Pramanakshana/Vyakhya/PramaanalakshanaTika
प्रमाणलक्षणटीका-न्यायकल्पलता
प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् । पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥
प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् ।पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥
नारायणस्यैव नमस्कारे को हेतुरित्यत उक्तम् अशेषगुरुमिति ॥ सर्वज्ञं गुरुमिति पाठे सार्वज्ञ्यं गुरूत्वस्योपपादकम् । किं च नारायणस्यैव अतिसमर्थत्वेनेष्ट प्रदानसम्भवात् तन्नतिरिति भावेनोक्तम् ईशेशमिति ॥ अपि च रागादिदोषरहिता हि लोके वन्द्या भवन्ति । नारायणश्चाशेषदोषदूर इति सूचयितुं अनामयमिति ॥ आमयपदं दोषान्तरोपलक्षणम् । प्रवक्ष्यामीति उद्देशविभागपरीक्षाद्युपयोगिसङ्ग्रहायोपसर्गः । न हि तद्विना प्रकृष्टा लक्षणोक्तिः स्यात् ।यथार्थं प्रमाणम्
तद्विविधम्
केवलमनुप्रमाणं च
यथार्थज्ञानं केवलम्
तत्साधनमनुप्रमाणम्
केवलं चतुर्विधम्
ईशलक्ष्मीयोग्ययोगिभेदेन
पूर्वद्वयमनादि नित्यम्
स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः
पूर्वं स्वपरगताखिलविशेषविषयम्
द्वितीयमीशेऽन्येभ्योऽधिकम्
असार्वत्रिकम्
अन्यत्र सर्वविषयम्
स्पष्टत्वे भेदः
योगिज्ञानमृजूनामनादिनित्यम्
ईशे जीवेभ्योऽधिकम्
अन्यत्राऽलोचने सर्वविषयम्
क्रमेण वर्धमानम्
आमुक्तेः
ततोऽव्ययम्
ततोऽर्वाक् क्रमेण ह्रसितम्
सादि च तात्विकेभ्योऽन्यत्र
अयोगिज्ञानमुत्पत्तिविनाशवत्
अल्पम्
प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । यथार्थं यथावस्थितार्थविषयीकारि । अर्थविषयीकारित्वमात्रस्य संशयविपर्ययसाधारण्याद्विशेषणोपादानम् । अर्थविषयीकारित्वेनैव प्रमेयादिव्युदासः । अर्यत इत्यर्थो ज्ञेयमुच्यते । अतो न गम्यविषयीकारिगतावतिव्याप्तिः ।अनुप्रमाणं त्रिविधम्
प्रत्यक्षमनुमानमागम इति
निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्
निर्दोषोपपत्तिरनुमानम्
निर्दोषः शब्द आगमः
अर्थापत्त्युपमे अनुमाविशेषः
अभावोऽनुमा प्रत्यक्षं च
परामर्शापरामर्शविशेषात्
सम्भवपरिशेषावनुमा
आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरवश्रुतदृष्टहानादयो दूषणानुमा
उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च
उपपत्तिविशेषाः
त एव सोपपत्तयो लिङ्गानि
समाख्यावाक्यप्रकरणस्थानानि च
लिङ्गविशेषाः
व्याप्तिरूपपत्तिमूलम्
सा प्रतिज्ञाहेतुदृष्टान्तरूपा
हेतुगर्भा प्रतिज्ञा केवलापि
सिद्धौ प्रतिज्ञायां हेतुमात्रं च
दृष्टान्तः सप्रतिज्ञो हेतुगर्भः
तिस्त्रो विधा उद्दिशति । न्यूनाधिकसङ्ख््यान्यतमान्तर्भावाभावज्ञापनार्थोऽयं विभागःउपपत्तिदोषौ विरोधासङ्गती
न्यूनाधिके वाचनिके
संवादानुक्तियुता निग्रहाः
प्रत्यक्षं सप्तविधम्
साक्षिषडिन्द्रियभेदेन
.मानसप्रत्यक्षजा स्मृतिः
स्मृत्यनुवादयोर्नाप्रामाण्यम्
यथार्थत्वानुभवात्
अहानेश्च
विरोधो मानस्ववाक्याभ्याम्
स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण
जातिः ‘न मेये मानापेक्षा ’
मेये मानापेक्षाऽस्तीति च
मानविरोधश्च
छलमसङ्गतम्
अन्यच्च
अन्यच्च
अन्यच्च
अन्यच्च
उपपत्तिदोषो द्विविधः विरोधोऽसङ्गतिश्चेति । अन्वययोग्यताविरहो विरोधः । आकाङ्क्षाभावोऽसङ्गतिः । इमौ चार्थवचनयोरपि सम्भवतः । अर्थासाधुत्वे वचनस्यापि तथात्वादिति । वचनस्यैवासाधुत्वापादको वाचनिकदोषः । तं विभज्य दर्शयतित्रिविधो विरोधः
प्रतिज्ञाहेतुदृष्टान्तभेदेन
प्रमाणविरुद्धार्थप्रतिज्ञाविरोधः
हेतुस्वरूपासिध्दिव्याप्तिश्चेति हेतुविरोधः
साध्यस्य साधनस्य वा अननुगमो दृष्टान्तविरोधः
प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः
स एवोपाधिदोषोऽपि
अनुमानस्य साधारणोऽसाधारणश्च सम्भावित इति शेषः ।सर्व एते दृश्यत्वानुमाने द्रष्टव्याः
‘विवादपदं मिथ्या दृश्यत्वात् यत् दृश्यं तत् मिथ्या यथा शुक्तिरजतं तथा चेदं दृश्यं तस्मान्मिथ्या’ इत्येतदनुमानं प्रतिज्ञाविरोधादीनामुदाहरणं ज्ञातव्यमिति ॥प्रत्यक्षागमादिभिर्जगतः सत्यत्वात्
तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात्
अनिर्वचनीयस्य प्रतिवादिनोऽसिद्धत्वात्
आत्मनोऽपि दृश्यत्वात्
शुक्तिरजतादेरनिर्वचनीयत्वाभावात्
अनिर्वचनीयदृश्यत्वाभावात्
मानसिद्धत्वादिति सप्रतिसाधनत्वाच्च
तस्य साक्षिसिद्धत्वं चेत् जगत्सत्यत्वमपि साक्षिसिद्धम्
.व्यभिचारश्चेदागमार्थानुमानिर्दोषत्वाध्यवसाये च समः
.अत उत्तरदिवसे अभेदवाक्यस्य भेदोऽर्थः स्यात्
.निर्दोषानुमायाः सदोषत्वम्
.सदोषानुमाया निर्दोषत्वम्
इत्यव्यवस्था
आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्
.अतिप्रसङ्गाभावात्
अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये
व्याप्तिरेव हि प्रयोजिका
.असत्यपि व्याप्तिरस्त्येव
‘असदाश्रयस्य साधकत्वं न’ इत्यपि व्याप्तिं विना कथं निवार्यते ?
असदाश्रयमित्यादिविशेषणत्वसम्भवे कथमव्याप्तिः
न चात्यन्ताभावोऽपि सर्वधर्मरहितः
प्रमेयत्वाद्यनुभवात्
परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च
‘विमतं सकर्तृकं’ इत्यत्र सर्वज्ञत्वस्य पक्षधर्मताबलेन सिद्ध्यङ्गीकारात्
सन् घटः इत्यादिप्रत्यक्षेण, विश्वं सत्यमित्याद्यागमेन, विवादपदं सत्यं अर्थक्रियाकारित्वात् इत्याद्यनुमानेन च जगतः सत्यत्वावधारणात् जगन्मिथ्या इति प्रतिज्ञा प्रबलप्रमाणविरुद्धा भवति ॥परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः ।
उपपत्तिमात्रत्वात्
उपपत्तेश्च व्याप्त्यपेक्षा सर्वथा अङ्गीकार्येत्याग्रहमात्रेण भेदः ।
उपमानस्यापि
व्याप्तिरूपत्वात्
.न हि स्वसदृशेनासदृशं क्वचित् दृष्टम्
योग्यानुपलब्धेश्च लिङ्गत्वम्
अविशेषात्
अविशेषात्
अविशेषात्
अविशेषात्
उक्तदोषेष्वेवाशेषानुमानदोषाणामन्तर्भावः
साध्याविशिष्टोऽसिद्धः
.सिद्धसाधकोऽसङ्गतः ।
.न प्रमासाधनं प्रमाणम्
ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात्
न चाज्ञातपरिच्छित्तिरेव प्रमेत्यत्र किञ्चिन्मानम्
याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात्
न चानुभूतिरेव प्रमाणम्
. स्मृत्यादावव्याप्तेः
वेदादिप्रामाण्यप्रसिद्धेश्च
अप्रसिद्धसाध्यस्य परिशेषादेः साधकत्वे अनुमानस्यैव तदुक्तं स्यात् । परिशेषादिरनुमानमित्यनतिभिन्नार्थत्वात् ।‘‘स्मृतिः प्रत्यक्षमैतिह्युमनुमानश्चतुष्टयम् । प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः’’ इति श्रुतेश्च ।
ऐतिह्यमागमभेदः
न च सम्यगनुभवसाधनं प्रमाणम्
ईश्वरज्ञानादावव्याप्तेः
.अप्रामाण्ये प्रमाणाभावाच्च
प्रामाण्यज्ञाने च
तत्राप्यङ्गीकारेऽनवस्थितेः
.स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः
स्मृतेश्च प्रामाण्यानङ्गीकारे अनुभूतं मया इत्यत्र प्रमाणाभावात्
लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम्
दृष्टहानिश्च
स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभवविरोधः
तदनुभवाभाव इत्युक्ते अनुभवः स्मृतिश्च नास्तीत्युक्ते किमुत्तरम्?
स्वसिद्धैः साधनं परसिद्धैर्दूषणम्
अतो न दूषणे अपसिद्धान्तादि
इष्टापत्तिः सिद्धसाधनत्वात् असङ्गतमेव
नन्विदं शान्तिके कर्मणि वेतालोत्थानमिव । यावता स्मृत्यादिप्रामाण्यसिद्ध्यर्थं उदाहृतश्रुतौ ऐतिह्यं चतुर्थ प्रमाणमापतितमित्यत आहआनन्दतीर्थमुनिना ब्रह्मतर्काक्तिमार्गतः । प्रमाणलक्षणमित्युक्तं सङ्क्षेपाद्ब्रह्मसिद्धये ॥
लक्षणादिनिरूपणेन संशोधितैरेव खलु वेदादिभिर्ब्रह्मज्ञानं भवति । तदिदं न वाद्यन्तरोक्तवदेवेति मन्तव्यम् । परमाप्ततमेन सुरवरावतारेणोक्तत्वादिति भावेनोक्तम् आनन्दतीर्थमुनिनेति ॥ यस्तु स्वप्रभावानभिज्ञः तं प्रत्याह ब्रह्मतर्कोक्तिमार्गत इति ॥ यस्तु अनधिगतब्रह्मतर्कोक्तिमार्गोऽपि तदनुजिवृक्षया आह - इत्युक्तमिति ॥ युक्त्यादियुक्तता प्राक् प्रदर्शितेति इतिशब्देन स्मर्यते । यद्येवं कथं तर्हि स्वल्पेनैव ग्रन्थेन समाप्तं ? इत्यत उक्तम् ॥ सङ्क्षेपादिति ॥ श्रोतृबुद्धिमनुसृत्य शब्दसङ्क्षेपेणोक्तमिति ।अमरा भ्रमरायन्ते कमला वरटायते । यत्पादाम्भोरुहद्वन्द्वे वन्दे तं पुरुषोत्तमम् ॥
अशेषमानमेयैकसाक्षिणेऽक्षयमूर्तये । अजेशपुरुहूतेड्य नमो नारायणाय ते ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रमाणलक्षणं सम्पूर्णम् ॥
अमरा भ्रमरायन्ते कमला वरटायते ।यत्पादाम्भोरुहद्वन्द्वे वन्दे तं पुरुषोत्तमम् ॥
नारायणस्यैव प्रणामे को हेतुः ? इत्यतो यत् उक्तं प्रमाणादि तत् प्रेरकत्वेन नारायणस्यैव ? मुख्यतः तदभिज्ञत्वात् इति भावेनोक्तम् अशेषेति ॥