नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम् ।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १ ॥
ओमशेषगुणाधार इति नारायणोऽप्यसौ ।
पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः ॥ २ ॥
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः ।
भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः ॥
प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः ॥ ३ ॥
स पूर्णत्वात् पुमान्नाम पौरुषे सूक्त ईरितः ।
स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ॥ ४ ॥
स एव सर्वशब्दार्थः इत्याहोपनिषत् परा ।
‘ता वा एता ऋचः’ इति विशेषेणाप्यृगर्थताम् ॥ ५ ॥
‘यो देवानाम्’ इति श्रुत्या देवनाम्नां विशेषतः । स्पष्टत्वात् तद्गतत्वेन
तत्राहाग्रेऽग्निनामकम् ॥ ६॥
अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् ।
एवमेवाह भगवान्निरुक्तिं बादरायणः ॥ ७ ॥
(ऋग्भाष्यम्) यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने ।
तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ॥ ८ ॥
मण्डलम्—१. अध्यायः –१. अनुवाकः–१. सूक्तम्–१.
अग्निं नवर्चम्, वैश्वामित्रो मधुच्छन्दा ऋषिः, गायत्री छन्दः, अग्निर्देवता
ओ३म् ॥ अग्निमीळेे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्नधातमम् ॥ १ ॥
अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् । होतारम् । रत्नऽधातमम् ॥ १ ॥
ओ३म् ॥ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ १ ॥
अग्निम् । अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् । होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १ ॥
पिपीलिका मध्या निचृद् गायत्री
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत॥ स देवा एह वक्षति ॥ २ ॥
अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ॥ सः देवान् । आ । इह । वक्षति ॥ २ ॥
अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥ २ ॥
अ॒ग्निः । पूर्वे॑भिः । ऋषि॑ऽभिः । ईड्यः॑ । नूत॑नैः । उ॒त । सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥ २ ॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवेऽदिवे ॥ यशसम् । वीरवत्ऽतमम् ॥ ३ ॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥
अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ॥ सः । इत् । देवेषु । गच्छति ॥ ४ ॥
अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः ॥ देवो देवेभिरागमत् ॥ ५, १ ॥
अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ॥ देवः । देवेभिः । आ । गमत् ॥ ५, १ ॥
निचृद् गायत्री
यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि ॥ तवेत्तत् सत्यमङ्गिरः ॥ ६ ॥
यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ॥ तव । इत् । तत् । सत्यम् । अङ्गिरः ॥ ६ ॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धियावयम् ॥ नमो भरन्त एमसि ॥ ७ ॥
उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ॥ नमः । भरन्तः । आ । इमसि ॥ ७ ॥
यवमध्या विरा गायत्री
राजन्तमध्वराणा ङ्गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥ ८ ॥
राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् ॥ वर्धमानम् । स्वे । दमे ॥ ८ ॥
विरा गायत्री
स नः पितेव सूनवेऽग्ने सूपायनो भव ॥ सचस्वानस्स्वस्तये ॥ ९, २, १ ॥
सः । नः । पिताऽइव । सूनवे । अग्ने । सुऽउपायनः । भव ॥ सचस्व । नः । स्वस्तये ॥ ९,२,१ ॥
मण्डलम्—१. अध्यायः –१.अनुवाकः–१. सूक्तम्–२.
वायो नवर्चम् , मधुच्छन्दा वैश्वामित्रः ।१-३ वायुः,४-६ इन्द्रवायू, ७-९ मैत्रावरुणः, गायत्री छन्दः ।
पिपीलिकामध्या निचृद् गायत्री
वायवायाहि दर्शतेमे सोमा अरङ्कृताः ॥ तेषाम्पाहि श्रुधी हवम् ॥ १ ॥
वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ॥ तेषाम् । पाहि । श्रुधि । हवम् ॥ १ ॥
पिपीलिका मध्या निचृद् गायत्री
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदः ॥ २ ॥
वायो इति । उक्थेभिः । जरन्ते । त्वाम् । अच्छ । जरितारः ॥ सुतऽसोमाः । अहःऽविदः ॥ २ ॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ॥ उरूची सोम पीतये ॥ ३ ॥
वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ॥ उरूची । सोमऽपीतये ॥ ३ ॥
इन्द्रवायू देवते
इन्द्रवायू इमे सुता उपप्रयोभिरागतम् । इन्दवो वामुशन्ति हि ॥ ४ ॥
इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् । इन्दवः । वाम् । उशन्ति । हि ॥ ४ ॥
वायविन्द्रश्च चेतथस्सुतानां वाजिनीवसू । तावायातमुपद्रवत् ॥ ५, ३ ॥
वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ॥ तौ । आ । यातम् । उप । द्रवत् ॥ ५, ३ ॥
निचृद् गायत्री
वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् ॥ मक्ष्वि१त्था धिया नरा ॥ ६ ॥
वायो इति इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ॥ मक्षु । इत्था । धिया । नरा ॥ ६ ॥
मित्रावरुणौ देवते
मित्रं हुवे पूतदक्षं वरुणञ्च रिशादसम् ॥ धियङ्घृताचीं साधन्ता ॥ ७ ॥
मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ॥ धियम् । घृताचीम् । साधन्ता ॥ ७ ॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ॥ क्रतुम्बृहन्तमाशाथे ॥ ८ ॥
ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ॥ क्रतुम् । बृहन्तम् । आशाथे इति ॥ ८ ॥
कवीनो मित्रावरुणा तुविजाता उरुक्षया । दक्षन्दधाते अपसम् ॥ ९, ४, २ ॥
कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ॥ दक्षम् । दधाते इति । अपसम् ॥ ९, ४, २ ॥
मण्डलम्—१. अध्यायः –१.अनुवाकः–१. सूक्तम्—३.
अश्विना द्वादशर्चम्, मधुच्छन्दा वैश्वामित्रः, १-३ अश्विनौ । ४-६ इन्द्रः । ७-९ विश्वेदेवाः । १०-१२ सरस्वती । गायत्री छन्दः(२, ४,११ निचृत्, ४,११ पिपीलिकामध्या)
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ॥ पुरुभुजा चनस्यतम् ॥ १ ॥
अश्विना । यज्वरीः । इषः । द्रवत्पाणी इति द्रवत्ऽपाणी । (शुभस्पती इति शुभःऽपती इति) । शुभः । पती इति ॥ पुरुऽभुजा । चनस्यतम् ॥ १ ॥
निचृद् गायत्री
अश्विना पुरुदंससा नरा शवीरया धिया ॥ धिष्ण्या वनतङ्गिरः ॥ २ ॥
अश्विना । पुरुऽदंससा । नरा । शवीरया । धिया ॥ धिष्ण्या । वनतम् । गिरः ॥ २ ॥
दस्रा युवाकवस्सुता नासत्या वृक्तबर्हिषः ॥ आयातं रुद्रवर्तनी ॥ ३ ॥
दस्रा । युवाकवः । सुताः । नासत्या । वृक्तऽबर्हिषः ॥ आ । यातम् । रुद्रवर्तनी इति रुद्रऽवर्तनी ॥ ३ ॥
(पिपीलिका मध्या निचृद् गायत्री) इन्द्रो देवता
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ॥ अण्वीभिस्तना पूतासः ॥ ४ ॥
इन्द्र । आ । याहि । चित्रभानो इतिचित्रऽभानो । सुताः । इमे । त्वाऽयवः ॥ अण्वीभिः । तना । पूतासः ॥ ४ ॥
इन्द्रायाहि धियेषितो विप्रजूतस्सुतावतः ॥ उप ब्रह्माणि वाघतः ॥ ५ ॥
इन्द्र । आ । याहि । धिया । इषितः । विप्रऽजूतः । सुतऽवतः । उप । ब्रह्माणि । वाघतः ॥ ५ ॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ॥ सुते दधिष्व नश्चनः ॥ ६, ५ ॥
इन्द्र । आ । याहि । तूतुजानः । उप । ब्रह्माणि । हरिऽवः ॥ सुते । दधिष्व । नः । चनः ॥ ६, ५ ॥
विश्वेदेवा देवताः
ओमासश्चर्षणीधृतो विश्वेदेवास आगत ॥ दाश्वांसो दाशुषस्सुतम् ॥ ७ ॥
ओमासः । चर्षणिऽधृतः । विश्वे । देवासः । आ । गत ॥ दाश्वांसः । दाशुषः । सुतम् ॥ ७ ॥
विश्वे देवासो अप्तुरस्सुतमागन्त तूर्णयः ॥ उस्रा इव स्वसराणि ॥ ८ ॥
विश्वे । देवासः । अप्ऽतुरः । सुतम् । आ । गन्त । तूर्णयः ॥ उस्राः ऽइव । स्वसराणि ॥ ८ ॥
विश्वे देवासो अस्रिध एहि मायासो अद्रुहः ॥ मेधञ्जुुषन्त वह्नयः ॥ ९ ॥
विश्वे । देवासः । अस्रिधः । एहिऽमायासः । अद्रुहः ॥ मेधम् । जुषन्त । वह्नयः ॥ ९ ॥
पावका नस्सरस्वती वाजेभिर्वाजिनीवती ॥ यज्ञं वष्टु धिया वसुः ॥ १० ॥
पावका । नः । सरस्वती । वाजेभिः । वाजिनीऽवती ॥ यज्ञम् । वष्टु । धियाऽवसुः ॥ १० ॥
पिपीलिकामध्या निचृद् गायत्री
चोदयित्री सूनृतानाञ्चेेतन्ती सुमतीनाम् ॥ यज्ञन्दधे सरस्वती ॥ ११ ॥
चोदयित्री । सूनृतानाम् । चेतन्ती । सुऽमतीनाम् । यज्ञम् । दधे । सरस्वती ॥ ११ ॥
महो अर्णस्सरस्वती प्रचेतयति केतुना ॥ धियो विश्वा विराजति ॥ १२, ६, ३, १ ॥
महः । अर्णः । सरस्वती । प्र । चेतयति । केतुना ॥ धियः । विश्वाः । वि । राजति ॥ १२,६,३,१ ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–२ सूक्तम् – ४
सुरूपकृत्नुं दशर्चम्, वैश्वामित्रो मधुच्छन्दा ऋषिः, गायत्री,३ विरा १० निचृत् , इन्द्रः देवतामुद्गलः– द्वितीयानुवाके चत्वारि सूक्तानि । तत्र सुरूपम् इत्यादिकम् दशर्चं प्रथमसूक्तम् । इन्द्रं पृच्छ इति चतुर्थ्याम् ऋचि लिङ्गदर्शनात् इन्द्रो देवता ॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ॥ जुहूमसि द्यविऽद्यवि ॥ १ ॥
सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ॥ जुहूमसि । द्यविऽद्यवि ॥ १ ॥
उप नस्सवना गहि सोमस्य सोमपाः पिब ॥ गोदा इद्रेवतो मदः ॥ २ ॥
उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब ॥ गोऽदाः । इत् । रेवतः । मदः ॥ २ ॥
विराड् गायत्री
अथा ते अन्तमानां विद्याम सुमतीनाम् ॥ मानो अतिख्य आगहि ॥ ३ ॥
अथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ॥ मा । नः । अति । ख्यः । आ । गहि ॥ ३ ॥
परेहि विग्रमस्तृतमिन्द्रम्पृच्छा विपश्चितम् ॥ यस्ते सखिभ्य आवरम् ॥ ४ ॥
परा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छा । विपःऽचितम् ॥ यः । ते । सखिऽभ्यः । आवरम् ॥ ४ ॥
उत ब्रुवन्तु नोनिदो निरन्यतश्चिदारत । दधाना इन्द्र इद्दुवः ॥ ५, ७ ॥
उत । ब्रुवन्तु । नः । निदः । निः । अन्यतः । चित् । अरत ॥ दधानाः । इन्द्रे । इत् । दुवः ॥ ५, ७ ॥
उत नः सुभगा अरिर्वोचेयुर्दस्म कृष्टयः ॥ स्यामेदिन्द्रस्य शर्मणि ॥ ६ ॥
उत । नः । सुऽभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः । स्याम । इत् । इन्द्रस्य । शर्मणि ॥ ६ ॥
एमाशुमाशवे भर यज्ञश्रियन्नृमादनम् ॥ पतयन्मन्दयत्सखम् ॥ ७ ॥
आ । र्इम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् । पतयत् । मन्दयत्ऽसखम् ॥ ७ ॥
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ॥ प्रावो वाजेषु वाजिनम् ॥ ८ ॥
अस्य । पीत्वा । शतक्रतो इतिशतऽक्रतो । घनः । वृत्राणाम् । अभवः । प्र । आवः । वाजेषु । वाजिनम् ॥ ८ ॥
तन्त्वा वाजेषु वाजिनं वाजयामश्शतक्रतो । धनानामिन्द्र सातये ॥ ९ ॥
तम् । त्वा । वाजेषु । वाजिनम् । वाजयामः । शतक्रतो इति शतक्रतो ॥ धनानाम् । इन्द्र । सातये ॥ ९ ॥
यो रायो३ऽवनिर्महान्त्सुपारस्सुन्वतस्सखा ॥ तस्मा इन्द्राय गायत ॥ १०, ८, ४ ॥
यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ॥ तस्मै । इन्द्राय । गायत ॥ १०, ८, ४ ॥
मण्डलम्—१. अध्यायः–१. अनुवाकः–२. सूक्तम्–५.
‘आ त्वा’ दशर्चम् । वैश्वामित्रो मधुच्छन्दा गायत्री (१ विरा, ३ पिपीलिका मध्या निचृत्, ५-७, ९ निचृत्, ८ पादनिचृत्) इन्द्रो देवता
विराड् गायत्री
आ त्वेता निषीदतेन्द्रमभि प्र गायत ॥ सखायस्स्तोमवाहसः ॥ १ ॥
आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ॥ सखायः । स्तोमऽवाहसः ॥ १ ॥
पुरूतमम्पुरूणामीशानं वार्याणाम् ॥ इन्द्रं सोमे सचा सुते ॥ २ ॥
पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् । इन्द्रम् । सोमे । सचा । सुते ॥ २ ॥
पिपीलिकामध्या निचृद् गायत्री
स घा नो योग आभुवत्स राये स पुरन्ध्याम् ॥ गमद्वाजेभिरास नः ॥ ३ ॥
सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ॥ गमत् । वाजेभिः । आ । सः । नः ॥ ३ ॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ॥ तस्मा इन्द्राय गायत ॥ ४ ॥
यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः । तस्मै । इन्द्राय । गायत ॥ ४ ॥
निचृद् गायत्री
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ॥ सोमासो दध्याशिरः ॥ ५, ९ ॥
सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ॥ सोमासः । दधिऽआशिरः ॥ ५, ९ ॥
निचृद् गायत्री
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ॥ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ ६ ॥
त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ॥ इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥ ६ ॥
निचृद् गायत्री
आ त्वा विशन्त्वाशवस्सोमास इन्द्र गिर्वणः ॥ शन्ते सन्तु प्रचेतसे ॥ ७ ॥
आ । त्वा । विशन्तु । । आशवः । सोमासः । इन्द्र । गिर्वणः ॥ शम् । ते । सन्तु । प्रऽचेतसे ॥ ७ ॥
पादनिचृद् गायत्री
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ॥ त्वां वर्धन्तु नो गिरः ॥ ८ ॥
त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ॥ त्वाम् । वर्धन्तु । नः । गिरः ॥ ८ ॥
पादनिचृद् गायत्री
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ॥ यस्मिन्विश्वानि पौंस्या ॥ ९ ॥
अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ॥ यस्मिन् । विश्वानि । पौंस्या ॥ ९ ॥
मानो मर्ता अभिद्रुहन्तनूनामिन्द्र गिर्वणः ॥ ईशानो यवया वधम् ॥ १०, १०, ५ ॥
मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ॥ ईशानः । यवय । वधम् ॥ १०,१०,५ ॥
मण्डलम्—१.अध्यायः–१.अनुवाकः–२. सूक्तम्—६.
द्वितीयानुवाके तृतीयं सूक्तम् । युञ्जन्ति दशर्चम् , वैश्वामित्रो मधुच्छन्दाः ऋषिःः १-२,४ मरुतः, ३-५ इन्द्रमरुतौ, ६-१० इन्द्रो देवता गायत्रीछन्दः (१२ विरा, ४.८ निचृत्)
युञ्जन्ति ब्रध्नमरुषञ्चरन्तम्परि तस्थुषः ॥ रोचन्ते रोचना दिवि ॥ १ ॥
युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि ॥ १ ॥
विराड् गायत्री
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ॥ शोणा धृष्णू नृवाहसा ॥ २ ॥
युञ्जन्ति । अस्य । काम्या । हरी इति । विऽपक्षसा । रथे ॥ शोणा । धृष्णू इति । नृऽवाहसा ॥ २ ॥
इन्द्रो मरुतश्च देवताः
केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे ॥ समुषद्भिरजायथाः ॥ ३ ॥
केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे ॥ सम् । उषत्ऽभिः । अजायथाः ॥ ३ ॥
निचृद् गायत्री, मरुतः देवताः
आदहस्वधामनु पुनर्गर्भत्वमेरिरे ॥ दधाना नाम यज्ञियम् ॥ ४ ॥
आत् । अह । स्वधाम् । अनु । पुनः । गर्भऽत्वम् । आऽर्इरिरे ॥ दधानाः । नाम । यज्ञियम् ॥ ४ ॥
इन्द्रो मरुतश्च देवताः
वीळुचिदारुजत्नुभिर्गुहाचिदिन्द्र वह्निभिः ॥ अविन्द उस्रिया अनु ॥ ५, ११ ॥
वीळुु । चित् । आरुजत्नुऽभिः । गुहा । चित् । इन्द्र । वह्निऽभिः ॥ अविन्दः । उस्रियाः । अनु ॥ ५,११ ॥
इन्द्रो देवता
देवयन्तो यथा मतिमच्छा विदद्वसुङ्गिरः ॥ महामनूषत श्रुतम् ॥ ६ ॥
देवऽयन्तः । यथा । मतिम् । अच्छ । विदत्ऽवसुम् । गिरः ॥ महाम् । अनूषत । श्रुतम् ॥ ६ ॥
इन्द्रो देवता
इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा ॥ मन्दू समानवर्चसा ॥ ७ ॥
इन्द्रेण । सम् । हि । दृक्षसे । सम्ऽजग्मानः । अबिभ्युषा ॥ मन्दू इति । समानऽवर्चसा ॥ ७ ॥
निचृद् गायत्री, इन्द्रो देवता
अनवद्यैरभिद्युभिर्मखस्सहस्वदर्चति ॥ गणैरिन्द्रस्य काम्यैः ॥ ८ ॥
अनवद्यैः । अभिद्युऽभिः । मखः । सहस्वत् । अर्चति ॥ गणैः । इन्द्रस्य । काम्यैः ॥ ८ ॥
इन्द्रो देवता
अतः परिज्मन्नागहि दिवो वा रोचनादधि ॥ समस्मिन्नृञ्जते गिरः ॥ ९ ॥
अतः । परिऽज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि ॥ सम् । अस्मिन् । ऋञ्जते । गिरः ॥ ९ ॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ॥ इन्द्रं महो वा रजसः ॥ १०, १२, ६ ॥
इतः । वा । सातिम् । ईमहे । दिवः । वा । पार्थिवात् । अधि ॥ इन्द्रम् । महः । वा । रजसः ॥ १०, १२, ६ ॥
मण्डलम् —१.अध्यायः–१. अनुवाकः-२. सूक्तम्—७.
द्वितीयानुवाके चतुर्थम् ‘इन्द्रं’ दशर्चम्, वैश्वामित्रो मधुच्छन्दाः ऋषिः, गायत्री (२ निचृत्, ८, १० पिपीलिकामध्या निचृत्,९ पादनिचृत्) इन्द्रो देवता
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ॥ इन्द्रं वाणीरनूषत ॥ १ ॥
इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः ॥ इन्द्रम् । वाणीः । अनूषत ॥ १ ॥
निचृद् गायत्री
इन्द्र इद्घर्योः सचा सम्मिश्ल आवचो युजा ॥ इन्द्रो वज्री हिरण्ययः ॥ २ ॥
इन्द्रः । इत् । हर्योः । सचा । सम्ऽमिश्लः । आ । वचःऽयुजा ॥ इन्द्रः । वज्री । हिरण्ययः ॥ २ ॥
इन्द्रो दीर्घाय चक्षस आसूर्यं रोहयद्दिवि ॥ वि गोभिरद्रिमैरयत् ॥ ३ ॥
इन्द्रः । दीर्घाय । चक्षसे । आ । सूर्यम् । रोहयत् । दिवि ॥ वि । गोभिः । अद्रिम् । ऐरयत् ॥ ३ ॥
निचृद् गायत्री
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ॥ उग्र उग्राभिरूतिभिः ॥ ४ ॥
इन्द्र । वाजेषु । नः । अव । सहस्रऽप्रधनेषु । च ॥ उग्रः । उग्राभिः । ऊतिऽभिः ॥ ४ ॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥ युजं वृत्रेषु वज्रिणम् ॥ ५, १३ ॥
इन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ॥ युजम् । वृत्रेषु । वज्रिणम् ॥ ५, १३ ॥
स नो वृषन्नमुञ्चरुं सत्रादावन्नपावृधि ॥ अस्मभ्यमप्रतिष्कुतः ॥ ६ ॥
सः । नः । वृषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुतः ॥ ६ ॥
तुञ्जे तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ॥ न विन्धे अस्य सुष्टुतिम् ॥ ७ ॥
तुञ्जेऽतुञ्जे । ये । उत्ऽतरे । स्तोमाः । इन्द्रस्य । वज्रिणः ॥ न । विन्धे । अस्य । सुऽस्तुतिम् ॥ ७ ॥
पिपीलिका मध्या निचृद् गायत्री
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ॥ ईशानो अप्रतिष्कुतः ॥ ८ ॥
वृषा । यूथा इव । वंसगः । कृष्टीः । इयर्ति । ओजसा ॥ ईशानः । अप्रतिऽस्कुतः ॥ ८ ॥
पादनिचृद् गायत्री
य एकश्चर्षणीनां वसूनामिरज्यति ॥ इन्द्रः पञ्च क्षितीनाम् ॥ ९ ॥
यः । एकः । चर्षणीनाम् । वसूनाम् । इरज्यति ॥ इन्द्रः । पञ्च । क्षितीनाम् ॥ ९ ॥
केवलशब्दवाच्य इन्द्रः पिपीलिकामध्या निचृद् गायत्री
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ॥ अस्माकमस्तु केवलः ॥ १०, १४, ७, २ ॥
इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः ॥ अस्माकम् । अस्तु । केवलः ॥ १०, १४, ७, २ ॥
मण्डलम्—१.अध्यायः–१ .अनुवाकः–३. सूक्तम्– ८.
‘एन्द्रम्’ दशर्चम्, वैश्वामित्रो मधुच्छन्दाः ऋषिः, गायत्री च्छन्दः (१,५,८ निचृत्, २ प्रतिष्ठा, १० वर्धमाना) इन्द्रो देवता
निचृद् गायत्री
एन्द्र सानसिं रयिं सजत्वानं सदा सहम् ॥ वर्षिष्ठमूतये भर ॥ १ ॥
आ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् । सदाऽसहम् ॥ वर्षिष्ठम् । ऊतये । भर ॥ १ ॥
विराड् गायत्री
नियेन मुष्टिहत्यया नि वृत्रा रुणधामहै ॥ त्वोतासो न्यर्वता ॥ २ ॥
नि । येन । मुष्टिऽहत्यया । नि । वृत्रा । रुणधामहै ॥ त्वाऽऊतासः । नि । अर्वता ॥ २ ॥
इन्द्र त्वोतास आ वयं वज्रङ्घना ददीमहि ॥ जयेम संयुधि स्पृधः ॥ ३ ॥
इन्द्र । त्वाऽऊतासः । आ । वयम् । वज्रम् । घना । ददीमहि ॥ जयेम । सम् । युधि । स्पृधः ॥ ३ ॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ॥ सासह्याम पृतन्यतः ॥ ४ ॥
वयम् । शूरेभिः । अस्तृऽभिः । इन्द्र । त्वया । युजा । वयम् ॥ ससह्याम । पृतन्यतः ॥ ४ ॥
महा इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ॥ द्यौर्न प्रथिना शवः ॥ ५, १५ ॥
महान् । इन्द्रः । पर । च । नु । महिऽत्वम् । अस्तु । वज्रिणे ॥ द्यौः । न । प्रथिना । शवः ॥ ५, १५ ॥
(७६) समोहे वाय आशत नरस्तोकस्य सनितौ ॥ विप्रासो वा धियायवः ॥ ६ ॥
यः कुक्षिस्सोमपातमस्समुद्र इव पिन्वते ॥ उर्वीरापो न काकुदः ॥ ७ ॥
यः । कुक्षिः । सोमऽपातमः । समुद्रःऽइव । पिन्वते ॥ उर्वीः । आपः । न । काकुदः ॥ ७ ॥
निचृद् गायत्री
एवा ह्यस्य सूनृता विरप्शी गोमती मही ॥ पक्वा शाखा न दाशुषे ॥ ८ ॥
एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही ॥ पक्वा । शाखा । न । दाशुषे ॥ ८ ॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ॥ सद्यश्चित् सन्ति दाशुषे ॥ ९ ॥
एव । हि । ते । विऽभूतयः । ऊतयः । इन्द्र । मावते ॥ सद्यः । चित् । सन्ति । दाशुषे ॥ ९ ॥
एवा ह्यस्य काम्यास्तोम उक्थं च शंस्या ॥ इन्द्राय सोमपीतये ॥ १०, १६, ८ ॥
एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥ १०, १६, ८ ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम्—९.
इन्द्रेहि दशर्चम् , ऋषिः - मधुच्छन्दाः, गायत्री छन्दः, इन्द्रो देवता
निचृद् गायत्री
इन्द्रेहि मत्स्यन्धसो विश्वेभिस्सोमपर्वभिः ॥ महा अभिष्टिरोजसा ॥ १ ॥
इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ॥ महान् । अभिष्टिः । ओजसा ॥ १ ॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ॥ चक्रिं विश्वानि चक्रये ॥ २ ॥
आ । र्इम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥ २ ॥
निचृद् गायत्री
मत्स्वा सुशिप्र मन्दिभिस्स्तोमेभिर्विश्वचर्षणे ॥ सचैषु सवनेष्वा ॥ ३ ॥
मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ॥ सचा । एषु । सवनेषु । आ ॥ ३ ॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिम् ॥ ४ ॥
असृग्रम् । इन्द्र । ते । गिरेः । प्रति । त्वाम् । उत् । अहासत ॥ अजोषाः । वृषभम् । पतिम् ॥ ४ ॥
सञ्चोेदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ॥ असदित्ते विभु प्रभु॥ ५, १७ ॥
सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥ ५, १७ ॥
पिपीलिका मध्या निचृद् गायत्री
अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ॥ तुविद्युम्न यशस्वतः ॥ ६ ॥
अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः । तुविऽद्युम्न । यशस्वतः ॥ ६ ॥
निचृद् गायत्री
सङ्गोेमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ॥ विश्वायुर्धेह्यक्षितम् ॥ ७ ॥
सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ॥ विश्वऽआयुः । धेहि । अक्षितम् ॥ ७ ॥
अस्मे धेहि श्रवो बृहद् द्युुम्नं सहस्रसातमम् ॥ इन्द्र ता रथिनीरिषः ॥ ८ ॥
अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ॥ इन्द्र । ताः । रथिनीः । इषः ॥ ८ ॥
वसोरिन्द्रं वसुपतिङ्गीर्भिर्गृणन्त ऋग्मियम् ॥ होम गन्तारमूतये ॥ ९ ॥
वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ॥ होम । गन्तारम् । ऊतये ॥ ९ ॥
निचृद् गायत्री
सुतेसुते न्योकसे बृहद् बृहत एदरिः । इन्द्राय शूषमर्चति ॥ १०, १८, ९ ॥
सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ॥ इन्द्राय । शूषम् । अर्चति ॥ १०, १८, ९॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम् – १०
तृतीयानुवाके तृतीयं सूक्तम् ऐन्द्रसूक्तम् गायन्ति द्वादश मधुच्छन्दाः अनुष्टुप्, इन्द्रो देवता
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ॥ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ १ ॥
गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः ॥ ब्रह्माणः । त्वा । शतक्रतो इति शतऽक्रतो । उत् । वंशम्ऽइव । येमिरे ॥ १ ॥
यत्सानोस्सानुमारुहद् भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थञ्चेतति यूथेन वृष्णिरेजति ॥ २ ॥
यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कर्त्वम् ॥ तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥ २ ॥
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथान इन्द्र सोमपा गिरामुपश्रुतिञ्चर ॥ ३ ॥
युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्यऽप्रा ॥ अथ । नः । इन्द्र । सोमऽपाः । गिराम् । उपऽश्रुतिम् । चर ॥ ३ ॥
एहि स्तोमामभि स्वराभि गृणीह्यारुव । ब्रह्म च नो वसो सचेन्द्र यज्ञञ्च वर्धय ॥ ४ ॥
आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव ॥ ब्रह्म । च । नः । वसा इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥ ४ ॥
उक्थमिन्द्राय शंस्यं वर्धनम्पुरु निष्षिधे ॥ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥ ५ ॥
उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरु निःऽसिधे ॥ शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥ ५ ॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये । स शक्र उत नश्शकदिन्द्रो वसु दयमानः ॥ ६, १९ ॥
तम् । इत् । सखिऽत्वे । र्इमहे । तम् । राये । तम् । सुऽवीर्ये ॥ सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥ ६, १९ ॥
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामपव्रजं वृधि कृणुष्व राधो अद्रिवः ॥ ७ ॥
सुऽविवृतम् । सुनिःऽअजम् । इन्द्र । त्वाऽदातम् । इत् । यशः ॥ गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिऽवः ॥ ७ ॥
नहि त्वा रोदसी उभे ऋधायमाणमिन्वतः ॥ जेषस्स्वर्वतीरपस्सङ्गा अस्मभ्यन्धूनुहि ॥ ८ ॥
नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः ॥ जेषः । स्वःऽवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥ ८ ॥
आश्रुत्कर्ण श्रुधी हवन्नूचिद्दधिष्व मे गिरः । इन्द्र स्तोममिमम्मम कृष्वायुजश्चिदन्तरम् ॥ ९ ॥
आश्रुत्ऽकर्ण । श्रुधि । हवम् । नु । चित् । दधिष्व । मे । गिरः ॥ इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥ ९ ॥
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ॥ वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ १० ॥
विद्म । हि । त्वा । वृषन्ऽतमम् । वाजेषु । हवनऽश्रुतम् ॥ वृषन्ऽतमस्य । हूमहे । ऊतिम् । सहस्रसातमाम् ॥ १० ॥
आतून इन्द्र कौशिक मन्दसानः सुतम्पिब ॥ नव्यमायुः प्रसूतिर कृधी सहस्रसामृषिम् ॥ ११ ॥
आ । तु । नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब ॥ नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥ ११ ॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ॥ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ १२, २०, १० ॥
परि । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः ॥ वृद्धऽआयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः ॥ १२, २०, १० ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम् – ११
इन्द्रम् अष्टौ, मधुच्छन्दाः ऋषिः, अनुष्टुप्च्छन्दः, इन्द्रो देवता
निचृद् अनुष्टुप्
इन्द्रं विश्वा अवीवृधन्त्समुद्र व्यचसङ्गिरः ॥ रथीतमं रथीनां वाजानां सत्पतिम्पतिम् ॥ १ ॥
इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रऽव्यचसम् । गिरः ॥ रथिऽतम् । रथिनाम् । वाजानाम् । सत्ऽपतिम् । पतिम् ॥ १ ॥
निचृद् अनुष्टुप्
सख्येत इन्द्र वाजिनो मा भेम शवसस्पते ॥ त्वामभि प्रणोनुमो जेतारमपराजितम् ॥ २ ॥
सख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते ॥ त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराऽजितम् ॥ २ ॥
निचृद् अनुष्टुप्
पूर्वीरिन्द्रस्य रातयो न विदस्यन्त्यूतयः ॥ यदी वाजस्य गोमतस्स्तोतृभ्यो मंहते मघम् ॥ ३ ॥
पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः ॥ यदि । वाजस्य । गोऽमतः । स्तोतृऽभ्यः । मंहते । मघम् ॥ ३ ॥
पुराम्भिन्दुर्युवाकविरमितौजा अजायत ॥ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ ४ ॥
पुराम् । भिन्दुः । युवा । कविः । अमितऽओजाः । अजायत ॥ इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुऽस्तुतः ॥ ४ ॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ॥ त्वान्देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ ५ ॥
त्वम् । वलस्य । गोऽमतः । अप । अवः । अद्रिऽवः । बिलम् ॥ त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः ॥ ५ ॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ॥ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥ ६ ॥
तव । अहम् । शूर । रातिऽभिः । प्रति । आयम् । सिन्धुम् । आऽवदन् ॥ उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥ ६ ॥
मायाभिरिन्द्र मायिनन्त्वं शुष्णमवातिरः ॥ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥ ७ ॥
मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः ॥ विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥ ७ ॥
इन्द्रमीशानमोजसाऽभि स्तोमा अनूषत ॥ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ ८,२१,११,३॥
इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत ॥ सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥ ८, २१, ११, ३ ॥
मण्डलम्—१.अध्यायः–१.अनुवाकः–४. सूक्तम्–१२.
मेधातिथिः काण्वः ऋषिः, गायत्री च्छन्दः, अग्निः देवता
अग्निर्देवदूतः
अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम् ॥ अस्य यज्ञस्य सुक्रतुम्
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ॥ अस्य । यज्ञस्य । सुऽक्रतुम् ॥ १ ॥
अग्निमग्निं हवीमभिस्सदा हवन्त विश्पतिम् ॥ हव्यवाहम्पुरुप्रियम् ॥ २ ॥
अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् । हव्यऽवाहम् । पुरुऽप्रियम् ॥ २ ॥
निचृद् गायत्री
अग्ने देवा इहावह जज्ञानो वृक्तबर्हिषे ॥ असि होता न ईड्यः ॥ ३ ॥
अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तऽबर्हिषे ॥ असि । होता । नः । ईड्यः ॥ ३ ॥
पिपीलिकामध्या निचृद् गायत्री
ता उशतो विबोधय यदग्ने यासि दूत्यम् ॥ देवैरासत्सि बर्हिषि ॥ ४ ॥
तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् । देवैः । आ । सत्सि । बर्हिषि ॥ ४ ॥
निचृद्गायत्री
घृताहवन दीदिवः प्रतिष्म रिषतो दह ॥ अग्ने त्वं रक्षस्विनः ॥ ५ ॥
घृतऽआहवन । दीदिऽवः । प्रति । स्म । रिषतः । दह ॥ अग्ने । त्वम् । रक्षस्विनः ॥ ५ ॥
विराड् गायत्री
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा ॥ हव्यवाड् जुह्वास्यः ॥ ६, २२ ॥
अग्निना । अग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युवा ॥ हव्यऽवा । जुहुऽआस्यः ॥ ६, २२ ॥
कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे ॥ देवममीवचातनम् ॥ ७ ॥
कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे ॥ देवम् । अमीवऽचातनम् ॥ ७ ॥
यस्त्वामग्ने हविष्पतिर्दूतन्देव सपर्यति ॥ तस्य स्म प्राविता भव ॥ ८ ॥
यः । त्वाम् । अग्नेे । हविःऽपतिः । दूतम् । देव । सपर्यति ॥ तस्य । स्म । प्रऽअविता । भव ॥ ८ ॥
यो अग्निन्देववीतये हविष्मा आविवासति ॥ तस्मै पावक मृय ॥ ९ ॥
यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति ॥ तस्मै । पावक । मृय ॥ ९ ॥
स नः पावक दीदिवोऽग्ने देवा इहावह ॥ उप यज्ञं हविश्च नः ॥ १० ॥
सः । नः । पावक । दीदिऽवः । अग्ने । देवान् । इह । आ । वह ॥ उप । यज्ञम् । हविः । च । नः ॥ १० ॥
स नस्स्तवान आभर गायत्रेण नवीयसा ॥ रयिं वीरवतीमिषम् ॥ ११ ॥
सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा ॥ रयिम् । वीरऽवतीम् । इषम् ॥ ११ ॥
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ॥ इमं स्तोमञ्जुुषस्व नः ॥ १२, २३, १२ ॥
अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूतिऽभिः ॥ इमम् । स्तोमम् । जुषस्व । नः ॥ १२, २३, १२ ॥
मण्डलम्—१. अध्यायः–१- अनुवाकः–४.सूक्तम्—१३
(सुसमिद्धो द्वादशर्चम्, मेधातिथः काण्वः, गायत्री, आप्रीदेवताः) (इध्मः- सुसमिद्धः अग्निर्देवता)
सुसमिद्धो न आवह देवा अग्ने हविष्मते ॥ होतः पावक यक्षि च ॥ १ ॥
सुऽसमिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते ॥ होतरिति । पावक । यक्षि । च ॥ १ ॥
तनूनपात् अग्निर्देवता
मधुमन्तन्तनूनपाद्यज्ञन्देवेषु नः कवे ॥ अद्या कृणुहि वीतये ॥ २ ॥
मधुऽमन्तम् । तनूऽनपात् । यज्ञम् । देवेषु । नः । कवे ॥ अद्य । कृणुहि । वीतये ॥ २ ॥
नराशंसः अग्निर्देवता
नराशंसमिह प्रियमस्मिन् यज्ञ उपह्वये ॥ मधुजिह्वं हविष्कृतम् ॥ ३ ॥
नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये ॥ मधुऽजिह्वम् । हविःऽकृतम् ॥ ३ ॥
इः-ईतिः अग्निर्देवता
अग्ने सुखतमे रथे देवा ईति आवह ॥ असि होता मनुर्हितः ॥ ४ ॥
अग्ने । सुखऽतमे । रथे । देवान् । र्इतिः । आ । वह ॥ असि । होता । मनुःऽहितः ॥ ४ ॥
बर्हिर्देवता
स्तृणीत बर्हिरानुषग्घृतपृष्ठम्मनीषिणः ॥ यत्रामृतस्य चक्षणम् ॥ ५ ॥
स्तृणीत । बर्हिः । आनुषक् । घृतऽपृष्ठम् । मनीषिणः ॥ यत्र । अमृतस्य । चक्षणम् ॥ ५ ॥
विश्रयन्तामृतावृधो द्वारो देवीरसश्चतः ॥ अद्या नूनञ्च यष्टवे ॥ ६, २४ ॥
वि । श्रयन्ताम् । ऋतऽवृधः । द्वारः । देवीः । असश्चतः ॥ अद्य । नूनम् । च । यष्टवे ॥ ६, २४ ॥
पिपीलिका मध्या निचृद् गायत्री - नक्ता, उषाश्च देवते
नक्तोषासा सुपेशसाऽस्मिन् यज्ञ उपह्वये ॥ इदन्नो बर्हिरासदे ॥ ७ ॥
नक्तोषसा । सुऽपेशसा । अस्मिन् । यज्ञे । उप । ह्वये ॥ इदम् । नः । बर्हिः । आऽसदे ॥ ७ ॥
पिपीलिका मध्या निचृद् गायत्री - दैव्यौ होतारौ गार्हपत्याहवनीयौ देवते
ता सुजिह्वा उपह्वये होतारा दैव्या कवी ॥ यज्ञन्नो यक्षतामिमम् ॥ ८ ॥
ता । सुऽजिह्वौ । उप । ह्वये । होतारा । दैव्या । कवी इति ॥ यज्ञम् । नः । यक्षताम् । इमम् ॥ ८ ॥
निचृद् गायत्री - इा (श्रीः) महीः (भूः भारती च सरस्वती च देवताः
इा सरस्वती मही तिस्रो देवीर्मयोभुवः ॥ बर्हिस्सीदन्त्वस्रिधः ॥ ९ ॥
इा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ॥ बर्हिः । सीदन्तु । अस्रिधः ॥ ९ ॥
त्वष्टा देवता
इह त्वष्टारमग्रियं विश्वरूपमुपह्वये ॥ अस्माकमस्तु केवलः ॥ १० ॥
इह । त्वष्टारम् । अग्रियम् । विश्वऽरूपम् । उप । ह्वये ॥ अस्माकम् । अस्तु । केवलः ॥ १० ॥
पिपीलिका मध्या निचृद् गायत्री - वनस्पतिर्देवता
अवसृजा वनस्पते देव देवेभ्यो हविः ॥ प्रदातुरस्तु चेतनम् ॥ ११ ॥
अव । सृज । वनस्पते । देव । देवेभ्यः । हविः ॥ प्र । दातुः । अस्तु । चेतनम् ॥ ११ ॥
पिपीलिका मध्या निचृद् गायत्री - स्वाहादेवी देवता
स्वाहा यज्ञङ्कृणोतनेन्द्राय यज्वनो गृहे ॥ तत्र देवा उपह्वये ॥ १२, १५, १३ ॥
स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे ॥ तत्र । देवान् । उप । ह्वये ॥ १२, २५, १३ ॥
मण्डलम् –१.अध्यायः–१. अनुवाकः–४.सूक्तम्– १४.
ऐभिरग्ने द्वादश, मेधातिथिः काण्वः ऋषिः, गायत्री विश्वेदेवाः देवताः
ऐभिरग्ने दुवो गिरो विश्वेभिस्सोमपीतये ॥ देवेभिर्याहि यक्षि च ॥ १ ॥
आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः । सोमऽपीतये ॥ देवेभिः । याहि । यक्षि । च ॥ १ ॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ॥ देवेभिरग्न आगहि ॥ २ ॥
आ । त्वा । कण्वाः । अहूषत । गृणन्ति । विप्र । ते । धियः ॥ देवेभिः । अग्ने । आ । गहि ॥ २ ॥
इन्द्रवायू बृहस्पतिम्मित्राग्निम्पूषणम्भगम् ॥ आदित्यान्मारुतङ्गणम् ॥ ३ ॥
इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भगम् ॥ आदित्यान् । मारुतम् । गणम् ॥ ३ ॥
प्रवो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ॥ द्रप्सा मध्वश्चमूषदः ॥ ४ ॥
प्र । वः । भ्रियन्ते । इन्दवः । मत्सराः । मादयिष्णवः ॥ द्रप्साः । मध्वः । चमूऽसदः ॥ ४ ॥
हविष्मन्तो अरङ्कृतः ॥ ५ ॥
ईते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः ॥ हविष्मन्तः । अरम्ऽकृतः । ५ ॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ॥ आ देवान् सोमपीतये ॥ ६, २६ ॥
घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः ॥ आ । देवान् । सोमऽपीतये ॥ ६, २६ ॥
तान्यजत्रा ऋतावृधोऽग्ने पत्नीवतस्कृधि ॥ मध्वस्सुजिह्व पायय ॥ ७ ॥
तान् । यजत्रान् । ऋतऽवृधः । अग्ने । पत्नीऽवतः । कृधि ॥ मध्वः । सुऽजिह्व । पायय ॥ ७ ॥
निचृद् गायत्री
ये यजत्रा य ईड्यास्तेते पिबन्तु जिह्वया ॥ मधोरग्ने वषकृति ॥ ८ ॥
ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया ॥ मधोः । अग्ने । वषऽकृति ॥ ८ ॥
आकीं सूर्यस्य रोचनाद्विश्वान् देवा उषर्बुधः ॥ विप्रो होतेह वक्षति ॥ ९ ॥
आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःऽबुधः ॥ विप्रः । होता । इह । वक्षति ॥ ९ ॥
विश्वेभिस्सोम्यम्मध्वग्न इन्द्रेण वायुना ॥ पिबा मित्रस्य धामभिः ॥ १० ॥
विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना ॥ पिब । मित्रस्य । धामऽभिः ॥ १० ॥
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ॥ सेम नो अध्वरं यज ॥ ११ ॥
त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि ॥ सः । इमम् । नः । अध्वरम् । यज ॥ ११ ॥
निचृद् गायत्री
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ॥ ताभिर्देवा इहावह ॥ १२, २७, १४ ॥
युक्ष्व । हि । अरुषीः । रथे । हरितः । देव । रोहितः ॥ ताभिः । देवान् । इह । आ । वह ॥ १२ ॥
मण्डलम् -१अध्यायः–१.अनुवाकः–४. सूक्तम्–१५
(इन्द्रसोमं द्वादशर्चम्, मेधातिथिः काण्वः, गायत्री) (पिपीलिकामध्या निचृद् गायत्री) ऋतवः(कालाभिमानिदेवताः, इन्द्रश्च देवताः
इन्द्र सोमम्पिब ऋतुना त्वा विशन्त्विन्दवः ॥ मत्सरासस्तदोकसः ॥ १ ॥
इन्द्र । सोमम् । पिब । ऋतुना । आ । त्वा । विशन्तु । इन्दवः ॥ मत्सरासः । तत्ऽओकसः ॥ १ ॥
(भुरिक् गायत्री) ऋतवः, मरुतश्च देवताः
मरुतः पिबत ऋतुना पोत्राद्यज्ञम्पुनीतन ॥ यूयं हिष्ठा सुदानवः ॥ २ ॥
मरुतः । पिबत । ऋतुना । पोत्रात् । यज्ञम् । पुनीतन ॥ यूयम् । हि । स्थ । सुऽदानवः ॥ २ ॥
ऋतवः, नेष्टा च (विष्णुः, इन्द्रः, अग्निः, त्वष्टा च)देवताः
अभि यज्ञङ्गृृणीहि नोऽग्नावो नेष्टः पिब ऋतुना ॥ त्वं हि रत्नधा असि ॥ ३ ॥
अभि । यज्ञम् । गृणीहि । नः । ग्नावः । नेष्टरिति । पिब । ऋतुना ॥ त्वम् । हि । रत्नऽधाः । असि ॥
(भुरिग् गायत्री) ऋतवः, अग्निश्च देवताः
अग्ने देवा इहावह सादया योनिषु त्रिषु ॥ परि भूष पिब ऋतुना ॥ ४ ॥
अग्ने । देवान् । इह । आ । वह । सादय । योनिषु । त्रिषु ॥ परि । भूष । पिब । ऋतुना ॥ ४ ॥
ऋतवः, इन्द्रश्च देवताः
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूरनु ॥ तवेद्धि सख्यमस्तृतम् ॥ ५ ॥
ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इत् । हि । सख्यम् । अस्तृतम् ॥ ५ ॥
ऋतवः, मित्रावरुणौ च देवताः
युवन्दक्षन्धृतव्रतमित्रावरुणदूभम् ॥ ऋतुना यज्ञमाशाथे ॥ ६, २८ ॥
युवम् । दक्षम् । धृतऽव्रता । मित्रावरुणा । दुःऽदभम् ॥ ऋतुना । यज्ञम् । अशाथे इति ॥ ६, २८ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥ यज्ञेषु देवमीते ॥ ७ ॥
द्रविणःऽदाः । द्रविणसः । ग्रावऽहस्तासः । अध्वरे ॥ यज्ञेषु । देवम् । र्इते ॥ ७ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ॥ देवेषु ता वनामहे ॥ ८ ॥
द्रविणःऽदाः । ददातु । नः । वसूनि । यानि । शृण्विरे ॥ देवेषु । ता । वनामहे ॥ ८ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ॥ नेष्ट्रादृतुभिरिष्यत ॥ ९ ॥
द्रविणःऽदाः । पिपीषति । जुहोत । प्र । च । तिष्ठत ॥ नेष्ट्रात् । ऋतुऽभिः । इष्यत ॥ ९ ॥
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ॥ अध स्मानो ददिर्भव ॥ १० ॥
यत् । त्वा । तुरीयम् । ऋतुऽभिः । द्रविणःऽदः । यजामहे ॥ अध । स्म । नः । ददिः । भव ॥ १० ॥
(पिपीलिकामध्या निचृद् गायत्री) - ऋतवः, अश्विनौ च देवते
अश्विना पिबतम्मधु दीद्यग्नी शुचिव्रता ॥ ऋतुना यज्ञवाहसा ॥ ११ ॥
अश्विना । पिबतम् । मधु । दीद्यग्नी इति दीदिऽअग्नी । शुचिऽव्रता ॥ ऋतुना । यज्ञऽवाहसा ॥ ११ ॥
(पिपीलिकामध्या निचृद् गायत्री) - ऋतवः, विष्णुः अग्निश्च देवताः
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ॥ देवान्देवय ते यज ॥ १२, २९, १५ ॥
गार्हऽपत्येन । सन्त्य । ऋतुना । यज्ञऽनीः । असि ॥ देवान् । देवऽयते । यज ॥ १२, २९, १५ ॥
मण्डलम्—१.अध्यायः–१. अनुवाकः–४. सूक्तम्– १६.
आत्वा नवर्चं, मेधातिथिः काण्वः गायत्री(३ पिपीलिका मध्या निचृत्,९ विरा) इन्द्रो देवता
आ त्वा वहन्तु हरयो वृषणं सोमपीतये ॥ इन्द्र त्वा सूरऽचक्षसः ॥ १ ॥
आ । त्वा । वहन्तु । हरयः । वृषणम् । सोमऽपीतये ॥ इन्द्र । त्वा । सूरऽचक्षसः ॥ १ ॥
इमा धाना घृतस्नुवो हरी इहोपवक्षतः ॥ इन्द्रं सुखतमे रथे ॥ २ ॥
इमाः । धानाः । घृतस्नुवः । हरी इति । इह । उप । वक्षतः ॥ इन्द्रम् । सुखऽतमे । रथे ॥ २ ॥
पिपीलिकामध्या निचृद् गायत्री
इन्द्रम् प्रातर्हवामह इन्द्रम् प्रयत्यध्वरे ॥ इन्द्रं सोमस्य पीतये ॥ ३ ॥
इन्द्रम् । प्रातः । हवामहे । इन्द्रम् । प्रऽयति । अध्वरे ॥ इन्द्रम् । सोमस्य । पीतये ॥ ३ ॥
(१६२) उप नस्सुतमागहि हरिभिरिन्द्र केशिभिः ॥ सुते हि त्वा हवामहे ॥ ४ ॥
उप । नः । सुतम् । आ । गहि । हरिऽभिः । इन्द्र । केशिऽभिः ॥ सुते । हि । त्वा । हवामहे ॥ ४ ॥
पिपीलिकामध्या निचृद् गायत्री
सेमन्नः स्तोममागह्युपेदं सवनं सुतम् ॥ गौरो न तृषितः पिब ॥ ५, ३० ॥
सः । इमम् । नः । स्तोमम् । आ । गहि । उप । इदम् । सवनम् । सुतम् ॥ गौरः । न । तृषितः । पिब ॥ ५, ३० ॥
इमे सोमास इन्दवस्सुतासो अधि बर्हिषि ॥ ता इन्द्र सहसे पिब ॥ ६ ॥
इमे । सोमासः । इन्दवः । सुतासः । अधि । बर्हिषि ॥ तान् । इन्द्र । सहसे । पिब ॥ ६ ॥
अयन्ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ॥ अथा सोमं सुतम् पिब ॥ ७ ॥
अयम् । ते । स्तोमः । अग्रियः । हृदिऽस्पृक् । अस्तु । शम्ऽतमः ॥ अथ । सोमम् । सुतम् । पिब ॥ ७ ॥
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ॥ वृत्रहा सोमपीतये ॥ ८ ॥
विश्वम् । इत् । सवनम् । सुतम् । इन्द्रः । मदाय । गच्छति ॥ वृत्रऽहा । सोमऽपीतये ॥ ८ ॥
विराड् गायत्री
सेमन्नः काममापृण गोभिरश्वैश्शतक्रतो ॥ स्तवाम त्वा स्वाध्यः ॥ ९, ३१, १६ ॥
कामम् । आ । पृण । गोभिः । अश्वैः । शतक्रतो इति शतऽक्रतो ॥ स्तवाम । त्वा । सुऽआध्यः ॥ ९, ३१, १६ ॥
मण्डलम्–१. अध्यायः-१.अनुवाकः–४– सूक्तम् – १७.
(इन्द्रावरुणयोर्नवर्चम् , मेधातिथिः काण्वः, छन्दः– गायत्री, २ यवमध्या विरा, ४ पादनिचृत्(ह्रसीयसी),६ निचृत्, ५ भुरिगार्ची, ८ पिपीलिकामध्या निचृत्, इन्द्रावरुणौ देवते)
(१६८) इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ॥ ता नो मृात र्इदृशे ॥ १ ॥
इन्द्रावरुणयोः । अहम् । सम्ऽराजोः । अवः । आ । वृणे ॥ ता । नः । मृातः । र्इदृशे ॥ १ ॥
यवमध्या विरा गायत्री
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ॥ धर्तारा चर्षणीनाम् ॥ २ ॥
गन्तारा । हि । स्थः । अवसे । हवम् । विप्रस्य । माऽवतः ॥ धर्तारा । चर्षणीनाम् ॥ २ ॥
अनुकामन्तर्पयेथामिन्द्रावरुण राय आ ॥ ता वान्नेदिष्ठमीमहे ॥ ३ ॥
अनुऽकामम् । तर्पयेथाम् । इन्द्रावरुणा । रायः । आ ॥ ता । वाम् । नेदिष्ठम् । र्इमहे ॥ ३ ॥
पादनिचृद् गायत्री
युवाकु हि शचीनां युवाकु सुमतीनाम् ॥ भूयाम वाजदाव्नाम् ॥ ४ ॥
युवाकु । हि । शचीनाम् । युवाकु । सुऽमतीनाम् ॥ भूयाम । वाजऽदाव्नाम् ॥ ४ ॥
भुरिगार्ची ह्रसीयसी - गायत्री
इन्द्रस्सहस्रदाव्नां वरुणश्शंस्यानाम् ॥ क्रतुर्भवत्युक्थ्यः ॥ ५, ३२ ॥
इन्द्रः । सहस्रऽदाव्नाम् । वरुणः । शंस्यानाम् ॥ क्रतुः । भवति । उक्थ्यः ॥ ५, ३२ ॥
निचृद् गायत्री
तयोरिदवसा वयं सनेम नि च धीमहि ॥ स्यादुत प्ररेचनम् ॥ ६ ॥
तयोः । इत् । अवसा । वयम् । सनेम । नि । च । धीमहि ॥ स्यात् । उत । प्रऽरेचनम् ॥ ६ ॥
इन्द्रावरुण वामहं हुवे चित्राय राधसे ॥ अस्मान्त्सु जिग्युषस्कृतम् ॥ ७ ॥
इन्द्रावरुणा ॥ वाम् । अहम् । हुवे । चित्राय । राधसे ॥ अस्मान् । सु । जिग्युषः । कृतम् ॥ ७ ॥
पिपीलिकामध्या निचृद् गायत्री
इन्द्रावरुण नूनुवां सिषासन्तीषु धीष्वा ॥ अस्मभ्यं शर्म यच्छतम् ॥ ८ ॥
इन्द्रावरुणा । नु । नु । वाम् । सिसासन्तीषु । धीषु । आ ॥ अस्मभ्यम् । शर्म । यच्छतम् ॥ ८ ॥
प्रवामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ॥ या मृधाथे सधस्तुतिम् ॥ ९, ३३, १७, ४ ॥
प्र । वाम् । अश्नोतु । सुऽस्तुतिः । इन्द्रावरुणा । याम् । हुवे ॥ याम् । ऋधाथे इति । सधऽस्तुतिम् ॥ ९, ३३, १७, ४ ॥
मण्डलम्–१.अध्यायः–१.अनुवाकः-५. सूक्तम् –१८.
सोमानं नवर्चम्, मेधातिथिः काण्वः ऋषिः, छन्दः– गायत्री,१ विरा,३-६-८ पिपीलिकामध्या निचृत्, ४ निचृत्,,५ पादनिचृत्, छन्दः । देवता–१-३ ब्रह्मणस्पतिः, ४ (सोमः) ब्रह्मणस्पतिरिन्द्रश्च, ५ बृहस्पतिः दक्षिणः, ६-८ सदसस्पतिः, ९ सदसस्पतिः नाराशंसो वा देवताः
विरा गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता
सोमानं स्वरणङ्कृणुहि ब्रह्मणस्पते ॥ कक्षीवन्तं य औशिजः ॥ १ ॥
सोमानम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते ॥ कक्षीवन्तम् । यः । औशिजः ॥ १ ॥
विरा गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ॥ सनस्सिषक्तु यस्तुरः ॥ २ ॥
यः । रेवान् । यः । अमीवऽहा । वसुऽवित् । पुष्टिऽवर्धनः ॥ सः । नः । सिषक्तु । यः । तुरः ॥ २ ॥
पिपीलिकामध्या निचृद् गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता
मानश्शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ॥ रक्षाणो ब्रह्मणस्पते ॥ ३ ॥
मा । नः । शंसः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ॥ रक्ष । नः । ब्रह्मणः । पते ॥ ३ ॥
निचृद् गायत्री - ब्रह्मणस्पतिः इन्द्रः सोमश्च देवताः
सघा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ॥ सोमो हिनोति मर्त्यम् ॥ ४ ॥
सः । घ । वीरः । न । रिष्यति । यम् । इन्द्रः । ब्रह्मणः । पतिः ॥ सोमः । हिनोति । मर्त्यम् ॥ ४ ॥
पादनिचृद् गायत्री - ब्रह्मणस्पतिः, सोमः, इन्द्रः, दक्षिणा च देवताः
त्वन्तम्ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ॥ दक्षिणा पात्वंहसः ॥ ५, ३४ ॥
त्वम् । तम् । ब्रह्मणः । पते । सोमः । इन्द्रः । च । मर्त्यम् ॥ दक्षिणा । पातु । अंहसः ॥ ५, ३४ ॥
पिपीलिकामध्या निचृद् गायत्री - सदसस्पतिः( विष्णुर्वायुः अग्निर्वा) देवता
सदसस्पतिमद्भुतम्प्रियमिन्द्रस्य काम्यम् ॥ सनिम्मेधामयासिषम् ॥ ६ ॥
सदसः । पतिम् । अद्भुतम् । प्रियम् । इन्द्रस्य । काम्यम् ॥ सनिम् । मेधाम् । अयासिषम् ॥ ६ ॥
यस्मादृतेन सिध्यति यज्ञो विपश्चितश्चन ॥ सधीनां योगमिन्वति ॥ ७ ॥
यस्मात् । ऋते । न । सिध्यति । यज्ञः । विपःऽचितः । चन ॥ सः । धीनाम् । योगम् । इन्वति ॥ ७ ॥
आदृध्नोति हविष्कृतिम्प्राञ्चङ्कृणोत्यध्वरम् ॥ होत्रा देवेषु गच्छति ॥ ८ ॥
आत् । ऋध्नोति । हविःऽकृतिम् । प्राञ्चम् । कृणोति । अध्वरम् ॥ होत्रा । देवेषु । गच्छति ॥ ८ ॥
सदसस्पतिः(वायुः), नराशंसो (विष्णुः,अग्निः - वा देवता
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ॥ दिवो न सद्ममखसम् ॥ ९, ३५, १९ ॥
नराशंसम् । सुऽधृष्टमम् । अपश्यम् । सप्रथःऽतमम् ॥ दिवः । न । सद्मऽमखसम् ॥ ९, ३५, १८ ॥
नराशंसो विष्णुः
मण्डलम्–१. अध्यायः–१.अनुवाकः – ५.सूक्तम्–१९.
(प्रतित्यं नवर्चंं, मेधातिथिः काण्वः ऋषिः, अग्नामरुतश्च देवते, छन्दः– गायत्री,(२ निचृत्, ९ पिपीलिकामध्या निचृत्,)
प्रतित्यञ्चारुमध्वरङ्गोेपीथाय प्रहूयसे ॥ मरुद्भिरग्न आगहि ॥ १ ॥
प्रति । त्यम् । चारुम् । अध्वरम् । गोऽपीथाय । प्र । हूयसे ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ १ ॥
निचृद् गायत्री
न हि देवो न मर्त्यो महस्तव क्रतुम्परः ॥ मरुद्भिरग्न आगहि ॥ २ ॥
नहि । देवः । न । मर्त्यः । महः । तव । क्रतुम् । परः । मरुत्ऽभिः । अग्ने । आ । गहि ॥ २ ॥
ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ॥ मरुद्भिरग्न आगहि ॥ ३॥
ये । महः । रजसः । विदुः । विश्वे । देवासः । अद्रुहः । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ३ ॥
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ॥ मरुद्भिरग्न आगहि ॥ ४ ॥
ये । उग्राः । अर्कम् । आनृचुः । अनाधृष्टासः । ओजसा ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ४ ॥
ये शुभ्रा घोरवर्पस सुक्षत्रासो रिशादसः ॥ मरुद्भिरग्न आगहि ॥ ५, ३६ ॥
ये । शुभ्राः । घोरऽवर्पसः । सुऽक्षत्रासः । रिशादसः ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ५, ३६ ॥
येनाकस्याधि रोचने दिवि देवास आसते ॥ मरुद्भिरग्न आगहि ॥ ६ ॥
ये । नाकस्य । अधि । रोचने । दिवि । देवासः । आसते । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ६ ॥
य ईङ्खयन्ति पर्वतान् तिरस्समुद्रमर्णवम् ॥ मरुद्भिरग्न आगहि ॥ ७ ॥
ये । ईङ्खयन्ति । पर्वतान् । तिरः । समुद्रम् । अर्णवम् ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ७ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
आये तन्वन्ति रश्मिभिस्तिरस्समुद्रमोजसा ॥ मरुद्भिरग्न आगहि ॥ ८ ॥
आ । ये । तन्वन्ति । रश्मिऽभिः । तिरः । समुद्रम् । ओजसा । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ८ ॥
पिपीलिकामध्या निचृद् गायत्री
अभि त्वा पूर्वपीतये सृजामि सोम्यम्मधु ॥ मरुद्भिरग्न आगहि ॥ ९, ३७, १, १९ ॥
अभि । त्वा । पूर्वऽपीतये । सृजामि । सोम्यम् ॥ मधु । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ९, ३७, १, १९ ॥