतीकविषयत्वेन न कार्या विष्णुभावना ।
इत्थम्भूतलक्षणे तृतीया । इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः । न हि स इति हेतुं व्याचष्टे प्रतीकमिति ।
प्रतीकं नैव विष्णुर्यत्
यत् यस्मात्, प्रतीकं ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुः नैव तस्मादिति पूर्वेणान्वयः । नन्वसङ्गतोऽयं हेतुः । प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह मिथ्येति ।
मिथ्योपासा ह्यनर्थदा ।
न हि स विष्णुः प्रतीकम् । अतस्तयोरभेदभावना मिथ्योपासना । सा चानर्थस्यैव हेतुः । अतो न कर्तव्येत्येवं हेतुहेतुमावः सूत्रकृतोऽभिप्रेतो न पुनः साक्षात् नासङ्गतिः ।
१०सु०- मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे योऽन्यथेत्यादिना भगवान्प्रभुरित्यन्तेन ।
अनु०- योऽन्यथासन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ।।
योऽन्यथासन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ।।
योऽन्यथैव स्थतं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्महारिणा ।।
अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् । आत्मनां जीवानाम् ईशम् । अन्यथा प्रतीकत्वादिना । प्रतिपद्यते जानाति ध्यायति च । चोरत्वस्यैव विवरणं आत्मापहारिणेति । अभेदे खल्वेकावशेषः स्यात् । तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् । प्रतीक-प्रविलयेऽप्यैश्वर्यापलापात् परमात्मापहारित्वमेव । आत्मानं परमात्मानम् ।
एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि । प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मानमिति वाक्यं पठितम् ।
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्य््यायेद्यः केशवस्त्वति ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ।।
योऽन्यदिति त्रीण्युभयार्थे ।
योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।
अन्धेतमसि मज्जेत् स यत्र नैवोत्थतिः क्वचित् ।।
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
अन्यथाध्यानदोषेण सोऽन्धेतमसि मज्जति ।।
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थतिः क्वचित् ।।
यत्र पतितस्य । अन्यथाध्यानमेव दोषः अन्यथाध्यानदोषः ।।
यत्कञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि ।
यत्कञ्चिदन्यथासंस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ।।
यत्कञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ।।
यत्कञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ।।
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ।।
तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ।।
यत्कञ्चित् गङ्गोदकादिकम् अन्यथासंस्थं पवित्र• सत् अन्यथा अपवित्रं ध्यातं ध्यातुः अञ्जसा महादोषकरं किमु सर्वेश्वरो हरिः प्रकृष्टतया ध्यातः । तेन अनर्थप्रसङ्गेन ।
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद्यस्मान्मथ्याज्ञानमनर्थदम् ।
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।।
इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थदं प्रतीयते यस्मात् तस्मात् विष्णोः प्रतीकता न ध्येया इति परम्परया हेतुहेतुमावम् अभिप्रेत्य भगवान् सूत्रकारो न हि स इति हेतुम् आह । अतो नासङ्गतिरित्यर्थः । वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात् बलत इत्युक्तम् । ध्यानस्यापि ज्ञानविशेषत्वात् सङ्कीर्णोक्तिः ।
११सु०- एवं तर्हि मनो ब्रह्मेत्यादि श्रुतीनां कोऽर्थ इत्यत आह प्रतीकेति ।
अनु०- प्रतीकसंस्थतत्वेन ध्येयो विष्णुर्न चान्यथा ।।
व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेन अधि-करणार्थतया श्रुतयो व्याख्येया इति भावः ।। ४-१-३ ।।
।। इति प्रतीकाधिकरणम् ।।
।। अथ ब्रह्मदृष्ट्यधिकरणम् ।।
सु०-
ब्र०सू०- ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ।।
१२सु०-अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते । कुत्रेत्याकाङ्क्षायां सन्निधानात् प्रतीक इति प्राप्नोति । तच्च योग्यताविरहान्निराकृतम् । अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति ब्रह्मेति चेति ।
अनु०- ब्रह्मेति च सदा ध्येयो भगवान्वष्णुरञ्जसा ।
अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयाऽन्वयः । आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः । अर्थवशाद्विभक्तिविपरिणामः । अतः सप्तम्यन्तोऽत्र अनुवर्तत इति सूचितम् । भगवान्वष्णुः ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः । नन्वेतत् भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः सदाऽञ्जसा इत्युक्तम् । उत्कर्षादिति हेतुः । तत्र न ज्ञायते कस्योत्कर्ष इति । अतो व्याचष्टे उत्कृष्ट इति ।
उत्कृष्टो ब्रह्मशब्दार्थः
यत इति वक्ष्यमाणमिहापि सम्बध्यते । उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वा-दिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् । अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्म-शब्दाभिधेय इत्यभिहितम् । फलतस्त्वेक एवार्थः । कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आह पूर्णत्वमिति ।
पूर्णत्वं ब्रह्मता यतः ।।
व््यृर्थात् बृहतेरन्येभ्योऽपि दृश्यन्ते इति मनिन्प्रत्ययः दृशिग्रहणसामथ्यर्•तोरमा-गमश्च । वृःि पूर्णत्वमित्येक एवार्थः । ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् । पूर्णत्वमेव चोत्कर्षः । हेतुहेतुमावश्च भाष्य एव समर्थितः ।
१३सु०- ब्रह्मत्वस्य सर्वथा ध्येयत्वे किं प्रमाणमित्यत आह आधिव्याधीति ।
अनु०- आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम् ।।
आधिव्याधीति द्वन्द्वैकवावः । तच्च तन्निमित्तं च, तेन । कृत्यानां कर्तरि वेति षष्ठी । चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति ।। ४-१-४ ।।
।। इति ब्रह्मदृष्ट्यधिकरणम् ।।
।। अथ आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ।।
१४सु०- आत्मेति तूपगच्छन्त ग्राहयन्त च, न प्रतीके न हि सः, ब्रह्मदृष्टिरुत्कर्षात् इति त्रिसूत्रीमेकेऽन्यथा व्याचक्षते ।
तथा हि । परमात्मा किमहमिति ग्रहीतव्यः । किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् । कुतः । अपहतपाप्मत्वादिगुणो हि परमात्मा । तद्विपरीतगुणश्च शारीरः । अतः कथं तयो-रभेदो भवेत् । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरत्वेऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षादिविरोधश्च । एवं प्राप्ते ब्रूमः । आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि । परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्त । त्वं वाऽहमस्म भगवो देवते अहं वै त्वमसि देवते इति । तथाऽन्येऽपि अहं ब्रह्मास्मीत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्त चात्मत्वेनैवेश्वरं वेदवाक्यानि । एष त आत्मा सर्वान्तरः, तत्त्वमसीत्यादीनि । अथ योऽन्यां देवतामुपास्त इत्यादिका श्रुतिरपवदति च भेददर्शनम् । यत्तूक्तं विरुगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् । विरुगुणताया मिथ्यात्वात् ।
न चेश्वराभावप्रसङ्गः । न हीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् ।
न चाधिकार्यभावः प्रत्यक्षादिविरोधश्च । प्राक् प्रबोधात् संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । प्रबोधे तु प्रत्यक्षाद्यभाव एव । तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति
चेत् । इष्टमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः ।
१४असु०- मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । न हि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्व-मात्मग्रहो वा । किञ्च यथा रुचकस्वस्तकयोर्नेतरेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीके-ष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः ।।
१५सु०- तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्म-दृष्टिरादित्यादिष्वति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्य अभावात् । अथवाऽऽदित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्त । तथा च लौकिको न्यायोऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृदृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वाय ब्रह्मोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात् फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्वव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति ।
१६सु०- तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति ।
अनु०- नात्मेतिसूत्रमीशस्य जीवत्वप्रतिपादकम् ।
अत्र प्रतिपत्तिर्नाम प्रमितिरेव परस्याभिमता । प्रतीकदर्शनमित्याशङ्क्य निराकरणात् । अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः ।
१७सु०- कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति आत्मशब्दमिति ।
अनु०-आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ।।
स्वशब्दात् एव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयत्
यतः तस्मात् आत्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना ।
१८सु०- एतदुक्तं भवति । भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् । न चैवम् । सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् । तथा हि । यस्मन्द्यौरिति वाक्य-मुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिान्ततम् । द्युभ्वाद्यायतनं स्वशब्दादिति । स्वशब्दात् तमेवैकं जानथ आत्मानमिति द्युभ्वाद्यायतने आत्मशब्दश्रवणात् द्युभ्याद्यायतनं परमात्मैवेति । ततो नानुमानमतच्छब्दात् इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् प्राणभृच्चेति । तत्र चशब्दो नेत्यस्य स्वशब्दा-दिति हेतोश्चानुकर्षणार्थः । ततश्चात्मशब्दाज्जीवोऽपि नेत्यर्थः । यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान् सूत्रकारः, तदन्यथाऽनुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभि-प्रेतमिति । तथा च कथं स्वाचरितविरुमिदानीमाचरेदिति ।
१९सु०- एतदेव विशदयति यदीति ।
अनु०-यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ।।
जीवेऽपि वर्तत इति सूत्रकृतोऽभिप्रेतमिति शेषः । तर्हि कथं सूत्रकारो जीवम् आत्म-शब्देन विनिवारयेत् । न हि गन्धवत्त्वेन घटो निवारयितुं शक्यते । अथवा यद्यात्मशब्दो जीवेऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् । प्रत्युत प्रतिपादयेदिति योजना ।
२०सु०- आगमवाक्यमप्यत्र पठति आत्मेति ।
अनु०- आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्त यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ।।
अन्यान्न वदन्त कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता । यत्कञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति । आत्मशब्दोऽप्याङ्पूर्वात्तनोतेर्मनिन्-प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः । यद्यस्मादेवं वचोऽस्त तस्मादपीति पूर्वेणैव अन्वयः ।
२१सु०- इदानीं वाक्यार्थं दूषयति यदीति ।
अनु०- यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ।।
मन्यते (अत्र) तत्र सूत्रे तदा तस्मात् जीवादात्मशब्दं कथं निवारयति । कुत्र निवा-रितवानित्यत उक्तम् युक्तित इति ।
जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् ।
इदमुक्तं भवति । आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवा-रणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते । नायं पुरुषो विषाणित्वादिति यथा । न हि तत्रस्थेन तन्निरासो युज्यते । नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् । प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता । अन्यथा तेन तत्साधनानुपपत्तेः । तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् । तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति । न च व्याहतं सूत्रकारो भाषत इति
युक्तम् । तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति ।
उपलक्षणं चैतत् । द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् ।
२२सु०- सूत्रान्तरविरोधं चाह भेदस्येति ।
अनु०- भेदस्य व्यपदेशं च स्थतिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ।।
यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्येत तर्हि कथं स एव भेदव्यपदेशादिति भेदस्य व्यपदेशं च स्थत्यदनाभ्यां चेति स्थतिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह । भेदस्य प्रागपि प्रतिपादितत्वात् दार्ढ्य इत्युक्तम् । अत्राप्यनेकप्रमाणोपन्यासात् सतात्पर्य-मिति ।
२३सु०- न कोऽप्ययं विरोधोऽस्त । परमार्थतो जीवेशयोरेकत्वेऽपि हि व्यावहारिक-भेदोऽस्त तदपेक्षया तानि सूत्राणि । इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते व्यावहारिकेति ।
अनु०- व्यावहारिकभेदश्चेत्
अत्र व्यावहारिकशब्देन भ्रान्तसिोऽभिप्रेयते । प्राक् प्रबोधादित्युक्तानुवादत्वात् । जीवेश्वरभेदो भ्रान्तसि इति वदन् प्रष्टव्यः । किमयमेव भेदो भ्रान्तसिः किं वा भेदमात्र-मिति । नाद्यः । अपसिान्तात् । द्वितीये दोषमाह क्वेति ।
क्वासावव्यावहारिकः ।
भ्रान्तेरभ्रान्तपूर्वकत्वात् । जीवेश्वरभेदस्य भ्रान्तकल्पतत्वे क्वचित्सत्यो भेदोऽङ्गी-कर्तव्यः । क्वासौ न क्वापि । कुत्रापि भेदस्य सत्यत्वानङ्गीकारे जीवशभेदारोपोऽपि न सम्भवतीति भावः ।
२४सु०- स्यादेतत् । नास्त्येव कोऽपि भेदः सत्यः । तथाऽपि जीवेशभेदभ्रान्तरुपपद्यते । भ्रान्तर्हि संस्कारमपेक्ष्यते । संस्कारश्च ज्ञानमात्रम् । अतः पूर्वपूर्वभ्रमसंस्कारादुत्तरोत्तर-भ्रान्त्युत्पादः । अनादिश्चायं संसार इति । मैवम् । भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते । न चैवम् । सर्वोऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्व्याहता । दूरे प्रमाणो-पन्यास इत्याशयवान् सोपपत्तिकं तावत् पृच्छति व्यावहारिकमिति ।
अनु०- व्यावहारिकमित्येव वचनं व्यावहारिकम् ।
उत नेति विकल्पे तु
भेदमात्रमिति शेषः । तिष्ठतु तावदन्यदिति एवार्थः । इति विकल्पे तु पक्षद्वैते(द्वये)(द्वैधे) सम्भवति, कं पक्षमवलम्बस इति शेषः । अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते । सर्वोऽपि भेदो भ्रान्तकल्पत इति वाक्यार्थो भ्रान्तकल्पतोऽथ परमार्थ इति प्रश्नार्थः ।
२४असु०- आद्यं शङ्कते यदीति ।
अनु०-यदि स्याद्व्यावहारिकम् ।
एतद्वचनमिति वर्तते । अत्रापि पृच्छामो वाक्यार्थोऽयं बाध्यो न वेति । नेति पक्षे भ्रान्तकल्पतोऽपि न भवेत् । कुत्रापि कदाऽपि केनाप्यबाध्यस्य भ्रान्तकल्पतत्वे ब्रह्मणोऽपि तथात्वापत्तेः । प्रथमं शङ्कते तस्येति ।
तस्यापि बाधता चेत्स्यात्
तस्य वचनस्य न केवलं भ्रान्तकल्पतत्वं किन्तु बाध्यताऽपि स्यात् चेदित्यर्थः । दूषयति भेद इति ।
भेदः स्यात्पारमार्थिकः ।
सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो )भेदः पार-मार्थिकः स्यात् ।
२५सु०-द्वितीयमाशङ्कते अव्यावहारिकत्वमिति ।
अव्यावहारिकत्वं चेत्
तस्य वचनस्येति वर्तते । निराकरोति भेद इति ।
भेदोऽयं सत्यतां गतः ।
तिष्ठतु तावदन्यः । वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थाना-मसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः; स तावत् सत्यतां गतः । उभयथाऽपि वाक्यार्थो व्याहत इत्यर्थः ।
२६सु०- सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् । तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह एकस्येति ।
अनु०- एकस्यासत्यतायां हि द्वयोरेव विरुयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ।।
यौ द्वावेव विरुौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते । उपाधिव्यभिचारयोरभावान्न केनापि । पुरोवर्तिनः पुरुषत्वेऽसति स्थाणुत्वमेव भवतीति नियमो नास्त । वल्मीकत्वस्यापि सम्भवात् । अतो द्वयोरेव विरुयोरित्युक्तम् । द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुग्रहणम् । यः पदार्थो द्वयोरेव विरुयोरेकस्य असत्यत्ववान् असावन्यस्य सत्यत्ववानित्युक्तं भवति ।
२७सु०- निदर्शनमाह असत्यमिति ।
अनु०- असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ।।
आप्तेनोक्तम् असत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्त । तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्त । सत्यत्वासत्ययोर्द्वयोरेव विरुता । तत्र आप्तोक्तेऽर्थे असत्यतायामसत्यां सत्यतायाः सत्त्वम् अनाप्तोक्ते च सत्यतायाम् असत्याम् असत्यतायाः सत्त्वं च प्रसिमित्यर्थः । इत्युक्त इति प्रमितत्वोपलक्षणम् । प्रजा जानन्ती-त्यनेन आऽविपा-लाङ्गनमेषा व्याप्तिः सिा न केवलं परीक्षकाणामिति सूचयति ।
२८सु०- ननु स्वप्नेऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति । तत्र घटः तदभावश्च द्वयमपि मिथ्या । अतो व्याप्तिभङ्ग इत्यत आह नेति ।
अनु०- न स्वप्नेऽपि द्वयं मिथ्या
तत्कं द्वयमपि सत्यमित्यत आह तत्रेति ।
तत्रैकं सत्यमेव हि ।
तत्र घटतदभावयोर्मध्ये । यदा अभावस्य असत्यता तदा घटः सत्य एव । यदा च घटस्य असत्यता तदा अभावः सत्य एवेत्यर्थः । तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः । कुतो न द्वयमपि मिथ्येत्यत आह भावेति ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ।
यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावपि एकत्रैकदैव न मिथ्येति व्याप्तेः । स्वप्नेऽपि घटतदभावौ कथं तथा भविष्यत इति भावः । व्याहतं च भावाभावयोरुभयोरसत्त्व-वर्णनमित्याशयेनाह भावस्य हीति ।
भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
हिशब्दो हेतौ । भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् । पुनर्नाभावस्य निषेधनं कर्तुं शक्यते, व्याघातात् । एवमभावस्य निषेधे कृते अभावाभावो भाव एव तद्व्याप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति । अस्त्वेवं व्याप्तिः ततः किमित्यत आह स्ववच इति ।
स्ववचोऽसत्यता चेत्स्यात्तस्मोदस्य सत्यता ।
स्वशब्देन प्रतिवाद्युच्यते । तद्वागर्थस्य सकलभेदमिथ्यात्वस्य । तस्मात् व्याप्तिसा-वात् मिथ्यात्वं सत्यत्वं च द्वौ विरुधर्मौ । भेदे तयोः, मिथ्यात्वे असति सत्यत्वं सत्स्यादेव, उक्तव्याप्तिबलादित्यर्थः ।
२९सु०- प्रकृतमुपसंहरति तस्मादिति ।
अनु०- तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।।
भेदमिथ्यात्वासम्भवात् जीवेशयोः पारमार्थिकभेद एव उक्तन्यायेन द्युभ्वादिसूत्रैः गम्यते । तथा च तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिम् । श्रुतयस्तु प्रागेव सम्यग्-व्याख्याताः । विरुगुणसत्यता चोपपादिता । प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तम्)रा-कृतम् । श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः ।। ४-१-२ ।।
३०सु०- एवं प्रथमसूत्रस्य अपव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति एतस्मादिति ।
अनु०- एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ।
एतस्मात् उक्तन्यायात् आत्मेति सूत्रगतोऽयम् आत्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकः ताववेत् । ततः किमित्यत आह प्रतीकेति ।
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तवेत् ।
तत् तस्मात् पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वात् न प्रतीक इति प्रतिज्ञा-वाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः । इदमुक्तं भवति । न
प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् । अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् । पूर्वसूत्रे च आत्मशब्दो विष्णुविषय इति समर्थितम् । तथा च प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः । न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागो-ऽप्रकृतस्वीकारश्च प्रसज्येयातामिति ।
३१सु०- मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थतत्वेनेत्युक्तम् । तदपि नोत्सूत्र-(त्रित)म् । किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते । तत्राद्यं विषयसप्तम्यन्तं न इत्यनेन सम्ब-ध्यते । द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् । उभयत्रात्मेतीति पदद्वयं पूर्वसूत्रादनुवर्तत इत्याशयवान् प्रसङ्गाद् द्वितीयं व्याख्याति प्रतीक इति ।
अनु०- प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ।
यस्मात् प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत् तस्मात् इति श्रुत्यर्थ इति शेषः । हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दकानां प्रसिमिति द्योतयति ।
३२सु०- इतश्च नायं प्रतिज्ञार्थ इत्याह न चेति ।
अनु०-न च विष्णुः प्रतीकं यत् तस्मात् ........ ।। ३ ।।
यस्मात् विष्णुः प्रतीकं, चशब्दाज्जीवश्च न भवति; तस्मात् प्रतीकेष्वात्मेति जीव इति उपासना न प्रसक्तेति शेषः । अयमर्थः । प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः । न च प्रतीकेषु उपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् । यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुं च । न ह्यत्यन्ताभासेन प्रसक्तिर्भवति । अतिप्रसङ्गात् । ततः प्रसक्तयभावात् प्रतिषेधोऽनर्थक इति ।
न हि स इति हेतुव्याख्यानं दूषयति न च विष्णुः प्रतीकं यत् तस्मादिति । तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा । आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् । तथा च हि यस्मात् स विष्णुः प्रतीकं नैव तस्मात् इत्येवार्थः सम्पद्यते । न हि उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति ।।
३३सु०- इदानीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामपाकरोति नात्मेति ।
अनु०-नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ।।
नात्मेत्युपासना इत्येकदेशोत्कर्तनेन न प्रतीके न हि सः इति समग्रसूत्रार्थमनुवदति । प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या । न हि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदाऽत्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुध्यते । चशब्दोऽपव्याख्याननिरास-समुच्चये ।
३४सु०- एतद्विवृणोति स इति ।
अनु०- स नेति युक्तिस्तत्रापि समेत्युक्तविरुता ।
प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मादृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुता भवतीति । एतदुक्तं भवति । प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् । प्रतीकं ब्रह्मतया नोपास्यम् । अब्रह्मत्वात् । यद्यन्न भवति न तत् तत्त्वेन उपास्यमिति युक्तिविरुत्वात् । न चेयं युक्तिरप्रमा । प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् । अन्यथाऽनैकान्त्येन तत्रापि साधिका न स्यात् ।
न च ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पतत्वात् । पारमार्थिकभेदाभावः तावदस्तीति चेत् । तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिःि स्यादिति ।
३५सु०- स्यादेतत् । न हि स इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुा स्यात् । किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्टः । प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्त । अतोऽतावेऽप्युपासना (कार्या) युज्यत इत्यत आह यदीति ।
अनु०- यद्यप्युत्कर्षमात्रेण ह्यतावेऽप्युपासना ।
आद्योऽपिशब्दोऽतिप्रसङ्गसमुच्चयार्थः । हिशब्दस्योत्तरार्धेनान्वयः । यदि विशिष्टहेतुं व्याख्याय प्रतीकानाम् अतावेऽब्रह्मत्वेऽपि उत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाऽङ्गीक्रियते । तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं न तु निराकार्यम् । कुत इत्यत आह उत्कर्ष इति ।
उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।
यस्माद्ब्रह्मवत् आत्मनोऽपि प्रतीकात् उत्कर्षोऽस्त । कथम् । आत्मनः चेतनत्वात् । अचेतनं खलु प्रतीकम् । तस्यात्मत्वेनोपासनायामुत्कर्षप्राप्तिः स्यादिति । अतिप्रसङ्गस्य विपर्ययपर्यव-सानमाह तस्मादिति ।
तस्मादतत्त्वं नोपास्यमिति वेदविदां मतम् ।
यस्माद्विशिष्टहेतौ व्याख्यायमाने पूर्वसूत्रेऽसिःि स्यात् । तत एव प्रतीकेषु ब्रह्मो-पासनवदात्मोपासनं च प्रसज्येत । तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्त्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् । न तु विशेषणप्रक्षेपः । तथा च ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्त-युक्तिविरुैव इति । अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् । स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् ।
३६सु०- एवं प्रतिज्ञाव्याख्यानम् अपाकृत्य उत्कर्षादिति हेतुव्याख्यानम् अपाकरोति उत्कर्षादिति ।
अनु०- उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।
ब्रह्मणो नीचताज्ञानादनर्थः किं न जायते ।
ब्रह्मताध्याने प्रतीकानामुत्कर्षात् उत्कर्षस्य दृष्टत्वात् अञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात् तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मात् अनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति ।
अभ्युपगम्येदं समव्ययफलत्वमुक्तम् । वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह अचेतनस्येति ।
अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ।
नीचस्य स्वात्मताज्ञानात्कुप्यति ब्रह्म लोकवत् ।।
तुष्ट्यभावाच्च न पुरुषार्थलाभः ततः । क्वचित् इत्यनेन यदचेतनं तदुपचिकर्षालक्षण-तुष्टिरहितमिति व्याप्तिं सूचयति । नीचस्य प्रतीकस्य स्वात्मताध्यानात् ब्रह्म कुप्यति । ततश्च अनर्थं प्रयच्छति । तत्र दृष्टान्तो लोकवदिति । यथा लोके शिलादिकं राजत्वादिना चिन्ततं
न प्रसीदति नापि पुरुषार्थं प्रयच्छति । यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथा इत्यर्थः । अनेन प्रतीकानामचेतनत्वेऽपि ब्रह्मैव सर्वाध्यक्षत्वात् फलं दास्यतीति च प्रत्युक्तम् । तस्य अनेनोपासनेन कुपितत्वात् ।
३७सु०- न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः । येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम् । ततः पुरुषार्थप्राप्तिरित्यत आह चण्डाल इति ।
अनु०- चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ।।
चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चडाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यात् न कथञ्चित् कोऽपि । अत्र उक्तशब्देन ध्यानमुपलक्ष्यते । अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् । तथा च
प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः ।
३८सु०- ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा । तत्कथमुभयस्य साम्यमुच्यत इति चेन्न । तत्र दृष्टेरभावात् । उक्तिमात्रं तूपचारेण । सिंहो देवदत्त इति यथा । दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह पुरत इति ।
अनु०- पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत् किं न कोपः स्याद्राज्ञो लोकेऽभिपश्यति ।
राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात् किम् । लोकेऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् ।
न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपि इति आह राज्ञस्त्वति ।
राज्ञस्तु पुरतः प्रोक्ते चण्डालो(ले) नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिव््येव कुप्यति ।।
नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् । चण्डाले नृप इति प्रोक्तेऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्तेऽपि राजा कुप्यत्येव हि । आत्मानं प्रति
हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तम् इतिवत् इत्यत्र यथा तथैवेत्यर्थः । पूजैव कोपकारणं
न दर्शनमित्याशङ्कानिरासाय विवेकार्थमयं श्लोकः ।
३९सु०- एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् । इदानीं तदपि नास्तीत्याह अभेदेनेति ।
अनु०- अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि ।
एतयोर्ब्रह्मप्रतीकयोः अभेदेन ध्यानेऽङ्गीकृते न केवलमनर्थसाम्यं किन्तु वचस्यपि को विशेषः । वचनद्वयार्थोऽप्यविशिष्ट एवेत्यर्थः । अत्रैव दृष्टान्तमाह अयमिति ।
अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ।।
व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतोऽयमित्युक्तम् । दूषणं नीचत्वलक्षणम् । द्वयो-रभेदेन ध्याने दूषणं सम्भवत्येव । न चैवम् । प्रतीकस्य हि ब्रह्मत्वं भाव्यते । न तु ब्रह्मणः प्रतीकत्वमित्यत आह ध्यात इति ।
ध्यातेऽप्येकस्य तावे तावोऽन्यस्य किं न तत् ।
तत् तयोः ब्रह्मप्रतीकयोः एकस्य प्रतीकस्य तावे ब्रह्मभावे ध्याते सति अन्यस्य ब्रह्मणः तावः प्रतीकभावः ध्यातो न किम् ।
एतदुक्तं भवति । भवेदयं परिहारो यदि प्रतीक(स्य)स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपा-स्यमिति पक्षः स्यात् । न चैवम् । प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् । भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्त । न हि घटो मृदभिन्नो मृद्घटान्निेति भेदाभेदौ किन्नाम परस्परम् । तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणोऽपि प्रतीकत्वं ध्यातमेवेति युक्त-मुक्तमिति ।
ननु अस्मन्नुपासने ब्रह्मणा ज्ञाते अनर्थः स्यात् न तु अज्ञाते । अतः तथोपासनं करिष्यत इत्यत आह न चैवेति ।
न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ।।
तत् उपासनम् । ब्रह्मणोऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीत्यपि रिक्तं वचः स्यात् ।
४०सु०- ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन् अप-व्याख्याननिराकरणमुपसंहरति तस्मादिति ।
अनु०- तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।
सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् ।
एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या ।
सूत्रव्याख्यानमुपक्रम्य अपव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेन आह तस्मादिति ।
तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।।
परकयव्याख्यानस्य दूषितत्वात् । यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थम् अनतिक्रम्य वर्तमानेन मार्गेण ।। ४-१-४ ।।
।। अथ तदधिगमाधिकरणम् ।।
ब्र०सू०- ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ।।
४१सु०- निवृत्ता साधनचिन्ता । प्रतिबन्धा(का)नां पूर्वोत्तराणाम् अनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलं इदानीं निरूप्यते । तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह तथेति ।
अनु०- तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ।
करोति
तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं निखिलं
पापं चशब्दादनिष्टं पुण्यं च, पाश्चात्यस्य पापस्य अनिष्टपुण्यस्य च ।
अनेन अतोऽन्यदपीत्येकेषामुभयोरिति सूत्रतात्पर्यमुक्तं भवति ।।
सु०-
ब्र०सू०- ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ।।
४२सु०-इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्य अ(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते; तदसत् । अतोऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् । व्याख्यान-व्याख्येयभावस्य चानन्यगतित्वात् । पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरा-रम्भवैयर्थ्यात् । अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्येऽपि विभागसूचनार्थानि । ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः । तथा च प्रकृतपरित्यागोऽप्रकृत-स्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह तद्द्विषश्चेति ।
अनु०- तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ।
ब्रह्मद्विषश्च । एवं ज्ञानिवत् । द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवति उत्तरस्य असङ्गता अपि । अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् । एतदर्थस्य तच्छतेरिति सूत्रेण प्रागुक्तत्वादित्यत आह यदेवेति ।
यदेव विद्ययेत्यत्र पूर्वोक्ता िविशिष्यते ।
अत्रोक्तं प्रमेयमिति शेषः । अतो न पुनरुक्तिदोष इति हेरर्थः । वक्ष्यमाणोऽर्थविभागः प्रकरणवशात् प्रसि इति वा । कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह पूर्वमिति ।
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं
स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् । उत्तरसूत्रतात्पर्यमाह पश्चादिति ।
पश्चान्मोक्षे वीर्यप्रदं त्वति ।
पश्चात्त्वति सम्बन्धः । विद्यायुतं कर्मेति वर्तते । वीर्यप्रदं आनन्दातिशयप्रदम् । इति चोदितमिति सम्बन्धः । सकलकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुप-लम्भादित्याशङ्कापरिहारायोक्तं सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति । तर्हि प्रारब्धकर्मभावात् कथं मोक्ष इत्याशङ्क्य पुनः सूत्रितं भोगेन त्वतरे क्षपयित्वाथ सम्पत्स्यत इति । एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे तत इति ।
ब्र०सू०-ॐ भोगेन त्वतरे क्षपयित्वाथ सम्पत्स्यते ॐ ।।
ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।
ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ।।
अनारब्धक्षयानन्तरम् । इतरत् पापम् ।
४३सु०- प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते) इत्याशङ्कामागमवाक्येन परिहरति ब्रह्मणामिति ।
अनु०- ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ।
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ।।
ब्रह्मणां शतमिति षष्ठ्या अलुक् । तस्य कालो ब्रह्मणां शतकालः तस्मात् तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनाम् आरब्धसङ्क्षयो भवति । अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्म-कल्पानां शतेनैव कर्मक्षयवत्त्वम् । ब्रह्मण इति जातावेकवचनम् । पञ्चशतां ब्रह्मणां कालात्
पूर्वं रुद्रस्यारब्धसङ्क्षयः । तथाशब्दः समुच्चये । विंशतिपर्यायो विंशच्छब्दः । ब्रह्मणां विंशतिरेव तदवच्छन्न एवेन्द्रस्य प्रारब्धकर्मसङ्क्षयकालः । अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छन्नः कर्मक्षयकालः । ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः । अतःपरं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् ।। ४-१-८ ।।
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मन् प्रथमचरणः पर्यवसितः ।।
इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ।।