JSON:Mayavadakhandanam

schema1
doc
slug"Mayavadakhandanam"
title"मायावादखण्डनम्"
type"bhashya"
docId"MVK"
parentnull
related
Empty array
nextId13
blocks
id"Mayavadakhandanam-1"
oldKey"MVK_C01_V01"
type"verse"
parent"MVK_C01"
chapter"MVK_C01"
verseType"shloka"
text"नरसिंहोखिलाज्ञानमतध्वान्तदिवाकरः । जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ॥"
id"Mayavadakhandanam-2"
oldKey"MVK_C01_B01"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"‘विमतम् अनारम्भणीयम् अन्यथाप्रतिपादकत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नम्’ । न हि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे । अद्वैतहानेः स्वरूपातिरेके । अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता । निर्विशेषत्वादात्मनो नानधिगतो विशेषः । सिद्धत्वाद् स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम् । ‘अनधिगतार्थगन्तृ प्रमाणम्’ इति च तन्मतम् । अज्ञानासम्भवादेव तन्मतम् अखिलमपाकृतम् । मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात् । सत्यता च भेदस्य । एवमेव प्रयोजनमपि निरस्तम् । स्वरूपत्वात् मोक्षस्य पूर्वमेव सिद्धत्वात् । अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारताऽपि निरस्ता । विषयप्रयोजनाभावादेव अधिकारी च । तदभावादेव सम्बन्धोऽपि ।"
id"Mayavadakhandanam-3"
oldKey"MVK_C01_B02"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥(भ.गी.१५.१६)"
id"Mayavadakhandanam-4"
oldKey"MVK_C01_B03"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥(भ.गी.१५.१७)"
id"Mayavadakhandanam-5"
oldKey"MVK_C01_B04"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"यस्माद् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥(भ.गी.१५.१८)"
id"Mayavadakhandanam-6"
oldKey"MVK_C01_B05"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥(भ.गी.१५.१९)"
id"Mayavadakhandanam-7"
oldKey"MVK_C01_B06"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥(भ.गी.१५.२०)"
id"Mayavadakhandanam-8"
oldKey"MVK_C01_B07"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥’(कठ.१.३.१०)"
id"Mayavadakhandanam-9"
oldKey"MVK_C01_B08"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"‘महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥’(कठ.१.३.१०)"
id"Mayavadakhandanam-10"
oldKey"MVK_C01_B09"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"‘भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’(ब्र.सू.३.३.५९) । इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् ।"
id"Mayavadakhandanam-11"
oldKey"MVK_C01_B10"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"इति सर्वज्ञमुनिना मायावादतमोऽखलिम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥"
id"Mayavadakhandanam-12"
oldKey"MVK_C01_B11"
type"bhashya"
parent"MVK_C01"
chapter"MVK_C01"
verseTypenull
text"नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥(म.भा.१.१.३४)"