Jump to content

BramhasutraBhashyam/index

From Anandamakaranda

BramhasutraBhashyam — सूची

सूत्रसूची

verse id verse type verse text
BS_C01_S01 paada प्रथमः पादः
BS_C01_S01_A001 adhikarana जिज्ञासाधिकरणम्
BS_C01_S01_A002 adhikarana जन्माधिकरणम्
BS_C01_S01_A003 adhikarana शास्त्रयोनित्वाधिकरणम्
BS_C01_S01_A004 adhikarana समन्वयाधिकरणम्
BS_C01_S01_A005 adhikarana ईक्षत्यधिकरणम्
BS_C01_S01_A006 adhikarana आनन्दमयाधिकरणम्
BS_C01_S01_A007 adhikarana अन्तःस्थत्वाधिकरणम्
BS_C01_S01_A008 adhikarana आकाशाधिकरणम्
BS_C01_S01_A009 adhikarana प्राणाधिकरणम्
BS_C01_S01_A010 adhikarana ज्योतिरधिकरणम्
BS_C01_S01_A011 adhikarana गायत्र्यधिकरणम्
BS_C01_S01_A012 adhikarana अन्तिमप्राणाधिकरणम्
BS_C01_S01_I01 introduction नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।¦ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
BS_C01_S01_I02 introduction द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
BS_C01_S01_I03 introduction तच्चोक्तं स्कान्दे –¦नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।¦किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥¦गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते ।¦सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥¦शरण्यं शरणं जग्मुर्नारायणमनामयम् ।¦तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥¦अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।¦उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥¦चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः ।¦शतधा चैकधा चैव तथैव च सहस्रधा ॥¦कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।¦चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
BS_C01_S01_I04 introduction अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।¦अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
BS_C01_S01_I05 introduction निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।¦यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥¦सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।¦मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥¦इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।¦सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ॥
BS_C01_S01_I06 introduction शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।¦एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥¦ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।¦ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥ इत्यादि ।
BS_C01_S01_V01 sutra ओम् ओम् अथातो ब्रह्मजिज्ञासा ओम् ॥ 01-01-01 ॥
BS_C01_S01_V01 sutra ओम् ओम् अथातो ब्रह्मजिज्ञासा ओम् ॥ 01-01-01 ॥
BS_C01_S01_V01 sutra ॐ ॐअथातो ब्रह्मजिज्ञासा ॐ ॥ 01-01 ॥
BS_C01_S01_V01 sutra ॐ ॐअथातो ब्रह्मजिज्ञासा ॐ ॥ 01-01 ॥
BS_C01_S01_V01_B01 bhashya ‘अथ’ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च । ‘अतः’ शब्दो हेत्वर्थः।
BS_C01_S01_V01_B02 bhashya उक्तं च गारुडे –¦अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि ।¦प्रारभन्ते नियत्यैव तत् किमत्र नियामकम् ॥¦कश्चार्थस्तु तयोर्विद्वन् कथमुत्तमता तयोः ।¦एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥
BS_C01_S01_V01_B03 bhashya एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः ।¦आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥¦अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः ।¦परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥¦स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः ।¦सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥¦ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् ।¦तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥
BS_C01_S01_V01_B04 bhashya अकारः सर्ववागात्मा परब्रह्माभिधायकः ।¦तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥¦अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः ।¦अथातःशब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥¦सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति।
BS_C01_S01_V01_B05 bhashya अधिकारश्चोक्तो भागवततन्त्रे –¦मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।¦तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥¦मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः ।¦इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः ॥¦भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः ।¦अधमः शमादिसंयुक्तो मध्यमः समुदाहृतः ॥¦आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।¦विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥¦स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान् इति ।
BS_C01_S01_V01_B06 bhashya ‘अध्ययनमात्रवतः’(ब्र.सू.३.४.१२)‘नाविशेषात्’(ब्र.सू.३.४.१३) इति चोपरि ।
BS_C01_S01_V01_B07 bhashya ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’(बृ.उ.४.४.२३)।‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।”(मुण्डक.उ.१.२.१२)‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।’(क.उ.२.२३)
BS_C01_S01_V01_B08 bhashya “ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।¦तस्यैते कथिता(तस्यैतेऽकथिता) ह्यर्थाः प्रकाशन्ते महात्मनः ॥”(श्वे.उ.६.२३)¦इत्यादि श्रुतिभ्यश्च ॥
BS_C01_S01_V01_B09 bhashya व्योमसंहितायां च –¦‘अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।¦स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥¦एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।¦त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥¦आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।¦यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपरा ॥’ इति ॥¦तथाऽऽपराः मुनिस्त्रियः नरादिकुलजाश्च ।
BS_C01_S01_V01_B10 bhashya यतो नारायणप्रसादम् ऋते न मोक्षः, न च ज्ञानं विना अत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासा कर्तव्या ।
BS_C01_S01_V01_B11 bhashya ‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्॥’¦इति बृहत्संहितायाम् ।
BS_C01_S01_V01_B12 bhashya ‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥’(तै.आ.३.१२)
BS_C01_S01_V01_B13 bhashya ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।’(भ.गी.७.१७)
BS_C01_S01_V01_B14 bhashya ‘यमेवैष वृणुते तेन लभ्यः ।’(क.उ.२.२३)
BS_C01_S01_V01_B15 bhashya ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः।’(बृ.उ.६.५.६)¦इत्यादिश्रुतिस्मृतिभ्यः ।
BS_C01_S01_V01_B16 bhashya ‘कर्मणात्वधमः प्रोक्तः प्रसादः, श्रवणादिभिः ।¦मध्यमो, ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥¦प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः ।¦मध्यमाज्जनलोकादिः, उत्तमस्त्वेव मुक्तिदः ॥
BS_C01_S01_V01_B17 bhashya श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च ।¦साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥¦न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन’।¦इति नारदीये ।
BS_C01_S01_V01_B18 bhashya ब्रह्मशब्दश्च विष्ण्वावेव
BS_C01_S01_V01_B19 bhashya ‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः ।
यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’(म.ना.उ.१.३)¦इत्युक्त्वा¦‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६)¦इति हि शृतिः ॥
BS_C01_S01_V01_B20 bhashya ‘तन्नो विष्णुः’(म.ना.उ.३.१६)¦इति वचनाद्विष्णुरेव हि तत्रोच्यते ॥ न चेतरशब्दात् तत्प्राप्तिः
BS_C01_S01_V01_B21 bhashya ‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’¦इति भाल्लवेयश्रुतिः
BS_C01_S01_V01_B22 bhashya ‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’(ऋ.सं.१०.८२.३) इत्येवशब्दान्नान्येषां सर्वनामता ।
BS_C01_S01_V01_B23 bhashya ‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’(ऋ.सं.१०.८२.६)¦इति विष्णोर्हि लिङ्गम् ।
BS_C01_S01_V01_B24 bhashya न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते ॥
BS_C01_S01_V01_B25 bhashya ‘‘अजस्य नाभौ’ इति, यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् ।
तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे’’¦इति स्कान्दे ।
BS_C01_S01_V01_B26 bhashya ‘परो दिवा पर एना पृथिव्या’(ऋ.सं.१०.८२.५)¦इति समाख्याश्रुतौ ॥
BS_C01_S01_V01_B27 bhashya ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’(ऋ.सं.१०.१२५.५)¦इत्युक्त्वा¦‘मम योनिरप्स्वन्तः समुद्रे’(ऋ.सं.१०.१२५.७)¦इत्याह ।
BS_C01_S01_V01_B28 bhashya उग्रो रुद्रः । समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात्, सूचितत्वाच्चास्यार्थस्य । न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तान्यायेन च श्रुतय एतमेव वदन्ति ।
BS_C01_S01_V01_B29 bhashya ‘वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’¦इति हरिवंशेषु ॥
BS_C01_S01_V01_B30 bhashya न चेतरग्रन्थविरोधः
BS_C01_S01_V01_B31 bhashya ‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।¦त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥¦अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।¦प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’ इति वाराह वचनात् ॥
BS_C01_S01_V01_B32 bhashya शैव च स्कान्दे –¦‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः ।¦तदैवाच्युत यान्त्येव यदैव त्वं पराङ्‍मुखः॥’ इति ॥¦ब्राह्मे च ब्रह्मवैवर्ते –¦‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ।¦बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः’ इति ॥
BS_C01_S01_V01_B33 bhashya न च वैष्णवेषु तथा । तच्च ‘एष मोहम्’ इत्युक्तम् ॥¦इति जिज्ञासाधिकरणम् ॥
BS_C01_S01_V02 sutra ॐ जन्माद्यस्य यतः ॐ ॥ 02-02 ॥
BS_C01_S01_V02 sutra ॐ जन्माद्यस्य यतः ॐ ॥ 02-02 ॥
BS_C01_S01_V02 sutra ओं जन्माद्यस्य यतः ओम् ॥ 01-01-02 ॥
BS_C01_S01_V02 sutra ओं जन्माद्यस्य यतः ओम् ॥ 01-01-02 ॥
BS_C01_S01_V02_B1 bhashya सृष्टि-स्थिति-संहार-नियमन-ज्ञान-अज्ञान-बन्ध-मोक्षाः यतः ।
BS_C01_S01_V02_B2 bhashya ‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’¦इति स्कान्दे ।
BS_C01_S01_V02_B3 bhashya ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’(तै.उ.३.१)¦इति ।
BS_C01_S01_V02_B4 bhashya ‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।’(ऋ.सं.१.१५४.४)
BS_C01_S01_V02_B5 bhashya ‘चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँवीविपत् ।’(ऋ.सं.१.१५५.६)
BS_C01_S01_V02_B6 bhashya ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१)
BS_C01_S01_V02_B7 bhashya ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप।’(ऋ.सं.७.९९.२)
BS_C01_S01_V02_B8 bhashya ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’(ऋ.सं.१०.८२.३)¦इत्यादि च ॥02॥¦॥ इति जन्माधिकरणम् ॥
BS_C01_S01_V02_I01 leading-bhashya ब्रह्मणो लक्षणमाह –
BS_C01_S01_V03 sutra ओं शास्त्रयोनित्वात् ओम् ॥ 01-01-03 ॥
BS_C01_S01_V03 sutra ॐ शास्त्रयोनित्वात् ॐ ॥ 03-03 ॥
BS_C01_S01_V03 sutra ओं शास्त्रयोनित्वात् ओम् ॥ 01-01-03 ॥
BS_C01_S01_V03 sutra ॐ शास्त्रयोनित्वात् ॐ ॥ 03-03 ॥
BS_C01_S01_V03_B1 bhashya ‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’ ॥(तै.ब्रा.३.१२.९)¦‘औपनिषदः पुरुषः’ इत्यादिश्रुतिभ्यः ॥
BS_C01_S01_V03_B10 bhashya ‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम्।
मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥
यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्’॥¦इति स्कान्दे ॥
BS_C01_S01_V03_B11 bhashya ‘साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च’। इत्यारभ्य, वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरात्रस्यैव प्रामाण्यमुक्तम्, इतरेषां भिन्नमतत्वं प्रदर्श्य मोक्षधर्मेष्वपि । ‘शास्त्रं योनिः= प्रमाणमस्य’ इति शास्त्रयोनि ॥ 03 ॥¦इति शास्त्रयोनित्वाधिकरणम् ॥ 03 ॥
BS_C01_S01_V03_B2 bhashya न चानुमानस्य नियतप्रामाण्यम् ॥
BS_C01_S01_V03_B3 bhashya ‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।¦निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥
BS_C01_S01_V03_B4 bhashya श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।¦प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥
BS_C01_S01_V03_B5 bhashya पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत्’¦इत्यादि कौर्मे॥
BS_C01_S01_V03_B6 bhashya शक्यत्वाच्चानुमानानां सर्वत्र ।
BS_C01_S01_V03_B7 bhashya ‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’¦इति वाराहे ।
BS_C01_S01_V03_B8 bhashya ‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।¦जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥¦प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।¦मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥’(म.भा.१२.२२०.३०-३१)¦इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ।
BS_C01_S01_V03_B9 bhashya दर्शनाच्च तप आधिफलस्य ॥
BS_C01_S01_V03_I01 leading-bhashya अनुमानतोऽन्ये न कल्पनीयाः –
BS_C01_S01_V04 sutra ॐ तत्तु समन्वयात् ॐ ॥ 04-04 ॥
BS_C01_S01_V04 sutra ओं तत्तु समन्वयात् ओम् ॥ 01-01-04 ॥
BS_C01_S01_V04 sutra ॐ तत्तु समन्वयात् ॐ ॥ 04-04 ॥
BS_C01_S01_V04 sutra ओं तत्तु समन्वयात् ओम् ॥ 01-01-04 ॥
BS_C01_S01_V04_B1 bhashya अन्वय उपपत्यादि लिङ्गम् ।
BS_C01_S01_V04_B2 bhashya उक्तं च बृहत्संहितायाम् –¦‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।¦अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥’ इति ॥
BS_C01_S01_V04_B5 bhashya उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् ।
BS_C01_S01_V04_B6 bhashya ‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’(भाग.११.२१.४३)¦इति भागवते ॥ 04 ॥¦॥ इति समन्वयाधिकरणम् ॥ 04 ॥
BS_C01_S01_V04_I01 leading-bhashya अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् , कुतः ? ।
BS_C01_S01_V05 sutra ओम् ईक्षतेर्नाशब्दम् ओम् ॥ 01-01-05 ॥
BS_C01_S01_V05 sutra ॐ ईक्षतेर्नाशब्दम् ॐ ॥ 05-05 ॥
BS_C01_S01_V05 sutra ओम् ईक्षतेर्नाशब्दम् ओम् ॥ 01-01-05 ॥
BS_C01_S01_V05 sutra ॐ ईक्षतेर्नाशब्दम् ॐ ॥ 05-05 ॥
BS_C01_S01_V05_B1 bhashya ‘स एतस्मात् जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’(प्र.उ.५.५),‘आत्मन्येवात्मनं पश्येत्’(बृ.उ.६.४.२३), ‘विज्ञाय प्रज्ञां कुर्वीत’(बृ.उ.६.४.२१) इत्यादिवचनैः ईक्षणीयत्वाद् वाच्यमेव । औपनिषदत्वात् न अवचनेनेक्षणम् ॥
BS_C01_S01_V05_B15 bhashya न चाशब्दत्वमितरसिद्धम् ॥05॥
BS_C01_S01_V05_B2 bhashya ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’(कठ.२.१५)¦,¦‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्’(भ.गी.१५.१५)¦इत्यादिशृतिस्मृतिभ्यश्च ॥
BS_C01_S01_V05_B3 bhashya अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ।
BS_C01_S01_V05_B4 bhashya ‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’¦इति वत् ॥¦अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम्॥’¦इति गारुडे ॥
BS_C01_S01_V05_I01 introduction ननु‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै.उ.२.४.२२) , ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’(क.उ.१.३.१५) ,‘अवचनेनैव प्रोवाच’(बाष्कलश्रुति) , ‘यद्वाचाऽनभ्युदितम् । येन वागभ्युद्यते । यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्’(क.उ.१) इत्यादिभिर्न तच्छब्दगोचरम् ।¦नेत्याह –
BS_C01_S01_V06 sutra ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ 06-06 ॥
BS_C01_S01_V06 sutra ओं गौणश्चेन्नात्मशब्दात् ओम् ॥ 01-01-06 ॥
BS_C01_S01_V06 sutra ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ 06-06 ॥
BS_C01_S01_V06 sutra ओं गौणश्चेन्नात्मशब्दात् ओम् ॥ 01-01-06 ॥
BS_C01_S01_V06_B1 bhashya न च गौण आत्मा दृश्यो वाच्यश्च, न निर्गुण इति युक्तम् । आत्मशब्दात्।
BS_C01_S01_V06_B2 bhashya ‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः ।
हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥
एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ॥
अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते॥’¦इति वामने ॥
BS_C01_S01_V06_B3 bhashya ‘द्वे वाव ब्रह्मणो रूपे-आत्मा चैव अनात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह योऽनीदृशः सोऽनात्मा’¦इति तलवकारब्राह्मणम् ।
BS_C01_S01_V06_B9 bhashya न च मुख्ये सति अमुख्यं युज्यते ॥ 06 ॥
BS_C01_S01_V07 sutra ओं तन्निष्ठस्य मोक्षोपदेशात् ओम् ॥ 01-01-07 ॥
BS_C01_S01_V07 sutra ओं तन्निष्ठस्य मोक्षोपदेशात् ओम् ॥ 01-01-07 ॥
BS_C01_S01_V07 sutra ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ 07-07 ॥
BS_C01_S01_V07 sutra ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ 07-07 ॥
BS_C01_S01_V07_B1 bhashya न हि गौणात्मनिष्ठस्य मोक्षः ।
BS_C01_S01_V07_B2 bhashya ‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्दोहे गहने प्रविष्टः ।¦स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’(बृ.उ.६.४.१३)¦इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
BS_C01_S01_V07_B3 bhashya ‘अयमात्मा ब्रह्म॥’(बृ.उ.४.५.१९,माण्डूक्य.उ.१.२), ‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’(भाग.१.२.११), ‘दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान्’(भाग.३.१.१५)॥¦‘चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।¦जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥¦इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते(रोऽभिधीयते) ॥¦तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
BS_C01_S01_V07_B4 bhashya ‘सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुः तस्मान्मोक्षस्ततः स्मृतः’¦इति पाद्मे ॥ 07 ॥
BS_C01_S01_V08 sutra ॐ हेयत्वावचनाच्च ॐ ॥ 08-08 ॥
BS_C01_S01_V08 sutra ॐ हेयत्वावचनाच्च ॐ ॥ 08-08 ॥
BS_C01_S01_V08 sutra ओं हेयत्वावचनाच्च ओम् ॥ 01-01-08 ॥
BS_C01_S01_V08 sutra ओं हेयत्वावचनाच्च ओम् ॥ 01-01-08 ॥
BS_C01_S01_V08_B1 bhashya ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’(मुण्डक.उ.२.२.५) इति अन्येषां हेयत्ववचनात्, अस्य अहेयत्ववचनात् न गौण आत्मा ॥ 08 ॥
BS_C01_S01_V09 sutra ओं स्वाप्ययात् ओम् ॥ 01-01-09 ॥
BS_C01_S01_V09 sutra ॐ स्वाप्ययात् ॐ ॥ 09-09 ॥
BS_C01_S01_V09 sutra ओं स्वाप्ययात् ओम् ॥ 01-01-09 ॥
BS_C01_S01_V09 sutra ॐ स्वाप्ययात् ॐ ॥ 09-09 ॥
BS_C01_S01_V09_B1 bhashya ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।¦पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥’(बृ.उ.५.१.१)
BS_C01_S01_V09_B2 bhashya ‘स आत्मन आत्मानमुद्धृत्य आत्मन्येव विलापयति, अथ आत्मैव भवति’।
BS_C01_S01_V09_B3 bhashya ‘स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः।¦एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्॥’¦इति स्वस्यैव स्वस्मिन्नप्ययवचनात् ।
BS_C01_S01_V09_B4 bhashya न हि गौणात्मनि निर्दोषस्य लयः ॥ 09 ॥
BS_C01_S01_V10 sutra ओं गतिसामान्यात् ओम् ॥ 01-01-10 ॥
BS_C01_S01_V10 sutra ॐ गतिसामान्यात् ॐ ॥ 10-10 ॥
BS_C01_S01_V10 sutra ॐ गतिसामान्यात् ॐ ॥ 10-10 ॥
BS_C01_S01_V10 sutra ओं गतिसामान्यात् ओम् ॥ 01-01-10 ॥
BS_C01_S01_V10_B1 bhashya ‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव ।
प्रकाशयन्ते न विरोधः कुतश्चिद् वेदेषु सर्वेषु तथेतिहासे॥’¦इति पैङ्गिश्रुतेः, गतेः= ज्ञानस्य साम्यमेव ॥ 10 ॥
BS_C01_S01_V10_I01 leading-bhashya न च कासुचित् शाखासु अन्यथा उच्यते ।
BS_C01_S01_V11 sutra ओं श्रुतत्वाच्च ओम् ॥ 01-01-11 ॥
BS_C01_S01_V11 sutra ॐ श्रुतत्वाच्च ॐ ॥ 11-11 ॥
BS_C01_S01_V11 sutra ॐ श्रुतत्वाच्च ॐ ॥ 11-11 ॥
BS_C01_S01_V11 sutra ओं श्रुतत्वाच्च ओम् ॥ 01-01-11 ॥
BS_C01_S01_V11_B1 bhashya ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।¦कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥’(श्वे.उ१.१) इति ॥
BS_C01_S01_V11_B2 bhashya न हि अशब्दः श्रूयते ।
BS_C01_S01_V11_B3 bhashya न चाप्रसिद्धं कल्प्यम् ।
BS_C01_S01_V11_B4 bhashya सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ 11 ॥
BS_C01_S01_V11_B5 bhashya ॥ इति ईक्षत्यधिकरणम् ॥
BS_C01_S01_V12 sutra ओम् आनन्दमयोऽभ्यासात् ओम् ॥ 01-01-12 ॥
BS_C01_S01_V12 sutra ॐ आनन्दमयोऽभ्यासात् ॐ ॥ 12-12 ॥
BS_C01_S01_V12 sutra ओम् आनन्दमयोऽभ्यासात् ओम् ॥ 01-01-12 ॥
BS_C01_S01_V12 sutra ॐ आनन्दमयोऽभ्यासात् ॐ ॥ 12-12 ॥
BS_C01_S01_V12_B1 bhashya आनन्दमयो ब्रह्मादिः, प्रकृतिः,विष्णुः वा ?
BS_C01_S01_V12_B2 bhashya ब्रह्मशब्दात् हिरण्यगर्भस्य प्राप्तिः, शतानन्दनाम्ना च । अष्टमूर्तित्वात्, सूर्ये प्रोक्तत्वाच्च रुद्रस्य । एवमन्येषामपि।¦‘मम योनिर्महद्ब्रह्म’(भ.गी.१४.३)¦इति ब्रह्मशब्दात्, बहुभावाच्च प्रकृतेः । ‘बृह= जाति-जीव-कमलासन-शब्दराशिषु’ इति ब्रह्मशब्दादेव सर्वजीवानाम्, अन्नमयत्वादेश्च ।
BS_C01_S01_V12_B3 bhashya तथाऽपि न त आनन्दमयशब्देनोच्यन्ते, किन्तु विष्णुरेव ।
BS_C01_S01_V12_B4 bhashya ‘तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६),‘एतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३.१२),¦‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।¦असम्पूर्णाः परे यस्माद् उपचारेण वा भवेत्॥’¦‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’(भाग.१.२.११),‘वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः’(व्या.स्मृ.) इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ॥ 12 ॥
BS_C01_S01_V12_I01 leading-bhashya तमेव समन्वयं प्रकटयति ‘आनन्दमयोऽभ्यासात्’ इत्यादिना समस्तेनाध्यायेन प्रायेण । प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्वयः प्रदर्श्यतेऽस्मिन् पादे ।
BS_C01_S01_V12_I02 leading-bhashya नान्यथा तददृष्टेः ।
BS_C01_S01_V12_I03 bhashya ‘ब्रह्मजिज्ञासा कर्तव्या’ इत्युक्तम् । तच्च ब्रह्म¦‘ब्रह्म पुच्छं प्रतिष्ठा’(तै.उ.२.५.२)¦इत्यानन्दमयावयवरूपं प्रतीयते ।
BS_C01_S01_V12_I04 leading-bhashya न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह –
BS_C01_S01_V13 sutra ओं विकारशब्दान्नेति चेन्न प्राचुर्यात् ओम् ॥ 01-01-13 ॥
BS_C01_S01_V13 sutra ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ॥ 13-13 ॥
BS_C01_S01_V13 sutra ओं विकारशब्दान्नेति चेन्न प्राचुर्यात् ओम् ॥ 01-01-13 ॥
BS_C01_S01_V13 sutra ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ॥ 13-13 ॥
BS_C01_S01_V13_B1 bhashya विकारात्मकत्वात् तदभिमानित्वाच्च युज्यते प्रकृत्यादीनां मयट् शब्दः । न तु परमात्मन इति मा भूत् । प्रचुरानन्दत्वाद्धि आनन्दमयः । न तु तद्विकारत्वात् ॥
BS_C01_S01_V13_B2 bhashya अन्नादीनां च प्राचुर्यमेव ॥
BS_C01_S01_V13_B3 bhashya ‘अद्यतेऽत्ति च’(तै.उ.२.२)¦इति व्याखानात् तत्प्राचुर्यं च युज्यते ॥
BS_C01_S01_V13_B4 bhashya उपजीव्यत्वमेव आद्यत्वम् ।¦‘स वा एषः’(तै.उ.२.२)¦इत्यन्यप्रारम्भात् ॥
BS_C01_S01_V13_B5 bhashya ‘येऽन्नं ब्रह्मोपासते’(तै.उ.२.२)¦इत्यादिब्रह्मशब्दाद् बहुरूपत्त्वाच्च न विकारित्वमविरोधश्च ।
BS_C01_S01_V13_B6 bhashya न च पृथक्कल्पना युक्ता ।
BS_C01_S01_V13_B7 bhashya स्वरूपे च युज्यते प्रचुरप्रकाशो रविरितिवत् ॥13॥
BS_C01_S01_V14 sutra ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ 14-14 ॥
BS_C01_S01_V14 sutra ओं तद्धेतुव्यपदेशाच्च ओम् ॥ 01-01-14 ॥
BS_C01_S01_V14 sutra ओं तद्धेतुव्यपदेशाच्च ओम् ॥ 01-01-14 ॥
BS_C01_S01_V14 sutra ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ 14-14 ॥
BS_C01_S01_V14_B1 bhashya ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२.७)¦इति ॥14॥
BS_C01_S01_V15 sutra ओं मान्त्रवर्णिकमेव च गीयते ओम् ॥ 01-01-15 ॥
BS_C01_S01_V15 sutra ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ 15-15 ॥
BS_C01_S01_V15 sutra ओं मान्त्रवर्णिकमेव च गीयते ओम् ॥ 01-01-15 ॥
BS_C01_S01_V15 sutra ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ 15-15 ॥
BS_C01_S01_V15_B1 bhashya ‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१)¦इति सूचयित्वा¦‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१)¦इति मन्त्रवर्णलक्षितं परमेव ब्रह्म शब्दानुसन्धानाद् गीयते ।
BS_C01_S01_V15_B2 bhashya न चावयवत्वविरोधः । ‘स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छम्’¦इति तस्यैवावयवत्वोक्तेश्चतुर्वेदशिखायाम्
BS_C01_S01_V15_B3 bhashya ‘शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।¦प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥¦नारायणोऽथ सन्दोहो वासुदेवः शिरोऽपि वा ।¦पुच्छं सङ्कर्षणः प्रोक्त एक एव तु पञ्चधा ॥¦अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ।¦ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ॥¦अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा’इति बृहत्संहितायाम् ॥
BS_C01_S01_V15_B4 bhashya रसशब्देन विशेषणात् तत्सारभूतं चिन्मात्रमेवोच्यते ।
BS_C01_S01_V15_B5 bhashya इदमिति च दृश्यमानसन्निहितत्वात् ।
BS_C01_S01_V15_B6 bhashya ‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।¦प्रोच्यते भगवान् विष्णुरैश्वर्यात् पुरुषोत्तमः॥’ इति ब्रह्माण्डे ।
BS_C01_S01_V15_B7 bhashya न चोक्तप्राप्त्या विरिञ्चादिरुच्यते ॥ 15 ॥
BS_C01_S01_V16 sutra ॐ नेतरोऽनुपपत्तेः ॐ ॥ 16-16 ॥
BS_C01_S01_V16 sutra ओं नेतरोऽनुपपत्तेः ओम् ॥ 01-01-16 ॥
BS_C01_S01_V16 sutra ॐ नेतरोऽनुपपत्तेः ॐ ॥ 16-16 ॥
BS_C01_S01_V16 sutra ओं नेतरोऽनुपपत्तेः ओम् ॥ 01-01-16 ॥
BS_C01_S01_V16_B1 bhashya न ह्यन्यज्ञानान्मोक्ष उपपद्यते ।
BS_C01_S01_V16_B2 bhashya ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै.आ.३.१२.७)¦इति ह्युक्तम् ॥16॥
BS_C01_S01_V17 sutra ॐ भेदव्यपदेशाच्च ॐ ॥ 17-17 ॥
BS_C01_S01_V17 sutra ओं भेदव्यपदेशाच्च ओम् ॥ 01-01-17 ॥
BS_C01_S01_V17 sutra ॐ भेदव्यपदेशाच्च ॐ ॥ 17-17 ॥
BS_C01_S01_V17 sutra ओं भेदव्यपदेशाच्च ओम् ॥ 01-01-17 ॥
BS_C01_S01_V17_B1 bhashya ‘ते ये शतं प्रजापतेरानन्दाः’(तै.उ.२.२०(२८)),‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति’(तै.आ.२.१६)¦‘स यश्चायं पुरुषे’(तै.उ.२.२१(२७)) इत्यादिभेदव्यपदेशात् ।
BS_C01_S01_V17_B2 bhashya न च¦‘तत्त्वमसि’(छा.उ.६.८)¦‘अहं ब्रह्मास्मि’(बृ.उ.३.५.४)¦इत्यादिश्रुतिविरोधः ॥¦‘नामानि सर्वाणि यमाविशन्ति’¦इति तत्तच्छब्दवाच्यत्वोक्तेः ॥
BS_C01_S01_V17_B3 bhashya ‘इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः’(भाग.१.५.२०)¦‘असर्वः सर्व इत्यपि’,‘विद्याऽऽत्मनि भिदाभोधः’(भाग.११.१९.३९),‘भेददृष्ट्वाऽभिमानेन निस्सङ्गेनापि कर्मणा’(भाग.३.३.१२)‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।’(मु.उ.३.१.२)
BS_C01_S01_V17_B4 bhashya ‘असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ् पराङ् वैक ईयते बहुधेयते’,‘स पुरुषः’, ‘स ईश्वरः’, ‘स ब्रह्म’ ।
BS_C01_S01_V17_B5 bhashya ‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयते ।¦एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः’॥
BS_C01_S01_V17_B6 bhashya ‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह’(म.भा.१२.३६०.२)¦इत्यादेश्च ।
BS_C01_S01_V17_B7 bhashya उक्ता च प्राप्तिः ।¦‘ब्रह्मैव सन्’(बृ.उ.६.४)¦इत्यपि जीव एव ब्रह्मशब्दः ।
BS_C01_S01_V17_B8 bhashya उपपद्यते च विरोधे । प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यते ।
BS_C01_S01_V17_B9 bhashya ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’(भाग.२.१०.६)¦इति हि भागवते ॥17॥
BS_C01_S01_V18 sutra ॐ कामाच्च नानुमानापेक्षा ॐ ॥ 18-18 ॥
BS_C01_S01_V18 sutra ओं कामाच्च नानुमानापेक्षा ओम् ॥ 18-18 ॥
BS_C01_S01_V18 sutra ॐ कामाच्च नानुमानापेक्षा ॐ ॥ 18-18 ॥
BS_C01_S01_V18 sutra ओं कामाच्च नानुमानापेक्षा ओम् ॥ 18-18 ॥
BS_C01_S01_V18_B1 bhashya यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथगनुमानमपेक्ष्यते ।
BS_C01_S01_V18_B2 bhashya उक्तं च स्कान्दे –‘यथाकामाऽनुमा यस्मात् तस्मात् साऽनपगा श्रुतेः ।¦पूर्वापराविरोधाय(पूर्वोत्तराविरोधाय) चेष्यते नान्यथा क्वचित्’ इति ॥
BS_C01_S01_V18_B3 bhashya ‘नैषा तर्केण मतिराऽऽपनेया’(कठ.उ.२.९)¦इति च ॥ 18 ॥
BS_C01_S01_V18_I01 leading-bhashya न च तत्तदनुमानविरोधः ।
BS_C01_S01_V19 sutra ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ 19-19 ॥
BS_C01_S01_V19 sutra ओम् अस्मिन्नस्य च तद्योगं शास्ति ओम् ॥ 01-01-19 ॥
BS_C01_S01_V19 sutra ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ 19-19 ॥
BS_C01_S01_V19 sutra ओम् अस्मिन्नस्य च तद्योगं शास्ति ओम् ॥ 01-01-19 ॥
BS_C01_S01_V19_B1 bhashya अस्य जीवस्य । युक्तिसमुच्चये चशब्दः ।
BS_C01_S01_V19_B2 bhashya ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’(तै.उ.२.१) ,‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’(तै.उ.२.७) ,‘एतमानन्दमयमात्मानमुपसङ्‍क्रामति’(तै.उ.२.८) इत्यादि ॥19॥¦॥इति आनन्दमयाधिकरणम् ॥ 06 ॥
BS_C01_S01_V20 sutra ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ 20-20 ॥
BS_C01_S01_V20 sutra ओं अन्तस्तद्धर्मोपदेशात् ओम् ॥ 01-01-20 ॥
BS_C01_S01_V20 sutra ओं अन्तस्तद्धर्मोपदेशात् ओम् ॥ 01-01-20 ॥
BS_C01_S01_V20 sutra ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ 20-20 ॥
BS_C01_S01_V20_B1 bhashya अन्तः श्रूयमाणो विष्णुरेव ।
BS_C01_S01_V20_B2 bhashya ‘अन्तः समुद्रे मनसा चरन्तम् ब्रह्मान्वविन्दद्दशहोतारमर्णे’(तै.उ.३.११.१)¦।
BS_C01_S01_V20_B3 bhashya ‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’(तै.आ.३.११.११)
BS_C01_S01_V20_B4 bhashya ‘यस्याण्डकोशं शुष्ममाहुः’(तै.आ.३.११.४)¦इत्यादि तद्धर्मोपदेशात् ।
BS_C01_S01_V20_B5 bhashya स हि क्षीरसमुद्रशायी । तस्य च वीर्यमण्डकोशः ।
BS_C01_S01_V20_B6 bhashya ‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।¦अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥¦तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।¦यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥¦आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।¦अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’ इति व्यासस्मृतौ ।¦‘अहं तत्तेजो रश्मीन्नारायणम् पुरुषं जातमग्रतः । पुरुषात् प्रकृतिर्जगदण्डम्’ इति चतुर्वेदशिखायाम् ॥ 20 ॥
BS_C01_S01_V20_I01 introduction ‘अदृश्येऽनात्म्ये’(तै.उ.२.७.१)¦इत्युक्तम् । तच्चादृष्यत्वम्,¦‘अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्ततम् । सहैव सन्तं न विजानन्ति देवाः’(तै.आ.३.११)¦इत्यन्तःस्थस्य कस्यचिदुच्यते ।
BS_C01_S01_V20_I02 introduction स च¦‘इन्द्रो राजा’(तै.आ.३.११.६)¦,¦‘सप्तयुञ्जन्ति’(तै.आ.३.११.८)¦इत्यादिभिरन्यः प्रतीयते । तस्मात् स एवानन्दमय इति न मन्तव्यम् ।
BS_C01_S01_V21 sutra ओं भेदव्यपदेशाच्चान्यः ओम् ॥ 01-01-21 ॥
BS_C01_S01_V21 sutra ओं भेदव्यपदेशाच्चान्यः ओम् ॥ 01-01-21 ॥
BS_C01_S01_V21 sutra ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ 21-21 ॥
BS_C01_S01_V21 sutra ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ 21-21 ॥
BS_C01_S01_V21_B1 bhashya ‘इन्द्रस्यात्मानिहितः पञ्च होता’ ,‘वायोरात्मानं कवयो निचिक्युः’(तै.आ.३.११),‘अन्तरादित्ये मनसा चरन्तम्’(तै.आ.३.११),‘देवानां हृदयं ब्रह्मान्वविन्दत्(तै.आ.३.११)’ इत्यादिभेदव्यपदेशात् ॥ 21 ॥¦॥इति अन्तस्थत्वाधिकरणम् ॥ 07 ॥
BS_C01_S01_V22 sutra ओम् आकाशस्तल्लिङ्गात् ओम् ॥ 01-01-22 ॥
BS_C01_S01_V22 sutra ओम् आकाशस्तल्लिङ्गात् ओम् ॥ 01-01-22 ॥
BS_C01_S01_V22 sutra ॐ आकाशस्तल्लिङ्गात् ॐ ॥ 22-22 ॥
BS_C01_S01_V22 sutra ॐ आकाशस्तल्लिङ्गात् ॐ ॥ 22-22 ॥
BS_C01_S01_V22_B1 bhashya ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’(छा.उ.१.९)¦इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु विष्णुरेव ।
BS_C01_S01_V22_B2 bhashya ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’(छा.उ.१.९)¦इत्यादि तल्लिङ्गात् ।
BS_C01_S01_V22_B3 bhashya ‘विष्णोर्नु कं वीर्याणि प्रोवोचं यः पार्थिवानि विममे रजांसि’(ऋ.सं.१.१५४.१),परो मात्रया तन्वा वृधान’(ऋ.सं.७.९९.१) इत्यादिना तस्यैव(तस्य) तल्लिङ्गम् ।
BS_C01_S01_V22_B4 bhashya ‘अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुरेवैकः परेषामुपचारतः’¦इति ब्राह्मे ।
BS_C01_S01_V22_B5 bhashya ‘नामानि सर्वाणि यमाविशन्ति’¦इति चोक्तम् ॥ 22 ॥¦॥ इति आकाशाधिकरणम् ॥
BS_C01_S01_V22_I01 leading-bhashya ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२.१५)¦इति आकाशस्यऽऽनन्दमयत्वे हेतुरुक्तः, न तु विष्णोः । इति न मन्तव्यम् । यतः –
BS_C01_S01_V23 sutra ॐ अत एव प्राणः ॐ ॥ 23-23 ॥
BS_C01_S01_V23 sutra ओम् अत एव प्राणः ओम् ॥ 01-01-23 ॥
BS_C01_S01_V23 sutra ॐ अत एव प्राणः ॐ ॥ 23-23 ॥
BS_C01_S01_V23 sutra ओम् अत एव प्राणः ओम् ॥ 01-01-23 ॥
BS_C01_S01_V23_B1 bhashya ‘‘तद्वैत्वं प्राणो अभवः महान् भोगः प्रजापतेः ।¦भुजः करिष्यमाणः यद्देवान् प्राणयो न व ॥’(तै.आ.३.१४)¦इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् । स च प्राणः प्रसिद्धेर्वायुरित्यापतति । न चैवं यतो विष्णुरेव प्राणः ।¦अत एव ‘श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे’(तै.आ.३.१३) इत्यादि तल्लिङ्गादेव ॥ 23 ॥
BS_C01_S01_V23_B4 bhashya ॥ इति प्राणाधिकरणम् ॥ 9 ॥
BS_C01_S01_V24 sutra ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ 24-24 ॥
BS_C01_S01_V24 sutra ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ 24-24 ॥
BS_C01_S01_V24 sutra ओं ज्योतिश्चरणाभिधानात् ओम् ॥ 24-24 ॥
BS_C01_S01_V24 sutra ओं ज्योतिश्चरणाभिधानात् ओम् ॥ 24-24 ॥
BS_C01_S01_V24_B1 bhashya विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् । स हि¦‘परो मात्रया तन्वावृधान’(ऋ.सं.७.९९.१)¦इत्यादिना कर्णादिविदूरः ॥ 24 ॥¦॥ इति ज्योतिरधिकरणम् ॥ 10 ॥
BS_C01_S01_V24_I01 leading-bhashya ‘यो वेद निहितं गुहायाम्’(तै.उ.२.१)¦इत्युक्तम् । तच्च गुहानिहितम्¦‘वि मे कर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । विमे मनश्चरति दूर आधीः किं स्विद् वक्ष्यामि किमु नो मनिष्ये’(ऋ.सं.६.९.६)¦इति ज्योतिरुक्तम् । तच्च ज्योतिरग्निसूक्तत्वात् प्रसिद्धेश्चाग्निरेवेति प्राप्तम् । अत आह –
BS_C01_S01_V25 sutra ओं छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ओं॥ 01-01-25 ॥
BS_C01_S01_V25 sutra ओं छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ओं॥ 01-01-25 ॥
BS_C01_S01_V25 sutra ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ॐ॥ 25-25 ॥
BS_C01_S01_V25 sutra ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ॐ॥ 25-25 ॥
BS_C01_S01_V25_B1 bhashya ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’(छा.उ.३.१३.७)¦इत्युक्तस्य ज्योतिषो¦‘गायत्री वा इदं सर्वम्’(छा.उ.३.१२.१)¦इति गायत्र्या समारम्भः कृतः । तस्मान्न विष्णुरिति चेन्न ।
BS_C01_S01_V25_B2 bhashya तथा चेतोऽर्पणार्थं हि निगद्यते । अग्नि गायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते । तथा हि दर्शनं¦‘गायति त्रायति च’(छा.उ.३.१२.१)¦इत्यादि ।
BS_C01_S01_V25_B3 bhashya ‘सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधोऽह्यसौ(प्यसौ) ।
सर्वलोकाभिधोऽह्येषः तेषां तदुपचारतः’¦इति वामने ॥ 25 ॥
BS_C01_S01_V26 sutra ओं भूतादिपादव्यपदेशोपपत्तेश्चैवम् ओम् ॥ 01-01-26 ॥
BS_C01_S01_V26 sutra ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ 26-26 ॥
BS_C01_S01_V26 sutra ओं भूतादिपादव्यपदेशोपपत्तेश्चैवम् ओम् ॥ 01-01-26 ॥
BS_C01_S01_V26 sutra ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ 26-26 ॥
BS_C01_S01_V26_B4 bhashya ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.उ.३.१२.६)¦इति ।
BS_C01_S01_V26_B5 bhashya ‘सुवर्णं कोशं रजसा परीवृतम् देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां वि चक्षते । पादं षड्ढोतुर्न किलाविवित्से’(तै.आ.३.१.१)¦इति श्रुतेः पाद इति एकदेशपरिमितं, चतुर्भागबल इतिवद् भिन्नं च शब्दात् ।
BS_C01_S01_V26_B6 bhashya स हि पुरुषसूक्ताभिधेयः¦‘यज्ञेन यज्ञमयजन्त’(तै.आ.३.१२)¦इति यज्ञशब्दात् ।
BS_C01_S01_V26_B9 bhashya ‘यज्ञो(वै) विष्णुर्देवता’ इति हि श्रुतिः ।
तस्मिन् काले महाराज राम एवाभिधीयते ।
यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते’¦।¦इति च स्कान्दे ॥ 26 ॥
BS_C01_S01_V27 sutra ओम् उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ओम् ॥ 01-01-27॥
BS_C01_S01_V27 sutra ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ 27-27॥
BS_C01_S01_V27 sutra ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ 27-27॥
BS_C01_S01_V27 sutra ओम् उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ओम् ॥ 01-01-27॥
BS_C01_S01_V27_B1 bhashya ‘त्रिपादस्यामृतं दिवि’(छा.उ.३.१२.६) इति पूर्वोपदेशः ।¦‘परो दिवः’(छा.उ.३.१३.७) इति पञ्चम्यन्तः पश्चिमः । तस्मान्नैकं वस्त्वत्रोच्यत इति चेन्न । त्रिसप्तलोकापेक्षयोभयस्मिन्नप्यविरोधात् ॥ 27 ॥¦॥इति गायत्र्यधिकरणम् ॥ 11 ॥
BS_C01_S01_V28 sutra ओं प्राणस्तथाऽनुगमात् ओम् ॥ 01-01-28 ॥
BS_C01_S01_V28 sutra ॐ प्राणस्तथाऽनुगमात् ॐ ॥ 28-28 ॥
BS_C01_S01_V28 sutra ओं प्राणस्तथाऽनुगमात् ओम् ॥ 01-01-28 ॥
BS_C01_S01_V28 sutra ॐ प्राणस्तथाऽनुगमात् ॐ ॥ 28-28 ॥
BS_C01_S01_V28_B1 bhashya ‘तं देवाः प्राणयन्त’(ऐ.आ.२.१.५)¦‘स एषोऽसुः स एष प्राणः’(ऐ.आ.२.१.५)¦‘प्राण ऋच इत्येव विद्यात्’(ऐ.आ.२.२.२)¦,¦’तदयं प्राणोऽधिष्ठति’(ऐ.आ.२.३.८)¦इत्याद्यनुगमादत्रापि प्राणो विष्णुरेव ।
BS_C01_S01_V28_B2 bhashya ‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’¦इति स्कान्दे । ब्रह्मशब्दानुगमाच्च ॥ 28 ॥
BS_C01_S01_V28_I01 leading-bhashya प्राणो विष्णुरित्युक्तम् । तत्र¦‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक् प्राणः’(ऐ.आ.२.१.४)¦इत्यत्र प्राणस्य विष्णुत्वं न युज्यते(विद्यते) । इन्द्रियैः सहाभिधानादित्यत आह-
BS_C01_S01_V29 sutra ओं न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ओम् ॥ 01-01-29 ॥
BS_C01_S01_V29 sutra ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभूमा ह्यस्मिन् ॐ ॥ 29-29 ॥
BS_C01_S01_V29 sutra ओं न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ओम् ॥ 01-01-29 ॥
BS_C01_S01_V29 sutra ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभूमा ह्यस्मिन् ॐ ॥ 29-29 ॥
BS_C01_S01_V29_B1 bhashya ‘प्राणो वा अहमस्म्यृषे’(ऐ.आ.२.२.३)¦इति वक्तुरात्मोपदेशादिन्द्र एवेति चेन्न ।¦‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’(ऐ.आ.२.२.३)¦इति बह्वध्यात्मसम्बन्धो ह्यत्र विद्यते ॥ 29 ॥
BS_C01_S01_V30 sutra ॐ शास्त्रदृष्ट्यातूपदेशो वामदेववत् ॐ ॥ 30-30 ॥
BS_C01_S01_V30 sutra ॐ शास्त्रदृष्ट्यातूपदेशो वामदेववत् ॐ ॥ 30-30 ॥
BS_C01_S01_V30 sutra ओं शास्त्रदृष्ट्यातूपदेशो वामदेववत् ओम् ॥ 01-01-30 ॥
BS_C01_S01_V30 sutra ओं शास्त्रदृष्ट्यातूपदेशो वामदेववत् ओम् ॥ 01-01-30 ॥
BS_C01_S01_V30_B1 bhashya शास्त्रमन्तर्यामी¦‘संविच्छास्त्रं परं पदम्’¦इति हि भागवते ।
BS_C01_S01_V30_B2 bhashya ‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’¦इति(च) पाद्मे ।
BS_C01_S01_V30_B3 bhashya ‘अहं मनुरभवं सूर्यश्च’(ऋ.सं.४.२६.१)¦इत्यादिवत् ॥ 30 ॥
BS_C01_S01_V31 sutra ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ॥ 31-31 ॥
BS_C01_S01_V31 sutra ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ॥ 31-31 ॥
BS_C01_S01_V31 sutra ओं जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ओम् ॥ 01-01-31 ॥
BS_C01_S01_V31 sutra ओं जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ओम् ॥ 01-01-31 ॥
BS_C01_S01_V31_B1 bhashya ‘तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’(ऐ.आ.२.२.४)¦इति जीवलिङ्गम् । प्राणसंवादादि मुख्यप्राणलिङ्गम् । तस्मान्नेति चेन्न । अन्तर्बहिः सर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रितत्वाच्च ।
BS_C01_S01_V31_B2 bhashya ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ.आ.२.४.३)¦‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ.आ.२.४.३)¦‘एतद्धस्म वै तद्विद् विद्वानाह महिदास ऐतरेयः’(ऐ.आ.२.१.८) इत्यादिना ।
BS_C01_S01_V31_B3 bhashya ‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’¦इति ब्रह्माण्डे ।
BS_C01_S01_V31_B4 bhashya तत्तदुपासनायोग्यतया च पुरुषाणाम् ।¦‘केषाञ्चित् सर्वगत्वेन केषाञ्चिद्धृदये हरिः ।
केषाञ्चिद्बहिरेवासावुपास्यः पुरुषोत्तमः’¦इति ब्राह्मे ॥¦‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’¦इति च ॥ 31 ॥¦॥ इति पादान्त्यप्राणाधिकरणम् ॥ 12 ॥
BS_C01_S02 paada द्वितीयः पादः
BS_C01_S02_A012 adhikarana सर्वगतत्वाधिकरणम्
BS_C01_S02_A013 adhikarana अत्तृत्वाधिकरणम्
BS_C01_S02_A014 adhikarana गुहाधिकरणम्
BS_C01_S02_A015 adhikarana इत्यन्तराधिकरणम्
BS_C01_S02_A016 adhikarana इत्यन्तर्याम्यधिकरणम्
BS_C01_S02_A017 adhikarana अदृश्यत्वाधिकरणम्
BS_C01_S02_A018 adhikarana वैश्वानराधिकरणम्
BS_C01_S02_I01 introduction लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयति अस्मिन् पादे प्राधान्येन ।¦‘ब्रह्म ततमम्’(ऐ.आ.२.४.३)इति सर्वगतत्वमुक्तं विष्णोः ।¦तच्च‘तस्यैतस्यासावादित्यो रसः’(ऐ.आ.३.२.३) इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।
BS_C01_S02_V01 sutra ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ 01-32 ॥
BS_C01_S02_V01 sutra ओं सर्वत्र प्रसिद्धोपदेशात् ओम् ॥ 01-02-01 ॥
BS_C01_S02_V01 sutra ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ 01-32 ॥
BS_C01_S02_V01 sutra ओं सर्वत्र प्रसिद्धोपदेशात् ओम् ॥ 01-02-01 ॥
BS_C01_S02_V01_B1 bhashya ‘स यश्चायमशरीरः प्रज्ञात्मा’(ऐ.आ.३.२.४)¦इत्यादिना सर्वत्रोच्यमानो नारायण एव ।¦‘तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६)¦,¦‘परमं यो महद्ब्रह्म’(म.भा.१३.२५४.९)(विष्णुसहस्रनाम)¦,¦‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् ।
स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ ॥
BS_C01_S02_V01_B2 bhashya इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ 01 ॥
BS_C01_S02_V02 sutra ओं विवक्षितगुणोपपत्तेश्च ओम् ॥ 01-02-02 ॥
BS_C01_S02_V02 sutra ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ 02-33 ॥
BS_C01_S02_V02 sutra ओं विवक्षितगुणोपपत्तेश्च ओम् ॥ 01-02-02 ॥
BS_C01_S02_V02 sutra ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ 02-33 ॥
BS_C01_S02_V02_B1 bhashya ‘स योऽतोऽश्रुतः’(ऐ.आ.३.२.४)¦इत्यादि । स हि¦‘न ते विष्णो जायमानः’(ऋ.सं.७.९९.२)¦इत्यादिनाऽश्रुतत्वादिगुणकः(गुणः) ।¦‘स सविता स वायुः स इन्द्रः सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्तः’¦इत्यादि चतुर्वेदशिखायाम् ॥02॥
BS_C01_S02_V03 sutra ॐ अनुपपत्तेस्तुन शारीरः ॐ ॥ 03-34 ॥
BS_C01_S02_V03 sutra ओम् अनुपपत्तेस्तुन शारीरः ओम् ॥ 01-02-03 ॥
BS_C01_S02_V03 sutra ओम् अनुपपत्तेस्तुन शारीरः ओम् ॥ 01-02-03 ॥
BS_C01_S02_V03 sutra ॐ अनुपपत्तेस्तुन शारीरः ॐ ॥ 03-34 ॥
BS_C01_S02_V03_B1 bhashya एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ 03 ॥
BS_C01_S02_V03_I01 leading-bhashya न चादित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्यम् ।
BS_C01_S02_V04 sutra ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ 04-35 ॥
BS_C01_S02_V04 sutra ओं कर्मकर्तृव्यपदेशाच्च ओम् ॥ 01-02-04 ॥
BS_C01_S02_V04 sutra ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ 04-35 ॥
BS_C01_S02_V04 sutra ओं कर्मकर्तृव्यपदेशाच्च ओम् ॥ 01-02-04 ॥
BS_C01_S02_V04_B1 bhashya ‘आत्मानां परस्मै शंसति’(ऐ.आ.३.२.३)¦इत्यादि ॥04॥
BS_C01_S02_V05 sutra ॐ शब्दविशेषात् ॐ ॥ 05-36 ॥
BS_C01_S02_V05 sutra ओं शब्दविशेषात् ओम् ॥ 05-36 ॥
BS_C01_S02_V05 sutra ओं शब्दविशेषात् ओम् ॥ 05-36 ॥
BS_C01_S02_V05 sutra ॐ शब्दविशेषात् ॐ ॥ 05-36 ॥
BS_C01_S02_V05_B1 bhashya ‘एतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३)¦इति । न हि जीवमेव ब्रह्मेत्याचक्षते ।
BS_C01_S02_V05_B2 bhashya ‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः’¦इति चेन्द्रद्युम्नशाखायाम् ॥ 05 ॥
BS_C01_S02_V06 sutra ओं स्मृतेश्च ओम् ॥ 01-02-06 ॥
BS_C01_S02_V06 sutra ओं स्मृतेश्च ओम् ॥ 01-02-06 ॥
BS_C01_S02_V06 sutra ॐ स्मृतेश्च ॐ ॥ 06-37 ॥
BS_C01_S02_V06 sutra ॐ स्मृतेश्च ॐ ॥ 06-37 ॥
BS_C01_S02_V06_B1 bhashya ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’(भ.गी.१०.२०)¦,¦‘गामाविश्य च भूतानि धारयाम्यहमोजसा’(भ.गी.१५.१३)¦इत्यादि ।
BS_C01_S02_V06_B2 bhashya न चाप्रामाणिकं कल्प्यम् ॥ 06 ॥
BS_C01_S02_V07 sutra ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥07-38 ॥
BS_C01_S02_V07 sutra ओम् अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ओम् ॥01-02-07 ॥
BS_C01_S02_V07 sutra ओम् अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ओम् ॥01-02-07 ॥
BS_C01_S02_V07 sutra ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥07-38 ॥
BS_C01_S02_V07_B1 bhashya ‘सर्वेषु भूतेषु’ इति अल्पौकस्त्वात्, चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न ।
BS_C01_S02_V07_B2 bhashya अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात् ।
BS_C01_S02_V07_B3 bhashya सर्वगतत्वेऽप्यल्पौकस्त्वं च युज्यते, व्योमवत् ।¦‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’¦इति स्कान्दे ॥ 07 ॥
BS_C01_S02_V08 sutra ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ 08-39 ॥
BS_C01_S02_V08 sutra ओं सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ओम् ॥ 08-39 ॥
BS_C01_S02_V08 sutra ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ 08-39 ॥
BS_C01_S02_V08 sutra ओं सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ओम् ॥ 08-39 ॥
BS_C01_S02_V08_B1 bhashya ‘जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिः ? इति चेन्न । सामर्थ्य वैशेष्यात् ।
BS_C01_S02_V08_B2 bhashya उक्तं च गारुडे¦‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः ।¦स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति च ॥08॥
BS_C01_S02_V09 sutra ॐ अत्ताचराचरग्रहणात् ॐ ॥ 09-40 ॥
BS_C01_S02_V09 sutra ओम् अत्ताचराचरग्रहणात् ओम् ॥ 09-40 ॥
BS_C01_S02_V09 sutra ॐ अत्ताचराचरग्रहणात् ॐ ॥ 09-40 ॥
BS_C01_S02_V09 sutra ओम् अत्ताचराचरग्रहणात् ओम् ॥ 09-40 ॥
BS_C01_S02_V09_B1 bhashya न हि चराचरस्य= सर्वस्य अत्तृत्वमदितेः ।
BS_C01_S02_V09_B2 bhashya ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।
वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’¦इति स्कान्दे ।
BS_C01_S02_V09_B3 bhashya ‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’¦इति श्रुतिः ॥ 09 ॥
BS_C01_S02_V09_I01 leading-bhashya ‘जन्माद्यस्य यतः’(ब्र.सू.१.१.२) इत्युक्तम् । तत्रात्तृत्वं,¦‘स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वां वा अत्तीति तददितेरदितित्वम्’(बृ.उ.३.२.५)¦इत्यदितेः प्रतीयते ।
BS_C01_S02_V09_I02 leading-bhashya ‘स यद्यदेवासृजत’ इति पुल्लिङ्गम् च¦‘कूटस्थोऽक्षर उच्यते’(भ.गी.१५.१६)¦इतिवत् (इत्यादिवत्) । अत्रोच्यते –
BS_C01_S02_V10 sutra ॐ प्रकरणाच्च ॐ ॥ 10-41 ॥
BS_C01_S02_V10 sutra ओं प्रकरणाच्च ओम् ॥ 01-02-10 ॥
BS_C01_S02_V10 sutra ॐ प्रकरणाच्च ॐ ॥ 10-41 ॥
BS_C01_S02_V10 sutra ओं प्रकरणाच्च ओम् ॥ 01-02-10 ॥
BS_C01_S02_V10_B1 bhashya अप्संवत्सरसृष्ट्यादिना तत्प्रकरणाच्च(प्रकरणत्वाच्च) ।¦‘नेहाऽसीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।¦सोऽत्मनो मनसाऽस्राक्षीद् अप एव जनार्दनः’ ॥¦शयानस्तासु भगवान् निर्ममेऽण्डं महत्तरम् ।¦तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥¦तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ॥¦अथ तं(तत्) कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।¦सोऽसृजद्भुवनं विश्वमद्यार्थं हरये विभुःइति ब्रह्मवैवर्ते ॥ 10 ॥
BS_C01_S02_V11 sutra ओं गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ओम् ॥ 01-02-11 ॥
BS_C01_S02_V11 sutra ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ 11-42 ॥
BS_C01_S02_V11 sutra ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ 11-42 ॥
BS_C01_S02_V11 sutra ओं गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ओम् ॥ 01-02-11 ॥
BS_C01_S02_V11_B1 bhashya गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।
BS_C01_S02_V11_B2 bhashya ‘घर्मा समन्ता त्रिवृतं व्यापतुः तयोर्जुष्टिं मातरिश्वा जगाम’(ऋ.सं.१०.११४.११)¦इत्यादिना तद्दर्शनात् ।
BS_C01_S02_V11_B3 bhashya ‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः ।
निविष्टो हृदयेनित्यं रसं पिबति कर्मजम्¦इति बृहत्संहितायाम् ।
BS_C01_S02_V11_B5 bhashya ‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।
पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’¦इति पाद्मे ॥¦‘यो वेद निहितं गुहायाम्’(तै.उ.२.१)¦इत्यादिना प्रसिद्धं ‘हि’शब्देन दर्शयति ॥ 11 ॥
BS_C01_S02_V11_I01 leading-bhashya सर्वात्रैकः परः उक्तः ।
BS_C01_S02_V11_I02 leading-bhashya ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायाऽऽतपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः’ ।(क.उ.१.३.१)¦इति पिबन्तौ प्रतीयेते, तौ कौ ? इति । उच्यते ।
BS_C01_S02_V12 sutra ॐ विशेषणाच्च ॐ ॥ 12-43 ॥
BS_C01_S02_V12 sutra ॐ विशेषणाच्च ॐ ॥ 12-43 ॥
BS_C01_S02_V12 sutra ओं विशेषणाच्च ओम् ॥ 01-02-12 ॥
BS_C01_S02_V12 sutra ओं विशेषणाच्च ओम् ॥ 01-02-12 ॥
BS_C01_S02_V12_B1 bhashya ‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’(क.उ.१.३.२)¦इति ।
BS_C01_S02_V12_B2 bhashya ‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।¦यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत्’ ॥¦एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् ।¦अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’(प्रभुम्) ॥ इति ब्राह्मे ।
BS_C01_S02_V12_B3 bhashya न च जीवे समन्वयोऽभिधीयते ।
BS_C01_S02_V12_B4 bhashya ‘सत्य आत्मा, सत्यो जीवः, सत्यं भिदा सत्यं भिदा सत्यं भिदा, मैवाऽरुवण्यो मैवाऽरुवण्यो मैवाऽरुवण्यः’¦इति पैङ्गिश्रुतिः ।¦‘आत्मा हि परमः स्वतन्त्रोऽधिगुणः, जीवोऽल्पशक्तिरस्वतन्त्रोऽवरः’¦इति च भाल्लवेयश्रुतिः ।
BS_C01_S02_V12_B5 bhashya ‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् ।¦एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥¦‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् ।¦तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’¦इत्यदेर्नासत्यो भेदः ॥ 12 ॥
BS_C01_S02_V13 sutra ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥
BS_C01_S02_V13 sutra ओम् अन्तर उपपत्तेः ओम् ॥ 01-02-13 ॥
BS_C01_S02_V13 sutra ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥
BS_C01_S02_V13 sutra ओम् अन्तर उपपत्तेः ओम् ॥ 01-02-13 ॥
BS_C01_S02_V13_B1 bhashya चक्षुरन्तस्थो विष्णुरेव।¦‘त्रिपादस्यामृतं दिवि’(ऋ.सं.१०.९०.३)¦इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।
BS_C01_S02_V13_B2 bhashya ब्रह्मशब्दाद्युपपत्तेश्च ।¦‘सोऽहमस्मि’(छां.उ.४.११.१)¦इत्यादि त्वन्तर्याम्यपेक्षया ।
BS_C01_S02_V13_B3 bhashya ‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।
सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’¦इति महाकौर्मे ॥ 13 ॥
BS_C01_S02_V13_I01 leading-bhashya ‘आदित्ये विष्णुः’ इत्युक्तम् ।¦‘य एष आदित्ये पुरुषः सोऽहमस्मि, स एवाहमस्मि’(छां.उ.४.११)¦इत्यादावग्नीनामेवाऽदित्यस्थत्वमुच्यते ।
BS_C01_S02_V13_I02 leading-bhashya अतोऽक्ष्यादित्ययोरैक्याद्,¦‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’(छां.उ.४.१५)¦इत्यत्राप्यग्निरेवोच्यते ।
BS_C01_S02_V13_I03 leading-bhashya अतः¦तत् ‘यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवम् एवंविधि पापं कर्म न श्लिष्यते’(छां.उ.४.१४.३)¦इत्यग्निज्ञानादेव सर्वपापश्लेषात् मोक्षोपपत्तिरिति । अतोऽब्रवीत् (ब्रवीति) –
BS_C01_S02_V14 sutra ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥
BS_C01_S02_V14 sutra ओं स्थानादिव्यपदेशाच्च ओम् ॥ 01-02-14 ॥
BS_C01_S02_V14 sutra ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥
BS_C01_S02_V14 sutra ओं स्थानादिव्यपदेशाच्च ओम् ॥ 01-02-14 ॥
BS_C01_S02_V14_B1 bhashya ‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छां.उ.४.१५.१)¦इत्यादिस्थानशक्तिः,¦‘वामनिः, भामनिः’(छां.उ.४.१५.३-४)¦इत्याद्यात्मशक्तिश्चोच्यते । तस्य ह्येत्यल्लिङ्गम् ।
BS_C01_S02_V14_B2 bhashya ‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’¦इति चतुर्वेदशिखायाम् ।
BS_C01_S02_V14_B3 bhashya ‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः ।
स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’¦इति वामने ॥ 14 ॥
BS_C01_S02_V15 sutra ओं सुखविशिष्टाभिधानादेव च ओम् ॥ 01-02-15 ॥
BS_C01_S02_V15 sutra ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥
BS_C01_S02_V15 sutra ओं सुखविशिष्टाभिधानादेव च ओम् ॥ 01-02-15 ॥
BS_C01_S02_V15 sutra ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥
BS_C01_S02_V15_B1 bhashya ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छां.उ.४.१०.५) इति,‘विज्ञानमानन्दं ब्रह्म’(बृ.उ.५.९.२८)‘आनन्दो ब्रह्मेति व्यजानात्’(तै.उ.३.६) इत्यादेस्तस्यैव हि लक्षणम् ।
BS_C01_S02_V15_B4 bhashya ‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।
अव्यक्तादितृणान्तास्तु विप्लु(विपृ)डानन्दभागिनः’¦इति ब्रह्मवैवर्ते ॥
BS_C01_S02_V15_B6 bhashya न च मुख्ये सति अमुख्यं युज्यते ॥ 15 ॥
BS_C01_S02_V16 sutra ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥
BS_C01_S02_V16 sutra ओं श्रुतोपनिषत्कगत्यभिधानाच्च ओम् ॥ 01-02-16 ॥
BS_C01_S02_V16 sutra ओं श्रुतोपनिषत्कगत्यभिधानाच्च ओम् ॥ 01-02-16 ॥
BS_C01_S02_V16 sutra ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥
BS_C01_S02_V16_B1 bhashya ‘स एनान् ब्रह्म गमयति’(छां.उ.४.१५.५)¦इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥
BS_C01_S02_V17 sutra ओम् अनवस्थितेरसम्भवाच्च नेतरः ओम् ॥ 01-02-17॥
BS_C01_S02_V17 sutra ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥
BS_C01_S02_V17 sutra ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥
BS_C01_S02_V17 sutra ओम् अनवस्थितेरसम्भवाच्च नेतरः ओम् ॥ 01-02-17॥
BS_C01_S02_V17_B1 bhashya जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात्(नियमे प्रमाणाभावात्) । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥
BS_C01_S02_V18 sutra ओम् अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ओम् ॥ 01-02-18 ॥
BS_C01_S02_V18 sutra ओम् अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ओम् ॥ 01-02-18 ॥
BS_C01_S02_V18 sutra ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ 18-49 ॥
BS_C01_S02_V18 sutra ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ 18-49 ॥
BS_C01_S02_V18_B1 bhashya ‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तरः’(बृ.उ.५.७.३)¦, इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी ।
BS_C01_S02_V18_B2 bhashya स हि‘न ते विष्णो चायमानो न जातः’(ऋ.सं.७.९९.२)¦‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतामन्तरपुरुष’(ऐ.आ.३.२.४) इत्यादिनाऽविदितोऽन्तरश्च ॥ 18 ॥
BS_C01_S02_V18_I01 leading-bhashya ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’(बृ.उ.५.७.३)¦इत्यादिना अन्तर्याम्युच्यते ।
BS_C01_S02_V18_I02 leading-bhashya तत्र च¦‘एतदमृतम्’(छां.उ.४.१५.१)¦इत्युक्तममृतत्वमुच्यते । स च¦‘यस्य पृथिवी शरीरम्’¦इत्यादिना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो वा युक्तः ।
BS_C01_S02_V18_I03 leading-bhashya न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियते ? इत्यत आह –
BS_C01_S02_V19 sutra ओं न च स्मार्तमतद्धर्माभिलापात् ओम् ॥ 01-02-19 ॥
BS_C01_S02_V19 sutra ओं न च स्मार्तमतद्धर्माभिलापात् ओम् ॥ 01-02-19 ॥
BS_C01_S02_V19 sutra ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ॥ 19-50 ॥
BS_C01_S02_V19 sutra ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ॥ 19-50 ॥
BS_C01_S02_V19_B1 bhashya त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि ॥19॥
BS_C01_S02_V20 sutra ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ 20-51 ॥
BS_C01_S02_V20 sutra ओं शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ओम् ॥ 01-02-20 ॥
BS_C01_S02_V20 sutra ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ 20-51 ॥
BS_C01_S02_V20 sutra ओं शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ओम् ॥ 01-02-20 ॥
BS_C01_S02_V20_B1 bhashya ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा
शरीरं य आत्मानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’
‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं’(बृ.उ.५.७.२२)¦इत्युभयेऽपि हि शाखिनो भेदेन एनं (जीवं)अधीयते ।
BS_C01_S02_V20_B2 bhashya ‘शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।¦रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत्’ ॥¦इति वचनान्न शरीरत्वविरोधः ॥20॥
BS_C01_S02_V21 sutra ओम् अदृश्यत्वादिगुणको धर्मोक्तेः ओम् ॥ 01-02-21 ॥
BS_C01_S02_V21 sutra ओम् अदृश्यत्वादिगुणको धर्मोक्तेः ओम् ॥ 01-02-21 ॥
BS_C01_S02_V21 sutra ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ 21-52 ॥
BS_C01_S02_V21 sutra ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ 21-52 ॥
BS_C01_S02_V21_B1 bhashya पृथिव्यादि दृष्टान्तमुक्त्वा¦‘अक्षरात् सम्भवतीह विश्वम्’(मु.उ.१.१.७)¦इत्यतः परं तत्परतः पराभिधानात्,¦‘कूटस्थोऽक्षर उच्यते’(भ.गी.१५.१६)¦इति स्मृतेश्च प्रकृतेः प्राप्तिः ।
BS_C01_S02_V21_B2 bhashya ब्रह्मशब्दात् तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य ।
BS_C01_S02_V21_B3 bhashya ‘तमेवं विद्वानमृत इह भवति’(तै.आ.३.१२.७)¦।
BS_C01_S02_V21_B4 bhashya ‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’(भाग.४.२९.४९)
BS_C01_S02_V21_B5 bhashya ‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च। तत्र यो वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’(मु.उ.१.१.४-५)इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्विष्णुरेवादृश्यत्वादि गुणकः ॥ 21 ॥
BS_C01_S02_V21_I01 leading-bhashya अदृश्यत्वादिगुणा विष्णोरुक्ताः । तत्र –
BS_C01_S02_V21_I02 leading-bhashya ‘यत्तदद्रेश्यम्, अग्राह्यम्, अगोत्रम्, अवर्णम्, अचक्षुःश्रोत्रं, तद् अपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’(मु.उ.१.१.६)¦इत्युक्त्वा, अतोऽब्रवीत्(ब्रवीति)-
BS_C01_S02_V21_I03 leading-bhashya ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु.उ.१.१.७)¦इत्युक्त्वा तस्माच्च¦‘अक्षरात्परतः परः’(मु.उ.२.१.२)¦इति परः प्रतीयत इत्यतोऽब्रवीत्-
BS_C01_S02_V22 sutra ओं विशेषणभेदव्यपदेशाभ्यां नेतरौ ओम् ॥ 01-02-22 ॥
BS_C01_S02_V22 sutra ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ 22-53 ॥
BS_C01_S02_V22 sutra ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ 22-53 ॥
BS_C01_S02_V22 sutra ओं विशेषणभेदव्यपदेशाभ्यां नेतरौ ओम् ॥ 01-02-22 ॥
BS_C01_S02_V22_B1 bhashya ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप’(मु.उ.१.१.९)¦इति विशेषणान्न प्रकृतिः ।¦‘तस्मादेतत्ब्रह्म नाम रूपमन्नं च जायते’(मु.उ.१.१.९)¦इति भेदव्यपदेशान्न विरिञ्चः ।
BS_C01_S02_V22_B2 bhashya ‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमैवाखिलगुणमक्षरत्रयमीरितम्’॥¦इति स्कान्दे त्र्यक्षराभिधानात्¦‘अक्षरात् परतः परः’(मु.उ.२.१.२)¦इत्यपि विशेषणमेव ।
BS_C01_S02_V22_B3 bhashya ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’(मु.उ.३.१.२)इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ 22 ॥
BS_C01_S02_V23 sutra ॐ रूपोपन्यासाच्च ॐ ॥ 23 ॥
BS_C01_S02_V23 sutra ॐ रूपोपन्यासाच्च ॐ ॥ 23 ॥
BS_C01_S02_V23 sutra ओं रूपोपन्यासाच्च ओम् ॥ 01-02-23 ॥
BS_C01_S02_V23 sutra ओं रूपोपन्यासाच्च ओम् ॥ 01-02-23 ॥
BS_C01_S02_V23_B1 bhashya ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु.उ.३.१.३)¦इति
BS_C01_S02_V23_B2 bhashya “एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः”¦इति ।
BS_C01_S02_V23_B3 bhashya तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्य(व्य)चीक्लृपत् । विमिश्राणि व्यमिश्रयत् । अत एतादृगेतद्रूपम्¦इति तस्यैव हि रूपाण्यभिधीयन्ते ॥ 32 ॥
BS_C01_S02_V24 sutra ओं वैश्वानरः साधारणशब्दविशेषात् ओम् ॥ 01-02-24॥
BS_C01_S02_V24 sutra ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ 24-55॥
BS_C01_S02_V24 sutra ओं वैश्वानरः साधारणशब्दविशेषात् ओम् ॥ 01-02-24॥
BS_C01_S02_V24 sutra ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ 24-55॥
BS_C01_S02_V24_B1 bhashya अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ 24 ॥
BS_C01_S02_V24_I01 leading-bhashya अदृश्यत्वादिगुणेषु सर्वगतत्वं
BS_C01_S02_V24_I02 leading-bhashya ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’(छां.उ.५.१८.१)¦इति वैश्वानरस्योक्तमित्यत आह –
BS_C01_S02_V25 sutra ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥25-56॥
BS_C01_S02_V25 sutra ओं स्मर्यमाणमनुमानं स्यादिति ओम् ॥01-02-25॥
BS_C01_S02_V25 sutra ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥25-56॥
BS_C01_S02_V25 sutra ओं स्मर्यमाणमनुमानं स्यादिति ओम् ॥01-02-25॥
BS_C01_S02_V25_B1 bhashya ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’(भ.गी.१५.१४)
BS_C01_S02_V25_B2 bhashya इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । ‘इति’शब्दः समाख्याप्रदर्शकः ॥ 25 ॥
BS_C01_S02_V26 sutra ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ ॥ 26-57 ॥
BS_C01_S02_V26 sutra ओं शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ओम् ॥ 26-57 ॥
BS_C01_S02_V26 sutra ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ ॥ 26-57 ॥
BS_C01_S02_V26 sutra ओं शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ओम् ॥ 26-57 ॥
BS_C01_S02_V26_B1 bhashya ‘अयमग्निर्वैश्वानरः’(बृ.उ.७.९.१)¦‘वैश्वानरमृत आजातमग्निम्’(ऋ.सं.६.७.१)¦इत्यादिशब्दः ।
BS_C01_S02_V26_B2 bhashya ‘वैश्वानरे तद्धुतं भवति’(छां.उ.५.२४.४)¦‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छां.उ.५.१८.२)¦इत्याद्यग्निलिङ्गमादिशब्दोक्तम्।
BS_C01_S02_V26_B3 bhashya ‘येनेदमन्नं पच्यते’(बृ.उ.७.९.१)¦‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’(छां.उ.५.१९.१)¦इत्यादिना पाचकत्वेनान्तः प्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न ।
BS_C01_S02_V26_B4 bhashya ‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीत’ इति । ‘सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप’ इति। ‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषुवेदेषु कामचारो भवति’ इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि ॥¦‘अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः ।¦अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’॥¦इत्यादिना ‘को न आत्मा, किं ब्रह्म’(छां.उ.५.११.१) इत्यारम्भाच्च अन्येषामसम्भवाद्विष्णुरेव वैश्वानरः ।
BS_C01_S02_V26_B5 bhashya ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’(तै.आ.३.१२,ऋ.सं.१०.९०.१३) इत्यादिना यः पुरुषाख्यो विष्णुरभहितस्तद्विधमेवात्र ‘मूर्धैव सुतेजाः, चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’(छां.उ.५.१८.२)इत्यादिनैनं वैश्वानरमधीयते । ‘च’शब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति । तथा च ब्राह्मे –¦‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।¦तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’ इति ॥
BS_C01_S02_V26_B6 bhashya चतुर्वेदशिखायां च¦‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’(ऋ.सं.१०.९०.१) इति ।¦‘एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्त गुणोऽनन्तरूपः’ इति ।¦बृहत्संहितायां च-¦‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।¦न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ इत्यादि ॥
BS_C01_S02_V26_B7 bhashya ‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः ।
तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ॥’¦इति नारदीयवचनात् नाभेदोक्तिविरोधः ॥ 26 ॥
BS_C01_S02_V27 sutra ओम् अत एव न देवता भूतं च ओम् ॥ 01-02-27॥

More...

अध्यायसूची

Error: Table Adhyaya not found.