bhagavadgitabhashya | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भगवद्गीताभाष्यम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमोऽध्यायः

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

उपोद्घातः

देवं नारायणं नत्वा सर्वदोषविवर्जितम् ।

परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ॥

वेदव्यासावतारे बीजम्

नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार ।

महाभारतरचनावतरणिका

ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनाम् अवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहिताम् अचीक्ऌपत् ।।

महाभारतस्य सर्वशास्त्रोत्तमत्वे प्रमाणानि

तच्चोक्तम् -

'लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम् ।

वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम् ॥

अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम् ।

ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ॥

अन्यावताररूपैश्च वेदानुक्तार्थभूषितम् ।

केवलेनात्मबोधेन दृष्टं वेदार्थसंयुतम् ॥

वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम् ।

भारतं पञ्चरात्रं च मूलरामायणं तथा ॥

महाभारतं दशार्थकम्

'ब्रह्मापि तन्न जानाति ईषत् सर्वोपि जानते ।

बह्वर्थमृषयस्तत्तु भारतं प्रवदन्ति हि ॥ ''इत्युपनारदीये

'ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह ।

यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः ॥'' इति नारदीये ।

'भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम् ।

दशावरार्थं सर्वत्र केवलं विष्णुबोधकम् ॥

परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत् ॥'' इति स्कान्दे ।

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः ।

न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः ॥'(म.भा..१.१.२६८)'

'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति ।''( म.भा.आदि..२९३)

महाभारतार्थस्य त्रैविध्यम्

मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथापरे ।

तथोपरिचराद्यन्ये भारतं परिचक्षते ।(म.भा.आदि.१.६६)

महाभारतस्य निर्णेयता निर्णायकता च

भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।

देवैर्ब्रह्मादिभिः सर्वैः ऋषिभिश्च समन्वितैः ।

व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ॥(ब्रह्माण्डपुराणे)

महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ।

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । (म.भा.१.३००)'

यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥( म.भा.आदि ५.५०)

'विराटोद्योगसारवान्'' ( म भा.१.८९)

'इत्यादितद्वाक्यपर्यालोचनया, ऋषिसम्प्रदायात्, 'को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्'' ( वायुप्रोक्तवचनम्) इत्यादिपुराणग्रन्थान्तरगतवाक्यान्यथानुपपत्त्या, नारदाध्ययनादिलिङ्गैश्चावसीयते ।

(युक्त्या भारतस्य सर्वोत्तमत्वसमर्थनम् )

कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः ? प्रसिद्धश्च सोर्थः ।

कथं चान्यस्य न कर्तुं शक्यते?

ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः । न च कर्तुरेव । इतरत्रापि साम्यात् ।

तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध ।

गीता महाभारतादप्यधिका

तच्चोक्तम्–

भारतं सर्वशास्त्रेषु भारते गीतिका वरा ।

विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद् द्वयम् ॥ इति महाकौर्मे ।

गीतोक्तधर्मानुष्ठानं मुक्तिहेतुः

'स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने''(म.भा.१३.१६.१२.) । इत्यादि च ।

तत्र सेनयोर्मध्ये बान्धवादिमोहजालसंवृतं विषीदन्तम् अर्जुनं भगवानुवाच ।

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ।। १ ।।

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥२ ॥

( द्रोणाचार्यं प्रति दुर्योधनवचनम् )

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३ ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।

युयुधानो विराटश्च द्रुपदश्च महारथः॥४ ॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।

पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥५ ॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६ ॥

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।

नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते ।। ७ ।।

( दुर्योधनपक्षीया महारथाः )

भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ।। ८ ।।

अन्ये च बहवः शूरा मदर्थे त्यक्त ।। जीविताः ।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।। ९ ।।

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ।। १० ।।

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ।। ११ ।।

( भीष्मादिभिः शङ्खनादः )

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।। १२ ।।

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोभवत्॥१३ ॥

ततः श्वेतर्हयैर्युक्ते महति स्यन्दने स्थितौ ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ।। ॥१४ ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५ ॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ।। ॥१६ ॥

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७ ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८ ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९ ॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ।। २० ।।॥२० ॥

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत॥ २१ ॥

यावदेतान् निरीक्ष्येऽहं योद्धुकामानवस्थितान् ।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥२२ ॥

योत्स्यमानानवेक्ष्येऽहं य एतेऽत्र समागताः ।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ।।॥२३ ॥

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ।।॥२४ ॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥२५ ॥

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।

आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥२६ ॥

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥२७ ॥

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

( अर्जुनविषादः )

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयत्सुं समुपस्थितम्॥ २८ ॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९ ॥

गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३० ॥

निमित्तानि च पश्यामि विपरीतानि केशव ।

नच श्रेयोनुपश्यामि हत्वा स्वजनमाहवे॥३१ ॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥३२ ॥

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३ ॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४ ॥

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५ ॥

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६ ॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥३७ ॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८ ॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥३९ ॥

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।

धर्मे नष्टे कुलं कृत्स्नमधर्मोभिभवत्युत॥४० ॥

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥४१ ॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२ ॥

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३ ॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।

नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४ ॥

अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।

यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥४५ ॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥४६ ॥

सञ्जय उवाच

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।

विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७ ॥

॥ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥