तत्वसङ्ख्यानविवरणम्
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥1॥
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते ।
स्वतन्त्रो भगवान् विष्णुः...
......भावाभावौ द्विधेतरत् ॥ १ ॥
लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि ।
करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ १ ॥
प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥2॥
प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।
चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ २ ॥
प्राक्त्वेन, प्रध्वंसत्वेन, सदात्वेन च उपलक्षितोऽभावः
त्रिविधइष्यते । ‘प्रामाणिकै’रिति शेषः।
दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥3॥
दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् ।
नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥ ३ ॥
कदाचिद्दुःखसंबद्धम् एव दुःखस्पृष्टम् । कदाऽपि दुःखासंबद्धं तदस्पृष्टम् ॥
स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥4॥
स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा ।
दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥ ४ ॥
विमुक्ताःदुःखात्।
दुःखसंस्थाःवर्तमानदुःखाः । चशब्दः
दुःखसंस्थाःइत्यतःपरं योज्यः । अत्र प्राधान्यक्रमेण उद्देशः ।
देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥5॥
देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा ॥
एवं विमुक्तयोग्याश्च ..
....................तमोगाः सृतिसंस्थिताः ॥ ५ ॥ इति द्विधा मुक्त्ययोग्याः
पान्तीति
पाःचक्रवर्तिनः ।
नराःमनुष्योत्तमाः ।
तुशब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं निराचष्टे । गन्धर्वादीनां, केषाञ्चित् एषु एव अन्तर्भावात्, केषाञ्चित् अविवक्षितत्वात् न ग्रन्थान्तरविरोधः ।
इति द्विधा मुक्त्ययोग्या दैत्यरक्षपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः ॥6॥
.... दैत्यरक्षः पिशाचकाः ।मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकार्तिताः ॥ ६ ॥
मर्त्याधमाः इत्यतःपरम् इतिशब्दोऽध्याहार्यः ।
ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥7॥
ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा ॥
नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥ ७ ॥
ते च चतुर्विधा अपि।
सृतिसंस्थिताःसंसारे वर्तमानाः, न अधुनाऽपि तमःप्राप्ताः । योग्यतायाः चैतन्यस्वभावत्वेन, तमोयोग्यानाम् अयं विभागः न अनुपपन्नः ।
नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं स्मृतम् ॥8॥
नित्या वेदाः.. ।
... पुराणाद्याः कालः प्रकृतिरेव च ।नित्यानित्यं त्रिधा प्रोक्तं.. ।
........................अनित्यं द्विविधं मतम् ॥ ८ ॥असंसृष्टं च संसृष्टम्.......................... ।
अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां ‘‘नित्या वेदाः समस्ताश्च’’ इत्यादि प्रमाणसिद्धम् । अत्र
वेदाइत्युपलक्षणम् । पञ्चाशद्वर्णानां अव्याकृताकाशस्य च तथाभावात् ।
असंसृष्टं च संसृष्टमसंसृष्टं महानहम् । बुद्धिर्मनःखानि दश मात्रा भूतानि पञ्च च ॥9॥
असंसृष्टं महानहम् ।बुद्धिर्मनः खानि दशमात्रा भूतानि पञ्च च ॥ ९ ॥
संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् । सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥10॥
संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् ।
सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने॥ १० ॥
ननु एषां चतुर्विंशतितत्वानामसंसृष्टत्त्वं नाम यदि एकदेशेन उत्पत्तिः तर्हि अनुत्पन्नस्य असत्वात् उत्पन्नमेव तत्त्वम् । तच्च संसृष्टमेव, इति न द्वैविध्यम् । न च प्रकारान्तरम् अस्ति इति । मैवम् । सूक्ष्मरूपेण नित्यानां महदादीनां प्राकृताद्यंशैः उपचयमात्रं क्रियते इति तानि असंसृष्टानि ।
बन्धो मोक्षः सुखं दुःखमावृत्तिर्ज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥11॥
बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च ।विष्णुनाऽस्य समस्तस्य................... ।
.......................समासव्यासयोगतः ॥ ११ ॥
बन्धः प्रकृतेः।
मोक्षः बन्धात् ।
आवृतिज्योतिषीबाह्यतमःप्रकाशौ ।
एवकारः
विष्णुनाइत्यनेन सम्बध्यते ।
अस्य समस्तस्यअस्वतन्त्रस्य भवन्ति इति शेषः ।