Jump to content

Kandukastuti

From Anandamakaranda
कन्दुकस्तुतिः (श्रीकृष्णपद्यम्)

अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः । कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः॥१॥

कालघनालीकर्बुरकायः शरशतशकलित(सुररिपु)रिपुशतनिवहः । सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ २॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता कन्दुकस्तुतिः॥ (श्रीकृष्णपद्यम्)